अथ चतुवींशः पटलः
अथ वक्ष्यामि यन्त्राणां भेदांस्तन्त्रेषु गोपितान् ।
यैः साधयन्ति सततं मन्त्रिणो निजवाञ्छितम् ॥ १ ॥
अथेति ।
यन्त्रशब्दव्युत्पत्तिरुक्ता संहितायाम्—-
मनोरथाक्षराण्यत्र नियन्त्र्यन्ते तपोधन ।
कामक्रोधादिदोषोत्थदीर्घदुःखनियन्त्रणात् ॥
यन्त्रमित्याहुः ।
इति ।
यथा मन्त्रो देवतारूपः तद्वद्यन्त्रमपि देवतारूपम् ।
अतएव इष्टसाधनक्षमं भवतीति यैः साधयन्तीत्युक्तम् ॥ १ ॥
मार्णे लिखेत् सार्णयुतं स्वसाध्यं
वर्गाढ्यपत्रे स्वरकेशरेऽब्जे ।
बहिः सदीर्घैर्गगनैः प्रवीतं
रक्षाकरं यन्त्रमिदं प्रशस्तम् ॥ २ ॥
रक्षायन्त्रमाह—-मार्णे इति ।
अब्जे मार्ण इति व्यधिकरणे सप्तम्यौ ।
कणीकास्थमकारमध्ये सार्णयुतं सबिन्दुसकारयुतं स्वसाध्यं लिखेदित्यन्वयः ।
साध्यसाधककर्मसहितमिति सर्वत्र बोद्धव्यम् ।
तत्र स्वनामपदं षष्ठ्यन्तं साध्यस्य द्वितीयान्तम् ।
ततः फलवाचकं पदं द्वितीयान्तम् ।
ततः कुरु इति द्विरभ्यसेदिति साम्प्रदायिकाः ।
वर्गाढ्यपत्रे कचटतपयशलैर्वर्गैराढ्यानि युक्तानि पत्राणि दलानि यस्य तस्मिन् ।
स्वराः द्विद्विक्रमेण केसरेषु यस्य तस्मिन् ।
सदीर्घैर्गगनैर्हामिति बीजैः।
अत्र मातृका देवता ।
तां सम्पूज्य प्राणप्रतिष्ठापनं कृत्वा धारयेत् ।
अत्र सर्वत्रापि यन्त्रे सामान्यप्रक्रियोच्यते ।
तत्रोच्चाटनादौ यन्त्रे लेख्ये वाय्वक्षराणि द्वन्द्वशः अम् आं नमः, एं कं नमः इत्यादिक्रमेण पञ्च मन्त्राः ।
तत्र त्रिकोणं सञ्चिन्त्य तन्मध्ये प्रथममन्त्रं द्वितीयतृतीयचतुर्थमन्त्रानग्न्यादिकोणेषु पञ्चमं
मध्ये सञ्चिन्त्य पूजयेत् ।
पूर्वेक्तरक्षादिस्थानेष्वेवमुक्तो विनियोगोऽनुसन्धेयः ।
दशभिर्दशभिरमीभिर्नमोऽन्तिकैर्द्वन्द्वशश्च बिन्दुयुतैः ।
योनेर्मध्ये कोणत्रितये मध्ये च संयजेन् मन्त्री ॥
इत्याचार्येक्तेः ।
अन्यत्राप्याचार्याः—-
प्राक् प्रोक्तान् भूतवर्णान् दश दश युगशो बिन्दुयुक्तान्नमोऽन्तान् ।
योनेर्मध्यान्तमध्येष्वपि पुनरथ संस्थाप्य भूताभवर्णान् ॥ इति ।
ह्लां ह्वीं ह्रूं ह्यैं हौम् एतानि अपञ्चीकृतानि बीजानि ।
एतन्मध्ये तत्तत्कार्ये एकं बीजं विलिख्य तद्बिन्दूर्ध्वाधोभागादिषु साध्यसाधककर्मयोगान् विलिख्य ल्ह्वौं
(ह्सौः) इति यन्त्रजीवं मध्यबीजाधोभागे विलिख्य मध्यबीजचतुवीदिक्षु एशान्यादि- क्रमेण हंसः सोऽहमिति
यन्त्रप्राणं मध्याभिमुखं विलिख्य मध्यबीजपार्श्वद्वये इम् ईं विलिख्य उम् ऊम् इत्यप्यालिख्य
तत्तद्यन्त्रविशेषमुक्तमालिख्य यन्त्रगायत्रीं त्रिवर्ण- क्रमेणाऽष्टदले विलिख्य तद्बहिर्दशदिक्षु लं रं
मं क्षं वं यं सं हं ह्रीम् आम् इति यन्त्रहृदयं विलिख्य तद्बहिः प्राणप्रतिष्ठामन्त्रमपि विलिखेत् ।
तद्बहिस्तत्तन्मण्डलेन वेष्टयेत् ।
इदं पूर्वेक्तयन्त्रेष्वपि ज्ञेयम् ।
तदुक्तं कामिके—-
ल्ह्वौं(ह्सौः)यन्त्रस्य जीवः स्यान्मध्यबीजादधो न्यसेत् ।
हंसः सोहमिति प्राणम् एशान्यादिक्रमाल्लिखेत् ॥
इम् ईं नेत्रे न्यसेत् पार्श्वे उम् ऊं श्रोत्रे तथैव च ।
विशेषोऽष्टदलादौ तु गायत्रीलेखनं स्मृतम् ॥
इत्यर्णान् यन्त्रगायत्र्याः प्रतिपत्रं त्रिशो लिखेत् ।
अग्रे रेखावकाशेषु प्रतिष्ठां प्राणदां लिखेत् ॥ इति ।
तन्त्रान्तरेऽपि—- लरमक्षान्वयौ सहौ ह्रीम् आम् ।
यन्त्रस्य हृदयं बिन्दुयुतं लेख्य समन्ततः ॥
हंसः सोहं प्राणजीवौ यन्त्रे लेख्यौ प्रयत्नतः ।
हंसावौ सर्गसंयुक्तौ यन्त्रान्तवीलिखेद् बुधः ॥ इति ।
यन्त्रगायत्री यथा—-
यन्त्रराजाय विद्महे वरप्रदाय धीमहि ।
तन्नो यन्त्रः प्रचोदयात् ॥ इति ।
अन्योऽपि विशेषोऽपेक्षितार्थद्योतनिकाकारोक्तः ।
यत्राधारो नोक्तस्तत्रोक्त- शान्त्यादिकर्माधारेषु भूर्जपत्रे नेत्रपट्टे तालपत्रे वा विलिख्य गुलिकां बद्धा
सूत्र- जतुच्छन्नं क्रमेण कृत्वा रजतताम्रसुवर्णहिङ्गुलकाद्यन्यतमेन संवेष्ट्य बीजेन मन्त्रेण वा
मातृकया वाऽधिदैवतं ध्यात्वाऽभ्यर्च्य सञ्जप्य हुत्वा गलादिषु योजयेदिति ॥ २ ॥
पुटीकृते भूमिपुरस्य युग्मे मायां लिखेत् मध्यगसाध्ययुक्ताम् ।
वकारकोणेन महीपुरेण संवेष्टितं वश्यकरं तदुच्चैः ॥ ३ ॥
वश्यकृदाह पुटीकृत इति ।
महीपुरेण सह पुटीकृते भूमिपुरस्य युग्मे इति सम्बन्धः ।
पुटीकृते पुटीकृतवदन्तरं तत्स्थ इत्यर्थः ।
लिखेदिति ।
तत्र प्रथमं चतुष्कोणं कृत्वा तदन्तस्तद्रेखालग्नदिक्कोणाग्रं द्वितीयं तदन्तस्तद्रेखालग्नविदिक्कोणाग्रं
तृतीयं लिखित्वा तन्मध्ये मायां ससाध्यां लिखेत् ।
तत्र साध्यकर्मलेखनप्रकारस्तु त्रिगुणितादावुक्तोऽनुसन्धेयः ।
ततो वकारकोणेन संवेष्टितम् उच्चैर्वश्यकरमिति सम्बन्धः ।
उक्तञ्च नारायणीये—-
बाह्यस्य रेखामध्यस्थामान्तरस्यास्रमीदृशे ।
शक्रवेश्मत्रये शक्तिवश्यं स्यात् कुम्भवेष्टितम् ॥ इति ।
व्याख्यातं चापेक्षितार्थद्योतनिकायाम् ।
पाथीवमण्डलं लिखित्वा तस्य पूर्व- दक्षिण पश्चिमोत्तरदिग्भागे दिक्षु अस्रं कोणं यथा भवति तथा
तदन्तः पाथीवमण्डलं लिखित्वा पुनरपि तदन्तस्तथा लिखित्वा तन्मध्ये ससाध्यां शक्तिं लिखित्वा कुम्भेन
चतुर्थेन वेष्टयेदिति ।
अथवा नागरलिपौ नकारतकारयोलीपिसाम्यात् वकार- कोणेतमहीपुरेणेति पठनीयम् ।
तत उक्तवदन्तरन्तर्भूपुरद्वयं विधाय तत्र शक्तिं विलिख्य वकारस्य कोणे इतं सम्बद्धं यन्महीपुरं
ताभ्यां संवेष्टितमिति व्याख्येयम् ।
अत्र शक्तिर्देवता ॥ ३ ॥
मध्ये सार्णविदभीतं प्रपुटितं मृत्युञ्जयं त्र्यक्षरैः ।
क्षान्तःस्थं निजसाध्यनाम विलिखेत् किञ्जल्कसंस्थान् स्वरान्।
पत्रेष्वष्टसु नाम मन्त्रपुटितं वर्गांस्तदग्रेष्वथो
यन्त्रं पद्मपुटीकृतं निगदितं मृत्युञ्जयाख्यं परम् ॥ ४ ॥
विषज्वर शिरोरोगनाशनं श्रीजयप्रदम् ।
कान्तिपुष्टिप्रदं वश्यं सर्वकामार्थसाधकम् ॥ ५ ॥
मृत्युञ्जययन्त्रमाह—-मध्य इति ।
मध्ये अष्टदलकणीकायाम् ।
विशेषणद्वय- विशिष्टं साध्यनाम क्षकारमध्ये लिखेत् ।
अष्टसु पत्रेषु मन्त्रपुटितं मृत्युञ्जय मन्त्रपुटितं नाम साध्यनाम लिखेदित्यर्थः ।
वर्गान् कादीन् ।
तदग्रेषु पत्राग्रेषु ।
पद्मपुटीकृतमिति ।
अधऊर्ध्वमुखेन उपर्यधोमुखेन पद्मेनेत्यर्थः ।
अत्र मृत्युञ्जयो देवता ॥ ४-५ ॥
साध्याढ्यचिन्तामणिमग्निगेहे विलिख्य बाह्येऽनलगेहवीतम् ।
प्रवेष्टयेत् तत् बहिरष्टवर्णमन्त्रेण यन्त्रं ज्वरशान्तिदं स्यात् ॥ ६ ॥
सम्प्लवसः प्लावयसो मन्त्रोऽष्टाक्षर ईरितः ।
एष एव भवेद्दक्षो ग्रहज्वरविनाशने ॥ ७ ॥
ज्वरघ्नमाह साध्येति ।
चिन्तामणिं शैवम् ।
अनलगेहेनेति द्वितीयेन ।
अत्र चिन्तामणिर्देवता ।
एष एवेति ।
केवलमन्त्रोऽप्याराधितो ज्वरघ्नः ।
उक्तञ्च नारायणीये—- दष्टमुत्थापयेदेष स्वजप्ता(जात्या)म्भोऽभिषेकतः ।
तज्जप्तशङ्खभेर्यादिनिस्वनश्रवणेन च ॥ इति ॥ ६-७ ॥
तारठद्वयपुटं कुरुकुल्ले मन्त्रमत्र हुतभुग्गृहयुग्मे ।
मध्यकोणविवरेषु लिखेत् तद्यन्त्रमाशु विनिहन्ति भुजङ्गान् ॥ ८ ॥
सर्पघ्नमाह तारेति ।
तारठद्वयपुटमिति मन्त्रविशेषणम् ।
तेनादौ तारः, अन्ते स्वाहा, मध्ये कुरुकुले इति स्वरूपम् ।
तेनास्य मन्त्रस्य सप्ताक्षरता ।
हुतभुग्गृहयुग्मे परस्परव्यतिभिन्ने ।
लिखेदिति रोचनया ।
उक्तञ्च तत्रैव—- " भूर्जे रोचनया षडस्रि- लिखिते " इति ।
विनिहन्ति गृहाद्विलाच्चोचाटयतीत्यर्थः ॥ तथा च नारायणीये—-सर्पेन्निर्गमयेद्विलेषु निहितो
गेहात्तथोच्चाटयेत् ॥ इति ।
अत्र कुरुकुल्ला देवता ॥८॥
ओङ्कारमायादिकमेखलेऽग्निवधूमनुं वह्निगृहस्य युग्मे ।
मध्यादिकोणेषु विलिख्य भूर्जे यन्त्रं विदध्यात् रिपुनागहारि ॥९॥
अन्यत् सर्पघ्नयन्त्रमाह ओमिति ।
मेखले स्वरूपम् ।
ओङ्कारमायाद्यः सप्ताक्षरो मन्त्रः ।
विलिख्येति गोरोचनया ।
तथैव तन्त्रोक्तेः ।
रिपवो नागाः तद्धारि ।
नारायणीये—- " पूर्वेक्ततुल्यक्रिये " इत्युक्तेः ।
अत्र मेखला देवता ॥ ९ ॥
शूलाङ्किते वह्निगृहस्य युग्मे धूमावतीमन्त्रं लिखेत् क्रमेण ।
मध्यादिकोणेषु मरुद्गृहस्थं यन्त्रं हुताशानिलवर्णवीतम् ॥ १० ॥
उच्चाटनकृदाह—-शूलेति ।
शूलाङ्कित इति बहिःकोणाग्रेषु ।
मध्यादीति ।
मध्ये बीजद्वयं शिष्टाक्षराणि कोणेषु ।
मरुद्गृहं प्रथमपटलोक्तम् (१।२३) ।
हुताशो रेफः आनिलो यः अनेनावृत्तिद्वयम् ।
तेन पूर्वमावृत्तिद्वयं पश्चान् मरुद्गृहवेष्टनमिति ज्ञेयम् ।
अत्र धूमावती देवता ॥ १० ॥
दान्तौ सार्घीशबिन्द्वन्तौ बीजे धूमावति द्विठः ।
धूमावतीमनुः प्रोक्तः शत्रुनिग्रहकारकः ॥ ११ ॥
विषेण कनकाम्भोभिः प्रेतकर्पटकल्पितम् ।
श्मशाने निखनेदेतत् शत्रूनुच्चाटयेद्द्रुतम् ॥ १२ ॥
धूमावतीमन्त्रमाह दान्ताविति ।
दान्तौ धकारौ ।
अर्घीश ऊ बिन्दुश्च प्रत्येकं तदन्तौ तेन धूं धूमिति ।
अष्टाक्षरो मन्त्रः ।
शत्रुनिग्रहकारक इत्यनेन पृथगाराधनाऽ- प्यस्योक्ता ।
अस्यर्ष्यादि यथा—-पिप्पलादो नाम ऋषिः, निवृच्छन्दो, ज्येष्ठा देवता शत्रुनिग्रहे विनियोगः ।
बीजद्वयरहितषड्वर्णैः षडङ्गानि ।
सर्वजनोद्वेगकारिण्यतिविषण्णचेता दीर्घा मलिनाम्बरा विमुक्तपुरुषकेशा रुक्षा विधवा विरलदशना
काकध्वजा काकरवा शूर्पेदरी रुक्षाक्षित्रया कलहानुरक्तेति ध्यानम् ।
कृष्णचतुर्दश्यामुपोष्य ध्यात्वा दिगम्बरः स्वयं मुक्तशिरोरुहः सन् चिति- स्थाने शून्यागारे शैले विपिने वा
नक्तभोजी लक्षं जपेत् ।
कृतपुरश्चरणो भवति ।
उक्तञ्च धूमावतीकल्पे—-अथातः सम्प्रवक्ष्यामि विद्यां धूमावतीं पराम् ।
तस्या धूमावति स्वाहा विद्या वेद्या षडक्षरी ॥ षडङ्गान्यत्र योज्यानि विद्याबीजैः षडक्षरैः (सबिन्दुकैः) ।
पूर्वसेवा जपेत् पूर्वं ज्येष्ठागारे दिगम्बरः ॥ रात्रौ कृष्णचतुर्दश्याम- नाशो मुक्तमूर्द्धजः ।
ततः शून्यालये शैले श्मशाने विपिनेऽपि वा ॥ पुरो धूमावतीं ध्यायन् जपेल्लक्षं क्षपाशनः ।
काकारूढाऽतिकृष्णा प्रविरलदशना मुक्तकेशी विरक्ता
धूम्राक्षी क्षुत्तृषार्त्ता प्रतिभटचकिता चञ्चला कामलोला ।
हृष्टा पुष्टालसाङ्गी श्रमजलमलिना व्यक्तदर्पा विरूपा
भूतिं धूमावती वः प्रदिशतु विपुलां धूतसूर्पाग्रहस्ता ॥
एषा धूमावती नाम्ना ज्येष्ठा देवी वरप्रदा ॥ इति ।
दान्त इति प्रामादिकः पाठः ।
तदुक्तं नारायणीये—-धृगुणं मावति शिरो नाम्ना धूमावतीमनुः ।
इति ।
अग्रे धूमावतीं पत्रगामिति च वक्ष्यति ।
कनकाम्भो- भिरिति ।
धत्तूरपत्र रसघृष्टेन विशेष कारस्करेण लिखेदित्यर्थः ।
प्रेतकर्पटे प्रेत- वस्त्रे ॥ ११-१२ ॥
हुताशगेहद्वितयं लिखित्वा वैवस्वताय द्विठवर्णमन्त्रम् ।
मध्यान्तमाकल्पितमिन्दुबिम्बे यन्त्रं महाभूतपिशाचवैरि ॥ १३ ॥
भूतघ्नमाह हुताशेति ।
द्विठः स्वाहा ।
सप्ताक्षरो मन्त्रः ।
मध्यान्तमिति क्रियाविशेषणम् ।
मध्यादि अन्तपर्यन्तमित्यर्थः ।
तेन मध्ये षट्सु कोणेषु सप्तवर्णानालिखेदित्यर्थः ।
मध्याद्यमिति क्वचित्पाठः ।
इन्दुबिम्बे इति वृत्ते ।
अत्र यमो देवता ॥ १३ ॥
नामालिख्य मकारकोष्ठयुगले कोणेषु तस्यालिखेत्
मन्त्रज्ञो ङ ञ णान्नकारसहितान् धूमावतीयन्त्रगान् ।
वीतं घुर्मुटिकादिना परमिदं वायुत्रिगेहावृतं
यन्त्रं प्राणपरेतभूमिनिहितं विद्वेषणं स्याद् द्विषाम् ॥ १४ ॥
पूर्वं घुर्मुटिकेयुग्मं ततो मर्कटिकेयुगम् ।
घोरे विद्वेषकारिणि विद्वेषोद्वेगकारिणि ॥ १५ ॥
अथ घोराघोरयोः स्यादमुकामुकयोस्ततः ।
विद्वेषयद्वयं हुं फट् विद्या घुर्मुटिकेरिता ॥ १६ ॥
विद्वेषणकृदाह—-नामेति ।
नाम साध्यसाधककर्मरूपम् ।
मकारकोष्ठयुगल इति वृत्तचतुरस्र एकत्र साध्यनामाऽपरत्र साधकनाम ।
तस्य मकारचतुरस्रस्य कोणेषु ईशादि लेखनीयम् ।
मन्त्रज्ञ इत्यनेन ङञणानां सबिन्दुत्वमुक्तम् ।
अष्टदलं कमलं विलिख्य तत्कणीकायां मकारं तत्पत्रेषु धूमावत्यक्षराणि तदुपरि घुर्मुटि- कादिनाऽऽवृत्तिः ।
बहिस्त्रीणि वायुगृहाणि ।
अत्र धूमावतीघुर्मुटिके देवते ।
अमुकामुकयोरित्यत्र साध्यनामप्रक्षेपः ।
नारायणीयेऽयं विशेषः—-
चक्रं ताड्येत् कार्पासयष्ट्या विद्वेषणं द्वयोः ।
इति ॥ १४-१६ ॥
प्राक्प्रत्यग्दक्षिणोदग्विधिवदभिलिखेत् स्पष्टरेखाचतुष्कं
कोणोद्यच्छूलयुक्तं वलययुगयुतं मध्यपूर्वं तदन्तम् ।
मन्त्रस्याऽर्णान् परस्तात् वसुपदविवरेष्वष्टवर्णान् लिखित्वा
शूलोद्यद्द्वादशार्णं विधिवदभिहितं प्रेतराजस्य यन्त्रम् ॥ १७ ॥
यमराजसदोमेय यमेदोरुणयोदय ।
यदियोनिरपक्षेय यक्षेयवनिरामय ॥ १८ ॥
उक्तो धूमान्धकाराय स्वाहेत्यष्टाक्षरो मनुः ॥ १९ ॥
मारणयन्त्रमाह—-प्रागिति ।
व्याख्यातमिदं सप्तदशे ।
अत्र शूलेषु शूलोत्पन्न द्वादशकोष्ठेषु द्वादशार्णलिखनम् ।
तदुक्तम्—-यमान्तकं दलाग्रेषु नेमिबाह्यगतेषु च ॥ इति ।
अनेन द्वादशरेखाप्रान्तेषु द्वादशशूलानि कर्त्तव्यानीत्युक्तम् ।
नारायणीये तथोक्तेः।
मन्त्रान्तरत्वेन भेदः ।
विधिवदभिहितमिति ।
विधिस्त्वयम्—-आदौ पार्श्वद्वये महिषाश्वशिरसी विलिख्य तन्मध्ये यन्त्रं सम्पादयेदिति ।
तदुक्तं नारायणीये—-चिताङ्गाराक्षनिम्बाद्भिर्महिषाश्यवशिरोऽन्तरा ।
इति।
यमो देवता ।
तदुक्तम्—- मारणे मोहने स्तम्भे विद्वेषोच्चाटने वशे ।
एवं यमार्गलं वृत्तं बहुधा तु व्यवस्थितम् ॥
द्वादशारं लिखेच्चक्रं वृत्तत्रयसमन्वितम् ॥ इति ।
नारायणीयेऽपि—- चतुःकुल्याशलाके त्रिवर्त्तुले च चतुर्गुणे ।
बहिरष्टगुणे वस्त्रे विधिना तं मनुं लिखेत् ॥ इति ।
इदं व्याख्यातमपेक्षितार्थद्योतन्याम् ।
त्रिवर्त्तुलं लिखित्वा तन्मध्ये दक्षिणोत्तर- रूपेण रेखाद्वयं पूर्वपश्चिमरूपेण रेखाद्वयं च लिखित्वा
आग्नेयादिकोणेषु रेखाचतुष्टयं लिखित्वा दिग्गतरेखाग्रेषु अष्टौ शूलान् कोणरेखाग्रेषु शूलचतुष्टयमेतत्
लिखित्वा तत्र शास्त्रोक्तप्रकारेण मन्त्राक्षराणि लिखेदिति ।
(तदन्तमिति ।
मध्यादारभ्य यमराजश्लोकं वलयद्वयं यथा भवति तथा लिखेत् ।
अवशिष्टकोष्ठेषु अग्रतः प्रदक्षिणं वक्ष्यमाणं धूमान्धकारावेष्ठनं शूलस्थानेषु वक्ष्यमाणद्वादशाक्षरेण वेष्टयेत् ।
धूमान्धकारमन्त्रमाह उक्तेति ।
इति गूढार्थदीपिन्याम्) ॥ १७-१९ ॥
प्रणवः ष्ठ्रीं ततो दंष्ट्रा तत्परं विकृतान्ततः ।
आननाय वधूर्वह्नेर्मन्त्रोऽयं द्वादशाक्षरः ॥ २० ॥
यमान्तकमन्त्रमाह—-प्रणव इति ।
ततो मायेति पठित्वा केचित् प्रणवमायाष्ट्रीं- पूर्वं विकृतानन हुं फट् स्वाहेत्याहुः ।
मन्त्रद्वयस्य षडङ्गं यथा—-ॐ ह्रां कृष्णवर्णाय हृत् ।
मन्त्रशेषेण शिरः ।
ॐ नववक्त्रपिङ्गलजटामुकुटधारिणे शिखा ।
ॐ हुं सहस्रादित्योदयप्रभाय वर्म ।
ॐ ह्रीं त्रिनेत्राय त्रिनेत्रम् ।
ॐ श्रीं भ्रूविकृताननाय हुमस्त्रम् ।
ध्यानं गुरुमुखाद् ज्ञेयम् ॥ २० ॥
विषवृक्षस्य फलके नृचर्मणि पटेऽथवा ।
आलिख्याऽष्टविषैरेतत् श्मशाने निखनेत् निशि ॥ २१ ॥
ज्वरेण महताऽऽविष्टो मूर्च्छाकुलितमानसः ।
रिपुर्गच्छति पक्षेण यमलोकं न संशयः ॥ २२ ॥
विषवृक्षस्य कारस्करस्य ।
पटे प्रेतपटे ।
अष्टविषैरिति ।
पूर्वपटलान्तोक्तैः ।
आलिख्येति ।
काकपक्षलेखिन्या ।
श्मशाने निखनेदिति ।
शरावसम्पुटस्थं कृत्वा स्निग्धयोरन्तरा नीत्वेति शेषः ।
ओदनो राजनीचूर्णं घृतं दधि पयो मधु ।
पललं मुद्गमाषौ च सक्तुलाजांश्च मोदकम् ॥
इत्येतैर्द्रव्यैश्चक्रस्य दक्षिणदिशि यमराजकालधर्ममनुवैवस्वतशान्तप्रेतराज-
मृत्युकृतान्तनामभिश्चतुर्थ्यन्तैर्नमोऽन्तैरष्टाक्षराद्यैरष्टभिर्बलिर्देयः ।
ततो मातृभ्यः लोक- पालेभ्योऽपि स्वस्वनामभिः स्वस्वदिक्षु बलिं दत्त्वा उत्तरस्मिन् यक्षेभ्यो नैरृते
राक्षसेभ्यः सर्वासु दिक्षु भूतेभ्यो बलिं हरेत् ।
पूर्वमीशाने द्वादशाक्षरेण त्वष्टाक्षरेण वा यममुखे बलिं विधाय पश्चादयं बलिः ।
तदुक्तं नारायणीये—-
शरावसम्पुटस्थं तत् स्निग्धयोर्नीतमन्तरा ।
यमराजचक्रमेतत् श्मशाने द्वेषकृत् खनेत् ॥ इति ।
बलिस्तु अपेक्षितार्थद्योतनिकायामुक्तोऽत्र यन्त्रे त्रिषु कर्मसु ज्ञेयः ।
तत्र विद्वेषे प्रेतवस्त्रे नारायणीयप्रोक्तमार्गेण लिखनं श्मशाने खननं च ।
मारणे ग्रन्थकारोक्त रीत्या विषवृक्षफलके नरचर्मणि वा लिखनं श्मशाने खननं च ।
स्तम्भने तु अस्यैव यन्त्रस्य विशेषो नारायणीये—-मेरुस्थं स्तम्भकृत् यन्त्रं तत्तु पेषण्यधः क्षिपेत् ॥ इति ।
अस्य व्याख्याने अपेक्षितार्थद्योतन्यामुक्तम् ।
बिभीतकफलके शिलायामिष्ट- कायां वा पीतद्रव्येण ताम्रसूच्या चक्रमालिख्य मेरुगं कृत्वाऽभ्यर्च्य जप्त्वा
बलिं निर्हृत्य शत्रुमार्गारिगृहश्मशाननिर्माल्यपेषण्यधोगतस्थलेषु स्थिरनक्षत्रराशिषु निखने- दिति ।
तदुक्तम्—- ताम्रलेखन्या पीतेन लिखितं स्तम्भने खनेत् ।
अपि भारतसङ्काशे समरे रिपुवारणम् ॥ इति ॥ २१-२२ ॥
एकाशीतपदेषु मध्यदहने साध्यं लिखेत् ह्रूं पुनः
क्ष्रं श्रूं व्लूमिति दिग्गतासु विलिखेत् बीजानि पङ्क्तिष्वथ ।
शिष्टेष्वीशनिशाचरादि विलिखेत् कालीमनुं पङ्क्तिशः
स्तद्बाह्ये यमवीतमग्निपवनावीतञ्च यन्त्रं लिखेत् ॥ २३ ॥
कालीमाररमालीका लीनमोक्षक्षमोनली ।
मामोदेततदेमोमा रक्षतत्त्वत्वतक्षर ।
कालीमनुरयं प्रोक्तः कालरात्रिः स्ववैरिणाम् ॥ २४ ॥
यमापाटटपामाय माटमोटटमोटमा ।
वामोभूरिरिभूमोवा टटरीस्त्वस्त्वरीटट ॥ २५ ॥
यमात्मकोऽयमाख्यातः श्लोको वैरिविनाशकः ।
मारणयन्त्रान्तरमाह एकेति ।
इदं तत्वरितापटले व्याख्यातम् ।
मध्यदहने मध्यकोष्ठरेफ इति पद्मपादाचार्याः ।
मन्त्रान्तरत्वेन भेदः ।
तद्बाह्य इत्यनेन वषडन्त्या त्वरितया संवेष्टयेदित्युक्तम् ।
यमवीतमिति ।
ईशानादि निरृतान्तमेकवारं विलिख्य पुनश्च निरृत्यादि ईशान्तं लिखेत् ।
आचार्यैः—- " शैवादि नैरृत्यादि कालीमनुं लिखेत् " इत्युक्त्वा " तथाक्रमाद्यमवृतम् " इत्युक्तम् ।
केचिच्चतुदीक्षु चतुभीश्चरणैरिति वदन्ति ।
अग्नी रेफः पवनो यः ताभ्या- मावृतिद्वयम् ।
एष साम्प्रदायिकः पक्षः ।
कश्चित्तु आग्निपवनशब्देन तद्गृहे गृह्येते इत्याह स्म ।
तदसाम्प्रदायिकम् ।
मन्त्रमुक्तावल्यादिबहुग्रन्थविरोधात् ।
तदुक्तम्—- वषडन्तां लिखेद्विद्यां त्वरितां पूर्ववद्बहिः ।
यममन्त्रगतान् वर्णान् वह्निबीजं समन्ततः ॥
प्रभञ्जनमयं बीजं तद्बाह्ये समन्ततः ॥
प्रभञ्जनमयं बीजं तद्बाह्ये चाऽभितो लिखेत् ।
पटे शीसोद्भवे शावे वसने भूर्जकेऽपि वा ॥ इति ।
अग्रिमयन्त्रे ग्रन्थकृदेव वक्ष्यति ।
कृशानुवायुबीजावृतमिति ।
त्वरिताविद्यया माहिषाज्येनाऽष्टोत्तरसहस्रं हुत्वा यन्त्रे सम्पातं सम्पात्य पश्चाद्यन्त्रं खनेदिति ज्ञेयम् ।
तदुक्तम्—- माहिषेण घृतेनाऽष्ट सहस्रसहितेन च ।
हुतेन सिद्धं सम्पातं योजयेन् मूलविद्यया ॥ इति ।
अयं मन्त्रविलेखनप्रकारस्तु पुरुषमुद्दिश्य ।
स्त्रियमुद्दिश्य तु भद्रकालीश्लोक- स्थाने यमश्लोकमालिख्य यमश्लोकस्थाने भद्रकालीश्लोकेन वेष्टयेत् ।
अन्यत् समानमिति सम्प्रदायविदः ।
अत्र कालरात्रिः स्ववैरिणां वैरिविनाशक इत्यनेन चानयोः स्वतन्त्रताऽपि उक्ता ॥ २३-२६ ॥
लिखेदष्ट विषाङ्गारनिम्बनिर्यासकज्जलैः ॥ २६ ॥
निग्रहाख्यमिदं यन्त्रं काकपक्षेण कर्पटे ।
बिभीतवृक्षे वल्मीके श्मशाने वा चतुष्पथे ॥ २७ ॥
दक्षिणस्थेऽनिले मन्त्री निखनेदर्द्धरात्रके ।
सर्वथा शत्रुरेतेन सप्ताहान् मरणं व्रजेत् ॥ २८ ॥
निगृह्यते महारोगैः पतितो वा भवेदसौ ।
शिलायामिष्टकायां वा चक्रमेतत् प्रकल्पितम् ॥ २९ ॥
मर्कटीविषदण्डीभिः समालिप्तमधोमुखम् ।
यत्र रात्रौ खनेत्तत्र भूयो भूयोऽशुभं भवेत् ॥ ३० ॥
अङ्गारश्चिताङ्गारः ।
एतेषां कज्जलैः ।
तत्र कज्जलकरणप्रकारः ।
मनुष्य कपाले नरादिस्रेहेन शूलारूढप्रेतकर्पटवर्त्या अष्टविषादिमया कुर्यात् ।
कर्पटे शूलाधिरूढप्रेतकर्पटे ।
तदुक्तम् ।
" शीसपट्टेऽशुके वा शावे " इति ।
विभीतकवृक्ष इति ।
तरुकोटरे ।
तदुक्तम्—-वल्मीके चत्वरे वाऽक्षतरुविवरे वा निदध्यात् ।
इति ।
दक्षिणस्थेऽनिले सूर्यगवायावित्यर्थः ।
मरणमिति बिभीतवृक्षे ।
महारोगैरिति चतुष्पथे ।
पतित इति श्मशाने ।
वाशब्दः समुच्चये ।
तेन वल्मीके अवयववैकल्य- मिति पद्मपादाचार्याः ।
शिलायामिति ।
रजकशिलायाम् ।
इष्टकायामिति ।
शिवालयस्थायाम् ।
दण्डी ब्रह्मदण्डी ।
यत्र ग्रामनगरादौ ।
मन्त्री देशेषु निक्षिपेद्यत्रेत्युक्तेः ।
अत्र साध्यनामस्थाने ग्रामनगरनामनी लेखनीये ॥ २६-३० ॥
लिखेच्चतुःषष्टिपदेषु कालीमीशादिकन्यादि यमात्मकेन ।
श्लोकेन संवेष्ट्य कृशानुवायु बीजावृतं यन्त्रमिदं विदध्यात् ॥३१॥
लिप्तं विषमसीदण्डीमर्कटीभिरधोमुखम् ।
निखनेद्यत्र तत्र स्यात् नृणामुच्चाटनं सदा ।
शस्यहानिमनावृष्टिं गवां नाशं करोति तत् ॥ ३२ ॥
उच्चाटनकृदाह लिखेदिति ।
त्वरिताचतुःषष्टिपदवदिदमपि ।
काली मित्य- नन्तरोक्तश्लोकरूपकालीमन्त्रम् ।
यमात्मकेनेत्युत्तरत्र सम्बन्धते।
वेष्टनं पूर्वयन्त्रोक्तवत्।
अत्र यमवेष्टनात् प्राक् वषडन्तत्वरितावेष्टनमपि ।
अत्र सम्प्रदायात् रेफवेष्टने साध्यसाधककर्मयुक्तरेफेण वेष्टयेदिति ।
स्त्रियमुद्दिश्य तु पूर्वेक्तमनुसन्धेयम् ।
तन्त्रान्तरे तु—- चतुःषष्टिपदे कालीमीशदोषाचरादिकम् ।
विन्यस्य मध्ये चतुर्षु हुङ्काराद्यक्षराणि च ॥
अन्तराले तु तेषां च साध्यानां नाम कर्म च ।
शिखान्तविद्यया याम्यमनुना दहनेन च ॥
वायुना च समावेष्ट्य कॢप्तमेतत् सुसाधितम् ।
मारणोत्सादनादीनि कर्माण्याशु प्रसाधयेत् ॥ इति ।
मसी पूर्वेक्तं कज्जलम् ।
दण्डी ब्रह्मदण्डी ।
मर्कटी कपिकच्छु ।
उभयो- स्त्वरिता देवता ॥ ३१-३२ ॥
आख्यां तुम्बुरुमध्यतः स्मरगतामालिख्य जम्भादिकां
विद्यां दिग्गतपत्रकेष्वथ लिखेत् देवीर्दलेषु स्मरम् ।
कोणस्थेषु सनामकं बहिरतः पाशाङ्कुशाभ्यां वृतं
यन्त्रं वश्यकरं ग्रहादिभयहृत् क्षुद्राभिचारापहम् ॥ ३३ ॥
जम्भे जम्भिनि ठद्वन्द्वं मोहे मोहिनि ठद्वयम् ।
अन्धे अन्धिनि ठद्वन्द्वं रुन्धे रुन्धिनि ठद्वयम् ॥ ३४ ॥
वश्यकृदाह—-आख्यामिति ।
आख्यां कर्मसहितं साध्यसाधकनाम ।
तुम्बुरुमध्यतः कणीकास्थतुम्बुरौ ।
अथ देवीरिति तुम्बुरुमन्त्रोक्तदेवीबीजचतुष्टयं सनामकं स्मरञ्च विदिग्दलेषु लिखेत् ।
तेनायमर्थः सम्पन्नः ।
देवीबीजमध्ये कामबीजं तन्मध्ये नाम एवं कोणचतुर्दलेष्विति ।
तुम्बरुः देवता ॥ ३३-३४ ॥
हित्वा कामं लिखेत् शान्तिं यन्त्रेऽस्मिन् नृकपालके ।
सन्ध्यासु तापयेदेतदुच्चैः साध्यं वशं नयेत् ॥ ३५ ॥
हित्वा काममिति ।
कामबीजपञ्चकं हित्वा त्यक्त्वा शान्तिं दीर्घमीकारं सबिन्दुकं लिखेत् ।
अन्यत् पूर्ववत् ।
उच्चैरित्यतिशयेन ॥ ३५ ॥
हित्वा शान्तिं लिखेद्वर्म पटे वा नरचर्मणि ।
वह्निवायुगृहावीतं श्मशानस्थं रिपून् हरेत् ॥ ३६ ॥
लिखेदिति शान्तिस्थाने ।
वर्म हुम् ।
पटे प्रेतपटे ।
वह्निवायुगृहावीतमिति शेषः ।
अन्यत् पूर्ववत् ॥ ३६ ॥
हित्वा वर्म लिखेदस्त्रं फलकेऽक्षतरुद्भवे ।
वह्निवायुयुतं नाम विषाढ्यरुधिरेण तत् ॥ ३७ ॥
अक्षतरुबीभीतकः ।
चत्वरे अङ्गणे ।
अत्रापि वह्निवायुगृहावीतमिति ज्ञेयम् ॥ ३७ ॥
चत्वरे निखनेत् जप्तं विद्वेषं कुरुते मिथः ।
हित्वा रेफयकारौ द्वौ लकारं मध्यतो लिखेत् ॥ ३८ ॥
धरापुरेण वीतं तदिष्टकान्तर्निवेशितम् ।
सर्वेषां स्तम्भनं कुर्यान्नाऽत्र कार्या विचारणा ॥ ३९ ॥
जप्तमिति तुम्बुरुबीजेन ।
हित्वेति तुम्बुरुबीजमालिख्य तत्र लकारं लिखेत् ।
धरापुरेणेति ।
वह्निवायुनिवृत्तिः ।
शेषं पूर्ववत् ।
इष्टकान्तः इष्टकाद्वयान्तः ।
अग्रिमभेदत्रये धरापुरमेव कार्यम् ॥ ३८-३९ ॥
हित्वा लकारं तन्मध्ये वायुबीजं समालिखेत् ।
विषरक्तमसीकाकपुरीषैर्ध्वजवाससि ॥ ४० ॥
श्मशाने निहितं कुर्यात् कुलोच्छेदं स्ववैरिणाम् ।
मुक्त्वा वायुमयं बीजं तत्र फट्कारमालिखेत् ॥ ४१ ॥
परेतवस्त्रे काकस्य रुधिरेण यथाविधि ।
इप्सिते निखनेत् स्थाने विद्वेषं कुरुते नृणाम् ॥ ४२ ॥
तन्मध्ये तुम्बुरुमध्ये वायुबीजं यं लिखेत् ।
अन्यत् समानम् ।
रक्तमजारक्तम् ।
मसी पूर्वेक्तकज्जलम् ।
ध्वजवाससि ।
प्रेतपताकावस्त्रे ॥ ४० ॥
यथाविधीति ।
काकपक्षलेखन्येत्युक्तम् ।
ईप्सित इति ।
ययोवीद्वेषणं क्रियते ताभ्यां यत्रोल्लङ्घ्यते तत्र देश इत्यर्थः ॥ ४१-४२ ॥
अस्त्रबीजमपास्याऽस्मिन् ऌकारं सोर्णसंयुतम् ।
विलिखेत् यन्त्रमेतत् स्यात् लोहत्रयसमावृतम् ॥ ४३ ॥
सर्वरोगप्रशमनं कृत्याद्रोहादिशान्तिदम् ।
विहाय बीजम् ऌङ्कारं ग्लौङ्कारं तत्र संलिखेत् ॥ ४४ ॥
क्षकारेणावृतं बाह्ये पाशाङ्कुशवृतं पुनः ।
टपरेण वृतं भूयो भूमिमण्डलमध्यगम् ॥ ४५ ॥
लकारैबीन्दुसुयुक्तैर्वेष्टितं तद्बहिः क्रमात् ।
सर्गान्तमातृकाबीजं सर्वं वृत्तेन वेष्टितम् ॥ ४६ ॥
कौशेयकर्पटे कॢप्तमिष्टकाद्वयमध्यगम् ।
सेनाग्रे निखनेद्यन्त्रं स्तम्भनं कुरुते ध्रुवम् ॥ ४७ ॥
बाह्ये इति ।
पद्माद् बहिः ।
टपरेण ठकारेण ।
सर्गान्तेति ।
विसर्गान्ता ॥ ४३-४७ ॥
मध्ये श्रीनरसिंहबीजमथ तद्बाह्ये स्वरान् केसरे
वारीट्चन्द्रयमेन्द्रदिक्षु विलिखेन् मध्ये मनुं गारुडम् ।
अन्तस्थान् मरुदग्निनिरृतिशिवेष्वालिख्य वर्णावृतं
यन्त्रं सगीभिरष्टभिः परिवृतं संवर्त्तकैगारुडम् ॥ ४८ ॥
गारुडयन्त्रमाह—-मध्य इति ।
मध्ये कणीकायां श्रीयुक्तं नरसिंहबीजं षोडश- पटलोक्तम् ।
श्रीशब्देन चैकदेशो रेफो गृहीतः ।
स ऊर्द्ध इति ज्ञेयम् ।
तदुक्तं नारायणीये—-बिन्दुमद्वह्निरूर्ध्वान्त्यकणीकायाम् ।
इति ।
वारीडिति पश्चिमदिक् ।
चन्द्रेति उत्तरदिक् ।
यमेति दक्षिणदिक् ।
इन्द्रेति पूर्वदिक् ।
विलिखेन् मध्य इति ।
गारुडमन्त्रान्त्यं कणीकायां लिखेदित्यर्थः ।
अन्त- स्थान् यरलवान् सबिन्दून् ।
वर्गावृतमिति प्रामादिकः पाठः।
वर्णावृतमिति पाङ्क्तपाठः साम्प्रदायिकः ।
सगीभिवीसर्गयुक्तैः।
संवर्त्तकैः क्षकारैः।
परिवृतमित्यष्टदिक्षु ।
तदुक्तं नारायणीये—-वृतं लिप्या सगी कषाष्टकावृतमिदं यन्त्रं फणिभ्योऽवति ।
इति ।
अपेक्षितार्थद्योतनिकायां व्याख्यायते ।
लिप्यक्षरैर्मालेव वेष्टयित्वा सविसर्ग- मन्त्यमष्टदिक्षु लिखेदित्यर्थः इति ।
गरुडो देवता ॥ ४८ ॥
संवर्त्तको नेत्रयुतः पार्श्वस्तारोऽग्निसुन्दरी ।
गारुडो मनुराख्यातो विषद्वयविनाशनः ॥ ४९ ॥
स्मरन् गरुडमात्मानं मन्त्रमेनं जपेन्नरः ।
विषमालोकनेनैव हन्यात् नागकुलोद्भवम् ॥ ५० ॥
गारुडमन्त्रमाह संवर्त्तक इति ।
संवर्त्तकः क्षः नेत्रमिकारस्तद्युतः तेन क्षि ।
पार्श्वः पकारः तारः प्रणवः अग्निसुन्दरी स्वाहा ।
विषद्वयविनाशन इत्यनेन केवलमन्त्रस्यापि स्वतन्त्रतोक्ता ।
इदमेव यन्त्रफलम् ।
विषद्वयं स्थावरजङ्गमम् ।
मन्त्रस्य ऋष्यादिकं तन्त्रान्तराद्यथा—-
ऋष्यादिका रुद्रपङ्क्तिगरुडाः परिकीत्तीताः ।
हृदयं ज्वलयुग्मान्ते महामतिपदं शिरः ॥
गरुडं च्रडाननं स्याद्गरुडान्ते शिखि शिखा ।
कवचं प्रोच्य गरुडान् प्रभञ्जनयुगं ततः ॥
प्रभेदयुगं वित्रासयुक् युग् विमर्दय ।
नेत्रमन्त्रस्तूग्ररूपधर सर्व (र्प) विषं हर ॥
भीषयद्वयसर्वं स्याद्दहभस्मीकुरुद्वयम् ।
अस्त्रमन्त्रोऽप्रतिहतबलाप्रतिहतेति च ॥
शासनान्ते हुं फडन्तः स्वाहान्तैरेभिरङ्गकम् ।
नेत्रान्तमर्णकान् पादकटिहृद्वक्त्रमूर्धसु ।
अङ्गुष्ठादिष्वङ्गुलीषु न्यस्य देवं विचिन्तयेत् ॥
वर्गा (र्मा)न्तर्वह्नियुग्माक्षरकमलगतं पञ्चभूताद्यवर्णं
कॢप्ताकल्पं फणीन्द्रैरभयवरकरं पद्मनेत्रं सुवक्त्रम् ।
दुष्टाहिच्छेदतुण्डं स(स्म)रदखिलविषप्रोषणं प्राणभूतं
प्राणिश्रेण्यास्त्रिवेदीतनुममृतमयं पक्षिराजं भजेऽहम् ॥ इति ।
एतदनन्तरं गरुडमुद्रा दर्शनीया ।
तल्लक्षणं चतुर्थपटले मदुक्तमनुसन्धेयम् ।
वर्णलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ।
घृताक्तैः कृष्णकुसुमैर्मातृकाब्जे यजेदमुम् ॥ अङ्गाष्टनागदिक्पालतदस्त्राणि च पूजयेत् ॥ इति ।
बीजस्याऽपीदमेव ।
नारायणीये तु—- एवमुक्तानि नेत्रान्तान्यङ्गानि वियतेश्च षट् ।
आजानुतः सुवर्णाभमानाभेस्तुहिनप्रभम् ॥
कुङ्कुमारुणमाकण्ठादाकेशान्तात् सितेतरम् ।
ब्रह्माण्डव्यापिनं तार्क्ष्यं रक्ताक्षं नागभूषणम् ॥
नीलाग्रनासमात्मानं हेमपक्षं स्मरेद् बुधः ।
कृष्णं विषस्य सङ्ग्रामे रक्ताभं स्तोभकर्मणि ॥
पीतं स्तम्भे शशिप्रख्यं नाशे तार्क्ष्यं विचिन्तयेत् ॥ इति ॥४९-५०॥
मध्ये वार्णं भृगुस्थं विलिखतु विधिवत्साध्यनाम्ना समेतं
किञ्जल्केषु स्वराः स्युर्वसुदलविवरेष्वालिखेन्मध्यबीजम् ।
काद्यर्णान् केसरेषु द्विगुणवसुदलेष्वर्पयेत् मध्यबीजं
यन्त्रं सञ्जीवनाख्यं सलिलपुरगतं क्षुद्ररोगापहारि ॥ ५१ ॥
सञ्जीवनयन्त्रमाह मध्य इति ।
मध्ये इति कणीकायाम् ।
भृगुस्थं सकारस्थम् वार्णं वकारम् ।
तेन स्वमिति बीजं लिखेत्ं साध्यनाम्ना विधिवत्समन्वितमिति ।
विदभीतमित्यर्थः ।
उक्तञ्च नारायणीये—-
जीवं (बीजं) नामविदभीतं कलशगं मध्ये लिखेत् ।
इति ।
मध्यबीजं स्वम् ।
काद्यर्णान् सान्तान् ।
द्विगुणवसुदले षोडशदले ।
मध्यबीजं स्वम् ।
सलिलपुरं प्रथमपटलोक्तम् ।
अत्र मृत्युञ्जयो देवता ॥ ५१ ॥
मध्ये पिण्डमचो दलादिषु लिखेद्वारीशताराधिप-
प्रेताधीश्वरशक्रदिक्षु वियतेर्मध्ये च वर्णान् लिखेत् ।
यादीन्मारुतवह्निराक्षसशिवेष्वर्णान् बहिर्वेष्टयेत्
काद्यैर्वामविलोचनेन कलितं पिण्डाख्ययन्त्रं परम् ॥ ५२ ॥
पिण्डयन्त्रमाह मध्य इति ।
मध्ये अष्टदलकणीकायाम् ।
पिण्डं वक्ष्यमाणं विलिख्य तन्मध्ये तत्तद्बीजाढ्यं विदभीतं नाम लिखेत् ।
वश्ये पाशबीजं, शान्तौ वरुणबीजम्, उच्चाटने क्रोधाग्निबीजमिति नारायणीय उक्तेः ।
दलादिषु केसरेषु ।
अचः स्वरान् ।
द्विद्विक्रमेण ।
वारीशेति पश्चिमदिक् ।
ताराधिपेति उत्तरदिक् ।
प्रेताधीश्वरेति दक्षिणदिक् ।
शक्रेति पूर्वदिक् ।
वियतेर्गरुडमन्त्रस्य मध्ये कणीकान्तरन्त्यमक्षरम् ।
यादीन् यरलवान् ।
वामविलोचनेन दीर्घेकारेण ।
सबिन्दुना त्रिरिति ज्ञेयम् ।
" त्रिर्बहिर्मायया पद्मं वेष्टयेद् बिन्दु युक्तया " इति नारायणीय उक्तेःम् अत्र पिण्डात्मा देवता ॥ ५२ ॥
मनुस्वरन्द्वजेशाग्निसंयुतश्चतुराननः ।
पिण्डबीजमिदं प्रोक्तं पुंसां सर्वार्थसाधकम् ॥ ५३ ॥
बीजेनाऽनेन सञ्जप्तं यन्त्रं रक्षाकरं परम् ।
आयुरारोग्यजननं लक्ष्मीसौभाग्यवश्यदम् ॥ ५४ ॥
चौरसर्पमृगव्यालभूतामयनिकृन्तनम् ।
गर्भरक्षाकरं स्त्रीणां पुत्रदं क्षुद्रनाशनम् ।
धृतं मूध्नी करोत्येतत् लोकवश्यमनुत्तमम् ॥ ५५ ॥
पिण्डबीजमुद्धरति मन्विति ।
मनुस्वर और इन्दुबीन्दुः अजेशो झकारः अग्नी रेफ एतद्युतश्चतुराननः जकारः।
सर्वार्थसाधकमिति ।
तत्र प्रकारो नारायणीयेऽपि—-
पिण्डं चन्द्रेन्द्रगेहस्थं कुलिशाकारमुज्ज्वलम् ।
पीतं चिन्तितमश्वादौ सैन्य- स्तम्भकरं भवेत् ॥ सोमेन्द्रवह्निपुरगं मूर्ध्नि ध्यातं तथाकृति ।
विद्विषत्सर्वमत्तेभ- महिषादिनिवारणम् ॥ तदेवाऽग्निसमप्रख्यं परसैन्ये विचिन्तयेत् ।
यायात् पराङ्मुखा पिण्डज्वालादग्धाऽरिवाहिनी ॥ भेदं परकृते स्तम्भे करोत्येव विचिन्तिते ।
अनिला- नलसंयुक्तं ध्यानात् स्तोभं करोति तत् ॥ प्रयान्ति हित्वा स्वग्रस्तमार्त्तनादा ग्रहादयः ।
एतद्रोचनया लिख्य पटादौ यत्र पूज्यते ॥ त्यजन्ति गेहं तच्चौरक्षुद्रभूतोरगादयः ।
उद्यन्तं स्तम्भयत्यस्त्रमैन्द्रस्थं तदहीनपि ॥ वारुणान्तर्गतं पिण्डं तेजोऽनुग्रहवजीतम् (वर्धनम्) ।
दष्टोत्तमाङ्गे विन्यस्तं विषनाशं करोति तत् ॥ इति ।
मृगो व्याघ्रः ।
व्यालो दुष्टगजः ।
क्षुद्राः सप्त ।
लोकवश्यमिति ।
तत्र विशेषः—-
पद्ममध्ये लिखेदिन्दौ पिण्डान्तर्नामबीजयुक् ।
वियतिस्तार्क्ष्ययन्त्रोक्ता लेख्या यरलवास्तथा ॥ त्रिर्महामायया पद्मं वेष्टयेदिन्दुयुक्तया ।
गोमयाम्बुयुजा यन्त्रमेत- द्रोचनया लिखेत् ॥ भूर्जे सुवर्णलेखन्या जतुरौप्येण वेष्टयेत् ।
हेम्ना च जपपूजाभ्यां हवनेन च साधयेत् ॥ आयुष्यं पावनं पुष्टिलक्ष्मीसौभाग्यवश्यकृत् ।
चौरव्यालमगा- रण्यसलिलादिभयापहम् ॥ पुत्रदं गर्भरक्षाकृद् ग्रहसर्पभ(र्वाम)यादिहृत् ।
क्षुद्रोपशमनं यन्त्रं विद्यात् सर्वार्थसाधकम् ॥ उत्तमाङ्गस्थितं तत् स्याल्लोकवश्यमनुत्तमम् ।
शिखान्तं पाशपुटितं पिण्डं वश्ये सदा जपेत् ॥ वातानीतापतत्पत्रे काकपक्षेण कल्पितम् ।
बिन्द्वन्तस्थेन्दुरहितं यन्त्रमुच्चाटनं रिपोः ॥ क्रोधाग्निपुटितं मन्त्री पिण्डमुच्चाटने जपेत्।
आकाशः साग्निकर्णार्द्धचन्द्रः क्रोधाग्निरुच्यते ॥ इति ॥ ५३-५५ ॥
मध्ये तोयगृहे लकारविवरे सार्णाढ्यसाध्यं
लिखेत् पत्रेष्वष्टसु हंसमन्त्रमभितो हंसार्णसंवेष्टितम् ।
यन्त्रं भूमिगृहेण वेष्टितमिदं मूर्ध्ना सदा धारितं
हन्यात् क्षुद्रमहाज्वरामयरिपून् दद्यात् यशः सम्पदः ॥ ५६ ॥
यन्त्रान्तरमाह मध्य इति ।
मध्यो तोयगृह इति व्यधिकरणे सप्तम्यौ ।
मध्ये कणीकायाम् ।
तोयगृहं च प्रथमपटलोक्तम् ।
लकारविवरे लकारान्तः सार्णाढ्य- साध्यं सकारसहितसाध्यसाधककर्मनाम लिखेत् ।
हंसो देवता ॥ ५६ ॥
ईकारमध्ये विलिखेत् स्वसाध्यं तमष्टपत्रेषु पुनवीलिख्य ।
संवेष्टयेत् तेन धरापुरस्थं यन्त्रं भवेत् वश्यकरं नराणाम् ॥ ५७ ॥
ताम्रपत्रे समालिख्य यन्त्रमेतत् प्रपूजयेत् ।
वशयेत् सकलान्मर्त्यान् नात्र कार्या विचारणा ॥ ५८ ॥
वश्यकृदाह ईकारेति ।
तम् ईकारम् ।
तेनेकारेण ।
माया देवता ॥५७-५८॥
मध्ये भान्तं भृगुविनिहितं नामवर्णैः प्रवीतं
टान्तं लान्तान्वितमथ विलिखेदष्टपत्रेषु भूयः ।
भूविम्बस्थं निगदितमिदं साधु सञ्जीवनाख्यं
शस्त्रो(त्रू)द्भूतं भयमपहरेत् धार्यमाणं भुजेन ॥ ५९ ॥
अस्त्रभयहृदाह मध्य इति ।
मध्ये अष्टदलकणीकायाम् ।
नामवर्णैः साध्य साधक कर्मनामाक्षरैः प्रवीतं भृगुविनिहितं सकारस्थं भान्तं मकारं लिखेदित्यर्थः ।
टान्तं ठकारं लान्तान्वितं च ।
मृत्युञ्जयो देवता ॥ ५९ ॥
वार्णावृतं साध्ययुतं सकारं टान्ते लिखेदष्टदलेषु हंसम् ।
आवेष्टयेदम्बुगृहेण बाह्ये लान्तावृतं यन्त्रमिदं ज्वरघ्नम् ॥ ६० ॥
जवरघ्नमाह वार्णेति।
वार्णावृतं वकारेण वृतम् ।
टान्ते ठकारे ।
लान्तावृतं बाह्ये अम्बुगृहेण वेष्टयेदिति सम्बन्धः ।
अम्बुगृहेण प्रथमपटलोक्तेन ।
हंसो
देवता ॥ ६० ॥
टान्ते नाम लिखेत् क्षकारविवरे मृत्युञ्जयत्रयक्षरी-
रुद्धं तद्बहिरष्टपत्रविवरे साध्याह्वयं पूर्ववत् ।
अच्किञ्जल्कयुते वसुद्वयदले पद्मे तथैवाह्वयं
द्वात्रिंशद्दलपङ्कजेऽपि च तथा काद्यर्णयुक्केसरे ॥ ६१ ॥
ईकारेण समावीतं यन्त्रं मृत्युञ्जयाह्वयम् ।
सर्वरोगाभिचारघ्नं सर्वसौभाग्यसिद्धिदम् ॥ ६२ ॥
रोगाभिचारघ्नमाह टान्त इति ।
टान्ते क्षकारविवर इति व्यधिकरणे सप्तम्यौ।
मृत्युञ्जयत्रयक्षरीरुद्धं नाम लिखेदिति अन्वयः ।
पूर्ववन् मृत्युञ्जयपुटितं नामेत्यर्थः ।
अच्किञ्जल्कयुते वसुद्वयदले षोडशदले ।
तथैवेति।
पूर्ववन्नामेत्यर्थः ।
काद्यर्णयुक्केसरे द्वात्रिंशद्दलपङ्कजे तथा पूर्ववन्नामेत्यर्थः ।
मृत्युञ्जयो देवता ॥ ६१-६२ ॥
ग्लौं रुद्धं प्रणवद्वयं प्रविलिखेत् साध्यस्य नामान्वितं
बाह्ये भूपुरमष्टवज्रविलसत्तारं लिखित्वा पुनः ।
क्षङ्कोणेषु दिशासु लं प्रविलिखेत् पाशाङ्कुशत्र्यक्षरी-
वीतं स्तम्भनयन्त्रमावृतिलसज्जम्भादिदिविद्याष्टकम् ॥ ६३॥
जम्भे वह्निवधूः पूर्वं पश्चाज्जम्भिनि ठद्वयम् ।
मोहे पावकजाया स्यात्ततो मोहिनि ठद्वयम् ॥ ६४ ॥
अन्धे हुतभुजो जाया ततोऽन्धिनि ठयुग्मकम् ।
रुन्धे कृशानुपत्नी स्यात् रुन्धिनि द्विठसंयुतम् ॥ ६५ ॥
स्तम्भनकृदाह ग्लौमिति ।
प्रविलिखेदिति ।
वृत्तान्तरित्यर्थः ।
अष्टवज्रविल- सत्तारं बाह्ये भूपुरं लिखित्वेत्यन्वयः ।
तदुक्तमाचार्यैः—-
प्रणवयुगलं भूयुग्मान्तस्थितं ठगतञ्च तद् वसुकुलिशगं तेषां मध्ये ध्रुवं भुवमन्तरा ।
अमरपतिदिक्कोणे ग्लौं पाशाङ्कुशान्तरमायया ।
वलयितमथो जम्भाद्यष्टौ लिखेत् कुरुते जयम् ॥ इति ।
कोणेष्विति भूपुरस्य ।
पाशाङ्कुशत्र्यक्षरीति ।
पाशमायाङ्कुशत्र्यक्षरीत्यर्थः ।
भूमिर्देवता ॥ ६३-६५ ॥
लान्ते नाम विलिख्य दिक्षु विलिखेत् भूयस्तमेवाऽष्टसु
क्षोणीविम्बमथो नरेन्द्रभुजगावन्योन्यबद्धौ लिखेत् ।
आख्यां तन्मुखयोबीभीतफलके यन्त्रं समापादितं
निर्माल्ये निहितं सदा वितनुते वाचां द्विषां स्तम्भनम् ॥ ६६॥
वाक्स्तम्भनकृदाह लान्त इति ।
लान्ते क्षकारे नाम विलिखेत् ।
सम्प्रदायात् लकारविदभीतमिति ज्ञेयम् ।
तमिति ।
लकारम् ।
अथवा लान्ते नाम लकारदर्भ- मभितो भूस्तमिति पठनीयम् ।
अभित इति ।
कणीकायामेवाष्टकलिखनम् ।
मूलपाठे दिक्ष्वित्यस्याप्ययमेवार्थः ।
अष्टसु शङ्खपालौ ।
स्वचिह्नयुतौ ।
लिखेदिति गैरिकेण ।
निर्माल्ये इति ।
शिवनिर्माल्ये ।
अपेक्षितार्थद्योतनिकोक्तेः ।
द्विषां वाचां स्तम्भनं वितनुते शिलाक्रान्तमिति ज्ञेयम् ।
तदुक्तं नारायणीये—-
मांसाष्टकवृतेर्णान्ते नाम मांसविदभीतम् ।
साष्टाशावज्रमैन्द्रं च पाथीवाहिवृतं लिखेत् ॥
आस्ये च फणिनोराख्यां बिभीतफलकेऽपीतम् ।
गैरिकेण शिलाक्रान्तं निर्माल्ये स्तम्भकृत् खनेत् ॥ इति ॥६६॥
साध्याढ्यं कवचं लिखेत् बहिरथो दिक्पत्रमध्येषु तत्
ग्लौमन्येषु महीपुरस्य विलिखेत् कोणेषु गं लान्वितम् ।
वज्रेष्वष्टसु वर्म तोयपुरगं भूविम्बमध्ये स्थितं
यन्त्रं रात्रिविनायकान्तरगत न्यस्येच्छरावद्वये ॥ ६७ ॥
रहस्यस्थाननिक्षिप्तं पूजितं प्रतिवासरम् ।
स्तम्भनं कुरुते वाचां सेनादीनां च वैरिणाम् ॥ ६८ ॥
अन्यश्च वाक्स्तम्भनकृदाह साध्येति ।
लिखेदित्यष्टदलकणीकायाम् ।
तदिति हुम् ।
अन्येषु विदिक्पत्रेषु ।
गं लान्वितमिति ग्लं महीपुरस्य कोणेषु लिखेदिति ।
वस्त्रे निशारसैरिति ज्ञेयम् ।
रात्रिविनायकान्तरगतं हरिद्रागणपतिमूत्ती कृत्वा तदुदरे यन्त्रं स्थापनीयमिति सम्प्रदायविदः ।
केचित् तु हरिद्रागणपतिमन्त्रेण संवेष्टितमिति वदन्ति ।
तदसाम्प्रदायिकम् ।
मन्त्रस्याऽनुद्धृतत्वादत्र ।
पूजितमिति ।
पीतपुष्पैः ।
विनायको देवता ।
वैरिणां वाचामिति व्यधिकरणे षष्ठ्यौ ।
वैरिणां सेनादीना- मित्यपि ।
आदिशब्देन विवादगत्यादि ।
तदुक्तं नारायणीये—-
लिखेद्वस्त्रं निशारसैः ।
विघ्नस्य कुक्षौ निक्षिप्य निशापिष्टमयस्य तत् ॥
शरावसम्पुटे स्थाप्य पीतपुष्पैश्च पूजयेत् ।
स्तम्भः स्याद्वृष्टिसेनावाग्विवादागमनादिषु ॥ इति ॥६७-६८ ॥
कृत्वा रेखाष्टकमृजु पुनस्तिर्यगालिख्य षट्कं
बाह्यावृत्या लिखतु विधिवत् बिन्दुयुक्तं क्षकारम् ।
अन्तःपङ्क्तौ लिखतु धरणीं शिष्टकोष्ठत्रयान्तः
कृत्वा नाम प्रथितमुदितं यन्त्रमेतज् ज्वरघ्नम् ॥ ६९ ॥
यन्त्रमेतत्समभ्यर्च्य दत्त्वा भूतबलिं ततः ।
साध्यस्य र्मूध्नि बघ्नीयात् सर्वज्वरविमुक्तये ॥ ७० ॥
ज्वरघ्नमाह कृत्वेति ।
बाह्यावृत्येति ।
विंशतिकोष्ठेषु ।
विधिवदिति ।
प्रादक्षिण्येन ।
अन्तः पङ्क्तौ द्वादशसु कोष्ठेषु धरा लं बिन्दुयुक्तमिति सम्बध्यते ।
कोष्ठत्रयान्तः कोष्ठत्रयमेकीकृत्य तत्र नाम लिखेत् ।
दत्त्वा भूतबलिमिति ।
पञ्चवर्णौदनेनेति ज्ञेयम् ।
तदुक्तं नारायणीये—-
ऋजुरेखा लिखित्वाऽष्टौ षट्तिर्यक् चावृतिद्वये ।
नारीबाह्यपुटे क्षेन्द्रौ लेख्यौ नाम पदत्रये ॥
पाञ्चवर्णं बलि दत्त्वा कलयेच्च क्रमाचीतम् ।
आ(त्र्या)हिकं ज्वरदेवादि ज्वराभासप्रशान्तये ॥ इति ।
अपेक्षितार्थद्योतनिकायां पञ्चवर्णौदनबलिं दत्त्वेति व्याख्यातम् ।
भूर्देवता ॥ ६९-७० ॥
तारं लिखेद्वह्निपुरस्य युग्मे
तत्पार्श्वयोर्लार्णमथाऽग्निबीजम् ।
कोणेषु पूर्वापरयोश्च यन्त्रं
पाशाङ्कुशावीतमिदं ज्वरघ्नम् ॥ ७१ ॥
यन्त्रमभ्यर्च्य मन्त्रेण तारपाशाङ्कुशात्मना ।
निबघ्नीयाज्ज्वरार्त्तस्य हस्तादौ ज्वरशान्तये ॥ ७२ ॥
अन्यज्ज्वरघ्नमाह तारमिति ।
वह्निपुरस्य युग्मे दक्षिणोत्तररूपेण लिखिते ।
तत्पार्श्वयोस्तारपार्श्वयोः लार्णम् अथ कोणेष्वग्निबीजं सर्वेषु कोणेष्वित्यर्थः ।
पूर्वापरयोश्च दिशोर्बहिर्भागस्थयोः ।
पाशाङ्कुशेति ।
अन्ये तु गुणाङ्कुशावीतमिति पाठमपठन् ।
गुणशब्देन त्रिसङ्ख्या तेन पूर्वापरभागयोः प्रत्येकमङ्कुशत्रयं लिखेदित्यर्थः ।
तदुक्तं नारायणीये—-
सौम्ययाम्यमुखे तारं लिखेद्वह्निगृहद्वये ।
तारस्य पार्श्वयोरिन्द्रं कोणकोष्ठेषु चाऽनलम् ।
प्राक्प्रतीच्योर्बहिश्चक्रमङ्कुशत्रयभूषितम् ॥ इति ।
अत्र प्रणवपाशाङ्कुशात्मैव देवता ॥ ७१-७२ ॥
पिण्डे लिखेन्नाम ससर्गटान्तविदभीतं सस्वरकेसराढ्यम् ।
टान्ताष्टपत्रं वसुधापुरस्थं कान्तिप्रदं यन्त्रमिदं ज्वरघ्नम् ॥ ७३ ॥
अन्यज्ज्वरघ्नमाह पिण्ड इति ।
पिण्डे पूर्वेक्ते ।
ससर्गटान्तं सविसर्गठकारम् ।
तद्विदभीतं नामेत्यन्वयः ।
अत्र पिण्डात्मा देवता ॥ ७३ ॥
तारादि लुद्वयजलद्विठवर्णवीता
टान्तान्तरे विलिखिता विधिनैव माया ।
साध्यावृता बहिरधो वदनार्द्धचन्द्रै-
र्यन्त्रं शिशो रुरुदिषां विनिहन्ति सद्यः ॥ ७४ ॥
शिशुरोदनहृदाह तारेति ।
लुद्वयं लुलु ।
जलं वम् ।
द्विठः स्वाहा ।
विधिनैव साध्या साध्योऽस्यामस्तीति साध्या ।
अर्श आदित्वादच् ।
मध्यवृत्ते साध्यनाम युक्ताम् एतन्मन्त्रावृतां च मायां विलिख्य बहिर्वृत्तद्वयं कृत्वा तत्राऽधोमुखैरर्द्धचन्द्रैः
संवेष्ट्य बध्नीयात् ।
अधोवदनैरधोमुखैरर्द्धचन्द्रैर्वृतं द्विरिति शेषः ।
द्वेधा शिशो रुरुदिषां विनिहन्ति यन्त्रमिति वा पठनीयम् ।
उक्तञ्च नारायणीये—-
तारं लुयुग्ममुदकं शिर एभिरर्णैः
शक्तिर्वृता च शिशुनामवती शशाङ्कौ ।
अर्द्धेन्दुकैर्बहिरधोवदनैः परीतौ
यन्त्रं तदाशु शिशुरोदनमुत्क्षिणोति ॥ इति ।
व्याख्यातञ्चाऽपेक्षितार्थद्योतनिकायाम् ।
देवीं लिखित्वा तन्मध्ये शिशुनाम लिखित्वा ॐ लुलु वं स्वाहेति मन्त्रेण तां मालेव वेष्टयित्वा
तद्बहिश्चन्द्रमण्डलद्वयं विलिख्य एकैकमधोमुखार्द्धेन्दुभिः सम्भूष्य बध्नीयादिति ।
शक्तिर्देवता ॥ ७४ ॥
व्योमार्णमालिख्य सबिन्दुमाख्याविदभीतं लुत्रययुक्तकोणे ।
वसुन्धरागेहयुगे निबद्धं यन्त्रं समस्तज्वरनाशनं स्यात् ॥ ७५ ॥
ज्वरघ्नमाह व्योमेति ।
व्योमार्णं हकारम् ।
कीदृशम् ।
बिन्दुश्च मश्च बिन्दुमौ ताभ्यां सहितं सबिन्दुमं तच्च तदाख्याविदभीतं च सबिन्दुमाख्याविदभीतमालिख्य मध्य इति शेषः ।
तेन लं साध्यसाधकनामाक्षरविदभीतं मध्ये लिखेदित्यर्थः ।
एकै- कस्मिन् कोणे लुत्रयं लिखेत् ।
निबद्धं हस्तादाविति शेषः ।
तदुक्तं नारायणीये—-
लुत्रयं तस्य कोणेषु मध्ये च सविषं वियत् ।
आख्याविदभीतं यन्त्रमेतत् सर्वज्वरापहम् ॥ इति ।
व्योम देवता ॥ ७५ ॥
सार्णं नाम विदभीतं परिलिखेत् बाह्येऽष्टपत्रे भृगुं
पद्मं स्यादथ कादिशान्तलिपिमत्रिंशद्दलं बाह्यतः ।
वीतं तोयपुरेण यन्त्रसुदितं भूर्जेदरे कल्पितं
भूतव्याधिमहाज्वरप्रशमनं कृत्यापहं श्रीप्रदम् ॥ ७६ ॥
यन्त्रान्तरमाह सार्णमिति ।
परिलिखेदित्यष्टदलकणीकायाम् ।
अष्टपत्रेष्विति वक्तव्ये बाह्य इति वदति ।
तेन व्यधिकरणे सप्तम्यौ ।
तेनाऽष्टपत्रेषु बहिर्भागे
भृगुं सकारं लिखेत् ।
पत्रमूले केसरस्थाने द्विद्विक्रमेण स्वरा लेख्या इत्यभिप्रायः ।
तदत्र केचिद्वर्णाष्टपत्र इति पठन्ति ।
अन्ये द्व्यष्टपत्र इति पठन्ति ।
अत्र मातृका
देवता ॥ ७६ ॥
चक्रे चतुःषष्टिपदे सबिन्दूनन्तस्थवर्णान् क्रमशो विलिख्य ।
रेखाशिरःकल्पितशूलयुक्ते यन्त्रेऽथ पीतज्वरशान्तिहेतोः ॥७७॥
ज्वरघ्नमाह चक्र इति ।
अन्तस्थवर्णान् यरलवान् विलिख्य ।
क्रमशः इत्यनेननैतदुक्तम् ।
प्रथमावृत्तौ अष्टाविंशतिकोष्ठेषु सबिन्दुं यं द्वितीयावृत्तौ विंशति- कोष्ठेषु सबिन्दुं रं तृतीयावृत्तौ
द्वादशसु कोष्ठेषु सबिन्दुं लम् अन्तः कोष्ठचतुष्टये वम् इति ।
लिखनं च तत्तद्भूतवर्णद्रव्येण भूमाविति ज्ञेयम् ।
तदुक्तं नारायणीये—-
चतुःषष्टिपुटे क्षेत्रे षट्त्रिंशच्छूलदीपिते ।
ज्वरनाशत्रयीभानुकोष्ठेषु वृत्तिषु क्रमात् ॥
लिखेत् सबिन्दूनन्तस्थान् चक्रं तद्भूस्थमर्चयेत् ।
नश्यन्त्यस्य श्यानस्य ज्वराः सर्वे विधानतः ॥ इति ।
अपेक्षितार्थद्योतनिकायां तत्तद्वर्णद्रव्येण भूमौ लिखित्वा तच्च शय्यायामा- पाद्येति व्याख्यातम् ।
वाय्वग्निभूजलानि देवताः ॥ ७७ ॥
पुटितभूमिपुरद्वयमध्यतः प्रविलिखेत् वनितां गिरिजापतेः ।
प्रणवमस्य लिखेत् वसुकोणगं ज्वरहरं परमेतदुदीरितम् ॥ ७८ ॥
अन्यदप्याह पुटितेति ।
गिरिजापतेर्वनितां मायाम् ।
शक्तिर्देवता ॥ ७८ ॥
वार्णे लिखेन् नाम शशाङ्कमध्ये टान्तं बहिर्भूमिपुरं पुरस्तात् ।
वृत्तावृतं यन्त्रमिदं समुक्तं वश्याय नॄणां सकलात्तीशान्त्यै ॥ ७९॥
वश्यकृदाह वार्ण इति ।
शशाङ्कमध्ये ठकारमध्ये वार्णे इति व्यधिकरणे सप्तम्यौ ।
टान्तं बहिरिति ।
ठकारेण वेष्टयेत् ।
चन्द्रो देवता ॥ ७९ ॥
सस्वस्तिके दहनगेहयुगे ससाध्यां
मायां लिखेत् ललितनागलतादलान्तः ।
पाशाङ्कुशावृतमिदं निशि तापयेत् यो
मन्त्रं जपन् व्रजति तं स्वयमेव साध्या ॥ ८० ॥
स्त्रीवश्यकृदाह सेति ।
पाशाङ्कुशावृतमिति षट्कोणान्तः ।
ललितेति ।
अखण्डताम्बूलपत्रे ।
मन्त्रमिति पाशाङ्कुशपुटा शक्तिः ।
एष पक्षः साम्प्रदायिकः ।
तापयेदिति ।
दीपशिखायाम् ।
तदुक्तमाचार्यैः—-
हृल्लेखाग्निस्थसाध्याह्वयमथ बहिराङ्क्रोंवृतं वह्निगेह-
द्वन्द्वास्त्रिस्वस्तिकाढ्यं प्रविलिखतु दले यन्त्रकं नागवल्ल्याः ।
जप्त्वा शक्तिं तु पाशाङ्कुशलिपिसहितां तापयेद्दीपवह्नौ
नक्तं भक्त्या नताङ्गी स्मरशरविवशा प्रेमलोलाऽभियाति ॥ इति ।
शक्तिर्देवता ॥ ८० ॥
षट्कोणे निजसाध्यनामसहितां मायां लिखेन्मध्यत-
स्तत्कोणेषु विदभीतामभिलिखेत् शक्तिं स्वसाध्याख्यया ।
बाह्ये भूमिपुरं सकोणसदनं ताम्बूलपत्रे कृतं
जप्तं खादयतु प्रियां निशि भवेत् सा तस्य वश्या चिरम् ॥ ८१ ॥
अन्यदप्याह षडिति ।
अत्रापि शक्तिर्देवता ।
ताम्बूलपत्रे कृतमिति ।
कोकिलाक्षकण्टकैरिति शेषः ।
जप्तं माययेति शेषः ।
अन्यत्र तु विशेषः ।
कामस्य षट्कोणेषु लेखनं साध्याविदभीशक्त्या बहिर्वेष्टनमिति ।
मूले वा लिखेच्च स्मरमिति पाठः साम्प्रदायिकः ।
तदुक्तमाचार्यैः—-
शक्तिस्थं निजनाम वह्निभवनद्वन्द्वोदरे मान्मथं
बीजं साध्यविदर्भया परिवृतं शक्त्या बहिः पाथीवम् ।
तत्कोणस्मरमन्यपुष्टनयनप्रोत्थैः पुनः कण्टकै-
स्ताम्बूले लिखिताभिजप्तमदयेद् योषिन्मनोमोहनम् ॥ इति ।
खादयत्वित्यज्ञातमेव ।
स्त्रिया विदितं भक्षितं न वशयत्येव ।
एवमन्यथा प्रयोगेष्वपि साध्यामज्ञाप्यैव देयमिति रहस्यम् ।
तन्त्रान्तरे—-
वायोरष्टममग्निबिन्दुसहितं संरूढमायाक्षरं
मध्ये संस्थितसाध्यनामवलयद्वन्द्वावृतं बाह्यतः ।
तद्बाह्ये दलषोडशस्वरयुतं पश्चान् महीमण्डलं
कोणे कल्पितकामबीजकमिदं यन्त्रं जगद्वश्यकम् ॥ इति ।
अन्यत्र तु—- हृल्लेखामध्यसाध्यवलययुगयुतं चाऽष्टपत्रं सरोजं
यन्त्रे तद्बीजसंस्थं बहिरपि च दलैः षोडशैराढ्यमब्जम् ।
अब्जस्यालिख्य पत्रे स्वरगणनमितं मण्डलं पाथीवाख्यं
कोणे क्षिङ्कारयुक्तं सकलजनमनोहारि कूष्माण्डयन्त्रम् ॥ इति ।
अन्यत्र तु—- शक्तिस्थं निजनाम वह्निभवने षट्कोणयुक्ते लिखेत्
ह्रीङ्कारं परितो विदर्भ्य मतिमान् साध्येन नाम्नाऽङ्कुशम् ।
एतत्कण्टकसूचितं सुविपुले नागस्य पृष्ठे लिखेत्
पश्चान्मारुतवेश्मना परिवृतं योषिन्मनोमोहनम् ॥ इति ।
कृत्वा षट्कोणमध्यं वियदनलयुतं बिन्दुमायाविचित्रं
तत्कोणेष्वङ्कुशास्त्रं पुनरपि कमलं शक्तिगर्भाष्टपत्रम् ।
पश्चात्तद्युग्मपत्रं रजनिकरकलालङ्कृतं गोपुरस्थं
भूर्जे गोरोचनासद्गजमदरचितं वश्यमाहुर्मुनीन्द्राः ॥ इति ।
तन्त्रान्तरे आचार्याश्च—-सान्तं शिखीलवयुतं दहनांशसाध्यं
मायांशसाधकमथाऽभिवृतं कलाभिः ।
मध्योल्लसद्द्विमुखशूलमिदं तु भर्तु-
र्यन्त्राह्वयं नरनताङ्गिवशीकरं स्यात् ॥
मृत्काराङ्गुलिकात्तया सकृकलासान्तर्वसायुक्तया
साध्यस्याऽङ्घिररजोयुजा मृदुमृदा कॢप्तस्य शक्तिं हृदि ।
रूपस्याऽभिविलिख्य तद्विवरके साध्यं तदीरान् प्रति-
ष्ठाप्याजप्य निखन्य तत्र दिनशो मेहेच्चिरं वश्यकृत् ॥ इति ॥८१॥
शक्तौ नाम लिखेत् चतुभीरभितो बीजैः समावेष्टयेत्
वीतं शक्तिमनोभवाङ्कुशमनुप्रोम्बीजकैः पिष्टजे ।
रूपे साध्यनरस्य जप्तपवने त्रिस्वादुना भर्ज्य तत्
खादेत् तस्य वशं प्रयाति नियतं साध्यः सदा दासवत् ॥ ८२ ॥
वश्यकृदाह शक्ताविति ।
साध्यनरस्य पिष्टजे रूपे प्रतिकृतिहृदय इत्यर्थः ।
शक्तिं विलिख्य तत्र कर्मसहितं साध्यनामाऽऽलिख्य तां शक्तिं चतुभिर्बीजैर्वेष्टयेत् ।
तत्र केचनोपदेशान् नृसिंहचिन्तामणिशक्तिदुर्गाबीजानीत्याहुः ।
अन्ये तु चतुभीबीजैः समावेष्टयेदित्युक्तम् ।
तदेव विशदयति वीतं शक्तित्यादिना ।
पुनः श्लोकोक्तै- श्चतुभीर्बीजैर्वीतं कुर्यात् ।
अत्र केचन मरुत्प्रोम्बीजकैरिति पठित्वा यमिति पञ्चमं वदन्ति ।
तदसङ्गतम् ।
तन्त्रान्तरविरोधात् ।
यदाहुराचार्याः—-
शक्त्यन्तःस्थितसाध्यनामपरितो बीजैश्चतुभीः समा-
बद्धं शक्तिमनोभवाङ्कुशलिपिप्रोम्भिः समावेष्टितम् ॥ इति ।
अत्र पद्मपादाचार्यैर्व्याख्यातं समावेष्टितमिति समाबद्धमित्यस्य व्याख्येति ।
केचिच्चतुभीः शक्तिबीजैरित्याहुः ।
जप्तपवनं प्रतिष्ठितप्राणम् ।
शक्तिर्देवता ॥ ८२॥
कामं लिखेत्साध्ययुतं सरोजे स्वरोल्लसत्केसरवर्गपत्रे ।
उदीरितं मन्मथयन्त्रमेतत्सौभाग्यलक्ष्मीविजयप्रदायि ॥ ८३ ॥
यन्त्रान्तरमाह काममिति ।
अत्र कामो देवता ।
कानिचित् सिद्धयन्त्राणि सिद्धयोगेश्वरीमतात् ।
सर्वलोकानुग्रहाय लिख्यन्तेऽत्र मया स्फुटम् ॥
कणीकायां लिखेन्नाम पुटितं मायया बहिः ।
अष्टपत्रेषु विन्यस्य नाऽघोरेश्वरीवृतम् ॥
अघोरेश्वरि हुं फट् मन्त्रः प्रोक्तोऽथ वैदिकः ।
द्वात्रिंशदक्षराघोरं द्व्यष्टपत्रेषु बाह्यतः ॥
त्रि(द्वि)गुणं मायया वेष्ट्य रेखान्ते क्रों नियोजयेत् ।
भूतप्रेतपिशाचानां शाकिनीग्रहरक्षसाम् ।
दोषं बाहुस्थिता हन्ति रक्षेयं विधिना कृता ॥ १ ॥
कणीकायां लिखेन्नाम तदधस्त्र्यक्षरं मनुम् ।
अष्टपत्रेषु मायां च कांस्यपात्रे सुनिर्मले ॥
रोचनालिखिते यन्त्रे क्षीरमध्ये निवेशिते ।
स वशो जायते तस्य माया तारपुटा मनुः ॥ २ ॥
क्षमाबीजपुटितं नाम लिखेत्पत्रचतुष्टये ।
तस्मिन्नाज्ये विनिक्षिप्ते गृहान्तर्वा विलम्बिते ॥
शान्तिर्लक्ष्मीर्यशः पुष्टिः सततं तस्य जायते ।
न व्याधिर्न भयं शत्रु (त्रो) र्यन्त्रसामर्थ्ययोगतः ॥ ३ ॥
ज्वालावृतं त्रिकोणेषु हंयुतं वनिमण्डलम् ।
रेफेण पुटितं नाम मध्ये शक्त्या बहिर्वृतम् ॥
श्मशानकर्पटे किंवा कपाले लिखितं द्रुतम् ।
तापितं (नं) वैरिणः कुर्याज्ज्वरं रौद्रं न संशयः ॥ ४ ॥
पद्ममष्टदलं मध्ये नाम संलिख्य दिक्ष्वधः ।
हुं विदिक्षु स्थिता क्षीरे रक्षा द्यूते जयावहा ॥ ५ ॥
नभोमण्डलमध्यस्थं नाम बाह्येऽथ षोडश ।
स्वरास्तद्बाह्यतो ज्वालाजटिलं वह्निमण्डलम् ॥
श्मशानकर्पटे लेख्यं धत्तूरस्य रसेन च ।
प्रेतभूनिहितं यन्त्रमिदं सौभाग्यनाशनम् ॥ ६ ॥
कणीकायां लिखेन्नाम चतुःपत्रे तु ह्रीं कजे ।
रोचनाहस्तिदानाभ्यां कुङ्कुमेन शुभे दिने ॥
वेष्टयित्वाऽथ सिक्थेन घृते यन्त्रे धृते सति ।
सौभाग्यमतुलं स्त्रीणां जायते जीवितावधि ॥ ७ ॥
अष्टपत्राम्बुजे मध्ये सविसर्गमवेष्टितम् ।
नाम तद्बाह्यपत्रेषु सपरः सविसर्गकः ॥
रोचनाकुङ्कुमेनेदं यन्त्रं संलिख्य दापयेत् ।
कारागृहगतो यस्तु तस्य मोक्षः प्रजायते ॥ ८ ॥
अष्टपत्राम्बुजे मध्ये नाम ह्रीं दिग्दलेषु च ।
क्रोमन्यतो लिखित्वा तु यन्त्रं देवकुले धृते ।
व्याधिना मुच्यते प्राणी बलं चाप्नोति दुर्बलः ॥ ९ ॥
चतुरस्रे शिरोहीनहु(ह)ङ्कारोदरसंस्थितम् ।
नाम तद्बाह्यतो लेख्यं (भूयो) भूपुरं कोणशक्तिगम् ॥
काकपिच्छस्य लेखन्या लिखित्वेदं शरावके ।
सम्पूर्याऽधोमुखं भूमौ मूच्छीते तस्य चोपरि ॥
विवादे दुष्टचित्तानां विपरीतार्थभाषिणाम् ।
मुखस्तम्भो भवेत् पुंसां सभायां वा जयो ध्रुवम् ॥ १० ॥
लकारपुटितं नाम तस्योर्ध्वाधश्च लद्वयम् ।
चतुरस्रद्वयं बाह्ये वृतं सर्वत्र शक्तिभिः ॥
भूर्जे रोचनया लिख्य गुप्तदेशे धृते सति ।
शतयोजनमध्वानं गच्छतो न भयं भवेत् ॥ ११ ॥
अष्टपत्राम्बुजे मध्ये नाम ह्रीं दलसञ्चये ।
बहिर्वृत्तद्वयं भूर्जे लिखेत् कुङ्कुमगोमृदा ॥
अजितानाम विद्येयं सङ्ग्रामे विषमेऽध्वनि ।
भूपालादिभये रक्षां कुरुते बाहुसंस्थिता ॥ १२ ॥
प्रणवद्वयमध्यस्थं नाम मध्ये चतुर्दले ।
त्रयः पश्चिमदिक्पत्रे प्रणवाः पूर्वतस्त्रयः ॥
एकैकमुत्तरे दक्षे भूर्जे रोचनया लिखेत् ।
जीवरक्षेयमाख्याता व्याधौ जातेऽतिदुःसहे ॥ १३ ॥
ठं (वं) चतुष्टयमध्यस्थं नाम मध्ये ततो बहिः ।
अष्टपत्रेषु रं लेखं रोचनाचन्द्रकुङ्कुमैः ॥
इयं वैश्वानरी रक्षा बालानां कण्ठसंस्थिता ॥ १४ ॥
वृत्तमध्यस्थितं नाम तद्बहिश्चतुरस्रकम् ।
तद्बाह्ये स्युः स्वराः सर्वे तद्बहिर्वृत्तमालिखेत् ॥
तत्र द्वादशपत्राणि कल्पयेदेतदन्तरे ।
वञ्चीवञ्चीति रक्षेयं पञ्चदिव्यनिरोधिनी ॥ १५ ॥
ज्वालावृतत्रिकोणान्तर्नाम ज् र्झूं पुटितं बहिः ।
वेष्टितं सविसर्गैर्वैस्तद्बहिर्वह्निमण्डलम् ॥
ज्वालाकुलमिदं भूर्जे गोमृदा कुङ्कुमेन च ।
लिखित्वा स्वकरे बद्धं ज्वरं चातुथीकं हरेत् ॥ १६ ॥
वृत्तान्तः संस्थितं नाम बहि (वह्नि) रोंह्रीन्नमोऽक्षरैः ।
वेष्टितं त्वथ तद्बाह्ये कोणे लं वह्निमण्डले ॥
तद्बाह्ये क्ष्मापुरं वीतं चतुःकोणेषु शक्तिभिः ।
एकान्तरं ज्वरं हन्ति रक्षेयं बाहुसंस्थिता ॥ १७ ॥
कणीकायां लिखेन्नाम रूं (वलं) बीजानि दलाष्टके ।
रोचनाचन्दनेनेदं द्व्याहिकज्वरनाशनम् ॥ १८ ॥
षट्कोणमध्यतो नाम रूं कोणेषु समालिखेत् ।
भित्तौ खटिकया दृष्टं सततज्वरनाशनम् ॥ १९ ॥
वसमेतिपदं वायुदीर्घान्त्य(क्षाप्त)मनिलं शिरः ।
एतत् स्तम्भनकृन्मन्त्रमैन्द्रस्थाब्जदलापीतम् ॥ २० ॥
तालेनेन्दौ लिखेद्वस्त्रे वैरिनामेन्दुदभीतम् ।
सेनामार्गे खनेदेतत् सैन्यस्तम्भनमुत्तमम् ॥ २१ ॥ इति ॥ ८३ ॥
काश्मीररोचनालाक्षामृगेभमदचन्दनैः ।
विलिखेत् हेमलेखन्या यन्त्राण्येतानि देशिकः ॥ ८४ ॥
नारायणीययन्त्रलिखनद्रव्याण्याह काश्मीरेति ।
काश्मीरं कुङ्कुमम् ।
रोचना गोरोचना ।
लाक्षा यावकः ।
अनेनैव सर्वेषां घर्षणम् ।
मृगमदः कस्तूरी ।
इभमदो गजमदः ।
एभिमीलितैरेव लेखनम् ।
यदाहुः—-
गजमृगमदकाश्मीरैर्मन्त्रितमः सुरभिरोचनायुक्तैः ।
विलिखेदलक्तकरसालुलितैर्यन्त्राणि सकलकार्यार्थी ॥ इति ।
अन्यत्र द्रव्यविशेषोऽपि उक्तः—-
नागेन्द्रमदयुक्ता वै तथा वश्ये च रोचना ।
विषधत्तूरयुक्तेन चिताङ्गारेण सप्रुषा ॥
ताडनोच्चाटनादीनि क्षुद्रकर्माणि साधयेत् ।
विषार्कक्षीरगुञ्जायाः संयोगे मारणं स्मृतम् ॥ इति ।
हेमलेखन्येति शुभकर्मादौ ।
अन्यकर्मणि तु षट्कर्मेक्ता लेखन्यो द्रष्टव्याः ।
लिखनं च साक्षादुपात्ताधारस्थलं विना अन्यत्र काञ्चनरजतताम्रपत्रभूर्जादिषु ज्ञेयम् ।
तत्र कालविशेषोऽपि पूर्वेक्तोऽनुसन्धेयः ।
अन्यत्राधारविशेषा अप्युक्ताः—-
शान्तिके पौष्टिके चैव आयुःकामविधौ तथा ।
सर्पेपशमने चैव जल्पसंस्तम्भने तथा ॥
विभ्रमोत्पादने चैव शिलायान्तु प्रशस्यते ।
खर(ङ्ग) चर्मणि विद्वेषे महदुच्चाटनं ध्वजे ॥
ज्वरसन्तापशोकञ्च शत्रूणां मारणं तथा ।
लिखित्वा साधयेत् सर्वं पीतवस्त्रे तु नान्यथा ॥ इति ।
तथा मुहूर्त्तादि विशेषोऽपि तन्त्रान्तरोक्तो लिख्यते—-
सुदिने शुभनक्षत्रे सुदेशे शल्यवजीते ॥
सशिष्यस्तत्र आचार्यः शिष्यो वा तदभावतः ।
उदङ्मुखः प्राङ्मुखो वा उपविश्य प्रणम्य च ॥
गुरुं विश्वेश्वरं देवं ततो यन्त्रं समालिखेत् ॥ इति ।
कामनाविशेषे नक्षत्रविशेषोऽपि तत्रैवोक्तः—-
वश्याकृष्टौ लिखेत् पुष्येऽहिभे विद्वेषणं स्मृतम् ।
आर्द्रायां मारणं प्रोक्तं मघासूच्चाटनं भवेत् ॥ इति ।
अहिभे अश्लेषायाम् ।
तत्रैव धारणे स्थानविशेषोऽपि—-
करे कण्ठे शिखायां च यथा सन्निहितं भवेत् ।
इति ।
इमानि पूर्वेक्तान्यपि यन्त्राणि यस्मै कस्मै यथाकथञ्चिन्न देयानि ।
तदुक्तं हिरण्य- गर्भसंहितायां—- त्वया पुत्र न दातव्यं यन्त्रमेतन्महोदयम् ।
नाऽशिष्याय न पापाय नाऽशान्तायाऽप्रियाय च ॥
शिष्याय मन्त्रनिष्ठाय शुभभक्तियुताय च ।
वसुप्रदाय दातव्यमन्यथा नरकं व्रजेत् ॥ इति ॥ ८४ ॥
भूमिस्पृष्टं शवस्पृष्टं दग्धं निर्माल्यसङ्गतम् ।
विशीर्णं लङ्घितं मन्त्री यन्त्रं जातु न धारयेत् ॥ ८५ ॥
भूमिस्पृष्टमिति साक्षात् ॥ ८५ ॥
अथानन्दमयीं देवीं शब्दब्रह्मस्वरूपिणीम् ।
ईडे सकलसम्पत्यै जगत्कारणमम्बिकाम् ॥ ८६ ॥
ईडे स्तौमि ॥ ८६ ॥
आद्यामशेषजननीमरविन्दयोने-
वीष्णोः शिवस्य च वपुः प्रतिपादयन्तीम् ।
सृष्टिस्थितिक्षयकरीं जगतां त्रयाणां
स्तुत्वा गिरं विमलयाम्यहमम्बिके त्वाम् ॥ ८७ ॥
वपुः प्रतिपादयन्तीमिति ।
एषां विग्रहत्वे कारणम् ।
अतएवाग्रिमे विशेषणम् ।
अहं त्वां स्तुत्वा गिरं विमलयामीति सम्बन्धः ॥ ८७ ॥
पृथ्व्या जलेन शिखिना मरुताऽम्बरेण
होत्रेन्दुना दिनकरेण च मूत्तीभाजः ।
देवस्य मन्मथरिपोरपि शक्तिमत्ता
हेतुस्त्वमेव खलु पर्वतराजपुत्रि ॥ ८८ ॥
त्रिस्त्रोतसः सकललोकसमचीताया
वैशिष्ट्यकारणमवैमि तदेव मातः ।
त्वत्पादपङ्कजपरागविचित्रितासु
शम्भोर्जटासु सततं परिवर्त्तनं यत् ॥ ८९ ॥
पृथव्येत्यष्टमूर्त्त्यूपन्यासः ।
शक्तिमत्तेति ।
अन्यथाऽसङ्गस्योदासीनत्वात् ॥८८॥
आनन्दयेत् कुमुदिनीमधिपः कलानां
नाऽन्यामिनः कमलिनीमथ नेतरां वा ।
एकस्य मोदनविधौ परमेक इष्टे
त्वन्तु प्रपञ्चमभिनन्दयसि स्वदृष्ट्या ॥ ९० ॥
नान्यां कमलिनीम् ।
नेतरां कुमुदिनीम् ॥ ९० ॥
आद्याऽप्यशेषजगतां नवयौवनाऽसि
शैलाधिराजतनयाऽप्यतिकोमलाऽसि ।
त्रयाः प्रसूरपि तया न समीक्षिताऽसि
ध्येयाऽसि गौरि मनसो न पथि स्थिताऽसि ॥ ९१ ॥
आद्येत्यादि विरोधाभासचतुष्टयम् ।
न समीक्षिता इयत्तया न ज्ञातेति परिहारः।
मनसो न पथि स्थितेति ।
अचिन्त्यरूपेति परिहारः ॥ ९१ ॥
आसाद्य जन्म मनुजेषु चिराद् दुरापं
तत्रापि पाटवमवाप्य निजेन्द्रियाणाम् ।
नाऽभ्यर्चयन्ति जगतां जनयित्रि ये त्वां
निःश्रेणिकाग्रमधिरुह्य पुनः पतन्ति ॥ ९२ ॥
मनुजेष्विति ।
मनुष्याधिकारत्वाच्छास्त्रस्य ॥ ९२ ॥
कर्पूरचूर्णहिमवारिविलोलितेन
ये चन्दनेन कुसुमैश्च सुजातगन्धैः ।
आराधयन्ति हि भवानि समुत्सुकास्त्वां
ते खल्वशेषभुवनाधिभुवः प्रथन्ते ॥ ९३ ॥
आधिभुवो नायकाः ।
" आधिभूर्नायको नेता " इति कोशः ॥ ९३ ॥
आविश्य मध्यपदवीं प्रथमे सरोजे
सुप्ताहिराजसदृशी विरचय्य विश्वम् ।
विद्युल्लतावलयविभ्रममुद्वहन्ती
पद्मानि पञ्च विदलय खमश्नुवाना ॥ ९४ ॥
तन्निर्गतामृतरसैरभिषिक्तगात्री
मार्गेण तेन निलयं पुनरप्यवाप्ता ।
येषां हृदि स्फुरसि जातु न ते भवेयु-
र्मातर्महेश्वरकुटुम्बिनि गर्भभाजः ॥ ९५ ॥
आविश्येति युग्मम् ।
मध्यपदवीं सुषम्णामध्यमार्गम् ।
विद्युल्लतेति कुण्डली- रूपाम् ।
प्रथमे सरोजे आधारे ।
अत्र प्रथम इत्याद्युद्वहन्तीत्यन्तमनूद्य मध्यपदवी- माविश्य पञ्च पद्मानि विदलयेत्यन्वयः ।
पञ्च पद्मानि ।
स्वाधिष्टानमणिपूरकानाहत- विशुद्धाज्ञाख्यानि ।
खं ब्रह्मरन्ध्रम् ॥ ९४-९५ ॥
आलम्बिकुन्तलभरामभिरामवक्त्रा-
मापीवरस्तनतटीं तनुवृत्तमध्याम् ।
चिन्ताक्षसूत्रकलशालिखिताढ्यहस्ता-
मावर्त्तयामि मनसा तव गौरि मूत्तीम् ॥ ९६ ॥
चिन्ता ज्ञानमुद्रा ।
आलिखितं पुस्तकम् ।
इदं सरस्वतीरूपध्यानम् ॥ ९६ ॥
आस्थाय योगमवजित्य च वैरिषट्क-
माबद्ध्य चेन्द्रियगणं मनसि प्रसन्ने ।
पाशाङ्कुशाभयवराढ्यकरां सुरक्ता-
मालोकयन्ति भुवनेश्वरि योगिनस्त्वाम् ॥ ९७ ॥
उत्तप्तहाटकनिभा करिभिश्चतुभी-
रावत्तीतामृतघटैरभिषिच्यमाना ।
हस्तद्वयेन रुचिरे नलिने वहन्ती
पद्माऽपि साभयवरा भवसि त्वमेव ॥ ९८ ॥
अष्टाभिरुग्रविविधायुधवाहिनीभि-
र्देर्बल्लरीभिरधिरुह्य मृगाधिराजम् ।
दूर्वादलद्युतिरमर्त्य विपक्षपक्षान्
न्यक्कुर्वती त्वमसि देवि भवानि दुर्गा ॥ ९९ ॥
योगादीनां लक्षणमरिषड्वर्गमनन्तरमेव वक्ष्यति ॥ ९७-९९ ॥
आविर्निदाघजलशीकरशोभिवक्त्रां
गुञ्जागुणेन परिकल्पितहारयष्टिम् ।
पत्रांशुकामसितकान्तिमनङ्गतन्त्रा-
माद्यां पुलिन्दतरुणीमसकृत् स्मरामि ॥ १०० ॥
अनङ्गतन्त्रां कामप्रधानाम् ॥ १०० ॥
हंसैर्गतिक्वणितनूपुरदूरकृष्टै-
र्मूर्त्तैरिवाढ्यवचनैरनुगम्यमानौ ।
पद्माविवोर्ध्वमुखरूढसुजातनालौ
श्रीकण्ठपत्नि शिरसैव दधे तवाऽङ्घ्री ॥ १०१ ॥
द्वाभ्यां समीक्षितुमतृप्तिमतेव दृग्भ्या-
मुत्पाद्य भालनयनं वृषकेतनेन ।
सान्द्रानुरागतरलेन निरीक्षमाणे
जङ्घे उभे अपि भवानि तवानतोऽस्मि ॥ १०२ ॥
हंसैरित्यादिना चरणादिमूर्धान्तवर्णना ।
वचनं शब्दः ॥ १०१ ॥
ऊरू स्मरामि जितहस्तिकरावलेपौ
स्थौल्येन पण्डुरतया परिभूतरम्भौ ।
श्रोणीभरस्य सहनौ परिकल्प्य दत्तौ
स्तम्भाविवाऽम्ब वयसा तव मध्यमेन ॥ १०३ ॥
श्रोण्यौ स्तनौ च युगपत् प्रथयिष्यतोच्चै-
र्बाल्यात्परेण वयसा परिकृष्टसारः ।
रोमावलीविलसितेन विभाव्यमूत्ती-
र्मध्यस्तव स्फुरतु मे हृदयस्य मध्ये ॥ १०४ ॥
अवलेपो गर्वः ।
मध्यमेन वयसा यौवनेन ॥ १०३-१०४ ॥
सख्युः स्मरस्य हरनेत्रहुताशभीरो-
र्लावण्यवारिभरितं नवयौवनेन ।
आपाद्य दत्तमिव पल्वलमप्रधृष्यं
नाभिं कदापि तव देवि न विस्मरेयम् ॥ १०५ ॥
पल्वलमल्पसरः ॥ १०५ ॥
ईशोपगूहपिशुनं भसितं दधाने
काश्मीरकर्दममनु स्तनपङ्कजे ते ।
स्नानोत्थितस्य करिणः क्षणलब्धफेनौ
सिन्दूरितौ स्मरयतः समदस्य कुम्भौ ॥ १०६ ॥
पिशुनं सूचकम् ।
भसितं भस्म ॥ १०६ ॥
कण्ठातिरिक्तगलदुज्ज्वलकान्तिधारा-
शोभौ भुजौ निजरिपोर्मकरध्वजेन ।
कण्ठग्रहाय रचितौ किल दीर्घपाशौ
मातर्मम स्मृतिपथं न विलङ्घयेथाः ॥ १०७ ॥
कण्ठातिरिक्तेति ।
हरकण्ठादतिरिक्तौ अधिकौ ।
बन्धनीयादधिकेनैव पाशेन बन्धनं घटते ।
यद्वा कण्ठात्पार्वतीकण्ठात् अतिरिक्ते अधिके अतएव गलन्त्यौ उज्ज्वले ये कान्तिधारे तद्वच्छोभा ययोस्तौ ॥ १०७ ॥
नि(ना)त्यायतं रुचिरकम्बुविलासचौर्यं
भूषाभरेण विविधेन विराजमानम् ।
कण्ठं मनोहरगुणं गिरिराजकन्ये
सञ्चिन्त्य तृप्तिमुपयामि कदापि नाऽहम् ॥ १०८ ॥
कम्बुः शङ्खः ॥ १०८ ॥
अत्यायताक्षमभिजातललाटपट्टं
मन्दस्मितेन दरफुल्लकपोलरेखम् ।
विम्बाधरं वदनमुन्नतदीर्घनासं
यस्ते स्मरत्यसकृदेव स एव जातः ॥ १०९ ॥
अभिजातं सुन्दरम् ।
दरमीषत् ।
स एव जातस्तस्यैव सार्थकं जन्मेत्यर्थः ॥ १०९ ॥
आविस्तुषारकरलेखमनल्पगन्धं
पुष्पोपरि भ्रमदलिव्रजनिवीशेषम् ।
यश्चेतसा कलयते तव केशपाशं
तस्य स्वयं गलति देवि पुराणपाशः ॥ ११० ॥
पुराणपाशः अविद्यारूपः ॥ ११० ॥
श्रुतिसुचरितपाकं धीमतां स्तोत्रमेतत्
पठति य इह मर्त्येर्नित्यमार्द्रान्तरात्मा ।
स भवति पदमुच्चैः सम्पदां पादनम्र-
क्षितिपमुकुटलक्ष्मीलक्षणानां चिराय ॥ १११ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
चतुवींशः पटलः समाप्तः ॥ २४ ॥
ब्थ् " बि
धीमतां श्रुत्योः कर्णयोः सुचरितपाकम् ॥ १११ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां चतुवींशः पटलः ॥ २४ ॥
ब्थ् " बि