२३

अथ त्रयोविंशः पटलः

अथ त्रैयम्बकं मन्त्रमभिधास्याम्यनुष्टुभम् ।
यं भजन्तं नरं कालः स्वयं वीक्षितुमक्षमः ॥ १ ॥
वशिष्ठोऽस्य मुनिः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतम् ।
देवताऽस्य समुद्दष्टस्त्र्यम्बकः पार्वतीपतिः ॥ २ ॥
अथेति ।
मन्त्रो यथा—-
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।
उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ।
इति ।
मृत्युञ्जयपुटित इति केचित्।
साम्प्रदायिकास्तु प्रणवप्रासादमृत्युञ्जयव्याहृतिभिः सम्पुटमिच्छन्ति ।
श्रीं बीजं मायाशक्तिः ।
तदुक्तम्—-
श्रीदेव्यौ प्रणवौ बीजशक्ती योगः शिवार्चने ।
इति ॥ १-२ ॥
विभक्तैर्मन्त्रवर्णैः स्यात् षडङ्गानां प्रकल्पना ।
हृदयं त्रिभिराख्यातं चतुभीः शिर ईरितम् ॥ ३ ॥
शिखाऽष्टभिः समुद्दष्टा नवभिः कवचं मतम् ।
पञ्चभिर्नेत्रमाख्यातमस्त्रं त्रिभिरुदाहृतम् ॥ ४ ॥
विभागमेवाह हृदयमिति ।
येषां मते प्रणवादि सम्पुटः तन्मते तदादिभिरेभिर्वर्णैः षडङ्गम् ।
तदुक्तम्—-
प्रासादमृत्युञ्जयभूर्भुवः स्वस्तदङ्गमन्त्रैः क्रमशः समेतम् इति ।
साम्प्रदायिकास्तु ।
प्रणवप्रासादमृत्युञ्जयव्याहृति मन्त्राक्षरनमो भगवते रुद्रायेत्युक्त्वा शूलपाणये स्वाहा हृत् ।
अमृतमूर्त्तये मां जीवय शिरः ।
चन्द्रशिरसे जटिले स्वाहा शिखा ।
त्रिपुरान्तकाय हां हीं कवचम् ।
त्रिलोचनाय ऋग्यजुः- साममन्त्राय नेत्रम् ।
अग्नित्रयाय ज्वल ज्वल मां रक्ष अघोरास्त्राय अस्त्रम् इति षडङ्गमाहुः ॥ ३-४ ॥
पूर्वपश्चिमयाम्येन्दुवक्त्रेषु तदनन्तरम् ।
उरोगलास्येषु पुनर्नाभिहृत्पृष्ठकुक्षिषु ॥ ५ ॥
लिङ्गपायूरुमूलान्तजानुयुग्मेषु तत्परम् ।
तद्वृत्तयुग्मे स्तनयोः पार्श्वयोः पादयोः पुनः ॥ ६ ॥
पाण्योर्नासिकयोः शीर्षे मन्त्रवर्णान् न्यसेत् क्रमात् ।
पदान्येकादश न्यस्येच्छिरोभ्रूयुगलाक्षिषु ॥ ७ ॥
वक्त्रे गण्डयुगे भूयो हृदये जठरे पुनः ।
गुह्योरुजानुपादेषु न्यासमेवं समाचरेत् ॥ ८ ॥
वर्णन्यासमेवाह—-पूर्वेति ।
उरःशब्देन हृदूर्ध्वभागो विस्तीर्ण इह गृह्यते ।
ऊरु- मूलयोर्द्वौ ।
ऊर्वन्तयोर्द्वौ ।
तद्वृत्तयुग्मे जानूपरिस्थवृत्तयोः ।
सर्वस्थानद्वये वर्णद्वय- न्यासः ।
साम्प्रदायिकाः प्रणवादिपुटितवर्णन्यासमाहुः ।
तन्त्रान्तरे स्थानान्त-
राण्युक्तानि—- चरणाग्रसन्धिगुह्याधारोदरहृदयकन्धरासु पुनः ।
बाह्वोः सन्ध्यग्रास्यौष्ठघ्राणसयदृक्श्रुतिभ्रूशीर्षेषु ॥ इति ॥
पदानीति ।
वह्न्यब्ध्यग्नीषुवेदद्वित्रिद्वित्र्येकत्रिवर्णकैः ॥ ५-८ ॥
हस्ताभ्यां कलशद्वयामृतरसैराप्लावयन्तं शिरो
द्वाभ्यां तौ दधतं मृगाक्षवलये द्वाभ्यां वहन्तं परम् ।
अङ्कन्यस्तकरद्वयामृतघटं कैलासकान्तं शिवं
स्वच्छाम्भोजगतं नवेन्दुमुकुटं देवं त्रिनेत्रं भजे ॥ ९ ॥
जपेन्मन्त्रमिमं लक्षमेवं ध्यायन् जितेन्द्रियः ।
जुहुयाद्दशभिर्द्रव्यैरयुतं घृतसम्प्लुतैः ॥ १० ॥
ताविति ।
घटौ ।
अत्र ध्यानानन्तरमेता मुद्राः प्रदर्शयेत् ।
यदाहुः—-
लिङ्गपञ्चस्यमुष्ट्यम्बुजशक्तिमुद्राः प्रदर्शयेत् ।
इति ॥ ९-१० ॥
बिल्वं पलाशं खदिरं वटं च तिलसर्षपौ ।
दौग्धं दुग्धं दधि पुनर्दूर्वान्तानि विदुर्बुधाः ॥ ११ ॥
बिल्वं फलम् ।
ततस्त्रयाणां समिधः ।
दौग्धमिति ।
पायसम् ॥ ११ ॥
पञ्चाक्षरोदिते पीठे पूजयेद् वृषभध्वजम् ।
मूत्तीं मूलेन सङ्कल्प्या वक्ष्यमाणेन वर्त्मना ॥ १२ ॥
वक्ष्यमाणेन वर्त्मना पीठे वृषभध्वजं पूजयेदित्यन्वयः ॥ १२ ॥
पूर्वमङ्गानि सम्पूज्य पश्चान्मूर्त्तीः प्रपूजयेत् ।
अर्केन्दुवसुधातोयवह्नीरवियदात्मनः ॥ १३ ॥
द्वितीयावरणे पूज्या मूर्त्तयोऽष्टौ क्रमादथ ।
सम्पूज्येति ।
कणीकायाम् ।
मूर्त्तीः पश्चात् द्वितीयावरणे पूजयेदित्यन्वयः ।
ता एवाह अर्केति ।
ईरो वायुः ।
आत्मा यजमानः ।
तथा च श्रुतिः—-आत्मा वै यज्ञस्य यजमानोऽङ्गानि ऋत्विजः ।
इति ॥ १३ ॥
रामा राका प्रभा ज्योत्स्ना पूर्णेषा पूरणी सुधा ॥ १४ ॥
अष्टाविमाः क्रमात् पूज्यास्तृतीयावरणे ततः ।
विश्वा विद्या सिता प्रह्वा सारा सन्ध्या शिवा निशा ॥१५॥
चतुर्थावरणे पूज्याः शक्तयोऽष्टौ क्रमादिमाः ।
आर्या प्रज्ञा प्रभा मेधा शान्तिः कान्तिर्धृतिर्मतिः ॥ १६ ॥
पञ्चमावरणे पूज्याः क्रमादेतास्ततः परम् ।
धरा मायाऽवनी पद्मा शान्ताऽमोघा जयाऽमला ॥ १७ ॥
षष्ठावरणगाः पूज्या लोकपालास्ततः परम् ।
एवं कृते प्रयोगार्हे जायतेऽयं महामनुः ॥ १८ ॥
अष्टमूर्त्यादिपञ्चावरणानि पत्रेषु दलमूल उत्तरोत्तरत्र पूजनीयानि ।
धरोमा पावनीत्यपि पाठः ।
ततः परमिति ।
वज्रादिपूजेत्युक्तम् ।
यदाहुः—-आनुष्टुभमित्यष्टा- वरणं प्रोक्तं विधानवरमेवम् ।
इति ।
कल्पान्तरे तु " सप्तमी लोकपालैः स्यादष्टम्यर्कादिभिर्ग्रहैः " इत्युक्तेरेतदेव सूचयितुं लोकपालान्ता पूजा
ग्रन्थ- कारेणोक्ता ॥ १४-१८ ॥
अयुतं जुहुयाद् बिल्वसमिद्भः सम्पदे सुधीः ।
जुहुयाद् ब्रह्मवृक्षस्य समिद्भिर्ब्रह्मतेजसे ॥ १९ ॥
खादिरैरयुतं हुत्वा कान्तिपुष्टिमवाप्नुयात् ।
वटवृक्षस्य समिधो जुहुयादयुतावधि ॥ २० ॥
धनधान्यसमृद्धः स्यादचिरेणैव साधकः ।
तिलैस्तत्सङ्ख्यया हुत्वा सर्वपापैः प्रमुच्यते ॥ २१ ॥
खादिरैरिति ।
सप्तसमिद्वरैरिति शेषः ॥ २०-२१ ॥
सिद्धार्थैरयुतं हुत्वा शत्रून् विजयते नृपः ।
अनेनैव विधानेन नश्येन् मृत्युरकालजः ॥ २२ ॥
पायसेन कृतो होमो रक्षाश्रीकीत्तीकान्तिदः ।
पशुदुग्धेन सि(शु)द्धान्नं हुत्वा कृत्यां विनाशयेत् ॥ २३ ॥
पशुदुग्धेन गोदुग्धेन ॥ २३ ॥
अयमेव मतो होमः शान्तिश्रीसम्पदावहः ।
दधिहोमेन संवादं(पातं)कुर्याद्विद्वेषिणोमीथः ॥ २४ ॥
प्रत्यहं जुहुयान्मन्त्री दूर्वामष्टोत्तरं शतम् ।
आमयान्निखिलान् जित्वा दीर्घमायुरवाप्नुयात् ॥ २५ ॥
जुहुयाज्जन्मदिवसे पायसान्नैर्घृतान्वितैः ।
इच्छन्ननिन्दितां लक्ष्मीमारोग्यमतुलं यशः ॥ २६ ॥
गव्यदुग्धघृताक्ताभिर्दूर्वाभिर्जुहुयाद्वशी ।
सविंशतिशतं सम्यक् स्वजन्मदिवसे सुधीः ॥ २७ ॥
आमयैः सकलैर्मुक्तो जीवेद्वर्षशतं सुधीः ।
काश्मरीसमिधस्तिस्रः पयोऽन्नं त्रिशतं पृथक् ॥ २८ ॥
जुहुयाद् ब्राह्मणानन्ते भोजयेन्मधुरान्वितम् ।
प्रीणयेद्धनधान्याद्यैरात्मनो गुरुमादरात् ॥ २९ ॥
अनामयमवाप्नोति दीर्घमायुः श्रिया सह ।
सघृतेन पयोऽन्नेन हुत्वा पर्वणि पर्वणि ॥ ३० ॥
राज्यश्रियमवाप्नोति षण्मासान्नाऽत्र संशयः ।
पृथगिति ।
प्रत्येकम् ॥ २८ ॥
अनामयमारोग्यम् ।
" अनामयं स्यादारोग्यम् " इत्यमरः ॥ २९-३० ॥
लाजैवीशुद्धैर्जुहुयात्कन्याप्त्यै सा वराप्तये ॥ ३१ ॥
क्षीरद्रुमसमिद्धोमाद् ब्राह्मणादीन् वशं नयेत् ।
स्नात्वा सहस्रं प्रजपेदादित्याभिमुखो मनुम् ॥ ३२ ॥
आधिव्याधिविनिर्मुक्तो दीर्घमायुरवाप्नुयात् ।
अनेन मनुना सर्वं साधयेदिष्टमात्मनः ॥ ३३ ॥
सा कन्या वराप्तये जुहुयादित्यन्वयः ।
क्षीरद्रुमाः ।
अश्वत्थोदुम्बरप्लक्षवटाः।
यथासङ्ख्यं विप्रादिवशकारकाः ।
ब्राह्मणादिषु यथासङ्ख्यं मधुरत्रययुक्तत्वमपि ज्ञेयम्।
" स्वाद्वक्तस्तनजं तु होमविधिना " इत्याचार्येक्तेः ।
तन्त्रान्तराद्यन्त्रमुच्यते—-
विम्बद्वन्द्वे कृशानोवीलिखतु मनुमैशं (मेनं) समायं तद-
स्रिष्वग्न्यादिव्यञ्जनाख्यान् मृतिहरणमथो सन्धिषट्के सतारम् ।
अष्टारं तारयुग्व्याहृतिकुपरिवृतं नारसिंहास्रि चानु
द्वात्रिंशत्पत्रगत्र्यम्बकमनु च जगज्जन्मभूम्याभिवीतम् ॥ इति ॥ ३१-३३ ॥
गायत्रीत्रिष्टुबनुष्टुब्वर्णैः प्रोक्तः शताक्षरः ।
पूर्वेक्ता एव मुन्याद्याः परं तेजोऽस्य देवता ॥ ३४ ॥
शताक्षरमन्त्रमाह—-गायत्रीति ।
शताक्षर इति गायत्र्याश्चतुवींशतिवर्णत्वम् ।
त्रिष्टुभश्चतुश्चत्वारिंशद्वर्णत्वम् ।
अनुष्टुभो द्वात्रिंशद्वर्णत्वं चाभिप्रेत्योक्तम् ।
कश्चित्तु वैदिकत्वादस्य मन्त्रस्याद्यन्तयोः प्रणवदानात् शताक्षरतामाह स्म ।
तदसम्बद्धम् ।
यतः षडङ्गोक्तौ " द्वाविंशत्या शिखा प्रोक्ता तावद्भिः कवचं मतम् " इत्यङ्गद्वयमुक्तम् ।
तदसङ्गतं स्यात् ।
पूर्वेक्ता इति मन्त्रत्रयस्यापि ।
तदुक्तम्—-ऋष्याद्याः पूर्वेक्तास्त्रिविधाः स्युः ।
इति ॥ ३४ ॥
हृत् त्रयोदशभिः प्रोक्तं रुद्रार्णैः शिर ईरितम् ।
द्वाविंशत्या शिखा प्रोक्ता तावद्भः कवचं मतम् ॥ ३५ ॥
स्यात् पञ्चादशभिर्नेत्रमस्त्रं सप्तदशाक्षरैः ।
वर्णन्यासादिकं सर्वं कुर्यात् पूर्वेक्तवर्त्मना ॥ ३६ ॥
रुद्रार्णैरित्येकादशाक्षरैः ।
तावद्भिरिति ।
द्वाविंशत्यक्षरैः ॥ ३५-३६ ॥
सत्यं मानविवजीतं श्रुतिगिरामाद्यं जगत्कारणं
व्याप्तं स्थावरजङ्गमं मुनिवरैर्ध्यातं निरुद्धेन्द्रियैः ।
अर्काग्नीन्दुमयं शताक्षरवपुस्तारात्मकं सन्ततं
नित्यानन्दगुणालयं गुणपरं वन्दामहे तन्महः ॥ ३७ ॥
ध्यानमाह सत्यमिति ।
अरूपस्य ब्रह्मणो भावनरूपं ध्यानमेतत् ।
सत्यम् ।
असत्यव्यावृत्तिरूपम् ।
" सत्यं ज्ञानमनन्तं ब्रह्म " इति श्रुतेः ।
मानविवजीतम् ।
प्रमाणा- गोचरीकृतम् ।
" यतो वाचो निवर्त्तन्ते " इति श्रुतेः ।
श्रुतिगिरामाद्यम् ।
वेदप्रवक्तृ ।
" शास्त्रयोनित्वात् " इति वादरायणिसूत्रणात् ।
जगत्कारणम् ।
" जन्माद्यस्य " इति सूत्रणात् ।
व्याप्तस्थावरजङ्गमम् ।
" सहस्रशीर्षा " इत्यादि श्रुतेः ।
मुनिवरैर्नारदादिभिः।
अर्काग्नीन्दुमयमिति गायत्र्यादिदेवताक्रमेण ।
यद्वा अर्के विष्णुः अग्नी रुद्र इन्दुर्ब्रह्मा तन्मयम् ।
तत उत्पन्नत्वात् ।
यद्वा ओङ्काररूपत्वं वक्ष्यति ।
एतेनाऽकारोकारमका- रात्मकत्वेनाऽग्नीन्द्वर्करूपत्वम् ।
शताक्षरवपुरिति ।
शताक्षरैः परं महः प्रतिपाद्यते।
प्रतिपाद्यप्रतिपादकयोरभेदात् शास्त्रयोनित्वेन कार्यकारणाभेदाद्वा शब्दब्रह्मरूपत्वाद्वा तथोक्तिः ।
यद्वा यतः अर्काग्नीन्दुरूपत्वम् अतएव शताक्षरवपुरिति हेतुहेतुमद्भावेन योजना ।
ओङ्काररूपत्वमस्य ग्रन्थकृदेवाऽन्त्ये पटले वक्ष्यति ।
नित्यानन्दचित्त्वं तत् स्वरूपमेव ।
तदालयत्वं च भगवत उपचारात् ।
गुणेभ्यः सत्वरजस्तमोभ्यः परं तद्रहितम् ।
तद्वेदशिरसि प्रसिद्धम् ।
महः ।
नित्यं प्रकाशकत्वान् मह इव ।
एते च सर्वे शब्दास्तस्य वस्तुनो लक्षका एव न वाचकाः ।
एतेषां शब्दानामेकार्थत्वम- पर्यायत्वेऽपि अतद्व्यावृत्त्यर्थतया न पौनरुक्त्यम् ।
यद्वा, महस्तेजोरूपा कुण्डलिनी उच्यते ।
सत्यं नित्यत्वात्तस्याः ।
" नित्या शक्तिः परा देवी " इत्युक्तेः ।
मानमियत्ता तद्वजीता ।
" सूक्ष्मात् सूक्ष्मतरा विभुः " (१।५५) इत्युक्तेः ।
व्याप्तस्थावरजङ्गमा ।
" सर्वगा विश्वरूपिणी (१।५१) दिक्कालाद्य- नवछिन्ना " (१।५२) इत्युक्तेः ।
निरुद्धेन्द्रियैर्मुनिवरैर्ध्याता ।
" योगिध्येया च सर्वदा " इत्युक्तेः ।
" योगिनां हृदयाम्भोजे नृत्यन्ती नित्यमञ्जसा " (१।५३) इत्यपि ।
अर्काग्नी- न्दुरूपा ।
" त्रिधामजननी देवी " (१।५६) इत्युक्तेः ।
" सोमसूर्याग्निरूपा च " इत्यपि ।
शताक्षरवपुः ।
" विश्वात्मना प्रबुद्धा सा सूते मन्त्रमयं जगत् " (१।५७) इत्युक्तेः ।
तारात्मकम् ।
तन्मध्ये चिन्तयेद्देवीमृज्वाकारां तडित्प्रभाम् ।
ओङ्काररूपिणीं ज्योत्स्नामात्मरूपां शुभोदयाम् ।
इत्युक्तेः ।
नित्यानन्दगुणालया ।
" नित्यानन्दगुणोदया " (१।५१) इत्युक्तेः ।
गुणपरा ।
गुणरूपा परा च ।
" शक्तिः कुण्डलिनी गुणत्रयवपुवीद्युल्लतासन्निभा " इत्युक्तेः ।
(२५।६६) " परापरविभागेन परशक्तिरियं मता " इत्युक्तेश्च ॥ ३७ ॥
लक्षमानं जपेदेनमयुतं पायसान्धसा ।
जुहुयात् घृतसिक्तेन मन्त्रविद्विजितेन्द्रियः ॥ ३८ ॥
पायसान्धसा पायसेन ॥ ३८ ॥
सौरे पीठे यजेत्सम्यक् वक्ष्यमाणविधानतः ।
आद्यामावृतिमभ्यर्चेत् षडङ्गैर्देशिकोत्तमः ॥ ३९ ॥
गायत्रीशक्तिभिस्तिस्रः पूजयेदावृतीः क्रमात् ।
आवृतिः पञ्चमी प्रोक्ता त्रिष्टुबुद्भूतशक्तिभिः ॥ ४० ॥
अनुष्टप्शक्तिभिः प्रोक्तमावृतीनां चतुष्टयम् ।
इन्द्राद्यैर्दशमी प्रोक्ता वज्राद्यैस्तत्परा मता ॥ ४१ ॥
एवं सिद्धे मनौ मन्त्री भवेद्भास्करसन्निभः ।
अभ्यर्चेदिति ।
कणीकायाम् ।
देशिकोत्तमः क्रमादित्यनेन दलमूलमध्या- ग्रेष्वित्युक्तम् ।
तिस्र इति ।
अष्टाष्टदेवतात्मिकाः ।
त्रिष्टुबिति ।
जागताद्याभिः दिशि दिशि एकादशैकादशभिः ।
चतुष्टयमिति ।
अष्टाष्टशक्तिरूपत्वेन ।
अष्टदिक्षु पुनरिति ज्ञेयम् ॥ ३८-४२ ॥
सुधालतोद्भवैः खण्डैर्जुहुयात्क्षीरसंयुतैः ॥ ४२ ॥
दीर्घमायुरवाप्नोति निराधिर्व्याधिवजीतः ।
दूर्वाभिर्घृतसिक्ताभिस्तदेव फलमाप्नुयात् ॥ ४३ ॥
मधुरत्रयसंसिक्तैर्जुहुयादरुणाम्बुजैः ।
महालक्ष्मीमवाप्नोति षड्भिर्मासैवीधानवित् ॥ ४४ ॥
रक्तोत्पलैस्त्रिमध्वक्तैर्जुहुयात्सर्वसम्पदे ।
श्रीप्रसूनैः प्रजुहुयाद्रमाया वसतिर्भवेत् ॥ ४५ ॥
सहस्रं जुहुयान्नित्यं मासमेकं तिलैः शुभैः ।
भानुसङ्ख्यान् द्विजान्नित्यं भोजयेन्मधुरान्वितैः ॥ ४६ ॥
सर्वपापैवीनिर्मुक्तः सर्वरोगविवजीतः ।
कृत्याद्रोहग्रहद्रोहान् जित्वा दीर्घं स जीवति ॥ ४७ ॥
प्रातः स्नानरतो मन्त्री जपेन्नित्यं शतं शतम् ।
भानुमालोकयन् सम्यक् स जीवेच्छरदां शतम् ॥ ४८ ॥
सुधालता गुडची ।
भानुसङ्ख्यानिति द्वादश ॥ ४२-४८ ॥
तारव्याहृतिसंरुद्धं जपेन्मन्त्रं शताक्षरम् ।
नित्यमष्टोत्तरशतं निःश्रेयसफलाप्तये ॥ ४९ ॥
संरुद्धमिति सम्पुटितम् ।
तदुक्तमाचार्यैः—-
प्रणवव्याहृत्याद्या व्याहृतितारान्तिका च मन्त्रिवरैः ॥ इति ।
केचित्तु संरुद्धशब्देन संरोधनमाहुः ।
तच्च " नान आद्यन्तमध्येषु मन्त्रः स्याद्रोधनं स्मृतम् " इति प्रकारेण प्रतिमन्त्रादौ तारव्याहृतीरिच्छन्ति ।
तदसाम्प्रदायिकं लिखितवचनविरोधात् ॥ ४९ ॥
गायत्र्याद्यं जपेन्मन्त्रं सर्वपापविमुक्तये ।
सर्वशत्रुविनाशाय त्रिष्टुबाद्यमिमं जपेत् ॥ ५० ॥
अनुष्टुबाद्यं प्रजपेदायुरारोग्यसिद्धये ।
शताक्षरो मनुः प्रोक्तः समस्तपुरुषार्थदः ॥ ५१ ॥
गायत्र्याद्यमिति ।
यथोक्तम् ।
त्रिष्टुबाद्यम् ।
त्रिष्टुबनुष्टुब्गायत्र्यः ।
अनुष्टुबाद्य- मिति ।
अनुष्टुप् गायत्री त्रिष्टुप् ॥ ५०-५१ ॥
ऋचो विधानं वारुण्या यथावदभिधीयते ।
ऋग्वेदे सा समुद्दष्टा ध्रुवास्वाद्या मनीषिभिः ॥ ५२ ॥
वशिष्ठो मुनिराख्यातश्छन्दस्त्रिष्टुबुदाहृतम् ।
वरुणो देवता प्रोक्तस्तद्वर्णैरङ्गकल्पना ॥ ५३ ॥
अष्टभिर्हृदयं प्रोक्तं सप्तभिः शिर ईरितम् ।
शिखा षडर्णैराख्याता वस्वर्णैः कवचं मतम् ।
सप्तभिर्नेत्रमाख्यातमस्त्रं षड्भिरुदीरितम् ॥ ५४ ॥
ध्रुवास्वाद्येति ।
मन्त्रो यथा—-
ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्यस्मतत्पाशं वरुणो मुमोचत् ।
अवो वन्वाना अदितेरुपस्थाद्यूयं पात स्वस्तिभिः सदा नः ॥
इति ॥ ५२-५४ ॥
साग्रेषु सन्धिषु पदोर्गुदान्ध्वाधारनाभिषु ।
कुक्षौ पृष्ठे हृदि कुचे गले बाह्वग्रसन्धिषु ॥ ५५ ॥
वक्त्रे कपोलनासाक्षिकर्णभ्रूमध्यमस्तके ।
शिरः सर्वाङ्गयोर्न्यस्येन्मन्त्रवर्णान् यथाविधि ॥ ५६ ॥
वर्णन्यासमेवाह साग्रेष्विति ।
पदोः साग्रेषु सन्धिषु दशवर्णाः ।
गलान्तेषु नववर्णाः ।
बाह्वग्रसन्धिषु दशवर्णाः ।
शिष्टेषु त्रयोदश ।
मस्तकं केशललाटसन्धिः ।
शिरो ब्रह्मरन्ध्रम् ॥ ५५-५६ ॥
चन्द्रप्रभं पङ्कजसन्निषण्णं पाशाङ्कुशाभीतिवरं दधानम् ।
मुक्ताविभूषाञ्चितसर्वगात्रं ध्यायेत् प्रसन्नं वरुणं विभूत्यै ॥ ५७ ॥
ध्यानमाह चन्द्रेति ।
आयुधध्यानं दक्षाद्यूर्ध्वयोराद्ये तदधस्तनयोरन्त्ये ॥ ५७ ॥
लक्षमेकं जपेन्मन्त्रं पायसेन दशांशतः ।
सपीः सिक्तेन जुहुयान्मन्त्री मन्त्रस्य सिद्धये ॥ ५८ ॥
धर्मादिकल्पिते पीठे वरुणं सम्यगर्चयेत् ।
कृत्वाऽङ्गपूजनं शेषं वासुकिं तक्षकं पुनः ॥ ५९ ॥
कर्केटकं ततः पद्मं महापद्ममनन्तरम् ।
शङ्खपालाख्यकुलिकौ सम्यक् पत्रेषु पूजयेत् ॥ ६० ॥
इन्द्राद्यानायुधान्येषामर्चयेत्तदनन्तरम् ।
धर्मादीति ।
पीठशक्तिपूजा रहिते ।
सम्यगित्यनेन पीठशक्तयस्तन्त्रान्तरोक्ताः पूजनीया इत्युक्तम् ।
ता यथा—-
सुधा कुमुदिनी पूर्णा वारुणी विश्वतोमुखी ।
तरङ्गिणी च सुरसा सुशीताप्यायनी तथा ॥ इति ॥
कृत्वाऽङ्गपूजनमिति।
केसरेष्वित्यर्थः।
सम्यक् पत्रेषु पूजयेदिति ।
सम्यगित्यनेन शेषादीनां ध्यानं कर्त्तव्यमित्युक्तम् ।
तत् त्वरितापटले मदुक्तमनुसन्धेयम् ॥५८-६१॥
ऋणमुक्त्यै जपेन्मन्त्रं प्रत्यहं साष्टकं शतम् ॥ ६१ ॥
जपेनाऽनेन लभते महतीमव्ययां श्रियम् ।
सितेक्षुशकलैर्मन्त्री जुहुयाद् घृतसम्प्लुतैः ॥ ६२ ॥
चतुदीनं दशशतमृणमुक्त्यै महाश्रिये ।
समिद्भर्वेतसोत्थाभिः क्षीराक्ताभिदीनत्रयम् ॥ ६३ ॥
जुहुयाद् वृष्टिसंसिद्ध्यै मन्त्रविद्विजितेन्द्रियः ।
अनेन विधिना मन्त्री सूर्ये शतभिषं गते ॥ ६४ ॥
चतुःशतं घृतयुतं पायसं जुहुयाद्वशी ।
ऋणनाशाय सम्पत्यै वश्यारोग्याभिवृद्धये ॥ ६५ ॥
भृगुवारे कृतो होमः पायसेन ससपीषा ।
महतीं सम्पदं कुर्यान्नाशयेत् सकलापदः ॥ ६६ ॥
शालिभिर्घृतसंसिक्तैः सरिदन्तरितः सुधीः ।
त्र्यहं चतुःशतं हुत्वा स्तम्भयेत्परसैन्यकम् ॥ ६७ ॥
ऋणमुक्त्यै इति।
अत्र पाशमित्यस्य पूर्वम् ऋणशब्दमधिकमुच्चार्य जपेदित्यर्थः।
सितेक्षुशकलैः पवण्डा इति प्रसिद्धैः ।
सरिदन्तरितः द्वीपस्थः ॥ ६१-६७ ॥
सायं प्रत्यङ्मुखो वह्निमाराध्य प्रजपेन्मनुम् ।
चतुःशतं विमुच्येत मन्त्री सर्वैरुपद्रवैः ॥ ६८ ॥
मन्त्री प्रत्यङ्मुखो भूत्वा तर्पयेद्विमलैर्जलैः ।
सर्वेपद्रवनाशाय समस्ताभ्युदयाप्तये ॥ ६९ ॥
बहुना किमिहोक्तेन मन्त्रेणाऽनेन साधकः ।
साधयेत् सकलान् कामान् जपहोमादितत्परः ॥ ७० ॥
प्राणप्रतिष्ठामन्त्रस्य विधानमभिधीयते ।
येन प्रागीरिता मन्त्राः प्राणवन्तो भवन्ति ते ॥ ७१ ॥
येनेति ।
मन्त्राणां यद्यपि प्राणप्रतिष्ठा नास्ति तेषां स्वत एव समर्थत्वात् तथापि यन्त्रादौ लिखितानां प्रतिष्ठा
क्रियत इति तद्द्वारा प्राणवन्त इत्युक्तिः ।
प्राणप्रतिष्ठया पूर्वेक्तसमस्तमन्त्रविहितयन्त्रप्रयोगपुत्तल्यादि सर्वं प्रतिष्ठितप्राणं क्रियत इति ।
अवश्यं ज्ञेयोऽयं सर्वसारभूतो मन्त्र इति तत्स्तुतिः ।
तदुक्तम्—-
तस्मादृतेऽमी कथिताः प्रयोगा व्यर्था भवेयुर्गतजीवकल्पाः ।
इति ॥ ७१ ॥
पाशाङ्कुशपुटा शक्तिर्वाली बिन्दुविभूषितः ।
याद्याः सप्त सकारान्ता व्योमसद्येन्दुसंयुतम् ॥ ७२ ॥
तदन्ते हंसमन्त्रंः स्यात् ततोऽमुष्यपदं वदेत् ।
प्राणा इति वदेत्पश्चादिह प्राणास्ततः परम् ॥ ७३ ॥
अमुष्य जीव इह च स्थितोऽमुष्यपदं वदेत् ।
सर्वेन्द्रियाण्यमुष्यान्ते वाङ्मनश्चक्षुरन्ततः ॥ ७४ ॥
श्रोत्रघ्राणपादप्राणा इहागत्य सुखं चिरम् ।
तिष्ठन्त्वग्निवधूरन्ते प्राणमन्त्रोऽयमीरितः ॥ ७५ ॥
मन्त्रोद्धारमाह—-पाशेति।
प्रथमं पाशबीजं ततः शक्तिबीजं ततोऽङ्कुशबीजम्।
वाली यः बिन्दुभूषितः यम् ।
याद्या इति उद्धृतयकारानुवादेन ।
अतद्गुणसंविज्ञान- बहुव्रीहिणा वा सप्त न तु तद्यमिति बीजं भिन्नम् ।
पूर्वं पृथगुद्धारस्तु सप्तानामपि सबिन्दुताख्यापनाय अग्रे न्यासावसरे ग्रन्थकृताऽस्य बीजस्य न्यासो नोक्तः ।
तेनास्य पृथगुद्धारः ।
तदुक्तमाचार्यैः—-
पाशाङ्कुशान्तरितशक्तिमनोः परस्ता
दुच्चार्य यादिवसुवर्णगणं सहंसम् ॥ इति।
अन्यत्रापि—-अङ्कुशवाय्वनलावनिवरुणबीजानि ।
इति ।
व्योम हः सद्य ओ इन्दुः बिन्दुः तेन हीम् ।
प्रपञ्चसारपद्येऽपि गण ओ तेन होमित्येव पद्मपादाचार्यैर्व्याख्यातम् ।
समन्ते हंसमन्त्र इत्यपपाठः ।
इह चेति ।
चकारो न मन्त्रमध्ये ।
क्वचिदिहत इति पाठः ।
तदा इहशब्दादित्यर्थः ।
स्थितोऽमुष्येति ।
छन्दोऽनुरोधात् सन्धिः ।
मन्त्रे तु न सन्धिः ।
सर्वेन्द्रियाणि अमुष्वेत्यत्रापि तथैव ।
षडधिकषष्ट्यक्षरो मन्त्रः ।
अमुष्येपदार्थश्चतुर्थे उक्तः ।
अत्र मन्त्रे इहागत्येत्यत्र इहैवागत्येति एव शब्दो ज्ञेयः ।
तथा चाचार्याः—-सैवेहागमथो त्ययुक् सुखं चिरं तिष्ठन्तु ठद्वन्द्वयुक् ।
इति ।
पद्मपादाचार्यैरप्येवमेव पठितम् ।
आं बीजं क्रीं शक्तिः ॥ ७२-७५ ॥
प्रत्यमुष्यपदं पूर्वं पाशादीनि प्रयोजयेत् ।
प्रयोगेषु समाख्यातः प्राणमन्त्रो मनीषिभिः ॥ ७६ ॥
ब्रह्मविष्णुशिवाः प्रोक्ता मुनयस्तन्त्रवेदिभिः ।
उक्तमृग्यजुषोः साम्नश्छन्दश्छन्दोविशारदैः ॥ ७७ ॥
चैतन्यरूपा प्राणात्मा देवता शक्तिरीरिता ।
प्रयोगकाले विशेषमाह—-प्रतीति ।
पद्मपादाचार्यास्तु ।
एवं सति प्रयोगमन्त्रो भवतीति यादीनां त्रिरावृत्तिरभिहिता ।
प्राणजीवसर्वेन्द्रियाकर्षणार्थम् ।
केचिद्यादीनां चतुरावृत्तिं वर्णयन्ति ।
प्राणजीवेन्द्रियसामान्य तद्विशेषाणामाकर्षणार्थम् ।
केचित् पञ्चावृत्तिम् ।
प्राणसामान्यजीवसामान्येन्द्रियसामान्येन्द्रियविशेषाणामाकर्षणार्थम् ।
केचिन् नवावृत्तिम् ।
मन्त्रोक्तानां सर्वेषां प्रत्येकमाकर्षणार्थमित्याहुः ।
मनीषिभि- रित्यनेन हंसमन्त्रादौ ॐ क्षं सं हं सः ह्रीं ॐ स्वाहान्ते च ॐ क्षं सं हं सः ह्रीं ॐ
इत्युच्चारणीयमिति सूचितम् ।
पद्मपादाचार्यैः " मन्त्रोऽयमित्थमुदितो ग्रहसङ्ख्ययैव " इत्यस्य व्याख्याने ग्रहाः सप्त तत्सङ्ख्याक्षरैः
युक्तमिति व्याख्यातम् ।
तेनात्मनि यन्त्रे पुत्तल्यादावपि प्राणप्रतिष्ठासमये प्रत्यमुष्यपदं पाशाद्यानि प्रयोज्याऽमुष्यपदस्थाने
षष्ठ्यन्तं साध्यनाम प्रयुज्य मन्त्रमुच्चरेदिति ज्ञेयम् ॥ ७६-७८ ॥
कवर्गेण वियत्पूर्वभूतैर्हृदयमीरितम् ॥ ७८ ॥
शिरश्चवर्गशब्दाद्यैरीरितं तदनन्तरम् ।
ज्ञानेन्द्रियैष्टवर्गाद्यैस्तच्छिखा परिकीत्तीता ॥ ७९ ॥
कर्मेन्द्रियैस्तवर्गाद्यैः कवचं परिकीत्तीतम् ।
वचनाद्यैः पवर्गाद्यैवीलोचनमुदीरितम् ॥ ८० ॥
बुद्ध्याद्यैर्यादि संयुक्तैरस्त्रमस्य समीरितम् ।
आत्मनेऽन्ताः समाख्याता अङ्गमन्त्राः सजातयः॥ ८१ ॥
नाभेश्चरणपर्यन्तं पाशबीजं प्रविन्यसेत् ।
हृदयान्नाभिपर्यन्तं शक्तिबीजं ततः परम् ॥ ८२ ॥
मूर्धादि हृदयं यावदङ्कुशं विन्यसेत्ततः ।
हृदये धातुषु न्यस्येद्यादीन् सप्त यथाक्रमम् ॥ ८३ ॥
षडङ्गमाह कवर्गेणेति ।
अत्र वियत्पूर्वभूतैरित्युक्तेः प्रथमपटलोक्तसृष्टिक्रमो विवक्षितः ।
तेनाऽक्षराणां तथा व्यत्यास इति ज्ञेयम् ।
तदुक्तम्—-प्रत्येकं कादिवर्गैः प्रतिगतलिपिभिः बिन्दुयुक्तैः ।
इति ।
अग्र आत्मनेऽन्ताः सजातय इत्युक्तत्वात् प्रयोगो यथा ।
ङं कं खं घं गम् आकाशवायुवह्निसलिलभूम्यात्मने हृत् ।
ञं चं छं झं जं शब्दस्पर्शरूपरसगन्धात्मने शिरः ।
णं टं ठं ढं डं श्रोत्रत्वक्चक्षुजीह्वाघ्राणात्मने शिखा ।
नं तं थं धं दं वाक्पाणिपादपायूपस्थात्मने वर्म ।
मं पं फं भं बं वचनादानविहरणविसर्गानन्दात्मने नेत्रम् ।
शं यं रं वं लं हं षं क्षं सं लं बुद्धिमनोऽहङ्कारचित्तज्ञानात्मने अस्त्रम् ।
पद्मपादाचार्यैर्वर्णानां स्वरपुटितत्वं विपरीतत्वमप्युक्तम् ।
यथाक्रममिति ।
होमित्यस्य ओजसि न्यास इत्युक्तम् ॥ ७८-८३ ॥
प्राणे जीवे ततो न्यस्येद्धसवर्णद्वयं पृथक् ।
कुर्याद्व्यापकमेतेन समस्तेन विधानवित् ।
ततो विचिन्तयेद्देवीं जीवभूतां जगन्मयीम् ॥ ८४ ॥
प्राण इति ।
हृदय इत्यनुषज्यते ।
तेन प्राणजीवयोरपि हृदय एव न्यासः ।
पृथगिति ।
प्रत्येकम् ।
एतेन समस्तेनेति ।
मूलेनेत्यर्थः ।
विधानविदित्यनेन मूर्धादि- पादान्तमित्युक्तम् ।
तदुक्तम्—- " न्यसेन्मूलं व्यापकं मस्तकादि " इति ॥ ८४ ॥
रक्ताब्धिपोतारुण मध्यसंस्थां
पाशाङ्कुशाविक्षुशरासबाणान् ।
शूलं कपालं दधतीं कराब्जै
रक्तां त्रिनेत्रां प्रणमामि देवीम् ॥ ८५ ॥
रक्ताब्धीति ।
रक्तेति पीतविशेषणम् ।
आयुधध्यानं तु वामाद्यूर्ध्वयोराद्ये ।
तदधस्तनयोर्मध्ये ।
तदधस्तनयोः कपालशूले इति ॥ ८५ ॥
एवं ध्यात्वा जगद्धात्रीं लक्षमेनं जपेन्मनुम् ।
जुहुयात्तद्दशांशेन चरुभिर्घृतसंयुतैः ॥ ८६ ॥
तद्दशांशेनेत्यस्यायमर्थः ।
ॐ आं स्वाहा ॐ ह्रीं स्वाहा ॐ क्रीं स्वाहा ॐ यं मृतायै स्वाहा ।
एवं राद्यक्षरयुताभिः वैवस्वताद्याभिः सकृत् सकृत् हुत्वा ॐ क्षं सं हं सः ह्रीं ॐ इत्यक्षरैरपि तथा
हुत्वा मूलेनोक्तसङ्ख्यां जुहुयादिति ।
अयमर्थः पद्मपादाचार्याणां सम्मतः ॥ ८६ ॥
षट्कोणाढ्ये शक्तिपीठे विधिनाऽनेन पूजयेत् ।
अर्चयेत् षट्सु कोणेषु ब्रह्माणं विष्णुमीश्वरम् ॥ ८७ ॥
वाणीं लक्ष्मीमुमां पश्चात् षडङ्गानि प्रपूजयेत् ।
दलेषु मातरः पूज्यास्तद्बाह्ये लोकपालकाः ॥ ८८ ॥
एवं प्रपूजयेद्देवीं सुगन्धिकुसुमादिभिः ।
इति संसाधितो मन्त्रः षट्कर्मफलदो भवेत् ॥ ८९ ॥
शक्तिपीठ इत्यनेन नवमोक्ताः पीठशक्तयोऽत्र पूज्या इत्युक्तम् ।
पूजयेदिति ।
जगद्धात्रीमिति पश्चात्तनेन सम्बध्यते ।
अनेन वक्ष्यमाणेन ।
तमेव विधिमाह अर्चयेदिति ।
तत्र प्रकारः ।
प्राङ्निरृतिवायुकोणस्थाः ब्रह्मविष्णवीशाः आग्नेय- वारुणेशेषु वाण्याद्या इति परमगुरवः ।
प्रागुक्तं ब्रह्मादीनां शक्तीनां च बीजमनुसन्धेयम् ।
प्रपूजयेदिति केसरेषु ॥ ८७-८९ ॥
स्थापयेन्मनुनाऽनेन प्राणान् सर्वत्र देशिकः ।
बीजान्तेऽमुष्यशब्दानामादौ दूतीः प्रयोजयेत् ॥ ९० ॥
मृता वैवस्वता भूयो जीवहा प्राणहा ततः ।
आकृष्या ग्रथनी पश्चात् प्रमादा विस्फुलिङ्गिनी ॥ ९१ ॥
क्षेत्रज्ञप्रतिहार्येताः प्राणदूत्यो नव स्मृताः ।
सर्वत्रेति आत्मयन्त्रपुत्तल्यादौ ।
दूतीमन्त्रानुद्धरति बीजेति ।
बीजान्ते पाशादि- हंसमन्त्रान्ते ।
केचन बीजान्त इति बीजत्रयान्त इत्याहुः ।
तदसम्बद्धम् ।
आचार्य- वचनविरोधात् ।
अमुष्यशब्दानामादाविति चासम्बद्धं स्यात् ।
अमुष्यशब्दानामादाविति।
साध्यनाम्न आदौ ।
तदुक्तम्—-अथ यादीन् दूतीश्चोक्त्वा साध्यनामाऽथ मन्त्री ।
इति ।
आं ह्रीं क्रों यं रं लं वं शं षं सं ह्रीं ॐ क्षं सं हं सः ह्रीं ॐ यं मृते अमुष्य मृतात्मकान्
प्राणानिहाहर प्राणा इह प्राणा इति वा इहैवेत्याद्योमन्तमुक्त्वा पुनरामादि ओमन्तमुक्त्वा यं मृते अमुष्य
मृतात्मकं जीवमिहाहर जीव इह स्थित इति वा इहैवेत्याद्योमन्तमुक्त्वा पुनरामादि ओमन्तमुक्त्वा यं मृते अमुष्य
मृतात्मकानि सर्वेन्द्रियाणि इहाहर सर्वेन्द्रियाणि इह वा पुनरिहेत्यादि ओमन्तमुक्त्वा यं मृते अमुष्य मृतात्मकान्
वाङ्मनश्चक्षुःश्रोत्रघ्राणप्राणान् इहाहर वाङ्मनश्चक्षुःश्रोत्रघ्राणप्राणा इह वा ।
इहैवेत्यादि ओमन्तं वदेत् ।
एवं वैवस्वतादिमन्त्रा ऊहनीयाः ॥ ९०-९२ ॥
पाशेन बद्धचेष्टस्य शक्त्या स्वीकृतचेतसः ॥ ९२ ॥
अङ्कुशेनाहृतस्याभिः साध्यस्याऽसून् समाहरेत् ।
द्वादशाङ्गुलमानेन कृत्वा साध्यस्य पुत्तलीम् ॥ ९३ ॥
तस्यां प्राणात्मकं यन्त्रं सकीटं हृदये न्यसेत् ।
निशीथसमये साध्ये सुप्ते तस्य हृदम्बुजे ॥ ९४ ॥
युगपद्वा प्राणप्रतिष्ठाप्रकारमाह पाशेनेत्यादिना सर्वेषु कर्मस्वित्यन्तेन ।
आभिर्दूतीभिः ।
प्राणात्मकं यन्त्रं वक्ष्यमाणं सकीटम् ।
तत्र प्राणप्रतिष्ठारम्भात्
प्रागेव साध्यप्रतिकृतेः हृदये यन्त्रं सजीवं कीटं च निक्षिप्याच्छाद्य प्रयोगमारभे- तेत्यर्थः ।
प्राणप्रतिष्ठायां कर्त्तव्यमाह निशीथेति ।
पद्मपादाचार्यास्तु कालदण्डेन सन्ताड्य बोधनमाहुः ।
अन्यथा प्राणप्रतिष्ठायोगादिति ।
बद्धा तं च निपीडमेव सहसा कालस्य यष्ट्या शिर ।
स्याताड्य क्षुभिताखिलेन्द्रियगणं साध्यं स्मरेत् साधकः ॥
इत्युक्तेः ॥ ९२-९४ ॥
दलेषु वायुवह्नीन्द्रवरुणानामतः परम् ।
ईशराक्षसशीतांशुयमानां कणीकान्तरे ॥ ९५ ॥
यादीन् हंससमायुक्तान् भृङ्गाकाराननुस्मरेत् ।
शिरोबिन्दुसमुद्भूत तन्तुसम्बद्धविग्रहान् ॥ ९६ ॥
एवमात्महृदम्भोजे भृङ्गीरूपान् धिया स्मरेत् ।
आत्महृत्पद्मगा भृङ्गीः प्रस्थाप्य श्वासवर्त्मना ॥ ९७ ॥
एकैकात् साध्यहृत्पद्माद् भृङ्गमेकैकमानयेत् ।
पुत्तल्यां स्थापयेन्मन्त्री स्वचित्ते वा विधानवित् ॥ ९८ ॥
तन्तुच्छेदं प्रकुर्वीत वह्निबीजेन संयतः ।
आकृष्टान् साध्यहृद्भृङ्गान् भुवा संस्तम्भयेत्ततः ॥ ९९ ॥
एवमेकादशावृत्तीः कुर्यात् सर्वेषु कर्मसु ।
वश्याकर्षणयोर्यादीनरुणान् संस्मरेत् सुधीः ॥ १०० ॥
मोहविद्वेषयोर्धूम्रान् कृष्णान्मारणकर्मणि ।
पीतां संस्तम्भने ध्यायेत् प्राणाकर्षणकर्मणि ॥ १०१ ॥
आकृष्टान् साध्यहृत्प्राणान् स्थापयेदात्मनो हृदि ।
क्रूरकर्मसु पुत्तल्यां तेषां स्थापनमीरितम् ॥ १०२ ॥
प्राणान् साध्यस्य मण्डूकानात्मनस्तु भुजङ्गमान् ।
संस्मरेत्तत्र निपुणः सदा क्रूरेषु कर्मसु ॥ १०३ ॥
स्वहृदये साध्यहृदये पुत्तलीहृदये च मृतादिदूतीनां स्थानमाह दलेष्विति ।
भृङ्गाकाराननुस्मरेदिति।
याद्यक्षररूपमृतादीन् साध्यहृत्पद्मपत्रेषु कणीकायां भृङ्गरूपान् स्वहृदयपद्मे भृङ्गीरूपान् ध्यायेदित्यर्थः ।
शिर इति ।
यकारादिबीजानां शिरसि ये बिन्दवः तत्समुद्भूता ये तन्तवः तैः सम्बद्धविग्रहानिति ।
तदुक्तमाचार्यैः– " स्वीय- बिन्दुप्रबद्धान् " इति ।
पुत्तल्यामिति ।
क्रूरकर्मणि ।
स्वचित्ते इति वश्यादौ ।
विधानविदिति ।
स्ववहन्नाड्या प्रवेशनिर्गमनङ्कुश इत्युक्तम् ।
वह्निबीजेन रमित्यनेन ।
संयतः अस्मिन्नस्मिन् दले मृतादिस्थानमिति सावधान इत्यर्थः ।
भुवा
ग्लौमिति बीजेन ।
तत्र प्रकारः—-साध्यस्य शक्तिं पाशशक्तितेजोऽङ्कुशमहाभ्रमरकाल- दण्डरूपेण पञ्चधा निःसार्य
पाशबीजमुच्चरन् साध्यं पाशेन गले बद्ध्वा शक्तिबीज- तेजसा तं स्ववशे कृत्वाऽङ्कुशेनाकृष्याऽग्रतः
संस्थाप्य याद्यष्टकमुच्चरन् साध्यस्य त्वगादीन् व्याप्यापक्रम्य महाभृङ्गेण साध्यं कवलीकृत्य
कालदण्डताडनेन सुप्तं तं सम्बोध्य क्षमिति सपरिवारमुन्मूलीकृत्य समिति स्वप्राणशक्तिरूपमहाभ्रमरेण
मेलयित्वा हंस इति स्वैक्यं सम्भाव्य ह्रीमीमिति वश्यादौ जीवनाय प्लावनं कृत्वा यं मृते इत्यादिना स्वमृतां
सम्बोध्य अमुष्य मृतात्मकाः इह प्राणा इत्यादिना स्वमृता- प्राणानितरप्राणैः संयोज्य रमिति
साध्यमृतातन्तुच्छेदं विधाय सकीटहृदयायां पुत्तल्यामात्मनि वा साध्यमृताप्राणान् संस्थाप्य ग्लौमिति
संस्तभ्य तस्य मृताजी- वादिकमप्येवमानयेत् ।
युगपदेव वा मृताप्राणादीन् स्थापयेत् ।
ततः स्वहृदि चेत्—-आं ह्रीमित्यादि मयि प्राणा इह प्राणा मयि जीव इह स्थित इत्यादिरूपम् ।
पुत्तल्यां चेत्—-पुत्तल्यां प्राणा इह प्राणा पुत्तल्यां जीव इह स्थित इति जपेत् ।
इत्थं मृताप्रतिष्ठाक्रमः ।
एवं वैवस्वतादिप्राणा अपि स्थापनीयाः ।
ततो यादीन् होमन्ता- नुक्त्वा साध्यस्य धातून् जीवं च सपरिकरं पुनः स्वमण्डले सङ्कोचितं कवलीकृत्य
यादीन् दूतींश्च स्वस्य सम्बुद्ध्यन्तान् साध्यस्य चामुष्य प्राणानिहाहर अमुष्य प्राणा इह प्राणा इति चोक्त्वा
पुनरपि अमुष्य धातूनिहाहरेत्यादि वदेत् ।
एवं जीवेऽपि ।
अयमेव प्रकारः पुत्तल्यामपि ।
तदुक्तम्—-
आकृष्टानां साध्यदेशादसूनां पुत्तल्यादावप्ययं स्यात् प्रकारः ॥ इति ।
एवमिति ।
पूर्वेक्तं कर्म एकादशावृत्तिं कुर्यात् ।
अयं च पूर्वावधिः ।
इत ऊर्ध्वं यदृच्छया कुर्यात् ।
तदुक्तम्—-प्राणप्रतिष्ठाकर्मेदं विधायैकादशावरम् ।
इति ॥ ९५-१०३ ॥
वाय्वग्निशक्रवरुणेश्वरराक्षसेन्दु-
प्रेतेशपत्रलिखितैरथ यादिवर्णैः ।
बिन्द्वन्तिकैः क्षगतहंससमेतसाध्यं
प्राणात्मयन्त्रमथ वर्णवृतं धरास्थम् ॥ १०४ ॥
इत्थं प्रयोगकुशलो मनुनाऽनेन मन्त्रवित् ।
वशयेत्सकलान्देवान् किं पुनः पाथीवान् जनान् ॥ १०५ ॥
यन्त्रमाह वाय्विति ।
यादिवर्णैरिति होमन्तैः ।
धरास्थमिति ।
बाह्ये भूगृहावृत- मित्यर्थः ।
पद्मपादाचार्यास्त्वन्यथा यन्त्रमाहुः ।
तद्यथा—-अष्टदलमध्यगतशक्तौ साध्या- दिकमालिख्य पाशाङ्कुशाभ्यां तां संवेष्ट्य याद्यष्टकमष्टदलेषु
लिखित्वा अवशिष्टेन बहिः संवेष्ट्य भूपुरद्वये पाशाङ्कुशौ लिखेदिति यन्त्र विधिरिति ॥ १०४-१०५ ॥
आवाहन्यादिका मुद्राः प्रवक्ष्यामि यथाक्रमम् ।
याभिवीरचिताभिस्तु मोदन्ते सर्वदेवताः ॥ १०६ ॥
सम्यक् सम्पूरितः पुष्पैः कराभ्यां कल्पितोऽञ्जलिः।
आवाहनी समाख्याता मुद्रा देशिकसत्तमैः ॥ १०७ ॥
अधोमुखी कृता सैव प्रोक्ता स्थापनकर्मणि ।
आश्लिष्टमुष्टियुगला प्रोन्नताङ्गुष्ठयुग्मका ॥ १०८ ॥
सन्निधाने समुद्दष्टा मुद्रेयं तन्त्रवेदिभिः ।
अङ्गुष्ठगभीणी सैव सन्निरोधे समीरिता ॥ १०९ ॥
उत्तानौ द्वौ कृतौ मुष्टी सम्मुखीकरणौ स्मृता ।
देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः॥ ११० ॥
मुद्रा आह आवाहनीति ।
रा दाने ।
मुदं राति ददाति मुद्रेति निर्वचनम् ।
इदमेव मोदन्ते सर्वदेवता इत्यनेन सूचितम् ।
अतएव तद्दर्शनेन देवताहर्षेत्पत्तिः ।
स्वाङ्गुल्यो हि पञ्चभूतात्मिकाऽङ्गुष्ठाद्याः आकाशवाय्वग्निसलिलभूरूपाः ।
तासां मिथः संयोगरूपसङ्केतात् कोऽपि देवताप्रगुणीभावपूर्वको मोदः सान्निध्यकरो
भवति ।
तदुक्तम्—-
पृथिव्यादीनि भूतानि कनिष्ठाद्याः क्रमान् मताः ।
तेषामन्योन्यसम्भेदप्रकारैस्तत्प्रपञ्चता ॥
अर्चने जपकाले तु ध्याने काम्ये च कर्मणि ।
तत्तन्मुद्राः प्रयोक्तव्या देवतासन्निधापिकाः ॥ इति ॥
अन्यत्रापि—-मुदं रातीतिमुद्रा स्याद्येनैका मुष्टिरेव तु ।
स्वल्पभेदात् कोपहर्षौ प्राणिनां जनयत्यतः ॥
तेनैव सर्वदेवानां मुद्रा हर्षप्रदा मता ।
पूजाकाले दर्शनीया मुद्रास्ताः सर्वदा शिवे ॥ इति ॥
तथा—- खादिमार्गक्रमाद् भूतान्यङ्गुष्ठाद्यङ्गुलिक्रमात् ।
कापि मुत्तन्मिथोयोगात् सान्निध्यप्रह्वताकरी ॥ इति ॥
अनयाहूतो भवेदिति प्रार्थनपूर्वकमावाहनी कार्या ।
तन्त्रान्तरे तु विशेषः—-
हस्ताभ्यामञ्जलिं कृत्वाऽनामिकामूलपर्वणोः ।
अङ्गुष्ठौ निक्षिपेत् सेयं मुद्रा त्वावाहनी स्मृता ॥ इति ।
एष एव साम्प्रदायिकः पक्षः ॥ १०६-११० ॥
सव्यहस्तकृता मुष्टिर्दीर्घाधोमुखतर्जनी ।
अवगुण्ठनमुद्रेयमभितो भ्रामिता सती ॥ १११ ॥
भ्रामितेति वामावर्त्तक्रमेण ।
साम्प्रदायिका हस्तद्वयेनेमां मुद्रामाहुः ।
तदुक्तम्—-वर्मणा समवगुण्ठ्य दोर्युजा ।
इति ॥ १११ ॥
अन्योन्याभिमुखाश्लिष्टा कनिष्ठानामिका पुनः ।
तथा च तर्जनीमध्या धेनुमुद्रा समीरिता ॥ ११२ ॥
अमृतीकरणं कुर्यात्तया देशिकसत्तमः ।
धेनुमुद्रामाह अन्योन्येति ।
कनिष्ठाऽनामिका अन्योन्याभिमुखाश्लिष्टा तर्जनी मध्या तथैवान्योन्याभिमुखाश्लिष्टेत्यर्थः ।
हस्तद्वयाङ्गुल्यः अन्योन्यान्तरालप्रदेशेन पूर्वमध्यतः कृतदक्षकनिष्ठाव्यतिषक्ताः कार्याः ।
तत्र दक्षकनिष्ठा दक्षानामापृष्ठ- मुल्लङ्घ्य तद्वामभागमागता वामानामिकया योज्या ।
वामा कनिष्ठिका तु यथास्थि- तैव दक्षानामया ।
एवं वामतर्जनी वाममध्यमापृष्ठमुल्लङ्घ्य तद्दक्षभागागतदक्ष- मध्यमया योज्या ।
दक्षतर्जनी यथास्थितैव वाममध्यमया योज्या ।
तदुक्तम्—- वामाङ्गुलीर्दक्षिणानामङ्गुलीनां च सन्धिषु ।
प्रवेश्य मध्यमाभ्यां तु तर्ज्जन्यौ द्वौ प्रयोजयेत् ।
कनिष्ठे द्वेऽनामिकाभ्यां युज्यात् सा धेनुमुद्रिका ॥
इति ॥ ११२-११३ ॥
अन्योन्यग्रथिताङ्गुष्ठा प्रसारितकराङ्गुली ॥ ११३ ॥
महामुद्रेयमुदिता परमीकरणे बुधैः ।
प्रयोजयेदिमां मुद्रां देवतायागकर्मणि ॥ ११४ ॥
महामुद्रामाह—-अन्योन्येति ।
पाण्योरङ्गुष्ठौ परस्परग्रन्थनेन ग्रन्थिरूपौ शेषाः सरलाः ।
एता मुद्रास्तत्तन्मन्त्रे च मदुक्तविशेषमुद्राश्च न कस्यचिद्दर्शयेत् ।
तदुक्तं महासंहितायाम्—-
न जातु दर्शयेन् मुद्रा महाजनसमागमे ।
गुह्यमेतन् मुनिश्रेष्ठ तस्माद्रहसि योजयेत् ॥
नाऽदीक्षितस्य मुद्राणां लक्षणानि प्रकाशयेत् ।
क्षुभ्यन्ति देवतास्तस्य विफलं च भवेदिति ॥
अन्यत्राऽपि—- अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् ।
इति ॥
अथ चैताः सर्वा रहस्येव कुर्यात् ।
मोक्षाथीना मनसैव दर्शयितव्याः ।
तदाहुः—- मानसरूपसङ्कल्पा मुद्रा मोक्षाथीनां विदुः ।
इतरेषां तु सर्वेषां हस्ताभ्यां शस्यते बुधैः ॥
इति ॥ ११३-११४ ॥
आदिक्षान्तार्ण योगित्वादक्षमालेति कीत्तीता ।
तद्वर्णसङ्ख्यैर्मणिभिर्जपमालां प्रकल्पयेत् ॥ ११५ ॥
अक्षमालामाह—-आदीति ।
अकारादिक्षकारान्तानां वर्णानां माला अक्ष- मालेत्यर्थः ।
अत्रैकोऽधिकः क्षः स एव मेरुः ।
एतेन पञ्चाशद्गुलिकाभिरक्षमाला कार्येत्यपि सूचितम् ।
तदुक्तम्—- ब्रह्मनाडीगतानादिक्षान्तवर्णान् विभाव्य च ।
अर्णं बिन्दुयुतं कृत्वा श्रेष्ठं मन्त्रं जपेत् पुनः ॥
अकारादिषु संयोज्य तथा कादिषु च क्रमात् ।
क्षार्णं मेरुमथो तत्र कल्पयेज्जगदीश्वरि ॥
तदा लिपिर्भवेदक्षमालार्द्धशतसङ्ख्यया ।
अनया सर्वमन्त्राणां जपः सर्वार्थसाधकः ॥ इति ॥
अत्राऽक्षमालापदप्रयोगो गौण इति ज्ञेयम् ।
अनेनैतादृश्यक्षमाला पुरश्चरण- विषयेत्यपि उक्तम् ।
किञ्चाऽनेनाऽष्टोत्तरशतसङ्ख्याकमणिभिर्नित्यजपेऽपि माला कार्या इत्यपि उक्तं भवति ।
अकारादि लकारान्तं सञ्जप्य विलोमेन लकारादि अकारान्तं च सञ्जप्य अष्टवर्गैरष्टवारं जप्त्वा
क्षकारं मेरुं कुर्यादिति ।
यदाहुः—- अकारादि लकारान्तं पञ्चाशन्मणिसूत्रकम् ।
क्षकारं मेरुसंस्थाने लकारादि विलोमतः ॥
वर्गाष्टकविभेदेन शतमष्टोत्तरं भवेत् ।
एकैकान्तरितं मन्त्रं जपादेवं फलप्रदम् ॥ इति ॥
तन्त्रान्तरे तु विशेषः—-पञ्चविंशतिभिर्मेक्षस्त्रिंशद्भिर्धनसिद्धयः ।
सर्वार्थाः सप्तविंशत्या पञ्चदश्याभिचारिकम् ॥
पञ्चाशद्भिः काम्यकर्मसिद्धिः स्याच्चतुरुत्तरैः ।
अष्टोत्तरशतैः सर्वसिद्धिरक्षैः कृतस्रजा ॥ इति ।
तेन सप्तविंशत्या चतुःपञ्चशता अष्टोत्तरशतेन च सर्वेषां सर्वकार्यसिद्ध्यर्थं नित्यजपार्थं च
मालां कुर्यादित्युक्तम् ।
यदाहुः—-
अष्टोत्तरशतैर्माला पञ्चाशच्चतुरन्वितैः ।
सप्तविंशतिभिश्चाऽक्षैः सर्वसाधारणो जपः ॥ इति ॥ ११५ ॥
रुद्राक्षमालिका सूते जपेन स्वमनोरथान् ।
पद्माक्षैवीहिता माला शत्रूणां नाशिनी मता ॥ ११६ ॥
कुशग्रन्थिमयी माला सर्वपापविनाशिनी ।
पुत्रजीवफलैः कॢप्ता कुरुते पुत्रसम्पदम् ॥ ११७ ॥
निमीता रौप्यमणिभिर्जपमालेप्सितप्रदा ।
हिरण्मयैवीरचिता माला कामान् प्रयच्छति ॥ ११८ ॥
प्रवालैवीहिता माला प्रयच्छेत् पुष्कलं धनम् ।
सौभाग्यं स्फाटिकी माला मौक्तिकैवीहिता श्रियम्॥११९॥
निमीता शङ्खमणिभिः कुरुते कीत्तीमव्ययाम् ।
सर्वैरेतैवीरचिता माला स्यान्मुक्तये नृणाम् ॥ १२० ॥
मणिविशेषे फलविशेषमाह रुद्राक्षेति ।
सर्वैरेतैरित्येकैकस्य पञ्च पञ्च मणयः।
पिङ्गलामते तु विशेषः—-
स्फटिकप्रवालमुक्ताचामीकरपुत्रजीवकृतमणिभिः।
अष्टोत्तरशतसङ्ख्यैः कुर्याज्जपमालिकां मन्त्री ॥
मोक्षाभिचारशान्तिकवश्याकर्षेषु योजयेत् क्रमशः।
अङ्गुष्ठाद्यङ्गुलिकामणयोऽङ्गुष्ठेन चाल्यन्ते ॥ इति ॥
अक्षमालाकरणप्रकारस्तु तन्त्रान्तरोक्तो यथा—-
समासेनाऽक्षसूत्रस्य विधानमभिधीयते ।
यथालाभं यथाबुद्धि अक्षाण्यानीय यत्नतः ॥
अन्योन्यसमरूपाणि नातिस्थूलकृशानि च ।
जन्तुभिर्न विशीर्णानि न जीर्णानि नवानि च ॥
गव्यैस्तु पञ्चभिस्तानि सम्प्रक्षाल्य पृथक् पृथक् ।
ततो द्विजेन्द्रपुण्यस्त्रीनिमीतं ग्रन्थिवजीतम् ॥
त्रिगुणं त्रिगुणीकृत्य सूत्रं प्रक्षाल्य पूर्ववत् ।
अश्वत्थपत्रनवकैः पद्माकारेण कल्पयेत् ॥
सूत्रं मणींश्च गन्धाद्भिः क्षालितांस्तत्र निक्षिपेत् ।
तारं शक्तिं मातृकां च सूत्रे चैव मणिष्वथ ॥
विन्यस्य पूजयेदाज्यैर्जुहुयाच्चैव शक्तितः ।
मणिमेकैकमादाय सूत्रे तत्र तु योजयेत् ॥
मुखे मुखं तु संयोज्य पृष्ठे पृष्ठं तु योजयेत् ।
प्रोक्तसङ्ख्यातमेवाऽक्षं मेरुत्वेनाऽग्रतो न्यसेत् ॥
एकैकमालामध्ये तु ग्रन्थिबन्धं प्रकल्पयेत् ।
सम्यक् प्रतिष्ठितप्राणामुपचारैः प्रपूजयेत् ॥
एवं कृताक्षमालायां जपेन् मातृकया ततः ।
गुरुं सम्पूज्य तद्धस्तात् गृह्णीयात् सर्वसिद्धये ॥ इति ।
अन्यत्रापि—- समानवर्णवनितानिमीतं सूत्रमानयेत् ।
सूत्रं मणींश्च त्रिदिनं पञ्चगव्ये विनिक्षिपेत् ॥
सम्यक् चतुर्थदिवसे अस्त्रेण क्षालयेत्ततः ।
हृदा तां ग्रन्थयेन्मन्त्री गोपुच्छाकारसन्निभाम् ॥
मणिमध्ये नागपाशं ब्रह्मग्रन्थिमथाऽर्पयेत् ।
हुं मन्त्रेण ततो मेरुं प्रणवेनैव बन्धयेत् ॥
पूर्वेक्तं मण्डलं कृत्वा सम्पूज्याऽत्रेष्टदेवताम् ।
मनुं त्वष्टसहस्रं तु सञ्जपेन्नियतः सुधीः ॥
तद्दशांशं हुनेदाज्यैस्तन्मन्त्रोक्तैर्यथा पुरा ॥ इति ।
शैवागमे तु—- गोपुच्छसदृशी कार्या एकास्रा वा(सर्पाकारा)समेरुका ।
प्रोतव्या सितवर्णाद्यैस्तत्तत्कर्मप्रसिद्धये ॥
जपमालां विधायेत्थं ततः संस्कारमारभेत् ।
क्षालयेत् पञ्चगव्यैस्तां सद्योजातेन सज्जलैः ॥
चन्दनागुरुगन्धाद्यैर्वामदेवेन घर्षयेत् ।
धूपयेत्तामघोरेण लिम्पेत् तत्पुरुषेण तु ॥
मन्त्रयेत् पञ्चमेनैव प्रत्येकन्तु शतं शतम् ।
मेरुञ्च पञ्चमेनैव यथा मन्त्रेण मन्त्रयेत् ॥ इति ।
अक्षमालायां जपप्रकारोऽपि तत्रैवोक्तः—-
मध्यमायां न्यसेन् मालां ज्येष्ठेनावर्त्तयेत् क्रमात् ।
भुक्तिमुक्तिप्रदः सोऽयं मातृकागणनक्रमः ॥
अङ्गुष्ठानामिकाभ्यां तु कुर्यादुत्तमकर्मणि ।
अङ्गुष्ठमध्यमाभ्यां तु जपेदाकृष्टिकर्मणि ॥
तर्जन्यङ्गुष्ठयोगाद्धि विद्वेषोच्चाटने जपः ।
कनिष्ठाङ्गुष्ठकाभ्यां तु जपेन्मारणकर्मणि ।
जपान्यकाले तं मालां पूजयित्वा च गोपयेत् ।
जीर्णे सूत्रे पुनः सूत्रं ग्रन्थयित्वा शतं जपेत् ॥
जपेन्निषिद्धसंस्पर्शे क्षालयित्वा यथोचितम् ॥
कासे क्षुते च जृम्भायामेकमावर्त्तकं त्यजेत् ॥
प्रमादात्तर्ज्जनीस्पर्शे भवेदावर्त्तकं त्यजेत् ।
यदा सन्त्रुट्यते माला ग्रन्थयित्वाऽथ पूर्ववत् ॥
प्रतिष्ठितायां तस्यां तु मन्त्रं जप्यादनन्यधीः ।
एवं प्रतिष्ठितायां तु अन्यं नैव जपेन्मनुम् ॥ इति ॥
अन्यत्रापि—- येन प्रतिष्ठिता माला तमेव तु मनुं जपेत् ।
अन्यमन्त्रजपा विद्या न कार्या कहीचिद्बुधैः ॥
तर्जन्या न स्पृशेत् सूत्रं कम्पयेन्नो विधूनयेत् ।
न स्पृशेद्वामहस्तेन करभ्रष्टां न कारयेत् ॥
अक्षाणां चालनेऽङ्गुष्ठेनाऽन्यमक्षं न संस्पृशेत् ।
जपकाले सदा विद्वान् मेरुं नैव विलङ्घयेत् ॥
परिवर्त्तनकाले च सङ्घट्टं नैव कारयेत् ।
एवं सर्वं परिज्ञाय मालायां जपमारभेत् ॥ इति ॥
आचार्या अपि—- तन्मानसस्तर्जनिवजीताभिः अक्षस्रजा वाऽङ्गुलिभिर्जपेत ।
इति।
अन्यत्रापि—- अङ्गुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलङ्घने ।
असङ्ख्यातेन यज्जप्तं तज्जप्तं निष्फलं भवेत् ॥ इति ॥
अन्यत्र विशेषः—- अक्षमालां गुरोर्लब्धां तदभावे स्वनिमीताम् ।
गोपयेत् सर्वकर्मान्तं यदीच्छेत् सिद्धिमुत्तमाम् ॥
स्वमन्त्रमक्षसूत्रं च गुरोरपि न दर्शयेत् ।
जपकाले च गोप्तव्यमक्षसूत्रं च षण्मुख ॥
परदृष्टिगतं सूत्रं सर्वथा निष्फलं भवेत् ।
तस्मात् सर्वत्र यत्नेन गोपनीयं सदा बुधैः ॥ इति ॥
मन्त्रतन्त्रप्रकाशे अङ्गुलिभिरङ्गुलिपर्वभिरपि जप उक्तः ।
तद्यथा—-
अङ्गुलीजपसङ्ख्याप्तं फलमेकगुणं स्मृतम् ।
रेखास्वष्टगुणं विद्यादक्षैश्च शतसङ्गुणम् ॥
तत्राङ्गुलिजपं कुर्वन् साङ्गुष्ठाङ्गुलिभिर्जपेत् ।
अङ्गुष्ठेन विना कर्म कृतं तदफलं भवेत् ॥
अङ्गुलीपर्वभिर्मन्त्रजपं नित्यं प्रकल्पयेत् ।
मध्यमानामिकामध्यपर्वद्वितयकल्पितम् ॥
मेरुं प्रदक्षिणीकुर्वन्ननामामूलपर्वणि ।
आरभ्य मध्यमामूलपर्वान्तं गणयेत् क्रमात् ॥
मध्यापर्वयुगेन प्रकल्प्य मेरुं त्वनामिकामध्यात् ।
तर्जनिकामूलान्तं गणयेदेतत् प्र (अ)कारतो वाथ ॥
अङ्गुलीर्न वियुञ्जीत किञ्चिदाकुञ्चिते तले ।
अङ्गुलीनां वियोगे तु छिद्रेषु स्रवते जपः ॥
गणनाविधिमुल्लङ्घ्य यो जपेत्तं जपं यतः ।
गृह्णन्ति राक्षसास्तेन गणयेत् सर्वथा बुधः ॥
इति ॥ ११६-१२० ॥
अथाऽभिधास्ये तन्त्रेऽस्मिन् सम्यक् षट्कर्मलक्षणम् ।
सर्वतन्त्रानुसारेण प्रयोगफलसिद्धिदम् ॥ १२१ ॥
शान्तिवश्यस्तम्भनानि विद्वेषोच्चाटने ततः ।
मारणान्तानि शंसन्ति षट्कर्माणि मनीषिणः ॥ १२२ ॥
रोगकृत्याग्रहादीनां निरासः शान्तिरीरिता ।
वश्यं जनानां सर्वेषां विधेयत्वमुदीरितम् ॥ १२३ ॥
प्रवृत्तिरोधः सर्वेषां स्तम्भनं समुदाहृतम् ।
स्निग्धानां द्वेषजननं मिथो विद्वेषणं मतम् ॥ १२४ ॥
उच्चाटनं स्वदेशादेर्भ्रंशनं परिकीत्तीतम् ।
प्राणिनां प्राणहरणं मारणं समुदाहृतम् ॥ १२५ ॥
षट्कर्माण्याह अथेति ।
विधेयत्वं वचनकारित्वम् ।
सर्वेषां स्तम्भनमिति ।
जनजलशुक्रखड्गधारासैन्यप्रतिवादिवचनमरुदादीनाम् ।
स्वदेशादेरित्यादिशब्देन गृह- ग्रामनगरादयो गृह्यन्ते ॥ १२१-१२५ ॥
स्वदेवतादिकालादीन् ज्ञात्वा कर्माणि साधयेत् ।
रतिर्वाणी रमा ज्येष्ठा दुर्गा काली यथाक्रमम् ॥ १२६ ॥
षट्कर्मदेवताः प्रोक्ताः कर्मादौ ताः प्रपूजयेत् ।
ईशचन्द्रेन्द्रनिरृतिवाय्वग्नीनां दिशो मताः ॥ १२७ ॥
स्वदेवतेति ।
अत्रादिशब्देन आसनमुद्राभूतोदयमण्डलाक्षरग्रथनादि-प्रकारवर्ण- लेखन-द्रव्यलेखनीकुण्डस्रुक्स्रुव-समिज्जप-मालिकादीनि ।
प्रपूजयेदिति ।
तत्र पुष्प- विशेषः पिङ्गलामते—-
स्तम्भाकृष्टिवशोच्चाटशान्तिमारे यथाक्रमम् ।
पीतनीलारुणं धूम्रं श्वेतं कृष्णं प्रसूनकम् ॥ इति ॥
दिश आह ईशेति ।
अन्यत्र विशेषः—-
पूर्वामुखे भवेद्वश्यं दक्षिणे त्वाभिचारिकम् ।
पश्चिमे बन्धनं विद्यादुत्तरे शान्तिकं स्मृतम् ॥
आकर्षणमथाग्नेये नैरृते मारणं तथा ।
उच्चाटनं च वायव्ये एशाने मोक्षदायकम् ॥
इति ॥ १२६-१२७ ॥
सूर्येदयं समारभ्य घटिकादशकं क्रमात् ।
ऋतवः स्युर्वसन्ताद्या अहोरात्रं दिने दिने ॥ १२८ ॥
वसन्तग्रीष्मवर्षाख्यशरद्धेमन्तशैशिराः ।
हेमन्तः शान्तिके प्रोक्तो वसन्तो वश्यकर्मणि ॥ १२९ ॥
शिशिरः स्तम्भने ज्ञेयो विद्वेषे ग्रीष्म ईरितः ।
प्रावृडुच्चाटने ज्ञेयो शरन् मारणकर्मणि ॥ १३० ॥
सूर्येति ।
दिने दिने प्रतिदिनम् ।
अहोरात्रमध्ये सूर्येदयमारभ्य घटिकादशकं क्रमात् वसन्ताद्या ऋतवः स्युरित्यन्वयः ।
अत्र मुख्यो ऋतुर्मासद्वयात्मक एव ।
शीघ्रकार्यापेक्षस्त्वयमिति ज्ञेयम् ।
तदभिप्रायेणाऽन्यत्राऽप्युक्तम्—-
शुक्लपक्षे द्वितीया च तृतीया पञ्चमी तथा ।
बुधदेवगुरूपेता शान्तिके वाऽथ सप्तमी ॥
षष्ठी त्रयोदशी चैव चतुर्थी नवमी तथा ।
सोमदेवगुरूपेता पौष्टिके शंसिता बुधैः ॥
अष्टमी नवमी चैव दशम्येकादशी तथा ।
शुक्रभानुसुतोपेता शस्ता विद्वेषकर्मणि ॥
अथो चतुर्दशी कृष्णा शनिवारे तथाऽष्टमी ।
उच्चाटनेऽथ शस्तोऽत्र जपः शङ्करभाषितः ॥
अमावस्याऽष्टमी कृष्णा तादृगेव चतुर्दशी ।
भानुना तत्सुतोपेता भूसुतेनाऽपि संयुता ।
मारणे स्तम्भने चैव मोहे द्रोहे प्रशस्यते ॥ इति ॥
तथा वशिष्ठसंहितायामपि—-
प्रसिद्धा ऋतवो ग्राह्याः षट्कर्मादिकसाधने ।
यस्मिन् कस्मिन्नृतौ कार्यं मन्त्राणां वाथ साधनम् ॥
पूर्वाह्णे वश्यपुष्ट्यर्थम् ।
इत्यादिना ।
पिङ्गलामते—-
पुष्ट्याकृष्टिशुभोच्चाटशान्तिस्तम्भनरोधनम् ।
गुरौ कुजे रवौ शुक्रे सोमे मन्दे बुधे क्रमात् ॥ इति ॥
अन्यो विशेषः पिङ्गलामते—-
हेमन्तो धवलो वृद्धो वसन्तो लोहितो युवा ।
आरक्तधवलो बालः शिशिरः सम्प्रकीत्तीतः ॥
ग्रीष्मो धूम्रशरीरस्तु श्यामाङ्गो जलदागमः ।
शरत्कालः कृष्णवर्णः शान्त्यादावृतवस्त्विमे ॥ इति ॥
विशेषान्तरं महाकपिलपञ्चरात्रे—-
शान्तिके मानसो जाप उपांशुः पौष्टिके स्मृतः ।
सशब्दस्त्वाभिचारे स्यात् प्रागुदग्दक्षिणामुखः ॥ इति ॥
यत् तु दिनास्त्रादिप्रयोगे अर्द्धरात्रग्रहणं मारणे कृतिं स तत्कृतो विशेष- विधिरिति ज्ञेयम् ।
अत्र तु ऋतुशब्दोपादानान्न तथा ॥ १२८-१३० ॥
पद्माख्यं स्वस्तिकं भूया विकटं कुक्कुटं पुनः ।
वज्रं भद्रकमित्याहुरासनानि मनीषिणः ॥ १३१ ॥
पद्मेति ।
तत्राद्ययोरन्त्ययोश्च लक्षणमन्त्ये वक्ष्यति ।
विकटकुक्कुटासनयोर्लक्षणे यथा—-
जानुजङ्घान्तराले तु भुजयुग्मं प्रकाशयेत् ।
विकटासनमेतत् स्यादुपविश्योत्कटासने ॥
कृत्वोत्कटासनं पूर्वं समपादद्वयं ततः ।
अन्तर्जानुकरद्वन्द्वं कुक्कुटासनमीरितम् ॥ इति ॥
अन्यत्रासनविशेषा उक्ताः—-
स्तम्भने गजचर्म स्यान् मारणे माहिषं तथा ।
मेषचर्म तथोच्चाटे खड्गजं वश्यकर्मणि ॥
विद्वेषे जम्बुकस्योक्तं गोचर्म शान्तिके तथा ।
व्याघ्रचर्मासनं प्रोक्तं सर्वसिद्धिप्रवर्त्तकम् ॥ इति ॥ १३१ ॥
षण्मुद्राः क्रमतो ज्ञेयाः पद्मपाशगदाह्वयाः ।
मुसलाशनिखड्गाख्याः शान्तिकादिषु कर्मसु ॥ १३२ ॥
षण्मुद्रा इति ।
" कनिष्ठाङ्गुष्ठयुग्मुद्रा त्रिकोणा त्वशनेर्मता " इति अशनिमुद्रा- लक्षणम् ।
अन्यासां मुद्राणां लक्षणं पुरुषोत्तममन्त्रन्यासावसरे मयोक्तम् ॥ १३२ ॥
जलं शान्तिविधौ शस्तं वश्ये वह्निरुदाहृतः ।
स्तम्भने पृथिवी शस्ता विद्वेषे व्योम कीत्तीतम् ।
उच्चाटने स्मृतो वायुर्भूयाऽग्निर्मारणे मतः ॥ १३३ ॥
तत्तद्भूतोदये सम्यक् तत्तन्मण्डलसंयुतम् ।
तत्तत्कर्म विधातव्यं मन्त्रिणा निशितात्मना ॥ १३४ ॥
तत्तद्भूतोदय इति ।
भूतोदयमन्त्यपटले वक्ष्यति ।
विशेषस्त्वीशानशिवेनोक्तः—-
उभयधरणिरिष्टं साधयेद्दीर्घकाले
उभयमरुति किञ्चित्कालपाकेन सिध्येत् ।
उभयगगनवह्न्योर्नैव सिद्धिर्नहानिस्-
तत उभयजलस्थः क्षिप्रमेवेष्टदः स्यात् ॥
शशिजलधरणिस्थे शान्तिकं पौष्टिकं वा
शशिमरुदनलाभ्यां वश्यमाकर्षणं च ।
दिनकरभुवि कुर्यात् स्तम्भनं त्वर्कतोये
वशमिनमरुदाविभ्रामणोच्चाटने च ॥
दिनकरवियति स्यान् मोहनं त्वर्कवह्नौ
द्रुततरमरिवर्गान् साध(द)येन् मारयेच्च ॥ इति ।
तत्तन्मण्डलैः प्रथमपटलोक्तैः संयुतम् ।
मन्त्रिणा निशितात्मनेत्य- नेनोर्ध्वाधो- भेदेनाऽहोरात्रं ज्ञात्वा तत्तत्कर्म कुर्यादित्युक्तम् ।
तदुक्तं गौतमेन—-
देहवायोवीभोरूर्ध्वं वृत्तिः प्राणो भवेद्दिवा ।
अधोवृत्तिमयोऽपानो रात्रिर्वा देहसंस्थिता ॥
परचक्रभयादौ तत्कालोक्तं कर्म मन्त्रवित् ।
तत्र कुर्याद्विभागेन सम्यगुच्चाटनादिकम् ॥ इति ॥१३३-१३४॥
शीतांशु सलिलक्षोणी व्योमवायुहविर्भुजाम् ।
वर्णाः स्युर्मन्त्रबीजानि षट्कर्मसु यथाक्रमम् ॥ १३५ ॥
शीतांश्विति ।
षोडशस्वराः सङ्गौ शीतांशुवर्णाः ।
एतद्वर्णव्यतिरिक्ता द्वितीय- पटलोक्ता भूतवर्णा ज्ञेयाः ।
तदुक्तम्—-
रक्षास्तम्भनकर्माणि वर्णैः कुर्यात् धरामयैः ।
शान्तिकं पौष्टिकं कर्म कर्षणं सलिलात्मकैः ॥
दाहमोहाङ्गभङ्गानि चाकृष्टिं दहनात्मकैः ।
सेनाभङ्गभ्रमोच्चाटद्वेषकर्माणि वायुजैः ॥
कालभस्मादि चूर्णानि विविधान्यपि मारणम् ।
क्षुद्राणां स्थापने वर्णैर्नाभसैः पङ्क्तिसङ्ख्यकैः ॥ इति ॥
आचार्या आपि—- वर्णदशकैः स्युः स्तम्भनाद्याः क्रियाः ।
इति ।
केचित्तु सवलहयरेफानाहुः ।
तदुक्तं महाकपिलपञ्चरात्रे—-
लं पीता पृथिवी ज्ञेया वं शुक्लं कीत्तीतं पयः ।
रं रक्तोऽग्निर्मरुत् कृष्णो यं हं शुक्लतरं वियत् ॥ इति ॥
ग्रन्थान्तरे तु विशेषः—-हेमरूप्यशिलामृत्स्ना(सूक्ष्म)पात्रं शान्त्यादिषु स्मृतम् ।
बिल्वाक्षशिग्रुघटितं मारणोच्चाटनादिषु ॥ इति ॥
अन्यत्राऽपि—- सौवर्णान्यपि राजतान्यपि तथा पात्राणि शौल्वानि वा
मृत्पात्राण्यपि शान्तिकादिषु परं शस्तानि कर्मस्विह ।
शेल्वक्षद्रुमशिग्रुभूरुहकृतान्येतानि विद्वेषणो-
च्चाटोत्सादनमारणादिषु भृशं शस्तानि पात्राण्यपि ॥ इति ।
कुलप्रकाशतन्त्रे तु—-तिस्रो मुद्राः स्मृता होमे मृगी हंसी च शूकरी ।
शूकरी करसङ्कोची हंसी मुक्तकनिष्ठिका ॥
मृगी कनिष्ठातर्जन्यौ मुक्ता मुद्रात्रयं मतम् ।
यज्ञे शान्तिककार्येषु मृगी हंसी प्रकीत्तीता ॥
आभिचारिककार्येषु शूकरी तु प्रकीत्तीता ॥ इति ॥
पिङ्गलामते तु मुद्रान्तराण्यपि उक्तानि—-
ततो द्रव्यस्य होमे तु तर्जन्यङ्गुष्ठयोगतः ।
ज्वरनाशारिसन्तापावुच्चाटो मोहनं क्रमात् ॥ इति ॥
अन्यत्र जातिविशेषोऽपि उक्तः ।
यदाहुः—-
नमः स्वाहा स्वधा वौषट् हुम्फडन्ताश्च जातयः ।
शान्ती वश्ये तथा स्तम्भे विद्वेषोच्चाटमारणे ॥ इति ॥
अन्यत्राऽपि—- अर्चने क्रोधशान्त्यादौ नमः शब्दं प्रयोजयेत् ।
अग्निकार्ये च वश्यादौ स्वाहाशब्दं प्रयोजयेत् ॥
मारणादिषु फट्कारं विद्वेषादौ च हम्पदम् ।
वौषडाप्यायनादौ स्याद् द्वेषोत्सादे वषट् स्मृतम् ॥ इति ॥
तथान्यत्र तु—- वश्याकर्षणसन्तापे होमे स्वाहा प्रयोजयेत् ।
क्रोधोपशमने शान्तौ पूजने च नमो वदेत् ॥
वौषट् सम्मोहनोद्दीपपुष्टिमृत्युञ्जयेषु च ।
हुङ्कारं प्रीतिनाशे च छेदने मारणे तथा ॥
उच्चाटने च विद्वेषे तथा धीविकृतौ तु फट् ।
विघ्नग्रहविनाशे च हुम्फट्कारं प्रयोजयेत् ॥
मन्त्रोद्दीपनकार्ये च लाभालाभे वषट् स्मृतम् ॥ इति ।
पिङ्गलामते तु—- स जपः स्तम्भने लस्थैवीद्वेषे हुंसमन्वितैः ।
उच्चाटे वायुबीजस्थैः सविसर्गैश्च सिद्धये ॥
मारणे फट्कृतैर्दीप्तैरूर्ध्वाधोरेफसंयुतैः ।
छेदने छित्य(त्प)दोपेतैः पुष्टावाप्यायने गवैः ॥
अमृताक्षरगैर्मृत्युनिवृत्तौ देशिकोत्तमैः ।
स्वकल्पसिद्धजात्या वा कृतोपपदलक्षणैः ॥
एवं यत् क्रियते कर्म तदिष्टफलसाधनम् ॥ इति ॥
द्रव्यविशेषोऽपि मोहशूरोत्तरे—-
दूर्वा भव्याश्च समिधो गोघृतेन समन्विताः ।
होतव्याः शान्तिके देवि शान्तिर्येन भवेत् स्फुटम् ॥
समिधो राजवृक्षोत्था होतव्याः स्तम्भकर्मणि ।
मेषीघृतेन संयुक्ताः स्तम्भसिद्धिर्भवेद् ध्रुवम् ॥
खादिरा मारणे प्रोक्ताः कटुतैलेन संयुताः ।
होतव्याः साधकेन्द्रेण मारणं येन सिध्यति ॥
उच्चाटने चूतजाताः कटुतैलेन संयुताः ।
उच्चाटयेन्महीं सर्वां सशैलवनकाननाम् ॥
वश्ये चैव सदा होमः कुसुमैर्दाडिमोद्भवैः ।
अजाघृतेन देवेशि वशयेत् सचराचरम् ॥
विद्वेषे चैव होतव्या उन्मत्तसमिधो मताः ।
अतसीतैलसंयुक्ता विद्वेषणकरं परम् ॥ इति ॥
वायवीयसंहितायां स्रुक्स्रुवयोरपि विशेष उक्तः—-
आयसौ स्रुक्स्रुवौ कार्यौ मारणादिषु कर्मसु ।
तदन्यत्र तु सौवर्णौ शान्तिकाद्येषु कृत्स्नशः ॥ इति ॥
अन्यत्र तत्तत्कर्माणि जिह्वा अप्युक्ताः—-
जिह्वां तु हिरण्याख्यां शान्तिकर्मणि तथा च गगना(कनका)ख्याम् ।
रक्तां कर्षण (कार्मण)कर्मणि कृष्णां क्षुद्रक्रियासु बुधाः ॥
या सुप्रभेति गदिता तामाहुर्मेक्षकारिणीं जिह्वाम् ।
अतिरक्तामाकृष्टौ बहुरूपामखिलसिद्धिदां जिह्वाम् ॥ इति ।
तथाऽन्यत्र—- स्तम्भनादिषु मता कनकाख्या द्वेषणादिषु मता खलु रक्ता ।
मारणे निगदिता खलु कृष्णा सुप्रभा बुधवरैरिह शान्त्याम् ॥
उच्चाटनेऽतिरक्ता या बहुरूपोत्तरे सिद्धिम् ।
ऋद्धिं दक्षिणतः सा तनुते मध्ये शुभानि सदा ॥ इति ॥
अन्यत्राऽग्निविशेषोऽपि उक्तः—-
लौकिकेऽग्नौ शान्तिकं स्यात् पौष्टिकं च शुभं तथा ।
वटजे स्तम्भनं मोहः श्मशानस्थेऽपि मारणम् ।
बिभीतकाग्नौ विद्वेषः षट्कर्मण्यग्नयो मताः ॥ इति ॥
अन्यत्र तु—- बिल्वार्कविप्रनृपदग्धतरुप्रदीप्ते सौम्यं चिकीर्षरथ कर्म हुनेद्धुताशे ।
रौद्रं विषद्रुमकलिद्रुमशेलुनिम्बधत्तूरकाष्ठचयसन्निचितेऽथ मन्त्री ॥ इति ।
सोमशम्भौ तु अग्निमुखानामपि नियम उक्तः—-
कुण्डं भानुमुखं ध्यात्वा हृदाहुतिभिरीप्सितम् ।
पश्चिमे शिष्यसंस्कारनित्यहोमौ समाचरेत् ॥
वश्याकर्षणसौभाग्यपुष्टिभाग्याधिरोपणे ।
शान्तिके पाप(श)शुद्धौ च वामे होमः प्रशस्यते ॥
गुटिकाञ्जननिस्त्रिंशपादलेपजिगीषया ।
शोष्यसञ्जननार्थं च प्राचीनवदने यजेत् ॥
मारणोच्चाटनद्वेषस्तम्भनार्थं च दक्षिणे ।
प्रायश्चित्तं तु तत्रैव पश्चिमे तु विमुक्तये ॥ इति ।
आकर्षणाद्यपि उक्तकाले विधेयम् ।
तदुक्तम्—-
" आकर्षणं वसन्ते स्यात् " इति ।
कामिके तु होमादिसङ्ख्याविशेषः—-
शान्तिके पौष्टिके वापि वशीकरणकर्मणि ।
हुतसङ्ख्यादशांशं स्यादुत्तमं द्विजभोजनम् ॥
तत्त्वसङ्ख्यं मतं मध्यं शतांशमधमं मतम् ।
उक्तद्विगुणमानं स्यात् स्तम्भने विप्रभोजनम् ॥
त्रिगुणं सादनोच्चाटे द्वेषणे तु प्रकीत्तीतम् ।
हुतसङ्ख्यासमानं स्यादपि मारणकर्मणि ॥
हुतावसाने विप्रेन्द्रानतिशुद्धकुलोद्भवान् ।
भोजयेत् साङ्गवेदज्ञान् स्वादुभिर्भेज्यवस्तुभिः ॥
देवताप्रतिपत्त्या तान्नमस्कृत्य यथाविधि ।
विततं च यथाशीभीरभीष्टफलदं भवेत् ॥ इति ॥
प्रयोगस्य दक्षिणामाह—-
पञ्चविंश सुवर्णानि दद्याद् वश्ये विचक्षणः ।
स्तम्भने त्रिंशन्मानं स्यादुच्चाटे षष्टिहाटकम् ॥
विद्वेषे पञ्चपञ्चाशन्मारणे तु शताधिकम् ।
अष्टौ दद्याद् द्विजेन्द्राणां क्षेत्रादीनां विशेषतः ॥ इति ॥
विशेषत इति सन्तोषं यथा भवति तथा कुर्यादिति ॥ १३५ ॥
ग्रथनं च विदर्भश्च सम्पुटो रोधनं तथा ।
योगः पल्लव इत्येते विन्यासाः षट्सु कर्मसु ॥ १३६ ॥
मन्त्रार्णान्तरितान् कुर्यान्नामवर्णान् यथाविधि ।
ग्रथनं तद्विजानीयात् प्रशस्तं शान्तिकर्मणि ॥ १३७ ॥
मन्त्रार्णद्वन्द्वमध्यस्थं साध्यनामाक्षरं लिखेत् ।
विदर्भ एष विज्ञेयो मन्त्रिभिर्वश्यकर्मणि ॥ १३८ ॥
आदावन्ते च मन्त्रः स्यान्नाम्नोऽसौ सम्पुटं मतम् ।
एषः संस्तम्भने शस्त इत्युक्तो मन्त्रवेदिभिः ॥ १३९ ॥
नाम्न आद्यन्तमध्येषु मन्त्रः स्याद्रोधनं मतम् ।
विद्वेषणविधानेषु प्रशस्तमिदमीरितम् ॥ १४० ॥
मन्त्रेति ।
अन्तरितान् व्यवहितान् ।
तदुक्तम्—-एकं मन्त्राक्षरं पूर्वं ततो नामाक्षरं पुनः ।
मन्त्राक्षरमिति ग्रन्थः ।
इति ।
मन्त्रार्णेति ।
मन्त्रार्णद्वन्द्वयोर्मध्यस्थं साध्य- नामाक्षरमिति समासः ।
तदुक्तम्—- द्वौ द्वौ मन्त्राक्षरौ यत्र एकैकं साव्यवर्णकम् ।
विदभीतं तु तत्प्रोक्तम् ।
इति ।
असौ विन्यासः सम्पुटं मतमिति ।
अत्र केचन नामान्ते विपरीतं मन्त्रपाठमाहुः।
एष एव साम्प्रदायिकः पक्षः ।
तदुक्तम्—-
मन्त्रमादौ वदेत् सर्वं साध्यसञ्ज्ञामनन्तरम् ।
विपरीतं पुनश्चाऽन्ते मन्त्रं तत् सम्पुटं स्मृतम् ॥ इति ॥
ग्रन्थकृताऽप्युक्तम्—- भूतलिप्या पुटीकृत्य यो मन्त्रं भजते नरः ।
क्रमोत्क्रमाच्छतावृत्त्या ॥ इति ॥
अत्रैकाक्षरमन्त्रादौ तदेवावर्त्तनीयम् ।
अन्ये अन्यथा वदन्ति ।
एकाक्षरस्य वा- वयवं कर्त्तव्यमिति ।
तदसत् ।
अनेकाक्षरेऽपि तन्न्यायात् साध्येऽपि तथात्वापत्तिः ।
विषमाक्षरे पुनरावर्त्तनीयमिति पद्मपादाचार्याः ॥ १३६-१४० ॥
मन्त्रस्याऽन्ते भवेन्नाम योगः प्रोच्चाटने मतः ।
अन्ते नाम्नो भवेन्मन्त्रः पल्लवो मारणे मतः ॥ १४१ ॥
सितरक्तपीतमिश्रकृष्णधूम्राः प्रकीत्तीताः ।
वर्णतो मन्त्रसम्प्रोक्ता देवताः षट्सु कर्मसु ॥ १४२ ॥
मन्त्रस्याऽन्त इत्यस्य पद्यस्य प्रामादिकश्चरणव्यत्ययः—-
अन्ते नाम्नो भवेन् मन्त्रो योगः प्रोच्चाटने मतः ।
मन्त्रस्याऽन्ते भवेन्नाम पल्लवो मारणे मतः ॥
इति तु पाठः पठनीयः ।
तथाच पद्मपादाचार्याः ।
नामान्ते मन्त्रयोजनं योगः ।
स्तम्भोच्चाटनविद्वेषेषु समस्तमन्त्रान्ते समस्तनामयोजनं पल्लवः ।
मारणेऽस्य विनियोग इति ।
अन्यत्राऽपि—- " पल्लवे साध्यनामादौ भवेन् मन्त्रपदक्रमः " इति ।
" मन्त्रान्ते जपकर्माणि " इति मारणे गौतमेनाप्युक्तम् ।
भैरवस्तोत्रस्यापि " मन्त्रार्धगेऽग्रतः साध्यं पल्लवं तद्विपर्ययात् " इति ।
योगपल्लवयोरन्यत्रापि विनियोग उक्तः ।
यदाहुः—- शान्तिके पौष्टिके दिव्ये प्रायश्चित्तविशोधने ।
मोहने दीपने योगं प्रयुञ्जन्ति मनीषिणः ॥
मारणे विषनाशे च ग्रहभूतविनिग्रहे ।
उच्चाटने च विद्वेषे पल्लवः सम्प्रचक्षते ॥ इति ॥
अन्यत्र विशेषः—- अर्द्धार्द्धनादितोऽन्ते च मन्त्रं कुर्याद्विचक्षणः ।
मध्ये चाऽस्य भवेत् सञ्ज्ञा ग्रस्तं तत् समुदाहृतम् ॥
अभिचारादिसर्वेषु योजयेन् मारणादिषु ।
अभिधानं लिखेत् पूर्वं मध्ये वापि महामते ॥
मन्त्रमेवं द्विधा कृत्वा समस्तमभिधीयते ।
द्वेषोच्चाटनकार्येषु योजयेदविशङ्कितः ॥
अर्द्धार्द्धेनादितोऽन्ते च मन्त्रं कुर्याद्विचक्षणः ।
मध्ये चान्ते च साध्याख्या मन्त्रिणा क्रियते यदा ॥
आक्रान्तं तद्भवेन् मन्त्रं सदा सर्वार्थसिद्धिदम् ।
अत्रार्द्धार्द्धीकरणे विषमाक्षरे पूर्वमधिकमन्ते न्यूनञ्चेति साम्प्रदायिकाः ।
स्तम्भस्तोभसमावेशवश्योच्चाटनकर्मणि ॥
सकृत् पूर्वं लिखेन् मन्त्रमन्ते चैव त्रिधा पुनः।
मध्ये चैव भवेत् सञ्ज्ञा आद्यन्तमिति तद्विदुः ॥
परस्परप्रीतियुजोवीद्वेषजननं परम् ।
आद्यन्तं च तथा चार्द्धं त्रिधा मन्त्रं समालिखेत् ॥
साध्यनाम सकृन् मध्ये तं विदुः सर्वतोमुखम् ।
सर्वेपद्रवशमनं महामृत्युविनाशनम् ॥
सर्वसौभाग्यजननं मृतानाममृतप्रदम् ॥ इति ।
पिङ्गलामते अन्यान्यप्युक्तानि—-
ततश्च शृङ्खलां सूची नाराचः क्रकचोऽशनिः ।
भुशुण्डी मुद्गरश्चक्रं कर्त्तरी मुशलाम्बुजे ॥
टङ्कशूलासिशक्तींश्च मन्त्रकर्मणि चादिशेत् ।
षडादौ षट् पुनश्चान्ते मन्त्रवर्णास्तदन्तरे ॥
साध्यनामेति सम्प्रोक्ता शृङ्खलान्येष्वयं क्रमः ।
रसा६ग्नी३न्द्रा१४श्व७कामा१३हो१५वेदा४र्का१२क्षी२षु५राजभिः१६।
रुद्रा११ष्टा८ङ्क९ककुब्१०वर्णैः शृङ्खलादीन्यनुक्रमात् ॥
बन्धभेदरिपुध्वंसच्छेदसन्धिविभेदने ।
सैन्यभञ्जनविद्वेषमन्त्रच्छेदनचालने ॥
मारणे सर्वकार्येषु घातस्तम्भनकर्षणे (कारणे) ।
शृङ्खलादीनि वेद्यानि साध्यमन्त्रार्णयोगतः ॥
इति ॥ १४१-१४२ ॥
य(म)न्त्राणां लेखनद्रव्यं चन्दनं रोचना निशा ।
गृहधूमचिताङ्गारौ मारणेऽष्ट विषाणि च ॥ १४३ ॥
श्येनाग्निलोणपिण्डानि धत्तूरकरसं ततः ।
गृहधूमस्त्रिकटुकं विषाष्टकमुदाहृतम् ॥ १४४ ॥
चन्दनमित्यादिक्रमेण शान्त्यादौ अयं विशेषः ।
वक्ष्यमाणं सामान्यमपि ज्ञेयम् ।
मारणव्यतिरेकेण ।
श्येनेति ।
श्येनः श्येनविष्ठा ।
अग्निश्चित्रकः ।
लोणपिण्डं लोणमलम् ।
त्रिकटुकं शुण्ठीपिप्पलीमरीचानि ।
पिङ्गलामते—-लेखनीविशेषोऽप्युक्तः—-
दूर्वामयूरपिच्छाग्निबिभीतकनरास्थिजा ।
विषाङ्गारत्रिलोहोत्था हेमरूप्यार्कसम्भवा ॥
लेखनी वश्य आकृष्टौ सन्तापे स्तम्भमारणे ।
सर्वेपद्रवनाशाय शान्तौ पुष्टौ च जातिजा ॥ इति ॥
अन्यत्रापि—- लेखन्या विलिखेद्यन्त्रं वश्ये दूर्वाङ्कुरोत्थया ।
आकर्षे शिक्षिपिच्छोत्था सङ्कोचे मुनिसम्भवा ॥
हेमजा रौप्यजा वान्या सर्वरक्षाऽपि सा प्रिये ।
करञ्जाख्यमयी वाथ मारणेऽपि नरास्थिजा ॥
स्तम्भकर्मणि विज्ञेया राजवृक्षसमुद्भवा ।
शान्तिके पौष्टिके चैव आयुः कर्मविधौ तथा ॥
सर्वापसर्गशमने कर्त्तव्या जातिसम्भवा ।
अपामार्गेद्भवा वापि शुभकर्मसु सिद्धिदा ॥
आसुरेषु च सर्वेषु शस्यते तीक्ष्णलोहजा ।
विष्ट्यङ्गारदिने घोरे यदि चोत्पादिता च सा ।
ज्वालखड्गसमा ज्ञेया सर्वभूतनिकृन्तनी ॥ इति ।
आधारविशेषोऽपि—-नारजे द्वीपिकृत्तौ वा लिखितं स्तम्भकृद्भवेत् ।
खरचर्मणि विद्वेषं तथैवोच्चाटनं ध्वजे ॥
वश्याकर्षणसिद्ध्यर्थं भूर्जपत्रे नियोजयेत् ॥ इति ।
कुण्डजपमालिके पूर्वेक्ते अनुसन्धेये ॥ १४३-१४४ ॥
देवताकालमुद्रादीन् सम्यक् ज्ञात्वा विचक्षणः ।
षट् कर्माणि प्रयुञ्जीत यथोक्तफलसिद्धये ॥ १४५ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
त्रयोविंशः पटलः समाप्तः॥ २३ ॥
ब्थ् " बि
उपसंहरति देवतेति ।
आदिशब्दः पूर्वमेव व्याख्यातः ।
इदं च काम्य- कर्मन्यासादिकं कृत्वा आत्मरक्षां च कृत्वा अन्यत् सर्वं कुर्यात् ।
यतः काम्यकर्मरतस्य देवाद्यैरभिभवसम्भवात् ।
यदाहुः—-
काम्यकर्मप्रसक्तस्य शुभस्याऽप्यशुभस्य च ।
अरित्वं भजते मन्त्रः सिद्धत्वं तद्विपर्ययात् ॥ इति ॥ १४५ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां त्रयोविंशः पटलः ॥ २३ ॥
ब्थ् " बि