०६

अथ पुनराचम्य गुरुः

प्राग्वदनो विष्टरोपविष्टः सन्।

प्राणायामं सलिपिन्यास
कृत्वा न्यसेत्तदृष्यादीन् ॥ ६.१ ॥

ऋषिर्गुरुत्वाच्छिरसैव धार्य

श्छन्दोऽक्षरत्वाद्रसनागत स्यात्।

धियावगन्तव्यतया सदैव
हृदि प्रदिष्टा मनुदेवता च ॥ ६.२ ॥

ऋषिवर्णादिकौ धातू स्तो गत्या प्रापणेन च।
यात्याभ्यां यत्स्वरूपं स गुरुः स्यादृषिवाचकः ॥ ६.३ ॥

इच्छादानार्थकौ धातू स्तश्छदाद्यश्च दादिकः।
तयोरिच्छां ददातीति छन्दो मन्त्रार्णवाचकम् ॥ ६.४ ॥

आत्मनो देवताभावप्रधानाद्देवतेति च।
पदं समस्तमन्त्रेषु विद्वद्भिः समुदीरितम् ॥ ६.५ ॥

हृदयशिरसोः शिखायां कवचाक्ष्यस्त्रेषु सह चतुर्थीषु।
नत्याहुत्या च वषड्ढुं वौषट्फट्पदैः षडङ्गविधिः ॥ ६.६ ॥

हृदयं बुद्धिगम्यत्वात्प्रणामः स्यान्नमः पदम्।
क्रियते हृदयेनातो बुद्धिगम्यनमस्क्रिया ॥ ६.७ ॥

तुङ्गार्थत्वाच्छिरः स्वे स्वे विषयाहरणे द्विठः।
शिरोमन्त्रेण चोत्तुङ्गविषयाहृतिरीरिता ॥ ६.८ ॥

शिखादेशसमुद्दिष्टा वषडित्यङ्गमुच्यते।
तत्तेजोऽस्य तनुः प्रोक्ता शिखामन्त्रेण मन्त्रिणः ॥ ६.९ ॥

कचग्रहण इत्यस्माद्धातोः कवचसंभवः।
हुंतेजस्तेजसां देहो गृह्यते कवचं ततः ॥ ६.१० ॥

नेत्रदृष्टिः समुद्दिष्टा वौषड् दर्शनमुच्यते।
दर्शनं दृशि येन स्यात्तत्तेजो नेत्रवाचकम् ॥ ६.११ ॥

असुत्रसादिकौ धातू स्तः क्षेपचलनार्थकौ।
ताभ्यामनिष्टमाक्षिप्य चालयेत्फट्पदाग्निना ॥ ६.१२ ॥

प्रोक्तानीत्यङ्गमन्त्राणि सर्वमन्त्रेषु सूरिभिः।
पञ्चैव यस्य मन्त्रस्य भवन्त्यङ्गानि मन्त्रिणः ॥ ६.१३ ॥

सर्वेष्वपि च मन्त्रेषु नेत्रलोपो विधीयते।
अङ्गुलीषु क्रमादङ्गैरङ्गुष्ठादिषु विन्यसेत् ॥ ६.१४ ॥

कनिष्ठान्तासु तद्बाह्यतलयोः करयोः सुधीः।
अस्त्रेण तालत्रितयं कृत्वा तेनैव बन्धयेत् ॥ ६.१५ ॥

दिशो दश क्रमादङ्गषट्कं वा पञ्चकं न्यसेत्।
जपारम्भे मनूनां तु सामान्येयं प्रकल्पना ॥ ६.१६ ॥

शङ्ख सगन्धपुष्पाक्षततोयं वामतः प्रविन्यस्य।
साङ्ग मन्त्रं पूजामूर्तेर्न्यस्येद्गुरूपदेशेन ॥ ६.१७ ॥

न्यस्येच्च दक्षभागे सुमनःपात्रं तथाभितो दीपान्।
अन्यत्साधनमखिलं पुरतो गन्धाक्षतादिकं मन्त्री ॥ ६.१८ ॥

प्रथमं निजसव्यतो यथाव

त्प्रयजेद्देवमयान्महागुरून्स्वान्।

गणनाथमन्यतश्च पाशा
ङ्कुशदन्ताभयहस्तमुज्ज्वलाङ्गम् ॥ ६.१९ ॥

रक्तं धर्मं वृषतनुमथाग्नौ हरिं श्यामवर्णं

ज्ञानं रक्षो दिशि मरुति पीतं च वैराग्यसज्ञम्।

भूताकारं द्विरदतनुमैश्वर्यमीशे च कृष्णं
नञ्पूर्वैस्तैर्यजतु दिशि चित्राणि गात्राणि पीठे ॥ ६.२० ॥

मध्येऽनन्तं पद्ममस्मिंश्च सूर्यं

सोमं वह्निं तारवर्णैर्विभक्तैः।

सत्त्वादींश्च त्रीन्गुणानात्मयुक्ता
ञ्शक्तिः किंजल्केषु मध्ये यजेच्च ॥ ६.२१ ॥

श्वेता कृष्णा रक्ता

पीता श्यामानलोपमा शुक्ला।

अञ्जनजपासमाने
तेजोरूपाश्च शक्तयः प्रोक्ताः ॥ ६.२२ ॥

विन्यस्य कर्णिकोपरि शाली

स्तदुपरि च तण्डुलानि तथा।

तेषामुपरि च दर्भा
न्पूर्वोपरि कूर्चमक्षतोपेतम् ॥ ६.२३ ॥

त्रिगुणेन च तन्तुरूपभाजा

परितोऽसौ परिवेष्टितं यथावत्।

लघुनालघुधूपितं च कूर्चो
परिकुम्भं निदधातु तारजापी ॥ ६.२४ ॥

न्यस्य दर्भमयं कूर्चमक्षता

द्यायुतं सनवरत्नकं घटे।

पूरयेत्सह कषादिकान्तगै
रक्षरौषधिविपाचितैर्जलैः ॥ ६.२५ ॥

अथवा दशमूलपुष्पदुग्धा

ङ्घ्रिपचर्मोत्क्वथितैः कषायतोयैः।

स्तनजद्रुमचर्मसाधितैर्वा
सलिलैः सयतधीः शुभोदकैर्वा ॥ ६.२६ ॥

शङ्खे कषायोदकपूरिते च

विलोड्य सम्यग्विधिना सगन्धम्।

कलाः समावाह्य विनिक्षिपेत्त
त्क्वाथोदकापूर्णमुखे च कुम्भे ॥ ६.२७ ॥

त्रिविधं गन्धाष्टकमपि

शाक्तेयं वैष्णवं च शैवमिति।

गन्धाष्टकेन शक्तिः
स्यात्कलशे मन्त्रिणा कृतेऽनन्ता ॥ ६.२८ ॥

चन्दनकर्पूरागरु

कुङ्कुमकपिमांसिरोचनाचोराः।

गन्धाष्टकमपि शक्तेः
सांनिध्यकरं च लोकरञ्जनकृत् ॥ ६.२९ ॥

चन्दनह्रीबेरागरु

कुप्ठासृगुशीरमांसिमुरमपरम्।

चन्दनकर्पूरागरु
दलरुधिरकुशीतरोगजलमपरम् ॥ ६.३० ॥

अष्टत्रिंशत्प्रभेदेन याः कलाः प्रागुदीरिताः।
गुरूपदेशक्रमतस्ता विद्वान्विनियोजयेत् ॥ ६.३१ ॥

याः पञ्चाशत्कलास्तारपञ्चभेदसमुत्थिताः।
पञ्चपञ्चकसंभिन्ना विदुस्तास्तत्त्ववेदिनः ॥ ६.३२ ॥

सप्तात्मकस्य तारस्य परौ द्वौ तु वरौ यतः।
ततस्तु शक्तिशान्ताख्यौ न पठ्येते परैः सह ॥ ६.३३ ॥

प्रथमप्रकृतेर्हंसः प्रतद्विष्णुरनन्तरः।
त्रियम्बकस्तृतीयः स्याच्चतुर्थस्तत्पदादिकः ॥ ६.३४ ॥

विष्णुर्योनिमथेत्यादिः पञ्चमः कल्प्यतां मनुः।
चतुर्नवतिमन्त्रात्मदेवमावाह्य पूर्यताम् ॥ ६.३५ ॥

अत्र याः पञ्च संप्रोक्ता ऋचस्तारस्य पञ्चभिः।
कलाप्रभेदैश्च मिथो युज्यन्ते ताः पृथक्क्रमात् ॥ ६.३६ ॥

कुर्यात्प्राणप्रतिष्ठां च तत्र तत्र समाहितः।

प्राणप्रतिष्ठामन्त्रेण पुनस्तोयं कलात्मकम्।
उच्चारयन्मूलमन्त्रं कलशे संनिधापयेत् ॥ ६.३७ ॥

अश्वत्थचूतपनस

स्तबकैः सुत्रामवल्लरीयुक्तैः।

सुरतरुधिया पिधाय
कुम्भमुखं वेष्टयीत वासोभ्याम् ॥ ६.३८ ॥

पुनस्तोयगतं देव साध्यमन्त्रानुरूपतः।
सकलीकृत्य च गुरुरुपचारान्समाचरेत् ॥ ६.३९ ॥

आसनस्वागते सार्घ्यपाद्ये साचमनीयके।
मधुपर्काचमस्नानवसनाभरणानि च ॥ ६.४० ॥

सुगन्धसुमनोधूपदीपनैवेद्यवन्दनान्।
प्रयोजयेदर्चनायामुपचारांस्तु षोडश ॥ ६.४१ ॥

अर्घ्यपाद्याचमनकमधुपर्काचमान्यपि।
गन्धादयो निवेद्यान्ता उपचारा दश क्रमात् ॥ ६.४२ ॥

गन्धादयो निवेद्यान्ता पूजा पञ्चोपचारिकी।
सपर्यास्त्रिविधाः प्रोक्तास्तासामेकां समाश्रयेत् ॥ ६.४३ ॥

गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपाः।
दूर्वा चेति क्रमादर्घ्यद्रव्याष्टकमुदीरितम् ॥ ६.४४ ॥

पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते।
जातीलवङ्गतक्कोलैर्मतमाचमनीयकम् ॥ ६.४५ ॥

मधुपर्कं च सक्षौद्रं दधि प्रोक्तं मनीषिभिः।
शुद्धाभिरद्भिर्विहितं पुनराचमनीयकम् ॥ ६.४६ ॥

चन्दनागरुकर्पूरपङ्कं गन्धमिहोच्यते।
अथवा लघुकाश्मीरपटीरमृगनाभिजम् ॥ ६.४७ ॥

तुलस्यौ पङ्कजे जात्यौ केतक्यौ करवीरकौ।
शस्तानि दश पुष्पाणि तथा रक्तोत्पलानि च ॥ ६.४८ ॥

उत्पलानि च नीलानि कुमुदानि च मालती।
मल्लिकाकुन्दमन्दारनन्द्यावर्तादिकानि च ॥ ६.४९ ॥

पलाशपाटलीपार्थपारन्त्यावर्तकानि च।
चम्पकानि सनागानि रक्तमन्दारकानि च ॥ ६.५० ॥

अशोकोद्भवबिल्वाब्जकर्णिकारोद्भवानि च।
सुगन्धीनि सुरूपाणि स्वागमोक्तानि यानि वै ॥ ६.५१ ॥

मुकुलैः पतितैर्म्लानैर्जीर्णैर्वा जन्तुदूषितैः।
आघ्रातैरङ्गसंस्पृष्टैरुषितैश्चापि नार्चयेत् ॥ ६.५२ ॥

सगुग्गुल्वगरूशीरसिताज्यमधुचन्दनैः।
साराङ्गारविनिक्षिप्तैर्मन्त्री नीचैः प्रधूपयेत् ॥ ६.५३ ॥

गोसर्पिषा वा तैलेन वर्त्या च लघुगर्भया।
दीपितं सुरभिं शुद्धं दीपमुच्चैः प्रदापयेत् ॥ ६.५४ ॥

सुसितेन सुशुद्धेन पायसेन सुसर्पिषा।
सितोपदंशकदलीदध्याद्यैश्च निवेदयेत् ॥ ६.५५ ॥

वर्णैर्मनुप्रपुटितैः क्रमशः शतार्धै

र्न्यासक्रमादभियजेत्सकलासु मन्त्री।

गन्धादिभिः प्रथमतो मनुदेवतासु
त्रैलोक्यमोहनमिति प्रथितः प्रयोगः ॥ ६.५६ ॥

हृदयं सशिरस्तथा शिखाथो

कवचं चेत्यनलादिकाश्रिषु।

पुरतो नयनं दिशां क्रमात्स्या
त्पुनरस्त्रं च समर्पयेत्क्रमात् ॥ ६.५७ ॥

हारस्फटिककलाया

ञ्जनपिङ्गलवह्निरोचिषो ललनाः।

अभयवरोद्यतहस्ताः
प्रधानतनवोऽङ्गदेवताः कथिताः ॥ ६.५८ ॥

आदावङ्गावरणं

सकलविधानेषु पूजनीयं स्यात्।

अन्ते च लोकपाला
वृतिरथ कुलिशादिकान्तं वा ॥ ६.५९ ॥

इन्द्राग्नियमनिशाचर

वरुणानिलशशिशिवाहिपतिविधयः।

जात्यधिपहेतिवाहन
परिवारान्ताः क्रमेण यष्टव्याः ॥ ६.६० ॥

पीतः पिङ्गः कृष्णो

धूमः शुक्लश्च धूम्रसितशुक्लाः।

काशारुणाम्बुजाभा
लोकेषा वासवादयः प्रोक्ताः ॥ ६.६१ ॥

वज्रः सशक्तिदण्डः

खङ्गः पाशाङ्कुशौ गदाशूले।

रथचरणनलिनसंज्ञे
प्रोक्तान्यस्त्राणि लोकपालानाम् ॥ ६.६२ ॥

पीतहिमजलदगगना

चिरप्रभारक्तकुन्दनीलरुचः।

करवन्दारुणवर्णाः
प्रोक्ताः स्युर्वर्णतोऽपि वज्राद्याः ॥ ६.६३ ॥

कृते निवेद्ये च ततो मण्डलं परितः क्रमात्।
मङ्गलाङ्कुरपत्राणि स्थापनीयानि मन्त्रिणा ॥ ६.६४ ॥

उपलिप्य कुण्डमत्र

स्वचरणयोग्या विलिख्य रेखाश्च।

अभ्युक्ष्य प्रणवजपेन
प्रकल्पयेद्योगविष्टरं मन्त्री ॥ ६.६५ ॥

अथवा षट्कोणावृत

त्रिकोणके गुरुजनोपदेशेन।

प्राणाग्निहोत्रविधिना
प्यावसथीयाह्वयेऽनलस्थाने ॥ ६.६६ ॥

तत्राथो सदृतुमतीमथेन्द्रियाभां

स्मृत्वा तां सकलजगन्मयीं च शक्तिम्।

तद्योनौ मणिभवमारणेयकं वा
तारेण क्षिपतु गृहोत्थमेव वाग्निम् ॥ ६.६७ ॥

चित्पिङ्गलपदमुक्त्वा

हनदहपचयुग्मकानि सर्वज्ञम्।

आज्ञापयाग्निजाये
प्रभाष्य मनुनानलं ज्वलयेत् ॥ ६.६८ ॥

अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम्।
सुवर्णवर्णमनलं समिद्धं विश्वतोमुखम् ॥ ६.६९ ॥

अनेन ज्वलितं मन्त्रेणोपतिष्ठेद्धुताशनम्।
ततः प्रविन्यसेद्देहे जिह्वामन्त्रैर्विभावसोः ॥ ६.७० ॥

सलिङ्गगुदमूर्धास्यनासानेत्रेषु च क्रमात्।
सर्वाङ्गेषु च जिह्वाश्च वक्ष्यन्ते त्रिविधात्मकाः ॥ ६.७१ ॥

हिरण्या गगना रक्ता कृष्णा चैव तु सुप्रभा।
बहुरूपातिरक्ता च जिह्वाः सप्तेति सात्त्विकाः ॥ ६.७२ ॥

पद्मरागा सुवर्णा च तृतीया भद्रलोहिता।
लोहिताख्या तथा श्वेता धूम्रिणी सकरालिका ॥ ६.७३ ॥

राजस्यः कथिता ह्येताः क्रमात्कल्याणरेतसः।
विश्वमूर्तिस्फुलिङ्गिन्यौ धूम्रवर्णा मनोजवा ॥ ६.७४ ॥

लोहिता च करालाख्या काली तामसजिह्विका।
अनलेरार्घिबिन्द्वन्तसादिवान्ताक्षरान्विताः ॥ ६.७५ ॥

सात्त्विक्यो दिव्यपूजासु राजस्यः काम्यकर्मसु।
तामस्यः क्रूरकार्येषु प्रयोक्तव्या विपश्चिता ॥ ६.७६ ॥

सुराः सपितृगन्धर्वयक्षनागपिशाचिकाः।
राक्षसाश्च क्रमादग्नेराश्रिता रसनास्वमी ॥ ६.७७ ॥

जिह्वासु त्रिदशादीनां तत्तत्कार्यसमाप्तये।
जुहुयाद्वाञ्छितां सिद्धिं दद्युस्ता देवतामयाः ॥ ६.७८ ॥

स्वनामसदृशाकाराः प्रायो जिह्वा हविर्भुजः।
मन्त्री प्रविन्यसेद्भूयो वह्नेरङ्गानि वै क्रमात् ॥ ६.७९ ॥

सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषस्तथा।
धूमव्यापी सप्तजिह्वो धनुर्धर इतीरिताः ॥ ६.८० ॥

अङ्गमन्त्राः क्रमादष्टमूर्तिश्चाथ प्रविन्यसेत्।
मूर्धां सपार्श्वकट्यन्धुकटिपार्श्वांसकेषु च ॥ ६.८१ ॥

प्रादक्षिण्येन विन्यस्येद्यथावद्देशिकोत्तमः।
जातवेदाः सप्तजिह्वो हव्यवाहन एव च ॥ ६.८२ ॥

अश्वोदरजसज्ञश्च स वैश्वानर एव च।
कौमारतेजाश्च तथा विश्वेदेवमुखाह्वयौ ॥ ६.८३ ॥

स्युरष्टमूर्तयो वह्नेरग्नये पदपूर्विकाः।
प्रणवादिनमोऽन्ताश्च पुनर्दर्भचतुष्टयैः ॥ ६.८४ ॥

दिक्क्रमात्संपरिस्तीर्य सम्यग्गन्धादिभिर्यजेत्।
मध्ये च कोणषट्के च जिह्वाभिः केसरेषु च ॥ ६.८५ ॥

अङ्गमन्त्रैस्ततो बाह्ये अष्टाभिर्मूर्तिभिः क्रमात्।
ततोऽग्निमनुनानेन मन्त्री मध्ये च संयजेत् ॥ ६.८६ ॥ ।

वैश्वानरं जातवेदमुक्त्वा चेहावहेति च।

लोहिताक्षपदं सर्वकर्माणीति समीरयेत्।
ब्रूयाच्च साधयेत्यन्ते वह्निजायान्तिको मनुः ॥ ६.८७ ॥

त्रिणयनमरुणप्ताबद्धमौलिं सुशुक्लां

शुकमरुणमनेकाकल्पमम्भोजसंस्थम्।

अभिमतवरशक्तिस्वस्तिकाभीतिहस्तं
नमत कनकमालालंकृतांसं कृशानुम् ॥ ६.८८ ॥

जिह्वा ज्वालारुचः प्रोक्ता वराभययुतानि च।
अङ्गानि मूर्तयः शक्तिस्वस्तिकोद्यतदोर्द्वयाः ॥ ६.८९ ॥

संस्कृतेन घृतेनाभिद्योतनोद्योतितेन च।
व्याहृत्यनन्तरं तेन जुहुयान्मनुना त्रिशः ॥ ६.९० ॥

गर्भाधानादिका वह्नेः समुद्वाहावसानिकाः।
क्रियास्तारेण वै कुर्यादाज्याहुत्यष्टकैः पृथक् ॥ ६.९१ ॥

जिह्वाङ्गमूर्तिमनुभिरेकावृत्या हुनेत्तथा।
जिह्वायां मध्यसंस्थायां मन्त्री ज्वालावली तनौ ॥ ६.९२ ॥

ताराद्यैर्दशभिर्भेदैः पूर्वैः पूर्वैः समन्वितः।
मनुना गाणपत्येन हुनेत्पूर्वं दशाहुतीः ॥ ६.९३ ॥

जुहुयाच्च चतुर्वारं समस्तेनैव तेन तु।
आज्येन संध्यमनुना पञ्चविंशतिसंख्यकम् ॥ ६.९४ ॥

जुहुयात्सर्वहोमेषु सुधीरनलतृप्तये।
तान्त्रिकाणामयं न्यायो हुतानां समुदीरितः ॥ ६.९५ ॥

पुनः साध्येन मनुना हुनेदष्टसहस्रकम्।
अथवाष्टशतं सर्पिः संयुक्तेन पयोन्धसा ॥ ६.९६ ॥

द्रव्यैर्विधानप्रोक्तैर्वा महाव्याहृतिपश्चिमम्।
पुनः समापयेद्धोमं परिषेकावसानिकम् ॥ ६.९७ ॥

भूर्भुवःस्वर्भूर्भुवस्वःपूर्वं स्वाहान्तमेव च।
अग्नये च पृथिव्यै च महते च समन्वितम् ॥ ६.९८ ॥

वायवे चान्तरिक्षाय महते च समन्वितम्।
आदित्याय च दिवे च महते च समन्वितम् ॥ ६.९९ ॥

चन्द्रमसे च दिग्भ्यश्च महते च समन्वितम्।
महाव्याहृतयस्त्वेताः सर्वशो देवतामयाः ॥ ६.१०० ॥

ब्रह्मार्पणाख्यमनुना पुनरष्टावथाहुतीः।
जुहुयान्मन्त्रवर्येण कर्मबन्धविमुक्तये ॥ ६.१०१ ॥

इतः पूर्वं प्राणबुद्धिदेहधर्मादिकारतः।
जाग्रत्स्वप्नसुषुप्तीनामन्तेऽवस्थास्वितीरयेत् ॥ ६.१०२ ॥

ततश्च मनसा वाचा कर्मणेति प्रभाषयेत्।
हस्ताभ्यां च तथा पद्भ्यामुदरेण तु भाषयेत् ॥ ६.१०३ ॥

शिश्ना च यत्कृतं प्रोक्त्वा यदुक्तं यत्स्मृतं तथा।
तत्सर्वमिति संभाष्य ब्रह्मार्पणपदं वदेत् ॥ ६.१०४ ॥

भवत्वन्ते द्विठश्चायं ब्रह्मार्पणमनुर्मतः।
हुते तु देशिकः पश्चान्मण्डले बलिमारभेत् ॥ ६.१०५ ॥

नक्षत्राणां सराशीनां सवाराणां यथाक्रमम्।
दद्याद्बलिं गन्धपुष्पधूपपूर्वकमादरात् ॥ ६.१०६ ॥

ताराणामश्िवनादीनां राशीः पादाधिकद्वयम्।
मेषादिमुक्त्वा नक्षत्रसंज्ञां पूर्वमनन्तरम् ॥ ६.१०७ ॥

देवताभ्यः पदं प्रोक्त्वा दिवानक्तपदं तथा।
चारिभ्यश्चाथ सर्वेभ्यो भूतेभ्यश्च नमो वदेत् ॥ ६.१०८ ॥

एवं राशो तु संपूर्णे तस्मिंस्तद्वत्प्रयोजयेत्।
तथा राश्यधिपानां च ग्रहाणां तत्र तत्र तु ॥ ६.१०९ ॥

सप्तानां करणानां च दद्यान्मीनाह्वमेषयोः।
अन्तराले बलिस्त्वेवं संप्रोक्तः कलशात्मकः ॥ ६.११० ॥

पुनर्निवेद्यमुद्धृत्य पुरोवत्परिपूज्य च।

मुखवासादिकं दत्त्वा स्तुत्या तद्युक्तया पुनः।
स्तुत्वा यथावत्प्रणमेद्भक्तियुक्तस्तु साधकः ॥ ६.१११ ॥

दोर्भ्यां पदाभ्यां जानुभ्यामुरसा शिरसा दृशा।
वचसा मनसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ ६.११२ ॥

बाहुभ्यां च सजानुभ्यां शिरसा वचसा धिया।
पञ्चाङ्गकः प्रणामः स्यात्पूजासु प्रवराविमौ ॥ ६.११३ ॥

गुर्वाद्यास्तारादिका यागमन्त्रा

लोकेशान्तास्ते चतुर्थीनमोऽन्ताः।

पूजायामप्यग्निकार्ये द्विठान्ता
बीजैः पूजा स्याद्विभक्त्या वियुक्तैः ॥ ६.११४ ॥

वाससी च पुनरङ्गुलिभूषां

होमकृत्सु मुखजप्रवरेषु।

ईश्वरार्पणमिति प्रतिदत्त्वा
वर्धितो द्विजमुखेरितवाग्भिः ॥ ६.११५ ॥

नत्त्वा ततस्तनुभृते परमात्मने स्वं

द्रव्यार्धमेव गुरवे चतुरंशकं वा।

दत्त्वा दशांशमथवापि च वित्तशाठ्यं
हित्वार्पयेन्निजतनुं तदधीनचेताः ॥ ६.११६ ॥

अथ पटुरवमुख्यवाद्यघोषै

र्द्विजमुखनिष्पतदाशिषां रवेण।

सुनियतमपि सुस्थितं च शिष्यं
कलशजलैरभिषेचयेद्यथावत् ॥ ६.११७ ॥

यथा पुरा पूरितमक्षरैर्घटैः

सुधामयैः शिष्यतनौ तथैव तैः।

प्रपूरयन्मन्त्रिवरोऽभिषेचये
दवाप्तये मङ्क्षु यथेष्टसंपदाम् ॥ ६.११८ ॥

विमले परिधाय वाससी

पुनराचम्य गुरुं प्रणम्य च।

निकटे समुपासतो वदे
दथ शिष्यस्य मनुं त्रिशो गुरुः ॥ ६.११९ ॥

गुरुणा समनुगृहीतं

मन्त्रं सद्यो जपेच्छतावृत्त्या।

गुरुदेवतामनूना
मैक्यं संभावयन्धिया शिष्यः ॥ ६.१२० ॥

मन्त्रे मन्त्रगुरावपि

मन्त्री मन्त्रस्य देवतायां च।

त्रिषु विहितसततभक्तिः
प्रेत्येह निजेप्सितं फलं लभते ॥ ६.१२१ ॥

संक्षेपादिति गदिता हिताय दीक्षा

जप्तृ़णां प्रवरफलप्रदा चिराय।

प्राप्यैनां जपविधिरादरेण कार्यो
विद्वद्भिः सहुतविधिं निजेष्टसिद्ध्यै ॥ ६.१२२ ॥

प्रोक्तेनैवं कलशविधिनैकेन वानेककुम्भै

र्भक्त्या यो वा सुमतिरभिषिञ्चेन्नरो मन्त्रजापी।

कामान्प्राप्नोत्ययमिह परत्रापि किं तत्र चित्रं
लोकैश्चिन्त्यो न खलु मणिमन्त्रौषधीनां प्रभावः ॥ ६.१२३ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे षष्ठः पटलः ॥