अथ प्रवक्ष्यामि सुदुर्लभाप्त्यै
विद्यां विशिष्टां त्रिपुराभिधानाम्।
धात्रीप्रभेदापि जगत्यवाप्त
त्रिंशत्प्रकारा त्रिदशाभिवन्द्या ॥ ८.१ ॥
त्रिमूर्तिसर्गाच्च पुराभवत्वा
त्त्रयीमयत्वाच्च पुरैव देव्याः।
लये त्रिलोक्या अपि पूरणत्वा
त्प्रायोऽम्बिकायास्त्रिपुरेति नाम ॥ ८.२ ॥
व्योमेन्दुवह्न्यधरबिन्दुभिरेकमन्य
द्रक्ताच्छकेन्द्रशिखिभिः सरमार्धचन्द्रैः।
अन्यद्द्यु शीतकरपावकमन्वमन्तै
र्बीजैरमीभिरुदिता त्रिपुरेति विद्या ॥ ८.३ ॥
वागैश्वर्यातिशयदतया वाग्भवं बीजमुक्तं
त्रैलोक्यक्षोभणवशताकृष्टिदं कामराजम्।
शाक्तं क्ष्वेलापहरणकविताकारकं मन्त्रमेत
त्प्रोक्तं धर्मद्रविणसुखमोक्षप्रदं साधकानाम् ॥ ८.४ ॥
नाभेरथाचरणमाहृदयाच्च नाभिं
मूर्ध्नस्तथा हृदयमित्यमुना क्रमेण।
बीजैस्त्रिभिर्न्यसतु हस्ततले च सव्ये
दक्षाह्वये द्वितयमप्युभये तृतीयम् ॥ ८.५ ॥
मूर्धनि गुह्यहृदोरपि
नेत्रत्रितये च कर्णयोरास्ये।
अंसद्वये च पृष्ठे
कूर्परयोर्नाभिमण्डले न्यस्येत् ॥ ८.६ ॥
वाग्भवेन पुनरङ्गुलीष्वथो
विन्यसेच्च पुनरुक्तमार्गतः।
अङ्गषट्कममुना विधाय त
द्देवतां विशदधीर्विचिन्तयेत् ॥ ८.७ ॥
आताम्रार्कायुताभां कलितशशिकलारञ्जितप्तां त्रिणेत्रां
देवीं पूर्णेन्दुवक्त्रां विधृतजपपटीपुस्तकाभीत्यभीष्टाम्।
पीनोत्तुङ्गस्तनार्तां वलिलसितविलग्नामसृक्पङ्कराज
न्मुण्डस्रङ्मण्डिताङ्गीमरुणतरदुकूलानुलेपां नमामि ॥ ८.८ ॥
दीक्षां प्राप्य विशिष्टलक्षणयुजः सत्संप्रदायाद्गुरो
र्लब्ध्वा मन्त्रममुं जपेत्सुनियतस्तत्त्वार्धलक्षावधि।
स्वाद्वक्तैश्च नवैः पलाशकुसुमैः सम्यक् समिद्धेऽनले
मन्त्री भानुसहस्रकं प्रति हुनेदश्वारिसूनैरपि ॥ ८.९ ॥
प्राणायामैः पवित्रीकृततनुरथ मन्त्री निजाधारराज
द्योनिस्थां दिव्यरूपां प्रमुदितमनसाभ्यर्चयित्वोपचारैः।
आबद्ध्वा योनिमुद्रामपि निजगुदलिङ्गान्तरस्थां प्रदीप्तां
भूयो द्रव्यैः सुशुद्धैररुणरुचिभिरित्यारभेद्बाह्यपूजाम् ॥ ८.१० ॥
वामादिशक्तिसहितं परिपूज्य पीठं
तत्र प्रकल्प्य विधिवन्नवयोनिचक्रम्।
योनौ निधाय कलशं त्वथ मध्यगाया
मावाह्य तां भगवतीं प्रयजेत्क्रमेण ॥ ८.११ ॥
वह्नेः पुरद्वितयवासवयोनिमध्य
संबद्धवह्निवरुणेशसमाश्रिताश्री।
देव्यर्चनाय विहितं मुनिभिः पुरैव
लोके सुदुर्लभमिदं नवयोनिचक्रम् ॥ ८.१२ ॥
वामा ज्येष्ठा रौद्रिका साम्बिकेच्छा
ज्ञानाभिख्या सक्रिया कुब्जिकाह्वा।
बह्वी चान्या स्याद्विषघ्नी च दूत
र्याह्वा सर्वानन्दका शक्तयः स्युः ॥ ८.१३ ॥
प्राङ्मध्ययोन्योः पुनरन्तराले
संपूजयेत्प्राग्गुरुपादपङ्क्तिम्।
पराभिधानामपराह्वयां च
परापराख्यामपि वाग्भवादिम् ॥ ८.१४ ॥
तेनैव चाङ्गानि विदिग्दिशासु
मन्त्री यथोक्तक्रमतः प्रपूज्य।
तन्मध्ययोनेरभितः शरांश्च
संपूजयेत्पञ्चममग्रभागे ॥ ८.१५ ॥
सुभगा भगा भगान्ते
सर्पिणि भगमालिनी अनङ्गाह्वा।
तत्पूर्वकुसुमसंज्ञा
तदादिके चाथ मेखलामदने ॥ ८.१६ ॥
संपूज्य योनिषु च मातृगणं सचण्डि
कान्तर्दलेष्वभियजेदसिताङ्गकाद्यैः।
तैर्भैरवैः सह सुगन्धसुपुष्पधूप
दीपादिकैर्भगवतीं प्रवरैर्निवेद्यैः ॥ ८.१७ ॥
असिताङ्गाख्यो रुरुरपि
चण्डः क्रोधाह्वयस्तथोन्मत्तः।
सकपालिभीषणाख्यः
संहारश्चाष्टभैरवाः कथिताः ॥ ८.१८ ॥
इति क्रमाप्त्या विहिताभिषेकः
संप्रीणयित्वा द्रविणैर्गुरुं च।
जप्त्वार्चयित्वोक्ततयाथ हुत्वा
युञ्जीत योगांश्च गुरूपदिष्टान् ॥ ८.१९ ॥
अच्छाभः स्वच्छवेषो धरणिमयगृहे वाग्भवं लक्षमेकं
यो जप्यात्तद्दशांशं विहितहुतविधिर्मन्त्रजप्ताञ्जनादिः।
काव्यैर्नानार्थवृत्तैस्त्रिभुवनमखिलं पूरयेन्मन्त्रजापी
मारार्त्या विह्वलाभिः पुनरयमनिशं सेव्यते सुन्दरीभिः ॥ ८.२० ॥
रक्ताकल्पोऽरुणतरदुकूलार्तवालेपनाढ्यो
मौनी भूसद्मनि सुखनिविष्टो जपेल्लक्षमेकम्।
बीजं मन्त्री रतिपतिमयं प्रोक्तहोमावसाने
योऽसौ लोके स सुरमनुजैः पूज्यते सेव्यते च ॥ ८.२१ ॥
ससुरासुरसिद्धयक्ष
विद्याधरगन्धर्वभुजंगचारणानाम्।
प्रमदामदवेगतो विकीर्णा
भरणाः स्रस्तदुकूलकेशजालाः ॥ ८.२२ ॥
अतिदुःसहमन्मथव्यथाभिः
प्रथितान्तःपरितापवेपिताङ्ग्यः।
घनधर्म(?)जतोयबिन्दुमुक्ता
फलसक्तोरुकुचान्तबाहुमूलाः ॥ ८.२३ ॥
रोमाञ्चकञ्चुकितगात्रलताघनोद्य
दुत्तुङ्गपीनकुचकुम्भनिपीडिताङ्ग्यः।
औत्सुक्यभारपृथुवेपथुखेदसन्न
पादारविन्दचलनस्खलनाभियाताः ॥ ८.२४ ॥
मारसायकनिपातदारिता
रागसागरनिमग्नमूर्तयः।
श्वासमारुततरङ्गिताधरा
बाष्पपूरभरविह्वलेक्षणाः ॥ ८.२५ ॥
मस्तकारचितदोर्द्वयाञ्जलि
प्राभृता हरिणशाबलोचनाः।
वाञ्छितार्थकरणोद्यताश्च त
द्दृष्टिपातमभि संनमन्ति ताः ॥ ८.२६ ॥
धरापवरके तथा जपतु लक्षमन्यं मनुं
सुशुक्लकुसुमांशुकाभरणलेपनाढ्यो वशी।
अमुष्य वदनादनारततयोच्चरेद्भारती
विचित्रपदपद्धतिर्भवति चास्य लोको वशे ॥ ८.२७ ॥
पलाशपुष्पैर्मधुरत्रयाक्तै
र्होमं विदध्यादयुतावधिं यः।
सरस्वतीमन्दिरमाशु भूया
त्सौभाग्यलक्ष्म्योश्च स मन्त्रजापी ॥ ८.२८ ॥
राजीकरञ्जाह्वशमीवटोत्थैः
समिद्वरैर्बिल्वभवैः प्रसूनैः।
त्रिस्वादुयुक्तैर्हवनक्रियाशु
नरेन्द्रनारीनररञ्जनी स्यात् ॥ ८.२९ ॥
मालतीवकुलजैर्दलैर्दलै
श्चन्दनाम्भसि घने निमज्जितैः।
श्रीकरीकुसुमकैर्हुतक्रिया
सैव चासु कविताकरी मता ॥ ८.३० ॥
अनुलोमविलोममन्त्रमध्य
स्थितसाध्याह्वयुतं प्रजप्य मन्त्री।
पटुसंयुतया जुहोतु राज्या
नरनारीनरपान्वशे विधातुम् ॥ ८.३१ ॥
मधुरत्रयेण सह विल्वजैः फलै
र्हवनक्रियाशु जनतानुरञ्जनी।
अपि सैव साधकसमृद्धिदायिनी
दिनशो विशिष्टकमलाकरी मता ॥ ८.३२ ॥
खण्डैः सुधालतोत्थै
स्त्रिमधुरयुक्तैर्जुहोतु मन्त्रितमः।
सकलोपद्रवशान्त्यै
जरापमृत्युप्रणोदनाय वशी ॥ ८.३३ ॥
फुल्लैर्बिल्वप्रसूनैस्तदभिनवदलै रक्तवाराहिपुष्पैः
प्रत्यग्रैर्बन्धुजीवैररुणसरसिजैरुत्पलैः कैरवाह्वैः।
नन्द्यावर्तैः सकुन्दैर्नृपतरुकुसुमैः पाटलीनागपुष्पैः
स्वाद्वक्तैरिन्दिराप्त्यै जुहुत च दिनशः सर्पिषा पायसेन ॥ ८.३४ ॥
मूलाधारात्स्फुरन्तीं शिखिपुरपुटवीतां प्रभां विद्युदाभा
मार्कात्तन्मध्यगेन्दोः स्रवदमृतमुचा धारया मन्त्रमय्या।
सद्यः संपूर्यमाणां त्रिभुवनमखिलं तन्मयत्वेन मन्त्री
ध्यायन्मुच्येत वैरूप्यकदुरितजरारोगदारिद्र्यदोषैः ॥ ८.३५ ॥
वह्ने(?)र्बिम्बद्वयपरिवृताधारसंस्थं समुद्य
द्बालार्काभं स्वरगणसमावेष्टितं वाग्भवाख्यम्।
वाण्या स्वीयाद्वदनकुहरात्संततं निःसरन्त्या
ध्यायेन्मन्त्री प्रततकिरणप्रावृतं दुःखशान्त्यै ॥ ८.३६ ॥
हृत्पद्मस्थितभानुबिम्बविलसद्योन्यन्तरालोदितं
मध्याह्नार्कसमप्रभं परिवृतं वर्णैः कभाद्यन्तगैः।
ध्यायेन्मन्मथराजबीजमखिलब्रह्माण्डविक्षोभकं
राज्यैश्वर्यविनिन्दिनीमपि रमां दत्त्वा जगद्रञ्जयेत् ॥ ८.३७ ॥
मूर्ध्नोऽथ द्वादशान्तोदितशशधरबिम्बस्थयोनौ स्फुरन्तं
संवीतं व्यापकार्णैर्धवलरुचि मकारस्थितं बीजमन्त्यम्।
ध्यात्वा सारस्वताच्छामृतजललुलितं दिव्यकाव्यादिकर्ता
नित्यं क्ष्वेलापमृत्युग्रहदुरितविकारान्निहन्त्याशु मन्त्री ॥ ८.३८ ॥
योनेः परिभ्रमितकुण्डलिरूपिणीं तां
रक्तामृतद्रवमुचा निजतेजसैव।
व्योमस्थलं सकलमप्यभिपूर्य तस्मि
न्नावेश्य मङ्क्षु वशयेद्वनिता नरांश्च ॥ ८.३९ ॥
गुह्यस्थितं वा मदनस्य बीजं
जपारुणं रक्तसुधाः स्रवन्तम्।
विचिन्त्य तस्मिन्विनिवेश्य साध्यां
वशीकरोत्येव विदग्धलोकम् ॥ ८.४० ॥
अन्त्यं बीजमथेन्दुकुन्दधवलं संचिन्त्य चित्ताम्बुजे
तद्भूतां धृतपुस्तकाक्षवलयां देवीं मुहुस्तन्मुखात्।
उद्यन्तं निखिलाक्षरं निजमुखे नानारसस्रोतसा
निर्यान्तं च निरस्तसंहृतिभयो भूयात्स वाग्वल्लभः ॥ ८.४१ ॥
संक्षेपतो निगदिता त्रिपुराभिधाना
विद्या सजापहवना सविधानपूजा।
सोपासना च सकलाभ्युदयप्रसिद्ध्यै
वाणीरमाप्तिविधये जगतो हिताय ॥ ८.४२ ॥
विद्येशीं त्रिपुरामिति प्रतिजपन्यो वा भवेन्नित्यश
स्तद्वक्त्रादथ नूतनार्थविशदा वाणी सदा निःसरेत्।
संपत्त्या नृपनन्दिनी ततयशःपूरा भवेदिन्दिरा
तस्यासौ प्रतियाति सर्वमुनिभिः संप्रार्थनीयं पदम् ॥ ८.४३ ॥
मध्ये वद्यक्षरयोः
सदवदवाग्वक्षरा निचन्द्रयुगे।
प्रोक्ता दशाक्षरीयं
कण्वविराजौ च वागृषिप्रभवाः ॥ ८.४४ ॥
कश्रोत्रनयननासा
वदनान्धुगुदेषु विन्यसेद्वर्णान्।
स्वरपुटितैरथ हल्भिः
कुर्यादङ्गानि षट् क्रमान्मन्त्री ॥ ८.४५ ॥
अमलकमलसंस्था लेखिनीपुस्तकोद्य
त्करयुगलसरोजा कुन्दमन्दारगौरा।
धृतशशधरखण्डोल्लासिकोटीरचूडा
भवतु भवभयानां भङ्गिनी भारती वः ॥ ८.४६ ॥
अक्षरलक्षजपान्ते
जुहुयात्कमलैः सितैः पयोभ्यक्तैः।
त्रिमधुरयुतैः सुशुद्धै
रयुतं नियतात्मकस्तिलैरथ वा ॥ ८.४७ ॥
मातृकोक्तविधिनाक्षराम्बुजे
शक्तिभिश्च विनियुज्य पूर्ववत्।
पीठमन्त्रवचसा महेश्वरीं
पूजयेत्प्रथममङ्गमन्त्रकैः ॥ ८.४८ ॥
योगा सत्या विमला
ज्ञाना बुद्धिः स्मृतिस्तथा मेधा।
प्रज्ञेत्याभिर्मातृभि
रपि लोकेशैः प्रपूजयेत्क्रमशः ॥ ८.४९ ॥
इति सिद्धमनुर्मनोजदूरो
नचिरादेव कविर्भवेन्मनस्वी।
जपहोमरतः सदावगच्छे
द्वनितां वागधिपेति गौरवेण ॥ ८.५० ॥
न्यासान्वितो निशितधीः प्रजपेत्सहस्र
मह्नो मुखेऽनुदिवसं प्रपिबेत्तदापः।
तन्मन्त्रिताः पुनरयत्नत एव वाचः।
सिद्धिर्भवेदभिमता परिवत्सरेण ॥ ८.५१ ॥
हृदयद्वयसे स्थितोऽथ तोये
रविबिम्बे प्रतिपद्य वागधीशाम्।
जपतस्त्रिसहस्रसंख्यमर्वा
क्कविता मण्डलतो भवेत्प्रभूता ॥ ८.५२ ॥
पलाशबिल्वप्रसवैस्तयोश्च
समिद्वरैः स्वादुयुतैश्च होमः।
कवित्वसौभाग्यकरः समृद्ध
लक्ष्मीप्रदो रञ्जनकृच्चिराय ॥ ८.५३ ॥
चतुरङ्गुलजैः समित्प्रसूनै
र्जुहुयाद्यो मधुरत्रयावसिक्तैः।
मनुजः समवाप्य धीविलासा
नचिरात्काव्यकृतां भवेत्पुरोगः ॥ ८.५४ ॥
सुविमलनखदन्तपाणिपादो
मुदितमनाः परदूषणेषु मौनी।
हरिहरकमलोद्भवाङ्घ्रिभक्तो
भवति चिराय सरस्वतीनिवासः ॥ ८.५५ ॥
आद्यन्तप्रणवगशक्तिमध्यसंस्था
वाग्भूयो भवति सरस्वतीचडेन्ता।
नत्यन्तो मनुरयमीशसंख्यवर्णः
संप्रोक्तो भुवि भजमानपारिजातः ॥ ८.५६ ॥
स सुषुम्नाग्रे भ्रूयुग
मध्ये नवके तथैव रन्ध्राणाम्।
विन्यस्य मन्त्रवर्णा
न्कुर्यादङ्गानि षट् क्रमाद्वाचा ॥ ८.५७ ॥
हंसारूढा हरहसितहारेन्दुकुन्दावदाता
वाणी मन्दस्मितयुतमुखी मौलिबद्धेन्दुलेखा।
विद्या वीणामृतमयघटाक्षस्रगादीप्तहस्ता
शुभ्राब्जस्था भवदभिमतप्राप्तये भारती स्यात् ॥ ८.५८ ॥
दिनकरलक्षं प्रजपे
न्मन्त्रमिमं संयतेन्द्रियो मन्त्री।
द्वादशसहस्रकमथो
सितसरसिजनागचम्पकैर्जुहुयात् ॥ ८.५९ ॥
पूजायां पार्श्वयुगे
ससंस्कृता प्राकृता च वाग्देव्याः।
केवलवाङ्मयरूपा
संपूज्याङ्गैश्च शक्तिभिस्तदनु ॥ ८.६० ॥
प्रज्ञा मेधा श्रुतिरपि
शक्तिः स्मृत्याह्वया च वागीशी।
सुमतिः स्वस्तिरिहाभि
र्मातृभिराशेश्वरैः क्रमात्प्रयजेत् ॥ ८.६१ ॥
इति निगदितो वागीश्वर्याः सहोमजपार्चना
विधिरनुदिनं मन्त्री त्वेनां भजन्परिमुच्यते।
सकलदुरितैर्मेधालक्ष्मीयशोभिरवाप्यते
परमपरमां भक्तिं प्राप्योभयत्र च मोदते ॥ ८.६२ ॥
इति मातृकाविभेदा
न्प्रभजन्मन्त्रत्रयं च मन्त्रितमः।
प्रजपेदेनां स्तुतिमपि
दिनशो वाग्देव्यनुग्रहाय बुधः ॥ ८.६३ ॥
अमलकमलाधिवासिनि
मनसो वैमल्यदायिनि मनोज्ञे।
सुन्दरगात्रि सुशीले
तव चरणाम्भोरुहं नमामि सदा ॥ ८.६४ ॥
अचलात्मजा च दुर्गा
कमला त्रिपुरेति भेदिता जगति।
या सा त्वमेव वाचा
मीश्वरि सर्वात्मना प्रसीद मम ॥ ८.६५ ॥
त्वच्चरणाम्भोरुहयोः
प्रणामहीनः पुनर्द्विजातिरपि।
भूयादनेडमूक
स्त्वद्भक्तो भवति देवि सर्वज्ञः ॥ ८.६६ ॥
मूलाधारमुखोद्गत
बिसतन्तुनिभप्रभाप्रभावतया।
विधृतलिपिव्राताहित
मुखकरचरणादिके प्रसीद मम ॥ ८.६७ ॥
वर्णतनोऽमृतवर्णे
नियतमनिर्वर्णितेऽपि योगीन्द्रैः।
निर्णीतिकरणदूरे
वर्णयितुं देवि देहि सामर्थ्यम् ॥ ८.६८ ॥
ससुरासुरमौलिलस
न्मणिप्रभादीपिताङ्घ्रियुगनलिने।
सकलागमस्वरूपे
सर्वेश्वरि संनिधिं विधेहि मयि ॥ ८.६९ ॥
पुस्तकजपवटहस्ते
वरदाभयचिह्नचारुबाहुलते।
कर्पूरामलदेहे
वागीश्वरि शोधयाशु मम चेतः ॥ ८.७० ॥
क्षौमाम्बरपरिधाने
मुक्तामणिभूषणे मुदावासे।
स्मितचन्द्रिकाविकासित
मुखेन्दुबिम्बेऽम्बिके प्रसीद मम ॥ ८.७१ ॥
विद्यारूपेऽविद्या
नाशिनि विद्योतितेऽन्तरात्मविदाम्।
गद्यैः सपद्यजातै
राद्यैर्मुनिभिः स्तुते प्रसीद मम ॥ ८.७२ ॥
त्रिमुखि त्रयीस्वरूपे
त्रिपुरे त्रिदशाभिवन्दिताङ्घ्रियुगे।
त्रीक्षणविलसितवक्त्रे
त्रिमूर्तिमूलात्मिके प्रसीद मम ॥ ८.७३ ॥
वेदात्मिके निरुक्त
ज्योतिर्व्याकरणकल्पशिक्षाभिः।
सच्छन्दोभिः संतत
क्लृप्तषडङ्गेन्द्रिये प्रसीद मम ॥ ८.७४ ॥
त्वच्चरणसरसिजन्म
स्थितिमहितधियां न लिप्यते दोषः।
भगवति भक्तिमतस्त्वयि
परमां परमेश्वरि प्रसीद मम ॥ ८.७५ ॥
बोधात्मिके बुधानां
हृदयाम्बुजचारुरङ्गनटनपरे।
भगवति भवभङ्गकरीं
भक्तिं भद्रार्थदे प्रसीद मम ॥ ८.७६ ॥
वागीशीस्तवमिति यो
जपार्चनाहवनवृत्तिषु प्रजपेत्।
स तु विमलचित्तवृत्ति
र्देहापदि नित्यशुद्धमेति पदम् ॥ ८.७७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे अष्टमः पटलः ॥