अथ व्यवस्थिते त्वेवमस्य शक्तित्वमिष्यते।
कृतकृत्यस्य जगति सततं रूढसंस्थितेः ॥ ४.१ ॥
प्राणात्मकं हकाराख्यं बीजं तेन तदुद्भवाः।
षडूर्मयः स्यू रेफोत्था गुणाश्चत्वार एव च ॥ ४.२ ॥
पवनाद्याः पृथिव्यन्ताः स्पर्शाद्यैश्च गुणैः सह।
करणान्यपि चत्वारि सङ्घातश्चेतनेति च ॥ ४.३ ॥
ईकारस्य गुणाः प्रोक्ताः षडिति क्रमतो बुधैः।
ऊकारान्तास्त्वकाराद्याः षड्वर्णाः षडभ्य एव तु ॥ ४.४ ॥
प्रभेदेभ्यः समुत्पन्ना हकारस्य महात्मनः।
ऋकाराद्यास्तु चत्वारो रेफोत्था लृपराः स्मृताः ॥ ४.५ ॥
एकारादिविसर्गान्तं वर्णानां षट्कमुद्गतम्।
ईकारस्य षडङ्गेभ्य इतीदं षोडशांशवत् ॥ ४.६ ॥
येभ्यः संजज्ञिरेंशेभ्यः स्वराः षोडश सर्वगाः।
तेभ्यो वर्णान्तराः सर्वे ततो मूलमिदं विदुः ॥ ४.७ ॥
गतो वो बीजतामेष प्राणिष्वेव व्यवस्थितः।
ब्रह्माण्डं ग्रस्तमेतेन व्याप्तस्थावरजङ्गमम् ॥ ४.८ ॥
नादः प्राणश्च जीवश्च घोषश्चेत्यादि कथ्यते।
एष पुंस्त्रीनियमितैर्लिङ्गैश्च सनपुंसकैः ॥ ४.९ ॥
रेफो मायाबीजमिति त्रिधा समभिधीयते।
शक्तिः श्रीः संनतिः कान्तिर्लक्ष्मीर्मेधा सरस्वती ॥ ४.१० ॥
क्षान्तिः पुष्टिः स्मृतिः शान्तिरित्याद्यैः स्वार्थवाचकैः।
नानाविकारतां प्राप्तैः स्वैः स्वैर्भावैर्विकल्पितैः ॥ ४.११ ॥
तामेनां कुण्डलीत्येते सन्तो हृदयगां विदुः।
सा रौति सतत देवी भृङ्गी संगीतकध्वनिः ॥ ४.१२ ॥
आकृतिं स्वेन भावेन पिण्डितां बहुधा विदुः।
कुण्डली सर्वथा ज्ञेया सुषुम्नानुगतैव सा ॥ ४.१३ ॥
चराचरस्य जगतो बीजत्वान्मूलमेव तत्।
मूलस्य बिन्दुयोगेन शतानन्द त्वदुद्भवः ॥ ४.१४ ॥
रेफान्वितेकाराकारयोगादुत्पत्तिरेतयोः।
हंकाराख्यो भवांस्तेन हरिरित्येष शब्द्यते ॥ ४.१५ ॥
हरत्वमस्य तेनैव सर्वात्मत्वं ममापि च।
अस्य बिन्दोः समुद्भूत्या तदन्तो हं स उच्यते ॥ ४.१६ ॥
स हंकारः पुमान्प्रोक्तः स इति प्रकृतिः स्मृता।
अजपेयं मता शक्तिस्तथा दक्षिणवामगा ॥ ४.१७ ॥
बिन्दुर्दक्षिणभागस्तु वामभागो विसर्गकः।
तेन दक्षिणवामाख्यौ भानौ पुंस्त्रीविशेषितौ ॥ ४.१८ ॥
बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिर्मता।
पुंप्रकृत्यात्मको हंसस्तदात्मकमिदं जगत् ॥ ४.१९ ॥
पुंरूपं सा विदित्वा स्वं सोऽहंभावमुपागता।
स एष परमात्माख्यो मनुरस्य महामनोः ॥ ४.२० ॥
सकारं च हकारं च लोपयित्वा प्रयोजयेत्।
संधिं वै पूर्वरूपाख्यं ततोऽसौ प्रणवो भवेत् ॥ ४.२१ ॥
ताराद्विभक्ताच्चरमांशतः स्यु
र्भूतानि खादीन्यथ मध्यमांशात्।
इनादितेजांसि च पूर्वभागा
च्छब्दाः समस्ताः प्रभवन्ति लोके ॥ ४.२२ ॥
एवमेषा जगत्सूतिः सवितेत्यभिधीयते।
यदा तदैति स्वैस्तत्त्वैश्चतुर्विंशतिधा भिदाम् ॥ ४.२३ ॥
तद्वर्णभिन्ना गायत्री गायकत्राणनाद्भवेत्।
सप्तग्रहात्मिका प्रोक्ता यदेयं सप्तभेदिनी ॥ ४.२४ ॥
तदा स्वरेशः सूर्योऽयं कवर्गेशस्तु लोहितः।
चवर्गप्रभवः काव्यष्टवर्गाद्बुधसंभवः ॥ ४.२५ ॥
तवर्गोत्थः सुरगुरुः पवर्गोत्थः शनैश्चरः।
यवर्गजोऽयं शीतांशुरिति सप्तगुणा त्वियम् ॥ ४.२६ ॥
यथा स्वरेभ्यो नान्ये स्युर्वर्णाः षड्वर्गभेदिताः।
तथा सवित्रनुस्यूतं गृहषट्कं न संशयः ॥ ४.२७ ॥
इति संलीनसूर्यांशे वर्गषट्के तु षड्गुणाः।
हृल्लेखेयं तथा यन्त्रं स्मर्यते स्मृतिकोविदैः ॥ ४.२८ ॥
सर्वव्याप्ता हि सा शक्तिः शश्वद्भास्कररूपिणी।
स्वभासा क्रमते यत्र तत्रास्या स्थितिरिष्यते ॥ ४.२९ ॥
अस्यास्तु रजसा चैव तमसा च दिवानिशम्(?)।
सत्त्वावष्टब्धबिन्द्वात्मा मेरुं चरति भास्करः ॥ ४.३० ॥
अस्या विकाराद्वर्णेभ्यो जाता द्वादशराशयः।
लवादिकालोपचितैस्तैः स्याच्चक्रगतिस्त्रिधा ॥ ४.३१ ॥
ऋक्षराश्यादियुतया चक्रगत्या जगत्स्थितिः।
वक्ष्यामि चक्ररूपं च प्रबन्धं राशिभिर्यथा ॥ ४.३२ ॥
अन्तर्बहिर्विभागेन रचयेद्राशिमण्डलम्।
भूचक्र एष मेषादिः प्रविज्ञेयोऽथ मानुषः ॥ ४.३३ ॥
आद्यैर्मेषाह्वयो राशिरीकारान्तैः प्रजायते।
ऋकारान्तैरुकाराद्यैर्वृषो युग्मं ततस्त्रिभिः ॥ ४.३४ ॥
एदैतोः कर्कटो राशिरोदौतोः सिंहसंभवः।
अमः शवर्गलेभ्यश्च संजाता कन्यका मता ॥ ४.३५ ॥
षड्भ्यः कचटतेभ्यश्च पयाभ्यां च प्रजज्ञिरे।
वणिगाद्यास्तु मीनान्ता राशयः शक्तिजृम्भणात् ॥ ४.३६ ॥
चतुर्भिर्यादिभिः सार्धं स्यात्क्षकारस्तु मीनगः।
स्यातामर्धाधिके पञ्चनाडिकौ चापकर्कटौ ॥ ४.३७ ॥
पादाधिका मकरयुक्िंसहवृश्चिकसंज्ञकाः।
पादोनौ कुम्भवृषभौ वणिक्कन्ये च पञ्चके ॥ ४.३८ ॥
त्रिपादोनौ मीनमेषौ संख्योक्ता राशिसंश्रिता।
चापनीरजयुक्कन्याः पीताः स्युरुभयास्त्वमी ॥ ४.३९ ॥
वणिङ्मकरमेषाह्वकुलीरा रक्तरोचिषः।
चरावशिष्टाश्चत्वारः स्थिराः श्वेताः पृथङ्मताः ॥ ४.४० ॥
स्युः कर्कटो वृश्चिकमीनराशी
विप्रा नृपाः सिंहकधन्वमेषाः।
तुला सकुम्भा मिथुनं च वैश्याः
कन्या वृषोऽथो मकरश्च शूद्राः ॥ ४.४१ ॥
अङ्गारावजवृश्चिकौ वृषतुले शुक्रस्य युक्कन्यके
बौधे कर्कटकाह्वयो हिमरुचः सिंहस्तथा गोपतेः।
चापाब्जावपि धैषणौ मकरकुम्भाख्यौ च मान्दौ ग्रहाः
प्रोक्ता राश्यधिपा बलौ च कलशे सोऽयं क्रमो दर्शितः ॥ ४.४२ ॥
लग्नो धनभ्रातृबन्धुपुत्रशत्रुकलत्रकाः
मरणं धर्मकर्मायव्यया द्वादशराशयः ॥ ४.४३ ॥
ततस्तदूर्ध्वभागस्थो भुवश्चक्रः समस्तथा।
स तु सिंहादिको यस्मिन्पैतृकी नियता गतिः ॥ ४.४४ ॥
तदूर्ध्वभागसंस्थः स्यात्स्वश्चक्रश्चापि तादृशः।
स तु चापादिको दैवश्चक्रस्त्रैनाभिकस्त्वयम् ॥ ४.४५ ॥
धनुस्तु देवलग्नत्वात्समासाल्लग्नमुच्यते।
वेध्या धनुर्मेषसिंहमकरर्षभकन्यकाः ॥ ४.४६ ॥
सकुम्भयुग्मवणिजो मीनकर्कटवृश्चिकाः।
अयं तु राशिवेधः स्यादतो वेधस्तु भात्मकः ॥ ४.४७ ॥
मूलाश्िवनीमघज्येष्ठारेवत्याश्लेषकास्तथा।
याम्यपूर्वानुपूर्वाहिर्बुध्निपुष्यानुराधकाः ॥ ४.४८ ॥
स्वातीशतभिषार्द्रा च श्रोणारोहिणिहस्तकाः।
पादं पादत्रये बुध्याद्योजयेदर्धमर्धकैः ॥ ४.४९ ॥
चरस्थिरोभयात्मानश्चातुर्वर्ण्यगुणात्मकाः।
राशिं राश्यधिपास्त्वेवं बुध्युर्वेधविधानतः ॥ ४.५० ॥
एभ्य एव तु राशिभ्यो नक्षत्राणां च संभवः।
स चाप्यक्षरभेदेन सप्तविंशतिधा भवेत् ॥ ४.५१ ॥
आभ्यामश्वयुगेर्जाता भरणी कृत्तिका पुनः।
लिपित्रयाद्रोहिणी च तत्परस्ताच्चतुष्टयात् ॥ ४.५२ ॥
एदैतोर्मृगशीर्षार्द्रे तदन्ताभ्यां पुनर्वसू।
अमसोः केवलो योगो रेवत्यर्थं पृथग्गतः ॥ ४.५३ ॥
कतस्तिष्यस्तथाश्लेषा खगयोर्घङयोर्मघाः।
चतः पूर्वाथ छजयोरुत्तरा झञयोस्तथा ॥ ४.५४ ॥
हस्तश्चित्रा च टठयोः स्वाती डादक्षरादभूत्।
विशाखास्तु ढणोद्भूतास्तथा देऽभ्योऽनुराधकाः ॥ ४.५५ ॥
ज्येष्ठा धकारान्मूलाख्यो नपफेभ्यो बतस्तथा।
पूर्वाषाढा भूतोऽन्या च संजाता श्रवणो मतः ॥ ४.५६ ॥
श्रविष्ठा चापि यरयोस्तथा शतभिषग्लतः।
वशयोः प्रोष्ठपात्संज्ञा षसहेभ्यः परा स्मृता ॥ ४.५७ ॥
ताभ्याममोभ्यां लार्णोऽयं यदा वै सह वत्स्यते।
तदेन्दुसूर्ययोर्योगादमावास्या प्रतीयते ॥ ४.५८ ॥
कषतो भुवनं मत्तः कषयोः संगमो भवेत्।
ततः क्षकारः संजातो नृसिंहस्तस्य देवता ॥ ४.५९ ॥
स पुनः षसहैः सार्धं परप्रोष्ठपदं गतः।
कारस्कराख्यामलकोदुंबरो जम्बुसंज्ञकः ॥ ४.६० ॥
खदिरः कृष्णवंशौ च पिप्पलो नागरोहिणौ।
पलाशः प्लक्षकाम्बष्ठबिल्वार्जुनविकङ्कताः ॥ ४.६१ ॥
वकुलः शबरः सर्जो वञ्जुलः पनसार्ककौ।
शमीकदम्बनिम्बाम्रौ मधूकान्ता दिनाङ्घ्रिपाः ॥ ४.६२।
आयुष्कामः स्वकं वृक्षं छेदयेन्न कदाचन।
सेचयेद्वर्धयेच्चापि पूजयेत्प्रणमेदपि ॥ ४.६३ ॥
तिथिनक्षत्रवारेषु स्वेषु मन्त्रजपो वरः।
तस्मादेषां दिनादीनां वक्ष्यन्ते देवता अपि ॥ ४.६४ ॥
अश्िवयमानलधाता शशिरुद्रादितिसुरेड्यसर्पाश्च
पित्रर्यमभगदिनकृत्त्वष्टारो मारुतस्तथेन्द्राग्नी।
मित्रेन्द्रौ निःऋतिर्जालेः विश्वे देवा हरिस्तथा वसवः
वारुणोऽजैकपादहिर्बुध्निः पूषा च देवता भानाम् ॥ ४.६५ ॥
अश्वेभाजभुजङ्गसर्पसरमा मार्जारकाजा बिली
मूषा मूषिकरुद्रयानमहिषी व्याघ्रो यमारोहणम्।
व्याघ्र्यैणी हरिणी श्ववानरपशुः शाखामृगी स्त्री हयो
मर्त्यो गौः करिणीति साधु कथिता नक्षत्रयोन्यः क्रमात् ॥ ४.६६ ॥
एभ्योऽमावास्यान्ता
वर्तन्ते प्रतिपदादिकास्तिथयः।
राशिभ्योऽथ तिथीना
मध्यर्धयुगं तु राशिरेकं स्यात् ॥ ४.६७ ॥
तेन त्रिंशत्तिथयो
द्वादशधा वर्णतो भिन्नाः।
ता एव स्युर्द्विविधाः
पुनरपि पूर्वान्त्यपक्षभेदेन ॥ ४.६८ ॥
पक्षः पञ्चदशाहः
स्यात्पूर्वः प्रतिपदादिकः शुक्लः।
तद्वज्ज्ञेयोऽप्यपरः
कृष्णः प्रतिपदादिकः प्रोक्तः ॥ ४.६९ ॥
संज्ञासाम्ये सत्यपि
सौम्यात्तु ह्रासवृद्धितस्तिथयः।
न समाः पक्षद्वितये
त्रिंशद्भेदास्तथा हि संप्रोक्ताः ॥ ४.७० ॥
अग्न्यश्व्युमा सविघ्ना
नागा गुहसवितृमातरो दुर्गा।
ककुभो धनपतिविष्णू
यमहरचन्द्राः क्रमेण तिथ्यधिपाः ॥ ४.७१ ॥
राशिभ्यः सदिनेभ्यः स
तिथिभ्यः शक्तिजृम्भणसमुत्थानात्।
अक्षरभेदविकारा
त्करणान्यपि सप्तभेदकान्यभवन् ॥ ४.७२ ॥
सिंहव्याघ्रवराहाः
खरगजवृषकुक्कुटाः प्रतिपदर्धात्।
अन्त्यां तिथ्यर्धेऽर्धे
तिष्ठन्त्याः कृष्णगोश्चतुर्दश्याः ॥ ४.७३ ॥
एवं संग्रहराशिक
दिनतिथिकरणप्रभेदकाः कथिताः।
अस्मात्पञ्चविभेदा
द्विज्ञेया पञ्चवर्णनिष्पत्तिः ॥ ४.७४ ॥
वर्णाः पीतश्वेता
रुणासितश्यामकास्तथा क्वाद्याः।
इति मूलाक्षरविकृतिं
कथितमिदं वर्णविकृतिबाहुल्यम् ॥ ४.७५ ॥
सचराचरस्य जगतो
मूलत्वान्मूलतास्य बीजस्य ॥ ४.७६ ॥
यां ज्ञात्वा सकलमपास्य कर्मबन्धं
तद्विष्णोः परमपदं प्रयाति लोकः।
तामेनां त्रिजगति जन्तुजीवभूतां
हृल्लेखां जपत च नित्यमर्चयीत ॥ ४.७७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे चतुर्थः पटलः ॥