अथ प्रवक्ष्ये विधिवन्मनूनां
दीक्षाविधानं जगतो हिताय।
येनोपलब्धेन समाप्नुवन्ति
सिद्धिं परत्रेह च साधकेशाः ॥ ५.१ ॥
दद्याच्च दिव्यभावं
क्षिणुयाद्दुरितान्यतो भवेद्दीक्षा।
मननात्तत्त्वपदस्य
त्रायत इति मन्त्र उच्यते भयतः ॥ ५.२ ॥
दैवादिकस्याप्यथ मानुषादेः
पैत्रादिकस्याप्यथ वत्सरस्य।
आदिं समारभ्य समग्रसंप
द्यत्नेन दीक्षाविधिमारभेत ॥ ५.३ ॥
शुभकर्मणि दीक्षायां
मण्टपकरणे गृहादिविधिषु तथा।
विहितो वास्तुबलिः स्या
द्रक्षाविघ्नोपशान्तिसंपद्भ्यः ॥ ५.४ ॥
अभवत्पुराथ किल वास्तुपुमा
निति विश्रुतो जगदुपद्रवकृत्।
चतुरश्रसंस्थितिरसौ निहितो
निहतः क्षितौ सुरगणैर्दितिजः ॥ ५.५ ॥
तद्देहसंस्थिता ये
देवास्ते विश्रुतास्त्रिपञ्चाशत्।
मण्डलमध्याद्यर्च्या
यथा तथोक्तक्रमेण कथ्यन्ते ॥ ५.६ ॥
कृत्वावनिं समतलां चतुरश्रसंस्था
मष्टाष्टकोद्यतपदां च सकोणसूत्राम्।
तस्यां चतुष्पदसमन्वितमध्यकोष्ठे
ब्रह्मा तु साधकवरेण समर्चनीयः ॥ ५.७ ॥
प्राग्याम्यवारुणोद
ग्दिक्कोष्ठचतुष्पदेषु समभियजेत्।
आर्याख्यं सविवस्व
त्संज्ञं मित्रं महीधरं क्रमशः ॥ ५.८ ॥
कोणद्वयार्धकोष्ठे
ष्वर्च्याः सावित्रसवितृशक्राह्वाः।
सेन्द्रजयरुद्रतज्जय
सापश्च तथापवत्सकोऽग्न्याद्याः ॥ ५.९ ॥
अश्रेः पार्श्वोत्थपद
द्वन्द्वे शर्वं गुहार्यमणौ च तथा।
जम्भकपिलिपिञ्छाख्यौ
चरकिविदार्यौ च पूतनाः प्रोक्ताः ॥ ५.१० ॥
अर्धपदाद्यन्तासु च
चतसृषु दिक्षु क्रमेण बहिरर्च्याः।
वासवयमजलशशिना
मष्टावष्टौ च मन्त्रिणा विधिना ॥ ५.११ ॥
ईशानाख्यः स पर्जन्यो जयन्तः शक्रभास्करौ।
सत्यो वृषान्तरिक्षौ च देवताः प्रागुदीरिताः ॥ ५.१२ ॥
अग्निः पूषा च वितथो यमश्च ग्रहरक्षकः।
गन्धर्वो भृङ्गराजश्च मृगो दक्षदिगाश्रिताः ॥ ५.१३ ॥
निःऋतिदौवारिकश्चैवः सुग्रीवो वरुणस्तथा।
पुष्पदन्तासुरौ शोषरोगौ प्रत्यग्दिगाश्रिताः ॥ ५.१४ ॥
वायुर्नागश्च मुख्यश्च सोमो भल्लाट एव च।
अर्गलाख्योऽदितिस्तद्वद्दितिः सौम्यदिगाश्रिताः ॥ ५.१५ ॥
इतीरितानामपि देवतानां
चित्राणि कृत्वा रजसा पदानि।
पयोऽन्धसा साधुबलिर्विधेयो
द्रव्यैश्च वा तन्त्रविशेषसिद्धैः ॥ ५.१६ ॥
भूयो भूमितले समे विरहिते लोमास्थिलोष्टादिभिः
कर्तव्यं नवसप्तपञ्चकमितैर्हस्तैः परीणाहतः।
युक्तं द्वारचतुष्ककल्पितपयोभूरुट् चतुस्तोरणं
दर्भस्रक्परिवीतमुज्ज्वलतलं स्यात्संवृतं मण्डपम् ॥ ५.१७ ॥
सप्ताहतो वा नवरात्रतो वा
प्रागेव दीक्षादिवसाद्यथावत्।
सपालिकापञ्चमुखीशराव
चतुष्टये बीजनिवापमुक्तम् ॥ ५.१८ ॥
अन्यस्मिन्भवने सुसंवृततरे शुद्धे स्थले मण्डलं
कुर्यात्प्राग्वरुणायतं पदचतुष्कोपेतभानूदरम्।
पीतारक्तसितासितं प्रतिपदं वह्न्यादिशर्वान्तिकं
याम्योदीच्यसमायतं प्रणिगदन्त्यन्ये च तन्मन्त्रिणः ॥ ५.१९ ॥
वैष्णव्यस्त्वथ पालिका अपि चतुर्विंशाङ्गुलोच्छ्रायकाः
वैरिञ्च्यो घटिकास्तु पञ्चवदना द्व्यष्टाङ्गुलोच्छ्रायकाः।
शैवाः स्युर्द्विषडङ्गुला अपि शरावाह्वा जलक्षालिताः
सूत्रैश्च प्रकलय्य पङ्क्तिषु च ताः प्रोक्तक्रमाद्विन्यसेत् ॥ ५.२० ॥
पृथगपि शालीतण्डुल
पूर्णासु सदर्भबद्धकूर्चासु।
मृद्वालुकाकरीषैः
क्रमेण पूर्णानि तानि पात्राणि ॥ ५.२१ ॥
शालीकङ्गुश्यामा
तिलसर्षपमुद्गमाषनिष्पावाः।
खल्वाढकीसमेता
बीजानि विदुः प्ररोहयोग्यानि ॥ ५.२२ ॥
प्रक्षाल्य तानि निवपेदभिमन्त्र्य मूल
बीजेन साधकवरस्त्वपि पात्रकेषु।
विप्राशिषा च विधिवत्प्रतिपाद्यमान
शङ्खादिमुख्यतरपञ्चमहास्वनैश्च ॥ ५.२३ ॥
हारिद्राद्भिः सम्यगभ्युक्ष्य वस्त्रै
राच्छाद्याद्भिः सिञ्चतां पञ्चघोषैः।
सायंप्रातः शर्वरीषु प्रदद्या
दुक्तैर्द्रव्यैस्तद्बलिं साधकेशः ॥ ५.२४ ॥
भूतपितृयक्षनाग
ब्रह्मशिवा देवताश्च विष्ण्वन्ताः।
ताभ्यः क्रमेण रात्रिषु
सप्तसु वा नवसु बलिर्देयः ॥ ५.२५ ॥
लाजतिलनक्तरजो
दधिसक्त्वन्नानि भूतकूराख्यम्।
पित्र्यं तिलतण्डुलकं
सोडुम्बिकधानलाजकं याक्षम् ॥ ५.२६ ॥
केरोदसक्तुपिष्टं
नागं पद्माक्षतं च वैरिञ्च्यम्।
अन्नापूपं शैवं
गुलोदनं वैष्णवं च दुग्धान्नम् ॥ ५.२७ ॥
कृसरं च वैष्णवेयं
यदि नवरात्रं क्रमेण बलिरुक्तः।
तारादिकैर्नमोऽन्तैः
स्वैः स्वैरपि नामभिश्च बलिमन्त्रः ॥ ५.२८ ॥
पात्राणि त्रिविधान्यपि
परितः पुनरष्टदिक्षु बलिक्लृप्तिः।
बीजारोपणकर्म
प्रथितमिदं सार्वकामिकं भवति ॥ ५.२९ ॥
प्रागेव लक्षणयुतानि च मण्टपेऽस्मि
न्कुण्डानि कारयतु सम्यगथो दिशासु।
आखण्डलार्कभववारिपभाधिपानां
दोर्मात्रकाणि विलसद्गुणमेखलानि ॥ ५.३० ॥
चतुरश्रमर्धशशिबिम्बविलसितमथ त्रिकोणकम्।
पद्मदलरुचिरवृत्तमिति ब्रुवते सुधाविधिषु कुण्डलक्षणम् ॥ ५.३१ ॥
विंशद्भिश्चतुरधिकाभिरङ्गलीभिः
सूत्रेणाप्यथ परिसूत्र्य भूमिभागम्।
ताभिश्च प्रखनतु तावतीभिरेकां
त्यक्त्वा चाङ्गुलिमपि मेखलाश्च कार्याः ॥ ५.३२ ॥
सत्त्वपूर्विकगुणान्विताः क्रमा
द्द्वादशाष्टचतुरङ्गुलोच्छ्रिताः।
सर्वतोऽङ्गुलिचतुष्कविस्तृता
मेखलाः सकलसिद्धिदा मताः ॥ ५.३३ ॥
योनिस्तत्पश्चिमस्यामथ दिशि चतुरश्रस्थलारब्धनाळा
तन्मध्योल्लासि रन्ध्रोपरिपरि वितताश्वत्थपत्रानुकारा।
उत्सेधायामकाभ्यां प्रकृतिविकृतिसंज्ञाङ्गुलाष्टाङ्गुला स्या
द्विस्तृत्या द्वादशार्धाङ्गुलमितनमिताग्रा निविष्टेव कुण्डे ॥ ५.३४ ॥
अथवा दिशि कुण्डमुत्तरस्यां
प्रविदध्याच्चतुरश्रमेकमेव।
गदितैरपि लक्षणैः समेता
पघनं दृष्टिमनोहरं च कान्त्या ॥ ५.३५ ॥
ततो मण्टपमध्ये तु स्थण्डिलं गोमयाम्बुना।
उपलिप्य यथान्यायं तस्य मध्ये निधापयेत् ॥ ५.३६ ॥
सूत्रं प्राक् प्रत्यगात्ताग्रं विप्राशीर्वचनैः सह।
गुणितेनाभितो मत्स्यौ मध्यादारभ्य विन्यसेत् ॥ ५.३७ ॥
तन्मध्यस्थितयाम्योदगग्रं सूत्रं निधापयेत्।
ततो मध्यात्सपद्धस्तमानेन च दिशं प्रति ॥ ५.३८ ॥
सूत्रेषु मकरान्न्यस्येत्स्पष्टानन्योन्यतः समात्।
सूत्राग्रमकरेभ्यस्तु न्यसेत्कोणेषु मत्स्यकान् ॥ ५.३९ ॥
कोणमत्स्यस्थिताग्राणि दिक्षु सूत्राणि पातयेत्।
ततो भवेच्चतुष्कोष्ठं चतुरश्रं च मण्डलम् ॥ ५.४० ॥
तत्राग्निमारुतं सूत्रं नैःऋतेशं निपातयेत्।
प्राग्याम्यवारुणोदीच्यसूत्राग्रमकरेषु च ॥ ५.४१ ॥
निहिताग्रयुगं सूत्रं चतुष्कं प्रतिपातयेत्।
कृत एवं भवेयुस्ते कोणकोष्ठेषु मत्स्यकाः ॥ ५.४२ ॥
एषु प्राग्वारुणात्सूत्रान्याम्योदीच्यां निपातयेत्।
षट्पञ्चाशत्पदानि स्युरधिकानि शतद्वयात् ॥ ५.४३ ॥
यदा तदाजो विभजेत्पदानि क्रमशः सुधीः।
पदैः षोडशभिर्मध्ये पद्मं वृत्तत्रयान्वितम् ॥ ५.४४ ॥
तैरष्टचत्वारिंशद्भी राशिः स्याद्वीथ्यशीतिभिः।
सद्वादशैः शतपदैः शोभायुग्द्वारकोणकम् ॥ ५.४५ ॥
द्वाराणि पदषट्काणि शोभाख्याः स्युश्चतुष्पदाः।
चतुष्पदाश्चोपशोभाः षट्पदं कोणकं भवेत् ॥ ५.४६ ॥
वृत्तवीथ्योरारचयेन्मध्ये सूत्रचतुष्टयम्।
प्राग्याम्यवारुणोदीच्यसूत्राग्रमकरेषु च ॥ ५.४७ ॥
निहिताग्रयुगं सूत्रं तद्भवेद्राशिमण्डलम्।
कर्णिकायाः केसराणां दलसंधेर्दलस्य च ॥ ५.४८ ॥
दलाग्रवृत्तराशीनां वीथ्याः शोभोपशोभयोः।
वृत्तानि चतुरश्राणि व्यक्तास्थानानि कल्पयेत् ॥ ५.४९ ॥
भवेन्मण्डलमध्यार्धे कर्णिका चतुरङ्गुला।
त्र्यङ्गुलाः केसराश्च स्युः संधिश्च चतुरङ्गुला ॥ ५.५० ॥
तथा दलानां मानं तदग्रद्व्यङ्गुलकं भवेत्।
अन्तरालं पृथग्वृत्तत्रयस्य द्व्यङ्गुलं भवेत् ॥ ५.५१ ॥
ततश्च राशिचक्रं स्यात्स्वं स्वं वर्णविभूषितम्।
राशिमङ्गुलकैः कुर्यात्षड्भिर्नवभिरेव वा ॥ ५.५२ ॥
द्वात्रिंशदङ्गुलं ह्येतत्परस्तात्तावदिष्यते।
वृत्तचक्रमुशन्त्येके चतुरश्रं च तद्विदः ॥ ५.५३ ॥
यदि वा वर्तुलमराः स्युश्च द्वादशराशयः।
ते स्युः पिपीलिकामध्या मातुलङ्गनिभा अपि ॥ ५.५४ ॥
चक्रं च चतुरश्रं च त्र्यश्रा द्वादशराशयः।
भवेयुः पङ्कजदलनिभा वा कथिता बुधैः ॥ ५.५५ ॥
तद्बही रुचिरान्कुर्याच्चतुरान्कल्पशाखिनः।
ललितान्रूढकुसुमान्फलपल्लवशोभितान् ॥ ५.५६ ॥
जलजैः स्थलजैर्वापि सुमनोभिः समन्वितान्।
हंससारसकारण्डशुकभ्रमरकोकिलैः ॥ ५.५७ ॥
मयूरचक्रवाकाद्यैरारूढविटपानतान्।
सर्वर्तुनिष्कृतिकरान्विलोचनमनोहरान् ॥ ५.५८ ॥
तद्बहिः पार्थिवं कुर्यान्मण्डलं कृष्णकोणकम्।
मण्डलानि तु तत्त्वज्ञो राश्यन्तान्येव कारयेत् ॥ ५.५९ ॥
राशेरन्यत्र रचयेत्प्रमोहादन्यमण्डलम्।
आवाह्य देवतामन्यामर्चयेदन्यदेवताम् ॥ ५.६० ॥
उभाभ्यां लभते शापं मन्त्री तरलदुर्मतिः।
कालात्मकस्य देवस्य राशिव्याप्तिमजानता ॥ ५.६१ ॥
कृतं समस्तं व्यर्थं स्यादज्ञेन ज्ञानमानिना।
तस्मात्सर्वप्रयत्नेन राशीन्साधिपतीन्क्रमात् ॥ ५.६२ ॥
अवगम्यानुरूपाणि मण्डलानि च मान्यधीः।
उपक्रमेदर्चयितुं होतुं वा सर्वदेवताः ॥ ५.६३ ॥
रजांसि पञ्चवर्णानि पञ्चद्रव्यात्मकानि च।
पीतशुक्लारुणशितिश्यामान्येतानि भूतशः ॥ ५.६४ ॥
हारिद्रं स्याद्रजः पीतं तण्डुलं च सितं भवेत्।
तथा दोषा रजःक्षारसंयुक्तं रक्तमुच्यते ॥ ५.६५ ॥
कृष्णं दग्धपुलाकोत्थं श्यामं बिल्वदलादिजम्।
सितेन रजसा कार्याः सीमा रेखा विपश्चिता ॥ ५.६६ ॥
अङ्गुलोत्सेधविस्ताराः सर्वमण्डलकर्मसु।
पीताः स्यात्कर्णिका रक्तशुक्लपीताश्च केसराः ॥ ५.६७ ॥
दलान्यच्छान्यन्तरालं श्यामचूर्णेन पूरयेत्।
सितरक्तासितैर्वर्णैर्वृत्तत्रयमुदीरितम् ॥ ५.६८ ॥
नानावर्णविचित्रा स्युश्चित्राकाराश्च वीथयः।
द्वारशोभोपशोभाश्राः सितरक्तनिशासिताः ॥ ५.६९ ॥
राशिचक्रावशिष्टानि कोणानि श्रृणु यानि वै।
पीठपादानि तानि स्युररुणान्यपि तानि वा।
तत्तत्पादोक्तवर्णानि तत्तदाकारवन्ति वा ॥ ५.७० ॥
अथवारुणानि च दलानि तथा
दलसंधिरप्यसितरुग्भवति।
असितारुणाच्छरजसा
विहितान्यपि वर्तुलानि कथयन्त्यपरे ॥ ५.७१ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे पञ्चमः पटलः ॥