अथ द्वाविंश पटलः
अथो दिनास्त्रं कृत्यास्त्रं वक्ष्ये शत्रुविमर्दनम् ।
अतिदुर्गामनुं प्राहुदीनास्त्रं मन्त्रवित्तमाः ॥ १ ॥
अथो इति ।
अतिदुर्गामनुः पूर्वेक्तः ॥ १ ॥
प्रतिलोममिमं मन्त्रं कृत्यास्त्रं परिचक्ष्यते ।
दिनास्त्रस्य षडङ्गादीन् प्रतिलोमोदितान् विदुः ॥ २ ॥
इममतिदुर्गामनुम् ।
षडङ्गादीनित्यादिशब्देनाऽक्षरपदन्यासावुभयत्र ।
अनुलोमो- दितान् जातवेदसे इत्यत्रोक्तान् ।
जातवेदसे ह्राङाद्यन्तैरिति सम्प्रदायात् ।
तदुक्तम्—- मनोराद्यपदेनैव षट्पदानि च पूर्ववत् ।
ह्राङाद्यन्तेन तानि स्युरतिदुर्गामनोरपि ॥ इति ॥
आचार्या अपि—-अनुलोमजपेऽङ्गानामपि पाठोऽनुलोमकः ।
इति ।
पद्मपादा- चार्यैर्व्याख्यातम् अपिशब्दात् पदाक्षरयोरपीति ।
प्रतिलोमोदितानित्याग्नेयास्त्रोक्तान् ।
तदुक्तम्—- शैलाहिलोकाङ्गमुनिरससङ्ख्याक्षरैः क्रमात् ।
मनोरन्तविलोमस्य षडङ्गान्यपि कल्पयेत् ॥ इति ॥
आचार्याश्च—- प्रतिलोमानि तानि स्युः प्रतिलोमविधौ तथा ।
इति ।
अत्रापि तथेति पूर्ववत् पद्मपादाचार्यैर्व्याख्यातम् ।
अनयोर्ध्यानं यथा—-
उद्यानमध्ये पूर्वेक्तसिंहस्कन्धोपरिस्थिताम् ।
कालमेघनिभामुग्रां सर्पभूषणभूषिताम् ॥
शूलं खड्गं कुठारं च खर्पखेटकतर्जनीः ।
दधानां दक्षिणान्यैः स्वैः करदण्डैरितस्ततः ।
अतिदुर्गामनोर्मूत्तीं धावमानां विचिन्तयेत् ॥ इति ॥
वरदारिदराभीति पाणिपद्मैवीराजिताम् ।
तामन्तप्रतिलोमाख्यां सिंहस्थां चिन्तयेत् समाम् ॥ इति ।
पुरश्चरणं तु जातवेदोमन्त्रपुरश्चरणेनैव ज्ञेयम् ॥ २ ॥
भानुविम्बगतं शत्रुमधोवक्त्रं विषाहतम् ।
मूलादुत्थितया ग्रस्तं कुण्डल्या भावयेत् सुधीः ॥ ३ ॥
विषाहतमिति ।
भानुरथगत-सर्पविषैराहतमित्यर्थः ॥ ३ ॥
मूलाधारे क्षिपेत्सद्यः प्रस्फुरत्कालपावके ।
दिनत्रयात् ज्वराक्रान्तो रिपुः प्राणान् विमुञ्चति ॥ ४ ॥
मूलाधारे गुदमेढ्रान्तरालदेशे ।
प्रस्फुरत्कालपावक इति ध्यानम् ॥ ४ ॥
दिनास्त्रेण प्रविद्धाङ्गं स्वाधिष्ठानगतं रिपुम् ।
पञ्चवायुसमिद्धेन वह्निना दग्धविग्रहम् ॥ ५ ॥
ध्यायन्मनुं जपेत् सद्यः स भवेद्यमवल्लभः ।
स्वाधिष्ठानं लिङ्गोपरिदेशः ॥ ५-६ ॥
मणिपूरगतं शत्रुमग्निना दीप्तविग्रहम् ॥ ६ ॥
ध्यायन् दिनास्त्रं प्रजपेत् स मृत्युवशतां व्रजेत् ।
मणिपूरकं नाभिस्थानम् ॥ ६-७ ॥
अनाहताहितः शत्रुर्निर्दग्धो मन्त्रवह्निना ॥ ७ ॥
पाशेन बद्ध्वा शीघ्रेण नीयते यमकिङ्करैः ।
अनाहतं हृदयम् ॥ ७-८ ॥
विशुद्धस्थानगो वैरी दिनबाणेन पीडितः ॥ ८ ॥
अधोमुखः स्मृतस्तूर्णं निरायुः स्याद्दनत्रयात् ।
विशुद्धिः कण्ठः ॥ ८-९ ॥
आज्ञायां निहितं शत्रुं दहेत् ज्ञानाग्निना धिया ॥ ९ ॥
पुत्रमित्रकलत्रादीन् हित्वा मृत्युमुपाश्रयेत् ।
नाभिमात्रोदके स्थित्वा ध्यायन् विम्बे दिनेशितुः ॥ १० ॥
दिनबाणेन दिनास्त्रेण ।
आज्ञा भ्रूमध्यम् ।
मन्त्रमिति ॥ ९-१० ॥
वैरिणं दग्धसर्वाङ्गं मन्त्रमष्टोत्तरं शतम् ।
जपेत् सप्तदिनादर्वाग्यमलोकं स गच्छति ॥ ११ ॥
जपेदित्यनेन सम्बध्यते ॥ ११ ॥
व्यारवारं समारभ्य सप्ताहं प्रजपेन्मनुम् ।
सूर्येदयं समारभ्य यावदस्तमयो भवेत् ॥ १२ ॥
सन्निपातज्वराविष्टो यमग्रस्तो भवेदरिः ।
आरो भौमः ।
प्रजपेदिति ॥ १२-१३ ॥
स्थित्वा दुर्गालये मन्त्री त्रिरात्रं वजीताशनः ॥ १३ ॥
दिनबाणेन विद्धाङ्गं वैरिणं प्रविचिन्तयेत् ।
जपेन्मनुमिमं शत्रुर्ज्वरितो मरणं व्रजेत् ॥ १४ ॥
पूर्ववदरिं ध्यायन् ॥ १३-१४ ॥
स्पृष्ट्वा(स्मृत्वा) दुर्गां जपेन्मन्त्रमनश्नंस्त्रिदिनं स्मरन् ।
शूलप्रोतं निजरिपुं दिनास्त्रेण प्रदीपितम् ॥ १५ ॥
ज्वरेण महताऽऽविष्टो जायतेऽसौ यमातिथिः ।
रविमण्डलगं शत्रुं दष्टं तद्रथपन्नगैः ॥ १६ ॥
विषाग्निदग्धसर्वाङ्गं ध्यायन्नुष्णेन वारिणा ।
तर्पयेद्दनबाणेन स्यादसौ यमवल्लभः ॥ १७ ॥
रविविम्बादागतया ज्वालया ग्रस्तविग्रहम् ।
रिपुं ध्यात्वा जपेन्मन्त्रं स क्रीडति यमान्तिके ॥ १८ ॥
विषाग्नीति ।
विषं तद्रथपन्नगसम्भूतमेव ॥ १५-१८ ॥
ग्रहयुक्तार्कविम्बस्थं विद्धं मन्त्रमयैः शरैः ।
प्रतिबध्य निजं शत्रुं जपेदयुतमस्त्रवित् ॥ १९ ॥
रिपुं नयति शीघ्रेण यमदूतो यमालयम् ।
ग्रहयुक्तो राहुग्रस्तः ।
प्रतिबध्य ध्यात्वेत्यर्थः ॥ १९-२० ॥
प्रलयानलसङ्काशां कालरात्रिमिवाऽपराम् ॥ २० ॥
शूलपाशधरां घोरां सिंहस्कन्धनिषेदुषीम् ।
सवितुर्मण्डलान्तःस्थां रक्तनेत्रत्रयोद्गतैः ॥ २१ ॥
विस्फुलिङ्गैर्निर्दहन्तीं रिपुमाकुलविग्रहम् ।
स्पष्टदंष्ट्राधरां नृत्यद्भृकुटीभीषणाननाम् ॥ २२ ॥
तर्जयन्तीं निजं शत्रुं तर्जन्या भीमरूपया ।
दंष्ट्रामयूखजालेन द्योतयन्तीं दिगन्त(म्ब)रम् ॥ २३ ॥
शूलेन वैरिणो वक्षो दारयन्तीं भयङ्करीम् ।
जपेद्दनत्रयं मन्त्री मारयेद्रिपुमात्मनः ॥ २४ ॥
अस्त्रमन्त्रकृतन्यासः प्रलयाग्निसमप्रभाम् ।
रक्तवस्त्रधरां क्रुद्धां रक्तनेत्रत्रयान्विताम् ॥ २५ ॥
सिंहाधिरूढां धावन्तीं धावमानं रिपुं प्रति ।
खड्गेन तच्छिरश्छित्वा क्षणाद्व्योमस्थलीं गताम् ॥ २६ ॥
ध्यात्वा दुर्गां जपेन्मन्त्रं त्रिदिनं वजीताशनः ।
अनेनैव विधानेन रिपुर्मृत्युप्रियो भवेत् ॥ २७ ॥
प्रलयानलेत्यादि भयङ्करीमित्यन्तस्य ध्यात्वेति शेषः ॥ २०-२७ ॥
कर्माण्येतानि कुर्वीत दिवसे न तु रात्रिषु ।
पश्चिमामुखलिङ्गस्य सजीवं महिषं पुरः ॥ २८ ॥
निखा(धा)य तस्य शिरसि कुण्डं कृत्वा त्रिकोणकम् ।
तस्मिन् समेधिते वह्नौ यथावद्देशिकोत्तमः ॥ २९ ॥
सत्रिकोणान् समन्त्रार्णान् साध्यनामसमन्वितान् ।
अजारक्तेन संसिक्तान् कारस्करसमिद्वरान् ॥ ३० ॥
सहस्रं जुहुयाद्देवीं ध्यात्वा सवितृमण्डले ।
प्रलयाग्निसमां घोरां द्वात्रिंशद् भुजशोभिताम् ॥ ३१ ॥
उद्यदायुधसन्दीप्तां नृत्यन्तीं सिंहमस्तके ।
महादंष्ट्रां महाभीमां ज्वलत्केशीं नदन्मुखीम् ॥ ३२ ॥
रक्तान्त्र(र्र्द्र)मांसवदनां घूणीतोग्रत्रिलोचनाम् ।
अनेन विधिना शत्रुर्महाज्वरनिपीडितः ॥ ३३ ॥
विमुञ्चति निजं देहं पुत्रमित्रादिभिः सह ।
पश्चिमामुखेति ।
शिवालयद्वारस्य पश्चिममुखता ।
केचित् स्थावरलिङ्गस्य पश्चिमामुखतामाहुः ।
एष एव साम्प्रदायिकः पक्षः ।
सत्रिकोणानिति ।
लिखित- त्रिकोणान् ।
समन्त्रार्णानिति ।
पल्लवरीत्या ॥ २८-३३ ॥
ऊर्ध्वमुष्णाम्भसो मन्त्री लम्बयित्वा भुजङ्गमम् ॥ ३४ ॥
भानुविम्बगतां दुर्गां सहस्रादित्यसन्निभाम् ।
सहस्रपाणिचरणां सहस्राक्षिशिरोमुखीम् ॥ ३५ ॥
सहस्रनागबद्धाङ्गीं त्रासयन्तीं जगत्त्रयम् ।
ध्यायन्ननेन सर्पास्ये तर्पयेदुष्णवारिणा ॥ ३६ ॥
संयतः कालपाशेन वैरी मुञ्चेत् स्वजीवितम् ।
मध्याह्नार्कयुतप्रख्यां नदन्तीं नरसिंहवत् ॥ ३७ ॥
घोर सिंहसमासीनां महाभीषणदर्शनाम् ।
शूलप्रोताहितां ध्यायन् जपन्मन्त्रमनन्यधीः ॥ ३८ ॥
तर्पयेदुष्णतोयेन सर्पवक्त्रे दिनत्रयम् ।
यमस्य भवनं गच्छेदरातिर्नात्र संशयः ॥ ३९ ॥
भुजङ्गममिति ।
जीवन्तं कृष्णम् ।
अधोमुखम् ।
अनेनास्त्रमन्त्रेण ।
तर्पयेदिति ।
कारस्करदर्व्या ।
अनन्यधीरित्यनेन तयैव तर्पणमित्युक्तम् ॥ ३४-३९ ॥
ऋक्षवृक्ष प्रतिकृतिं प्रतिष्ठितसमीरणाम् ।
उष्णोदके विनिक्षिप्य विषाढ्ये विधिना ततः ॥ ४० ॥
अर्केन्द्वनलसङ्काशां खड्गखेटकधारिणीम् ।
नयनत्रयनिर्गच्छद्विस्फुलिङ्गशताकुलाम् ॥ ४१ ॥
सिंहस्थां सर्पभूषाढ्यां त्रैलोक्यभयदायिनीम् ।
खड्गकृत्ताहितां ध्यायन् प्रजपेदयुतं मनुम् ॥ ४२ ॥
विधानेनाऽमुना शत्रुर्ग्रस्तो भवति मृत्युना ।
प्रकल्प्या दुर्गायतने त्रिकोणं कुण्डमुत्तमम् ॥ ४३ ॥
तत्र सञ्ज्वलिते वह्नौ महिषीशकृता कृतीम् ।
पुत्तलीमजरक्ताक्तां प्रतिष्ठितसमीरणाम् ॥ ४४ ॥
छित्वा छित्वा प्रजुहुयादजरक्तान्वितां निशि ।
ध्यात्वा दुर्गां प्रनृत्यन्तीं महिषोरःस्थलान्तरे ॥ ४५ ॥
शूलेन महिषस्याऽङ्गं भिन्दन्तीं घोरदर्शनाम् ।
अट्टाहसैरजस्रोत्थैर्भीषितासुरसैनिकान् ॥ ४६ ॥
प्रलयानलसङ्काशां भ्रमन्नेत्रत्रयान्विताम् ।
सन्दष्टाधरसम्भिन्नां दंष्ट्राभीममुखाम्बुजाम् ॥ ४७ ॥
खड्गखेटकयुक्ताभिः कन्यकाभिः समावृताम् ।
अनेन विधिना शत्रुः प्रयाति यमसन्निधिम् ॥ ४८ ॥
दिनास्त्रमेवं कथितं शत्रुनिग्रहकारकम् ।
कृत्यास्त्रदेशितान् कुर्यात् प्रयोगान् मन्त्रवित्तमः ॥ ४९ ॥
विधिना मनुं प्रजपेदित्यन्वयः ।
विधिः पल्लवेन नामयोगः ।
खड्गेन कृत्तः छिन्नः आहितः शत्रुर्थयेति ॥ ४०-४९ ॥
आधारादुद्गतां देवीं कुण्डलीं सर्प(र्व) रूपिणीम् ।
तां ब्रह्मरन्ध्रमार्गेण यातां व्योमस्थलीं ततः ॥ ५० ॥
मुखेन शत्रुमादाय निवृत्तां स्वगृहं प्रति ।
ज्वलत्कालानलोद्दीप्तां विचिन्त्य प्रजपेन्मनुम् ॥ ५१ ॥
सप्तभिर्वासरैः शत्रुर्मृत्युं प्राप्नोति मोहितः ।
अङ्गङ्गारवारे चित्यग्नौ सर्षपस्नेहलोलितम् ॥ ५२ ॥
सिद्धार्थकुडवं जप्तं जुहुयात्पक्षमात्रतः ।
कृत्यास्त्रज्वालया दग्धो रिपुर्यमपुरं व्रजेत् ॥ ५३ ॥
चतुर्दश्यामर्द्धरात्रे चितास्थीन्यस्त्रसाधकः ।
व्रणतैलविलिप्तानि चिताग्नौ जुहुयात्ततः ॥ ५४ ॥
अनेन विधिना शत्रुर्मृत्युमेष्यति कातरः ।
चित्यग्नाविति ।
कुण्डस्थापिते यथोक्तसंस्कारसंस्कृते ।
व्रणतैलं भल्लात- तैलम् ॥ ५०-५५ ॥
तुषास्थिनिमीतां शत्रोर्व्रणतैलपरिप्लुताम् ॥ ५५ ॥
प्रतिमां स्थापितप्राणां जुहुयान्निशि साधकः ।
छित्वा छित्वाऽजरक्तेन सप्ताहान् मिरयते रिपुः ॥ ५६ ॥
तुषा धान्यस्य ।
अस्थीति मनुष्यास्थीनि ।
एतदुभयमेकीकृत्य प्रतिमां कुर्यात् ॥ ५५-५६ ॥
श्मशानबालुकाः स्पृष्ट्वा साक्षता नियुतं जपेत् ।
विकिरेत्तास्तडागादौ कृत्यास्त्रक्वथितं जलम् ॥ ५७ ॥
तदीयं पीतमचिरान्निहन्ति सकलान् जनान् ।
कृष्णाङ्गारचतुर्दश्यां प्रजप्तैः प्रेतभस्मभिः ॥ ५८ ॥
महिषाज्येन लुलितास्तन्मन्त्राक्षरसङ्ख्यया ।
निर्माय गुटिका एताः सम्यग्जप्तसमीरणाः ॥ ५९ ॥
चितिकाष्ठैधिते वह्नौ जुहुयाद्दृढमानसः ।
चतुर्दशीत्रयादर्वाक् शत्रुर्मृत्युवशो भवेत् ॥ ६० ॥
कृत्यास्त्रक्वथितमिति ।
तडागादौ सिकताप्रक्षेपेण ॥ ५७-६० ॥
श्मशानभस्मसिद्धार्थान् पञ्चगव्ये विनिक्षिपेत् ।
माहिषे संस्मरेद्देवीं कालाग्निसदृशप्रभाम् ॥ ६१ ॥
भर्जयेत् प्रजपन्मन्त्रं विषकाष्ठैधितानले ।
दुर्गागारे प्रजुहुयादनेनाऽयुतमस्त्रवित् ॥ ६२ ॥
पुनरादाय तद्भस्म सेनायां वैरिणः क्षिपेत् ।
सा सेना बहुधा भिन्ना ज्वररोगविमोहिता ॥ ६३ ॥
आयुधानि परित्यज्य युद्धकाले पलायते ।
गेहग्रामादिषु क्षिप्तं कुर्यादुच्चाटनं क्षणात् ॥ ६४ ॥
माहिषे पञ्चगव्ये प्रयोग उपचारात् ॥ ६१-६४ ॥
सप्तवारेषु कुलिके दुर्गावेश्मसु शर्कराः ।
सप्त माहेन्द्रदिग्वर्जं गृहीत्वा प्रजपेन्मनुम् ॥ ६५ ॥
महिषीपञ्चगव्येन भर्जयेत्ता यथा पुरा ।
भूयो जपित्वा विकिरेद् गेहग्रामपुरेष्विमाः ॥ ६६ ॥
स देशो नश्यति क्षिप्रं दग्धो मन्त्रभवाग्निना ।
सप्तवारेष्विति ।
सप्तवाराणामपि कुलिका मया एकादशे उक्ताः ।
तत्र प्राचीवर्जं दुर्गालयाग्नेयादिसप्तस्थानशर्करासु एकैकां शर्करां क्रमात् प्रत्यहं रव्यादेः कुलिके
गृहीत्वा सप्तमेऽहनि सर्वा एकीकृत्य स्पृष्ट्वा प्रजपेत् ।
यथा पुरेति ।
विषकाष्ठाग्नौ विषकाष्ठदर्व्या भर्जयेत् ॥ ६५-६७ ॥
ब्रह्मदण्डीं मर्कटिकां करक्रोशनिकां त्रयम् ॥ ६७ ॥
भौमवारस्य कुलिके गृहीत्वा प्रजपेन्मनुम् ।
चतुर्दश्यां रिपोर्गेहे निखनेत् प्रजपन्मनुम् ॥ ६८ ॥
सार्द्धं पुत्रकलत्राद्यैरुत्सादो जायते रिपोः ।
एकैकं वा खनेन्मन्त्री मण्डलात् तत्फलं भवेत् ॥ ६९ ॥
मर्कटी कपिकच्छ्रः ।
करक्रोशनिकां वज्रदण्डः ।
उत्सादः पुनरप्यागमनं यथा न भवति तथा उच्चाटनम् ॥ ६७-६९ ॥
षड्बिन्दुषट्कं पुत्तल्यां निखनेदोदनान्वितम् ।
स्पृष्ट्वा तां प्रजपेदस्त्रं कृष्णाष्टम्यां निशार्द्धतः ॥ ७० ॥
शत्रुनामसमायुक्तं श्मशाने निखनेदिमाम् ।
प्रणश्येत् स रिपुः शीघ्रं सकुटुम्बः सबान्धवः॥ ७१ ॥
षङ्बिन्दुषट्कमिति ।
षड्बिन्दुः कीटविशेषः ।
स च प्रथमजलपाते उत्पद्यते ।
तस्य पञ्चकुष्ठ इति नामान्तरम् ।
तस्य पञ्च बिन्दवः श्वेता भवन्ति ।
एकबिन्दुः भिन्नवर्णः ।
तदुक्तं नीतिनिर्णीतादौपनिषदोः—-
पञ्चकुष्ठस्य कीटस्य पञ्च स्युः श्वेतबिन्दवः ।
भिन्नवर्णस्तथा चैकः सुस्निग्धश्चैव वर्णतः ।
भवेत् स जलदारम्भे षड्बिन्दुरिति कीत्तीतः ॥ इति ।
पुत्तल्यामिति ।
तज्जन्मर्क्षवृक्षोद्भवायाम् ।
शत्रोर्नामसंयुक्तम् अस्त्रमस्त्रमन्त्रं प्रजपेदित्यन्वयः ।
तत्र योगः पल्लवरीत्या ।
क्वचित् समायुक्तामिति पाठः ।
तदा पुत्तलीविशेषणम् ॥ ७०-७१ ॥
कपालशकलान् मन्त्री कृत्यास्त्राक्षरसङ्ख्यकान् ।
स्पृष्ट्वा तान् प्रजपेदस्त्रं प्राणस्थापनपूर्वकम् ॥ ७२ ॥
कृष्णाङ्गारचतुर्दश्यां श्मशाने विषवृक्षजे ।
जुहुयादजरक्ताक्तान् कृत्यास्त्रज्वालया ततः ॥ ७३ ॥
रिपुर्यमपुरं गच्छेन्महाज्वरविमोहितः ।
कपालशकलान् अजरक्ताक्तान् श्मशाने जुहुयादिति सम्बन्धः ।
संस्पृश्येति ।
तानेव ।
विषवृक्षज इति ।
विषकाष्ठैधिते अग्नाविति शेषः ॥ ७२-७४ ॥
अजरक्तेन सम्पूर्णे कलशे निक्षिपेदहिम् ॥ ७४ ॥
कपालेन पिधायैनं छादयेद्रक्तवाससा ।
पूजयेद्रक्तपुष्पाद्यैः स्पृष्ट्वा तमयुतं जपेत् ॥ ७५ ॥
भौमवारे निशामध्ये कारस्करसमेधिते ।
श्मशानवह्नौ जुहुयाद् गच्छेद्यमपुरं रिपुः ॥ ७६ ॥
अहिमिति ।
जीवन्तं कृष्णम् ।
एनं घटम् ।
तं घटं शत्रुरूपम् ॥ ७४-७६ ॥
साध्यनक्षत्रवृक्षेण कृत्वा कुम्भं प्रपूरयेत् ।
माहिषैः पञ्चगव्यैस्तं विडालं तत्र निक्षिपेत् ॥ ७७ ॥
जपपूजादिकं सर्वं यथापूर्वं समाचरेत् ।
कारस्करभवे वह्नौ कृत्यास्त्रेण समेधिते ॥ ७८ ॥
अयुतं व्रणतैलेन हुत्वाऽन्ते तं घटं पुनः ।
आमस्तकं समुद्धृत्य जपेन्मन्त्रमनन्यधीः ।
जुहुयाद्विधिनाऽनेन त्रिदिनैमिर्रयते रिपुः ॥ ७९ ॥
सुन्दरं महिषीवत्समेकरात्रमुपोषितम् ।
पाययन् महिषीसपीः प्रस्थं मन्त्रेण मन्त्रितम् ॥ ८० ॥
कुशैरावद्धसर्वाङ्गं स्थापितप्राणमञ्जसा ।
कारस्करैधिते वह्नौ व्रणतैलेन मन्त्रवित् ॥ ८१ ॥
होमं कृत्वाऽयुतं वत्सं जुहुयाद्यतमानसः ।
एकेन दिवसेनाऽरिर्गच्छेद्यमपुरं प्रति ॥ ८२ ॥
विडालं कृष्णम् ।
जपपूजादिकमिति आदिशब्देन कपालेन पिधानं रक्त- वस्त्राच्छादनं च ।
कारस्करभवे कारस्करकाष्ठैधिते ।
वह्नौ श्मशानाग्नौ ।
व्रणतैलेन भल्लाततैलेन ।
अनन्यधीरित्यनेन पूर्वघटहोमेऽपि अयं होम इत्युक्तम् ॥ ७७-८२॥
त्रिकोणकुण्डनिहिते वह्नौ मन्त्रेण दीपिते ।
आचीते गन्धपुष्पाद्यैरयुतं जुहुयात् क्रमात् ॥ ८३ ॥
राजिभल्लातकतिलतैलैः सप्तदिनं ततः ।
प्रसूतिसमयप्राप्तां महिषीं स्थापितानिलाम् ॥ ८४ ॥
पूजितां गन्धपुष्पाद्यैः स्पृशन् कूर्चेन तां जपेत् ।
मस्तकाद्योनिपर्यन्तं धिया वत्समनुस्मरन् ॥ ८५ ॥
आकृष्य हस्ते पतितं जुहुयादेधितेऽनले ।
एवं कृते समुत्पन्ना कृत्या दीप्ता हुताशनात् ॥ ८६ ॥
भक्षयेदचिराच्छत्रुमीश्वरेणाऽपि रक्षितम् ।
पुनरग्नौ विशत्येषा कर्तारमपि काङ्क्षिणी ॥ ८७ ॥
एवंविधानि कर्माणि यः कुर्यान्मन्त्रवित्तमः ।
स जपेदात्मरक्षार्थं मन्त्रान् मृत्युञ्जयादिकान् ॥ ८८ ॥
क्रमादिति प्रत्येकमयुतहोमः ।
तैलशब्दः प्रत्येकमभिसम्बध्यते ।
स्थापितानिलां प्रतिष्ठितप्राणाम् ।
हस्ते पतितमिति ।
भुवमस्पृष्टम् ।
जुहुयादिति ।
शत्रुबुद्ध्या ।
कर्त्तारमपि काङ्क्षिणीत्युक्तेस्तद्रक्षामाह स जपेदिति ॥ ८३-८८ ॥
अथो लवणमन्त्रस्य विधानमभिधीयते ।
ऋगाद्या कथिता पूर्वं लवणाम्भसिपूवीका ॥ ८९ ॥
लवणाम्भसि तीक्ष्णोऽसि उग्रोऽसि हृदयं तव ।
लवणस्य पृथ्वी माता मन्त्रस्य वरुणः पिता ॥ ९० ॥
लवणे हूयमाने तु कुतो निद्रा कुतो रतिः ।
लवणं दहति पचति पाचयति लवणं छिन्दति भिन्दति ॥९१ ॥
अमुकस्य दह गात्राणि दह मांसं दह त्वचम् ।
दह त्वगस्थिमज्जानि अस्थिभ्यो मज्जिकां दह ॥ ९२ ॥
यदि वसति योजनशते नदीनां वा शतान्तरे ।
नगरे लोहप्राकारे कृष्णसर्पशतार्गले ॥ ९३ ॥
तं दग्ध्वा नय मे शीघ्रमग्रे लोणस्य तेजसा ।
तत्रैवं वशमायातु लवणमन्त्रपराक्रमः ॥ ९४ ॥
या ते रात्रिः शल्यविद्धस्य शूलाग्रारोपितस्य च ।
या ते रात्रिर्महारात्रिः सा ते रात्रिर्महानिशा ॥ ९५ ॥
लवणादि द्वितीयाऽन्या दहाद्या परिकीत्तीता ।
तं दग्ध्वाऽन्या चतुर्थी स्याद्यातेपूर्वाऽथ पञ्चमी ॥ ९६ ॥
अङ्गिरा मुनिराख्यातश्छन्दोऽनुष्टुबुदाहृतम् ।
अग्नी रात्रिः पुनर्दुर्गा भद्रकाली च देवताः ॥ ९७ ॥
लवणमन्त्रविधानमाह अथो इति ।
लवणादिद्वितीयेत्यत्र आकारे परे एचोय- वायाव इति आयिकृते यकारलोपे च छान्दसत्वात् सन्धिः कृतः ।
प्रातिपदिक- मात्रस्य लवणशब्दस्य वा ग्रहणम् ।
तेन लवणे इत्याद्या द्वितीया ।
तदुक्तमाचार्यैः—- " द्वितीया लवणे " इति ।
अन्या तृतीया ।
एवमृक्पञ्चकं चिटिमन्त्रसहितमेका विद्या ।
प्रणवपाशादि त्र्यक्षरादित्वम् ।
वाय्विन्द्रामृतबीजादित्वं च सम्प्रदायात् ज्ञेयम् ।
पद्मपादाचार्येक्तो मन्त्रोद्धारो यथा—-
पृथिवीमुदकं चोक्त्वा(लव)णाम्भसीति ततः परम् ।
तीक्ष्णोऽस्युग्रोऽसि हृदयं तवेति लवणस्य गीः ॥
पृथिवीति च माता लवणस्य वरुणः पिता ।
प्रथमेयं द्वितीयाया लवणे इत्युपक्रमः ॥
हूयमाने त्विति कुतो निद्रेति च कुतो रतिः ।
लवणं पचतीत्युक्त्वा तथा पाचयतीति च ॥
लवणं छिन्दतीत्युक्त्वा भिन्दतीति च भाष्यताम् ।
अमुकस्य दह गात्राणि दह मांसं दह त्वचम् ॥
दहेति च तृतीयाया भवेट्टच उपक्रमः ।
त्वगस्थिमज्जानीत्यस्थिभ्योशब्दं मज्जिकां दह ॥
(क्वचित्पुस्तके त्वगसृङ्मांसमेदोऽस्थिभ्यो शब्दमिति पाठः ।
)
ततो यदीति सम्भाष्य वसतीति पदं वदेत् ।
योजनेति शते वर्णान्नदीनां वा शतान्तरे ॥
तं दग्ध्वेति चतुर्थ्यादौ नय मे शीघ्रमित्यतः ।
अग्रे इत्येतदन्ते स्याल्लवणस्येति तेजसा ॥
नगरे लोहवर्णाः स्युः प्राकारे कृष्णवर्णकाः।
सर्पेत्यन्ते कृतार्गेतिले अत्रैव वशाक्षराः ॥
माया त्विति स्याल्लवणमन्त्रवर्णाः पुरस्कृताः ।
या ते रात्रिः शल्यविद्धस्य शूलाग्रारोपितस्य च ॥
या ते रात्रिरिति प्रोक्त्वा महारात्रिरितीरयेत् ।
सा ते रात्रिर्महेत्युक्त्वा निशेत्येवं तु पञ्चमी ॥ इति ॥
टीकान्तरेऽपि—- माता स्याल्लवणस्येतत् वरुणः स्यात्पिता तथा ।
द्वितीया लवणे प्रोक्ता ।
इति ।
तथा—- प्रवदेदमुकस्याऽन्ते दह गात्राणि पञ्चकम् ।
दह मांसं दहेत्युक्त्वा त्वचमुक्त्वा समापयेत् ॥
तृतीयाऽथ दह प्रोक्त्वा त्वगिति प्रवदेदतः ।
स्थिमज्जानीत्यतोऽस्थिभ्यो मज्जिकां स्याद्दहेति च ॥ इति ॥
तथा—- या ते रात्रिः स्वशूलान्ते भिन्नस्येत्यक्षरत्रयम् ।
शूलाग्रारोपितस्येति(स्यापि)चान्ते या ते इतीरयेत् ॥
रात्रिः स्याच्च महारात्रिर्या रात्रिरमुकं विना ।
इत्येवं पञ्चमी ऋक् स्यात् मन्त्रोऽयं प्रणवादिकः ॥ इति ॥
तथाऽत्राऽऽचार्यैः छन्दः कथनावसरे उक्तम्—-अङ्गिराः स्यादृषिश्छन्दो- ऽनुष्टुप्त्रिष्टुप् ।
इति ॥
मन्त्रमुक्तावलीमन्त्रदेवप्रकाशिकाकारादीनामिदमेव सम्मतम् ।
पद्मपादाचार्यैः बीजशक्ती उक्ते—-ह्रीं बीजं शक्तिरीरिता क्रोमित्येव च बीजं स्यादिति ।
तैरेव एतत्समफलं मन्त्रान्तरमुक्तम्—-
चिटीति शब्दं संवीप्स्य चित्कालिपदमीरयेत् ।
महाचित्कालिशब्दान्ते ह्रीं सवौषट् द्विठान्तिकः ॥
मन्त्रान्तरमिति ज्ञेयं मतं तुल्यफलं शिवे ॥ इति ॥ ८९-९७ ॥
चिटिमन्त्राक्षरैः कुर्यात् षडङ्गानि समाहितः ।
पञ्चभिर्हृदयं प्रोक्तं त्रिभिर्वर्णैः शिरः स्मृतम् ॥ ९८ ॥
पञ्चवर्णैः शिखा प्रोक्ता कवचं करणाक्षरैः ।
पञ्चभिर्नेत्रमुदितं युगलेनाऽस्त्रमीरितम् ॥ ९९ ॥
षडङ्गमाह—-चिटीति ।
समाहित इत्यनेन पञ्चग्भीः पञ्चाङ्गं वा कुर्यादित्युक्तम् ।
यदाहुराचार्याः—- ऋग्भिराभिस्तु पञ्चाङ्गं पञ्चभिर्वा समीरितम् ।
विद्याक्षरैः षडङ्गं वा प्रणवाद्यैर्निगद्यते ॥ इति ॥ ९८-९९ ॥
तारः चिटिद्वयं पश्चाच्चण्डालि तदनन्तरम् ।
महत्पदाद्यां तां ब्रूयादमुकं मे ततः परम् ॥ १०० ॥
वशमानय ठद्वन्द्वं चिटिमन्त्र उदाहृतः ।
चतुवींशत्यक्षरात्मा सर्वकामफलप्रदः ॥ १०१ ॥
चिटिमन्त्रमुद्धरति तार इति ।
महत्पदाद्यां तामिति महाचाण्डालि ।
अत्र आन्महत इत्यनेनाऽऽत्वम् ।
क्वच्चित्तु महापदाद्यामिति पाठः ।
तदुक्तम्—-
चाण्डालीति महेत्यक्त्वा चाण्डालीत्यभिमन्त्रयेत् ।
इति ॥ १००-१०१ ॥
नवकुङ्कुमसम्भिन्नं त्रिनेत्रं रुचिराकल्पशतं भजामि वह्निम् ।
स्रुवशक्तिवराभयानि दोभीर्दधतं रक्तसरोरुहे निषण्णम् ॥१०२॥
कालाम्बुवाहद्युतिमिन्दुवक्त्रां
हारावलीशोभिपयोधराढ्याम् ।
कपालपाशाङ्कुशशूलहस्तां
नीलाम्बरां यामवतीं नमामि ॥ १०३ ॥
कालाम्बुदाभामरिशङ्खशूल-
खड्गाढ्यहस्तां तरुणेन्दुचूडाम् ।
भीमां त्रिनेत्रां जितशत्रुवर्गां
देवीं स्मरेत् दुर्गतिभङ्गहस्ताम् ॥ १०४ ॥
टङ्क कपालं डमरुं त्रिशूलं
सम्बिभ्रती चन्द्रकलावतंसा ।
पिङ्गोर्ध्वकेशी सितभीमदंष्ट्रां
भूयाद्विभूत्यै मम भद्रकाली ॥ १०५ ॥
दक्षाद्यूर्ध्वयोराद्ये तदधस्तनयोरन्त्ये इत्यायुधध्यानम् अग्निध्याने ।
तदुत्तरं तु वामाधस्ताद्दक्षाधस्तनं यावत् ।
दुर्गाध्याने दक्षोर्ध्वाद्दक्षाधस्तनं यावदायुधध्यानम् ।
टङ्कः ।
परशुः ।
अन्त्ये दक्षाधस्ताद्दक्षोर्ध्वं यावत् ॥ १०२-१०५ ॥
ऋक्पञ्चकं जपेत्सम्यगयुतं तद्दशांशतः ।
हविषा घृतसिक्तेन जुहुयादचीतेऽनले ॥ १०६ ॥
सम्यगयुतमिति ।
चिटिमन्त्रसहितमृक्पञ्चकम् अयुतं जपेदित्यर्थः ।
तदुक्तमाचार्यैः—- अयुतं नियतो मन्त्री मन्त्रमृक्पञ्चकान्वितम् ।
प्रजपेत् त्रिसहस्रं वा सम्यगेनं समाहितः ॥ इति ॥
तन्त्रान्तरे तु विशेषः—-गङ्गादिमुख्यसरितां तीरदेशे समाश्रिते ।
स्वयमेव समुद्भूते दुर्गानिलयने वशी ॥
त्रिसहस्रं जपेदेतदथवाऽयुतसङ्ख्यया ।
पूर्वेक्तं चिटिमन्त्रं तु जपेत्तस्य चतुर्गुणम् ॥ इति ॥ १०६ ॥
एवं कृतपुरश्चर्यः प्रयोगे कुशलो भवेत् ।
अग्निर्यामवती ध्येयौ वश्याकर्षणकर्मणोः ॥ १०७ ॥
स्मरेद् दुर्गां भद्रकालीं मन्त्री मारणकर्मणि ।
जानुप्रमाणे सलिले स्थित्वा निशि जपेन्मनुम् ॥ १०८ ॥
अनेन वाञ्छितः साध्यः किङ्करो जायते क्षणात् ।
नाभिमात्रोदके स्थित्वा जपेन्मन्त्रमिमं सुधीः ॥ १०९ ॥
अष्टोत्तरसहस्रं यस्तस्य साध्यो वशो भवेत् ।
ऋक्पञ्चकं जपेत्सम्यक्कण्ठमात्राम्भसि स्थितः॥ ११०॥
सप्तभिदीवसैर्भूपान् वशयेद्विधिनाऽमुना ।
विलिख्य तालपत्रे तं साध्यनाम्ना विदभीतम् ॥ १११ ॥
निःक्षिप्य क्षीरसम्मिश्रे जले तत् क्वाथयेन्निशि ।
वश्यो भवति साध्योऽस्य नात्र कार्या विचारणा ॥ ११२ ॥
तालपत्रे लिखित्वैवं भद्रकाली गृहे खनेत् ।
वश्याय सर्वजन्तूनां प्रयोगोऽयमुदाहृतः ॥ ११३ ॥
एवं कृतपुरश्चर्य इत्यनेन नित्यपूजापि सूचिता ।
तया विना तस्याऽसम्पादनात्।
सोक्ता रामकण्ठेन—-
भीषणी बहुरूपा च तीक्ष्णदंष्ट्रा मदोत्कटा ।
मारणी मोहनी कान्ता कमण्डलुधरा अपि ॥
अभिचारकरी चेति लोणमन्त्रस्य शक्तयः ।
पाशाङ्कुशपुटा शक्तिः सर्वशक्तिपदङ्करी ॥
लासनाय नमोऽन्तः स्यात्पीठमन्त्रो ध्रुवादिकः।
मूर्त्तावावाह्य गन्धाद्यैर्देवताः सम्प्रपूजयेत् ॥
अङ्गैरावरणं पूर्वं द्वितीयं वह्निमूत्तीभिः ।
तद्बहिः शूलहस्तादिशक्तिभिश्च समीरिता ॥
उत्कटाद्यैश्चतुर्थी तु पञ्चमावृतिरीरिता ।
लोकेशैर्लेणमन्त्रस्य विधानमिति कीत्तीतम् ॥
शूलहस्ता विकेशी च दारुणा लवणप्रिया ।
वरा कराली चात्युग्रा तामस्यस्याऽष्टशक्तयः ॥
उत्कटो विकटाक्षश्च शूलहस्तो महाबलः ।
अग्निजिह्वः खड्गधरः कपाली तारणप्रियः ॥ इति ॥ १०७-११३ ॥
ताम्रपत्रे लिख्य मन्त्रं साध्यनामविदभीतम् ।
तापयेत् खादिरे वह्नौ मासं वश्यो भवेन्नरः ॥ ११४ ॥
त्रिकोणं कुण्डमापाद्य सम्यक् शास्त्रोक्तलक्षणम् ।
तस्मिन् होमं प्रकुर्वीत संस्कृते हव्यवाहने ॥ ११५ ॥
प्रक्षाल्य गव्यदुग्धेन संशोष्य लवणं सुधीः ।
सुचूणीतं प्रजुहुयात् सप्ताहाद्वशयेज्जनान् ॥ ११६ ॥
दधिमध्वाज्यसंसिक्तैः सैन्धवैर्जुहुयात्तथा ।
वशयेदखिलान्देवानचिरात् किमु पाथीवान् ॥ ११७ ॥
एवमिति साध्यनाम्ना विदभीतमित्यर्थः ॥ ११४-११७ ॥
विशुद्धं लवणप्रस्थं विभक्तं पञ्चधा पृथक् ।
एकैकया प्रजुहुयादृचा पञ्चाहमादरात् ॥ ११८ ॥
यस्य नाम्ना स वश्यः स्यादनेन विधिनाऽचिरात् ।
शुद्धं लवणमादाय जुहुयान्मधुरान्विताम् ॥ ११९ ॥
ऊनपञ्चाशदाहुत्या वशं नयति वाञ्छितम् ।
नित्यं शुद्धेन लोणेन हुत्वा शत्रून् वशं नयेत् ॥ १२० ॥
मधुरत्रय संयुक्तैर्लवणैः साधु चूणीतैः ।
जुहुयाद्वशयेन्नारीर्नरान् नरपतीनपि ॥ १२१ ॥
विशुद्धमिति ।
प्रक्षालितं पूर्ववत् ।
लवणेति सैन्धवम् ।
एवमग्रेपि ॥ ११८-१२१ ॥
मन्त्रं कृष्णतृतीयादि प्रजपेद्यावदष्टमी ।
पुत्तलीः पञ्च कुर्वीत साङ्गोपाङ्गाः समाः शुभाः ॥ १२२ ॥
एका साध्यद्रुमेण स्यादन्या पिष्टमयी मता ।
चक्रिहस्तमृदाऽन्या स्यादन्या सिक्थमयी स्मृता ॥ १२३ ॥
लवणं पोतसम्भूतं चूणीतं परिशोधितम् ।
कुडवं प्रोक्षयेत् क्षीरदध्याज्यमधुभिः क्रमात् ॥ १२४ ॥
गुडाज्यमधुभिः सम्यङ्मिश्रितेनाऽमुना ततः ।
कुर्वीत पुत्तलीं सौम्यां सर्वावयवशोभिताम् ॥ १२५ ॥
प्रयोगान्तरमाह—-मन्त्रमित्यादिना ।
यावदष्टमीति कृष्णा ।
कुर्वीतेत्यष्टम्याम् ।
साङ्गोपाङ्गा इति ।
अङ्गानि तु—-
त्वखस्तहृत्पार्श्वकटी पत्स्कन्धौ कन्धराभुजौ ।
पृष्ठं तथोदरं तूरूजङ्घे इत्यङ्गसङ्ग्रहः ॥
उपाङ्गानि भ्रूपुटौ च तारागण्डौ च नासिका ।
ओष्ठौ तु दशना जिह्वा चिवुकास्यं सनाभि च ॥
जघनं योनिगुह्ये च जानुनी मणिबन्धकौ ।
पार्ष्णीगुल्फौ तथाऽङ्गुल्यः करयोः पादयोस्तले ॥ इति ।
साध्यद्रुमेणेति ।
साध्यनक्षत्रवृक्षेण ।
साध्यनक्षत्रवृक्षानस्मिन्नेव वक्ष्यति ।
पिष्टमयीति ।
तण्डुलपिष्टमयी ।
चक्री कुलालः ।
सिक्थं मधूच्छिष्टम् ।
पोतसम्भूत- मिति सामुद्रम् ।
अमुना लवणेन ।
सौम्यां सुन्दरीम् ।
पञ्चाऽपि द्वादशा-
ङ्गुलाः ॥ १२२-१२५ ॥
प्राणमन्त्रकृतं यन्त्रमासां हृदि विनिःक्षिपेत् ।
आसु प्राणान् प्रतिष्ठाप्य पूजयेत् कुसुमादिभिः ॥१२६॥
पश्चात् कृष्णाष्टमीरात्रौ याममात्रे गते सति ।
विधाय मातृकान्यासं मन्त्रन्यासमनन्तरम् ॥ १२७ ॥
चिटिमन्त्रसमुद्भूतान् चतुवींशतिसङ्ख्यकान् ।
ताराद्यान्विन्यसेद्वर्णान् स्थानेष्वेषु समाहितः ॥ १२८ ॥
यन्त्रमित्यग्रिमपटले वक्ष्यमाणम् ।
प्राणानित्यग्रिमपटले वक्ष्यमाणेन प्रकारेण ।
आचार्यास्तु—-तस्यां तु स्थापयेत् प्राणान् गुर्वादेशविधानतः ॥ इति ।
अत्र साम्प्रदायिका विशेषमाहुः ।
पुत्तलिकाया हृदयं स्पृशन् प्राणा इह प्राणा जीव इह स्थित इति इन्द्रियाणि स्पृशन् सर्वेन्द्रियाणि
वाङ्मनश्चक्षुःश्रोत्रघ्राणेति सर्वाङ्गं स्पृशन् प्राणा इहायान्तु सुखं चिरं तिष्ठन्तु इति शिरः
स्पृशन् स्वाहेति जपेत्।
मन्त्रन्यासमिति ।
पञ्चग्भीः पञ्चाङ्गमित्यर्थः ॥ १२६-१२८ ॥
मूध्नी भाले दृशोः श्रुत्योर्नासास्यचिबुकेष्वथ ।
कण्ठहृत्स्तनयुग्मेषु कुक्षौ नाभौ कटिद्वये ॥ १२९ ॥
मेढ्रे पाणौ प्रविन्यस्य शिष्टवर्णचतुष्टयम् ।
ऊरुद्वये जानुयुगे जङ्घायुग्मे पदद्वये ॥ १३० ॥
एवं विन्यस्तसर्वाङ्गो रक्तमाल्यानुलेपनः ।
रक्तवस्त्रधरः शुद्धः पुत्तलीं दारुणा कृताम् ॥ १३१ ॥
अधोमुखीं खनेत् कुण्डे पिष्टजामासनादधः ।
मृण्मयीं प्रतिमां पाददेशे न्यस्येत्तथात्मनः ॥ १३२ ॥
मधूच्छिष्टमयीं व्योम्नि कुण्डस्योर्ध्वं प्रलम्बयेत् ।
लवणेन कृतां पश्चात् पुत्तलीं संस्पृशन् जपेत् ॥ १३३ ॥
ऋक्पञ्चकं यथान्यायमष्टोत्तरसहस्रकम् ।
संहृत्य चिटिमन्त्रार्णान् पुनस्तस्यास्तनौ न्यसेत् ॥ १३४ ॥
अथवान्यमेवाह चिटोति ।
दारुणेति ।
साध्यनक्षत्रवृक्षकाष्ठेन कृतां कुण्डे खनेन्निखनेदित्यर्थः ।
तत्र द्व्यङ्गुलाधोनिखननं ज्ञेयम् ।
अधोमुखीमिति मारण- कर्मविषयम् ।
वशीकरणकर्मणि उत्तानेति ज्ञेयम् ।
यदाहुः—- कुण्डान्तर्द्व्यङ्गुलाधो निखनतु तरुजां मूत्तीमुत्तानरूपाम् ॥ इति ।
आचार्याश्च—-उत्तानां दारवीं कुण्डे खनेन् मन्त्राभिमन्त्रिताम् ॥ इति ॥१२९-१३१॥
तथा न्यसेदिति ।
अधोमुखीं न्यसेदित्यर्थः ।
विषयव्यवस्था तु पूर्वेक्तैव ज्ञेया।
एतयोरपि द्व्यङ्गुलाधो निखननमेव ।
प्रलम्बयेदित्यधोमुखीमित्येव ।
यदाहुः—- धूमेन स्पृश्यमानामुपरि मदनजां लम्बयेदूर्ध्वपादाम् ।
इति ।
आचार्याश्च—-लम्बयेदम्बरे सिक्थमयीमूर्ध्वामधोमुखीम् ।
इति ॥१३२-१३३॥
यथान्यायमिति ।
षडङ्गन्यासं स्वतनौ पुत्तल्यां च कृत्वा चिटिमन्त्रसहितम् ऋक्पञ्चकं जपेदित्यर्थः ।
तदुक्तम्—-
अङ्गानि विन्यसेत् स्वाङ्गे तथा प्रतिकृतावपि इति ।
संहृत्येति विपरीतान् स्वाङ्गे प्रतिकृतावपि ।
तदुक्तम्—-
न्यस्याऽङ्गान्यनुमप्यथ प्रतिकृतौ संहारयुक्त्या न्यसेत् ॥ इति ।
पुनरनन्तरमित्यनेनैतदुक्तम् ।
स्वदेहे न्यासं विधायात्मयागान्तं कृत्वा पश्चात् पुत्तल्यां न्यास इति ।
अतएव पश्चादासने देवतापूजा ।
तस्याः पुत्तलिकायाः ॥ १३४ ॥
अङ्गुष्ठसन्धिप्रपदजानुजङ्घोरुपायुषु ।
लिङ्गदेशे पुनर्नाभौ जठरे हृदयाम्बुजे ॥ १३५ ॥
स्तनद्वये कन्धरायां चिबुके वदने पुनः ।
घ्राणयोः कर्णयोरक्ष्णो ललाटे मूध्नीं विन्यसेत् ॥ १३६ ॥
अङ्गुष्ठेति ।
ऊर्वन्तेषु षट्सु एकैकाक्षरन्यासः ।
अन्यत्र स्थानद्वये सर्वत्राऽ- क्षरद्वयम् ।
यदुक्तमाचार्यैः—-
अधो गुह्यादभेदः स्यादूर्ध्वं भेदो द्विके सति ।
इति ॥ १३५-१३६ ॥
अग्निमादाय सन्दीप्य साध्यनक्षत्रदारुभिः ।
तस्मिन्नभ्यर्च्य मन्त्रोक्तां देवतां रूप्यपात्रके ॥ १३७ ॥
कुशीतराजिपुष्पाद्भर्दत्त्वाऽर्घ्यं प्रणमेत् सुधीः।
मन्त्रैरेतैः प्रयोगादावन्ते संयतमानसः ॥ १३८ ॥
त्वमाननममित्रघ्न निशाया हव्यवाहन ।
हविषा मन्त्रजप्तेन तृप्तो भव तया सह ॥ १३९ ॥
जातवेदो महादेव तप्तजाम्बूनदप्रभ ।
स्वाहापते विश्वभक्ष लवणं दह शत्रुहन् ॥ १४० ॥
ॐ ईशे शर्वरि शर्वाणि ग्रस्तं मुक्तं त्वया जगत् ।
महादेवि नमस्तुभ्यं वरदे कामदा भव ॥ १४१ ॥
तमोमयि महादेवि महादेवस्य सुव्रते ।
त्रियामे पुरुषं हुत्या वशमानय देवि(व्यु) मे ॥ १४२ ॥
ॐ दुर्गे स(दु) र्गादिरहिते दुर्गसंरोधनार्गले ।
चक्रशङ्खधरे देवि दुष्टशत्रु (सत्व) भयङ्करि ॥ १४३ ॥
नमस्ते दह शत्रून् मे वशमानय चण्डिके ।
शाकम्भरि महादेवि शरणं मे भवाऽनघे ॥ १४४ ॥
ॐ भद्रकालि भवाभीष्टे भद्रसिद्धिप्रदायिनि ।
सपत्नान्मे हन हन दह शोषय तापय ॥ १४५ ॥
शूलासिशक्ति वज्राद्यैरुकृत्योत्कृत्य मारय ।
महादेवि महाकालि रक्षाऽस्मानक्षतात्मिके ॥ १४६ ॥
तस्मिन्निति ।
तन्त्रान्तरोक्त आसन इत्यर्थः ।
अग्नौ देवतापूजा चतुर्थपटल एवोक्ता ।
तस्योक्तावत्र प्रयोजनाभावादग्रेऽर्घ्यदानमपि वक्ष्यति ।
यदाहुः—-
कुण्डस्य पूर्वदिग्भागे चतुरस्रं समुन्नतम् ।
हस्तमात्रायतं लाक्षारक्तपादादिकं नवम् ॥
चित्राङ्गं रुचिराकारं कुण्डोत्सेधसमुन्नतम् ।
चतुरङ्गुलमानं वा अष्टाङ्गुलमथापि वा ॥
द्वादशाङ्गुलकं वापि कुण्डादुन्नतमासनम् ।
तस्मिन्सुविमलं वस्त्रम् आस्तीर्यादौ सुशोभनम् ॥
सूक्ष्मं चतुर्गुणीकृत्य सप्तहस्तायतं नवम् ।
तस्योपरि परिस्तीर्य रक्तवस्त्रद्वयं पुनः ॥
विशालमतिसूक्ष्मं च पूर्ववद्गुणितं नवम् ॥ इति ॥
तन्त्रान्तरोक्तप्रकारेणासनं परिकल्प्य तत्र पूर्वेक्तं पीठं परिपूज्य देवतामावाह्य पूर्ववत्
सावरणं सम्पूज्य रक्तचन्दनादिना वक्ष्यमाणद्रव्ययुक्तेन शुद्धजलेन रूप्यं चषकमापूर्य तेनार्घ्यं दद्यात् ।
ततो वक्ष्यमाणमन्त्रैर्देवतामुपतिष्ठेत् ।
कुशीतं रक्तचन्दनम् ।
राजिः राजिका ।
प्रयोगादाविति ।
एतन्मन्त्रप्रयोगा- दावन्ते च ।
अत्र वशीकृतौ यद्यपि एते एव देवते तथापि नतिप्रकरण प्रसङ्गादि- तरयोरपि मन्त्रावुक्तौ ।
तत्प्रयोजनमग्रे मारणकर्मणि भविष्यति ॥ १३७-१४६ ॥
साध्यं संस्मृत्य निभीद्य पुत्तलीं सप्तधा ततः ।
ऋक्पञ्चकं समुच्चार्य जुहुयादेधितेऽनले ॥ १४७ ॥
प्रथमो दक्षिणः पादस्तत्करस्तदनन्तरम् ।
शिरस्तृतीयमाख्यातं वामहस्तं ततः परम् ॥ १४८ ॥
मध्यादूर्ध्वं पञ्चमः स्यादधोऽंशः षष्ठ ईरितः ।
सप्तमो वामपादः स्यादेवं भागक्रमः स्मृतः ॥ १४९ ॥
पुत्तलीमिति ।
लवणमयीम् ।
निभीद्येत्युक्तम् ।
तमेव भेदमाह प्रथम इति ।
आचार्यैः प्रकारान्तरमप्युक्तम्—-
दक्षिणं चरणं पूर्वं दक्षार्द्धन्तु द्वितीयकम् ।
दक्षहस्तं तृतीयं स्याद्गलादूर्ध्वं चतुर्थकम् ॥
पञ्चमं वामहस्तः स्यात् षष्ठं वामार्द्धमेव च ।
सप्तमं वामपादः स्यादन्यापि स्याद्धुतक्रिया ॥ इति ॥ १४७-१४९ ॥
सप्तसप्तविभागो वा प्रोक्तेष्वेषु यथाविधि ।
हुत्वैवमर्चयित्वाऽग्निं प्रणमेद्दण्डवत्ततः ॥ १५० ॥
यजमानो धनैर्धान्यैः प्रीणयेद् गुरुमात्मनः ।
अनेन विधिना मन्त्री वशयेदसुरान् सुरान् ॥ १५१ ॥
किं पुनर्मनुजान् भूपानमात्यान् नृप(वर) योषितः ।
मारणे पूर्वसप्रोक्तं पुत्तलीनां चतुष्टयम् ॥ १५२ ॥
निवेशयेद्यथापूर्वं साधकेन्द्रो विधानवित् ।
अपरां वक्ष्यमाणेन विधानेन प्रकल्पयेत् ॥ १५३ ॥
प्रोक्तेष्विति ।
सप्तावदानेषु प्रत्येकं सप्तसप्तविभागाः तेनैकोनपञ्चाशदाहुतयः।
उक्तपुत्तलीषु सर्वत्रावदानक्रमोऽयमेव ज्ञेयः ।
अन्यत्र विशेषः—-
सप्तसप्तविभागो वा क्रमादङ्गेषु सप्तसु ।
एकादशांशभिन्नैर्वा तदङ्गैः सप्तभिर्हुनेत् ॥ इति ॥
अन्यत्रापि—-सप्तानामङ्गानामेकैकं सप्तमभागान्वा ।
रुद्रांशान्वा कृत्वा होतव्यं मन्त्रिवर्येण ॥ इति ॥
स्त्रीवशीकरणे वामपादादि ज्ञेयम् ।
" योषितो वामपूर्वाम् " इत्युक्तेः ।
एवं स्त्रीमारणे दक्षपादाद्यवदानक्रमो ज्ञेयः ।
प्रणमेदिति ।
पूर्वेक्तमन्त्रैः ।
साधकेन्द्रो विधानविदित्यनेन पुत्तलीनां द्व्यङ्गुलाधःखननमुक्तम् ॥ १५०-१५३ ॥
वराहपारावतविट्तिलत्र्यूषणरामङ्गैः ।
व्रणकृन्निम्बसिद्धार्थसाध्यवामाङ्घिररेणुभिः ॥ १५४ ॥
महिषीमूत्रसम्पिष्टैः पूर्वेक्तलवणान्वितैः ।
विधाय पुत्तलीं सम्यक् प्राणस्थापनमाचरेत् ॥ १५५ ॥
जप पूजादिकं सर्वं कुर्या प्रागुक्तवर्त्मना ।
ततः पूर्वेदिते कुण्डे रात्रौ प्रज्वलितेऽनले ॥ १५६ ॥
दुर्गा ं वा भद्रकालीं वा समाराध्य यथाविधि ।
धारयन्निशितं शस्त्रं सव्यहस्तेन साधकः ॥ १५७ ॥
वामपादं समारभ्य दक्षिणाङ् घ्य्रावसानकम् ।
छित्वा छित्वा प्रजुहुयान्निराहारो जितेन्द्रियः ॥ १५८ ॥
कृष्णाष्टमीं समारभ्य यावत् कृष्णचतुद्र्दशी ।
अनेनैव विधानेन होमं कुर्याद्विचक्षणः ॥ १५९ ॥
त्रिसप्ताहप्रयोगेने मारयेद्रिपुमात्मनः ।
त्र्यूषणं शुण्ठी पिप्पलि मरीचानि ।
रामङ्गं हिङ्गुः ।
व्रणकृद्भल्लातः ।
निम्बं निम्बबीजम् ।
अत्र तिलभल्लातनिम्बबीजसिद्धार्थानां तैलं ग्राह्यम् ।
तदुक्तमाचार्यैः—-सनिम्बतिलसिद्धार्थव्रणकृत्तैलसंयुतैः ।
इति ।
पूर्वेक्तलवणं सामुद्रम् ।
सम्यक् पुत्तलीं विधायेत्यनेन तन्त्रान्तरोक्तो विशेषः
सूचितः—- आयामः पादयोस्तस्या आकट्याश्चतुरङ्गुलः ।
पादोनद्व्यङ्गुला कुक्षिस्तावदेवाऽङ्गुलोदरम् ।
अङ्गुलद्वयमावक्त्रात् कण्ठदेशस्य मानकम् ॥
शिरसो वक्त्रमानं स्यात् सार्द्धद्वयमिहाऽङ्गुलैः ।
द्वादशाङ्गुलयः सर्वाः साध्यपुत्तलिकाः स्मृताः ॥ इति ॥
तन्त्रान्तरे तु विशेषः—-
पञ्चांशेन मुखं कृत्वा तदर्द्धेन गलं पुनः ।
शिष्टेन सर्वाण्यङ्गानि पुत्तलीनां प्रकल्पयेत् ॥
मारणे दारुरूपां तां द्वादशाङ्गुलसम्मिताम् ।
षणवत्यङ्गुलां वापि कुर्यान्मात्राङ्गुलैः क्रमात् ॥
होमार्थं कल्पितायास्तु तस्याः प्रोक्तो विधिस्त्वयम् ।
वश्याकर्षणयोः प्रोक्तां तां कुर्याद् द्वादशाङ्गुलैः ॥ इति ॥
यथाविधीति ।
पूर्वेक्तप्रकारेण ।
कुर्याद्धोममिति प्रत्यहम् ॥
त्रिसप्ताहेति ।
एभिरेव सप्तभिः ।
तेन मासत्रयेण प्रयोगसिद्धिः ।
मारण- कर्मणि दक्षिणाविशेष उक्तस्तन्त्रान्तरे—-
सस्वर्णां च समुक्तां गां शोणां दद्यात् सतर्णकाम् ।
दक्षिणां सप्तकर्षं तु दद्यान् मारणकर्मणि ॥ इति ॥
अन्यो विशेषः—- श्मशाने निर्जने देशे विदध्यादाभिचारिकम् ।
यत्राऽभिचारहोमं तु करोति भुवि साधकः ॥
तत्राऽभितो भटै रक्षां कारयेदात्मसिद्धये ।
न चेदन्यः क्षितिपतिश्चारैर्ज्ञात्वा निहन्त्यमुम् ॥
स्वराष्ट्रसन्धौ कुर्वीत न कुर्वीत स्वमण्डले ।
यदि कुर्यात्प्रमादेन मान्त्रिकोऽज्ञानमोहितः ।
तद्राष्ट्रं पीडयन्त्येव शनकैर्वैरिभूभृतः ॥ इति ॥
अन्योऽपि विशेषस्तन्त्रान्तरे—-
तस्यां रात्र्यामुपोष्याऽथ परेऽहनि तु साधकः।
प्राणायामादिभिरपि गायत्रीजपहोमकैः ।
विमुक्तपातको भूत्वा स पुनवीहरेद्वशी ॥ इति ॥१५४-१६०॥
कारस्करोऽथ धात्री स्यादुदुम्बरतरुः पुनः ॥ १६० ॥
जम्बुः खदिरकृष्णाख्यौ वंशपिप्पलसञ्ज्ञिकौ ।
नागरोहिणनामानौ पलाशप्लक्षसञ्ज्ञकौ ॥ १६१ ॥
अम्बष्ठबिल्वार्जुनाख्या विकङ्कतमहीरुहः ।
वकुलः सरलः सर्जे वञ्जुलः पनसार्ककौ ॥ १६२ ॥
शमीकदम्बनिम्बाम्रमधूका ऋक्षशाखिनः ।
नक्षत्रवृक्षानाह कारस्कर इति ।
कारस्करः कुचिला ।
धात्री आमलकी ।
मृगशिरसस्तु श्वेतसार एव खदिरः ।
आर्द्रायास्तु कृष्णसारः खदिरः ।
नागो नागकेसरः ।
रोहिणो वटः ।
प्लक्षः पर्कटी ।
अम्बष्ठः आम्रातः ।
अर्जुनः ककुभः।
विकङ्कतः स्रुचां वृक्षः ।
सर्जः शालः ।
वञ्जुलोऽशोकः ।
एषां सामान्यतः फलमुक्तम्—-आयुष्कामः स्वर्क्षवृक्षं छेदयेन्न कदाचन ।
इति ॥ १६०-१६३ ॥
आत्मरक्षादिकं सर्वं कुर्यान्मन्त्री यथा पुरा ॥ १६३ ॥
अमुना मनुना सम्यगभीष्टफलसाधने ।
सदृशो नास्ति मन्त्रोऽन्यः सत्यमेतन् न चान्यथा ॥ १६४ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
द्वाविंशः पटलः समाप्तः॥ २२ ॥
ब्थ् " बि
यथा पुरेति ।
आग्नेयास्त्रप्रोक्तमार्गेण ।
एतच्चात्मरक्षणं मारणकर्मण्येवेति ज्ञेयम् ॥ १६३-१६४ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां द्वाविंशः पटलः ॥ २२ ॥
ब्थ् " बि