अथाक्षराणामधिदेवतायाः
समस्तबोधस्थितिदीपिकायाः।
अशेषदुःखप्रशमाय नृ़णां
वक्ष्येऽजपादेः प्रवरं विधानम् ॥ ७.१ ॥
ब्रह्मा स्यादृषिरीरितः सुमतिभिर्गायत्रमुक्तं च त
च्छन्दस्त्वेऽपि सरस्वती निगदिता तन्त्रेषु तद्देवता।
आद्यन्तस्वरषट्कलघ्वपरयोरन्तस्थितैः कादिभि
र्वर्गैर्यान्तगतैः क्रमेण कथितान्यस्याः षडङ्गानि च ॥ ७.२ ॥
पञ्चाशद्वर्णभेदैर्विहितवदनदोःपादयुक्कुक्षिवक्षो
देशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम्।
अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्था
मच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥ ७.३ ॥
काननवृत्तद्व्यक्षि
श्रुतिनोगण्डोष्ठदन्तमूर्धास्ये।
दोःपत्संध्यग्रेषु च
पार्श्वद्वयपृष्ठनाभिजठरेषु ॥ ७.४ ॥
हृद्दोर्मूलापरगल
कक्षेषु हृदादिपाणिपादयुगे।
जठराननयोर्व्यापक
संज्ञा न्यस्येदथाक्षरान्क्रमशः ॥ ७.५ ॥
संदीक्षितो विमलधीर्गुरुणानुशिष्टो
लक्षं न्यसेत्सुनियतः प्रजपेच्च तावत्।
अन्ते हुतं प्रतिहुनेन्मधुरत्रयाक्तैः
शुद्धैस्तिलैरभियजेद्दिनशोऽक्षरेशीम् ॥ ७.६ ॥
व्योमाविः स चतुर्दशस्वरविसर्गार्णस्फुरत्कर्णिकं
किञ्जल्कालिखितस्वरं प्रतिदलप्रारब्धवर्गाष्टकम्।
क्ष्माबिम्बेन च सप्तमार्णवयुजाश्राशासु संवेष्टितं
वर्णाब्जं शिरसि स्मृतं विषगदप्रध्वंसि मृत्युंजयम् ॥ ७.७ ॥
प्रविधाय पद्ममिति पीठमथो
कथितक्रमेण विधिनाभियजेत्।
नवभिश्च शक्तिभिरमुत्र समा
वरणैः समर्चयतु वर्णतनुम् ॥ ७.८ ॥
मेधा प्रज्ञा प्रभा विद्या
धीर्धृतिस्मृतिबुद्धयः।
विद्येश्वरीति संप्रोक्ता
भारत्या नव शक्तयः ॥ ७.९ ॥
अङ्गान्यादौ तदनु च कलायुग्मशश्चाष्टवर्गा
न्ब्रह्माण्यादीञ्छतमखमुखानप्यथो लोकपालान्।
मुख्यैर्ग्रन्थैः प्रवरकुसुमैर्धूपदीपैर्निवेद्यै
र्वर्णाञ्जापि यजतु दिनशो भारतीं भक्तिनम्रः ॥ ७.१० ॥
ब्रह्माणी माहेशी
कौमारी वैष्णवी च वाराही।
इन्द्राणी चामुण्डी
समहालक्ष्मीति मातरः प्रोक्ताः ॥ ७.११ ॥
वर्गस्वरयाद्यंशाः
क्रमेण कलधौतरजतताम्राः स्युः।
इति रचितं रुचकमिदं
साधकसर्वार्थदायि सततं स्यात् ॥ ७.१२ ॥
त्रिवारमम्भः परिजप्तमेतया
पिबेद्दिनादावपि विद्यया सुधीः।
अनेडमूकोऽपि कवित्वगर्वितः
परां च कीर्तिं लभतेऽर्कमासतः ॥ ७.१३ ॥
कमलोद्भवौषधिरसेव च या
पयसा च पक्वमथ सर्पिरपि।
अयुताभिजप्तममुना दिनशो
लिहतां कविर्भवति वत्सरतः ॥ ७.१४ ॥
वर्णौषध्याश्रिताभिः कलशममलधीरद्भिरापूरयित्वा
प्रातस्तेनाभिषिञ्चेद्दशशतपरिजप्तेन यं वापि मासम्।
स स्यान्मेधेन्दिरायुःप्रशमकवियशो विश्वसंवादयुक्तो
नारी वन्ध्यापि नानागुणगणनिलयं पुत्रवर्यं प्रसूते ॥ ७.१५ ॥
आधारोद्यच्छक्तिबिन्दूत्थिताया
वक्त्रे मूर्धेन्दुग्रसन्त्याः प्रभायाः।
क्षाद्यान्तार्णान्पातयेद्वह्निसोम
प्रोतान्मन्त्री मुच्यते रोगजातैः ॥ ७.१६ ॥
विन्यासैरथ सजपैर्हुताशनाद्यै
र्ध्यानैश्च प्रभजति भारतीं नरो यः।
स श्रीमान्भवति च मङ्क्षु काव्यकर्ता
क्ष्वेलादीञ्जयति जरापमृत्युरोगान् ॥ ७.१७ ॥
कलाः कलानादभवा वदन्त्यजाः
कचादिवर्णानुभवाष्टतादिकान्।
पयादिकान्माक्षरजाश्च बिन्दुजाः
क्रमादनन्तावधिकास्तु षादिकान् ॥ ७.१८ ॥
कुर्यात्कलाभिराभि
र्मन्त्री दिनशस्तनौ तथा न्यासम्।
सांनिध्यकृत्समर्थः
प्रतिमाकलशादिषु प्रविज्ञेयः ॥ ७.१९ ॥
मन्त्रोद्धारविधाने
वर्णव्यत्यासक्लृप्तिरुद्दिष्टा।
आभिः श्रीकण्ठादि
प्रोक्तैर्वा नामभिर्विशेषज्ञैः ॥ ७.२० ॥
अष्टाक्षरोक्तमनुवर्यविशिष्टमूर्तिं
संस्मृत्य विष्णुमपि मन्त्रितमो यथावत्।
वर्णैर्न्यसेदपि पुरैव च केशवादि
मूर्त्या युतैर्वपुषि भक्तिभरावनम्रः ॥ ७.२१ ॥
रुद्रादीञ्छक्तियुतान्न्यस्ये
द्याद्यांस्त्वगादिधातुयुगान्।
श्रीकण्ठादौ विद्वा
न्वर्णान्प्राग्बीजसंयुतान्वापि ॥ ७.२२ ॥
सिन्दूरकाञ्चनसमोभयभागमर्ध
नारीश्वरं गिरिसुताहरभूषचिह्नम्।
पाशाभयाक्षवलयेष्टदहस्तमेवं
स्मृत्वा न्यसेत्सकलवाञ्छितवस्तुसिद्ध्यै ॥ ७.२३ ॥
शक्त्या शक्तिश्रीभ्यां
शक्तिश्रीक्लीभिरन्वितैर्वर्णैः।
श्रीशक्तियुगशराद्यै
रथवाभिहितः समृद्धये न्यासः ॥ ७.२४ ॥
अथानया पञ्चविभेदभिन्नया
प्रपञ्चयागस्य विधिः प्रवक्ष्यते।
कृते तु यस्मिन्निह साधकोत्तमाः
प्रयान्ति निर्वाणपदं तदव्ययम् ॥ ७.२५ ॥
पूर्वं महागणपतिं स्वविधानसिद्ध
रूपं च साङ्गमपि सावरणं विचिन्त्य।
बीजेन संयुतमृचा प्रजपेत माला
मन्त्रं निजेष्टविधयेऽवहितो यथावत् ॥ ७.२६ ॥
स चतुश्चत्वारिंश
द्वारं बीजं तथैकवारमृचम्।
प्रजपेच्चतुरावृत्त्या
मालापूर्वं मनुं च मन्त्रितमः ॥ ७.२७ ॥
स मुनिश्छन्दोदैवत
मपि साङ्गं मातृकां च विन्यस्येत्।
प्रागभिहितेन विधिना
वारत्रितयं गृहांश्च सप्त तथा ॥ ७.२८ ॥
वदने च बाहुपाद
द्वितये जठरे च वक्षसि यथावत्।
अर्काद्यान्विन्यस्ये
त्क्रमेण मन्त्री स्वरादिवर्गेशान् ॥ ७.२९ ॥
तारश्च शक्तिरजपा परमात्मबीजं
वह्नेःप्रिया च गदिता इति पञ्चमन्त्राः।
एभिस्त्रितीयलिपिभिः कथितः प्रपञ्च
यागाह्वयो हुतविधिः सकलार्थदायी ॥ ७.३० ॥
ब्रह्मा स्यादृषिरस्य
च्छन्दः परमान्विता च गायत्री।
सकलपदार्थसदर्थं
परिपूर्णं देवता परंज्योतिः ॥ ७.३१ ॥
जायाग्नेर्हृदयमथो शिरश्च सोऽहं
हंसात्मा त्वथ च शिखा स्वयं च वर्म।
ताराख्यं स्वमुदितमीक्षणं तथास्त्रं
प्रोक्तं स्याद्धरिहरवर्णमङ्गमेवम् ॥ ७.३२ ॥
अत्राकारहकाराद्यावाद्यौ शान्तान्त्यकौ मनू।
हकारश्चाप्यकारश्च बिन्दुः सर्गी च साक्षरः ॥ ७.३३ ॥
साकारश्चात्ममन्त्रः षडिन्द्रियात्मक उच्यते।
सकारौकारहकारा बिन्दुः पञ्चार्णको मनुः ॥ ७.३४ ॥
करणात्मसमायुक्तः परमात्माह्वयो मनुः।
स्वाकारैर्हदीर्घाभ्यां वह्निजायामनुर्मतः।
वागादीन्द्रियसंभिन्नः सोऽयं पञ्चाक्षरात्मकः ॥ ७.३५ ॥
ब्रह्मा बृहत्तया स्या
त्परमपदेन प्रकाशितः प्रवरः।
गायकसंत्राणनतो
गायत्रं समुनिनिगदितं छन्दः ॥ ७.३६ ॥
परमन्यदतिशयं वा
ज्योतिस्तेजो निरूपितेऽन्यद्यत्।
अतिशायि च नितरामिति
कथितैवं देवता परंज्योतिः ॥ ७.३७ ॥
स्वेति स्वर्गः स्वेति चात्मा समुक्तो
हेत्याहुतिर्हेति विद्याद्गतिं च।
स्वर्गात्मावध्यातता धामशाखा
वह्नेर्जाया यत्र हूयेत सर्वम् ॥ ७.३८ ॥
स इति परततं परं तु तेज
स्त्वहमिति मय्युदिते मनोऽस्य यत्र।
तदिति सकलचित्प्रकाशरूपं
कथितमिदं शिरसोऽपि मन्त्रमेवम् ॥ ७.३९ ॥
हमिति प्रकाशितोऽहं
स इति च सकलप्रकाशनिर्वाणम्।
अतुलमनुष्णमशीतं
यत्तदितीत्थं प्रकाशितेह शिखा ॥ ७.४० ॥
प्रतिमथ्य गुणत्रयानुबद्धं
सकलं स्थावरजङ्गमाभिपूर्णम्।
स्वगुणैर्निजबिन्दुसन्ततात्मा
खिललोकस्थितिवर्ममन्त्रमुक्तम् ॥ ७.४१ ॥
आद्यैस्त्रिभेदैस्तपनान्तिकैर्य
त्सृजत्यजस्रं जगतोऽस्य भावम्।
तेजस्तदेतन्मनुवर्यकस्य
नेत्रत्रयं सन्त उदाहरन्ति ॥ ७.४२ ॥
हृंकाराख्या धातु
र्हरणार्थे साधकानभीष्टानि।
संहरतीह यदेत
त्तेजोरूपं तदस्त्रमन्त्रं स्यात् ॥ ७.४३ ॥
यदा लिपिविहीनोऽयं तदात्माष्टाक्षरः स्मृतः।
एतत्सर्वप्रपञ्चस्य मूलमष्टाक्षरं स्मृतम् ॥ ७.४४ ॥
प्रपञ्चयागस्त्वमुना कृतो न्यासविधिः स्मृतः।
वर्णैर्देहेऽनले द्रव्यैः कुर्याद्धुतविधिं द्विधा ॥ ७.४५ ॥
मातृकान्यासवत्सार्थं लिपिनाष्टाक्षरेण तु।
नित्यं न्यसेत्संयतात्मा पञ्चाशद्वारमुत्तमम् ॥ ७.४६ ॥
पञ्चज्ञानेन्द्रियाबद्धाः सर्वास्तु लिपयो मताः।
ताभिरारात्तनं सर्वं तत्तदिन्द्रियगोचरम् ॥ ७.४७ ॥
स्मर्तव्याशेषलोकान्तर्वर्ति यत्तेज ऐश्वरम्।
ब्रह्माग्नौ जुहुयात्तस्मिन्सदा सर्वत्र वर्तिनि ॥ ७.४८ ॥
ब्रह्मात्मभिर्महामन्त्रैर्ब्रह्मविद्भिः समाहितैः।
ब्रह्माग्नौ ब्रह्महविषा हुतं ब्रह्मार्पणं स्मृतम् ॥ ७.४९ ॥
एवं वर्णविभेदभिन्नमदृढं मांसान्त्रमज्जावृतं
देहं तत्क्षरमक्षरे सुविशदे सर्वत्र वर्तिन्यथ।
हुत्वा ब्रह्महुताशने विमलधीस्तेजःस्वरूपी स्वयं
भूत्वा सर्वमनुं जपेदभियजेद्ध्यायेत्तथा तर्पयेत् ॥ ७.५० ॥
शुद्धश्चापि सबिन्दुकस्त्वथ कलायुक्केशवाद्यस्तथा
श्रीकण्ठादियुतश्च शक्तिकमलामारैस्तथैकैकशः।
न्यासास्ते दशधा पृथङ् निगदिताः स्युर्ब्रह्मयागान्तिकाः
सर्वे साधकसिद्धिसाधनविधौ संकल्पकल्पद्रुमाः ॥ ७.५१ ॥
प्रपञ्चयागस्तु विशेषतो विप
त्प्रपञ्चसंसारविशेषयापकः।
परश्च नित्यं भजतामयत्नतः
परस्य चार्थस्य निवेदकस्तथा ॥ ७.५२ ॥
द्रव्यैर्यथा यैः क्रियते प्रपञ्च
यागक्रिया तानि तथैव संपत्।
यास्वप्यवस्थासु च ताश्च कृत्वा
प्राप्नोति यत्तत्कथयामि सर्वम् ॥ ७.५३ ॥
प्रोक्तक्रमेण विघ्ना
दिकमपि हुत्वा क्रमेण मन्त्रितमः।
एकावृत्त्या जुहुया
त्प्रपञ्चयागाह्वयं घृतेन ततः ॥ ७.५४ ॥
अश्वत्थोदुम्बरजाः
प्लक्षन्यग्रोधसंभवाः समिधः।
तिलसर्षपदौग्धघृता
न्यष्ट द्रव्याणि संप्रदिष्टानि ॥ ७.५५ ॥
एतैर्जुहोति नियुताधिकलक्षसंख्यं
मन्त्री ततोऽर्धमथवापि तदर्धकं यः।
स त्वैहिकीं सकलसिद्धिमवाप्य वाञ्छा
योग्यां पुनः परतरां च परत्र याति ॥ ७.५६ ॥
एकद्विकत्रिकचतुष्कशताभिवृत्त्या
तांस्तान्समीक्ष्य विकृतिं प्रजुहोतु मन्त्री।
क्षुद्रग्रहारिविषमज्वरभूतयक्ष
रक्षःपिशाचजनिते महति प्रकोपे ॥ ७.५७ ॥
द्वादशसहस्रमथवा
तद्द्विगुणं च चतुर्गुणं वाथ।
जुहुयात्क्षुद्रग्रहरिपु
विषमज्वरभूतसंभवे कोपे ॥ ७.५८ ॥
अयथाप्रतिपत्तिमन्त्रकाणां
प्रजपात्स्यादिह विस्मृतिर्नराणाम्।
शमयेदचिरात्सहस्रवृत्त्या
मतिमान्वस्तुभिरेभिरेव जुह्वन् ॥ ७.५९ ॥
एतैः सहस्रद्वितयाभिवृत्त्या
जुहोति यस्तु क्रमशो यथावत्।
जयेत्क्षणेनैव स विस्मृतीश्च
सापस्मृतीः शापभवांश्च दोषान् ॥ ७.६० ॥
मधुरत्रयावसिक्तै
रेतैर्लक्षं जुहोति यो मन्त्री।
तस्य सुराधिपविभवो
महदृद्ध्या तृणलवायते नचिरात् ॥ ७.६१ ॥
लक्षं तदर्धकं वा
मधुरत्रयसंयुतैर्हुनेदेतैः।
अब्दत्रयादथार्वा
क्त्रिभुवनमखिलं वशे कुरुते ॥ ७.६२ ॥
वश्यादीन्यपि कर्मा
ण्यभिकाङ्क्षन्नेभिरेव सद्द्रव्यैः।
जुहुयात्कार्ये गुरुता
लाघवमभिवीक्ष्य योग्यपरिमाणम् ॥ ७.६३ ॥
लक्षं तिलानां जुहुयाद्यवानां
शान्त्यै श्रियेऽथो नलिनैश्च तावत्।
दौग्ध्येन पुष्ट्यै यशसे घृतेन
वश्याय जातीकुसुमैश्च लोणैः ॥ ७.६४ ॥
शालीतण्डुलचूर्णकैस्त्रिमधुरासिक्तैः स्वसाध्याकृतिं
कृत्वाष्टोर्ध्वशताख्यमस्य शितधीः प्राणान्प्रतिष्ठाप्य च।
न्यासोक्तक्रमतो निशासु जुहुयात्तां सप्तरात्रं नरो
नारीं वा वशमेति मङ्क्षु विधिना तेनैव लोणेन वा ॥ ७.६५ ॥
पञ्चाशदौषधिविपाचितपञ्चगव्य
जाते घृतेन शतवृत्ति हुनेद्धटाग्नौ।
तावत्प्रजप्य विधिनाभिसमर्च्य सिद्धं
भस्माददीत सकलाभ्युदयावहं तत् ॥ ७.६६ ॥
अनुदिनमनुलिंम्पेत्तेन किंचित्समद्या
त्तिलकमपि विदध्यादुत्तमाङ्गे क्षिपेच्च।
अनुततदुरितापस्मारभूतापमृत्यु
ग्रहिविषरहितः स्यात्प्रीयते च प्रजाभिः ॥ ७.६७ ॥
एकादशार्धकणिकां वरकाञ्चनस्य
दद्यात्तदैव गुरवेऽथ सहस्रहोमे।
अर्धोर्ध्वपञ्चकणिका द्विकणा च सार्धा
स्याद्दक्षिणेह कथिता मुनिभिस्त्रिधैव ॥ ७.६८ ॥
निजेप्सितं दिव्यजनैः सुरद्रुमा
त्समस्तमेव प्रतिलभ्यते यथा।
प्रपञ्चयागादपि साधकैस्तथा
करप्रचेयाः सकलार्थसंपदः ॥ ७.६९ ॥
अथ हितविधये विदुषां
वक्ष्ये प्राणाग्निहोत्रविहितविधिम्।
बद्ध्वा पद्मासनमृजु
कायो मन्त्री विशेत्पुरोवदनः ॥ ७.७० ॥
शक्तेः सत्त्वनिबद्धमध्यमथ तन्मायारजोवेष्टितं
प्राग्रक्षोऽनिलदिग्गताश्रजठरं मध्ये च नाभेरधः।
मध्यप्राग्वरुणेन्द्रयाम्यलसितैः कुण्डैर्ज्वलद्वह्निभिः
मूलाधारमनारतं समतलं योगी स्मरेत्सिद्धये ॥ ७.७१ ॥
मध्येन्द्रवरुणशशियम
दिग्गतानि क्रमेण कुण्डानि।
आवसथजसभ्याहवनी
यान्वाहार्यगार्हपत्यानि ॥ ७.७२ ॥
चिद्रूपात्सकलप्रभाप्रभवकान्मूलप्रकृत्यात्मनः
कल्पार्कात्प्रतिलोमतोऽमृतमयीं ज्योतीरुचाच्छां धिया।
स्पृष्टामक्षरमालिकां तु जुहुयात्कुण्डेषु तेषु क्रमा
त्कल्पान्ताग्निशिखास्फुरत्कुहरकेष्वास्रावितां वर्णशः ॥ ७.७३ ॥
क्षाद्यास्ते सप्तवर्गा मरकतपशुमेदाह्वनीलाभवर्णा
भूयः स्युर्विद्रुमाभाः कुलिशसमरुचः पुष्यवैडूर्यभासः।
सर्वे ते पञ्चशोभी स्रवदमृतमया व्यापकाः स्पर्शसंज्ञा
मुक्तामाणिक्यरूपाः सुमतिभिरुदिताश्चाष्टशः स्युः स्वराख्यः ॥ ७.७४ ॥
एतानि केतोरमृताकरारे
र्मन्दस्य रक्तस्य च भार्गवस्य।
गुरुज्ञसोमांशुमतां क्रमेण
नवानि रत्नानि विदुर्नवानाम् ॥ ७.७५ ॥
इत्येवं हुतविधिमन्वहं दिनादौ
ये सम्यग्विदधति मन्त्रिणः शतार्धम्।
ते रत्नैरपि कनकांशुकैः सधान्यैः
संपन्नाः सकलजगत्प्रिया भवन्ति ॥ ७.७६ ॥
अन्त्यशवर्गान्त्यासे
वामश्रवणान्यथावसथजाते।
असितपवर्गचतुर्थां
सूक्ष्माः सभ्याह्वये च सश्रोत्राः ॥ ७.७७ ॥ ।
हलयुतवर्गतृतीयौ
पराः सशान्तीश्च पश्चिमे वह्नौ।
भृगुरेफफादिपञ्चक
सद्यातिथिलोचनानि सव्येऽग्नौ ॥ ७.७८ ॥
मज्जात्वग्वर्गादिक
भौतिकभाराह्वयप्रतिष्ठांश्च।
गार्हपत्ये जुहुया
दित्युक्तं होमकर्मवर्णानाम् ॥ ७.७९ ॥
व्योम्ना मध्ये स्थितेऽग्नावखिलमविरतं शब्दमैन्द्रेऽनिलेन
स्पर्शं स्वेनैव रूपं पुनरपरभवे सौम्यजेऽद्भी रसं च।
याम्ये गन्धं पृथिव्योभयरुचिरुचिरैरक्षरौघैर्हुनेद्यो
मन्त्री स्यात्सर्ववेद्यप्रतिमथनसमुद्भासितप्रत्यगात्मा ॥ ७.८० ॥
सतारशक्त्याद्यजपान्तमेवं
हुत्वा महात्माथ शतार्धसंख्यम्।
विन्यस्य तावच्च तथैव सूत्र
मात्राकृतिर्नित्यतनुश्च भूयात् ॥ ७.८१ ॥
कल्पादित्यमुखस्वमूलविलसत्कल्पानलान्तस्फुर
च्चन्द्रार्कग्रहकालभूतभुवनब्रह्मेशविष्ण्वादिकः।
अव्यक्तोऽक्षरसंज्ञकोऽमृतमयस्तेजोद्वयोद्यत्प्रभो
नित्यानन्दमयस्त्वनादिनिधनो यः स्यात्स हंसात्मकः ॥ ७.८२ ॥
अनुदिनममुना भजतां
विधिनाहारक्रियासु मन्त्रविदां।
प्राणाद्याः स्युर्मरुतो
गार्हपत्यादिकानि कुण्डानि ॥ ७.८३ ॥
सप्तम्यन्तां च कुण्डाख्यामाख्यां च मरुतामपि।
हिरण्या गगना रक्ता कृष्णाभिर्वर्णमीरयेत् ॥ ७.८४ ॥
ससुप्रभाभिः सहिताः शुचयः पावका इति।
अग्निं विहृत्य चेत्येवमात्मानमुपचर्य च ॥ ७.८५ ॥
ऊर्ध्वाधस्तिर्यगूर्ध्वाधस्तिर्यक्सममथो वदेत्।
गच्छतूक्त्वा ठयुग्मं च पञ्चाग्नीन्संस्मरेत्ततः ॥ ७.८६ ॥
हुताहुतिसमुद्दीप्तशिखासंयुक्तरोचिषः।
गार्हपत्यादिकं भूय उपचर्यान्तमेव च ॥ ७.८७ ॥
मन्त्रं सर्वमनुक्रम्य जिह्वाः संस्मृत्य सर्वशः।
बहुरूपां तु संकल्प्य पञ्चानलशिखायुताम् ॥ ७.८८ ॥
अहं वैश्वानरो भूत्वा जुहोम्यन्नं चतुर्विधम्।
पचाम्येवं विधानेनेत्यापूर्णं संयतेन्द्रियः ॥ ७.८९ ॥
तूष्णीं हुत्वा पिधायाद्भिरुपस्पृश्य विधानतः।
आरभ्य मूलाधारं स्वमामस्तकमनुस्मरेत् ॥ ७.९० ॥
क्षेत्रज्ञसंज्ञकममुं प्रकृतिस्थमाद्यं
व्याप्तद्विसप्तभुवनान्तमनन्तमेकम्।
पञ्चाननाग्निरसनापरिदत्तशुद्ध
सांनाय्यतर्पितमतर्कितमात्मरूपम् ॥ ७.९१ ॥
संचिन्त्य क्षरितामृताक्षरशतार्धाम्भोऽवसिक्तं हवि
स्तैर्जप्त्वा कुटिलान्तराधिरधिकं संदीप्तपञ्चानलः।
सायंप्रातरनेन होमविधिना भोज्यानि नित्यं भज
न्प्राणी न प्रमदोदरं प्रविशति प्राणाग्निहोत्री पुनः ॥ ७.९२ ॥
इति तव सषडङ्गवेदशास्त्रा
द्युपहितसर्वविकारसंघमाहुः।
तनुरियमुदिता विरिञ्चविश्व
स्थितिलयसृष्टिकरीह वर्णमाला ॥ ७.९३ ॥
इति जगदनुषक्तां तामिमां वर्णमालां
न्यसत जपत भक्त्या जुह्वताभ्यर्चयीत।
निरुपमकवितायुःकीर्तिकान्तीन्दिराप्त्यै
सकलदुरितरोगोच्छित्तये मुक्तये च ॥ ७.९४ ॥
इतीरिता सकलजगत्प्रभाविनी
क्रमोत्क्रमक्रमगुणितार्णमालिका।
अभीष्टसाधनविधये च मन्त्रिणां
भवेन्मनुप्रतिपुटिताक्षमालिका ॥ ७.९५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे सप्तमः पटलः ॥