०३

अथोभयात्मका वर्णाः स्युरग्नीषोमात्मभेदतः।
त एव स्युस्त्रिधा भूयः सोमेनाग्निविभागशः ॥ ३.१ ॥

स्वराख्याः षोडश प्रोक्ताः स्पर्शाह्वाः पञ्चविंशतिः।
व्यापकाश्च दशैते स्युः सोमेनाग्न्यात्मकाः क्रमात् ॥ ३.२ ॥

एषु स्वरा ह्रस्वदीर्घभेदेन द्विविधा मताः।
पूर्वो ह्रस्वः परो दीर्घो बिन्दुसर्गान्तिकौ च तौ ॥ ३.३ ॥

आद्यन्तस्वरषट्कस्य मध्यगं यच्चतुष्टयम्।
वर्णानामागमधनैस्तन्नपुंसकमीरितम् ॥ ३.४ ॥

तच्चतुष्कं सुषुम्नास्थे कुर्यात्प्राणेऽयनस्थितिम्।
दक्षोत्तरस्थे प्राणाख्ये स्यातां दक्षोत्तरायणे ॥ ३.५ ॥

दक्षः सव्यस्थिते ह्रस्वदीर्घाः पञ्चोदयन्ति च।
भूतभूतकलाभिस्तदुदयः प्रागुदीरितः ॥ ३.६ ॥

बिन्दुसर्गौ तु यौ प्रोक्तौ तौ सूर्यशशिनौ क्रमात्।
तयोर्विकारविस्तारः परस्तात्संप्रवक्ष्यते ॥ ३.७ ॥

स्पर्शाख्या अपि ये वर्णाः पञ्चपञ्चविभेदतः।
भवन्ति पञ्चवर्गास्तदन्त्य आत्मा रविः स्मृतः ॥ ३.८ ॥

चतुर्विंशतितत्त्वस्थास्तस्माद्वर्णाः परे क्रमात्।
तेन स्पर्शाह्वयाः सौराः प्राणाग्नीळाम्बुखात्मकाः ॥ ३.९ ॥

व्यापकाश्च द्विवर्गाः स्युस्तथा पञ्चविभेदतः।
शशीनाग्न्युत्थिता यस्मात्स्वरस्पृग्व्यापकाक्षराः ॥ ३.१० ॥

तत्ित्रभेदसमुद्भूता अष्टत्रिंशत्कलाः स्मृताः।
स्वरैः सौम्याः स्पर्शयुग्मैः सौरा याद्यैश्च वह्निजाः ॥ ३.११ ॥

षोडशद्वादशदशसंख्याः स्युः क्रमशः कलाः।
वर्णेभ्य एव तारस्य पञ्चभेदैस्तु भूतगैः ॥ ३.१२ ॥

सर्वगाश्च समुत्पन्नाः पञ्चाशत्संख्यकाः कलाः।
ताभ्य एव तु तावत्यः शक्तिभिर्विष्णुमूर्तयः ॥ ३.१३ ॥

तावत्यो मातृभिः सार्धं तेभ्यः स्यू रुद्रमूर्तयः।
तेभ्य एव तु पञ्चाशत्स्युरोषधय ईरिताः ॥ ३.१४ ॥

याभिस्तु मन्त्रिणः सिद्धिं प्राप्नुयुर्वाञ्छितार्थदाम्।
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ॥ ३.१५ ॥

शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गना।
पूर्णापूर्णामृताकामदायिन्यः सस्वराः कलाः ॥ ३.१६ ॥

तपिनी तापिनी धूम्रा मरीची ज्वालिनी रुचिः।
सुषुम्नाभोगदाविश्वाबोधिनीधारिणीक्षमाः ॥ ३.१७ ॥

कामाद्या वसुदाः सौराः षडान्ता द्वादशेरिताः।
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विष्फुलिङ्गिनी ॥ ३.१८ ॥

सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि।
याद्यर्णयुक्ता वह्न्युत्था दश धर्मप्रदाः कलाः ॥ ३.१९ ॥

सृष्टि ऋद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्द्युतिः स्थिरा।
स्थितिः सिद्धिरकारोत्थाः कला दश समीरिताः ॥ ३.२० ॥

अकारप्रभवा ब्रह्मजाताः स्युः सृष्टये कलाः।
जरा च पालिनी शान्तिरैश्वरी रतिकामिके ॥ ३.२१ ॥

वरदा ह्लादिनी प्रीतिर्दीर्घा चोकारजाः कलाः।
उकारप्रभवा विष्णुजाताः स्युः स्थितये कलाः ॥ ३.२२ ॥

तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुत्क्रोधिनी क्रिया।
उत्कारी चैव मृत्युश्च मकाराक्षरजाः कलाः ॥ ३.२३ ॥

मकारप्रभवा रुद्रजाताः संहृतये कलाः।
बिन्दोरपि चतस्रः स्युः पीतश्वेतारुणाः सिताः ॥ ३.२४ ॥

निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च।
इन्धिका दीपिका चैव रेचिका गोचिका परा ॥ ३.२५ ॥

सूक्ष्मा सूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा।
व्यापिनी व्योमरूपा चेत्यनन्ता नादसंभवाः ॥ ३.२६ ॥

नादजाः षोडश प्रोक्ता भुक्तिमुक्तिप्रदायकाः।
केशवनारायणमाधवगोविन्दविष्णवः ॥ ३.२७ ॥

मधुसूदनसंज्ञश्च सप्तमः स्यात्ित्रविक्रमः।
वामनः श्रीधरश्चैव हृषीकेशस्त्वनन्तरः ॥ ३.२८ ॥

पद्मनाभस्तथा दामोदराह्वो वासुदेवयुक्।
संकर्षणश्च प्रद्युम्नः सानिरुद्धः स्वरोद्भवाः ॥ ३.२९ ॥

ततश्चक्री गदी शार्ङ्गी खङ्गी शङ्खी हली तथा।
मुसली शूलिसंज्ञश्च भूयः पाशी च साङ्कुशी ॥ ३.३० ॥

मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः।
कृष्णः सत्यः सात्वतश्च शौरिः शूरो जनार्दनः ॥ ३.३१ ॥

भूधरो विश्वमूर्तिश्च वैकुण्ठः पुरुषोत्तमः।
बली बलानुजो बालो वृषघ्नश्च वृषस्तथा ॥ ३.३२ ॥

हंसो वराहो विमलो नृसिंहो मूर्तयो हलाम्।
कीर्तिः कान्तिस्तुष्टिपुष्टी धृतिः क्षान्तिः क्रिया दया ॥ ३.३३ ॥

मेधा च हर्षा श्रद्धाह्वा लज्जा लक्ष्मीः सरस्वती।
प्रीती रतिश्च संप्रोक्ताः क्रमेण स्वरशक्तयः ॥ ३.३४ ॥

जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी।
विजया विरजा विश्वा विनदा सुनदा स्मृतिः ॥ ३.३५ ॥

ऋद्धिः समृद्धिः शुद्धिश्च बुद्धिर्भक्तिर्मतिः क्षमा।
रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधापरा ॥ ३.३६ ॥

परा परायणा सूक्ष्मा संध्या प्रज्ञा प्रभा निशा।
अमोधा विद्युता चेति मूर्त्याद्याः सर्वकामदाः ॥ ३.३७ ॥

एकपञ्चाशदुद्दिष्टा नमोऽन्ता वर्णपूर्विकाः।
सधातुप्राणशक्त्यात्मयुक्ता यादिषु मूर्तयः ॥ ३.३८ ॥

श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः।
अर्घीशो भारभूतिश्च स्थितीशः स्थाणुको हरः ॥ ३.३९ ॥

झण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः।
अक्रूरश्च महासेनः स्युरेताः स्वरमूर्तयः ॥ ३.४० ॥

ततः क्रोधीशचण्डीशपञ्चान्तकशिवोत्तमाः।
तथैकरुद्रकूर्मैकनेत्राह्वचतुराननाः ॥ ३.४१ ॥

अजेशशर्वसोमेशास्तथा लाङ्गलिदारुकौ।
अर्धनारीश्वरश्चोमाकान्तश्चाषाढिदण्डिनौ ॥ ३.४२ ॥

अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा।
छगलण्डद्विरण्डौ च समहाकालचालिनौ ॥ ३.४३ ॥

भुजङ्गेशः पिनाकी च खङ्गीशश्च बकस्तथा।
श्वेतो भृगुश्च लकुलिः शिवः संवर्तकः स्मृतः ॥ ३.४४ ॥

पूर्णोदरी च विरजा तृतीया शाल्मली तथा।
लोलाक्षी वर्तुलाक्षी च दीर्घघोणा तथैव च ॥ ३.४५ ॥

सुदीर्घमुखिगोमुख्यौ नवमी दीर्घजिह्विका।
कुण्डोदर्यूर्ध्वकेशी च मुखी विकृतपूर्विका ॥ ३.४६ ॥

सज्वालोल्कश्रियाविद्यामुख्यः स्युः स्वरशक्तयः।
महाकालीसरस्वत्यौ सर्वसिद्धिसमन्विता ॥ ३.४७ ॥

गीरी त्रैलोक्यविद्या च तथा मन्त्रार्णशक्तिका।
भूतमाता लम्बोदरी द्राविणी नागरी तथा ॥ ३.४८ ॥

खेचरी मञ्जरी चैव रूपिणी वीरिणी तथा।
कोदरी पूतना भद्रकालीयोगिन्य एव च ॥ ३.४९ ॥

शङ्खिनी गर्जिनी कालरात्री कुर्दिन्य एव च।
कपर्दिनी तथा वज्रा जया च सुमुखेश्वरी ॥ ३.५० ॥

रेवती माधवी चैव वारुणी वायवी तथा।
रक्षोऽवधारिणी चान्या तथैव सहजाह्वया ॥ ३.५१ ॥

लक्ष्मीश्च व्यापिनी मायेत्याख्याता वर्णशक्तयः।
इत्युक्तस्त्रिविधो न्यासः क्रमात्सर्वसमृद्धिदः ॥ ३.५२ ॥

चन्दनकुचन्दनागरुकर्पूरोशीररोगजलघुसृणाः।
तक्कोलजातिमांसीमुरचोरग्रन्धिरोचनापत्राः ॥ ३.५३ ॥

पिप्पलबिल्वगुहारुणतृणकलवङ्काह्वकुम्भिवन्दिन्यः।
सौदुम्बरीकाष्मरिकास्थिराब्जदरपुष्पिकामयूरशिखाः ॥ ३.५४ ॥

प्लक्षाग्निमन्थसिह्मीकुशाह्वदर्भाश्च कृष्णदरपुष्पी।
रोहिणडुण्डुमबृहतीपाटलचित्रातुलस्यपामार्गाः ॥ ३.५५ ॥

शतमखलताद्विरेफो विष्णुक्रान्ती मुसल्यथाञ्जलिनी।
दूर्वा श्रीदेविसहे तथैव लक्ष्मी सदाभद्रे ॥ ३.५६ ॥

आदीनामिति कथिता वर्णानां क्रमवशादथौषधयः।
गुलिकाकषायभस्मप्रभेदतो निखिलसिद्धिदायिन्यः ॥ ३.५७ ॥

यथा भवन्ति देहान्तरमी पञ्चाशदक्षराः।
येन येन प्रकारेण तथा वक्ष्यामि तत्त्वतः ॥ ३.५८ ॥

समीरिताः समीरेण सुषुम्नारन्ध्रनिर्गताः।
व्यक्तिं प्रयान्ति वदने कण्ठादिस्थानघट्टिताः ॥ ३.५९ ॥

उच्चैरुन्मार्गगो वायुरुदात्तं कुरुते स्वरम्।
नीचैर्गतोऽनुदात्तं च तिर्यक् स्वरितविस्तृतिः ॥ ३.६० ॥

अर्धैकद्वित्रिसंख्याभिर्मात्राभिर्लिपयः क्रमात्।
सव्यञ्जना ह्रस्वदीर्घप्लुतसंज्ञा भवन्ति ताः ॥ ३.६१ ॥

अकारेकारयोर्योगादेकारो वर्ण इष्यते।
तस्यैवैकारयोगेन स्यादैकाराक्षरस्तथा ॥ ३.६२ ॥

उकारयोगात्तस्यैव स्यादोकाराह्वयोऽक्षरः।
तस्यैवौकारयोगेन स्यादौकाराक्षरस्तथा ॥ ३.६३ ॥

संध्यक्षराः स्युश्चत्वारो मन्त्राः सर्वार्थसाधकाः।
लृवर्णर्वर्णयोर्व्यक्तिर्लरोः सम्यक् प्रदृश्यते ॥ ३.६४ ॥

बिन्दुसर्गात्मनोर्व्यक्तिममसोरजपा वदेत्।
कण्ठात्तु निःसरन्सर्गः प्रायोऽचामेकतः परः ॥ ३.६५ ॥

नश्वरः सर्ग एव स्यात्सोष्मा सप्राणकस्तु हः।
स सर्गः श्लेषितः कण्ठे वायुनाकादिमीरयेत् ॥ ३.६६ ॥

सर्गस्पर्शनमात्रेण कं खरस्पर्शनात्तु खम्।
स्तोकगम्भीरसंस्पर्शाद्गघौ ङश्च बहिर्गतः ॥ ३.६७ ॥

ससर्गस्तालुगः सौष्म्यः श च वर्गं च यं तथा।
ऋटुरेफषकारांश्च मूर्धगो दन्तगस्तथा ॥ ३.६८ ॥

लृतवर्गलसानोष्ठादुपूपध्मानसज्ञकान्।
दन्तोष्ठाभ्यां च वं तत्तत्स्थानगोऽर्णान्समीरयेत् ॥ ३.६९ ॥

ह्रस्वाः पञ्च परे च संधिविकृताः पञ्चाथ बिन्द्वन्तिकाः

काद्याः प्राणहुताशभूकखमया याद्याश्च शार्णान्तिकाः।

हान्ताः षक्षळसाः क्रमेण कथिता भूतात्मकास्ते पृथ
क्तैस्तैः पञ्चभिरेव वर्णदशकैः स्युः स्तम्भनाद्याः क्रियाः ॥ ३.७० ॥

ऊदद्गादिलळाः कोर्णसौ चतुर्थार्णकावसौवारः।
दृष्ट्यैव द्वितीयरक्षा वह्नेरद्वन्द्वयोनिकादिवर्षाः ॥ ३.७१ ॥

मरुतः कपोलबिन्दुकपञ्चमवर्णाः शहौ तथा व्योम्नः।
मनुषु परेष्वपि मन्त्री करोतु कर्माणि तस्य संसिध्यै ॥ ३.७२ ॥

स्तम्भनाद्यमथ पार्थिवैरपा
मक्षरैश्च परिवर्षणादिकम्।
दाहशोषणसशून्यतादिका
न्वह्निवायुवियदुत्थितैश्चरेत् ॥ ३.७३ ॥

दशभिर्दशभिरमीभि

र्नमोऽन्तिकैर्द्वन्द्वशश्च बिन्दुयुतैः।

योनेर्मध्ये कोण
त्रितये मध्ये च संयजेन्मन्त्री ॥ ३.७४ ॥

पूर्वोक्ताद्बिन्दुमात्रात्स्वयमथ रवतन्मात्रतामभ्युपैता

कारादीन्द्व्यष्टकादीनपि तदनुगतान्पञ्चविंशत्तथैव।

यादीन्संयुक्तधातूनपि गुणसहितैः पञ्चभूतैश्च ताभि
स्तन्मात्राभिर्व्यतीत्य प्रकृतिरथ हसंज्ञा भवेद्व्याप्य विश्वम् ॥ ३.७५ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे तृतीयः पटलः ॥