०२

अथ व्यवस्थिते त्वेवं मासात्पक्षाद्दिनादपि।
मुहूर्तान्नाडिकायाश्च क्षणादपि च वर्धते ॥ २.१ ॥

जन्तुः षडङ्गी पूर्वं स्याच्छिरः पादौ करावपि।
अन्तराधिश्चेति पुनः षडङ्गेषु प्रवर्तते ॥ २.२ ॥

अक्षिनासास्यकर्णभ्रूकपोलचिबुकादिकम्।
प्रकोष्ठकोर्परांसाद्यं कट्यूरूप्रपदादिकम् ॥ २.३ ॥

उरः कुक्षिस्तनाद्यं च ततः सर्वाङ्गवान्विभुः।
कालेन जन्तुर्भवति दोषास्त्वनुगुणा यदि ॥ २.४ ॥

प्रसूतिसमये सोऽथ जनित्रीं क्लेशयन्मुहुः।
संवृतास्यसुषुम्नाख्योऽवाङ्मुखोऽनिलचोदितः ॥ २.५ ॥

तस्यां ग्रहिण्यां शकृतिमग्नवक्त्राक्षिनासिकः।
पुराकृतानां पापानामयुतं संस्मरन्मुहुः ॥ २.६ ॥

तस्याः कायाग्निना दग्धः क्लेदैः क्लिन्नाङ्गबन्धनः।
प्रत्युद्गारपरीतश्च तत्पायुद्वारगोचरः ॥ २.७ ॥

तदा प्रक्षुभितैः स्वीयवायुभिर्दशतां गतैः।
संपिण्डितशरीरस्तु मोक्षमेव किलेच्छति ॥ २.८ ॥

प्राणाद्या वायवस्तत्र पूर्वमेव कृतास्पदाः।
परस्परमपानश्च प्राणश्च प्रतिबध्यते ॥ २.९ ॥

प्रयात्यूर्ध्वं यदा प्राणस्तदापानोऽप्यधस्तथा।
यदा समानः कायाग्निं संधुक्षयति पाचितुम् ॥ २.१० ॥

तदा तत्पाकमुक्तं तु रसमादाय धावति।
व्यानो जन्तोस्तु तद्देहमापादतलमस्तकम् ॥ २.११ ॥

उदानः प्राणसहितो निमेषोन्मेषकारकः।
उद्गारकारको नाग उन्मीलयति कूर्मकः ॥ २.१२ ॥

क्षुतकृत्कृकलो देवदत्तो जृम्भणकर्मकृत्।
धनंजयाख्यो देहेऽस्मिन्कुर्याद्बहुविधान्नवान् ॥ २.१३ ॥

स तु लौकिकवायुत्वान्मृतं च न विमुञ्चति।
इत्यमी मारुताः प्रोक्ता दश देहाधिगामिनः ॥ २.१४ ॥

वह्नयश्च दशान्ये स्युस्तेषां सप्त तु धातुगाः।
त्रयस्त्रिदोषगाः प्रोक्ताः स्वेदक्लेदान्त्रगाश्च ते ॥ २.१५ ॥

त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः।
ते दूष्याः कफपित्तेरा दोषास्तत्प्रेरको मरुत् ॥ २.१६ ॥

समवायी स विश्वात्मा विश्वगो विश्वकर्मकृत्।
स दोषो वा स वा दूष्यः क्रियातः संप्रधार्यते ॥ २.१७ ॥

बुभुक्षा च पिपासा च शोकमोहौ जरामृती।
षडूर्मयः प्राणबुद्धिदेहधर्मे व्यवस्थिताः ॥ २.१८ ॥

मज्जास्थिस्नायवः शुक्लाद्रक्तात्त्वङ्मांसशोणिताः।
इति षाट्कौशिकं नाम देहे भवति देहिनाम् ॥ २.१९ ॥

रसादितः क्रमात्पाकः शुक्लान्तेषु तु धातुषु।
शुक्लपाकात्स्वयं भिद्येदोजो नामाष्टमी दशा ॥ २.२० ॥

क्षेत्रज्ञस्य तदोजस्तु केवलाश्रयमिष्यते।
यथा स्नेहः प्रदीपस्य यथाभ्रमशनित्विषः ॥ २.२१ ॥

बहुद्वारेण कुम्भेन संवृतस्य हविर्भुजः।
यथा तेजः प्रसरति समीपालोकशक्तिमत् ॥ २.२२ ॥

तथा देहावृतस्यापि क्षेत्रज्ञस्य महात्विपः।
इन्द्रियैः संप्रवर्तन्ते स्वं स्वमर्थग्रहं प्रति ॥ २.२३ ॥

नभः श्रोत्रेऽनिलश्चर्मण्यग्निश्चक्षुष्यथो रसः।
जिह्वायामवनिर्घ्राण इत्थमर्थप्रवर्तनम् ॥ २.२४ ॥

यदा पित्तं मरुन्नुन्नं विलीनं प्रविलापयेत्।
धातूंस्तदा क्रमाद्रक्तं लसीकां द्रावयेत्क्षणात् ॥ २.२५ ॥

द्रुता सा तु लसीकाह्वा रोमकूपैः प्रवर्तते।
बहिः सर्वत्र कणशस्तदा स्वेदः प्रतीयते ॥ २.२६ ॥

यदा कफो मरुत्पित्तं नुन्नोमीन(?) प्रवर्तते।
ऊर्ध्वीभूतं दृढो बाष्पं प्रसेकं च प्रवर्तयेत् ॥ २.२७ ॥

कफात्मिकास्तु विकृतीः कर्मशष्कुलिपूर्विकाः।
गण्डमालादिका वापि कुर्याज्जन्तोस्तु कर्मजाः ॥ २.२८ ॥

ग्रहणी नाम सा पात्री प्रसृताञ्जलिसंनिभा।
अधस्तस्याः प्रधानाग्निः स समानेन नुद्यते।२.२९ ॥

तस्याधस्तात्ित्रकोणाभं ज्योतिराधारमुत्तमम्।
विद्यते स्थानमेतद्धि मूलाधारं विदुर्बुधाः ॥ २.३० ॥

अथाहृतं षड्रसं वाप्याहारं कण्ठमार्गगम्।
श्लेष्मणानुगतं तस्य प्रभावान्मधुरीभवेत् ॥ २.३१ ॥

तत्र स्वाद्वम्ललवणतिक्तोषणकषायकाः।
षड्रसाः कथिता भूतविकृत्या द्रव्यमाश्रिताः ॥ २.३२ ॥

तथैवामाशयगतं पश्चात्पित्ताशयं व्रजेत्।
तदा तस्यानुगमनात्कटुकत्वं प्रपद्यते ॥ २.३३ ॥

तत्रान्त्रान्तरसंश्लिष्टं पच्यते पित्तवारिणा।
पच्यमानाद्रसं भिन्नं वायू रक्तादिकां नयेत् ॥ २.३४ ॥

तत्र किट्टं पृथग्भिन्नं ग्रहण्यां चिनुतेऽनिलः।
तच्चीयमानं विण्णाम ग्रहणीं पूरयेन्मुहुः ॥ २.३५ ॥

सा तेन शकृता पूर्णा वलिता प्रतिमुञ्चति।
पुरीषं पायुमार्गेण तत्पाकेऽच्छांभसा ततः ॥ २.३६ ॥

अङ्गं स्वेदवदभ्यन्तर्व्याप्तैः सूक्ष्मैः सिरामुखैः।
वस्तिमापूरयेद्वायुः पूर्णे मुञ्चति धारया ॥ २.३७ ॥

मूत्राशयो धनुर्वक्रो वस्तिरित्यभिधीयते।
मूत्रमित्याहुरुदकं वस्तेर्मेहननिर्गतम् ॥ २.३८ ॥

अपथ्यभाजामनयोर्मार्गयोर्दोषदुष्टयोः।
प्रमेहमूत्रकृच्छ्रादेर्ग्रहण्यादेश्च संभवः ॥ २.३९ ॥

इत्थंभूतः स जन्तुस्तु जरायुच्छन्नगात्रवान्।
अपत्यवर्त्म संगम्य सज्यते वायुना मुहुः ॥ २.४० ॥

जायतेऽधिकसंविग्नो जृम्भतेऽङ्गैः प्रकम्पितैः।
मूर्त्योद्बणं न श्वसिति भीत्या च परिरोदिति ॥ २.४१ ॥

अथ पापकृतां शरीरभाजा

मुदरान्निष्क्रमितुं महान्प्रयासः।

नलिनोद्भवधीविचित्रवृत्ता
नितरां कर्मगतिस्तु मानुषाणाम् ॥ २.४२ ॥

जायते पुनरसौ निजाङ्गकै

र्जृम्भते जनितभीति कम्पते।

उल्बणं श्वसिति रोदिति ज्वरा
त्प्रागनेकशतदुःखभावितः ॥ २.४३ ॥

मूलाधारात्प्रथममुदितो यस्तु भावः पराख्यः

पश्चात्पश्यन्त्यथ हृदयगो बुद्धियुङ्मध्यमाख्यः।

वक्त्रे वैखर्यथ रुरुदिषोरस्य जन्तोः सुषुम्ना
बद्धस्तस्माद्भवति पवनप्रेरितो वर्णसङ्घः ॥ २.४४ ॥

स्रोतोमार्गस्याविभक्तत्वहेतो

स्तत्रार्णानां जायते न प्रकाशः।

तावद्यावत्कण्ठमूर्धादिभेदो
वर्णव्यक्तिस्थानसंस्था यतोऽतः ॥ २.४५ ॥

ज्ञातास्मीति यदा भावो मनोऽहंकारबुद्धिमान्।
जातश्चित्पूर्वको जन्तोः स भावः क्रमवर्धितः ॥ २.४६ ॥

बध्नाति मातापित्रोस्तु पूर्वं बन्धुषु च क्रमात्।
स पीत्वा बहुशः स्तन्यं मातरं स्तन्यदायिनीम् ॥ २.४७ ॥

इच्छन्नोदिति तां वीक्ष्य तत्र स्यादितरेतरम्।
बन्धस्तत्राधिकर्तारमतिस्निग्धमनन्यगम् ॥ २.४८ ॥

पितरं वीक्ष्य तत्रापि तथा भ्रातरमेव च।
पितृव्यमातुलादींश्च समुद्वीक्ष्य प्रमोदते ॥ २.४९ ॥

एवं संबन्धसंसारबान्धवो विस्मरिष्यति।
पूर्वकर्म च गर्भस्थित्युद्भूतक्लेशमेव च ॥ २.५० ॥

अथ स्वमुत्तारयितुमाह्वयेज्जननीं मुहुः।
अवैशद्यान्मुखस्रोतो मार्गस्याविशदाक्षरम् ॥ २.५१ ॥

अप्यव्यक्तं प्रलपति यदा कुण्डलिनी तदा।
मूलाधाराद्विसरति सुषुम्ना वेष्टनी मुहुः ॥ २.५२ ॥

त्रिचतुःपञ्चषट्सप्ताष्टमो दशम एव च।
तथा द्वादशपञ्चाशद्भेदेन गुणयेत्क्रमात् ॥ २.५३ ॥

यदा त्रिंशोऽथ गुणयेत्तदा त्रिगुणिता विभुः।
शक्तिः कामाग्निनादात्मा गूढमूर्तिः प्रतीयते ॥ २.५४ ॥

तदा तां तारमित्याहुरोमात्मेति बहुश्रुताः।
तामेव शक्तिं ब्रुवते हरेरात्मेति चापरे ॥ २.५५ ॥

त्रिगुणा सा त्रिदोषा सा त्रिवर्णा सा त्रयी च सा।
त्रिलोका सा त्रिमूर्तिः सा त्रिरेखा सा विशिष्यते ॥ २.५६ ॥

एतेषां तारणात्तारः शक्तिस्तद्धृतशक्तितः।
यदा चतुर्धा गुणिता सूक्ष्मादिस्थानवाचिका ॥ २.५७ ॥

वाचिका जाग्रदादीनां करणानां च सा तदा।
यदा सा पञ्चगुणिता पञ्चपञ्चविभेदिनी ॥ २.५८ ॥

पञ्चानामक्षराणां च वर्णानां मरुतां तथा।
गुणिता सा यदा षोढा कोशोर्मिरसभेदिनी ॥ २.५९ ॥

तदा षड्गुणिताख्यस्य यन्त्रस्य च विभेदिनी।
यदा सा सप्तगुणिता तारहृल्लेखयोस्तदा ॥ २.६० ॥

भेदैरहाद्यैः शान्तान्तैर्भिद्यते सप्तभिः पृथक्।
अकारश्चाप्युकारश्च मकारो बिन्दुरेव च ॥ २.६१ ॥

नादः शक्तिश्च शान्तश्च तारभेदाः समीरिताः।
हकाररेफमायाश्च बिन्दुनादौ तथैव च ॥ २.६२ ॥

शक्तिशान्तौ च संप्रोक्ताः शक्तेर्भेदाश्च सप्तधा।
अङ्गेभ्योऽस्यास्तु सप्तभ्यः सप्तधा भिद्यते जगत् ॥ २.६३ ॥

लोकाद्रिद्वीपपातालसिन्धुग्रहमुनिस्वरैः।
धात्वादिभिस्तथान्यैश्च सप्तसंख्याप्रभेदकैः ॥ २.६४ ॥

यदाष्टधा सा गुणिता तदा प्रकृतिभेदिनी।
अष्टाक्षरा हि वस्वाशा मातृका मूर्तिभेदिनी ॥ २.६५ ॥

दशधा गुणिता नाडी मर्माशादिविभेदिनी।
द्वादशात्मिक्यपि यदा तदा राश्यर्कमूर्तियुक् ॥ २.६६ ॥

मन्त्रं च द्वादशार्णाख्यमभिधत्ते स्वरानपि।
तत्संख्यं च तदा यन्त्रं शक्तेस्तद्गुणितात्मकम् ॥ २.६७ ॥

पञ्चाशदंशगुणिताथ यदा भवेत्सा

देवी तदात्मविनिवेशितदिव्यभावा।

सौषुम्नवर्त्मसुषिरोदितनादसंगा
त्पञ्चाशदीरयति पङ्क्तिश एव वर्णान् ॥ २.६८ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे द्वितीयः पटलः ॥