अथ पञ्चविंशः पटलः
अथ योगं प्रवक्ष्यामि साङ्गं संवित्प्रदायकम् ।
एक्यं जीवात्मनोराहुर्येगं योगविशारदाः ॥ १ ॥
लैङ्गीक्रियामन्त्रवतीस्ववेध ज्ञानाह्वयाः पञ्च भवन्ति दीक्षाः ।
चतुवीधास्ताः समयाभिधान सामान्यनिर्वाणविशेषदीक्षाः ॥
एवं दीक्षासु सर्वासु गुरुः शिष्यं प्रबोधयेत् ।
बोधितोऽबोधितश्चेत् स्यान्नाऽन्यथा दीक्षितो भवेत् ॥
इत्युक्तेः योगं विना दीक्षाया अनिर्वाहात् सूर्यमन्त्रादौ च प्रयोगविषये अनेके योगप्रकारा उक्ताः ।
तेषां च ज्ञानाय योगं वक्तुं प्रतिजानीते अथेति ।
साङ्गं यम- नियमादियुक्तम् ।
संवित्प्रदायकं नित्यानन्दानुभवरूपमोक्षदायकमित्यर्थः ।
एतेन आत्मविशेषगुणोच्छेदो मोक्ष एतन्मतम् निरस्तम् ।
सुखाभावस्य पुरुषार्थत्वाभावात् ।
वेदान्तपक्षमाश्रित्याह एक्यमिति ।
तच्च " तत्त्वमसि " इत्यादि श्रुतिसिद्धम् ।
यत् प्रयोगसारे—- निष्कलस्याऽप्रमेयस्य देवस्य परमात्मनः ।
सन्धानं योगमित्याहुः संसारोच्छित्तिसाधनम् ॥ इति ॥ १ ॥
शिवात्मनोरभेदेन प्रतिपत्तिः परे विदुः ।
शिवशक्त्यात्मकं ज्ञानं जगुरागमवेदिनः ॥ २ ॥
शिवप्रोक्तसूत्रमतप्रवृत्तप्रत्यभिज्ञादिग्रन्थमतमाह—-शिवेति ।
प्रतिपत्तिर्ज्ञानम् ।
परे शैवाः ।
तदुक्तं शिवसूत्रवृत्तौ—-
धीः स्वात्त्विकी विमर्शेन जायते नियतात्मनः ।
चङ्क्रमन्ती शिवं प्राप्य लीयते चेन्द्रियैः सह ॥ इति ।
त्रिकभेदेऽपि—- सत्त्वस्थश्च तमःस्थो गुणभेदकः ।
एवं पर्यटते देही स्थानात् स्थानान्तरं व्रजन् ॥
तन्मात्रोदयरूपेण मनोऽहम्बुद्धिवर्त्मना ।
पूर्यष्टकेन संरुद्धो दुःखं तत्प्रत्ययोद्भवम् ॥
भुङ्क्ते परवशो भोगं तत्रस्थं संहरेच्छिवः ॥ इति ।
स्वच्छन्दभैरवेऽपि—- अणुमात्रं शिवानन्दस्फुरणं सर्वदोषहृत् ।
मलत्रयविनाशाच्च माया गच्छेत् समूलतः ॥ इति ।
आनन्दभैरवेऽपि—- प्राणादिभावनं त्यक्त्वा तथा तद्दृश्यसम्पदः ।
स्वात्मभावेन चित्तेन विशेच्छिवपदं शनैः ॥ इति ।
उत्तराम्नायमतमाह—-शिवेति ।
शिवशक्त्यात्मकं ज्ञानं शिवशक्तोरभेदज्ञान- मित्यर्थः ।
यदाहुः—-एषा बोधमयी शक्तिः परमानन्दरूपिणी ।
सत्त्वादिगुणसम्बद्धा स्वमायान्तर्गता विभुः ॥
समस्ततत्त्वजातानामिह सृष्टेरनन्तरम् ।
सर्वैः शरीरैस्तत्संस्थैरपि मर्त्त्यैः परस्परम् ॥
अनाद्यध्यासम्बद्ध विस्मृत्यात्मस्वरूपिणी ।
शिवा (विश्वा)त्मिका भवेदेषा देवी सर्वात्मना शिवे ॥ इति ॥ २ ॥
पुराणपुरुषस्याऽन्ये ज्ञानमाहुवीशारदाः ।
जित्वाऽऽदावात्मनः शत्रून् कामादीन् योगमभ्यसेत् ॥ ३ ॥
भेदवादिवैष्णवादिमतमाह पुराणेति ।
पुरुषोत्तमः ।
पुरुषः साङ्ख्यमते ।
ईश्वरो न्यायमते ।
नारायणो वैष्णवमते ।
तत्परिचयो योगः ।
तत्र पूज्यत्वात् प्रथमोपन्यस्त- त्वाच्च प्रथमं मतं ग्रन्थकृत्सम्मतमिति गम्यते ॥ ३ ॥
कामक्रोधौ लोभमोहौ तत्परं मदमत्सरौ ।
वदन्ति दुःखदानेतानरिषड्वर्गमात्मनः ॥ ४ ॥
कामेति ।
स्त्रीभोगाद्यभिलाषः कामः ।
सत्त्वादिजिघांसा क्रोधः ।
धनादितृष्णा लोभः ।
तत्त्वाज्ञानं मोहः ।
अहं सुखी धनी विद्यावानिति गर्वः मदः ।
अन्यशुभद्वेषो मत्सरः इति ।
दुःखदानेतान् आत्मनः अरिषड्वर्गमाहुरित्यन्वयः ।
आत्मस्वरूपचिन्तनव्यापारतिरोधानेन तेषां शत्रुत्वम् ॥ ४ ॥
योगाष्टाङ्गैरिमान् जित्वा योगिनो योगमाप्नुयुः ।
यमनियमावासनप्राणायामौ ततः परम् ॥ ५ ॥
प्रत्याहारं धारणाख्यं ध्यानं सार्द्धं समाधिना ।
अष्टाङ्गान्याहुरेतानि योगिनो योगसाधने ॥ ६ ॥
एतज्जयोपायमाह योगेति ।
तान्याह यमेति ॥ ५-६ ॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं कृपार्जवम् ।
क्षमा धृतिमीताहारः शौचं चेति यमा दश ॥ ७ ॥
क्रमादेषां स्वरूपमाह—-अहिंसेति ।
न कञ्चन हन्मि इत्यभ्यासप्रवणता अहिंसा ।
असत्यं न वच्मि इत्यभ्यासप्रवणचित्तता सत्यम् ।
चौर्यनिवृत्तिः अस्तेयम् ।
स्त्रीभोगेच्छानिवृत्तिः ब्रह्मचर्यम् ।
प्राणिषु क्रूरबुद्धिनिवृत्तिः कृपा ।
चित्तकौटिल्य- निवृत्तिः आर्जवम् ।
अभिभावकं प्रति अक्रोधप्रवणचित्तता क्षमा ।
इष्टवस्त्वाद्यला- भतश्चिन्ताभावो धृतिः ।
क्रमेण आहारापकर्षणात् यावच्छरीरस्थितिमात्रभोजनं मिताहारः ।
चित्तनैर्मल्यार्थं यथोक्तशौचशीलता शौचम् यमा इति " यमु " उपरमे कामादेर्निवृत्तिरूपा इत्यर्थः ।
तत्र धृतिः सर्वत्राऽनुषक्ता ।
अहिंसाब्रह्मचर्याभ्यां कामस्य जयः ।
कृपाक्षमाभ्यां क्रोधस्य ।
अस्तेयसत्यार्जवेभ्यो लोभस्य ।
मिताहार- शौचाभ्यां मोहस्य ।
क्षमार्जवाभ्यां मदस्य ।
अहिंसाकृपार्जवक्षमाभ्यो मत्सरस्य ।
इत्यन्यदपि यथायथमूह्यम् ।
तदुक्तं संहितायाम्—-
सर्वेषामपि जन्तूनामक्लेशजननं मुने ।
वाङ्गमनः कर्मभिर्न्यूनमहिंसेत्यभिधीयते ॥
यथादृष्टश्रुतार्थानां स्वरूपकथनं पुनः ।
सत्यमित्युच्यते ॥ इति ।
तृणादेरप्यनादानं परस्वस्य तपोधन ॥
अस्तेयम् ॥ इति ।
अवस्थास्वपि सर्वासु कर्मणा मनसा गिरा ।
स्त्रीसङ्गतिपरित्यागो ब्रह्मचर्यं प्रचक्षते ॥
परेषां दुःखमालोक्य स्वस्यैवालोक्य तस्य तु ।
उत्सादनानुसन्धानं दया ॥ इति ।
व्यवहारेषु सर्वेषु मनोवाक्कायकर्मभिः ।
सर्वेषामपि कौटिल्यराहित्यमार्जवं भवेत् ॥ इति ।
सर्वात्मना सर्वदाऽपि सर्वत्राऽस्याऽपकारिषु ।
बन्धुष्विव समाचारः क्षमा स्यात् ॥ इति ।
इच्छाप्रयत्नराहित्यं जातेषु विषयेष्वपि ।
लोभवत्सु धृतिः ॥ इति ।
भोज्यस्यैव चतुर्थांशभोजनं स्वच्छचेतसः ।
हितं मेध्यं सुतीक्ष्णेन मिताहारं प्रचक्षते ॥
निर्गतं रोमकूपेभ्यो नवरन्ध्रेभ्य एव च ।
मलं वदन्ति द्वाराणां (तोयैस्तत्) क्षालनं शौचमुच्यते ॥
मृज्जलाभ्यां बहिः सम्यगान्तरं त्वथवा पुनः ।
पूर्वेक्तभूतशुद्ध्यन्तं शौचमाचक्षते बुधाः ॥ इति ॥ ७ ॥
तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् ।
सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो हुतम् ॥ ८ ॥
दशैते नियमाः प्रोक्ताः योगशास्त्रविशारदैः ।
तप इति ।
कृच्छ्रादिव्रतचर्या तपः ।
बह्विष्टतरानभिलाषाः सन्तोषः ।
अस्ति परलोक इति मतिर्यस्य स आस्तिकः ।
तस्य भाव आस्तिक्यम् ।
परलोकबुद्ध्या धर्माद्याचरणमिति यावत् ।
यथाविभवं देवपितृमनुष्योद्देशेन वितरणं दानम् ।
देवस्य पूजनम् उक्तरीत्याऽनुष्ठानादेव मोक्षोपायप्रवृत्तस्य विघ्नाभावाय भवति ।
सिद्धान्त उपनिषन्मोक्षोपायोपदेशपरिमलादिशास्त्रम् तस्य श्रवणम् ।
कुत्सिताचारात् स्वत उद्वेगो ह्रीः ।
तथा सति चित्तमालिन्येन ज्ञानानुदयात् ।
मतिर्मननम् ।
तथा च स्मृतिः—-श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः ।
इति ।
जप इत्युक्तप्रकारेण ।
" जपतो नास्ति पातकम् " इत्युक्तेः ।
चित्तशुद्धावुप- योगात् ।
हुतमग्निहोत्रादिहोमः ।
यदकरणे प्रत्यवायात् चित्तमालिन्येन ज्ञानानुदयात् ।
यद्वा हुतं मन्त्रजपस्य दशांशहोमः ।
यथा चोक्तम्—-
नाऽजपात् सिध्यते मन्त्रो नाऽहुताच फलप्रदः ।
अनचीतो हरेत् कामान् तस्मात् त्रितयमाचरेत् ॥ इति ।
नियमा इति ।
अवश्यकर्त्तव्यतया नियमत्वमेषाम् ।
अतः कदाचिदालस्यादिना त्यागो न कार्यः ।
तदुक्तं संहितायाम्—-
तपस्त्वनशनं नाम विधिपूर्वकमिष्यते ।
अनायासोपवासेन तृप्त्यर्थं भैक्ष्यसेवनम् ॥
तुष्टिरेषा ।
इति ।
श्रुत्याद्युक्तेषु विश्वास आस्तिक्यं सम्प्रचक्षते ।
यदिष्टदेवतां ध्यात्वा तदर्पणाधियाऽन्वहम् ॥
सत्पात्रे दीयतेऽन्नादि तद्दानमभिधीयते ।
इष्टदेवार्चनं सम्यक् विधिपूर्वकमन्वहम् ॥
त्रिसन्ध्यमेकदा वा तु भवत्येव तदर्चनम् ।
वैष्णवागमसिद्धान्तश्रवणं श्रावणं (स्मरणं) तथा ॥
श्रुत्यादिभिर्लौकिकैश्च यदत्यन्तविनिन्दितम् ।
तत्राऽप्रवर्त्तनं लज्जा ।
इति ।
तर्कैर्यदनुसन्धानं सम्यक् शब्दस्थितैरपि ।
शास्त्रोक्तयोर्मतिरियम् ॥ इति ।
गुरोर्लब्धस्य मन्त्रस्य शश्वदावर्त्तनं जपः ।
द्रव्यैः कल्पोदितैर्हेमो हुतम् ॥ इति ॥ ८-९ ॥
पद्मासनं स्वस्तिकाख्यं वज्रं भद्रासनं तथा ॥ ९ ॥
वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम् ।
ऊर्वेरुपरि विन्यस्य सम्यक् पादतले उभे ॥ १० ॥
अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमात्ततः ।
पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम् ॥ ११ ॥
आसनपञ्चकमिति ।
स्थितं श्रमः तल्पादौ दण्डवत् पतितं तु निद्राऽभिभवति इति उपविष्टस्यैव ज्ञानाभ्यासाधिकारः ।
तत्र यथाकथञ्चिदुपवेशने रोगः कुण्डल्या- नुगण्याभावश्च ।
तस्मात् पद्मासनाद्युक्तिः ।
तदुक्तं वशिष्ठसंहितायाम्—-
आसनेन रुजो हन्ति प्राणायामेन पातकम् ।
विकारं मानसं योगी प्रत्याहारेण सर्वदा ॥
धारणाभिर्मनोधैर्यं ज्ञानादैश्वर्यमुत्तमम् ।
समाधौ मोक्षमाप्नोति त्यक्तकर्मशुभाशुभः ॥ इति ।
ऊर्वेरिति ।
ऊर्वेरुपरि परस्परस्योर्वेरुपरि ।
व्युत्क्रमात् इत्यस्य अत्रापि सम्बन्धात् ।
निबध्नीयादित्यत्र व्युत्क्रमादिति पृष्ठभागे हस्तमात्रव्युत्क्रमः ।
अङ्गुष्ठबन्धने तु तत्तद्धस्तेनैव तत्तदङ्गुष्ठबन्धनम् ॥ ९-११ ॥
जानूर्वेरन्तरे सम्यक् कृत्वा पादतले उभे ।
ऋजुकायो विशेद्योगी स्वस्तिकं तत् प्रचक्षते ॥ १२ ॥
जान्विति ।
अन्तरे इति दक्षिणे वामपादं वामे दक्षिणम् ।
पूर्वासने अङ्गुष्ठ- बन्धेनैव ऋजुकायता सिद्धा ।
अत्र तु तथाऽभावात् ऋजुकाय इति उक्तम् ॥ १२ ॥
सीवन्याः पार्श्वयोर्न्यस्येद् गुल्फयुग्मं सुनिश्चलम् ।
वृषणाधः पाष्णीपादौ पाणिभ्यां परिबन्धयेत् ॥ १३ ॥
भद्रासनं समुद्दष्टं योगिभिः पूजितं परम् ।
ऊर्वेः पादौ क्रमान्नयस्येज्जान्वोः प्रत्यङ्मुखाङ्गुली ॥१४॥
करौ निदध्यादाख्यातं वज्रासनमनुत्तमम् ।
एकं पादमधः कृत्वा विन्यस्योरौ तथेतरम् ॥ १५ ॥
ऋजुकायो विशेद्योगी वीरासनमितीरितम् ।
सीवन्या इति ।
गुदमेढ्रान्तरालोर्ध्वरेखा सीवनी ।
तस्याः पार्श्वयोः ।
वाम- पार्श्वे दक्षिणपादगुल्फम् ।
अन्यस्मिन् अन्यम् ।
वृषणाधः अण्डकोषाधः पादपार्ष्णी व्यत्यासेन भवत इति शेषः ।
" तद्ग्रन्थी घुटिके गुल्फौ पुमान् पाष्णीस्तयोरधः " इति कोशः ।
पाणिभ्यां परिबन्धयेत् पूर्ववत् अङ्गुष्ठाविति शेषः ।
अङ्गुष्ठबन्धनेन ऋजुकायत्वं सिद्धम् ।
तदुक्तं योगसारे—-
सीवन्या आत्मनः पार्श्वे गुल्फौ निक्षिप्य पादयोः ।
सव्ये दक्षिणगुल्फञ्च दक्षिणे दक्षिणेतरम् ॥
दक्षे सव्यकरं न्यस्य सव्ये न्यस्येतरं करम् ।
अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण तु ॥ इति ।
ऊर्वेरिति ।
स्वस्योरुमूले क्रमात् पादद्वयं कुर्यात् ।
प्रत्यङ्मुखाङ्गुली स्वसम्मुखाङ्गुली ।
प्रत्यङ्मुखाङ्गुली करौ जान्वोरुपरि निदध्यादित्यन्वयः ।
अत्र ऋजुकायत्वं जानुहस्तदानादेव सिद्धम् ।
एकमिति ।
अध इति अपरस्फिचः ॥ १३-१६ ॥
इडयाऽऽकर्षयेद्वायुं बाह्यं षोडशमात्रया ॥ १६ ॥
धारयेत् पूरितं योगी चतुःषष्ट्या तु मात्रया ।
सुषुम्णामध्यगं सम्यक् द्वात्रिंशन्मात्रया शनैः ॥ १७ ॥
नाड्या पिङ्गलया चैनं रेचयेद्योगवित्तमः ।
प्राणायाममिमं प्राहुर्येगशास्त्रविशारदाः ॥ १८ ॥
भूयो भूयः क्रमात्तस्य व्यत्यासेन समाचरेत् ।
मात्रावृद्धिक्रमेणैव सम्यग्द्वादश षोडश ॥ १९ ॥
प्राणायामो हि द्विविधः सगर्भेऽगर्भ एव च ।
जपध्यानादिभिर्युक्तं सगर्भं तं विदुर्बुधाः ॥ २० ॥
तदपेतं विगर्भं च प्राणायामं परे विदुः ।
क्रमादभ्यसतः पुंसो देहे स्वेदोद्गमोऽधमः ॥ २१ ॥
मध्यमः कम्पसंयुक्तो भूमित्यागः परो मतः ।
उत्तमस्य गुणावाप्तिर्यावच्छीलनमिष्यते ॥ २२ ॥
षोडशमात्रयेति ।
मात्रालक्षणमुक्तं तन्त्रान्तरे—-
कालेन यावता स्वीयो हस्तः स्वं जानुमण्डलम् ।
पर्येति मात्रा सा तुल्या स्वीयैकश्वासमात्रया ॥ इति ।
अन्ये अन्यथा मात्रालक्षणमाहुः—-
स्वजानुमण्डलं पूर्वं त्रिः परामृश्य पाणिना ।
प्रपद्य छोटिकामेकां मात्रा सा स्याल्लघीयसी ॥ इति ।
अन्यत्र तु—- सोऽङ्गुलिस्फोटतुल्यश्च मात्राष्टाभिश्च तैः स्मृता ॥ इति ।
वायवीयसंहितायां तु—-जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ।
अङ्गुलिस्फोटनं कुर्यात् सा मात्रेति प्रकीत्तीता ॥ इति ।
आकर्षयेदिति पूरकः ।
पूरितं धारयेदिति कुम्भकः ।
सुषुम्णामध्यगं सम्य- गिति पूर्वेण सम्बध्यते ।
रेचयेदिति रेचकः ।
केचन रेचकादिकुम्भकान्तं मन्यन्ते ।
एवं क्रमाद् भूयोभूयः पौनःपुन्येन क्रमेण एकैकवृद्ध्या द्वित्रिवृद्ध्यादिक्रमेण तस्य व्यत्यासेन
उक्तवैपरीत्येन द्वादश षोडश वा प्राणायामान् समाचरेदित्यन्वयः ।
तदुक्तम्—- शुचिः प्राणायामान् प्रणवसहितान् षोडश वशी
प्रभाते सायं च प्रतिदिवसमेवं वितनुते ।
द्विजो यस्तु भ्रूणप्रहणनकृतांहोऽभिकलितं
पुनन्त्येते मासादपि दुरिततूलौघदहनाः ॥ इति ।
परमतमाह श्लोकेन जपेति ।
परे बुधा विदुरित्यन्वयः ।
अयं च प्राणायामः पूजाविषय इति ज्ञेयम् ।
तदुक्तम्—-
अयं प्राणायामः सकलदुरितध्वंसनकरो
विगर्भः प्रोक्तोऽसौ शतगुणफलो गर्भकलितः ।
जपध्यानोपेतः स तु निगदितो गर्भरहितः
सगर्भस्तद्युक्तो मुनिपरिवृद्धैर्यागनिरतैः ॥ इति ।
शीलनं प्राणायामस्येति शेषः ॥ १६-२२ ॥
इन्द्रियाणां विचरतां विषयेषु निरर्गलम् ।
बलादाहरणं तेभ्यः प्रत्याहारोऽभिधीयते ॥ २३ ॥
अङ्गुष्ठगुल्फजानूरुसीवनीलिङ्गनाभिषु ।
हृद्ग्रीवाकण्ठदेशेषु लम्बिकायां ततो नसि ॥ २४ ॥
भ्रूमध्ये मस्तके र्मूध्नि द्वादशान्ते यथाविधि ।
धारणं प्राणमरुतो धारणेति निगद्यते ॥ २५ ॥
इन्द्रियाणामित्यादिना मनस एव एकत्र स्थितिः कार्येत्युक्तं भवति ।
यतो मनः सहायानामेव एतेषां स्वस्वविषयग्रहणशक्तिः अतस्तन्निरोधेनैव निरोधादिति भावः ।
लम्बिका तालुमूलम् ।
मस्तकं ललाटकेशसन्धिः ।
मूर्ध्नीति तदुपरिभागः ।
द्वादशान्ते ब्रह्मरन्ध्रे ।
यथाविधि इति गुरूक्तक्रमेण ।
वशिष्ठसंहितायाम्पञ्च धारणा उक्ता—-
भूतानां मानसञ्चैकं धारणा च पृथक् पृथक् ।
मनसो निश्चलत्वे तु धारणा च विधीयते ॥
या पृथ्वी हरितालहेमरुचिरा तत्त्वं कलालान्वितं
संयुक्ता कमलासनेन च चतुष्कोणा हृदि स्थायिनी ।
प्राणांस्तत्र विलीय पञ्चघटिका चित्तान्वितं धारये-
देषा स्तम्भकरी सदा क्षितिपरा ख्याता क्षमाधारणा ॥ १ ॥
अर्द्धेन्दुप्रतिमं च कुन्दधवलं कण्ठे च तत्त्वान्वितं
तत् पीयूषवकारबीजसहितं युक्तं सदा विष्णुना ।
प्राणांस्तत्र विलीय पञ्चघटिका चित्तान्वितं धारये-
देषा दुःसहकालकूटजरणा स्याद् वारुणीधारणा ॥ २ ॥
तत्त्वस्थं शिवमिन्द्रगोपसदृशं तत्र त्रिकोणेऽनलं
तेजोऽनेकमयं प्रवालरुचिरं रुद्रेण तत् सङ्गतम् ।
प्राणांस्तत्र विलीय पञ्चघटिका चित्तान्वितं धारये-
देषा वह्निसमं वपुवीदधती वैश्वानरीधारणा ॥ ३ ॥
यन्मूलं कमलं प्रपञ्चसहितं दृष्टं भ्रुवोरन्तरे
तद्वत् सत्त्वमयं यकारसहितं तत्रेश्वरो देवता ।
प्राणांस्तत्र विलीय पञ्चघटिका चित्तान्वितं धारये-
देषा खे गमनं करोति नियतं वायोः सदाधारणा ॥ ४ ॥
आकाशं सुविशुद्धवारिसदृशं यद्ब्रह्मरन्ध्रस्थितं
तन्नाथेन सदाशिवेन सहितं युक्तं हकाराक्षरैः ।
प्राणांस्तत्र विलीय पञ्चघटिका चित्तान्वितं धारये-
देषा मोक्षकपाटभेदनपटुः प्रोक्ता नभोधारणा ॥ ५ ॥
कर्मणां साधकाः सर्वा धारणाः पञ्च दुर्लभाः ।
तासां विज्ञानतो योगो सर्वपापैः प्रमुच्यते ॥ इति ॥ २१-२५ ॥
समाहितेन मनसा चैतन्यान्तरवतीना ।
आत्मन्य(नो)ऽभीष्टदेवानां ध्यानं ध्यानमिहोच्यते ॥ २६ ॥
समत्वभावना नित्यं जीवात्मपरमात्मनोः ।
समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् ॥ २७ ॥
अभीष्टदेवानामिति सगर्भं ध्यानमुक्तम् ।
विगर्भमपि ध्यानमुक्तं तन्त्रान्तरे ।
यदाहुः—-
यत्तत्त्वे निश्चलं चित्तं तद्ध्यानं परमं मतम् ।
भवति तद्ध्यानं सगुणं निर्गुणं तथा ॥
सगुणं वर्णभेदेन निर्गुणं केवलं तथा ।
अश्वमेधसहस्राणि वाजपेयशतानि च ॥
एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम् ।
अन्तश्चेतो बहिश्चक्षुरधः स्थाप्य सुखासनः ॥
समत्वञ्च शरीराणां ध्यानमाहुश्च सिद्धिदम् ।
नासाग्रे दृष्टिमादाय ध्यात्वा मुञ्चति बन्धनात् ॥ इत्यादिना ॥
गुदे मेढ्रे च नाभौ च हृदये कण्ठदेशके ।
घण्टिकालम्बिकास्थाने भ्रूमध्ये परमेश्वरम् ॥
निर्गुणं गगनाकारं मरीचिजलसन्निभम् ।
शून्ये सर्वमयं ध्यात्वा योगी योगमवाप्नुयात् ॥
इत्यन्तेन ॥ २६-२७ ॥
षण्नवत्यङ्गुलायामं शरीरमुभयात्मकम् ।
गुदध्वजान्तरे कन्दमुत्सेधाद् द्वयङ्गुलं विदुः ॥ २८ ॥
तस्मात् द्विगुणविस्तारं वृत्तरूपेण शोभितम् ।
नाड्यस्तत्र समुद्भूता मुख्यास्तिस्रः प्रकीत्तीताः ॥ २९ ॥
इडा वामे स्थिता नाडी पिङ्गला दक्षिणे मता ।
तयोर्मध्यगता नाडी सुषुम्णा वंशमाश्रिता ॥ ३० ॥
पादाङ्गुष्ठद्वये याता शिफाभ्यां शिरसा पुनः ।
ब्रह्मस्थानं समापन्ना सोमसूर्याग्निरूपिणी ॥ ३१ ॥
तस्या मध्यगता नाडी चित्राख्या योगिवल्लभा ।
ब्रह्मरन्ध्रं विदुस्तस्यां पद्मसूत्रनिभं परम् ॥ ३२ ॥
योगसिद्ध्यर्थं शरीराभ्यन्तरे मूलाधारमारभ्य तत्तन्नाडीस्थाने वायुसञ्चारं वक्तुं
शरीरप्रमाणमाह षडिति ।
उभयात्मकं शिवशक्त्यात्मकम् ।
अग्नीषोमात्मकं वा शुक्रशोणितात्मकं वा इति प्रथमपटलोक्तानुवादः ।
तस्मादित्युत्सेधात् ।
वंशं पृष्ठवंशम् आश्रिता तदन्तर्गता ।
यदाहुः—-या मुण्डाधारदण्डान्तरविवरगता ।
इति शिफाभ्यां मूलाभ्याम् ॥ २८-३२ ॥
आधारांश्च विदुस्तत्र मतभेदादनेकधा ।
दिव्यमार्गमिदं प्राहुरमृतानन्दकारणम् ॥ ३३ ॥
इडायां सञ्चरेच्चन्द्रः पिङ्गलायां दिवाकरः ।
ज्ञातौ योगनिदानज्ञैः सुषुम्णायां तु तावुभौ ॥ ३४ ॥
आधारान् इति केचन द्वादश अन्ये षोडश आहुः ।
परे बहूनि च ।
यदाहुः—-
ततस्तु ब्रह्मकङ्काले ध्यायेच्चक्रक्रमं सुधीः ।
आधारचक्रं प्रथमं कुलदीपमनन्तरम् ॥
वज्र (यज्ञ) चक्रं ततः प्रोक्तं स्वाधिष्ठानात्मकं परम् ।
रौद्रं करालचक्रं च गह्वरात्मकमेव च ॥
विद्याप (प्र)दं च त्रिमुखं त्रिपदं कालदण्डकम् ।
सा (उ) कारचक्रं च ततः कालोदारं करङ्क(बन्ध)कम् ॥
दीपकं क्षोभजनकमानन्दकलिला (ललिता)त्मकम् ।
मणिपूरकसञ्ज्ञञ्च लाङ्गलं का (कु) लभेदनम् ॥
मदोत्साहञ्च परमं माद (र्ग)कं पदमुच्यते ।
कल्पजालं ततश्चिन्त्यं घोषकल्लोलनं ततः ॥
नादावर्त्तपदं प्रोक्तं त्रिपुटञ्च तदुत्तरम् ।
कङ्कालकं तम(मन)श्चक्रं विख्यातं पुटभेदनम् ॥
महाग्रन्थिविकाशं च बन्धोज्ज्वलनसञ्ज्ञितम् ।
अनाहतं पद्मपुटं व्योमचक्रं तथा भवेत् ॥
बोधनं ध्रुवसञ्ज्ञञ्च काल (कला) कन्दलकं ततः ।
क्रौञ्चं भेरण्डविभवं डामरं कुलपीठकम् ॥
कुलकोलाहलं हालाहलावर्त्तं महद्रथम्(द्भयम्) ।
घोरभैरवसञ्ज्ञञ्च विशुद्धिः कण्ठमुत्तमम् ॥
घूर्णकम्पदमाख्यातमाज्ञाकाकपुटं तथा ।
शृङ्गाटं कामरूपाख्यं पूर्णगिर्यात्मकं परम् ।
महाव्योमात्मकं चक्रं शक्तिरूपमनुस्मरेत् ॥ इति ॥ ३३-३४ ॥
आधारकन्दमध्यस्थं त्रिकोणमतिसुन्दरम् ।
ज्योतिषां निलयं दिव्यं प्राहुरागमवेदिनः ॥ ३५ ॥
तत्र विद्युल्लताकारा कुण्डली परदेवता ।
परिस्फुरति सर्वात्मा सुप्ताहिसदृशाकृतिः ॥ ३६ ॥
बिभती कुण्डलीशक्तिरात्मानं हंसमाश्रिता ।
हंसः प्राणाश्रयो नित्यं प्राणो नाडीसमाश्रयः ॥ ३७ ॥
कुण्डलीस्थानमाह आधारेति ।
कुण्डलीशक्तिः आत्मानं परमात्मानं
बिभत्ती तद्योगभागिनी भवतीत्यर्थः ।
कीदृक् ।
हंसं जीवात्मानम् आश्रिता जीवाधिष्ठाना सतीत्यर्थः ।
हंसः प्राणाश्रयः प्राणवायुसमाश्रय इत्यर्थः ।
प्राणो नाडीसमाश्रयः ॥ ३५-३७ ॥
आधारादुद्गतो वायुर्यथावत् सर्वदेहिनाम् ।
देहं व्याप्य स्वनाडीभिः प्रयाणं कुरुते बहिः ॥ ३८ ॥
द्वादशाङ्गुलमानेन तस्मात् प्राण इतीरितः ।
कथं तस्य नाडीसमाश्रयत्वमित्यत आह आधारादिति ।
प्रयाणं कुरुते अतएव प्राण इति प्राणशब्दव्युत्पत्तिः दशीता ।
द्वादशाङ्गुलमानेनेति वामदक्षिणयोरिति ज्ञेयम् ।
एतत्फलमुक्तं तन्त्रान्तरे—-
भोजनं मैथुनं युद्धं फलपुष्पग्रहं तथा ।
कुर्यात् क्रूराणि कर्माणि वायौ दक्षिणसंश्रिते ॥
यात्राविवाहकर्माणि शुभकर्माणि यानि च ।
तानि सर्वाणि कुर्वीत वामे वायौ तु संस्थिते ॥
तथा—- व्यायामं शयनं क्रूरं षट्कर्मादिकसाधनम् ।
तानि सिध्यन्ति सूर्येण नात्र कार्या विचारणा ॥ इति ।
अन्यत्र—- देवदक्षिणभागगेऽथ पुरुषे रोगातुरे दक्षिणे
स्थित्वा पृच्छति पृच्छकः स पुरुषो जीवत्यरोगश्चिरम् ।
वामायां तु रुजाऽऽकुलीकृततनौ वामाश्रिते चेश्वरे
वामे पृच्छति चेत् स्थिता गतगदा वामा चिरं जीवति ॥ इति ।
देवे गते पृच्छति वामभागं स्थित्वा नरो दक्षिणतो यदीह ।
व्यत्यासतोऽस्मादपि कृच्छ्रसाध्यं वदन्ति सन्तः खलु रोगजातम् ॥ इति ।
अथवा आधारात् उद्गतः बहिः प्रयाणं कुरुत इत्यनेन उत्पत्तिलये सन्ध्ये अहोरात्रमित्यादि सर्वमुक्तम् ।
यदाहुः—-
जानीयादुदयं बुधः स्वजङ्गरे देवस्य कन्दे नृणां
घ्राणास्ग्मिकराङ्गुले खलु लयं सन्ध्ये च पूर्वापरे ।
उत्पत्तिं च लयं च सन्ततमधोवृत्तिं निशां वासरम्
ऊर्ध्वां वृत्तिमधस्तथा हिमकरं चोर्ध्वां दिनेशं गतिम् ॥
इति ॥ ३८-३९ ॥
रम्ये मृद्वासने शुद्धे पटाजिनकुशोत्तरे ॥ ३९ ॥
बद्धैकमासनं योगी योगमार्गपरो भवेत् ।
ज्ञात्वा भूतोदयं देहे विधिवत् प्राणवायुना ॥ ४० ॥
तत्तद्भूतं जपेद्देहदृढत्वाप्तये सुधीः ।
दण्डाकारा गतिर्भूमेः पुटयोरुभयोरधः ॥ ४१ ॥
तोयस्य पावकस्योर्द्धङ्गतिस्तिर्यङ् नभस्वतः ।
गतिर्व्येम्नो भवेन्मध्ये भूतानामुदयः स्मृतः ॥ ४२ ॥
योगप्रकारमाह—-रम्य इति ।
रम्य एकान्ते इत्यर्थः ।
अन्यथा चित्तविक्षेपः स्यादिति ।
काठिन्ये सति देहपीडाया तत्रैव मनो गमिष्यतीति मृद्वासन इत्युक्तम् ।
भूतपरिचर्यार्थमाह दण्डेति ॥ ३९-४२ ॥
धरणेरुदये कुर्यात् स्तम्भनं वश्यमात्मवित् ।
शान्तिकं पौष्टिकं कर्म तोयस्य समये वसोः ॥ ४३ ॥
मारणादीनि मरुतो विपक्षोच्चाटनादिकम् ।
क्षुद्रा(क्ष्वेडा)दिनाशनं शस्तमुदये च विहायसः॥ ४४ ॥
प्रसङ्गतस्तत्तद्भूतोदयमाह धरणेरिति ।
वसोरग्नेः ॥ ४३-४४ ॥
अङ्गुलीभिर्दृढं बध्वा करणानि समाहितः ।
अङ्गुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां विलोचने ॥ ४५ ॥
नासारन्ध्रे मध्यमाभ्यामन्याभिर्वदनं दृढम् ।
बद्धात्मप्राणमनसामेकत्वं समनुस्मरन् ॥ ४६ ॥
धारयेन्मरुतं सम्यग्योगोऽयं योगिवल्लभः ।
नादः सञ्जायते तस्य क्रमादभ्यसतः शनैः ॥ ४७ ॥
मत्तभृङ्गाङ्गनागीतसदृशः प्रथमो ध्वनिः ।
वंशिकस्याऽनिलापूर्णवंशध्वनिनिभोऽपरः ॥ ४८ ॥
घण्टारवसमः पश्चात् घनमेघस्वनोपमः ।
एवमभ्यसतः पुंसः संसारध्वान्तनाशनम् ॥ ४९ ॥
ज्ञानमुत्पद्यते पूर्वं हंसलक्षणमव्ययम् ।
बद्धेति ।
अन्यथा यदि इन्द्रियमार्गेण हठात् वायुः निर्गच्छेत् तदुपघातः स्यात् ।
करणानि इन्द्रियाणि ।
उभे इति त्रिषु अन्वेति ।
घनो निविडो मेघस्वनवत् स्वनो यस्य इति मध्यपदलोपी समासः ।
एवमित्यनेनाऽन्वेति ।
ध्वनिदशकमाहुः—-चिणीति प्रथमः शब्दश्चिञ्चिणीति द्वितीयकः ।
चिचिचाकी तृतीयस्तु चतुर्थे घर्घरः स्वरः ॥
पञ्चमस्तु मनागुच्चः षष्ठो मदकलध्वनिः ।
सप्तमः सूक्ष्मनादः स्यादष्टमो वेणुवर्द्धनः ॥
नवमो मधुरध्वानो दशमो दुन्दुभिस्वनः ॥ इति ।
हंसोपनिषद्यपि—-अथ दशकोषो नादमनुभवति ।
हंसवशात् नादो दशविधो जायते ।
चिणीति प्रथमः ।
चिणिचिणीति द्वितीयकः ।
घण्टानादस्तृतीयकः ।
शङ्खनादस्तुर्यः ।
पञ्चमस्तन्त्रीनादः ।
षष्ठस्तालनादः ।
सप्तमो वेणुनादः ।
अष्टमो भेरीनादः ।
नवमो मृदङ्गनादः ।
दशमो मेघनादः ।
नवमं परित्यज्य दशममभ्यसेत् ।
अस्मात् मनो विलीयते ।
विलीने मनसि गते सङ्कल्पविकल्पे दग्धे पुण्यपापे सदाशिवोमिति ।
सदाशिवः शक्त्यात्मा सर्वत्रावस्थिता स्वयं ज्योतिः शुद्धो बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशत इति ।
हंसलक्षणं शिवशक्त्यात्मकं जीवात्मकं वा ।
प्रयोगसारे तु—- कम्परोमोद्गमानन्दं वैमल्यस्थैर्यलाघवम् ।
प्रकाशज्ञानवैदूष्यं भावोऽद्वैतात्मसञ्चयः ॥
सम्भवन्ति दशाऽवस्था योगिनः सिद्धिसूचकाः ।
ततस्त्रैकाल्यविज्ञानं महाप्रज्ञा मनोज्ञता ॥
छन्दतः प्राणसंरोधो नाडीनां क्रमणं तथा ।
वाचां सिद्धिश्चिरायुष्यमिन्द्रजालानुवर्त्तनम् ॥
देहाद्देहान्तरप्राप्तिरात्मज्योतिः प्रकाशनम् ।
प्रत्यया दश दृश्यते प्राप्तयोगस्य योगिनः ॥ इति ॥ ४५-५० ॥
पुम्प्रकृत्यात्मकौ प्रोक्तौ बिन्दुसर्गौ मनीषिभिः ॥ ५० ॥
ताभ्यां क्रमात्समुद्भूतौ बिन्दुसर्गावसानकौ ।
हंसौ तौ पुम्प्रकृत्याख्यौ हं पुमान् प्रकृतिस्तु सः ॥ ५१ ॥
अजपा कथिता ताभ्यां जीवोऽयमुपतिष्ठति ।
पुरुषं स्वाश्रयं मत्वा प्रकृतिर्नित्यमास्थिता ॥ ५२ ॥
यदा तद्भावमाप्नोति तदा सोऽहमयं भवेत् ।
सकारार्णं हकारार्णं लोपयित्वा ततः परम् ।
सन्धिं कुर्यात् पूर्वरूपस्तदाऽसौ प्रणवो भवेत् ॥ ५३ ॥
प्रणवोत्पत्तिमाह—-पुमिति ।
क्रमादिति बिन्दोः हं विसर्गात् सः ।
पुं प्रकृत्याख्यौ इति नाम काल्पनिकम् ।
तत्त्वतः बिन्दुविसर्गावेव ।
हं पुमानिति ।
अतएव अत्र आदौ अकारे निपाते योजिते अहमिति लोकप्रसिद्ध आत्माभिनयः ।
उपतिष्ठति आराधयति ।
पुरुषं स्वाश्रयं मत्वा नित्यं तमेव अस्थिता प्रकृतिरिति सम्बन्धः ।
यदा तु प्रकृतेर्नित्यमात्मन इति पाठः तदा आत्मनः प्रकृतेरिति समानाधि- करणे षष्ठ्यौ ।
प्रकृतिरविद्या सा ब्रह्मभिन्नत्वेन जीवकल्पकत्वात् तदभिन्नेव स्वाश्रयं सदाश्रयं गत्वा इयं यदा
तद्भावमाप्नोतीति सम्बन्धः ।
तद्भावमिति ।
प्रकृति- पुरुषयोरभेदात् परमात्मैवाऽहम् इति जीवब्रह्मणोरैक्यम् ।
अस्यार्थः ।
अजपाभ्या- साच्चैवमैक्यमुदेतीति व्यक्तीकृतम् ।
लोपयित्वेति ।
व्यञ्जनयोः कल्पितत्वादेव लोपः।
पूर्वरूपं " एङः पदान्तादति " इत्यनेन ॥ ५०-५३ ॥
परानन्दमयं नित्यञ्चैतन्यैकगुणात्मकम् ।
आत्माभेदस्थितं योगी प्रणवं भावयेत्सदा ॥ ५४ ॥
परानन्दमयमिति ।
" आनन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम् " इति श्रुतेः ।
नित्यं वक्ष्यमाणश्रुतेरेव ।
चैतन्यं ज्ञानं स चासावेको गुणश्च तदात्मकम् ।
" सत्यं ज्ञानमनन्तं ब्रह्म " इति श्रुतेः ।
यद्वा चैतन्यं ज्ञानरूपमेकम् ।
" एकमेवाद्वितीयं ब्रह्म " इति श्रुतेः ।
संसारोत्पत्तिकर्त्तृत्वात् कल्पितसत्त्वरजस्तमोगुणरूपम् ।
आत्माभेदस्थितं सोऽहंशब्दोत्थतया तस्य च तदर्थकत्वात् ॥ ५४ ॥
आम्नायवाचामतिदूरमाद्यं वेद्यं स्वसंवेद्यगुणेन सन्तः ।
आत्मानमानन्दरसैकसिन्धुं पश्यन्ति तारात्मकमात्मनिष्ठाः ॥ ५५॥
आम्नायेति ।
" यतो वाचो निवर्त्तन्ते " इति श्रुतेः ।
आद्यम् ।
शास्त्रयोनित्वात् ।
स्वसंवेद्यगुणेन वेद्यं स्वप्रकाशमित्यर्थः ।
आनन्दमिति ।
" आनन्दं ब्रह्मणो रूपम् " इति श्रुतेः ।
तारात्मकमुक्तरीत्या ।
आत्मनिष्ठा आदरनैरन्तर्यदीर्घकालाभ्यासैस्तच्चिन्तनपरा योगिनः ॥ ५५ ॥
सत्यं हेतुविवजीतं श्रुतिगिरामाद्यं जगत्कारणं
व्याप्तस्थावर जङ्गमं निरुपमं चैतन्यमन्तर्गतम् ।
आत्मानं रविवह्निचन्द्रवपुषं तारात्मकं सन्ततं
नित्यानन्दगुणालयं सुकृतिनः पश्यन्ति रुद्धेन्द्रियाः॥५६॥
सत्यम् ।
" सत्यं ज्ञानम् " इति श्रुतेः ।
हेतुविवजीतम् ।
नित्यत्वात् अनुत्पाद्यम् ।
यद्वा ये हेतवो दुस्तर्कास्तद्विवजीतम् ।
श्रुतिगिरामाद्यम् ।
" शास्त्रयोनित्वात् " इति सूत्रे वेदकर्त्तृत्वोक्तेः ।
प्रणवात्मकत्वाद्वा ।
जगत्कारणम् ।
" आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते " इति श्रुतेः ।
व्याप्तेति ।
तद्विवर्त्तरूपत्वात् जगतः ।
निरूपममिति ।
अद्वितीयत्वेन ।
चैतन्यमन्तर्गतम् ।
प्रत्यक्चैतन्यम् आत्मरूपचैतन्यमित्यर्थः ।
रविचन्द्रवह्निवपुरिव वपुर्यस्य ।
प्रकाशरूपमित्यर्थः ।
न तु तद्वदाकारग्राहित्वे अयं दृष्टान्तः ।
तस्य निराकारत्वात् प्रणवरूपत्वात् वा तद्वदुक्तिः ॥ ५६ ॥
तारस्य सप्तविभवैः परिचीयमानं
मानैरगम्यमनिशं श्रुतिमौलिमृग्यम् ।
संवित्समस्तगमनश्वरमच्युतं तत्
तेजः परं भजत सान्द्रसुधाम्बुराशिम् ॥ ५७ ॥
तारस्येति ।
अकारोकारमकारबिन्दुनादशक्तिशान्ताख्यैः परिचीयमानं तद्रुच्य- मानम् ।
तदेवाह मानैरगम्यमिति ।
श्रुतिमौलिरुपनिषत् तन्मृग्यम् ।
सत्तात्मकमस्ति इति भानात् ।
संवित् प्रकाशम् ।
" सद्धीदं सर्वं सत् सत् " इति " चिद्धीदं सर्वं प्रकाशते " इति श्रुतेः ।
समस्तगं व्यापकम् ।
अनश्वरम् अविश्वंसि ।
अच्युतमेकरूपत्वात् ।
वाक्यान्तरोपदेशात् श्लोकत्रयस्थानां पदानां परस्परं न पौनरुक्त्यम् ॥ ५७ ॥
हिरण्मयं दीप्तमनेकवर्णं
त्रिमूत्तीमूलं निगमादिबीजम् ।
अङ्गुष्ठमात्रं पुरुषं भजन्ते
चैतन्यमात्रं रविमण्डलस्थम् ॥ ५८ ॥
सगुणब्रह्मोपास्तिरपि सगुणब्रह्म (हिरण्यगर्भ) लोकप्राप्तिद्वारा मुक्तेः क्रमात् कारणमिति शास्त्रोक्तेः
निर्गुणब्रह्मोपास्तौ असमर्थानां सगुणब्रह्मोपास्तिमाह—- हिरण्मयमिति ।
त्रिमूत्तीमूलमित्यनेन अस्याऽभ्यसनीयानि नामानि सूचितानि ।
यदाहुः—-ब्रह्मा विष्णुश्च रुद्रश्च ओङ्कारः प्रलयस्तथा ।
सर्वव्यापी ह्यनन्तश्च तारः सूक्ष्मश्च शुक्लकः ॥ वैद्युतश्च परं ब्रह्म एकश्चाऽप्येकरुद्रकः ।
ईशानो भगवां- श्चैव ततः स्यात्तु महेश्वरः ॥ महादेवः सदापूर्वः शिवः सर्वादयस्त्रयः ।
रक्षिताव- गतश्चैव तथा प्रियतमः स्मृतः ॥ नित्यतृप्तश्च सर्वाद्या षोडशान्तः प्रकीत्तीताः ।
आद्यश्चावगमः कान्त प्रदिष्टश्रोतृस्वामिनौ ॥ समर्थे यावकश्चैव क्रियेच्छादीप्त एव च ।
अवाप्तालिङ्गितौ चैव हिंसको दाहकस्तथा ॥ भाववृद्धौ गुणं बीजं ध्रुवो वेदादिरादियुक् ।
उमध्यो मपरश्चैव त्रिमात्रो योनिरेव च ॥ देहाश्रयश्च संवादात्मानौ सर्वादिकास्त्रयः ॥ इति ॥ ५८ ॥
ध्यायन्ति दुग्धाब्धिभुजङ्गभोगे
शयानमाद्यं कमलासहायम् ।
प्रफुल्लनेत्राम्बुजमञ्जनाभं
चतुर्मुखेनाश्रि(ञ्चि) तनाभिपद्मम् ॥ ५९ ॥
आम्नायगं द्विवरणं घननीलमुद्य-
च्छ्रीवत्सकौस्तुभगदाम्बुजशङ्खचक्रम् ।
हृत्पुण्डरीकनिलयं जगदेकमूल-
मालोकयन्ति कृतिनः पुरुषं पुराणम् ॥ ६० ॥
क्रममुक्त्यर्थमन्यां साकारोपास्तिमाह—-ध्यायन्तीति श्लोकद्वयेन ।
आम्नाया वेदास्तद्ग्रथितस्रष्टं (सुष्ठु ?) वचनं यस्य ॥ ५९-६० ॥
बिन्दोर्नादसमुद्भवः समुदिते नादे जगत्कारणं
तारं तत्त्वमुखाम्बुजं परिवृतं वर्णात्मकैर्भूतजैः ।
आम्नायाङ्घिरचतुष्टयं(र्मुखं)पुररिपोरानन्दमूलं वपुः
पायाद् वो मुकुटेन्दुखण्डविगलद्दिव्यामृतौघप्लुतम् ॥ ६१॥
क्रममुक्त्यर्थमन्यसाकारध्यानयोगमाह—-बिन्दोरिति ।
बिन्दुः शिवात्मा ओङ्कारस्य शिरोरूपः ।
तत्त्वमुखाम्बुजं चतुवींशतितत्त्वमयमुखकमलम् ॥ ६१ ॥
पिण्डं भवेत् कुण्डलिनी शिवात्मा
पदं तु हंसः सकलान्तरात्मा ।
रूपं भवेद्बन्दुरनन्त(मन्द) कान्ति
रतीतरूपं शिवसामरस्यम् ॥ ६२ ॥
सबीजयोगमाह—-पिण्डमिति ।
अकारोकारमकारात्मकत्वात् पिण्डं प्रणवः ।
कुण्डलिनी तद्रूपा सैव शिवात्मा सकलान्तरात्मा हंसः ।
तस्याः पदं स्थानम् ।
अनयोरनन्तकान्तिः बिन्दुरूपम् ।
परमार्थतस्तु शिवयोः सामरस्यमतीतरूपं नीरूपमेव।
यद्वा अतीतेति अतिपूर्वस्येणो लोट्मध्यमपुरुषबहुवचनम् ।
हे लोकाः यूयं सर्वं जगदतिक्रम्यैवं ध्यानात् शिवसामरस्यरूपमतीत आतियात गच्छतेत्यर्थः ॥ ६२ ॥
पिण्डादियोगं शिवसामरस्यात्
सबीजयोगं प्रवदन्ति सन्तः ।
शिवे लयं नित्यगुणाभियुक्ते
निर्बीजयोगं फलनिर्व्यपेक्षम् ॥ ६३ ॥
अनेन सायुज्यमुक्तिर्भवतीत्याह—-पिण्डादीति ।
सारूप्यमुक्तिमाह—-शिव इति ॥६३॥
मूलोन्निद्रभुजङ्गराज महिषीं यान्तीं सुषुम्णान्तरं
भित्वाऽऽधारसमूहमाशु विलसत्सौदामिनी सन्निभाम् ।
व्योमाम्भोजगतेन्दु मण्डलगलद्दव्यामृतौघप्लुतं(घैः पतिं)
सम्भाव्य स्वगृहं गतां पुनरिमां सञ्चिन्तयेत् कुण्डलीम् ॥ ६४ ॥
सम्प्रति आत्मानुभवैकगम्यकुण्डलिनीचिन्तनरूपं राजयोगादिप्रकारमाह मूलेति।
मूलात् मूलाधारात् ।
उन्निद्रा जाग्रद्रूपा ।
कुण्डल्या सर्पाकारत्वात् भुजङ्गराजमहिषी- व्यपदेशः ।
सुषुम्णान्तरमाशु यान्तीम् ।
आधारसमूहं स्वाधिष्ठानमणिपूरकानाहतवि- शुद्धाज्ञारूपम् ।
व्योमाम्भोजेति ।
सहस्रदलपतिं शिवम् ।
स्वगृहं मूलाधारम् ॥ ६४ ॥
हंसं नित्यमनन्तमव्ययगुणं स्वाधारतो निर्गता
शक्तिः कुण्डलिनी समस्तजननी हस्ते गृहीत्वा च तम् ।
याता शम्भुनिकेतनं परसुखं तेनाऽनुभूय स्वयं
यान्ती स्वाश्रयमर्ककोटिरुचिरा ध्येया जगन्मोहिनी ॥ ६५ ॥
तं जीवं जप्यमानं हंसं हस्ते गृहीत्वेति सम्बन्धः ।
यथा च जीवो जपति तथा हंसमन्त्रप्रस्ताव एव उक्तम् ।
स्वाश्रयं मूलाधारम् ।
पूर्वश्लोकाद्धंसं गृहीत्वा यातेति विशेषः ॥ ६५ ॥
अव्यक्तं परबिन्दुमञ्चितरुचिं नीत्वा शिवस्यालयं
शक्तिः कुण्डलिनी गुणत्रयवपुवीद्युल्लतासन्निभा ।
आनन्दामृतमध्यगं पुरमिदं चन्द्रार्ककोटिप्रभं
संवीक्ष्य स्वपुरं गता भगवती ध्येया न वेद्या गुणैः ॥ ६६ ॥
अव्यक्तं परबिन्दुं नीत्वेति ।
पूर्वतो विशेषः ।
स्वपुरं मूलाधारम् ॥ ६६ ॥
मध्ये वर्त्म समीरणद्वयमिथः सङ्घट्टसङ्क्षोभजं
शब्दस्तोममतीत्य तेजसि तडित्कोटिप्रभाभासुरे ।
उद्यन्तीं समुपास्महे नवजवासिन्दूरसन्ध्यारुणां
सान्द्रानन्दसुधामयीं परशिवं प्राप्तां परां देवताम् ॥ ६७ ॥
समीरणद्वयेति ।
अपानवायुनिरोधात् प्राणवायुनिरोधाच्चोर्ध्वाधोगतयोस्तयो- मिथः सङ्घट्ट इत्यर्थः ।
अत्र प्राणापानसङ्घट्टजशब्दातिक्रमणमेव विशेषः, आरक्त- ध्यानञ्च ।
तदुक्तम्—-श्वेतध्याने वाग्विलास आरक्ते वश्यता भवेत् ।
इति ।
अन्यत्रापि—- ध्यायेद्वश्याकर्षणे तां जपाभां श्वेतां शान्तौ स्तम्भने पीतवर्णाम् ।
श्यामां मुक्तौ मारणे कृष्णवर्णां धूम्राभासां द्वेषणोच्चाटने च ॥
इत्याद्यानुषङ्गिकं फलमपि ज्ञेयम् ॥ ६७ ॥
गमनागमनेषु जा(ला)ङ्घिकी सा
तनुयाद्योगफलानि कुण्डली ।
मुदिता कुलकामधेनुरेषा
भजतां काङ्क्षितकल्पवल्लरी ॥ ६८ ॥
गमनेति ।
अत्र गमनागमनेषु जाङ्घिकीति विशेषः ॥ ६८ ॥
आधारस्थितशक्तिबिन्दुनिलयां नीवारशूकोपमां
नित्यानन्दमयीं गलत्परसुधावर्षैः प्रबोधप्रदैः ।
सिक्त्वा षट् सरसीरुहाणि विधिवत् कोदण्डमध्योदितां
ध्यायेद्भास्वर बन्धुजीवरुचिरां सञ्चि(वि)न्मयीं देवताम् ॥६९॥
आधारेति ।
आधारो मूलाधारचक्रम् ।
तत्र स्थिता या शक्तिः त्रिकोणं तस्या मध्यस्थानं बिन्दुः तन्निलयाम् ।
यद्वा आधारस्थिता या शक्तिः त्रिकोणम् अथ च तत्रस्थं कामबीजं तदपि शक्तिबीजमेव ।
तस्य शिरसि यो बिन्दुः तन्निलयामित्यर्थः ।
यदाहुः—-तडित्कोटिप्रख्यं स्वरुचिजितकालानलरुचिं
सहस्रादित्यांशुप्रकरसदृशोद्योतकलितम् ।
स्फुरन्तं योन्यन्तः स्फुटदरुणबन्धूककुसुम
प्रभं कामं ध्यायेद्रुचिरशशभृत्कोटिशिरसम् ॥
तस्योर्ध्वेऽग्निशिखा चिरद्युतिलतापुञ्जप्रभाभासुरा
सूक्ष्मा ब्रह्मपथान्तराम्बरगता चैतन्यमात्रा कला ॥ इति ।
कोदण्डमध्यं भ्रूमध्यम् आज्ञाचक्रम् ।
तत्रोदिता ।
अत्रायमेव विशेषः ॥ ६९॥
हृत्पङ्केरुहभानु विम्बनिलयां विद्युल्लतामत्सरां
बालार्कारुणतेजसा भगवतीं निर्भर्त्सयन्तीं तमः ।
नादाख्यं पदमर्द्धचन्द्रकुटिलं संविन्मयं शाश्वतं
यान्तीमक्षररूपिणीं विमलधीर्ध्यायेद् विभुं तेजसाम् ॥ ७० ॥
मत्सरशब्दः सदृशार्थः ।
बालार्कारुणतेजसा तमो निर्भर्त्सयन्तीमिति सम्बन्धः।
अत्र हृदयादेव नाथं प्रति गमनं वर्णमयध्यानमिति विशेषः ।
एतच्च प्रतिचक्रं भिन्नाः कुण्डल्य इति मते तैः कुण्डलिनीषट्कस्य स्वीकृतत्वात् ॥ ७० ॥
भाले पूर्णनिशापतिप्रतिजटां नीहारहारत्विषा
सिञ्चन्तीममृतेन देवममितेनानन्दयन्तीं तनुम् ।
वर्णानां जननीं तदीयवपुषा सम्प्राप्य विश्वं स्थितां
ध्यायेत् सम्यगनाकुलेन मनसा संवि(चि)न्मयीमम्बिकाम् ॥७१॥
भाल इति ।
अत्राज्ञायां शिवेन सङ्गः वर्णेत्पादकत्वञ्च विशेषः ।
तदुक्तम्—-
स्वयम्भुलिङ्गं निजयोनिमध्यरन्ध्रान्तरे हृत्सरसीरुहान्तः ।
बाणाह्वयं चेतरमन्तराले वदन्ति सन्तो गगनाम्बुजेऽन्यः ॥ इति ॥ ७१ ॥
मूले भाले हृदि च विलसद्वर्णरूपा सवित्री
पीनोत्तुङ्गस्तनभरनम(लस)न्मध्यदेशा महेशी ।
चक्रे चक्रे गलितसुधया सिक्तगात्रा प्रकामं
दद्यादाद्या श्रियमविकलां वाङ्मयी देवता वः ॥ ७२ ॥
स्थानत्रयेऽपि शिवसङ्गमाह—-मूल इति ।
मूलाधारादाज्ञापर्यन्तं गत्वा ततो निवृत्तिवीशेषः ॥ ७२ ॥
निजभवन निवासादुच्चरन्ती विलासैः
पथि पथि कमलानां चारुहासं विधाय ।
तरुणतरणिकान्तिः कुण्डली देवता सा
शिवसदनसुधाभिर्दीपयेदात्मतेजः ॥ ७३ ॥
आधारबन्धप्रमुखक्रियाभिः
समुत्थिता कुण्डलिनी सुधाभिः ।
त्रिधामबीजं शिवमर्चयन्ती
शिवाङ्गना वः शिवमातनोतु ॥ ७४ ॥
सिन्दूरपुञ्जनिभमिन्दुकलावतंस-
मानन्दपूर्ण नयनत्रयशोभिवक्त्रम् ।
आपीनतुङ्गकुचनम्रमनङ्गतन्त्रं
शम्भोः कलत्रममितां श्रियमातनोतु ॥ ७५ ॥
इतः परं वासनादार्ढ्याय कुण्डलिनीध्यानविशेषान् वदन् स्तुतिमाह—-निजभवनेत्यादिना ।
अपानवायुसङ्कोचादाधारबन्धः ।
एवं प्राणवायुनिरोधेऽपि प्रमुखशब्दवाच्यः ।
अनङ्गतन्त्रम् अनङ्गप्रधानम् ॥ ७३-७५ ॥
नयनकमलैर्दीर्घा दीर्घैरलङ्कृतदिङ्मुखं
विनतमरुतां कोटीराग्रैर्निघृष्ट पदाम्बुजम् ।
तरुणशकलं चान्द्रं बिभ्रद् घटस्तनमण्डलं
स्फुरतु हृदये बन्धूकाभं कलत्रमुमापतेः ॥ ७६ ॥
दीर्घादीर्घैरिति ।
कटाक्षेण दीर्घत्वं तत्सङ्कोचेनाऽदीर्घत्वञ्च ।
विनतमरुतां विनतदेवानाम् ।
कोटीराग्रैः मुकुटाग्रभागैः ॥ ७६ ॥
वर्णैरर्णवषड्दिशारविकलाचक्षुवीभक्तैः क्रमा-
दाद्यैः सादिभिरावृतान् क्षहयुतैः षट्चक्रमध्यानिमान् ।
डाकिन्यादिभिराश्रितान् परिचितान् ब्रह्मादिभिर्दैवतै-
भीन्दाना परदेवता त्रिजगतां चित्ते विधत्तां मुदम् ॥ ७७ ॥
अन्तर्मातृकाक्रमेण कुण्डलिनीध्यानमाह—-वर्णैरिति ।
अर्णवाश्चत्वारः, दिशा दश, रवयो द्वादश, कलाः षोडश, चक्षुर्द्वयम् ।
सादिभिरित्यनेन व्युत्क्रमो दशीतः ।
आद्यैरिति मूलाधारस्थितत्वेन आद्यत्वम् ।
यद्वा साद्यैः सकारादिककारान्तैः ।
आद्यैः षोडशस्वरैः हक्षयुतैरिति योजना ।
तत्र विशुद्धचक्रे अकारादीनां क्रमेण स्थितैराद्यै- रिति पृथक्ग्रहणमिति केचित् ।
अथवाऽन्यत्राकारस्याद्यत्वम् ।
अत्र वैपरीत्यक्रमेण सकारस्य आद्यत्वमिति आद्यैरित्युक्तम् ।
द्विदले क्षहौ प्रतिलोमार्थमेव क्षहेतिग्रहणम् ।
डाकिन्यादिभिराश्रितान् ।
डाकिनी-राकिणी-लाकिनी-काकिनी-शाकिनी-हाकिनीभिः ।
ब्रह्मादिभिर्दैवतैः परीतान् ।
ब्रह्मादिस्थितिः दीक्षापटले (=चतुर्थ) उक्ता ।
एवम्भूतान् षट्चक्रमध्यान् भिन्दानेति सम्बन्धः ।
तदुक्तम्—-
आधारस्तु चतुर्दलोऽरुणरुचिर्वासान्तवर्णाश्रयः
स्वाधिष्ठानमनल्पवैद्युतनिभं बालान्तषट्पत्रकम् ।
रक्ताभं मणिपूरकं दशदलं डाद्यं फकारान्तकं
पत्रैर्द्वादशभिस्त्वनाहतपुरं हैमं कठान्तान्वितम् ॥
मात्राषोडशपत्रकं विशदरुग्युक्तं विशुद्धाम्बुजं
हक्षेत्यक्षरयुग्दलद्वययुतं रत्नाभमाज्ञापुरम् ।
तस्मादूर्ध्वमधोमुखं विकसितं पद्मं सहस्रच्छदं
नित्यानन्दमयं भजे शिवपदं शक्त्यर्णमच्छारुणम् ॥ इति ।
अन्यत्र तु—- मूलाधारं ब्रह्मणः स्थानमेतत् सौवर्णाभं डाकिनी देवताऽत्र ।
स्वाधिष्ठानं विष्णुगेहं प्रदिष्टं बालार्काभं राकिणी देवताऽत्र ॥
मणिपूरकं तु नीलं रुद्रस्थानं लाकिनी देवताऽत्र ।
रक्तमनाहतमीश्वरगृहं तु शाकिन्यपीहोक्ता ॥
सदाशिवस्थानमिदं विशुद्धं काकिन्यथेहाऽपि च धूम्रवर्णम् ।
आज्ञापुरं शारदचन्द्रकान्तं हाकिन्यथोक्ता शिवगेहमेतत् ॥ इति ।
अध्यात्मविवेके एषां प्रतिदलं जीवसञ्चारे फलमुक्तम्—-
गुदलिङ्गान्तरे चक्रमाधारं तु चतुर्दलम् ।
परमः सहजस्तद्वदानन्दो वीरपूर्वकः ॥
योगानन्दश्च तस्य स्यादीशानादिदले फलम् ।
स्वाधिष्ठानं लिङ्गमूले षट्पत्रञ्च क्रमस्य तु ॥
पूर्वादिषु दलेष्वाहुः फलान्येतान्यनुक्रमात् ।
प्रश्रयः क्रूरता गर्वे नाशो मूर्च्छा ततः परम् ॥
अवज्ञा स्यादविश्वासो जीवस्य चरतो ध्रुवम् ।
नाभौ दशदलं चक्रं मणिपूरकसञ्ज्ञकम् ॥
सुषुप्तिरत्र तृष्णा स्यादीर्ष्या पिशुनता तथा ।
लज्जा भयं घृणा मोहः कषायोऽथ विषादिता ॥
हृदयेऽनाहतं चक्रं दलैर्द्वादशभिर्युतम् ।
लौल्यं प्रणाशः कपटं वितर्केऽप्यनुतापिता ॥
आशा प्रकाशश्चिन्ता च समीहा ममता ततः ।
क्रमेण दम्भो वैकल्यं विवेकोऽहङ्कृतिस्तथा ॥
फलान्येतानि पूर्वादिदलस्थस्यात्मनो जगुः ।
कण्ठेऽस्ति भारतीस्थानं विशुद्धिः षोडशच्छदम् ॥
तत्र प्रणव उद्गीथो हुं फट् वषट् स्वधा तथा ।
स्वाहा नमोऽमृतं सप्त स्वराः षड्जादयो विषम् ॥
इति पूर्वादिपत्रस्थे फलान्यात्मनि षोडश ॥ इति ॥ ७७ ॥
आधाराद् गुणवृत्तशोभिततनुं लिङ्गत्रयं सत्वरं
भिन्दन्तीं कमलानि चिन्मयघनानन्दप्रबोधोत्तराम् ।
सङ्क्षुब्धध्रुवमण्डलामृतकरप्रस्यन्दमानामृत-
स्रोतः कन्दलिता(निभा)ममन्दतडिदाकारां शिवां भावयेत् ॥ ७८
आधारादिति ।
त्रिकोणकणीकं वृत्तं वर्त्तुलमाधारस्वरूपं तस्माद्गुणवृत्तं सत्त्वरजस्तमोगुणात्मकम् ।
(लिङ्गत्रयमित्यत्र निर्गच्छन्तीमिति निर्गत्वरीमिति च क्वचित्पाठौ दृश्येते) ॥ ७८ ॥
आनन्दमौलिमनिशं श्रुतिमौलिमृग्य
मर्द्धेन्दुभूषणमधिष्ठितसर्वलोकम् ।
भक्तात्तीभञ्जनपरं पदमीश्वरस्य
दद्याच्छुभानि नियतं वपुरम्बिकायाः ॥ ७९ ॥
मञ्जुसिञ्जितमञ्जीरं वाममर्द्धं महेशितुः ।
आश्रयामि जगन्मूलं यन्मूलं वचसामपि ॥ ८० ॥
स्थूलेन्द्र नीलरुचिरं कुचभारनम्रं
भास्वत्सुभूषणगणैः प्रविभक्तशोभम् ।
विश्वैकमूलमनिशं श्रुतिमौलिमृग्य-
मर्द्धं महेशितुरखण्डितमाश्रयामः ॥ ८१ ॥
दिक्कालादिविवजीते परशिवे चैतन्यमात्रात्मके
शून्ये कारणपञ्चकस्य विलयं नीते निरालम्बने ।
आत्मानं विनिवेश्य निश्चलधिया निर्लीनसर्वेन्द्रियो
योगी योगफलं प्रयाति सुलभं नित्योदितं निष्क्रियम् ॥ ८२॥
दिगिति देशतः कालतः ।
आदिशब्दात् स्वरूपतश्चाऽनवच्छिन्ने ।
कारण- पञ्चकस्य उपादानसमवायिनिमित्तप्रयोजकसहकारिकारणपञ्चकस्य ।
यद्यपि प्रयोजकसहकारिकारणे निमित्तकारणान्तर्गते एवेति ताकीकाः कारणत्रयमेवाहुः ।
तथापीषद्भेदमाश्रित्य कारणपञ्चकोपन्यासः ।
यद्वा पञ्चभूतानां पञ्चतन्मात्ररूपाणि कारणानि ।
तदुक्तं महाकपिलपञ्चरात्रे—-
मात्राः पञ्च परित्यज्य ततः कारणपञ्चकम् ।
दिव्यन्तु कारणं कृत्वा योजयेत् परमं पदम् ॥ इति ।
अतएव शून्ये अरूपे ।
निरालम्बने आधाररहिते ।
आत्मानं जीवात्मानम् ।
निश्चलधिया विनिवेश्य योगफलं प्रयाति ॥ ८२ ॥
महाबलाय प्रणतोऽस्मि तस्मै
संविल्लतालिङ्गनशीतलाय ।
येनाऽपीतं मुक्तिफलं विपक्व-
माम्नायशाखाभिरुपाश्रितेभ्यः ॥ ८३ ॥
तस्मादभूदखिलदेशिकवारणेन्द्रः
षट्कर्मसागरविहारविनोदशीलः ।
यस्य त्रिलोकविततं विजयाभिधान-
माचार्यपण्डित इति प्रथयन्ति सन्तः ॥ ८४ ॥
तन्नन्दनो देशिकदेशिकोऽभू-
च्छ्रीकृष्ण इत्यभ्युदितप्रभावः ।
यत्पादकारुण्यसुधाभिषेका-
ल्लक्ष्मीं परामश्नुवते कृतार्थाः ॥ ८५ ॥
आचार्य विद्याविभवस्य तस्य
जातः प्रभोर्लक्ष्मणदेशिकेन्द्रः ।
विद्यास्वशेषासु कलासु सर्वा-
स्वपि प्रथां यो महीं प्रपेदे ॥ ८६ ॥
ग्रन्थकर्त्ता स्ववंशमाख्याति महाबलायेति ।
महाबलनाम ग्रन्थकर्त्तुः पूर्वजः ।
तत्पुत्र आचार्यपण्डितः तत्पुत्रः श्रीकृष्णः ॥ ८३-८६ ॥
आदाय सारमखिलं निखिलागमेभ्यः
श्रीशारदातिलकनाम चकार तन्त्रम् ।
प्राज्ञः स एष पटलैरिह तत्त्वसङ्ख्यैः
प्रीतिप्रदानविधये विदुषां चिराय ॥ ८७ ॥
तत्त्वसङ्ख्यैः पञ्चविंशतिसङ्ख्यैः ।
अत्र आद्यपटलः सृष्टिप्रतिपादकत्वेन मूल- प्रकृतिप्रतिपादनपरः ।
मध्ये त्रयोविंशतिपटलास्तु प्रकृतिविकृतिप्रतिपादनपराः ।
अन्त्यपटलस्तु प्रकृतिविकृतिव्यतिरिक्तपुरुषप्रतिपादनपरः ।
एवं पञ्चविंशतितत्त्वात्म- कत्वम् अस्य ग्रन्थस्योक्तं भवति ॥ ८७ ॥
प्रणति अनाद्यन्तात् शम्भोर्वपुषि कलितार्द्धेन वपुषा
जगद्रूपं शश्वत् सृजति महनीयामपि गिरम् ।
सदर्था शब्दार्थस्तनभरनता शङ्करवधू-
र्भवेद् भूत्यै भूयाद् भवजनितदुःखौघशमनीम् ॥ ८८ ॥
सुखदा दातृसुभगा शङ्करार्द्धशरीरिणी ।
ग्रन्थपुष्पोपहारेण प्रीता नः पार्वती सदा ॥ ८९ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
पञ्चविंशः पटलः समाप्तः ॥ २५ ॥
ब्थ् " बि
परदेवतैव ध्येयेति सकलतन्त्रार्थमुपसंहरन् आशिषा मङ्गलं करोति—-अनादीति ।
" मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते ।
वीरपुरुषकाणि भवन्ति आयुष्यपुरुषकाणि च " ।
इति भगवत्पतञ्जलिवचनादिति ।
शिवम् ॥ ८८-८९ ॥
॥ समाप्तोऽयं पदार्थादर्शः ॥
पुरं गोदावर्या विलसदुपकण्ठे जनततं
जनस्थानं नाम प्रथितमभवद्दक्षिणदिशि ।
महाराष्ट्रे देशे जनकतनयालक्ष्मणवृतः
पुरा रामो यस्मिन्नवसदतितुष्टेन मनसा ॥ १ ॥
तस्मिन् पुरे ब्राह्मणसत्तमानां
कुले विशुद्धे महति प्रसिद्धे ।
श्रीभट्टरामेश्वर इत्युदारो
गुणैरभूद्वादिमहेभसिंहः ॥ २ ॥
तस्मादभूत् तीक्ष्णकुशाग्रबुद्धिः
श्रीभट्टपृथ्वीधरनामधेयः ।
अनेकधाऽध्यापयदेष भाट्टो
वेदान्तशास्त्रं फणिभाषितादि ॥ ३ ॥
गीर्वाणाचार्यवर्ये दिविकृतवसतिर्यद्भयादेव शङ्के
शेषः पातालमूलं स च सपदि पराभूतिभीत्या विवेश ।
अन्येषां कैव वार्त्ता कृतकृतकवचश्चापलानां कृतं तैः
सम्यक् शक्योऽस्य वक्तुं नहि वदनशतैरप्यशेषप्रभावः ॥ ४ ॥
कैश्चिद्दिनैरतिपवित्रचरित्र एष
वाराणसीमभिगमच्छिवराजधानीम् ।
तत्रैव वासमकरोत् तदनुप्रतीकः
कायावसानमवधिं परिचिन्त्य धीरः ॥ ५ ॥
तस्माद् राघवभट्ट एष समभूत् वेदान्तसत्र्यायवित्
ख्यातो भट्टनये समस्तगणिते साहित्यरत्नाकरः ।
आयुर्वेदनिधिः कलासु कुशलः कामार्थशास्त्रे गुरुः
सङ्गीते निपुणः सदागमनिधेः पारं प्रयातः परम् ॥ ६ ॥
श्रीदुर्गे गणनायकग्रहगुरो गोविन्द गौरीपते
युष्मानर्थयते नतेन शिरसा सोऽयं प्रबद्धाञ्जलिः ।
मन्त्रार्चादिविवेचने यदि भवेत् स्खालित्यमत्र भ्रमात्
क्वाचित्कं मम भक्तिभावितहृदो दासस्य तत् क्षम्यताम् ॥ ७ ॥
अत्युष्णतीक्ष्णधीभिर्जगदुपकृतये राघवो यद्विवब्रे
गूढार्थं मन्त्रशास्त्रं निधिमिव परमं सम्प्रदायाञ्जनेन ।
सन्तः सन्तोषमस्मिन् वितरत तरसा स्वादितस्वस्वकामा
दुष्टादौष्ट्यं स्वकीयं जहित हितधिया नान्यथाऽर्थागमो वः ॥ ८॥
पिशुनजनोऽन्तर्मलिनः परगुणसन्तोषविमुखमतिः ।
तत्र मनो न विषीदति दूषणमात्रात्तु यच्च विरतोऽयम् ॥ ९ ॥
कायस्था इव वाचकाः कतिचन प्रायेण मूका इव
श्रोतारस्त्वपरे शुका इव परे साधुप्रलापाः पुनः ।
ग्रन्थग्रन्थिविवेचनैकचतुरा ये कोविदाः केवलं
द्वित्रास्ते तदुदीरितावगतये विज्ञाः पुनः पञ्चषाः ॥ १० ॥
आकाशेषुशरक्षमापरिमिते रौद्राभिधे वत्सरे
पौषे मासि सिते दले रवितिथौ पक्षे च सिद्धान्विते ।
तन्त्रेऽस्मिन् सुधिया व्यधायि रुचिरा श्रीराघवेन स्फुटा
टीका सद्गुरुसम्प्रदायविमला विश्वेशपुर्यामियम् ॥ ११ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां पञ्चविंशः पटलः ॥ २५ ॥