आश्चर्ययोगमाला

विस्तारः (द्रष्टुं नोद्यम्)

āścaryayogamālā (also called Yogaratnāvalī or Yogaratnamālā) (the Rosary of Astonishing Yogas) by Nāgārjuna with a short commentary (laghuvṛtti) by Guṇākara who is a Jaina (śvetāmbara) scholar. This Nāgārjuna is famous as the author (or the namesake of various authors) of works on magic (ṣaṭkarma). A manuscript in the Asiatic Society in Bombay dates the composition of the work as 1240 CE. It was written, the text tells us, to serve people needs and delight them. It deals with standard matters of magic beginning with control of others (vaśīkaraṇa), then the checking of an enemies army (stambhana), killing of enemies (śatrumāraṇa), attraction of women (akarṣaṇa) and ways of attaining various magical powers (siddhi) through the preparation of potions, which the text describes in detail, and mantras.

ॐ श्रीगणेशाय नमः ॥

गुर्वभिप्रायसमुद्रात् विविधानि दृष्टप्रत्ययानि योगरत्नानुचिन्त्योचिन्त्य
इहानीय योगमालायां प्रकाश्यन्ते प्रकटीक्रियन्ते इति । तेषु प्रथमं
वश्यकर्मोच्यते ॥

सितभानुविटपमूलमिति । सितो यो सौ भानुविटपी अर्कस्तस्य मूलं मञ्जिष्ठा
प्रतीता । भवन चटकं गृह चटक शिरः कुष्ठम् एभिश्चतुर्भिरोषधैः
श्लक्षाचूर्णितैः स्वाङ्गक्षत भवदिग्धैः स्वशरीररक्तमिश्रितैः
कृतारचिता गुटिकाः खाने पाने दत्वा त्रिभुवनमपि वशीकुर्वन्ति
किम्पुनर्नरमेकम् ॥ १॥

॥श्री॥ सितभानुविटपमूलं मञ्जिष्ठा भवन चटकं कुष्ठम् ।
स्वाङ्गक्षत भवदिग्धैस्त्रिभुवनमेभिर्वशी कुरुते ॥१॥

अत्र शास्त्रे श्रीनागार्जुनाचार्येण सर्वेपि अनुभूता योगा उक्ता । तालमिति ।
हरितालश्म ज्ञाने कृष्णचतुर्दश्यां शवमुखनिवसितं कुष्ठसहितं
तिलकेन त्रिभुवनं वशंयाति ॥ २ ॥

तालं पिशाच भवने भूताह्नि प्रेतवदन पर्युषितम् ।
रोगेन्द्र सम्प्रयुक्तं त्रिभुवन वशकारकम् ॥२॥

१ब्)

मृतपुरुष लोचनेति । मृतपुरुषस्य चक्षुषी जिह्वा ललाटहृदयं नासा
एभिः श्मशानतैलपक्वं पुष्पनक्षत्रे समस्तराजपत्नीनां वशकृत् ॥३॥

मृतनरलोचनलालाललाट हृद्घ्राणसाधितं तैलम् ।
सकलभूभुजेन्द्र ललनावशाङ्करणं करालये पुष्पे ॥३॥

नरतैलस्रितिः पुरुषवसयामृतवस्त्रवर्तिकया पुरुषकपाले रात्रौ
अश्वत्थवृक्षस्कन्धे दीपं प्रज्वाल्यकज्जलं ग्राह्यम् । तेनाञ्जितमात्रेण यं
यं पश्यति तं तं वशयति ॥

इति वश्याधिकारः ॥

नरतैलनरकपाले प्रेतांवर वर्तितः क्षपादीपात् ।
क्षोणी हेतु महेन्द्रशिखरे समुत्पन्नं कज्जलं जगद्वशकृत् ॥ ४ ॥

इति वश्याधिकारः ॥ अथ विद्वेषणम् ॥

अथ विद्वेषणम् । उरगारि इति । मयूरशिरः कुक्कुटशिरः आभ्यां धूपं
कृत्वा यस्य भवने गृहे उद्ग्राह्यति ॥ तं निवासि जन्तूनां प्रीतिं विनाशयति
॥ ५ ॥

उरगारिशिरोजनितो धूपवरस्ताम्रचूडशिरसा च त्रिभुवनभवनेषु गतः
क्षिप्रं प्रीतिं विनाशयति ॥५॥

२अ)

ऋतुमद्दुर्भगललनेति । या दुर्भगा नारी तस्या योनौ ऋतु दिवसान्यारभ्य
सप्तदिनानि श्वेतसर्षपान्प्रक्षिप्य अनन्तरमाकृष्टैः शुक्तैस्तैः सर्षपैर्यो
यः स्पृश्यते स स विद्वेषं याति ॥६॥

ऋतुमद्दुर्भगललनाकुसुमगृहे सप्तदिनानि पर्युषितैः ॥
सितसिद्धार्थैः स्पृष्टस्त्रैलोक्ये कोन याति विद्वेषम् ॥६॥

द्विकन्दीवसभीरु इति ॥ साधकोत्तमैः काकोलूकपक्षाभ्यां कृतो धूपः
स्थावरजङ्गमजातस्य प्रीतिं विनाशयति किं पुनर्गृहमेकम् ॥७॥

पीकदीवसभीरूपक्षप्रभवो धूपः प्रयोजितः प्रीतिम् ॥ हन्यान्नरेन्द्रमुखैः
स चराचर जन्तु चक्रस्य ॥७॥

भुजेन्द्रकवच जन्मेति । प्रधानसर्पकञ्चुकमयूरपक्ष आभ्यां
समभागाभ्यां कृतोधूपस्त्रैलोक्यस्यापि विद्वेषण कृत् ॥८॥

इति विद्वेषणम् ॥

भुजेन्द्रकवचजन्माभुजङ्गरिपुपक्षभागसंयुक्तः ।
धूपः प्रयुक्तमात्रे विद्वेषकरस्त्रिलोकस्य ॥८॥

इति विद्वेषणम् ॥ अथोच्चाटनम् ॥

अथोच्चाटनम् । तुरगक्षुररन्ध्रेति । कृष्णसर्पशिरः उन्मत्त
कुक्कुटजिह्वयासार्द्धमेतद्द्वयम् अस्वखुरायास्ते निवासिनि छिद्रे क्षिप्त्वा यय्स
गृहस्य द्वारि निखन्यते स सप्तभिर्दिवसैर्गृहमुच्चाटयति ॥

तुरङ्गक्षुररन्ध्रनिहितं नागशिरोदक्षजिह्वया सहितम् ।
भवनद्वारि निखातं रिपुमुच्चाटयति सप्ताहात् ॥९॥

हलिनीवराहवर्च इति ॥ लाङ्गली शूकरविष्ठामृतकेशा उष्ट्रास्थीनि एतानि
चत्वारि मेलयित्वा यद्गृहद्वारि निखन्यते तद्गृहं सप्ताहादुच्चाटयति ॥१०॥

हलिनी वराहवर्चः शवमूर्द्धजदीर्घकं धरास्थीनि ॥
त्रिभुवनमपि योगवरः स्फुटमुच्चाटयति सप्ताहात् ॥१०॥

दण्डकरपुरुषेति । दण्डकरोलगुडहस्तो योऽसौ पुरुषस्तेन चोदितो
हन्यमानस्तेन यवाकारभवः शीघ्रगती भूत्वा उच्चरितो दीर्घकन्ध्र
उष्ट्रस्तत्रारूढम् एवं विधिं पुरुषं ध्यायन् बृहस्पतिमपि
सप्ताहादुच्चाटयति । किमुतसामान्यमात्रनरमपि ॥११॥

दण्डकरपुरुषचोदित यवाकार भवदीर्घकं धरारूढम् । सुरगुरुमपि
सप्ताहाद्विचिन्त्योच्चाटयेत् स्थानात् ॥११॥

३अ)

मृतपुरुषास्थि शङ्कुरिति । यस्य गृहपुरुषस्य गृहद्वारे पुरुषास्थि कीलको
निखन्यते तस्य गृहं श्मशान सदृशं शून्यं भवतीत्यर्थः ॥१२॥

इत्युच्चाटनम् ॥ अथदर्पणे रूपदर्शनम् ॥

मृतपुरुषास्थि शङ्कुर्भवन द्वारे निखन्यते यस्य ।
तस्य गृहं गत विभवं भयङ्करभूतभवभम् ॥१२॥

इत्युच्चाटनम् अथ दर्पणे रूपदर्शनम् ॥

रक्तहयमारेति । रक्तकरवीरपुष्पं भल्लाटकम् अम्लवेतसम् एभिर्दर्पणं
सम्मार्ज्यसंशाध्य अश्वगर्भकोष्ट्र रूपं पश्येत् ॥१३॥

रक्तहयमारक्त कुसुमं भल्लाटकमम्लवेतसमभीहिः ।
तुरगखरदीर्घकन्धररूपं सम्मार्ज्य दर्पणं पश्येत् ॥१३॥

हयगोचराहवानरेति सुकरम् ॥१४॥

हयगोवराहवानरखरोष्ट्रं कनखैः पुटाग्निनादग्धैः ॥
दर्दुरवसामिश्रैस्तेषां रूपाणि पूर्ववत् पश्येत् ॥१४॥

अङ्कोलतैलकज्जलेति । अङ्कोलवृक्षबीजतैलेन दीपं कृत्वाकज्जलं गृहीत्वा
गवां घृतेन आलोड्य तेन कज्जलेन दृष्टिम् अञ्जयेत् ।

३ब्)

पुष्पनक्षत्र * *?जितनयनो जन्मान्तरे यानि रूपान्तराण्यासन्
तानि दर्पणे पश्यति ॥१५॥

अङ्कोलतैलसुरभिक्षीरैर्दृगञ्जनं पुष्पए ॥
पश्यति दर्पण मध्ये रूपाणि भवान्तरे *? ति ॥१५॥

अञ्जितनयनेति । तगरफलं चूर्णं कृत्वा अङ्कोलतैलेनालोड्य चक्षुषी अञ्जयेत् ।
व्रजति । दिव्यं पुरुषं न पश्यतीत्यर्थः ॥१६॥

इति दर्पणे रूपदशनम् ॥

अञ्जितनयनोमनुजस्तगरफलां कोलकल्केन ।
पश्यति पुरुषं दिव्यं प्रकृतिं तगराञ्जनाद्व्रजति ॥१६॥

इति दर्पणे रूपदर्शनम् ॥

अथ चित्रान्तर्द्धानमाह । ललनाजरायु धूपादिति । योषिद्गर्भशय्या धूपात्
भित्तिस्थं चित्रं प्रत्यक्षं प्ररोदिति । गुग्गुलधूपाच्च पुनरपि चित्रं
स्वभावस्थमेव भवति रोदनान्निवर्तते इत्यर्थः ॥१७॥

अथ चित्रान्तर्द्धानमाह ।

ललनाजरायुधूपाच्चित्रं भित्तौ प्ररोदिति प्रकटम् ॥
पुनरपि पुरकृतं धूपात् सर्वं प्रकृतिं व्रजत्याशु ॥१७॥

वृषदंशिका पुरन्ध्रीति । मार्जारीगर्भशय्या तथा
प्रधानस्त्रीगर्भशय्या एताभ्यां धूपाद्भित्तिस्थं चित्रं न दृश्यते । तथा
सुवर्णमहिषाक्ष गुग्गुलुधूपेन अतिरोहितमपि चित्रं पुनरपि स्वभावस्थमपि
दृश्यते ॥१८॥

वृषदंशिकापुरन्ध्रीं जरायु धूपान्न दृश्यते भित्तौ ।
प्रकृतित्वमेति भूयः कौशिक धूपेन धूपितं चित्रम् ॥१८॥

४अ)

करभकपोलेति उष्ट्रकपोलस्वेदमूत्रश्लेष्माभिर्बहुवारं भावितेन हरितालेन
हस्तलेपात् भित्ति गतानि नानायाति । आलेख्यानि स्पर्शादा कर्षयति क्षिप्तमेव ॥१९॥

करभकपोलस्वेदैर्मूत्रकहैर्भावितेन तालेन ॥
तेन करगर्भलेपाच्चित्राणि समाक्षिपत्याशु ॥१९॥

सरमेति । कुक्कुरीगर्भशय्याधूपेन धूपितं वेष्टितं यत् किञ्चित् पुछादि
पुछमिति कुर्चिका दिनेन भ्रमणामितेन सव्येन दक्षिणेन चित्रवर्ण प्रभृतीनि
हरेदाकर्षयेत् । वामतो भ्रमर्णात्तेषां हुतानामपि सतां मोक्षः ।
प्रकृतीकरणमित्यर्थः ॥२०॥

इति चित्रान्तर्द्धानं समाप्तम् ॥

सरमाजरायुधूपित वेष्टितपुछादिनी हरेद्भ्रमणाम् ।
सव्येन चित्रवर्णप्रभृती न सव्यतो मोक्षः ॥२०॥

इति चित्रान्तर्द्धानम् ॥

अथ मनुष्यान्तर्द्धानम् ॥

स्रोतः शशाङ्केति । स्रोताञ्जनं सेवालकण्टकं माक्षिकं मधुयष्टी
प्रथमरजःस्वला याः कन्यायाः शोणितम् । प्रत्यग्रलाङ्गली केसराणि
एभिरोषधै गुटिकां कृत्वा सुवर्णरौप्यताम्रमध्ये पुरुषस्यान्तर्द्धानं
करोति ॥२१॥

स्रोःतः शशाङ्ककण्टकमधुमधुकप्रथमकुसुमं युक्ता ।
नवहलिनीकेसरजागूहति गुटिका त्रिलोहगर्भस्था ॥२१॥

नीलांशोकेति । नीलवर्णांशोकाङ्कुर चूर्णं हरिणरक्तेन सप्तधा भावितं
कृत्वा सुवर्णरौप्यताम्रैरावेष्ट्यतं मुखे क्षिप्तं स समस्त स्यापि
जगतोन्तर्द्धानं करोति । किमुत एकस्य पुरुषस्येत्यर्थः ॥२२॥

नीलांशोकप्रभवाङ्कुर चूर्णमेण रक्तेन सप्तधात्यक्तम् ।
लोहत्रयगर्भगतं गूहति वक्त्र स्थितं जगदशेषम् ॥२२॥

तगरस्योत्तरेति । सोमग्रहणेनग्नी भूत्वा तस्य तगरस्योत्तरादि प्रसृतं मूलं
गृहीत्वा त्रिलोहवेष्टितं कृत्वा यो यः पुमान् मुखे धारयति स स अदृश्यो
भवति ॥२३॥

तगरस्योशरमूलं दिग्वसनेनोद्धृतं शशि ग्रहणे ।
रविचन्द्रवह्निमध्यगम दृश्यमानने क्षिप्तम् ॥२२॥

गोरोचनेति । गोरोचनादुगोरवृक्षपुष्पम् उद्बन्धनेन मृताया नारी तस्या
अक्षिरोमाणिकाकाख्येन पक्षिणा भुक्तं पदन्तं ततो अन्यो द्धृतं
तदन्नादिकम् एतान्योषधानि एकत्र कृत्वा गुटिकाकार्या सा मुखे क्षिप्ता
पुरुषमदृश्ये करोति । कल्पललनेति नामाख्या ॥२४॥

गोरोचनं गुदितरु कुसुममृतोद्बन्धिताक्षिरोमाणि ।
द्विजभुक्तोच्छिष्ट युता गुटिकेयं कल्पललनाक्षा ॥२४॥

पितृवनेति । श्मशाने मनःशिला नारी प्रथमपुष्पे वहुवेलं मर्दयित्वा
तया कृततिलकपुरुषो न दृश्यते इत्यर्थः ॥२५॥

पारावतस्येति । पारावतः कपोतः स्थूलग्रीवायां कृष्णरेखस्तत् कुक्षौ
श्रोतीजनाञ्जनं क्षिप्त्वा उपरिमृत्तिकां दत्वा चिता वैश्वानरे पच्यते यावन्
मृत्तिका अग्निवर्णा भवति तन्मध्याच्छ्रोताञ्जनं पक्वं गृहीत्वा तेन
चक्षुषी अञ्जयेत् ।

५अ)

अदृश्यो भवति । कृष्णमार्जाररक्तेन चक्षुषी पुनरप्यञ्जयेत् मोक्षो भवति
॥२६॥

पितृवनमर्दितमसकृन्नवकन्यारेतो मनःशिला युक्तम् ।
त्रिभुवनमपि विनिगूहति तिलक क्रियया ललाटतटे ॥२५॥

पारावतस्य कुक्षौ श्रोतश्चित्तिका नलेन पुटपक्वम् ॥
सिद्धाञ्जनं निगूहति असितबिडालाश्च मोक्षनिर्वाणम् ॥२६॥

नवघनेति । नवानि च तानि घनानि तृणां कुरोणितैरुद्धृतो मृत्
नवघनतृणाङ्कुरोद्धृतामृत् तेषां किल उपरिस्थिता मृत्तिका सा मधु
हरिताले एतानि त्रीणि पुष्पनक्षत्रे मेलयित्वा ललाटे देशेतिलक करणात् सिद्धेभ्योपि
निगूहति । किमुतान्य मनुष्येभ्यः ॥२७॥

इत्यदृशीकरणम् ॥ अथ कुतूहलान्युच्यन्ते । भ्रमरेति । सारेण मध्येन रहितो
योसौ अंह्रिपोद्भवशङ्कुः अन्तःसुषिरो योसौ
वृक्षकीलकोजीवद्भ्रमेरपरिपूर्णगः जीवद्भिर्भ्रमरैः सम्यक् परिपूरितं
गर्भमध्यम्मुषिरप्रदेशो यस्य स तथा विधः शङ्कुराकाशे प्रक्षिप्तः
सन् आकाशेश्ववतिष्ठत् लोकस्य विस्मररक्त अदृष्टदर्शन् निर्जीवस्याकाशे
कथमेव स्थानेन भवति ॥२८॥

इत्यदृशीकरणम् । अथकौतुकानि ।

नवघनमृणाङ्कुलोद्धृता मृन्मधुतालमिश्रिता पुष्पे ॥
सिद्धेभ्योपि निगूहतिललाटपट्टतिलककरणेन ॥२९॥

भ्रमरपरिपूर्णगर्भस्तिष्ठत्याकाशमण्डले निहितः ।
साररहितां ह्रि पोद्भवत्राङ्कुः प्रकरोति विस्मयं लोके ॥२८॥

५ब्)

विद्युच्छिखिदग्धपादपेति । कुक्कुरीजरायुना आद्रेण अशुष्केण मरीच पिप्पली
शुण्ठी चूर्णसहितेन प्रलिप्तो योसौ शङ्कुर्विद्युद्दग्ध वृक्षकीलकः स
एवंविध आकाशे क्षिप्तः सन् आकाश एव दशाङ्गुल प्रमाणं बहुकालं
यावदवतिष्ठत इत्यर्थः ॥२९॥

सरमाजरायु निर्मितेति कुक्कुरीजरायुर्भि शय्या जराख्या वृताहस्ताङ्गुलि
मुद्रिका वेष्टितायाः प्रभावेन निरावलंवनं यथा भवति एवमाकाशे
क्षिप्तं कमलमव तिष्ठन्ते । तन्मुद्रिका स्पृ अङ्गुलि स्पर्शात्
कमलमाकाशान्नपतन्तीत्यर्थः ॥३०॥

विद्युच्छिखिदग्धपादपशङ्कुः सरमाजरायुनार्द्रेण ।
त्रिकटुक युतेन लिप्तोदशाङ्गुलोवतिष्ठति व्योम्नि ॥२९॥

सरमाजरायु निर्मित पाणितलं मुद्रिका प्रभावेन ।
अवलम्बनं निरपेक्षं तिष्ठत्यम्भोरुहं गगने ॥३०॥

स्तन्द्राख्य बीजहोमेति । स्तन्द्रा आरणिका मुण्डीति प्रसिद्धा । तस्या बीजहोमात्
चितासञ्छादिते वरेव वह्नौ अग्नौ आतार्क दर्शनाकाशे चन्द्रातप ज्योत्स्ना
यामेव कार्यं किं भवन्त्यनेनेत्याह दृश्यन्ते । शूलपाणयो रुद्राः एवं
कृते त्रिशूलधरा ईश्वर मूर्तयो दृश्यन्ते ॥३१॥

कुरुस इति । कुरु निष्पादय समिदसारदारुणि समिद्भूते असारकाष्ठे गन्धकां
कुलतैलाभ्यां प्रलिप्ते मृक्षिते तप्तेन घृतसुत हवनात् ॥ तदां चयत्
घृतम् आज्यं पादं तयोर्हवनात् वैश्वा नरस्य प्रज्वलनं भवति ॥३२॥

६अ)

स्तन्द्राख्य बीजहोमाच्चितानसञ्छादिवरे वह्नौ ॥
चन्द्रातपे विलग्नाद् दृश्यन्ते शूलपाणयो रुद्राः ॥३१॥

कुरुसमिदसारदारुणि गन्धाख्यां कुरु तैलसंलिप्ते ।
तदा घृतसुतसूतहवनात् प्रज्वलनं भवति दहनस्य ॥३२॥

एवं विधें धनेति । पूर्वोक्त आर्यायाम् । असारसारुणि गन्धस्यां कुल तैल
संलिप्ते एवं विधें धनस्थे गन्धकचूर्णं प्रक्षिप्तं किं करोतीत्याह ।
तदा घृत क्षेपात् शीघ्रमग्निं प्रज्वालयति ॥३३॥

कल्माविका विमर्दित वज्रेति । कल्माखिका अङ्गारिकास्ताभि देव कृतं
पूर्वसदृशमिन्धनम् । अनन्तरं पूर्वयोगवत् ।
समिदसारदारुणिगन्धास्साकुल्लतैलसंलिप्ते इन्धने तस्मिन् जल हवनात् पानीय
होमात् ज्वलति नितान्तं निशेषम् उत्पादितो वै द्युतोऽग्निर्ज्वलति ॥३४॥

एवं विधेन्धनस्थे गन्धकपाषाणसम्भवोसेणुः ॥
तप्ताह्यहुतिहोमात् प्रागिति प्रज्वालयत्य नलम् ॥३३॥

कल्माखिका विमर्दित वज्रानलदग्धे रण्ये ॥
ज्वलति नितान्तं जनितो जलहवनाद्वैद्युतो वह्निः ॥३४॥

ऋतुमह्येति । ऋतुमती चासौ ललना च तस्थाः कुसुम गृहे योनौ सप्तदिनानि
वासितम् उषितै स्थापितं क्रमात् सिद्धम् । गुरु परम्परया सिद्धं प्रकटयति ।
वह्नि मध्ये दर्शयति । अङ्गारमध्ये हुतं सौ वीराञ्जनं पुरुषं दर्शयति ।
अग्निकुण्ड मध्ये एवं विधे सौ वीराञ्जने हवनात् पुरुष रूपं दृश्यते ॥
३५॥

इति कुतूहलाधिकारः ॥ अथाग्नि स्तम्भः ॥ शशीति । शशिजं सेवालं
जलौकादर्दुरौ जीवविशेषौ ॥ पाटलाया वृक्षविशेषमूलानि
एभिरोषधैस्तैलं परिपक्वं तेन चरणतल लेपादङ्गार खनिका मध्ये
यथेष्टं परिभ्राम्यते अङ्गारपरिपूर्णगर्भमध्ये साधको भ्रमतीत्यर्थः
॥३६॥

ऋतुमल्ललनासप्ताहकुसुम गृहे वासितं क्रमात् सिद्धम् ॥
प्रकटयति वह्नि मध्ये हवनात् सौवीरकं पुरुषम् ॥३५॥

शशिजलौकादर्दुर तैलैरेभिः स पाटला मूलैः ॥
चरणतलसम्प्रलेपाद्धमति नराङ्गार खानिका मध्ये ॥३६॥

भेकेति । मण्डुकवसामध्ये वो मुदितं जलौका च सेवालं च प्रक्षिप्य
चरणादिकं प्रलिप्यते ततोग्ने रुपरि भ्रमतो न दाह स्फोटादिकं न भवति ।
हिमशीतलो वह्निर्भवतीत्यर्थः ॥३७॥

धवेति । धवलमण्डूकचूर्णं मण्डूकरुधिरेण बहुशो भावितं कृत्वा
अग्नौ क्षिप्यतेन अग्निः स्तम्भितः शतवर्षशतैरपि आहरपाकं न करोति ॥३८॥

भेकवसा श्रावणिकयाजरलोक स चन्द्र सम्भवैर्युक्ता ॥
चरणतल सम्प्रलेपात् करोति हिमशीतलं वह्निम् ॥३९॥

धवलह्म?वङ्गमोद्भवरेणुं रुधिरेण रञ्जयेत् तस्य ॥
न पचति वर्षशतैरपि विभावसुः स्तम्भितस्तेन ॥३८॥

तुरगेति । अश्वपादतररन्ध्रमध्ये मासत्रयं यावत् प्रक्षिप्तैरग्निरुद्दीपितोपि
स च रोममात्रमपि दग्धुं समर्थो भवति ॥३९॥

इत्यग्नि स्तम्भाधिकारः ॥ अथ जलस्तम्भनम् ॥

प्रक्षिप्येति । डिडुभोद्विमुखैः सर्पस्तस्य रक्त कुत्रचित् पटान्तरे कृत्वा
मुखमध्ये प्रक्षिप्यते पानीय मध्ये गतः सन् स्त्रीय गृहमध्ये इव सुखेन
तिष्ठति । जलेन प्लाव्यते जलस्तम्भनं भवतीत्यर्थः ॥४०॥

तुरगक्षुररन्ध्रनिहितैर्नडवेतसमुलमाखयवभेकैः ।
न दहति स चरो ममपि स्तम्भिनरेतैः प्रदीपितोप्य नलः ॥३९॥

प्रक्षिप्य मदन मध्ये डिडुभर प्रविश्य जलमध्ये ।
निजभवनाभ्यन्तर इव तिष्ठेदात्मेछया धीमान् ॥४०॥

श्योनेति । अरलवृक्षबीजैः पादुका द्वयं पूर्यति मारुह्य भूमाविव पानीयो
परिप्रकटं यथा भवत्येवं स चरति ॥४१॥

नवेति । नवनीत सुवर्ण गैरिके प्रसिद्धे । दुर्गन्धा औषधि विशेषः । मत्स्य
तैलम् एतेषां चूर्णेन शरीरसक्तानि सर्वाणि स्रोतांसि रन्ध्राणि अभ्यज्यतेनतो
मत्स्य इव जलोपरि भ्रमति ॥४२॥

श्योनाकबीज चूर्णं कृत्वा चाक्रम्य पादुका युगलम् ॥
मह्यामिव सलिलोपरि पर्यटति नरः सुविस्पटंष्टम् ॥४१॥

नवनीतरुक्मगैरिकदुर्गन्धा मीनतैलकल्केन ।
सकलश्रोततोभ्यङ्गाद्भ्रमति नरोनक्र वत्सलिले ॥४२॥

भोगेति । बिल्वं मदनफलम् एतौ क्षीरेण मर्दयित्वा गुटिकां कृत्वा
गोशृङ्ग मध्य स्थित सुषिर प्रदेशे प्रक्षिप्य सप्तदिनानि यावत् तत्रतां
धारयित्वा पश्चात् ततः आकृष्यपान पात्ररन्ध्रेषु नावादि द्विरन्ध्रेषु
क्षिप्त्वा गुटिकानावादि स्तम्भयति । नावादि स्तम्भनं भुजल स्तम्भनं
भवति । अतोनेन योगेन जलं स्तम्भ्यते अतो जलस्तम्भनात् नावावादीनां
स्तम्भनमुचितम् ॥४३॥

इति जलस्तम्भनाधिकारः ।

अथ पिशाचीकरणमाह । जीवेति । धत्तूर बीजचूर्णं शुष्ककाष्ठान्तरवारी
कृमि घुनस्तस्य चूर्णं नीलोस्थूलामछिका कोकिलास्तासां चूर्ण
एतान्योषधायि एकत्र कृत्वा पाने दत्तानि पिशाचं कुर्वति । ग्रह गृहीतमिव
कुर्वन्तीत्यर्थः । तथा एतद्दोष्मे गुडेनकाञ्जिकमिश्रेण पीतेनोपशाम्यति ।
एतदोषधपानात् पुनरपि संसुखं स्वस्थो भवति ॥४४॥

गोगवरन्ध्रनिहितैः श्रीफलका ह्रीयैः पयः पिष्टैः ।
स्तम्भयति यान पात्रं सर्वान्तरन्ध्रगा गुटिका ॥४३॥

जीवानिकाञ्चनतरोघूर्ण चूर्णयुतानि कोकिलाभिश्च ॥
कुर्वन्ति नरं प्रेतक्या नयशङ्गुडालनालाभ्याम् ॥४४॥

द्विजेति । ब्राह्मणविडालवानरचाण्डाल उलूकनकुल एतेषां रोमाणि
विडालविष्टया सहचूर्णितानि खाने पाने प्रदत्तानि उन्मादम् उत्पादयन्ति ।
विरमो विराल चतुश्चये ॥४५॥

गोमेति । सृगालपुच्छं काकं पक्षिणो दक्षिण विभाग स्थितं पिछं द्वयं
मेलयित्वा यस्य शयने न्यस्यते स च रौद्रेणापस्मारेण गृह्यते ॥४६॥

द्विजमार्जारकपिश्वपचकाकरि नकुलरोमाणि ॥
पिष्टानिविरमवच्चैरुक्मदकरण्ठे सर्वलोकानाम् ॥४५॥

गोमायोर्जाङ्गुलं द्विजदक्षिणपक्षभाग युक्तम् ।
शयनन्यस्तं विसृजति घोरं शत्रोरपस्मारम् ॥४६॥

कनेति । धत्तूरकहरितालबीजपूरकानि कपोतविष्ठा मयूरविष्ठा
कुक्कुराविष्ठा एतान्योपधानि एकत्र चूर्णयित्वा यस्य खाने दीयते शिरसिवा
चूर्णं वा प्रक्षिप्यते स उन्मादेन गृह्यते । उन्मत्तो भवतीत्यर्थः ।
शिरोमुण्डनेनसु नरपि विमदो भवतः यदा शिरसि स्थिताः केशामुण्डायन्ते
। तदा सत्प्रकृतिस्थो भवति ॥४७॥

इति पिशाची?करणाधिकारः ॥

रोमशात्तनमाह । हालाहलेति । कृष्णसर्पपुच्छं सप्तदिनानि यावत् धत्तूर

८अ)

तैलमध्ये परिवसितं सन् रोमकेशादिकं शातयति । अनैन तैलाभ्यक्तं
रोमकेशादिकं स्वयमेव पतति । अत एव प्रधानं रोमशातनमेतत् ॥४८॥

कनकालमातुलुङ्गैज्यारावतकेकिताम्रचूडानाम् ॥
सकृदुन्मत्तं कुरुते विमदोकेशीति करणा भवति ॥४७॥

हालाहललांशू?लं सप्तदिनकनक तैले पर्युषितैः ॥
शातयति केशनिहतं तथ्यमिदं केशशातनंवरम् ॥४८॥

बहुश इति । बहून् वारान्थो हरिदुग्धेन तिलान् भावयित्वा ततस्तैलं गृहीत्वा
तेन तैलेन केशा अभ्यञ्ज्यते केशाः श्वेतवर्णा भवन्ति । परं
शरीरस्याम्भ्यङ्गोन कार्यः । पतेस्तैलं तेलेन शरीरं पाण्डरं भवति । स
कुष्ठं प्रतिभासतेत्यर्थः ॥४९॥

अष्टेति । सुधा प्रसिद्धा तस्या भाग १ हरिताल भाग १ एकत्र जलेन मेलयित्वा
वैश्वानरेणायो देयः पश्चात् तेन स्वाङ्गशीतलेन केशजालमभ्यज्यते
केशजालं न पश्यति ॥

अनेन विधिना हरिताल प्रयुक्ता सुधा सत्यं केशसमूहं पातयति । एतत् स
चराचर लोके प्रसिद्धमित्यर्थः ॥५०॥

वहुशो वज्रीपयसा भावित तिलतैलमूर्द्धजाभ्यङ्गात् ॥
धवलपराहकरुचयो भवन्ति केशा नित्यङ्गात् ॥४९॥

अष्टमभागयुतासुधाजलेनानलेन सन्तप्ता ॥
ज्ञातयति केशजालं युक्ता स चराचरे जगति ॥५०॥

सैन्धव हरितालेत्यादि सुगमम् ॥५१॥

इति लोमशातनाधिकारः ॥ अथ शस्त्र स्तम्भः ॥ प्रक्षिप्येति ॥

८ब्)

अहंसासरपुङ्खा तस्या उत्तरादिग्भवं मूलं वदने क्षिप्तं यावत् केनापि
सहनवदति मौनेनापि तिष्ठते तावत् तस्य शरीरे प्रहारो नलगति ॥५२॥

दिवसेति । आदित्य ग्रहणे कृष्णचतुर्दश्यां वा आदित्यवारे पुष्पनक्षत्रे
पाटलामुत्पाद्य मुखे विधृतं सखड्गं स्तम्भयति । खड्गादि घातः
शरीरे नलगतीत्यर्थः ॥ पाटलापुष्पजातीयो वृक्षविशेषः ॥५३॥

सैन्धव हरितालसुधायवनालरसंयुतायोगः ।
कुरुते रोमविहीनं प्रयुक्तमात्रस्त्रिलोकमपि ॥५१॥

प्रक्षिप्य वदनमध्ये मूलमहिंसोत्तरं सदासमरे ॥
नभिन्दतिशंस्त्रमङ्गम्भूल्लीसन्तिष्ठते यावत् ॥५२॥

दिवकर ग्रहणे सितभूताह्नि प्राप्यपाटला मूलम् ॥
रविवारे पुष्पदिने वदन गतं खड्गवारं कुरुते ॥५३॥

पर्ण्येति । अनेन दिवसकर ग्रहणादिना पूर्वोक्त विधिना शालीपर्णी औषधं
मूलम् उतवातं मुखे क्षिप्तं सङ्ग्राममध्ये घोरणी वर्षं निपतं तं
निवारयति । सङ्ग्राममध्ये शराः शरीरं नभिन्दन्तीत्यर्थः । न केवलं
पूर्वप्राप्ता । पाटलाशरं वर्षन्तं निवारयति । यावत् पर्ण्यवीशालपर्ण्यपि
शब्दार्थः ॥५४॥

सवितरिशस्त्र स्तम्भेति । त्रीन् दिवसान् यावदुपवासान् कृत्वा माघत्रयोदश्याम्
अस्तं गछति । आदित्ये मन्त्र रक्षादिकम् अश्वगन्धापीतासति शस्त्र स्तम्भं
करोति ॥५५॥

इति शस्त्रस्तम्भाधिकारः ॥

पर्ण्यप्यनेन विधिना समाहृत वदनमध्ये निक्षिप्ता ।
समरशरनिकरवर्षं निपतं तं वारयत्याशु ॥५४॥

सवितरि शस्त्र प्रमैलं? बमाने करोति हुयगन्धा ॥
त्रिदिनोषितेन पीता विधिवत् ॥

९अ)

माघत्रयोदश्याम् ॥५५॥

अथ दिशान्तर गमनम् ॥ सितभृङ्गेति । श्वेतभृङ्गराज श्वेतकोकिलाक्षः
श्वेतकाकजङ्घा श्वेतशरपुङ्खायाः मूलं ह्री बीजं बालकबीजम्
एभिरोषधैः कट्याम्बद्धैर्वायुरिवभूमिं भ्रमति यथा वायुः
पथगमनः । एवं सोपि कटितटबद्धैरोषधैर्भ्रमतीत्यर्थः । सितशब्दः
सनिवर्तयित्वा पादं द्वयं लेपनीयम् अमरहितोदिनैकेन योजनशतं गछति ॥
५७॥

सितभृङ्गे कोकिले क्षणजङ्घा पुङ्खाशि फाभिर्ह्री बीजैः ॥
कटितटवद्धैरेभिः समीरवन्मेदिनीं भ्रमति ॥५६॥

मदनफलं सितजङ्घाक्षीरं सुरभेस्तथैक वर्णायाः ॥
भूर्जत्व कुच तेषां पादयोर्लेपाच्छतं गछेत् ॥५७॥

कृकेति । कृकलासत्प्रसिद्धः रक्तमाल उलूकस्तयोः कङ्कालानि अश्वीनि सुरेन्द्र
गोपकृमि विशेषः मयूररुधिरम् एभिरोषधैः कृत्वा गुटिकासुवर्ण
मध्ये निक्षिप्ता सती मुखे क्षिप्ता प्रत्यहं योजनानि त्रीणि शतानि सार्धानि
साधकः प्रयाति अमरहितः ॥५८॥

शितेति । शुक्लवंशलोचनाम् आहको भृङ्गारस्तस्य मूलानि
पतैरोषधैश्चूर्णितैः पुष्पनक्षत्रे छागली नवनीतेन पाचितैः चरणतल
प्रलेपाद्यथेप्सितं यथातं प्रतिदिनं साधको गछति । एतल्लेप प्रभावो न
वाञ्छितानि योजनानि साधकोप्रजतीत्यर्थः ॥५९॥

इति दूरदेशान्तरगमनम् ॥

अथ ग्रहणदर्शनम् ॥

९ब्)

अङ्कुलेति । अङ्कुलबीजतैलं मयूरपित्तं भल्लाटकबीजम् एतानि त्रीणि मेलयित्वा
दर्पण तलं लेपयेत् । अकाले एव सूर्यग्रहणं लोके दृश्यते । रवि विषये
दर्पणतले विलिप्यते यच्छिखण्डि पित्तेन ततो योजनान्तरे स्थिते लोक आदित्य
ग्रहणं पश्यति । किमुतनिकटस्त अनेन योगसामर्थ्यं दर्शयति दिवाय ॥६०॥

मुनि वृक्षेति । मुनीनां वृक्षो मुनि वृक्षः पलाशस्तस्य पुष्पाणि तेषां
सलिलं रसः श्रोताञ्जनं प्रसिद्धं रसाञ्जनमित्येके । श्रोताञ्जनं
चूर्णकृत्यपलाशपुष्परसेन चक्षुषी अञ्जयेत् । वेगेन दिवसे एकनक्षत्र
समूहं पश्यति ॥६१॥

अङ्कुलतैलयुक्तं शिखियित्तारुष्करं तथा बीजम् ॥
एभिर्दर्पण लेपाद्ग्रहणं स्याद् दर्शनं भानोः ॥६०॥

मुनिवृक्षकुसुमरसैः श्रोताञ्जनं चूर्णनिर्मितं पुष्पे ॥
दर्शयति दिवायतो नक्षत्र गणं दृगञ्जनं पुष्पे ॥६१॥

दीपकेति । प्रथमतस्तु बहुशोलाक्षारसे भावितां मूलवर्तिकां कृत्वा
करञ्जतैलेन अत्यर्थन्तां वर्ति पुनर्भावयित्वा तया वर्त्या दीपं प्रज्वाल्य
विस्तीर्ण मुखभाण्डमध्ये प्रक्षिप्य प्रदीपमुपरि भाण्डमुखं
वानरश्चर्मणापिधाय प्रधानं निरन्ध्रं तद्भाण्डमम्भसि यावत्
मतितावत् प्रमाणं चन्दरग्रहणं भवतीति ॥६२॥

इति सूर्यचन्द्रगहणाधिकारः ॥

अथ वेशाविधानम् ॥ शवेति । मृतककलेवरस्यास्ये कृष्णचतुर्दश्यां
गुग्गुलु क्षिप्तं पुनर्मुखमध्यादा कृष्यनीतञ्चिताग्निना दीपितं सकलं
जगदपितं सकलजगदपि धूपेन आवेशयति । किं पुनरेकं सत्यर्थः ॥६४॥

१०अ)

दीपकमलकुववर्त्याकरञ्जतैल प्रदिग्धया कृत्वा । हरिचर्मणापिहितं
विशालमुखं भाण्डमध्यस्थम् ॥६२॥

तद्वनगतं च तद्वच्चन्द्र ज्योत्स्ना विशेष इति । पयसिमज्जन्ति यावत् ताव
ग्रहणं भवेदिन्दोः ॥६३॥

शववदनकुहरसंस्थं चिताग्निनादीपि पुरं कृष्णो ॥
भूताह्नि जगदशेषं धूपादावेशयत्याशु ॥६४॥

कनकालेति । धत्तूरफलबीजं हरितालं त्रिभुवनविजया चित्रकः
उग्रगन्धाकुक्कुटां *? खण्डानि एतेषामौषधानाम्मेलिश्रितानां
धूपात् सचराचरं लोकमावेशयन्ति । अनेन धूपेन स चराचरस्य लोकस्य
आवेशो भवति ॥६५॥

महिषेति । पञ्चाङ्गधत्तूरचूर्णं माहिषरुधिरेण स बहुशो भावयित्वा
शुष्कं षोडशसमभागं वत्स नागविषयुक्तं रात्रौ तस्य धूपात्
पुरुषाणां चेष्टां हरन्ति ॥६६॥

इत्यावेशाधिकारः ॥

कनकालमातुलानि चित्रवचाकुक्कुटाण्डशकलानि ।
आवेशयन्ति धूपात् स्वस्थं स चराचरं लोके ॥६५॥

महिषरुधिरप्रदिग्धः पञ्चाङ्गः षोडशांश विषयुक्तः ।
कनकविटपी च धूपाद्रात्रौ चेष्टा हरः पुंसाम् ॥६६॥

अथ विषप्रयोगविधानम् । सितेति । श्वेतकरवीरमूलम् अर्कवृक्षकीटकः
वृश्चिककण्टकवत्सनागविषम् एतान्योषधानि जलेन पिष्ट्वा हस्तनलिकां
लेप्ययः स्पृश्यते सगोअन सदष्टवद्भवति । सर्पदष्ट इव प्रतिभासते ।
तस्याङ्गं क्षणेन हन्तीत्यर्थः ॥ करगोनास एव ॥६७॥

कनकेति । कपिरक्तरोमाणि चित्रकूटखडिका एतद् द्वयं चूर्णयित्वा सप्तदिनानि
यावदर्क दुग्धेन भावयित्वा पुनरपि पटिकासकल रूपागुटिका क्रियते तया

१०ब्)

गुटिकया पृथिव्यास्तलेस्सर्प रूपं लिखित्वा यः स्पृशति स सर्प दष्ट इव
प्रतिभासते ताभ्यां खटिकावानरीभ्यामित्यर्थः ॥

इति विषप्रयोगाधिकारः ॥

सिततुरगमारमूलंरवितन्तु शरभश्च वृश्चिकस्या आरलम् ।
विष्म्रातभागयुतैरेधिः करोगोनसो भवति ॥६७॥

कनकदुग्धाभ्यक्ता सप्तदिनं वानरी तया षटिका ॥
लिखि स्पृष्टो विषदस्ताभ्यां भुविभोगीनः ॥६८॥

अथ विषाप्रहारम् ॥ मलयेति । चन्दननागकेशरं प्रसिद्धम् ॥ मदनफलं
कुष्टं तगरं च एतान्योषधानि एकत्र कृत्वा सञ्चूर्ण्य तन्दूला केन
पिष्ट्वा मध्यम्भ्यन्तः पिबे वाह्ये दंशे च लेपं दद्यात् नानाप्रकारं
स्थावरं जङ्गमं कृत्त्रिमं विषं सर्वमपि नाशयति । न केवलं
पूर्वोक्तैर्योगैरुत्पादितं कृत्रिममेव प्रयातीत्यर्थः ॥६९॥

तदिवेति । तस्मिन्नेवदिने यः समुत्पन्नो वत्सकस्तस्य विष्टा तगरं
नागकण्टकम् आभ्यां गुटिकां कृत्वा पश्चाद्यथेष्टं विषं भक्षयेत् ।
विषस्य दोषो न प्रभवति । शूलपाणिरिव यथा पुरामथनारेभे
यथेष्टमीश्वरेण कालकूटं भक्षितं तथा असावपि भक्षयन परं न कोपि
दोषदः स्यात् ॥७०॥

मलयभवनागकेसरमदनफलव्याधि तगरसंयुक्तः ॥
क्षपयति विषं विचित्रं तन्दूलतोयेन संयुतोह्यगदः ॥६९॥

तद्दिवसाज्जातवत्सकवर्चोभिस्तगरगुटिकासुसम्भक्ष्य यथाकामं विषं
पिबेस्सूलपाणेरिव ॥७०॥

भेकेति । मण्डुकवसाद्विमुखसर्पवसाकटुकादी वृक्षफलानि एकत्र पिष्ट्वा
हस्ततलं विलिप्य तेन हस्ततलसंस्पर्शाच्च सर्वाणि विषाणि दशादपि प्रयान्ति ॥
७१॥

११अ)

गोघृतेति । सुरभी घृतं षोहरिदुग्धं मयूररक्तं
द्विमुखसर्पमांसखण्डानि द्विमुखसर्पास्थि खण्डानि एतानि वाटयित्वा
प्रलिप्तं यत्तूरं पटहं डमरुकादिकं तस्य योसौ नादस्थत् प्रभावेन
त्रिभुवनमपि निर्विषं भवति । ययडादन्दः पतति तदा
एतैरोषधैर्डमरुकपुटानि विलिप्य पश्चात् डमरुडङ्कस्याग्रं वाद्यते
विषनिग्रहो भवतीत्यर्थः ॥७२॥

इति विषापहारः ॥

भेक द्विमुखा हि वसाकटुकी श्लेश्मान्त पादपफलानि ॥
एभिर्विलिप्यपाणिः स्पर्शादंशाद्विषं हरति ॥७१॥

गोघृतवज्रिवर्हिक्षतज द्विमुखाहि पिशित कङ्कालैः ।
प्रविलिप्तसुरनादस्त्रिभुवनमपि निर्विषं कुरुते ॥७२॥

अथ विषमज्वरापहारः ॥

नग्नादीति । चतुर्दशी दिवसे प्रहरद्वय समये केशान्मुक्तला कृत्वा नग्नी
भूत्वा शिखायां रक्षाग्रन्थि वद्धा अङ्गरक्षां कृत्वा अष्टौदिक्पाला
नाहूय पूजयित्वा औषधीमभिमन्त्र्य धूपपुष्पचन्दनादि
विधानाद्गृहतमसितेह्नि वालमूलं तस्य सप्तशकलानि सप्तखण्डानि
कृत्वा हरिद्रादि रञ्जित सूत्रे वद्ध्वा पश्चाज्ज्वरिणां हस्ते बद्ध्वानि
चातुर्थिकं ज्वरं क्षपयन्ति दूरी कुर्वन्ति अथवा पूर्ववत् जिगिनामूलं
गृहीतं तक्रेण पीतं चातुर्थिकं ज्वरं महारौद्रमपि नाशयति ॥७३॥

इति विषमज्वरोपहारः ॥ अथ भूतग्रहादिशातनमाह ॥

नग्नादि विधि समाहृत वालस्य सप्तशकलानि ॥
क्षपयन्ति भूते दिवसे चातुर्थिकं पाणि बद्धानि ॥७३॥

११ब्)

ओम्मिति । ओङ्कारचक्र हूं फट् अमुम्मन्त्रं साधकस्य दक्षिणहस्ते
कुङ्कुमादि सुरभि द्रव्यैर्लिखितं यदा ग्रहगृहीतः पश्यति तदा ग्रहो
नश्यति । अयं मन्त्रो डामर इति भाणित्वा प्रसिद्धः । भूतानां
यक्षराक्षसशाकिन्यादीनां डमरः अन्तकरः सत्यं न्येपि वहवो मन्त्राः
पृथिव्यां व्रतोपवासं मन्त्रजपपूजा ध्यानादिभिर्बहुभिः कष्ट
परम्पराभिः साघिताः सकला भवन्ति । अयं दृष्टमात्र एवग्रहमोक्षादि
कार्यं करोति । प्रस्तावाच्चललूकस्य दक्षिणपदं पक्षं श्वेतसूत्रेण
वेष्टयेद् दक्षिणं पूर्ववदिति ॥७४॥

ओङ्कारचक्र हुं फट् न्यासेन हस्त विन्यस्तः ग्रहमोक्षणं कुरुते मन्त्रोयं
भूतडामरः प्रसिद्धः ॥७४॥

गोगेति गोशृङ्गं विडालविष्ठा हस्तिनखं सर्वकञ्चुकं मयूरपक्षाणि
शतपुष्पोलसुनहिङ्गु एतान्येकत्र मेलयित्वा ग्रहगृहीतायते ग्रहग्रस्तं
विमुक्ता प्रणश्यति । भुजगवल्ल इत्यन्ये तन्मते सर्पगरल योगमध्ये क्षिप्यते
ग्रहाक्रन्दन्ति । छिनत्ति ॥ इति ग्रहकेतुर्ग्रहपक्ष स डाकिनी प्रभृतीनां
नाशयति इत्यर्थः । दुर्गन्धा शतपुष्पम् ॥

इति विषमहृतग्रहमोक्षणाधिकारः ॥

योगवलविडालशकृत्करिककरुहभुजग कवच शिखि चन्द्रैः ॥
ग्रहकेतुरयं धूपो दुर्गन्धालशुन हिङ्गुभिर्युक्तः ॥७४॥

अथ ज्योतिर्दर्शनम् ॥

धरणीति । भूनागशरीरं मनःशिला हरिताल एतानि त्रीणि चूर्णयित्वा

१२अ)

सर्षपतैलेन सहशरीराभ्यङ्गः कार्यः साधकः रात्रौ दीप्तं
ज्वलन्तमिवसाधकशारीरमन्यलोकैर्दृश्यते ॥७६॥

खद्योतेति । खद्योतशक्रगोपको जीवविशेषः आमलकी फलबीजतैलं शरनबीजं
तैलम् एताभ्यां तैलाभ्यां मध्ये खद्योतक इन्द्रगोपकीटकः । शोषयित्वा
सूक्ष्मचूर्णं कृत्वा प्रलिप्ययत् किञ्चिद्विग्रहादिकं देहादिकं लिप्यते
तत्रादौ दीप्तज्वलदिव दृश्यते ॥७७॥

इति ज्योतिर्दर्शनाधिकारः ॥

धरणीलताशिलालैः सर्षपतैलेन मर्दितः कल्कः ॥
रजतिवहान्धकारेन् विग्रहं ज्वालयत्येपः ॥७६॥

खद्योतशक्रगोपधात्रीशणबीजतैलकल्केन ।
प्रज्वलति विग्रहाघं रात्रौमल्लिप्यते किञ्चित् ॥७७॥

अथाञ्जनविधिः ॥

मृगेति । सृगाललोचने चूर्णी कृत्य पानीं येन घर्षयित्वा क्रमशो गुटिके
द्वे वद्ध्वा पुनः क्रमात् शृगालदक्षिणाक्ष्णा स्वदक्षिणाक्षिवामेन
वामाक्षि एताभ्याम् अञ्जित नेत्रः साधकः रात्रौ बहूनिभूतानि
यक्षराक्षसादीनि पश्यति । तस्मै साधकाय यक्षादि पश्यते । यक्षादीनि
प्रयछन्ति सिद्धद्रव्याणि अञ्जनपटुका अन्तर्द्धाने आकाशगामीत्यादीनि ॥७८॥

मृगधूर्तलोचनयोश्चूर्णेनाञ्जितनयन युगः क्रमात् ॥
पश्यति प्रभूतानि रात्रौ सिद्धद्रव्यं प्रयछन्ति ॥७८॥

पटहेति । पटहोवाट्य विशेषः स्वप्रदीपगर्भः प्रदीपोमध्यगर्भे यस्य स
तथा तन्तुतरेणाति सूक्ष्मेण यत्तलेन

१२ब्)

वानरचर्मणा कृतमाच्छादने यस्य स तथा एवं विधः पटहो रात्रौ
गृहमध्ये स्थापित चन्द्रप्रभां विशेषयति । आधिक्येन करोतीत्यर्थः ॥७९॥

गोक्षीरेति । गोदुग्धम् अतिबलः काकही प्रसिद्धामधुयष्टी गोघृतं वलाबल
एवशर्करामत्स्यन्त्री एतान्योषधानि चूर्णयित्वा ॥

पटहा प्रदीपगर्भस्तनुतरहरिचर्मणा कृतछन्नः गृहमध्यगः
क्षपायां चन्द्रज्योत्स्नां विशेषयति ॥७९॥

गोक्षीराति बलायष्टि घृतं बलाशर्करा वर्तकाले ॥

अवलेहङ्कारयेत् । क्रतु काले वन्ध्यापि लोकेश्वरं पुत्रं लभते ।
लोकानीश्वरं लोकेश्वरं महाराजानमित्यर्थः । अनेन कृतेन वन्ध्यापि
गर्भं धारयति । किं पुनरपरानानीत्यर्थः ॥८०॥

अश्वत्थेति । रेवती नक्षत्रे पिप्पलसृक्षादिवन्दका वृक्षखण्डं गृहीत्वा
रेवती नक्षत्रे वन्ध्या नारी हस्ते सूत्रे वन्धो वन्ध्या गर्भं धारयति ।
वृक्षोपरि योसौ वृक्षः अन्यः उत्पद्यते सवन्दाकः ॥८१॥

अवलिह्यसम्प्रसूते कन्यालोकेश्वरं पुत्रम् ॥८०॥

अश्वत्थतरु त्वक् समुद्भवन्दाकं सम्प्रगृह्य रेवत्याम् ॥
वध्येर्न तेन पाणौ वन्ध्या गर्भं प्रगृह्णाति ॥८१॥

व्याघ्रेति । व्याघ्ररक्तं व्याघ्रमांसे खण्डानि भ्रमरो दधि दुग्ध
विकारः । उत्पलानि कुसुमविशेषः एतानि चूर्णयित्वा जलेनालोड्य सदा दिनानि यावत्
कुण्ड मध्ये स्थाप्यन्ते सप्तमे दिवसे षण्मासजीवितं व्याघ्र युग्मम्
उत्पद्यते ॥८२॥

१३अ)

मनुष्येति मनुष्य स्त्रीपुरुषयुगलं तयोर्मलं शरीरादेः समुत्पन्नं तथा
तयोः रुधिरं तथा तयोरिन्द्रियं शुक्रं तथा तयोः कर्णमलं तथा
तयोरक्षणेर्मलम् एतान्योषधानि नारीदुग्धेन मर्दयित्वा एकविंशति दिनानि
यावद्वृक चर्मणा वेष्टयित्वा मुञ्चते एकविंशति दिवैः पुरुषनारी युगं
तन्मध्यादुत्पद्यते ॥८३॥

व्याघ्रक्षत भवपिशितैर्भ्रमरैर्दध्युत्यलानिते कुण्डे
षण्मासप्राणधारं सप्ताढा व्याघ्रमिथुनम् ॥८२॥

मनुष्यमलरुधिरेन्द्रियकर्णक्षि मत्यं प्रमथ्य तत्पयसा ॥
साहुडकृत्तिवृत्तैरेभिर्नरमिथुनं स्यात् त्रिसप्ताहात् ॥८३॥

ललनेति । अग्रे प्रथमनेव सुरतात् पूर्वमेवनारीणां कटितटे वद्धं
धत्तूरकमूलं गर्भं निवारयति तथा सुरतविशेवणकाले बद्धं तत्
एतन्मूलं स पुष्पकं गर्भं निवारयति । ऋतुकालेपि वद्धं कटि तटे
नारीणां गर्भं निवारयतीत्यर्थः ॥८४॥

सम्भज्येति । आर्तवे यथाकाले पुराणघृतमात्रमार्तवे चापि । अनिशंसु
पुराणं जीर्णं गोघृतं सम्भक्ष्य सम *? ब्रुषीत्वा अतिशयेन
सुरत सत्क्वापि नारी गर्भेन गृह्णाति । रात्रीवारसङ्कामसेवातत्परापि नारी
जीर्णगोघृतपानाद् तु काले गर्भं न गृह्णातीत्यर्थः ॥८५॥

ललनानितम्ब बद्धं मातुलमूलं निवारयत्यग्रम् ।
नित्यं सुरतनिषेवणकाले गर्भं स पुष्पकं दृष्टम् ॥८४॥

सम्भक्ष्य काले पुराणघृतमात्रमार्तवे चापि ।
अनिशं सुरतसक्तारामागर्भं निगृह्णन्ति ॥८४॥

१३ब्)

धात्र्यं जनेति । पुष्पनक्षत्र अमलफलचूर्णं सौवीराञ्जन चूर्णं च एकत्र
कृत्वा यदा शीतलेन जलेन आलोड्यपीयते तदा गर्भभयम् ऋतुभयं न च
भवति भर्तृ रहिता च या नारी गर्भावम् ऋतु समयो भावं च वाञ्छति अत
एव तद्द्वया भावाद्भय भयरहितारण्डायथेष्टं भजनं कुर्वति
पृथिव्यां पर्यटन् ॥८६॥

धात्र्यञ्जन भवचूर्णे पीत्वा शीतेन वारिणा पुष्पे ।
गर्भर्त्रुभीतिरहिता विचरतु कामातुरारण्डा ॥८६॥

सुरपतीति । इन्द्रगोपकीटचूर्णं पानीयेन सहया ऋतु सहिता नारी पिबति लेढि वा
ऋतु काले पिवतीत्यर्थः । तस्या गर्भम् ऋतुकालश्च दूरं प्रोच्छारिते दूरे
भवति । न भवत इत्यर्थः । हि यस्मादर्थः ॥८७॥

सदलेति । यस्मिन् गृहे प्रधाना अलक्तक इन्द्रगोपकृसिः कपिलागोघृतम् ।
एतैस्त्रिभिः प्रसाधितो निष्पादितो ज्वलति तत्र गृहे कामयमानानां
नरनारीणां वराङ्गर्भगोन भवति । लिङ्गयोन्यादिकं न नश्यतीत्यर्थः ॥८८॥

सुरपतिगोपकचूर्णम् ऋतुमल्लजलेन या पिबति ।
गर्भार्शवे तु तस्या दूरं प्रोत्सारिते हि भवतः ॥८७॥

सदलक्तकसुरशोपकपिलाघृतसम्प्रसाधितो दीपः ।
प्रज्वलति यत्र भवने वराङ्गभङ्गो न जातु चित्तत्र ॥८८॥

१४अ)

श्वेतार्केति । यस्मिन् स्थाने श्वेतार्कतूलवर्त्याशूकरवसयामज्जितयाति शयेन
भावितया दीपः प्रज्वाल्यते तत्र कामयतः पुरुषस्य समग्रां रात्रिं यावत् न
पतति स्तब्धमेव तिष्ठतीत्यर्थः ॥८२॥

बृहतीति । कङ्कटारिका श्वेतसर्षप कुष्ठम् उग्रगन्धा अश्वगन्धा
एतासां चूर्णं पानीयेन अक्षचूर्णी कृतैर्लिङ्गं पुनः पुनर्लेपितं मर्दितं
च सन् हयस्येव घोटकस्येव भवतीत्यर्थः ॥९०॥

श्वेतार्कतूलवर्त्या वराहमेदः प्रदिग्धया दीपः ।
स्तब्धं पुरुष वराङ्गं धारति च शर्वरी शकलम् ॥८९॥

बृहतीसितसिद्धार्थ व्याधिवचातुरगगन्धयामहितम् ।
एभिः प्रलेपितं सन् पुरुष वराङ्गं हयस्येव ॥९०॥

घृतेति । आज्ये माक्षिकं तिलतैलं कण्टकारिका फलं सेवालं स्वयं गुप्ता
ताम्रे प्रक्षिप्य सप्तदिनानि यावत् तत्रस्थाप्य ततो लिङ्गस्य लेपनं मर्दनं च
कार्यं लिङ्गवृद्धिर्भवति ॥९१॥

सुतमिति । करञ्जफलङ्कोरयित्वा मध्ये पारदं प्रक्षेप्यं पश्चात् सूतं
करञ्जफल मध्यगतं तथा श्वेतसारपुङ्खा तस्या मूले एतौ द्वावपि मुखे
निक्षिप्य यदा सुरतं क्रियते तदा पुरुषेछया यावत् तावद्वीर्य स्तम्भो भवति ।
यदा मोक्ष इष्यते तदा एतौ द्वावपि चर्वयित्वा गिल्यन्ते तदा बीज मोक्षो भवति ॥
९२॥

गोमय जीर्णं चीर्णं भक्षिमनन्तरं जीर्णं युतेन निःसृतं
यद्वदरास्थिवदरकुलीयकस्तं सछिद्रं

१४ब्)

कृत्वा धारकीट हृदयेन सह युक्तं कृत्वा रासपुच्छके सवरकेन
एतद्द्वयं बद्ध्वा पुरुषस्य कटि तटे बद्धे तत्पुरुषस्य स्तम्भो भवति ॥९२॥

घृतमधु युक्त तैल बृहती फलशूकरमात्मगुप्ता च ॥
एभिर्वराङ्गवृद्धिः सप्तदिनं ताम्रभाण्ड उपर्युषितैः ॥९१॥

सूतं करञ्जफलयुक्तः सितवाणपुङ्खिताया मूलम् ।
वदनविवरान्तरस्थं स्तम्भयति निजेच्छया बीजम् ॥९२॥

षड्विन्द्धिति । षट्बिन्दुभ्रमरः कीटविशेषः तस्य यद् देहजं चूर्णं
खरमञ्जर्या दीर्घशाखायाः शिफामूलं तस्य चूर्णम् अर्क तूलेन वर्तिः
पूर्वोक्त चूर्णद्वय सहितं कृत्वा यस्य गेहस्य मध्ये तदा दीपः प्रज्वाल्यते
तद्गृहमध्ये कामयमानानां पुंसां बीजस्तम्भो भवति ॥९३॥

आजमिति । छाजलदुग्धं क्षोहरिदुग्धं गोघृतम् एतत् तृतीयमेकत्र कृत्वा
पादतललेपेन सकलां रात्रिं कामयमानानां पुंसां रेतः स्तम्भो भवति ॥
९४॥

इति शुक्रस्तम्भनम् ॥

षड्बिन्दुदेहचूर्णैः खरमञ्जर्याः शिफामूलैः ॥
दिवसकरतूलवर्त्यादीपशुक्ररोधकः पुंसाम् ॥९३॥

आजंवज्री क्षीरं * *? घृतं चरण युगलेपेन ।
स्तम्भयति पुरुषबीजं योगोयं यामिनीं सकलम् ॥९४॥

१५अ)

सार्द्रमिति । यस्या नार्यागूथंसार्द्धम् अशुष्कं वृश्चिक कण्टकेन
विद्धं कृत्य? भूमिगत्रायां निक्षिप्य उपरिधूल्यालि रुन्ध्यते यावत्
तावत् तस्यारार्याया योनि शूलं भवति तदुद्धृतेशं मोक्षः ॥९५॥

कुष्ठेति सप्तदिनानि यावत् कृष्णसर्पमुखे गुञ्जापरिवसति अथवा
कृष्णसर्पमुखे सप्तदिनानि यावद् गीलिका परिवसति पश्चात् तत आकृष्य
शत्रोः खाने पाने प्रदत्ता सति कुष्ठं करोति पञ्चाङ्गपियाल वृक्षक्वाथे
अष्टावशेषे पीतः स कुष्ठं निवर्तते । त्रीणि दिनानि यावत् क्वाथः पेयः ॥९६॥

सार्द्रं क्षितिरन्ध्र स्त्री वर्चो वृश्चिकालसम्बद्धम् ॥
घोरं वराङ्ग दुःखं विसृजति यावत् तदुद्धृतेशम् ॥९५॥

कुष्ठमरातौ विसृजति सप्तदिनं भुजङ्गवदनपर्युषिता ॥
गुञ्जाथ भवनगोजा यावत् क्वाथं पिमालगन पिबेत् ॥९६॥

सकृदन्तेति । काकरुधिरेण काकपक्षलेखन्या काकपिच्छे यस्य नाम लिखित्वा
तदीय गूथमध्ये प्रक्षिप्यते गूथेनैव कोटारिशघते स काक
समूहैर्निरन्तरं भक्ष्यते उद्धृते मोक्षः ॥९७॥

अत्रैवार्थे द्वितीय प्रयोगमाह । द्रोणकेति । द्रोणकः कृष्णकाकस्तस्य हृदय
रक्तेन आम्रवृक्षपत्रे यस्य नाम विन्यस्य उपरि उपरि तद्गूथेन छाद्यते स
काकैर्निरन्तरं भक्ष्यते उद्धृते मोक्षः ॥९८॥

१५ब्)

सकृदन्तं निक्षिप्तं द्विज हृदय क्षतज पत्र संलिखितम् ।
यन्नाम द्विजसङ्घाः खादन्ति निरन्तरमिह ॥९७॥

द्रोणक हृदयरूधिरेण च चूतदले यस्य नाम विन्यस्ते ॥
तद्वर्चान्तर्निहितं काकैः सम्भक्ष्यते सापि ॥९८॥

अथ गोहनज्यावनम् । गोषद्द्वारीति । गोकुलद्वारे कुम्भे कृकला सम्प्राणि
विशेषं क्षिप्त्वा निखन्यते भूमौ उपरि धूल्या स्थाप्य तेन यथा स्थितं
कुम्भं यथा गावो निर्गम प्रवेशं कुर्वन्ति उल्लङ्घयन्ति । तदा गोष्ठे
गावः सुप्ता इव मूर्छिता इव विशेषण हन्यमाना अपि स्वस्थोन्यत्तोत्तिष्ठन्ति
सुप्ता इव तिष्ठन्ति यावदसौ कुम्भस्तस्मान्न बाह्ये आकृष्यते आकृष्टे तु
गावः निद्रा रहिता यथेष्ठं सञ्चरन्तीत्यर्थः ॥९९॥

गोषद्वारि निखनितकलशगकृकला संलङ्घनाद्रावः ॥
सप्ताविहन्यमाना अपि नोत्तिष्ठन्त्यनुद्धृते तस्मिन् ॥९९॥

अथ गर्भ स्तम्भ मोक्षाधिकारः ॥

मल्लकेति । यस्या नार्याः प्रसवन्त्याः गर्भस्तम्भं कर्तुं निष्पाद्यते तस्याः
सरावे हुडविदक्षराणि लिखित्वा तन्नाम विदर्भितानि क्रियन्ते । ततो नार्या
तत्क्षणा देवगर्भस्तम्भो भवति । अयं योगः सिद्ध इत्यस्यार्थस्य
ज्ञानार्थं स्थाने ग्रन्थकारः सिद्धग्रहणं करोति । मल्लकं शरावं
प्रसवं *? यावत् तनुलिखितं तावत् तस्याः प्रसवो न भवति । उद्धृते
तु धौते मोक्षः ॥१००॥

अथ दीपनिर्वाणम् ॥ कोलष्कासेति । आम्रकोशाद्यत्तैलं तेन योसौ दीपः
प्रचण्डेपि वातेन बाध्यतेन बाध्यते निश्चल एवावतिष्ठते । अत एव महारत्न
दीप इव ॥१०१॥

१६अ)

मल्लक लिखितो हुडवित् प्रसववत्न्याः स्तम्भनं क्रोत्युच्चैः ॥
गर्भस्य सपदिनार्याः स्तम्भनार्यास्तन्नाम विदर्भितेः सिद्धः ॥१००॥

कोक्कासमशाम्नतैलदीपः प्रज्वलति प्रवपेति प्रचण्ण्डेपि ॥
मरुतिनि प्रकम्पः स्फुरन्महारत्नदीप इव ॥१०१॥

रविशलभगोधावर्चो मनःशिला तथा पथ्या ।
वृश्चिक विषं विनश्यन्तिर्भिदन्ति दंशस्य लेपेन ॥१०२॥

अथ वृश्चिकविषापहारः । अर्ककीटकगृहगोधिकाविष्ठा मनःशिला हरीतकी
एभिरोषधैर्जलेन वर्तितैः वृश्चिकदंशस्य लेपः कार्यः वृश्चिक विषं
नाशंयाति ॥१०२॥

दीपेति । पलाशवृक्षबीजानि सूक्ष्मचूर्णं कृत्वा अर्कक्षीरेण
एकविंशतिवारं यावद् भावयेद् दंशादपि वृश्चिक विषं नाशंयाति ॥
१०३॥

उत्तरेति । उत्तरस्यान्दिशि यानि दाडिमी वृक्षमूलानि गतानि गोमांसम् एतौ
चूर्णपित्वा जलेन गुटिका कार्या । अनया गुटिकया वृश्चिकदंशे स्पृष्टे
दंशादपि वृश्चिक विषं याति अन्यस्मिन् पुरुषे दृष्टे तत्र विषं प्रसर्पति ।
अत्रैवेयं गुटिका देवैरपि अत्रार्थे प्रशंसिता ॥ १०४॥

दीपग्रसादिवाकरस्य ब्रह्मतरोर्भावितैर्मुद्गबीजैः ।
गुटिका कृता प्रयुक्ता वृश्चिकविषमाशुसंहरति ॥१०३॥

उत्तरदाडिममूलैर्गोपिसितसमैस्तच्चूर्णिता गुटिका ।
त्रिदशैरपिस्तुतेयं वृश्चिकविषदंशक्रमणे ॥१०४॥

१६ब्)

अङ्कुलेति अङ्कुलतैलम् अङ्कुलमूलं दाडिममूलं च दाडिमकस्य तैलं
जम्बुमूलं जम्बु तैलं च मधुषाड् । एतैस्समांशै गुटिकां कारयेत् सा
गुटिका वृश्चिक विषं सङ्क्रामयति स्थानात् स्थानान्तरं रयतीत्यर्थः ॥१०४॥

अथ जलस्तम्भनम् ॥

स्तब्ध बीजचूर्णेन वोथरिचूर्णेन अरण्य स्थान भस्ममिश्रेण शरीरं विलिप्य
यदा मेघो वर्षति तदा तस्य पानीयं शरीरे नलगति तेन पानीयेन कर्बुरं न
क्रियतेन ह्याव्यते इत्यर्थः ॥१०६॥

अङ्कुलं तैलमूलं दाडिम जम्बुश्च मूल तैलेन ॥
मधुशर्करा समांशैर्वृश्चिकसङ्क्रामणी गुटिका ॥१०५॥

भस्म सहितेन विग्रहं विगुडास्तब्ध बीजचूर्णेन ॥
जलधरधारापातैः पर्यटिनं कर्बुरं क्रियते ॥१०६॥

सर्जरसेति । सर्जरसलोहकाररसौ प्रसिद्धौ श्वेतार्क पुष्परसः एभिः पटोलिप्तः
सन् पश्चात् तस्य पटस्योपरि पानीयं क्षिप्यते तत्पानीयं पटेनलगति । जलेन
सिच्यमानोपि सन्नार्द्रो न भवतीत्यर्थः । एतत् प्रकटं समस्तलोकानाम् ॥१०७॥

इति जलस्तम्भाधिकारः ॥

१७अ)

अथादृशीकरणम् ॥

हरीति । यद्यस्य टीकात्रुटिः ॥

पुरचाङ्गुलिरिति । पुरं गुग्गुलु चाङ्गुली वंशलोचना बोधवृक्षः शवणिका
तस्य त्वक् तस्या रसः आपस्तैरक भ्रष्टतैः पटोत्यक्तः सिक्त पटो दैत्य
देवगन्धर्वैरपि न दृश्यते साधकः ॥

सार्द्रमिति पट विशेषणम् ॥१०९॥

सर्जसिलोहकाररसलिप्तोमन्दारकुसुमसलिलैश्च ॥
न भवति सुसिच्यमानः सलिले नार्द्रः पटः प्रकटः ॥१०७॥

हरितरु मूलरसाक्तैरालेख्यं वर्णकैः पटे लिखितम् ॥
शुष्कं न दृश्यते तद्दश्यं चाम्भोभिराशिकिम् ॥१०८॥

पुरचाङ्गुलि कृतधूपोधितरुरसेन चाभ्यक्तः ॥
असुरसुरकिन्नरैरपि न दृश्यते संस्थितः पटः सार्द्रम् ॥१०९॥

दिनेति । भुजगारिर्मयूरः सप्तदिनानि निराहारी कृत्वा पश्चादष्टमे दिने
प्राप्ते तं मयूरं मनःशिलां हरितालं च भक्षयेत् । पुनस्तद्विष्ठाग्राह्या
। तया तद्द्रव्यं लिप्तं तदेव हस्त मध्य प्राप्तमपि न कोपि पश्यति ।
अदृष्टं भवतीत्यर्थः ॥११०॥

त्रिदिनेति । त्रिणिदिनानि अनाहारो योसौ गिरि कच्छपकृकलासस्तेन पूर्वं चीर्ण
भक्षितमनन्तरं जीर्णविष्ठा त्वमापादिते यद्धरितालं तेन वामकरतल
मध्यलेपादा भरणान्याकर्षति । तलिप्त हस्तेन आभरणानि गृह्णन्न् केनापि
न दृश्यते ॥१११॥

१७ब्)

दिनसप्तकं विधार्यस्ताल शिलाहारको भुजमारिः ॥
तद्ग्रन्थेन द्रव्य विलिप्तं करतल स्थितमपि न दृश्यते ॥११०॥

त्रिदिनोषित गिरिकछप चीर्णं च तालपादाय ॥
तेन करगर्भलेपात्वा भरणान्या क्षिपेवामान् ॥१११॥

बीजमिति । पारदः विषम् एरण्डबीजं सर्पमांसम् अङ्कोलबीजाङ्गकुटमुच्यते ।
वानरास्थीनि एतैरेकत्र पिषितैर्हस्ततलं प्रलिप्य तेन प्रतिमा देवादीना
स्पृश्यते ततः प्रतिमा कृष्टिर्भवति ॥११२॥

जीवेति । विषं पारिजात पुष्पं तालकं सर्पपुछम् एभिरं कोलतैल युक्तैः
पिष्टैर्हस्ततललेपात् शङ्खशुक्त्यादीनामाकृष्टिर्भवति ॥११३॥

बीजं विषमारुष्कर भुजभव गोधिकाङ्ग कूटैः ॥
शाखा मृगास्ति युक्तैः प्रतिमाकर्षो भवत्येभिः ॥११३॥

बीजहरा पारिजातकतालैर्हालाहलस्य पुच्छेन ॥
अङ्कोलतैलयुक्तैराकर्षो भवति शङ्खशुक्तीनाम् ॥११३॥

कच्छपेति । कछपस्य जीवविशेषस्य मस्तकं चरणं च इन्द्रगोपः
एतैरोषधैः पक्वतैलानि नारीणां कुच लेपात् कुचापहारं कुर्वन्ति ॥११४॥

गिरीति । गिरिकर्णिका प्रसिद्धा । इन्द्रगोपाश्च शतपादिका सहस्र चरणोक वृक्षः
एतानि एकत्र कृत्वा चूर्णं भगक्षतं सङ्कोचयति ॥ अन्यान्यपि व्रणानि अनेन
चूर्णेन रोहन्ति । अत एव असौरेणु राजश्चूर्णराजः ॥११५॥

कछपमस्तक चरणैः सुरेन्द्रगोपैश्च पक्वतैलानि ॥ ललना कुच प्रणाशं
प्रलेपनात्शं प्रकुर्वति ॥११४॥

१८अ)

गिरिकर्णिकेन्द्र गोपकशतांह्रिकाख्या स हस्तचरणाश्च ।
इति जनितरेणुराजोवराङ्गरन्द्रान्या न्यापि प्ररोहति ॥११५॥

ललनेति । विचलनुललनाशीलयन् गोशृङ्ग अधोगतं तल्लब्ध गोशृङ्गं तस्य
योसौ रजश्चूर्णन्ते नवराङ्गलेपान्नारी पुरुषाणां गम्या सेवनीया न भवति
। तथा ऊर्द्धगतं स्थानं यत् गोशृङ्गं तल्लेपाद्वराङ्गं पूर्वां
प्रकृति भजाति पुरुषाणाम् अभिगमनीया इत्यर्थः । एतेन नारी वराङ्ग सङ्कोच
विकाशयुक्तैरति वराङ्गम् ॥११७॥

प्रमेति । द्विमुखो योसौ सर्पस्तस्य रक्तेन रञ्जितं सूत्रं या उल्लङ्घयति
तस्यानार्या । गर्भ विवराद्रक्त प्रवाहो विगलपरमति ॥११८॥

ललना न भवति गम्या विचरत् गोगवलरेणुरति लेपात् ॥
ऊर्द्धगविषाण लेपात् प्रयान्ति चूर्णात् तथा प्रकृतिम् ॥११६॥

प्रमदायां लङ्घयति द्विमुखादि क्षतजलञ्जितं शुभ्रम् । प्रवलितवराङ्ग
कुहरे क्षयं कराक्षतनिद्धरिस्तस्याः ॥११७॥

महिषेति । मूलं स्कन्धं पत्रं पुष्पं फलम् एतानि पञ्चागानि धत्तूरस्य
पञ्चाङ्गस्य चूर्णं पञ्चदशभागाः षोडशमो भागो वत्सनागविषस्य
एतान्येकत्र चूर्णयित्वा महिषरुधिरप्रदिग्धः एकविंशति वारान् यावत्
महिषरुधिरेण भावयित्वा संशोष्य छायायां धूपः क्रियते रात्रौ
धूपधूपनातु पुरुषस्य सर्वापि चेष्टा प्रणश्यतीत्यर्थः । रात्रि
ग्रहणाद्रात्रावेवासौ धूपः पुरुषाणां हरो दिवसे त्वत् किञ्चित्

१८ब्)

ऊन्च्लेअर्

१९अ)

पुष्पे यवैरिति ॥ शस्त्र भिन्नस्य शूलप्रोतस्य पुरुषस्य कपाले पुष्पनक्षत्रे
यावत् धान्यविशेषान् वापयित्वा एडिकादुग्धेन सिच्यते तैस्तथापि वातैस्तथा
सिक्तैश्च यानि फलानि यावद्रूपाणि निच्येते तानि गृहीत्वा मालाकार्या सा
मालाशिरसि बद्धा सति पुरुषं साधकं निगूहति अदृशं करोतीत्यर्थः ॥
१२०॥

मृद्वारणेति । मृन्मऋत्तिका तयोत्पादितो योसौ हस्ती तस्य यत्कुम्भस्थलं
तत्र यद्रन्ध्रं छिद्रं तत्र गतो निक्षिप्तोऽसौ पिचुमन्दसर्जनिर्यासः ।
एतद्वृक्ष द्वयरसः स आदित्यरश्मि तापान्मदकललीलां विधारयति ॥१२३॥

प्रलिप्येति । रासभाजरायुनामरीच पिप्पलीशुण्ठी चूर्ण युक्तेन वामपादं
प्रलिप्यते न वृक्षस्ताडितः सन् समस्तानि पुष्पाणि फलानि च मुञ्चति तत्र
वृक्षेण किञ्चिदपि पुष्पफलादिरद्वितीत्यर्थः ॥१२४॥

पुष्पेर्यवैः कपाले निक्षिप्तैः शस्त्रशुलभिन्नस्य ॥
आविकम्पयोभिषक्तैस्तत्फलमालानरं निगूहति ॥१२२॥

मृद्वारण कुम्भस्थलरन्ध्रगपि चुमन्दसर्जनिर्यासः ।
दिनकरकिरणस्पर्शान्मदकललीलां विधारयति ॥१२३॥

प्रक्षिप्यवामपादं त्रिकटुकयुक्तेन रासभीजरया ॥
सकलकुसुमवर्षासे ताडितो मुञ्चति द्रुमस्तेन ॥१२४॥

स्पृष्ट इति । शुनीगर्भशय्या मरीच पिप्पली शुण्ठी चूर्णसहितया लिप्तो योसौ
हस्तस्तेन वृक्षः स्पृष्टः सन् फलपुष्पसमूहं मुञ्चति काम वृक्ष इव
कल्पवृक्ष इव । स यथा प्रार्थित एव सर्वाणि फलपुष्पादीनि यानि च
कार्याण्यर्थयति तथा अयमपि हस्त स्पृष्टमात्रेपि सर्वाणि फलकुसुमानि
प्रयछन्तीत्यर्थः ॥१२१॥

१९ब्)

दिनेति । अर्कक्षीरेणाभ्यक्ते महाकुम्भे घटे अर्कक्षीरेण पुनः पुनर्भावितेन
शुष्के घृतपलेनैकेन सह गव्यक्षीरम् उत्तमं प्रक्षिप्तं सन् यावत्
तत्क्षीरम् उत्तमत्वं न परित्यजतीति तावत् सर्वं तच्च घटस्तं
गव्यघृतसदृशं प्रतिभासते विनिवेशितं तत्र कुम्भे स्थापितम् ॥१२६॥

स्पृष्टः करकमलेन त्रिकटुकसरमाजरायु लिप्तेन ॥
मुञ्चति फलकुसुम चयं वृक्षः खलुकाम वृक्षेव ॥१२५॥

दिनकर दुग्धाभ्यक्ते कुम्भेऽस्मिन् घृतपलैकसंयुक्ते ॥
क्षीरं यावच्चोत्तमं तावद् विनिवेशितं सर्पिः ॥१२६॥

प्रत्यग्रेति । प्रत्यग्रो नवो योसौ घटस्तस्य योसौ गर्भो मध्यन्तमर्क क्षीरेण
पुनर्भावयित्वा शोषयित्वा तादृशे घटे पानीयं प्रक्षिप्त मात्रमेव
प्रधानं तक्रं भवति पानीयं गो रसवत् प्रतिभासते इत्यर्थः ॥१२७॥

असकृदिति । तथा ते नैव पूर्वोक्त प्रकारेण न वे घटे अर्कक्षीरेण पुनर्भाविते
इत्यर्थः । तत्र एवं विधे घटे कपित्थफलमध्यसंयुक्ते शुष्कं यत्कपित्थ
फलस्य मध्यङ्गिरलक्षणसमेते इत्यर्थः ॥१२९॥

प्रत्यग्रकुम्भगर्भं भानुक्षीरेण भावयेद् वहुशः ॥
प्रक्षिप्तमात्रमम्भो भवति हि तस्मिन् भवं तक्रम् ॥१२७॥

असकृत्क्षीराभ्यक्ते तथात्र शुष्क कपित्थ फलमध्यसंयुक्ते ॥
चूर्णितः प्रयुक्तस्तक्रं दधिभावमानयति ॥१२८॥

२०अ)

उपेति । उपरता मृतास्ते च ते शुष्काश्चते मत्स्यामीनास्तेषाम् आरुष्करो
भल्लाटकस्तस्य फलं तद्रसेन विलिप्तं पाश्वप्रदेशे येषाम् एवं
कृतानां तेषां शीतलजले प्रक्षिप्तानां तत्क्षणा देवजीवं भवति मृता अपि
मत्स्या अनेन विधिना कृतेन पुनर्जीवन्तीत्यर्थः ॥१२९॥

पुरुषमिति । मृतपुरुषपार्श्वजो योसौ शङ्कुः कीलकः सदीर्घग्रीवास्थि
रन्ध्रे उष्ट्रहा उच्छिद्रे क्षिप्तो नरनार्योः सम्भोगाधि रूढयोर्योनि
निवन्धं कुरुते । यदैवतौ सुरताधि रूढौ भवतस्तदैव स कीलकस्तत्र
छिद्रे चेन्निक्षिप्यते तदा पुरुषस्य लिङ्गयोनि मध्यान्ननिःसरतीत्यर्थः । शङ्को
अस्थिरन्ध्र मध्यादा कृष्टेनरनार्योरपि चिह्न बन्धो विमुक्तो
भवतीत्यर्थः ॥१३०॥

अचिराच्छीघ्रम् ॥

उपरतशङ्कुशुष्काणामरुष्करसविलिप्त पार्श्वानाम् ।
शीताम्भसि मत्स्यानां भवति पुनर्जीवितं निमेषात् ॥१२९॥

पुरुषं गणयोरचिराद्दीर्घग्रीवास्थि रन्ध्रे निक्षिप्तः ॥
कुरुते वराङ्गबन्धं रति समये मृतपुरुषयाजोशङ्कुः ॥१३०॥

सरिदिति । सरित्समुद्रगामिनी नदी तस्याः पूर्वपरातट मृत्तिका सुरते
आलेढिलग्नौ सक्तौ यौ सारमय्यौ कक्कुरी कुक्कुरौ तयोरोमाणि एतानि पूर्वोक्तया
मृदा सह गुटिका कृत्वा तां यं पुरुषमुद्दिश्य अङ्कोलतैल मध्ये
क्षिप्यते स पुरुषो यस्मिन् नासने पीठे पाटिकायां मस्तके हस्तिनि अश्वे नरे रथे
च इत्यादिके अन्यस्मिन्नपि यत्र कुत्र चित्स्थितौ भवति तत्र एव कीलको भवति ।

२०ब्)

तदासनादिकं यत् युतेन सह विलग्नमुत्तिष्ठतीत्यर्थः ॥
गुटिकायां तैलादा कृष्टायाम् आसनादि मुक्तं भवति ॥१३१॥

सरिदुभय तटान्त मृदासरमातुर्सारमेय रोमाणि ॥
लेढी लग्नौ सर्वासन वन्धकरी गुटिकैषां कौलतैलयुक्ता ॥१३१॥ श्री ॥ श्री ॥
श्री ॥

नयनेति । नयनयोर्युगं नयन युगं तेन रश्मि मध्यगस्य भकारस्य
चन्द्रमण्डलाभ्यासात् पुरुषाणां साधनाम् अन्तर्मध्ये स्थितं
ज्योतिर्वहलान्ध कारेति प्रकटी भवति एवं विधाक्षर ध्यानात् साधकस्य
समस्त ज्ञेयदार्थ प्रकाशकं तेजः समुन्मीलतीत्यर्थः ॥१३२॥

नयनयुगरश्मी मध्यकार चन्द्रमण्डलाभ्यासात् ॥
आविर्भवति नारायणामन्तर्ज्योतिस्तथान्ध कारेपि ॥१३२॥

शास्त्रमुपसंहरन्नाह । गुरुमुखादिति । गुरूणां यन्मुखं वक्त्र कमलं
ततो यदभिमतं परिज्ञानं गुरुभिः सुप्रसन्नैर्यन्ममाग्रे एकान्ते
उपदिष्टं तं मया ज्ञातं तन्मध्ये अनुभव पद्यं प्राप्य
अनुभूयेत्यर्थः । तन्मध्याद्यत् सम्यगनुभवमार्गे समायातं तस्य
मध्यात् किञ्चिदुल्यतमं स्वल्प मात्रम्मिह आश्चर्ययोगरत्नावली शास्त्रं
दृष्टं प्रथितं मुखावबोधमायां वन्धे? * * *?
येति अनेन आचार्य श्रीनागार्जुनेन विरचिता आत्मानं निदर्शयति ॥१३३॥

२१अ)

गुरुमुखादि गतं शास्त्रान्तरं च यन् मयां ज्ञातम् ॥
अनुभवं ममाग्रे नीत्वा तन्मध्यात् किञ्चिदिह दृष्टम् ॥१३३॥

आश्चर्येति । आश्चर्याण्येव रत्नानि तेषां माला पद्धतिः सा नागार्जुनाचार्येण
निर्मिता गुम्फिता । कथं भूता । अनुभव प्रसिद्धा अनुभवेन सिद्धा । तथा
सह कलाभिश्चतुःषष्ठि सङ्ख्या लक्षणानि वर्तते ये ते च जनाश्च तेषां तु
हृदयम्मन्तः करणं तस्य दयिता वल्लभा आश्चर्ययोगमाला सुत्रतः
समर्थिता सूत्रद्वारेण चत्वारिंशदधिकं शतैकेन आश्चर्याणां समाप्ता
जयति सर्वोत्कर्षेन वर्शन्ते इत्यनेन शास्त्रस्याशीर्वादं ददात्याचार्यः ॥१३४॥

आश्चर्ययोगमालानागार्जुनविरचितानुभवप्रसिद्धा ।
सकलजने हृदयदयिता समर्थिता सूत्रतो जयति ॥१३४॥

२२)

आत्मस्मरणायेति । यदशुद्धमिदं निरूपितमाचार्यास्तत् क्षम्यतां प्रसादं
मे कृत्वा विशोध्यतां यत् कोनस्खलति प्रमादनि वहेन ॥
श्रीनृपविक्रमसमये द्वादशभिर्नप षडधिकैर्ह्येषारचिता गुणाकरेण
श्वेताम्बभिक्षण जयति ॥१३५॥

इति श्रीश्वेताम्बरपण्डितगुणाकरविरचिता आश्चर्ययोगमालालघुवृत्ति
समाप्ताभूत् ॥

आत्मस्मरणाय मया विक्रीता नागार्जुनप्रणीतेयम् ।
आश्चर्ययोगमाला अग्रे तव वृद्धटीकावः ॥१३५॥

श्रीकुम्भेश्वरो विजयतेतराम् ॥ श्री ॥

इति आश्चर्ययोगमाला समाप्ता रत् ॥

लिखिताश्चर्ययोगमाला स्थले कुम्भेश्वरस्य वै ॥
गणेशभट्टपुत्रेण भवानीशङ्करेण च ॥ १ ॥

छलेन गृहीते य वै न देया यस्य कस्यचित् ॥
दुर्मिला भवति क्ष्मायां न यातु शठहंस्तके हराममीदि? ॥१॥

अभ्यमित्र्यः पपुः शब्दशास्त्राधिकारीजनान्वीक्ष्य सर्वान्दयाशीलवाह्नि ॥२२॥

सर्वामाङ्गल्य यं कुच्य * * * * *? शस्वां चरित्री
परेषां कथायां

२३)

उपाकर्मणि *? त्सर्यो प्रेतश्राद्धे तथैव च ॥
चन्द्रसूर्यग्रहे चैव रजो दोषो न विद्यते ॥१॥

कौशिकी वाग्मती गङ्गा गण्डक्यो धर्मसम्भवाः ।
शत्याभद्रालकानन्दा रजोदोषै न लिप्यते ॥२॥

न दुष्यते रजोदोषैः सा नदी रुद्रवक्त्र *? ॥
वाग्मती भारतीमान्या त्र्यहादूर्द्धाच्चकर्कटात् ॥३॥

सिंहकर्कटयोर्मध्ये सर्वानद्योरजःस्वलाः ॥
तासु स्नानं न कुर्वीत समुद्रगामिनी विना ॥१॥

भक्तमण्डे शुद्धतैलं तिलस्य निक्ष्प्य पीयते वीर्यस्तम्भः स्यात् ।