१०

अथ वक्ष्ये संग्रहतो

द्वादशगुणिताख्यमद्य यन्त्रवरम्।

संपूज्य येन शक्तिं
भुक्तेर्मुक्तेर्व्रजेन्नरोऽनुभवम् ॥ १०.१ ॥

व्याहृत्यावीतशक्तिज्वलनपुरयुगद्वन्द्वसंध्युत्थशक्त्या

वीतं कोणात्तदुर्बीजकमनु च कपोलात्तगायत्रिमन्त्रम्।

आग्नेयावीतमर्णैर्वृतमनुविगतैर्भूपुराभ्यां च रन्ध्रे
क्ष्त्रौंचिन्तारत्नकं द्वादशगुणितमिदं यन्त्रमिष्टार्थदायि ॥ १०.२ ॥

पूर्वोक्तमानक्लृप्त्या

मन्त्री त्रितयं विलिख्य वृत्तानाम्।

विलिखेदन्तर्वर्तुल
मनु शक्तिं स्पष्टबिन्दुनिष्ठानाम् ॥ १०.३ ॥

द्वादशमध्यमवर्तुल

रेखा बहिरालिखेच्च शक्तीनाम्।

हरियमवरुणधनाधिप
दिक्षु द्वे द्वे च ताः क्रमेण स्युः ॥ १०.४ ॥

ईशाग्निनिऋतिमरुतां

दिक्ष्वेकैकं विलिख्य भूयश्च।

बीजान्तरालनिर्गत
शूलाङ्कितकोणषट्कयुगमग्नेः ॥ १०.५ ॥

मण्डलयुगयुगलं स्या

दस्पृशदान्तरितवर्तुलं विशदम्।

शक्तिं प्रवेष्टयेच्च
प्रतिलोमव्याहृतीभिरन्तःस्थाम् ॥ १०.६ ॥

रविकोणेषु दुरन्तां

मायां विलिखेदथाग्रबिन्दुमतीम्।

एकैकान्तरितास्ताः
परस्परं शक्तयश्च संबध्युः ॥ १०.७ ॥

गायत्रीं प्रतिलोमतः प्रविलिखेदग्नेः कपोलं बहि

र्द्वे द्वे चैव लिपी बहिश्च रचयेद्भूयस्तथा त्रिष्टुभम्।

वर्णान्प्रानुगतांश्च भूपुरयुगे सिंहाख्यचिन्तामणिं
लिख्याद्यन्त्रमशेषदुःखशमनायोक्तं पुरा देशिकैः ॥ १०.८ ॥

बहिरपि षोडशपत्रं

वृत्तविचित्रं च राशिवीथियुतम्।

रचयेन्मण्डलमेवं
पुनर्यथोक्तं निधापयेत्कलशम् ॥ १०.९ ॥

आदावङ्गावरणमनु हृल्लेखिकाद्याश्चतस्रो

ब्रह्माण्याद्याः षोडशविकृतिद्वन्द्वसंख्याक्रमेण।

मार्धं भूयश्चतसृभिरथो षष्टिभिर्लोकपालै
र्वज्राद्यैरष्टममपि समभ्यर्चयेद्भक्तिनम्रः ॥ १०.१० ॥

कराली विकराली च उमा देवी सरस्वती।
दुर्गा शची उषा लक्ष्मीः श्रुतिः स्मृतिधृती तथा ॥ १०.११ ॥

श्रद्धा मेधा मतिः कान्तिरार्या षोडश शक्तयः।
विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा ॥ १०.१२ ॥

रुद्रवीर्या प्रभानन्दा पोषणी ऋद्धिदा शुभा।
कालरात्री महारात्री भद्रकाली कपालिनी ॥ १०.१३ ॥

विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी।
निसुम्भसुम्भमथनी महिषासुरमर्दिनी ॥ १०.१४ ॥

इन्द्राणी चैव रुद्राणी शंकरार्धशरीरिणी।
नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ १०.१५ ॥

अम्बिका ह्लादिनी चैव द्वात्रिंशच्छक्तयो मताः।
पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च ॥ १०.१६ ॥

श्रद्धा स्वाहा स्वधाख्या च मायाभिख्या वसुंधरा।
त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी ॥ १०.१७ ॥

सुरूपा बहुरूपा च स्कन्दमाताच्युतप्रिया।
विमला सामला चैव अरुणी वारुणी तथा ॥ १०.१८ ॥

प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च।
संध्या माता सती हंसा मर्दिका वज्रिका परा ॥ १०.१९ ॥

देवमाता भगवती देवकी कमलासना।
त्रिमुखीसप्तमुख्यौ च सुरासुरविमर्दिनी ॥ १०.२० ॥

सलम्बोष्ठ्यूर्ध्वकेश्यौ च बहुशिश्ना वृकोदरी।
रथरेखाह्वया चैव शशिरेखा तथापरा ॥ १०.२१ ॥

पुनर्गगनवेगाख्या वेगा च पवनादिका।
भूयो भुवनवेगाख्या तथैव मदनातुरा ॥ १०.२२ ॥

अनङ्गानङ्गमदना भूयश्चानङ्गमेखला।
अनङ्गकुसुमा विश्वरूपासुरभयंकरी ॥ १०.२३ ॥

अक्षोभ्यासत्यवादिन्यौ वज्ररूपा शुचिव्रता।
वरदा चैव वागीशी चतुःषष्टिः प्रकीर्तिताः ॥ १०.२४ ॥

इष्ट्वा यथोक्तमिति तं कलशं निजं वा

पुत्रं तथाप्तमपि शिष्यमथाभिषिञ्चेत्।

आस्तिक्ययुक्तमथ सत्यरतं वदान्यं
विप्रप्रियं कुलकरं च नृपोत्तमं वा ॥ १०.२५ ॥

विधानमेतत्सकलार्थसिद्धि

करं परं पावनमिन्दिराढ्यम्।

आयुष्करं वश्यकरं रिपूणां
प्रध्वंसनं मुक्तिफलप्रदं च ॥ १०.२६ ॥

पाशाङ्कुशमध्यगया

शक्त्याथ जपार्चनाहुतादियुतम्।

वक्ष्ये यन्त्रविधानं
त्रैलोक्यप्राभृतायमानमिदम् ॥ १०.२७ ॥

अष्टाशात्तार्गलाविर्हगलयवरगाच्पूर्वपाश्चात्त्यषट्कं

कोष्ठोद्यत्साङ्गसाष्टाक्षरयुगयुगलाष्टाक्षराख्यं बहिश्च।

मायोपेतात्मयुग्मस्वरमिलितलसत्केसरं साष्टपत्रं
पद्मं तन्मध्यवर्तित्रितयपरिलसत्पाशशक्त्यङ्कुशार्णम् ॥ १०.२८ ॥

पाशाङ्कुशावृतमनुप्रतिलोमगैश्च

वर्णैः सरोजपुटितेन घटेन चापि।

आवीतमिष्टफलभद्रघटं तदेत
द्यन्त्रोत्तमं भुवि घटार्गलनामधेयम् ॥ १०.२९ ॥

प्राक्प्रत्यगर्गले हल

मथ पुनराग्नेयमारुते च हयम्।

दक्षोत्तरे हवार्णं
नैःऋतशैवे हरं द्विपङ्क्ति लिखेत् ॥ १०.३० ॥

विलिखेच्च कर्णिकायां

पाशाङ्कुशसाध्यसंयुतां शक्तिम्।

अभ्यन्तराष्टकोष्ठे
ष्वङ्गान्यवशेषितेषु चाष्टार्णौ ॥ १०.३१ ॥

कोष्ठेषु षोडशस्वथ

षोडशवर्णं तथा मनुं मन्त्री।

पद्मस्य केसरेष्वथ
युगस्वरात्मान्वितां तथा मायाम् ॥ १०.३२ ॥

एकैकेषु दलेषु

त्रिशस्त्रिशः कर्णिकागतान्वर्णान्।

पाशाङ्कुशबीजाभ्यां
प्रवेष्टयेद्बाह्यतश्च नलिनस्य ॥ १०.३३ ॥

अनुलोमविलोमगतैः

प्रवेष्टयेदक्षरैश्च तद्बाह्ये।

तदनु घटेन सरोज
स्थितेन तद्वक्त्रकेऽम्बुजं च लिखेत् ॥ १०.३४ ॥

बिन्द्वन्तिका प्रतिष्ठा

संदिष्टा पाशबीजमिति मुनिभिः।

निजभूर्दहनाप्यायिनि
शशधरखण्डान्वितोऽङ्कुशो भवति ॥ १०.३५ ॥

पाशश्रीशक्तिस्वर

मन्मथशक्तीन्दिराङ्कुशाश्चेति।

एकं कामिनिरञ्जिनि
ठद्वयमपरं त्विहाष्टवर्णं स्यात् ॥ १०.३६ ॥

अथ गौरि रुद्रदयिते

योगेश्वरि सकवचास्त्रठद्वितयैः।

बीजादिकमिदमुक्तं
शाक्तेयं षोडशाक्षरं मन्त्रम् ॥ १०.३७ ॥

इति कृतदलसुविभूषित

मतिरुचिरं लोकनयनचित्तहरम्।

कृतोज्ज्वलं मण्डलमपि
पीठाद्यं पुरेव परिपूज्य ॥ १०.३८ ॥

पूर्वप्रोक्तैः क्वाथै

रेकेनापूर्य पूरयेत्कलशम्।

हृल्लेखाद्यङ्गाख्यौ
मात्रसुरेशादिकौ च कुलिशादिम् ॥ १०.३९ ॥

एवं संपूज्य देवीं कलशमनुशुभैर्गन्धपुष्पादिकैस्ता

न्दध्याज्यक्षौद्रसिक्तैस्त्रिशतमथ पृथग्दुग्धवीरुत्समिद्भिः।

हुत्वा दत्वा सुवर्णांशुकपशुधरणीर्दक्षिणार्थं द्विजेभ्यः
संपूज्याचार्यवर्यं वसुभिरमलधीः संयतात्माभिषिञ्चेत् ॥ १०.४० ॥

इति कृतकलशोऽयं सिच्यते येन पुंसा

स भवति कविरेनं नित्यमालिङ्गति श्रीः।

धनदिनरजनीशैस्तुल्यतेजा महिम्ना
निरुपमचरितोऽसौ देहिनां स्यात्पुरोगः ॥ १०.४१ ॥

जपेच्चतुर्विंशतिलक्षमेवं

सुयन्त्रितो मन्त्रवरं यथावत्।

हविष्यभोजी परिपूर्णसंख्ये
जपे पुनर्होमविधिर्विधेयः ॥ १०.४२ ॥

पयोद्रुमाणां च समित्सहस्र

षट्कैर्दधिक्षौद्रघृतावसिक्तैः।

तिलैश्च तावज्जुहुयात्पयोक्तै
र्द्विजोत्तमानभ्यवहारयेच्च ॥ १०.४३ ॥

गुरुमपि परिपूज्य काञ्चनाद्यै

र्जपति च मन्त्रमथो सहस्रमात्रम्।

भजति च दिनशोऽमुमर्चनायां
विधिविहितं विधिमादरेण भूयः ॥ १०.४४ ॥

संक्षेपतो निगदितो विधिरर्चनायाः

शक्तेरमुं भजतु संसृतिमोचनाय।

कान्त्यै श्रियै च यशसे जनरञ्जनाय
सिद्ध्यै प्रसिद्धमहसोऽस्य परस्य धाम्नः ॥ १०.४५ ॥

गजमृगमदकाश्मीरै

र्मन्त्रितमः सुरभिरोचनोपेतैः।

विलिखेदलक्तकरसा
लुलितैर्यन्त्राणि सकलकार्यार्थी ॥ १०.४६ ॥

राज्या पटुसंयुतया

सपाशशक्त्यङ्कुशेन मन्त्रेण।

स्वाद्वक्तयाभिजुह्व
न्निश्युर्वीशांस्तथोर्वशीं वशयेत् ॥ १०.४७ ॥

एभिर्विधानैर्भुवनेश्वरीं तां

समर्चयित्वाथ जपंश्च मन्त्री।

स्तुत्यानयाभिष्टुवतां समग्र
प्रीत्यै समस्तार्तिविभञ्जिकायाः ॥ १०.४८ ॥

प्रसीद प्रपञ्चस्वरूपे प्रधाने

प्रकृत्यात्मिके प्राणिनां प्राणसंज्ञे।

प्रणोतुं प्रभो प्रारभे प्राञ्जलिस्त्वां
प्रकृत्याप्रतर्क्ये प्रकामप्रवृत्ते ॥ १०.४९ ॥

स्तुतिर्वाक्यबद्धा पदात्मैव वाक्यं

पदं त्वक्षरात्माक्षरस्त्वं महेशि।

ध्रुवं त्वां त्वमेवाक्षरैस्त्वन्मयैस्तो
ष्यसि त्वन्मयी वाक्प्रवृत्तिर्यतः स्यात् ॥ १०.५० ॥

अजाधोक्षजत्रीक्षणाश्चापि रूपं

परं नाभिजानन्ति मायामयं ते।

स्तुवन्तीशि तां त्वाममी स्थूलरूपां
तदेतावदम्बेह युक्तं ममापि ॥ १०.५१ ॥

नमस्ते समस्तेशि बिन्दुस्वरूपे

नमस्ते रवत्वेन तत्त्वाभिधाने।

नमस्ते महत्त्वं प्रपन्ने प्रधाने
नमस्ते त्वहंकारतत्त्वस्वरूपे ॥ १०.५२ ॥

नमः शब्दरूपे नमो व्योमरूपे

नमः स्पर्शरूपे नमो वायुरूपे।

नमो रूपतेजोरसांभःस्वरूपे
नमस्तेऽस्तु गन्धात्मिके भूस्वरूपे ॥ १०.५३ ॥

नमः श्रोत्रचर्माक्षिजिह्वाख्यनासा

सवाक्पाणिपत्पायुसोपस्थरूपे।

मनोबुद्ध्यहंकारचित्तस्वरूपे
विरूपे नमस्ते विभो विश्वरूपे ॥ १०.५४ ॥

रवित्वेन भूत्वान्तरात्मा दधासि

प्रजाश्चन्द्रमस्त्वेन पुष्णासि भूयः।

दहस्यग्निमूर्तिं वहन्त्याहृतं वा
महादेवि तेजस्त्रयं त्वत्त एव ॥ १०.५५ ॥

चतुर्वक्त्रयुक्ता लसद्धंसवाहा

रजः संश्रिता ब्रह्मसंज्ञां दधाना।

जगत्सृष्टिकार्यं जगन्मातृभूते
परं तत्पदं ध्यायसीशि त्वमेव ॥ १०.५६ ॥

विराजत्किरीटा लसच्चक्रशङ्खा

वहन्ती च नारायणाख्यां जगत्सु।

गुणं सत्त्वमास्थाय विश्वस्थितिं यः
करोतीह सोंशोऽपि देवि त्वमेव ॥ १०.५७ ॥

जटाबद्धचन्द्राहिगङ्गा त्रिणेत्रा

जगत्संहरन्ती च कल्पावसाने।

तमः संश्रिता रुद्रसंज्ञां दधाना
वहन्ती परश्वक्षमाले विभासि ॥ १०.५८ ॥

सचिन्ताक्षमाला सुधाकुम्भलेखा

धरा त्रीक्षणार्धेन्दुराजत्कपर्दा।

सुशुक्लांशुकाकल्पदेहा सरस्व
त्यपि त्वन्मयैवेशि वाचामधीशा ॥ १०.५९ ॥

लसच्चक्रशङ्खा चलत्खङ्गभीमा

नदत्सिंहवाहा ज्वलत्तुङ्गमौलिः।

द्रवद्दैत्यवर्गा स्तुवत्सिद्धसंघा
त्वमेवेशि दुर्गा विसर्गाविहीने ॥ १०.६० ॥

पुरारातिदेहार्धभागो भवानी

गिरीन्द्रात्मजात्वेन यैषा विभासि।

महायोगिवन्द्यां महेशासुनाथा
महेश्यंबिका तत्त्वतस्त्वन्मयैव ॥ १०.६१ ॥

लसत्कौस्तुभोद्भासिते व्योमनीले

वसन्ती च वक्षःस्थले कैटभारेः।

जगद्वल्लभां सर्वलोकैकनाथां
श्रियं तां महादेव्यहं त्वामवैमि ॥ १०.६२ ॥

अजाद्रीगुहाब्जाक्षपोत्रीन्द्रकाणां

महाभैरवस्यापि चिह्नं वहन्त्यः।

विभो मातरः सप्ततद्रूपरूपाः
स्फुरन्त्यस्त्वदंशा महादेवि ताश्च ॥ १०.६३ ॥

समुद्यद्दिवाकृत्सहस्रप्रभासा

सदा संतताशेषविश्वावकाशे।

लसन्मौलिबद्धेन्दुरेखे सपाशा
ङ्कुशाभीत्यभीष्टात्तहस्ते नमस्ते ॥ १०.६४ ॥

प्रभाकीर्त्तिकान्तीन्दिरारात्रिसंध्या

क्रियाशातमिस्राक्षुधाबुद्धिमेधाः।

स्तुतिर्वाङ् मतिः संनतिः श्रीश्च शक्ति
स्त्वमेवेशि येऽन्ये च शक्तिप्रभेदाः ॥ १०.६५ ॥

हरे बिन्दुनादैः सशक्त्याख्यशान्तै

र्नमस्तेऽस्तु भेदैः प्रभिन्नैरभिन्ने।

सदा सप्तपाताललोकाचलाब्धि
ग्रहद्वीपधातुस्वरादिस्वरूपे ॥ १०.६६ ॥

नमस्ते नमस्ते समस्तस्वरूपे

समस्तेषु वस्तुष्वनुस्यूतशक्ते।

अतिस्थूलसूक्ष्मस्वरूपे महेशि
स्मृते बोधरूपेऽप्यबोधस्वरूपे ॥ १०.६७ ॥

मनोवृत्तिरस्तु स्मृतिस्ते समस्ता

तथा वाक्प्रवृत्तिः स्तुतिः स्यान्महेशि।

शरीरप्रवृत्तिः प्रणामक्रिया स्या
त्प्रसीद क्षमस्व प्रभो संततं मे ॥ १०.६८ ॥

हृल्लेखाजपविधिमर्चनाविशेषा

नेतांस्तां स्तुतिमपि नित्यमादरेण।

योऽभ्यस्येत्स खलु परां श्रियं च गत्वा
शुद्धं तद्व्रजति पदं परस्य धाम्नः ॥ १०.६९ ॥

इति हृल्लेखाविहितो

विधिरुक्तः संग्रहेण सकलोऽयम्।

अस्मिन्निष्णातमना
मन्त्री योगी स एव भोगी च ॥ १०.७० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे दशमः पटलः ॥