११

अथ श्रियो मन्त्रविधिः समासतो

जगद्धिताय प्रतिवक्ष्यतेऽधुना।

सहाङ्गभेदैः सजपार्चनाहुत
क्रमैः समभ्युद्धरणाय दुर्गतेः ॥ ११.१ ॥

वियत्तुरीयस्तु विलोमतोऽनल

प्रदीपितो वामविलोचनाञ्चितः।

सचन्द्रखण्डः कथितो रमामनु
र्मनोरथावाप्तिमहासुरद्रुमः ॥ ११.२ ॥

ऋषिर्भृगुश्छन्दसि चोदिता निचृ

त्समीरिता श्रीरपि देवता पुनः।

दृगक्षिकर्णेनमनुस्वरानला
न्वितेन चास्थ्ना विहितं षडङ्गकम् ॥ ११.३ ॥

भूयाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभा

शुभ्राभ्राभेभयुग्मद्वयधृतकरकुम्भाद्भिरासिच्यमाना।

रत्नौघाबद्धमौलिर्विमलतरदुकूलार्तवालेपनाढ्या
पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रिये वः ॥ ११.४ ॥

संदीक्षितोऽथ गुरुणा मनुवर्यमेनं

सम्यग्जपेन्निशितधीर्दिननाथलक्षम्।

अभ्यर्चयन्नहरहः श्रियमादरेण
मन्त्री सुशुद्धचरितो रहितो वधूभिः ॥ ११.५ ॥

जपावसाने दिनकृत्सहस्र

संख्यैः सरोजैर्मधुरत्रयाक्तैः।

हुनेत्तिलैर्वा विधिनाथ बैल्वैः
समिद्वरैर्मन्त्रिवरस्त्रिभिर्वा ॥ ११.६ ॥

रुचिराष्टपत्रमथ वारिरुहं

गुणवृत्तराशिचतुरश्रयुतम्।

प्रविधाय पीठमपि तत्र यजे
न्नवशक्तिभिः सह रमां तु ततः ॥ ११.७ ॥

विभूतिरुन्नतिः कान्तिर्हृष्टिः कीर्त्तिश्च संनतिः।
पुष्टिराकृष्टिःऋद्धिश्चः रमाया नव शक्तयः ॥ ११.८ ॥

आवाह्य सम्यक्कलशे यथाव

त्समर्चनीया विधिना रमासौ।

जप्त्वा यथाशक्ति पुनर्गुरुस्तु
संसेचयेत्संयतमात्मशिष्यम् ॥ ११.९ ॥

अङ्गैः प्रथमावृतिरपि

मूर्तीभचतुष्कनिधियुगैरपरा।

शक्त्यष्टकेन चान्या
चरमा ककुबीश्वरैः समभ्यर्च्या ॥ ११.१० ॥

वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः।
दमकः शललश्चैव गुग्गुलुश्च कुरण्डकः ॥ ११.११ ॥

बलाकी विमला चैव कमला वनमालिका।
विभीषिका द्राविका च शांकरी वसुमालिका ॥ ११.१२ ॥

अयनैव च पूर्वसेवया

परितुष्टा कमला प्रसीदति।

धनधान्यसमृद्धिसंकुला
मचिरादेव च मन्त्रिणे श्रियम् ॥ ११.१३ ॥

अम्भस्युरोजद्वयसे हि तिष्ठं

स्त्रिलक्षमेनं प्रजपेच्च मन्त्री।

श्रियं विचिन्त्यार्कगतां यथाव
द्दरिद्रताया भवति प्रमुक्तः ॥ ११.१४ ॥

वसतावुपविश्य कैटभारेः

कमलावृक्षतलेऽथ वा त्रिलक्षम्।

जपतोऽपि भवेच्च काङ्क्षितार्था
दधिकं वत्सरतो वसुप्रपञ्चः ॥ ११.१५ ॥

जुहुयादशोकदहने

सघृतैरपि तण्डुलैः सकलवश्यतमम्।

खदिरानले त्रिमधुरै
रपि तैर्धनदं च राजकुलवश्यमपि ॥ ११.१६ ॥

समधुरनलिनानां लक्षहोमादलक्ष्मी

परिगतमपि जन्तुं प्राप्नुयाच्छ्रीः समग्रा।

घनविभवसमृद्ध्या नित्यमाह्लादयन्ती
त्यजति न करुणार्द्रा तस्य सा संततिं च ॥ ११.१७ ॥

बिल्वं श्रीसूक्तजापी निजभुवि मुखजो वर्धयित्वास्य पूर्वं

पत्रैस्त्रिस्वादुयुक्तैः कुसुमफलसमिद्भिस्ततस्कन्धभैदैः।

तन्मूलैर्मण्डलात्प्राक्सुनियतचरितोऽसौ हुतान्निर्मलात्मा
रूपं पश्येद्रमायाः कथमपि न पुनस्तत्कुले स्यादलक्ष्मीः ॥ ११.१८ ॥

हृदयकमलवर्णतः परस्ता

दमृतमनन्तयुगं ततश्च सिन्यै।

हुतवहदयितेत्यसौ रमायाः
प्रवरधनार्थिभिरर्थितो हि मन्त्रः ॥ ११.१९ ॥

दक्षोऽस्य स्यादृषिश्छन्दसि सुमतिभिरुक्तो विराड्देवता च

श्रीदेवीपद्मिनीभ्यां हृदयकशिरसी विष्णुपत्न्या शिखा च।

मेदोरेफाह्वदार्णैरपि च कमलरूपाक्षरैवर्मसास्त्रां
ताराद्याभिर्नमोन्ताभिरिति निगदितं जातियुक्ताभिरङ्गम् ॥ ११.२० ॥

पद्मस्था पद्मनेत्रा कमलयुगवराभीतियुग्दोःसरोजा

देहोत्थाभिः प्रभाभिस्त्रिभुवनमखिलं भासुरा भासयन्ती।

मुक्ताहाराभिरामोन्नतकुचकलशा रत्नमञ्जरीकांञ्ची
ग्रैवेंयोर्म्यङ्गदाढ्या धृतमणिमकुटा श्रेयसे श्रीर्भवेद्वः ॥ ११.२१ ॥

ध्यात्वैवं श्रियमपि पूर्वक्लृप्तपीठे

पद्मादौ प्रथममथार्चयेत्तदङ्गैः।

अष्टाभिर्दलमनुशक्तिभिस्तदन्ते
लोकेशैरिति विधिनार्चयेत्समृद्ध्यै ॥ ११.२२ ॥

दीक्षातो जपतु रमारमेशभक्तो

लक्षाणां दशकममुं मनुं नियत्या।

स श्रीमान्बहुधनधान्यसंकुलः स
न्मेधावी भवति च वत्सरेण मन्त्री ॥ ११.२३ ॥

इति मन्त्रजपादृतधीर्मधुर

त्रितयैरयुतं जुहुयात्कमलैः।

परिशुद्धमना नचिरात्स पुन
र्लभते निजवाञ्छितमर्थचयम् ॥ ११.२४ ॥

समुद्रगायामवतीर्य नद्यां

स्वकण्ठमात्रे पयसि स्थितः सन्।

त्रिलक्षजाप्याढ्यतमोऽब्दमात्रा
न्मन्त्री भवेन्नात्र विचारणीयम् ॥ ११.२५ ॥

नन्द्यावर्तैर्जुहुत भगभेऽभ्यर्च्य लक्ष्मीं सहस्रं

तावद्बैल्वैस्त्रिमधुरयुतैर्वा फलैः पौर्णमास्याम्।

पञ्चम्यां वा सितसरसिजैः शुक्रवारेऽच्छपुष्पै
रन्यैर्मासं प्रतिहुतविधिर्वत्सरैः स्याद्धनाढ्यः ॥ ११.२६ ॥

ताररमामायाश्रीः

कमले कमलालये प्रसीदयुगम्।

बीजानि तानि पुनरपि
समहालक्ष्मीहृदिन्दिरामन्त्रः ॥ ११.२७ ॥

त्रिभिस्तु वर्णैर्हृदयं शिरोभिः

स्यात्पञ्चभिश्चाथ शिखा त्रिवर्णा।

त्रिभिस्तथा वर्म चतुर्भिरस्त्रं
पृथक् त्रिबीजापुटितैस्तदङ्गम् ॥ ११.२८ ॥

हस्तोद्यद्वसुपात्रपङ्कजयुगादर्शा स्फुरन्नूपुर

ग्रैवेयाङ्गदहारकङ्कणमहामौलिज्वलत्कुण्डला।

पद्मस्था परिचारिकापरिवृता शुक्लाङ्गरागांशुका
देवी दिव्यगणानता भवदघप्रध्वंसिनी स्याद्रमा ॥ ११.२९ ॥

लक्षं जपेन्मनुमिमं मधुरत्रयाक्तै

र्बैल्वैः फलैः प्रतिहुनेदयुतं तदन्ते।

आराधयेदनुदिनं प्रतिवक्ष्यमाण
मार्गेण दुर्गतिभयाद्रहितो भवेत्सः ॥ ११.३० ॥

श्रीधरश्च हृषीकेशो वैकुण्ठो विश्वरूपकः।
वासुदेवादयश्चाङ्गावरणात्समनन्तरम् ॥ ११.३१ ॥

भारतीपार्वतीचान्द्रीशचीभिरपि संयुता।
दमकादिस्तृतीयानुरागाद्यैश्च चतुर्थ्यपि ॥ ११.३२ ॥

अनुरागो विसंवादो विजयो वल्लभो मदः।
हर्षो बलश्च तेजश्चेत्यष्टौ बाणा महाश्रियः ॥ ११.३३ ॥

अनन्तब्रह्मपर्यन्तैः पञ्चमीन्द्रादिभिर्मता।
चक्रपद्मान्तिकैः षष्ठीवज्राद्यैरावृतिः श्रियः ॥ ११.३४ ॥

संपूज्यैवं श्रियमनुदिनं यो जपेन्मन्त्रमेनं

प्रोक्तां संख्यां सहुतविधिमप्युच्छ्रितां प्राप्य लक्ष्मीम्।

द्वित्रादर्वाग्भवति पशुपुत्रादिभोगैः समृद्धो
वर्षाद्देहापदि च पदमभ्येति नित्यं स विष्णोः ॥ ११.३५ ॥

श्रीमन्त्रेष्विति गदितेषु भक्तियुक्तः

श्रीसूक्तान्यपि च जपेद्यजेद्धुनेच्च।

सूक्ते तु प्रथमतरे स्वयं मुनिः स्या
दन्येषां मुनय इमे भवन्ति भूयः ॥ ११.३६ ॥

आनन्दः कर्दमश्चैव चिक्लीतश्चेन्दिरासुतः।
ऋचामथो तदन्यासामृषयः समुदीरिताः ॥ ११.३७ ॥

आद्ये सूक्तत्रये च्छन्दोऽनुष्टुप्कांसे बृहत्यपि।
तदन्त्ययोस्त्रिष्टुबाख्यां परस्तादष्टके पुनः ॥ ११.३८ ॥

अनुष्टुबन्त्ये प्रस्तारपङ्क्तिश्छन्दांसि वै क्रमात्।
श्र्यग्नी स्यातां देवते च न्यासाङ्गविधिरुच्यते ॥ ११.३९ ॥

मूर्धाक्षिकर्णनासा

मुखगलदोर्हृदयनाभिगुह्येषु।

पायूरुजानुजङ्घा
चरणेषु न्यसतु सूक्तकैः क्रमशः ॥ ११.४० ॥

सहिरण्मयी च चन्द्रा

रजतहिरण्यस्रजे हिरण्याख्या।

अङ्गानि जातियुञ्ज्यथ
हिरण्यवर्णाह्वया तथास्त्रं स्यात् ॥ ११.४१ ॥

अरुणकमलसंस्था तद्रजःपुञ्जवर्णा

करकमलधृतेष्टाभीतियुग्माम्बुजा च।

मणिमकुटविचित्रालंकृताकल्पजातै
र्भवतु भुवनमाता संततं श्रीः श्रिये वः ॥ ११.४२ ॥

प्रारभ्याच्छां प्रतिपदमथ प्राप्तदीक्षो वियुक्त

स्तन्वङ्गीभिस्तनुविमलवासाः सुधौतद्विजाद्यः।

एकादश्यामपि परिसमाप्यार्कसाहस्रिकान्तं
जापं मन्त्री प्रयजतु रमां प्राक्तनप्रोक्तपीठे ॥ ११.४३ ॥

पद्मा सपद्मवर्णा

पद्मस्थार्द्रा च तर्पयन्त्यभिधा।

तृप्ता ज्वलन्त्यभिख्या
स्वर्णप्राकारसंज्ञका चेति ॥ ११.४४ ॥

मध्ये दिशाधिपाङ्गा

वृत्योरेतास्ततश्च वज्रादीन्।

प्रयजेच्चतुरावरणं
निगदितमिति सूक्तकल्पितविधानम् ॥ ११.४५ ॥

अन्नघृताभ्यां जुहुया

दर्चास्वष्टोत्तरं शतं मन्त्री।

आवाहनासनार्घ्यक
पाद्याचमनमधुपर्कसेकानि ॥ ११.४६ ॥

वासोभूषणगन्धा

न्सुमनोयुतधूपदीपभोज्यानि।

सोद्वासनानि कुर्या
द्भक्तियुतः पञ्चदशभिरथ मनुभिः ॥ ११.४७ ॥

व्यस्तैरपि च समस्तैः

पूजायां संयतात्मकः सिद्ध्यै।

पक्वैर्बिल्वसमिद्भिः
पयोन्धसा सर्पिषा क्रमाज्जुहुयात् ॥ ११.४८ ॥

एकैकं त्रित्रिशतं

द्वादश्यां भोजयीत विप्रांश्च।

मन्दारकुन्दकुमुदक
नन्द्यावर्ताह्वमालतीजात्यः ॥ ११.४९ ॥

कह्लारपद्मरक्तो

त्पलकेतकचम्पकादयो ग्राह्याः।

परिषिञ्चेत्ित्रशो नित्यं
सूक्तैस्तैः स्नानकर्मणि ॥ ११.५० ॥

आदित्याभिमुखो जप्यात्तावत्तावच्च तर्पयेत्।
अर्चयेद्विधिना तेन दिनशो जुहुयात्ित्रशः ॥ ११.५१ ॥

एवं करोति षण्मासं योऽसौ स्यादिन्दिरापतिः।
उद्बुद्धमात्रे नलिने नवनीतं विनिक्षिपेत् ॥ ११.५२ ॥

सकर्णिके सकिञ्जल्कोदरे पत्रान्तरालके।
पुनः पद्मं तदुद्धृत्य समिद्धे तु हुताशने ॥ ११.५३ ॥

जुहुयादन्त्ययाथर्चा शतमष्टोत्तरं जपेत्।
चत्वारिंशच्छुक्रवारैर्महाश्रीस्तस्य जायते ॥ ११.५४ ॥

कांसोऽस्मीत्यनया सम्यगेकादश घृताहुतीः।
षण्मासं जुह्वतो नित्यं भूयात्प्रायो महेन्दिरा ॥ ११.५५ ॥

सूक्तैरेतैर्जुहुत जपताभ्यर्चयीतावगाहे

त्सिञ्चेद्वक्त्रे दिनमनु तथा संयतस्तर्पयीत।

संशुद्धात्मा विविधधनधान्याकुलाभ्यन्तरोऽसौ
मन्त्री सर्वैर्भुवि बहुमतः श्रीमतां स्यात्पुरोगः ॥ ११.५६ ॥

श्रीलक्ष्मीर्वरदा विष्णुपत्नी च सवसुप्रदा।
हिरण्यरूपा सस्वर्णमालिनी रजतस्रजा ॥ ११.५७ ॥

ससुवर्णप्रभा स्वर्णप्राकारा पद्मवासिनी।
पद्महस्ता पद्मपूर्वप्रिया मुक्तापदादिका ॥ ११.५८ ॥

अलंकारा तथा सूर्या चन्द्रा बिल्वप्रियेश्वरी।
भुक्तिः प्रपूर्वा मुक्तिश्च विभूत्यृद्धिसमृद्धयः ॥ ११.५९ ॥

तुष्टिः पुष्टिश्च धनदा तथान्या तु धनेश्वरी।
श्रद्धा सभोगीनी भोगदात्री धातृविधातृके ॥ ११.६० ॥

द्वात्रिंशदेताः श्रीदेव्या ये मन्त्राः समुदीरिताः।

तारादिका नमोन्ताश्च तैरर्चासु बलिं हरेत्।
तर्पयेच्च महादेवीं दिनादौ मन्त्रवित्तमः ॥ ११.६१ ॥

नाभ्यक्तोऽद्यान्न नग्नः सलिलमवतरेन्न स्वपेद्वाशुचिः स

न्नाभ्यज्यान्नैव चाद्यात्तिलरुहलवणे केवले नैव दोषाम्।

वक्त्रे लिम्पेद्वदेन्नानृतमपि मलिनः स्यान्न बिम्बाम्बुजन्म
द्रोणान्नो धारयेत्के भुवमपि न वृथैवालिखेदिन्दिरार्थी ॥ ११.६२ ॥

सुविमलचरितः स्याच्छुद्धमाल्यानुलेपा

भरणवसनदेहो मुख्यगन्धोत्तमाङ्गः।

सुविशदनखदन्तः शुद्धधीर्विष्णुभक्तो
विमलरुचिरशय्यः स्याच्चिरायेन्दिरार्थी ॥ ११.६३ ॥

दुष्टां कष्टान्ववायां कलहकलुषितां मार्गदृष्टामनिष्टा

मन्यासक्तामसक्तामतिविपुलकृशाङ्गीमतिह्रस्वदीर्घाम्।

रोगार्तां भोगलोलां प्रतिपुरुषचलां राजकान्तामकान्तां
काकाक्षीमेकचारां ग्रहकुसुमयुतां न स्पृशेदिन्दिरार्थी ॥ ११.६४ ॥

शान्तः शश्वत्स्मितमधुरपूर्वाभिभाषी दयार्द्रो

देवाचार्यातिथिदहनपूजारतः पुण्यशीलः।

नित्यस्नायी नियमनिरतः प्रत्यगाशामुखाशी
मन्त्री वर्णाश्रमदृढरतिः स्याच्चिरायेन्दिरार्थी ॥ ११.६५ ॥

श्रीमन्त्रभक्तः श्रितविष्णुदीक्षः

श्रीसूक्तजापी शितधीः सुशीलः।

स्वदारतुष्टो मितभाषणाशी
लोकप्रियः स्याच्चिरमिन्दिरार्थी ॥ ११.६६ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे एकादशः पटलः ॥