अथाभिवक्ष्ये सकलप्रपञ्च
मूलात्मिकायाः प्रकृतेर्यथावत्।
मन्त्रं तु साङ्गं सहुताभिषेक
जपार्चनाद्यं सकलार्थसिद्ध्यै ॥ ९.१ ॥
घनवर्त्मकृष्णगतिशान्तिबिन्दुभिः
कथितः परः प्रकृतिवाचको मनुः।
दुरितापहोऽर्थसुखधर्ममोक्षदो
भजतामशेषजनरञ्जनक्षमः ॥ ९.२ ॥
शक्तिः स्यादृषिरस्य तु
गायत्त्री चोदिता मनोश्छन्दः।
बोधस्वरूपवाची
संवित्प्रोक्ता च देवता गुरुभिः ॥ ९.३ ॥
नेत्रकरणर्तुदिनकर
भुवनविकारस्वराग्निबिन्दुयुजा।
व्योम्नाङ्गषट्कक्लृप्ति
र्जातिविभिन्नेन चापि संप्रोक्ता ॥ ९.४ ॥
अग्नीन्दुयोगविकृता लिपयो हि सृष्टा
स्ताभिः प्रलोमपठिताभिरिदं शरीरम्।
भूतात्मकं त्वगसृगादियुतं समस्तं
संव्यापयेन्निशितधीर्विधिना यथावत् ॥ ९.५ ॥
अन्त्यावूष्मस्वमून्वादिषु खलिपिपु तांस्तांश्चतुर्वर्गवर्णे
ष्वेतानस्यम्यदस्तद्दति तदपि परेपु स्वरेपु क्रमेण।
संहृत्य स्थानयुक्तं क्षपितसकलदेहो ललाटस्थितान्तः
प्राप्तिव्याप्तद्विसप्तादिकभुवनतलो यातु मद्भावमेव ॥ ९.६ ॥
मूलाधारात्स्फुरिततटिदाभा प्रभा सूक्ष्मरूपो
द्गच्छन्त्यामस्तकमणुतरा तेजसां मूलभूता।
सौषुम्नाध्वाचरणनिपुणा सा सवित्रानुबद्धा
ध्याता सद्योऽमृतमथ रवेः स्रावयेत्सार्धसोमात् ॥ ९.७ ॥
शिरसि निपतिता या बिन्दुधारा सुधाया
भवति लिपिमयी सा ताभिरङ्गं मुखाद्यम्।
विरचयतु समस्तं पातितान्तश्च तेज
स्यनल इव घृतस्योद्दीपयेदात्मतेजः ॥ ९.८ ॥
संहृत्य चोत्पाद्य शरीरमेवं
तेजोमयं व्याप्तसमस्तलोकम्।
संकल्प्य शक्त्यात्मकमात्मरूपं
तच्चिह्नमात्मन्यपि संदधीत ॥ ९.९ ॥
उद्यद्भास्वत्समाभां विजितनवजपामिन्दुखण्डावनद्ध
द्योतन्मौलिं त्रिणेत्रां विविधमणिलसत्कुण्डलां पद्मगां च।
हारग्रैवेयकाञ्चीगुणमणिवलयाद्यैर्विचित्राम्बराढ्या
मम्बां पाशाङ्कुशेष्टाभयकरकमलामम्बिकां तां नमामि ॥ ९.१० ॥
धातू द्वौ स्तो रक्षणव्यापकार्थौ
पाद्योऽशाद्यस्तत्प्रभावात्तयोश्च।
सर्वं संरक्ष्याथ सर्वात्मना यो
व्याप्नोत्यंशं स्यादसौ पाशवाची ॥ ९.११ ॥
अं स्यादात्मा कुर्धरा कुस्तनुर्वा
भागार्थः स्याच्छोऽथ वा वृत्तिवाची।
भूश्चेद्भूतान्यन्यथा चेच्छरीरा
ण्याकृष्यात्मन्याहरेदङ्कुशाख्यः ॥ ९.१२ ॥
स्मृते यथा संसृतिचक्रचङ्क्रमो
द्भवाद्धनापायसमुत्थितादपि।
वियोजयत्यात्मतनुं नरं भया
त्तथाभयस्याभयसंज्ञिता विभोः ॥ ९.१३ ॥
मुख्यार्थवाची वरशब्द उक्तः
स्याद्वाञ्छितार्थश्च वराभिधानम्।
मुख्यं त्वभीष्टं स्मृतिमात्रकेण
ददाति योऽसौ वरदोऽवगम्यः ॥ ९.१४ ॥
दीक्षाक्लृप्त्यै पुरोक्ते रचयतु विधिवन्मण्डलं मण्डपे त
द्व्यक्तं युक्तं च कान्त्या त्रिगुणितविलसत्कर्णिकं वर्णकीर्णम्।
आपीतं केसरेष्वारचितहरिहरार्णैश्च मध्ये समायै
स्तैरग्रे माययाढ्यं कमलमथ बहिः प्रोक्तचिह्नैरुपेतम् ॥ ९.१५ ॥
शक्त्याविःसाध्यमिन्द्रानिलनिऋतिगबीजाभिबद्धं पुरोऽग्ने
स्तत्कोणोल्लासिमायं हरिहरविलसद्गण्डमेभिः समायैः।
वर्णैश्चावेष्टितं तत्ित्रगुणितमिति विख्यातमेतत्सुयन्त्रं
स्यादायुष्यं च वश्यं धनकरममितश्रीपदं कीर्त्तिदं च ॥ ९.१६ ॥
हृल्लेखाख्यां गगनां
रक्तां च करालिकां महोच्छुष्माम्।
मूर्धनि वदने गुह्ये
पदयोर्न्यस्येत्तदङ्गैश्च ॥ ९.१७ ॥
गायत्रीं न्यसतु गले स्तनेऽथ सव्ये
सावित्रीं पुनरपरे सरस्वतीं च।
सव्येंसे सरसिजसंभवं मुकुन्दं
हृद्देशे पुनरपरांसके शिवं च ॥ ९.१८ ॥
अलिकांसपार्श्वकुक्षिषु
पार्श्वांसापरगलहृत्सु च क्रमशः।
ब्रह्माण्याद्या विधिव
न्न्यस्तव्या मातरोऽष्ट मन्त्रितमैः ॥ ९.१९ ॥
सजया विजया च तथा
जिताह्वया चापराजिता नित्या।
तदनु विलासिनिदोग्ध्र्यौ
साघोरा मङ्गला नव प्रोक्ताः ॥ ९.२० ॥
एवं संपूज्य पीठं तदनु नव घटान्पञ्च वा कर्णिकायां
पत्राग्रेषु न्यसेत्काञ्चनरजतताम्रोद्भवान्मार्त्तिकान्वा।
एकं वा कर्णिकायां सुमतिरथ विनिक्षिप्य कुम्भं यथाव
त्संपूर्यावाहयेत्ित्रष्वपि विधिषु पुनर्वक्ष्यमाणक्रमेण ॥ ९.२१ ॥
मधुनाथ महारवैश्च साकं
विधिना मध्यगतं प्रपूर्य कुम्भम्।
अभिवाह्य कलाः प्रवेष्टयीत
प्रवराभ्यामथ तन्नवांशुकाभ्याम् ॥ ९.२२ ॥
ऐन्द्रं घृतेन यमदिक्प्रभवं च दध्ना
क्षीरेण वारुणमथो तिलजेन सौम्यम्।
क्षीरद्रुचर्मदशमूलकपुष्पसिद्ध
क्वाथेन कोणनिलयानपि पूरयेच्च ॥ ९.२३ ॥
मूत्रेणैन्द्रं गोमयेनापि याम्यं
क्षीरेणाप्यं सौम्यजं चैव दध्ना।
मध्यप्रोक्तं सर्पिषा पञ्च कुम्भा
न्संस्थाप्यापः पूरणीयाः क्रमेण ॥ ९.२४ ॥
गोमूत्रगोमयोदक
पयोदधिघृतांशकाः क्रमात्प्रोक्ताः।
एकार्धधातुसत्त्वा
द्येके सर्वाणि वा समानि स्युः ॥ ९.२५ ॥
तारभवाभिरथर्ग्भिः
क्रमेण सयोजयेच्च गव्यानि।
आत्माष्टाक्षरमन्त्रै
रथ वा योज्यानि पञ्चभिः पञ्च ॥ ९.२६ ॥
यद्येककलशक्लृप्तौ
विधिरपि पञ्चाशदोषधिक्वाथैः।
पूरयतु पञ्चभिर्वा
गव्यैस्तोयात्मकेऽष्टगन्धाप्तिः ॥ ९.२७ ॥
अत्रोत्तरस्यां दिशि पङ्कजे च
पलाशचर्मोत्क्वथितैः पयोभिः।
संपूरणीयः कलशो यथाव
त्सुवर्णवस्त्रादियुतः सुशुद्धः ॥ ९.२८ ॥
द्वारेषु मण्डपस्य
द्वौ द्वौ कलशौ सुशुद्धजलपूर्णौ।
संस्थाप्य च वसनाद्यैः
प्रवेष्टयित्वाभिपूजनीयाः स्युः ॥ ९.२९ ॥
ऊर्ध्वेन्द्रयाम्यसौम्य
प्रत्यक्षु च भूतवर्णकाः क्रमशः।
हृल्लेखाद्यास्तदनु च
पूर्ववदङ्गानि पूजनीयानि ॥ ९.३० ॥
गायत्रीं शतमखजे निशाचरोत्थे
सावित्रीं पवनगते सरस्वतीं च।
ब्रह्माणं हुतभुजि वारुणे च विष्णुं
बीजेऽग्रे समभियजेदथेशमैशे ॥ ९.३१ ॥
रक्ता रक्ताकल्पा
चतुर्मुखी कुण्डिकाक्षमालेऽब्जे।
दधती प्राग्बीजस्य
गायत्री तादृशोऽग्निगो ब्रह्मा ॥ ९.३२ ॥
अरिदरगदाब्जहस्ता
किरीटकेयूरहारसंभिन्ना।
निशिचरबीजसमुत्था
सावित्री वरुणगस्तथा विष्णुः ॥ ९.३३ ॥
टङ्काक्षाल्यभयवरा
न्दधती च त्रीक्षणेन्दुकलितजटा।
वाणी वायव्यस्था
विशदाकल्पा तथेश्वरस्त्वैशे ॥ ९.३४ ॥
ब्रह्माण्याद्यास्तद्बहि
रनन्तरं वासवादिकाशेशाः।
पूज्याः पूर्वोक्तैरुप
चारैः सम्यङ्निजेष्टाप्त्यै ॥ ९.३५ ॥
यदि नवकलशास्तेष्वथ
संपूज्या मातरोऽष्टदिक्क्रमशः।
हृल्लेखाद्याः पूज्या
मध्यादिषु पञ्च चेद्भवन्ति घटाः ॥ ९.३६ ॥
प्रथमं घृतजं ततः कषायं
दधि पश्चात्क्वथितं पयः कषायम्।
अथ तैलकषायकामधूत्थं
द्विजवृक्षोत्क्वथितं ततोऽभिषिञ्चेत् ॥ ९.३७ ॥
द्वारगकुम्भघृतैरथ
सलिलैः पुनरन्तरासेकम्।
कुर्यान्मुखकरचरण
क्षालनमपि साचमादिकं मन्त्री ॥ ९.३८ ॥
विधिवत्कृताभिषेको
द्वात्रिंशल्लक्षमथ जपेन्मन्त्रम्।
निजकरदत्तार्घ्यामृत
जलपोषितभानुमत्प्रभोऽनुदिनम् ॥ ९.३९ ॥
भूत्वा शक्तिः स्वयमथ दिनेशेन्दुवैश्वानराणा
मैक्यं कुर्वन्प्रणवमनुना शक्तिबीजेन भूयः।
आकृष्यान्तर्बहिरपि समाधाय बुद्ध्यैव तेजो
जप्यान्मन्त्री ज्वलनहुतशिष्टान्नभुक्प्रोक्तसंख्यम् ॥ ९.४० ॥
अथ तु हविष्यप्राशी
नक्ताशी वा जपेन्मनुं त्वेवम्।
परिपूर्णायां नियमित
जपसंख्यायां समारभेद्धोमम् ॥ ९.४१ ॥
जपाद्दशांशं जुहुयादथाष्ट
द्रव्यैर्गुडक्षौद्रघृतावसिक्तैः।
वर्णौषधीसिद्धजलाभिषेकं
कृत्वा द्विजानभ्यवहारयेच्च ॥ ९.४२ ॥
ततोऽस्य प्रत्ययास्त्वेवं जायन्ते जपतोऽमुना।
अधिष्ठितं निश्यदीपं निस्तमिस्रं गृहं भवेत् ॥ ९.४३ ॥
ततः कृत्वा जपह्रासं समुपासीत शक्तितः।
युक्तात्मा नित्यत्योगेन प्रागुक्तविधिनार्चयेत् ॥ ९.४४ ॥
अश्वत्थविप्राङ्घ्रिपबिल्वनाम्नां
तर्कारिकप्लक्षकसेव्यकानाम्।
प्रसारिणीकाष्मरिरोहिणाना
मुदुम्बरीपाटलडुण्डुकानाम् ॥ ९.४५ ॥
पलं पलार्धं त्वथ कर्षमर्धं
तेषां तु भागः कथितः क्रमेण।
एतैः श्रितेनाथ जलेन वासौ
संपूरणीयः कलशो यथावत् ॥ ९.४६ ॥
प्रत्यब्दसेकाद्भविता शतायु
र्मेधेन्दिरावान्नहितश्च रोगैः।
मासेषु जन्मस्वभिषेकतः स्या
दुर्वीपतिर्मङ्क्षु महापृथिव्याः ॥ ९.४७ ॥
अर्काभस्तेजसासौ भवति नलिनजा संततं किंकरी स्या
द्रोगा नश्यन्ति दृष्ट्वा तमथ च धनधान्याकुलं तत्समीपम्।
देवा नित्यं नमोऽस्मै विदधति फणिनो नैव दंशन्ति पुत्राः
संपन्नाः स्युः सपुत्रास्तनुविपदि परं धाम विष्णोः स भूयात् ॥ ९.४८ ॥
शक्तिप्रग्रस्तसाध्यं हरशरकलमायावृतं वह्निगेह
द्वन्द्वाश्रिप्राप्तमायं प्रतिविवरलसच्छक्तिबद्धं बहिश्च।
कोणोद्यद्दण्डदण्डि त्रिलिपि हरिहराबद्धगण्डं विलोमा
र्णावीतं कोर्युगाष्टोदरनरहरिचिन्तात्मकं षड्गुणाख्यम् ॥ ९.४९ ॥
षडङ्गुलप्रमाणेन वर्तुलं कर्तुरालिखेत्।
षडङ्गुलावकाशेन तद्बहिश्च प्रवर्तयेत् ॥ ९.५० ॥
वर्तुलं तावता भूयस्तद्बहिश्च तृतीयकम्।
मध्यवर्तुलमध्ये तु हृल्लेखाबीजमालिखेत् ॥ ९.५१ ॥
द्वितीयवर्तुलाश्िलष्टमीषच्छिलष्टषडश्रकम्।
पुटितं मण्डलं वह्नेरस्पृशन्मध्यवर्तुलम् ॥ ९.५२ ॥
इन्द्राग्निरक्षोवरुणवाय्वीशान्ताश्रकं लिखेत्।
षट्सु कोणान्तरालेषु हृल्लेखाषट्कमालिखेत् ॥ ९.५३ ॥
एकैकान्तरितास्तास्तु संबध्युरितरेतरम्।
शिखाभिरान्तराभिस्तु बाह्याबाह्याभिरान्तराः ॥ ९.५४ ॥
मध्यवर्तुलसंस्थाया हृल्लेखायाः कपोलयोः।
अधरे साध्यनामार्णं साधकस्योत्तरे लिखेत् ॥ ९.५५ ॥
अन्तराग्निश्रियोः कर्म साधकांशे समालिखेत्।
हरमायाः पञ्चकृत्वः स्युर्बहिर्गर्भवर्तुलम् ॥ ९.५६ ॥
तद्बहिः शरमायाश्च कलमायाश्च तद्बहिः।
लिखेन्मायां बिन्दुमतीं वह्नेः कोणेषु षट्स्वपि ॥ ९.५७ ॥
वह्नेः कोणत्रये श्रीमत्पक्षीये त्रितयं लिखेत्।
शक्तिश्रीकामबीजानां सदण्डं साधकार्णवत् ॥ ९.५८ ॥
वह्निस्तु वह्निपक्षीये तान्येवादण्डवन्ति च।
संसाध्य नामवर्णानि स्पष्टनिष्टानभाञ्जि च ॥ ९.५९ ॥
बाह्यरेखामन्तरा स्युर्वर्णाः क्रमगताः शुभाः।
तद्बहिः प्रतिलोमाश्च ताः स्युर्लेखकपाटवात् ॥ ९.६० ॥
ततो विदर्भितं भूमेर्मण्डलद्वयमालिखेत्।
महादिक्स्थनृसिंहार्णं चिन्तारत्नाश्रिताश्रकम् ॥ ९.६१ ॥
बहिः षोडशशूलाङ्कं शोभनं व्यक्तवर्णवत्।
एतद्यन्त्रं समालिख्य पद्ममारचयेत्ततः ॥ ९.६२ ॥
रुचिरद्वादशदलं षट्त्रिंशत्केसरोज्ज्वलम्।
पूर्वोक्तलक्षणोपेतं शुभं दृष्टिमनोहरम् ॥ ९.६३ ॥
अभ्यर्च्य पीठं नवशक्तिकान्त
मङ्गानि बीजेषु च षट्सु भूयः।
गायत्रिसावित्रिसरस्वतीश्च
यजेदथ श्रीरतिपुष्टिसंज्ञाः ॥ ९.६४ ॥
ब्रह्माणमथ च विष्णुं
महेश्वरं धनदमदनगणनाथान्।
अभ्यर्चयेच्च षट्स्वपि
वह्नेः कोणेषु तद्बहिः क्रमशः ॥ ९.६५ ॥
रक्तामनङ्गकुसुमां कुसुमातुरां च
नित्यामनङ्गमदनां मदनातुरां च।
गौरीं तथैव गगनां गगनस्य रेखां
पद्मां भवप्रमथिनीं शशिशेखरां च ॥ ९.६६ ॥
एता द्विषट् प्रतिदलं प्रतिपूज्य शक्ती
स्तद्बाह्यतो यजतु मातृगणं क्रमेण।
इन्द्रादिकान्बहिरतश्च तदायुधानि
संपूज्य पूर्वविधिनामुमथाभिषिञ्चेत् ॥ ९.६७ ॥
योऽमुमर्चयति मुख्यविधानं
सिद्धशक्तिरपि सञ्जपहोमैः।
स श्रियो निलयनं त्रिदशानां
वन्द्यतां व्रजति विष्णुसमानः ॥ ९.६८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे नवमः पटलः ॥