टीका ऽत्र ।
मङ्गलाचरणम्
अ-क-च-ट-त-प-याद्यैः सप्तभिर् वर्ण-वर्गै
र्विरचित-मुख-बाहा+++(हु)+++-पाद-मध्याख्य-हृत्का।
सकल-जगद्-अधीशा शाश्वता विश्वयोनिर्
वितरतु परिशुद्धिं चेतसः शारदा वः ॥ १.१ ॥ +++(5)+++
अजदर्शनम्
अथाभवन् ब्रह्म-हरीश्वराख्याः
पुरा प्रधानात् प्रलयावसाने।
गुणप्रभिन्ना जगतोऽस्य सृष्टि-
स्थिति-क्षय-स्पष्ट-निविष्ट-चेष्ठाः ॥ १.२ ॥
स्वनिष्पत्तिं च कृत्यं च
ते विचिन्त्य समाविदन्।
वक्तारम् अजम् अव्यक्तम्
अरूपं मायिनं विभुम् ॥ १.३ ॥
मूर्त्याभासेन दुग्धाब्धौ
झष-शङ्ख-समाकुले।
मरुत्-संघट्टनोत्कीर्ण-
लहरीकणशीतले ॥ १.४ ॥
उद्यद्-आदित्य-किरण-
प्रशांन्त-शिशिरोदये।
पूर्ण-चन्द्र-करामर्श-
प्रतिक्षुब्ध-जलाशये ॥ १.५ ॥
अनन्त-भोगे विमले
फणायुत-विराजिते।
शयितं शार्ङ्गिणं शर्व-
शौरि-पद्मभुवस् तदा ॥ १.६ ॥
तुष्टुवुर् हृष्ट-मनसो
विष्टर+++(=शय्या)+++-श्रवसं+++(=कर्णं)+++ विभुम्।
सूक्तिभिः स्तुतिभिः प्रीतः
स्वमूर्तिं स व्यदर्शयत् ॥ १.७ ॥
नीलोत्पल-दल-प्रख्यां
नील-कुञ्चित-मूर्धजाम्।
अष्टमी-चन्द्र-विभ्राजल्
ललाटाम् आयत-भ्रुवम् ॥ १.८ ॥
रक्तारविन्द-नयनाम्
उन्-नसीम् अरुणाधराम्।
मन्द-स्मिताधर-मुखीं
लसन्-मकर-कुण्डलाम् ॥ १.९ ॥
कम्बु-ग्रीवां पृथु-द्व्यंस-
विसरद्-भुज-मण्डलाम्।
अनेक-रत्न-प्रत्युप्त-
वलयाङ्गद-मुद्रिकाम् ॥ १.१० ॥
हार-तारा-वली-राजत्
पृथूरो-व्योम-मण्डलाम्।
कौस्तुभोद्भासितोरस्कां
श्रीवत्स-द्युति-दीपिताम् ॥ १.११ ॥
लसद्-औदरिका-बन्ध-
भास्वरां संभृतोदरीम्।
गम्भीर-नाभिं विपुल-
जघनां पीतावाससम् ॥ १.१२ ॥
पृथु-वृत्तोरुम् आपूर्ण-
जानु-मण्डल-बन्धुराम्।
वृत्त-जङ्घां गूढ-गुल्फां
प्रपदाजित-कच्छपाम् ॥ १.१३ ॥
तनुदीर्घाङ्गुली-भास्वन्-
नख-राजि-विराजिताम्।
चक्र-स्वस्तिक-शङ्खाब्ज-
ध्वजाङ्कित-पद-द्वयाम् ॥ १.१४ ॥
ब्रह्मादिकर्म
तां दृष्ट्वा तरलात्मानो
विध्यधोक्षज-शंकराः।
अतिष्ठन्न् इति-कर्तव्य-
मूढास् तत्राब्रवीद् अजः ॥ १.१५ ॥
स्वामिन् प्रसीद विश्वेश
के वयं केन भाविताः।
किं-मूलाः किं-क्रियाः सर्वम्
अस्मभ्यं वक्तुम् अर्हसि ॥ १.१६ ॥
इति पृष्टः परं ज्योतिर्
उवाच प्रमिताक्षरम्।
यूयम् अक्षर-संभूताः
सृष्टि-स्थित्य्-अन्त-हेतवः ॥ १.१७ ॥
तैर् +++(अक्षरैर्)+++ एव विकृतिं यातास्
तेषु वो जायते लयः।
इति तस्य वचः श्रुत्वा
तम् अपृच्छत् सरोज-भूः ॥ १.१८ ॥
अक्षरपरिचयः
अक्षरं नाम किं नाथ
कुतो जातं किमात्मकम्।
इति पृष्टो हरिस् तेन
सरोजोदर-योनिना ॥ १.१९ ॥
मूलार्णम्+++(→बीजाक्षरं ह-रदिकं)+++ अर्ण-विकृतीर्+++(→स्वरादयः)+++
विकृतेर् विकृतीर् +++(→अनुस्वारादिकम्)+++ अपि।
तत्+++(→तेभ्यः)+++-प्रभिन्नानि मन्त्राणि
प्रयोगांश् च पृथग्-विधान् ॥ १.२० ॥
वैदिकांस् तान्त्रिकांश् चैव
सर्वान् इत्थम् उवाच ह।
प्रकृतिः
प्रकृतिः पुरुषश् चेति
नित्यौ कालश्च सत्तम ॥ १.२१ ॥
अणोर् अणीयसी स्थूलात्
स्थूला व्याप्त-चराचरा।
आदित्येन्द्व्-आदि-तेजो-मद्
यद्-यत्-तत्-तन्-मयी विभुः ॥ १.२२ ॥
न श्वेत-रक्त-पीतादि-
वर्णैर् निर्धार्य सोच्यते।
न गुणेषु न भूतेषु
विशेषेण व्यवस्थिता ॥ १.२३ ॥
अन्तरान्तर् बहिश् चैव
देहिनां देह-पूरणी।
स्व-संवेद्य-स्वरूपा सा
दृश्या देशिक-दर्शितैः ॥ १.२४ ॥
ययाकाशस्तमो वापि लब्धा या नोपलभ्यते।
पुंनपुंसकयोस्तुल्याप्यङ्गनासु विशिष्यते ॥ १.२५ ॥
प्रधानमिति यामाहुर्या शक्तिरिति कथ्यते।
या युष्मानपि मां नित्यमवष्टभ्यातिवर्तते ॥ १.२६ ॥
साहं यूयं तथैवान्यद्
यद् वेद्यं तत् तु सा स्मृता।
प्रलये व्याप्यते तस्यां
चराचरमिदं जगत् ॥ १.२७ ॥
सैवं स्वां वेत्ति परमा
तस्या नान्योऽस्ति वेदिता।
कालः
सा तु कालात्मना सम्यङ्
मयैव ज्ञायते सदा ॥ १.२८ ॥
लवादि-प्रलयान्तोऽयं
कालः प्रस्तूयते ह्य् अज।
नलिनी-पत्र-संहत्यां
सूक्ष्म-सूच्य्-अभिवेधने ॥ १.२९ ॥
दले दले तु यः कालः
स कालो लववाचकः।
लवैस् त्रुटिः स्यात् त्रिंशद्भिः
कलां तावत् त्रुटिं विदुः ॥ १.३० ॥
काष्ठा तावत् कला ज्ञेया
तावत् काष्ठो निमेषकः।
सोऽङ्गुलिस्फोटतुल्यश्च मात्राष्टाभिस्तु तैः स्मृता ॥ १.३१ ॥
कालेन यावता स्वीयो हस्तः स्वं जानुमण्डलम्।
पर्येति मात्रा सा तुल्या स्वयैकश्वासमात्रया ॥ १.३२ ॥
षष्ट्युत्तरैस्तु त्रिशतैर्निश्वासैर्नाडिका स्मृता।
द्विनाडिका मुहूर्तः स्यात्ित्रंशद्भिस्तैरहर्निशम् ॥ १.३३ ॥
त्रिंशद्भिरप्यहोरात्रैर्मासो द्वादशभिस्तु तैः।
संवत्सरो मानुषोऽयमहोरात्रं दिवौकसाम् ॥ १.३४ ॥
तथा दिव्यैरहोरात्रैस्त्रिशतैः षष्टिसंयुतैः।
दिव्यः संवत्सरो ज्ञेयो दिव्यैः संवत्सरैस्तु तैः ॥ १.३५ ॥
भवेद्द्वादशसाहस्रैर्भिन्नैरेकं चतुर्युगम्।
तैः सहस्रैः शतानन्द तवैकं दिनमिष्यते ॥ १.३६ ॥
तावती तव रात्रिश्च कथिता कालवेदिभिः।
तथाविधैरहोरात्रैस्त्रिंशद्भिर्मासमृच्छति ॥ १.३७ ॥
तथाविधैर्द्वादशभिर्मासैरब्दस्तव स्मृतः।
तथाविधानामब्दानां शतं त्वमपि जीवसि ॥ १.३८ ॥
तवायुर्मम निश्वासः कालेनैवं प्रचोद्यते।
स जानाति विपाकांश्च तस्यां सम्यग्व्यवस्थितान् ॥ १.३९ ॥
सोऽन्वीक्ष्य त्वादृशामायुः परिपाकं प्रदास्यति।
प्रकृतेश्च क्वचित्कालो विकृतिं प्रतिपादयेत् ॥ १.४० ॥
सा तत्त्वसंज्ञा चिन्मात्रज्योतिषः संनिधेस्तथा।
विचिकीर्षुर्घनीभूत्वा क्वचिदभ्येति बिन्दुताम् ॥ १.४१ ॥
कालेन भिद्यमानस्तु स बिन्दुर्भवति त्रिधा।
स्थूलसूक्ष्मपरत्वेन तस्य त्रैविध्यमिष्यते ॥ १.४२ ॥
स बिन्दुनादबीजत्वभेदेन च निगद्यते।
बिन्दोस्तस्माद्भिद्यमानाद्रवोऽव्यक्तात्मको भवेत् ॥ १.४३ ॥
स रवः श्रुतिसंपन्नैः शब्दब्रह्मेति कथ्यते।
तद्विस्तारप्रकारोऽयं यथा वक्ष्यामि सांप्रतम् ॥ १.४४ ॥
अव्यक्तादन्तरुदितविभेदगहनात्मकम्।
महन्नाम भवेत्तत्त्वं महतोऽहंकृतिस्तथा ॥ १.४५ ॥
भूतादिकवैकारिकतैजसभेदक्रमादहंकारात्।
कालप्रेरितया गुणघोषयुजा शब्दसृष्टिरथ शक्त्या ॥ १.४६ ॥
शब्दाद्व्योम स्पर्शतस्तेन वायु
स्ताभ्यां रूपाद्वह्निरेतै रसाच्च।
आपस्त्वेभिर्गन्धतोऽभूद्धराद्या
भूताः पञ्च स्युर्गुणानां क्रमेण ॥ १.४७ ॥
खमपि सुषिरचिह्नमीरणः स्या
च्चलनपरः परिपाकवान्कृशानुः।
जलमपि रसवद्धना धरा ते
सितशितिपाटलशुभ्रपीतभासः ॥ १.४८ ॥
वृत्तं व्योम्नो बिन्दुषट्काञ्चितं
तद्वायोरग्नेः स्वस्तिकोद्यत्ित्रकोणम्।
अब्जोपेतार्धेन्दुमद्बिम्बमाप्यं
स्याद्यज्ञोद्यच्चातुरश्रं धरायाः ॥ १.४९ ॥
निवृत्तिसंज्ञा च तथा प्रतिष्ठा
विद्याह्वया शान्तिसशान्त्यतीते।
स्युः शक्तयः पञ्च धरादिभूत
प्रोत्थाः क्रमान्नादकलादिभूताः ॥ १.५० ॥
पुटयोरुभयोश्च दण्डसंस्था
पृथिवी तोयमधः कृशानुरूर्ध्वम्।
पवनस्त्वथ पार्श्वगोऽपि मध्ये
गगनं भूतगतिस्तनूद्भवेयम् ॥ १.५१ ॥
व्योम्नि मरुदत्र दहनस्तत्रापस्तासु संस्थिता पृथिवी।
सचराचरात्मकानि च तस्यां जातानि सर्वभूतानि ॥ १.५२ ॥
श्रोत्रत्वगक्षिजिह्वाघ्राणान्यपि चेन्द्रियाणि बुद्धेः स्युः।
वाक्पाणिपादपायूपस्थानि च कर्मसंज्ञानि तथा ॥ १.५३ ॥
वचनादाने सगती सविसर्गानन्दकौ च संप्रोक्ताः।
वागाद्यर्थाः समना बुद्धिरहंकारश्चित्तमपि करणम् ॥ १.५४ ॥
भूतेन्द्रियेन्द्रियार्थैरुद्दिष्टस्तत्त्वपञ्चविंशतिकः।
व्यानन्दकैश्च तैरपि तत्त्वचतुर्विंशतिस्तथा प्रोक्ताः ॥ १.५५ ॥
करणोपेतैरेतैस्तत्त्वान्युक्तानि रहितवचनाद्यैः।
भूतानीन्द्रियदशकं समनः प्रोक्तो विकारषोडशकः ॥ १.५६ ॥
अव्यक्तमहदहंकृतिभूतानि प्रकृतयः स्युरष्टौ च।
तन्मात्राहंकाराः समहान्तः प्रकृतिविकृतयः सप्त ॥ १.५७ ॥
सत्त्वं रजस्तम इति संप्रोक्ताश्च त्रयोगुणास्तस्याः।
तत्संबन्धाद्विकृतैर्भेदत्रितयैस्ततं जगत्सकलम् ॥ १.५८ ॥
देवाः सश्रुतयः स्वराः समरुतो लोकाश्च वैश्वानराः
कालाः शक्तियुतास्त्रिवर्गसहितास्तिस्रस्तथा वृत्तयः।
नाड्योऽन्यच्च जगत्त्रयेऽत्र नियतं यद्वस्तु संबध्यते
विश्वेषां स्थितये चरन्त्यविरतं सूर्येन्दुवैश्वानराः ॥ १.५९ ॥
एष सर्गः समुत्पन्न इत्थं विश्वं प्रतीयते।
विश्वप्रतीतौ हि यतः प्रपञ्चस्त्ववगम्यते ॥ १.६० ॥
शब्दब्रह्मेति यत्प्रोक्तं तदुद्देशः प्रवर्त्यते।
अतः परमवाच्यं हि स्वसंवेद्यस्वरूपतः ॥ १.६१ ॥
शब्दब्रह्मेति शब्दावगम्यमर्थं विदुर्बुधाः।
स्वतोऽर्थानवबोधत्वात्प्रोक्तो नैतादृशो रवः ॥ १.६२ ॥
स तु सर्वत्र संस्यूतो जाते भूताकरे पुनः।
आविर्भवति देहेषु प्राणिनामर्थविस्मृतः ॥ १.६३ ॥
प्रकृतौ कालनुन्नायां गुणान्तःकरणात्मनि।
देहश्चतुर्विधो ज्ञेयो जन्तोरुत्पत्तिभेदतः ॥ १.६४ ॥
औद्भिदः स्वेदजोऽण्डोत्थश्चतुर्थस्तु जरायुजः।
उद्भिद्य भूमिमुद्गच्छत्यौद्भिदः स्थावरस्तु सः ॥ १.६५ ॥
निर्दिष्टस्कन्धविटपपत्रपुष्पफलादिभिः।
पञ्चभूतात्मकः सर्वः क्ष्मामधिष्ठाय जायते ॥ १.६६ ॥
अम्बुयोन्यग्निपवननभसां समवायतः।
स्वेदजः स्विद्यमानेभ्यो भूवह्न्यद्भ्यः प्रजायते ॥ १.६७ ॥
यूकमत्कुणकीटाणुस्त्रुट्याद्याः क्षणभङ्गुराः।
अण्डजो वर्तुलीभूताच्छुक्लशोणितसंपुटात् ॥ १.६८ ॥
कालेन भिन्नात्पूर्णात्मा निर्गच्छन्प्रक्रमिष्यति।
अहिगोधावयोभेदशिंशुमारादिकश्च सः ॥ १.६९ ॥
जरायुजस्तु ग्राम्यातः क्रियातः स्त्र्यतिसंभवः।
स जायते चतुर्विंशत्तत्त्वसंयुक्तदेहवान् ॥ १.७० ॥
स्वस्थानतश्च्युताच्छुक्लाद्बिन्दुमादाय मारुतः।
गर्भाशयं प्रविशति यदा तुल्यं तदापरः ॥ १.७१ ॥
आर्तवात्परमं बीजमादायास्याश्च मूलतः।
यदा गर्भाशयं नेष्यत्यथ संमिश्रयेन्मरुत् ॥ १.७२ ॥
मायीयं नाम योषोत्थं पौरुषं कार्मणं मलम्।
आणवं नाम संपृक्तं मिलितं तन्मलद्वयम् ॥ १.७३ ॥
सूक्ष्मरूपाणि तत्त्वानि चतुर्विंशन्मलद्वये।
तत्र युक्तिं नयत्याशु ततस्तद्गर्भमारुतः ॥ १.७४ ॥
संक्षोभ्य संवर्धयति तन्मलं शोणिताधिकम्।
स्त्री स्याच्छुक्लाधिकं ना स्यात्समभागं नपुंसकम् ॥ १.७५ ॥
स्वगाभिर्मरुदग्न्यद्भिः क्लेद्यते क्वाथ्यते च तत्।
सान्द्रीभूतं तदह्नैव मातुरङ्गुष्ठसंमितम् ॥ १.७६ ॥
आयामि बुद्बुदाकारं परेऽहनि विजृम्भते।
पक्षेण चतुरश्रं स्यान्मातुर्भुक्तरसात्मवत् ॥ १.७७ ॥
मिलितादपि तस्मात्तु पृथगेव मलद्वयात्।
किट्टभूतद्वयं पूर्वं बीजयुग्मं समुन्नमेत् ॥ १.७८ ॥
ऊर्ध्वं तु मरुता नुन्नं तस्मादपि फलद्वयात्।
उभयात्मिक्यधोवृत्ता नाडी दीर्घा भवेदृजुः ॥ १.७९ ॥
अवाङ्मुखी सा तस्याश्च भवेत्पक्षद्वये द्वयम्।
नाड्योस्तत्संधिबन्धाः स्युः सप्तान्या नाडयो मताः ॥ १.८० ॥
ततो या प्रथमा नाडी सा सुषुम्नेति कथ्यते।
या वामेडेति सा ज्ञेया दक्षिणा पिङ्गला स्मृता ॥ १.८१ ॥
या वाममुष्कसंबन्धा सा श्लिष्यन्ती सुषुम्नया।
दक्षिणवृक्कमाश्रित्य धनुर्वक्रा हृदि स्थिता ॥ १.८२ ॥
वामांसजत्र्वन्तरगा दक्षिणां नाडिकामियात्।
तथा दक्षिणमुष्कोत्था नाडी या वामरन्ध्रगा ॥ १.८३ ॥
अन्या धमन्यो याः प्रोक्ता गान्धारीहस्तिजिह्विका।
सपूषालंबुषा चैव यशस्विन्यपि शङ्खिनी ॥ १.८४ ॥
कुहूरिति च विद्वद्भिः प्रधाना व्यापिकास्तनौ।
काचिन्नाडी बहिर्वक्त्रा या मातुर्हृदि बध्यते।१.८५ ॥
यथा तत्पुष्टिमाप्नोति केदार इव कुल्यया।
मातुराहाररसजैर्धातुभिः पुष्यते क्रमात् ॥ १.८६ ॥
क्रमवृद्धौ परंज्योतिष्कला क्षेत्रज्ञतामियात्।
सक्षेत्रज्ञं मलं तत्तु सभूतं सगुणं पुनः ॥ १.८७ ॥
सदोषं दूष्यसंपन्नं जन्तुरित्यभिधीयते।
फलकोशद्वयं तत्तु व्यक्तं पुंसो न तु स्त्रियः ॥ १.८८ ॥
नपुंसकस्य किंचित्तु व्यक्तिरत्रोपलक्ष्यते।
मध्यस्थायाः सुषुम्नायाः पर्वपञ्चकसंभवाः ॥ १.८९ ॥
शाखोपशाखतां प्राप्ताः सिरालक्षत्रयात्परम्(?)।
अर्धलक्षमिति प्राहुः शरीरार्थविशारदाः ॥ १.९० ॥
तद्भेदांश्च बहूनाहुस्ताभिः सर्वाभिरेव च।
व्याप्नोति सर्वतो वायुर्येन देहः प्रवर्त्यते ॥ १.९१ ॥
देहेऽपि मूलाधारे तु समुदेति समीरणः।
नाडीभ्यामस्तमभ्येति घ्राणतो द्विषडङ्गुले ॥ १.९२ ॥
अहोरात्रमिनेन्दुभ्यामूर्ध्वाधोवृत्तिरुच्यते।
वामदक्षिणनाडीभ्यां स्यादुदग्दक्षिणायनम् ॥ १.९३ ॥
अत्रापि चेतनायातोरागतिं बहुधा विदुः।
रेतःशोणितजं प्राहुरेकेऽन्ये मातुराहृतात् ॥ १.९४ ॥
आहाराद्रसजं प्राहुः केचित्कर्मफलं विदुः।
कश्चिदस्य परं धाम्नो व्याप्तिमेव विवक्षति ॥ १.९५ ॥
कश्चित्कर्मप्रकारज्ञः पितुर्देहात्मनासकृत्।
संबध्य मथनोद्रेकविधिना शुक्लधातुतः ॥ १.९६ ॥
तत्परंधाम सौजस्कं संक्रान्तं मारुतेन तु।
ब्रूते रक्तव्यतिकृताद्दीपाद्दीपान्तरं यथा ॥ १.९७ ॥
कश्चित्तु भौतिकव्याप्ते जन्मकाले वपुष्यथ।
कुतश्चिदेत्य जीवात्मा निष्पन्न इति शंसति ॥ १.९८ ॥
बहुना किं पुनः पुंसः सांनिध्यात्प्रविजृंभिता।
प्रकृतिर्गुणसंभिन्ना त्रिदोषात्मा महीयसी ॥ १.९९ ॥
पञ्चभूतमयी सप्तधातुभिन्ना च भौतिकैः।
पञ्चभिश्च गुणैर्युक्ता पञ्चेन्द्रियविचारिणी ॥ १.१०० ॥
पञ्चेन्द्रियार्थगा भूयः पञ्चबुद्धिप्रभाविनी।
पञ्चकर्मेन्द्रियगता पञ्चत्वादा प्रवर्तते ॥ १.१०१ ॥
परेण धाम्ना समनुप्रबद्धा
मनस्तदा सा तु महाप्रभावा।
यदा तु संकल्पविकल्पकृत्या
यदा पुनर्निश्चिनुते तदा सा ॥ १.१०२ ॥
स्याद्बुद्धिसंज्ञा च यदा प्रवेत्ति
ज्ञातारमात्मानमहंकृतिः स्यात्।
तदा यदा सा त्वभिलीयतेऽन्त
श्चित्तं च निर्धारितमर्थमेषा ॥ १.१०३ ॥
यदा स्वयं व्यञ्जयितुं यतेत
महीयसी सा करणैः क्रमेण।
तदा तु बिन्दुस्फुटनोद्भवस्य
रवस्य सम्यक्प्रविजृम्भितं स्यात् ॥ १.१०४ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमछं(?)करभगवतः कृतौ
प्रपञ्चसारे प्रथमः पटलः ॥