अथैकविंशः पटलः
अथ गायत्रीप्रकरणम्
अथो वक्ष्यामि गायत्रीं तत्त्वरूपां त्रयीमयीम् ।
यया प्रकाश्यते ब्रह्म सच्चिदानन्दलक्षणम् ॥ १ ॥
एवं तान्त्रिकान् पञ्चदेवतामन्त्रानुक्त्वा कतिचिद्गायत्र्यादिवैदिकान्मन्त्रान्वक्तु- मुपक्रमते अथो इति ।
तत्त्वरूपां चतुवींशतिवर्णानां चतुवींशतितत्त्वात्मत्वात्तद्रूपता ।
तान्यक्षरन्यासे वक्ष्यन्ते ।
अनेन गायत्र्यक्षरैः सार्द्धं तत्त्वन्यासोऽपि सूचितः ।
त्रयीमयीमित्यनेन एतया सम्यग्यथाविधि पठितया त्रयीपाठफलप्राप्तिरुक्ता ।
यया गायत्र्या सच्चिदानन्दलक्षणं ब्रह्म प्रकाश्यते ।
ततः प्रणवस्य तत्प्रतिपादकत्वमन्त्ये वक्ष्यति ।
व्याहृत्यादीनां तत्प्रतिपादकत्वमाहुराचार्याः—-
भूःपदाद्या व्याहृतयो भूशब्दस्तदि(ः सति)वर्त्तते ।
तत्पदं सदिति प्रोक्तं तन्मात्रत्वाच्च भूरतः ॥
भूतत्वात् कारणत्वाच्च भुवः शब्दस्य सङ्गतिः ।
सर्वस्वीकरणात् स्वात्मतया च स्वरितीरितम् ॥
महत्त्वाच्च महस्त्वाच्च महःशब्दस्य सङ्गतिः ।
तदेव सर्वजनता तस्मात् तु व्याहृतिर्जनः ॥
तपोज्ञानतया चैव तथा तापतया स्मृतम् ।
सत्यं परत्वादात्मत्वादनन्तज्ञानतः स्मृतम् ॥
प्रणवस्य व्याहृतीनामतः सम्बन्ध उच्यते ।
अकारो भूरुकारस्तु भुवो मार्णः स्वरीरितः ॥
बिन्दुर्महस्तथा नादो जनः शक्तिस्तपः स्मृतम् ।
शान्तिः सत्यमिति प्रोक्तं यत्तत्परतरं पदम् ॥
अत्रापि तत्पदं पूर्वं प्रोक्तं तदनुवर्ण्यते ।
प्रणवस्य व्याहृतीनां गायत्र्यैक्यमथोच्यते ॥
तद्द्वितीयैकवचनमनेनाऽखिलवस्तुनः ।
सृष्ट्यादिकारणं तेजोरूपमादित्यमण्डले ॥
अभिध्येयं परानन्दं परं ब्रह्माऽभिधीयते ।
यत्तत्सवितुरित्युक्तं षष्ठ्येकवचनात्मकम् ॥
धातोरिह विनिष्पन्नं प्राणिप्रसववाचकात् ।
सर्वासां प्राणिजातीनामिति प्रसवितुः सदा ॥
वरेण्यं वरणीयत्वात् सेवनीयतया तथा ।
भजनीयतया सर्वैः प्रार्थनीयतया स्मृतम् ॥
पूर्वस्याऽष्टाक्षरस्यैवं व्याहृतिर्भूरितीरिता ।
पापस्य भर्जनाद्भर्गे भक्तस्निग्धतया तथा ॥
देवस्य वृष्टिदानादिगुणयुक्तस्य नित्यशः ।
प्रभूतेन प्रकाशेन दीप्यमानस्य वै तथा ॥
ध्यै चिन्तायामतो धातोर्निष्पन्नं धीमहीत्यदः।
निगमाद्येन दिव्येन विद्यारूपेण चक्षुषा ॥
दृश्यो हिरण्मयो देव आदित्यो नित्यसंस्थितः ।
हीनतारहितं तेजो यस्य स्यात् स हिरण्मयः ॥
यः सूक्ष्मः सोऽहमित्येवं चिन्तयामः सदैव तु ।
द्वितीयाष्टाक्षरस्यैवं व्याहृतिर्भुव ईरिता ॥
धियो बुद्धीर्मनोरस्य छान्दसत्वाद् य ईरितः ।
कृतश्च लिङ्गव्यत्यासः सूत्रात् सुप्तिङुपग्रहात् ॥
यत्तत्तेजो निरुपमं सर्ववेद(देव)मयात्मकम् ।
भजतां पापनाशस्य हेतुभूतमिहोच्यते ॥
न इति प्रोक्त आदेशः षष्ठ्या बह्विति चास्मदः ।
तस्मादस्माकमित्यर्थः प्रार्थनायां प्रचोदयात् ॥
तृतीयाष्टाक्षरस्यापि व्याहृतिः स्वरितीरिता ।
एवं दशपदान्यस्यास्त्रयश्चाऽष्टाक्षराः स्मृताः ॥
षडक्षराश्च चत्वारः स्युश्चतुवींशदक्षराः ।
इत्थम्भूतं यदेतस्य देवस्य सवितुवीभोः ॥
वरेण्यं भजतां पापविनाशनकरं परम् ।
भर्गेऽस्माभिरभिध्यातं धियस्तन्नः प्रचोदयात् ॥
उक्तैवमत्र गायत्री पुनस्तच्छिर उच्यते ।
आपो ज्योती रस इति सोमाग्न्योस्तेज उच्यते ॥
तदात्मकं जगत् सर्वं रसस्तेजोद्वयं स्मृतम् ।
अमृतं तदनाशित्वाद् बहुत्वाद् ब्रह्म गद्यते ॥
यदानन्दात्मकं ब्रह्म सत्यज्ञानादिलक्षणम् ।
तद् भूर्भुवःस्वरित्युक्तं सोऽहमित्यो(त्थ)मुदाहृतम् ॥
एतत्तु वेदसारस्य शिरस्त्वाच्छिर ईरितम् ।
इति ॥ १ ॥
—-प्रपञ्चसारतन्त्रे ३०। ७-३१
प्रणवाद्या व्याहृतयः सप्त स्युस्तत्पदादिका ।
चतुवींशत्यक्षरात्मा गायत्री शिरसाऽन्विता ॥ २ ॥
सर्ववेदोद्धृतः सारो मन्त्रोऽयं समुदाहृतः ।
ब्रह्मा देव्यादिगायत्री परमात्मा समीरिताः ॥ ३ ॥
ऋष्याद्याः प्रणवस्यैते मुनिभिः परिकीत्तीताः ।
जमदग्निभरद्वाजभृगुगौतमकश्यपान् ॥ ४ ॥
विश्वामित्रवसिष्ठाख्यौ व्याहृतीनामृषीन्विदुः ।
गायत्र्युष्णिगथाऽनुष्टुब्बृहती पङ्क्तयः पुनः ॥ ५ ॥
त्रिष्टुब्जगत्यौ च्छन्दांसि कथितानि मनीषिभिः ।
सप्ताचीरनिलः सूर्ये वाक्पतिर्वरुणो वृषः ॥ ६ ॥
विश्वेदेवाः क्रमादासां देवताः परिकीत्तीताः ।
गायत्र्या मुनिराख्यातो विश्वामित्रो महाद्युतिः ॥ ७ ॥
गायत्री छन्द इत्युक्तं देवता सविता स्मृता ।
शिरसाऽस्य मुनिर्ब्रह्मा छन्दो देव्यादिका स्मृता ॥ ८ ॥
गायत्री परमात्माऽस्य देवता कथिता बुधैः ।
प्रणवाद्या इति प्रतिव्याहृति सम्बध्यते ।
तत्पदादिकेत्यस्याऽग्रिमेण सम्बन्धः ।
शिरसेति ।
ॐ आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोमिति ।
मुनिभिः परिकीत्तीता ऋष्याद्याः प्रणवस्य समीरिता इति सम्बन्धः ।
अस्याः कल्पोऽहं बीजादिप्रोक्तम्—- रे इत्येतत् तु बीजं स्याद्यवर्णं शक्तिरुच्यते ।
णित्येतत्कीलकं प्रोक्तं गायत्र्यास्त्रिपदात्मनः ॥ इति ॥
कल्पान्तरे—-यं तु बीजं स्यादी शक्तिर्णं च कीलकम् ।
इति ॥ २-८ ॥
व्याहृतीः सप्त भूराद्या हृन्मुखांसोरुयुग्मके ॥ ९ ॥
जठरे न्यस्य मन्त्रज्ञो गायत्र्यार्णांस्तनौ न्यसेत् ।
पत्सन्धिषु ध्वजे नाभौ हृत्कण्ठभुजसन्धिषु ॥ १० ॥
आस्यनासाकपोलाक्षिकर्णभ्रूमस्तके पुनः ।
पाश्चात्योत्तरयाम्यप्रागूर्ध्ववक्त्रेषु साधकः ॥ ११ ॥
मन्त्रज्ञो न्यसेदित्यनेन प्रणवं विन्यस्य सप्तव्याहृतीवीन्यस्तव्या इत्युक्तं भवति ।
यदाहुः—-अं नमो ब्रह्मणे नाभौ हृदये उं च विष्णवे ।
मं शिवाय नमो मूर्ध्नि तत्तद्रूपं स्मरन् न्यसेत् ॥ इति ॥
पत्सन्धिष्विति ।
पादद्वयसन्धिचतुष्के अक्षरचतुष्कम् ।
तदुक्तम्—- " पदद्वय- सन्धिचतुष्के " इति ।
अयं न्यासः अङ्गुलिमारभ्य कर्त्तव्यः ।
अत्र यद्यपि सन्धि- शब्दग्रहणमस्ति तथापि तदवध्यङ्ग एव न्यासो विधेय इति ज्ञेयम् ।
एवं भुजद्वय- सन्धिचतुष्के अक्षरचतुष्कम् ।
न्यासादिष्वेकैकमक्षरम् ।
णियेत्यस्य पृथग्भावेन चतुवींशत्यक्षरात्मकत्वम् ।
साधक इत्यनेन प्रत्यक्षरमादौ प्रणवः अन्ते च नमःशब्द इत्युक्तम् ।
कल्पान्तरे तु—-
वर्णन्यासमथो वक्ष्ये आर्षं छन्दश्च दैवतम् ।
तत्त्वशक्ती वर्णमुद्रे स्मृत्वा वर्णान् क्रमान् न्यसेत् ॥
मित्रोक्ताग्न्यचलाह्लादि पीतो वक्राङ्गुली करौ ।
सम्मुखं मोहपापघ्नं चरणाङ्गुष्ठयोस्तु तत् ॥
मधुच्छन्दो निवाद्यम्बु प्रभा श्यामोऽब्जकोशवत् ।
समुखौ सम्पुटं चोपपापघ्नं गुल्फयोस्तु सम् ॥
गर्गमध्यार्कतेजोजा कपिलो विततं करौ ।
प्रसारितोत्तानशाखौ पापघ्नं जङ्घयोस्तु विम् ॥
उपमन्युः प्रतिष्ठा च विद्युद्वायुश्च विश्वभृत् ।
विस्तीर्णं संहतोत्तानतर्जनीमुक्तहस्तकम् ॥
इन्द्रनीलनिभं रोगग्रहघ्नं जानुनोस्तु तुम् ।
कश्यपः सुप्रतिष्ठा च यमः खं च विलासिनी ॥
वह्न्याभं सम्मुखासक्तपाण्योर्युक्तकनिष्ठयोः ।
अन्यत्र विरलाङ्गुल्योरङ्गुष्ठद्वययोगतः ॥
द्विमुखं भ्रूणहत्याघ्नमूर्वेर्वं विन्यसेत् सुधीः ।
भृगुर्देवी जलं गन्धः प्रभाच्छः पूर्वरूपयोः ॥
त्रिमुखं तर्जनीयोगाद् गुह्येऽगम्याघहृत् तु रेम् ।
अत्र्युष्णिग्वाग्रसो लीला विद्युत्तद्वच्चतुर्मुखम् ॥
मध्यायोगादभक्ष्याघहरं वृषणयोस्तु णिम् ।
विष्ण्वनुष्टुब्विरूपाक्षनामाच्छः पञ्चवक्त्रकम् ॥
अनामायोगतो हत्याहरं कट्यां तु यं तथा ।
हारीतो बृहतीन्द्रस्त्वक् कान्ति(कीत्ती)र्नीलस्तथा तयोः ॥
तिर्यग्युक्ताग्राङ्गुलिकयोः कनिष्ठा मोक्षणे सति ।
षण्मुखं नरहत्याघ्नं नाभौ भं याज्ञवल्क्यकः ॥
पङ्क्तिवीद्याधरः शब्दो दुर्गा रक्तमधोमुखम् ।
वक्राग्रावाकृतकरं जठरे र्गों गवां हितम् ॥
कविस्त्रिष्टुब्रविर्वार्गौ रक्तरुग्व्यापकाञ्जलिः ।
उत्तानौ पूर्ववद्धस्तौ स्त्र्यघनुत् स्तनयोश्च देम् ॥
अङ्गिरा जगती शर्वे हस्तौ विद्याच्छरुक्त्वधः ।
मुक्ताग्राङ्गुष्ठकौ मुष्टी शकटं हृदि वं गुरोः ॥
स्यं ज(य?)मो जगती त्वष्टोपस्थेशाः काञ्चनछविः ।
यमपाशं बद्धमुष्ट्योरुत्ताना वामतर्जनी ॥
वक्राग्रा न्युब्जया युक्ताऽन्यया कण्ठे मनोऽघहृत् ।
आपस्तम्बः शक्वरी च पायुराप्यायिनी वसुः ॥
शुभ्रो मिथः सन्धिलीनाङ्गुलिकौ समुखौ करौ ।
दीर्घाङ्गुष्ठौ ग्रथितकं धीं मुखे पितृ(नृप)पापनुत् ॥
संवर्त्तेऽत्तीर्मरुत्पादौ विमला पद्मरागभः ।
सन्धिनोर्ध्वाङ्गुलिर्वामस्तादृशोऽधोमुखः परः ॥
सुसम्मुखोन्मुखं तालुमध्ये मं पूर्वपापहम् ।
कात्यायनस्त्रिवृत् सोमः श्रोत्रं माच्छं विषापहम् ॥
उत्तानोन्नतकोटी द्वौ लम्बं हिं नासिकानतम् ।
असितोत्यङ्गिरा त्वग्धिरण्या पाण्डु परिग्रहात् ॥
अन्योन्यसंहतोत्तानौ मुष्टिकं नेत्रयोस्तु धिम् ।
व्यासो धृतिः सुराश्चक्षुः सूक्ष्मा रक्तश्च सम्मुखौ ॥
युक्तानामाकनिष्ठौ संयुक्तवक्राग्रशेषकौ ।
मत्स्यप्राणिवधाघघ्नं भ्रूमध्ये यों न्यसेद् द्विजः ॥
पराशरो धृतिर्दस्रो जिह्वा योनिश्च रुक्मरुक ।
कूर्मः पृष्ठे समाक्रान्तो दक्षिणेन त्वधोमुखः ॥
यों ललाटेऽखिलाघघ्नं शङ्कुः कृतिः प्रजापतिः ।
प्राणं जया वलाकाभः कक्षाभ्यां साश्रयौ करौ ॥
वामोर्ध्वमध्यो वाराहः पूर्वास्ये नं सुखार्थदम् ।
शङ्खप्रकृतिदेवा हृत् पद्मा नीलः श्रुतिश्रितौ ॥
प्रसारिताङ्गुली सिंहो दक्षास्ये प्रं शिवप्रदम् ।
दक्षाकृती शिवाऽहं मा हरित् पूर्वेदितौ करौ ॥
कुञ्चिताग्रौ महाक्रान्तमुत्तरे चों हरिप्रदम् ।
गौतमाकृतिकाच्छाद्या मुद्गरः किञ्चिदूर्ध्वयोः ॥
करयोर्वामहस्तस्य तर्जनीदक्षमुष्टिना ।
गृहीता ब्रह्मसौख्यस्य प्रदं दं पश्चिमानने ॥
शातातपः कृतिवीष्णुर्गुणो भद्रेशरूपधृक् ।
दक्षिणोऽधोमुखो मूर्ध्नि पल्लवः के यवगी यात् ॥
इति ॥ ९-११ ॥
पदानि दश विन्यस्येदेषु स्थानेषु मन्त्रवित् ।
शिरोभ्रूमध्यहृद्वक्त्रे कण्ठहृन्नाभिगुह्यके ।
जानुनोः पादयोर्युग्मे तच्छिरः शिरसि न्यसेत् ॥ १२ ॥
पदन्यासमाह पदानीति ।
एषु वक्ष्यमाणेषु ।
पदानि तु—-एकत्र्यग्निद्व्यग्नि वह्निद्व्येकैकाध्यक्षरैः क्रमात् ।
कल्पान्तरे शिरःपदन्यासोऽप्युक्तः—-
ॐ आपस्तनयोर्ज्येतिर्नसि नेत्रे रसो मुखे ।
अमृतं शिरसि ब्रह्म शिखायां भूर्भुवः स्वरोम् ॥ इति ॥ १२ ॥
ब्रह्मणे हृदयं प्रोक्तं विष्णवे शिर ईरितम् ।
शिखा रुद्राय कवचमीश्वराय समीरितम् ॥ १३ ॥
नेत्रं सदाशिवायोक्तमस्त्रं सर्वात्मने स्मृतम् ।
षडङ्गान्येवमुक्तानि यथास्थानं प्रविन्यसेत् ॥ १४ ॥
षडङ्गमाह ब्रह्मण इति ।
अस्त्रं सर्वात्मने स्मृतमित्यात्मनेपदोद्धारो ग्रन्थकृतः सर्वत्राऽभिप्रेतः ।
ब्रह्मात्मने हृदयाय नम इत्यादि प्रयोगः ।
साम्प्रदायिकास्तु ॐ भूर्भुवः स्वस्तत्सवितुर्ब्रह्मात्मने हृत् ।
वरेण्यं विष्णात्मने शिरः ।
भर्गे देवस्य रुद्रात्मने शिखाम् ।
धीमहि ईश्वरात्मने कवचम् ।
धियो यो नः सदाशिवात्मने नेत्रम् ।
प्रचोदयात् सर्वात्मने अस्त्रमिति षडङ्गकॢप्तिं वदन्ति ।
कल्पान्तरे तु—-
ब्रह्मा विष्णुः क्रमाद्रुद्र ईश्वरश्च सदाशिवः ।
सर्वात्मतेजसोन्तस्य व्याहृत्यादिषडङ्गके ॥ इति ।
आदिशब्देन व्याहृतित्रयं पदत्रयं च ।
ॐ भूर्ब्रह्मतेजस इत्यादि प्रयोगः ॥ १३-१४ ॥
मुक्ताविद्रुमहेमनील धवलच्छायैर्मुखैस्त्रीक्षणै-
र्युक्तामिन्दु निबद्धरत्नमुकुटां तत्त्वात्मवर्णात्मिकाम् ।
सावित्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गुणं
शङ्खं चक्रमथाऽरविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ १५ ॥
ध्यानमाह मुक्तेति ।
कशा अश्वादेस्ताडनीरज्जुः ।
शुभ्रमिति कपाल- विशेषणम् ।
गुणः पाशः ।
आयुधध्यानं तु ।
दक्षाद्यूर्ध्वयोरन्त्ये तदधस्तनयोश्चक्र- शङ्खौ ।
तदधस्थयोः पाशकपाले ।
तदधस्थयोः कशाङ्कुशौ ।
तदधस्तनयोरभय- वरौ ।
अत्र ध्यानानन्तरं वरादिमुद्रा प्रदर्शयेत् ।
यदाहुः—-
वराभयाब्जपक्षीन्द्रशक्तिमुद्राः प्रदर्शयेत् ॥ इति ।
त्रिसन्ध्यं ध्यानम् ।
यथा—-
हंसारूढां शिताब्जे त्वरुणमणिलसद्भूषणां भालनेत्रां
वेदाख्या(स्या)मक्षमालां स्रुवमथ कमलं दण्डमप्यादधानाम् ।
ध्यायेद्दोभीश्चतुभीस्त्रिभुवनजननीं पूर्वसन्ध्यादिवन्द्यां
गायत्रीमृक्सवित्रीमभिनववयसं मण्डले चण्डरश्मेः ॥
विश्वमातः सुराभ्यर्च्ये पुण्ये गायत्रि वैधसि ।
आवाहयाम्युपास्त्यर्थम् एह्येनोघ्नि पुनीहि माम् ॥
वृषेन्द्रवाहना देवी ज्वलत्त्त्रिशिखधारिणी ।
श्वेताम्बरधरा श्वेतनागाभरणभूषणा ॥
श्वेतस्रगक्षमालालङ्कृता रक्ता च शङ्करा ।
जटाधारा धरा धात्री धरेन्द्राङ्गभवा भवा ॥
मातर्भवानि विश्वेशि आहूतैहि पुनीहि माम् ।
सन्ध्या सायन्तनी कृष्णा विष्णुदेवा सरस्वती ॥
खगगा कृष्णवक्त्रा तु शङ्खचक्रधरा परा ।
कृष्णस्रग्भूषणैर्युक्ता सर्वज्ञानमयी वरा ॥
वीणाक्षमालिकाचारुहस्ता स्मितवरानना ।
मातर्वाग्देवते स्तुत्ये आहूतैहि पुनीहि माम् ॥ इति ॥ १५ ॥
प्राणायामान् पुरा कृत्वा गायत्रीं सन्ध्ययोर्जपेत् ।
सप्तव्याहृतिसंयुक्तां गायत्रीं शिरसाऽन्विताम् ॥ १६ ॥
त्रिरुच्चरन् धिया प्राणान् धारयेद्यतमानसः ।
प्राणायामोऽयमाख्यातः समस्तदुरितापहः ॥ १७ ॥
प्राणायामानिति बहुवचनं कपिञ्जलाधिकरणन्यायेन त्रित्वे पर्यवस्यति ।
तत्- स्वरूपमेवाह ।
सप्तेति ।
धिया त्रिरुच्चरन्निति सम्बन्धः ॥ १६-१७ ॥
व्याहृतित्रयसंयुक्तां गायत्रीं दीक्षितो जपेत् ।
तत्त्वलक्षं विधानेन भिक्षाशी विजितेन्द्रियः ॥ १८ ॥
व्याहृतीति ।
व्याहृतित्रयमाद्यम् ।
मोक्षार्थी तु " परोरजसे सावदोम् " इति चतुर्थपादसहितां जपेदिति ज्ञेयम् ।
अस्य विमलः ऋषिः गायत्री छन्दः परमात्मा देवतेति ।
तत्त्वलक्षमिति ।
चतुवींशतिलक्षम् ।
विधानेनेति पुरश्चरणोक्तेन ॥ १८ ॥
क्षीरौदनतिलान् दूर्वाक्षीरद्रुमसमिद्वरान् ।
पृथक् सहस्रत्रितयं जुहुयान्मन्त्रसिद्धये ॥ १९ ॥
क्षीरौदनेति ।
क्षीरमोदनस्तिला दूर्वा इति द्रव्यचतुष्टयम् ।
क्षीरद्रुमा अश्वत्थोदुम्बरप्लक्षवटाः ॥ १९ ॥
विधाय मण्डलं विद्वान् त्रिकोणोज्ज्वलकणीकम् ।
सौरं पीठं यजेत्तत्र दीप्तादिनवशक्तिभिः ॥ २० ॥
मूलमन्त्रेण कॢप्तायां मूर्त्तौ देवीं प्रपूजयेत् ।
मण्डलमिति ।
सर्वतोभद्रम् ।
त्रिकोणोज्ज्वलकणीकम् ।
तत्कणीकायां त्रिगुणितं यन्त्रं लिखेदित्यर्थः ।
त्रिकोणशब्दस्य त्रिगुणितोपलक्षकत्वात् ।
तदुक्तमाचार्यैः—- अथ त्रिगुणिते प्रोक्ते विचित्रे मण्डलोत्तमे ।
इति ।
तत्र पूर्वेक्ते ।
दीप्तादीति ।
चतुर्दशपटलोक्ताः ॥ २०-२१ ॥
कोणेषु त्रिषु सम्पूज्या ब्रह्माद्याः शक्तयो बहिः ॥ २१ ॥
आदित्याद्यास्ततः पूज्या ऊषादिसहिताः क्रमात् ।
ततः षडङ्गानभ्यर्चेत् केसरेषु यथाविधि ॥ २२ ॥
कोणेष्विति ।
आग्निवरुणेशानेषु ।
ब्रह्माद्या ब्रह्मविष्ण्वीशाः ।
शक्तयो गायत्रीसावित्रीसरस्वत्याख्याः ।
कोणेषु त्रिष्वित्येव ।
एन्द्रनैरृत्यवायव्यभागेष्वित्यर्थः।
एभिः प्रथमावरणम् ।
अत्र यद्यपि ब्रह्माद्या इत्युक्तं तथापि शक्तिपूजा पूर्वं ज्ञेया ।
" त्रिशक्तिमूर्त्तीः प्रथमं समर्च्य " इत्याचार्येक्तेः ।
अन्यत्रापि—-
गायत्रीं शतमखजे निशाचरोत्थे सावित्रीं पवनगते सरस्वतीं च ।
ब्रह्माणं हुतभुजि वारुणे च विष्णुं षष्ठेऽस्रे समभिजयेत्तथेशमैशे ॥ इति ॥
अन्यत्रापि—- रक्ता रक्ताकल्पा चतुर्मुखी कुण्डिकाक्षमालेऽब्जे ।
दधती प्राक्कोणस्था गायत्री तादृशोऽग्निगो ब्रह्मा ॥
अरिदरगदाब्जहस्ता किरीटकेयूरसम्भिन्ना ।
निशिचरकोणसमुत्था सावित्री वरुणगस्तथा विष्णुः ॥
टङ्काक्षाभयवरदान् दधती च त्रीक्षणेन्दुकलितजटा ।
वाणी वायव्यस्था विशदाकल्पा तथेश्वरस्त्वैशे ॥ इति ।
कल्पान्तरे तु—- षट्कोणास्रिषु सावित्र्यै प्राग् गायत्र्यै च नैरृते ।
वायुकोणे सरस्वत्यै आग्नेये ब्रह्मणे नमः ।
पश्चिमे विष्णवेऽथैशे रुद्राय प्रथमावृतिः ॥ इति ॥
तत्र आदित्याद्याश्चतुर्दशपटलोक्ताः ।
उषादयश्च तत्पटलोक्तप्रकारेणैवात्र पूज्याः ।
एतेन द्वितीयावरणम् ।
तत इति तृतीयावरणम् ।
यथाविधीति ।
चतुर्थ-
पटलोक्तरीत्या ॥ २१-२२ ॥
प्रह्लादिनीं प्रभां पश्चान्नित्यां विश्वम्भरां पुनः ।
विलासिनीप्रभावत्यौ जयां शान्तिं यजेत् पुनः ॥ २३ ॥
कान्तिं दुर्गासरस्वत्यौ विश्वरूपां ततः परम् ।
विशालसञ्ज्ञितामीशां व्यापिनीं विमलां यजेत् ॥ २४ ॥
तमोऽपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम् ।
पद्मालयां परां शोभां पद्मरूपां ततोऽर्चयेत् ॥ २५ ॥
प्रह्लादिनीमिति ।
आसां ध्यानमुक्तमन्यत्र—-
कुन्देन्दुधवलाकारा मणिमुक्ताद्यलङ्कृताः ।
गुणाङ्कुशद्वयाम्भोजकराः प्रह्लादिनीमुखाः ॥ इति ॥
अभिरष्टाभिरष्टाभिरावरणत्रयम् ।
अतएव दशभिरावरणैरिति वक्ष्यति ॥ २३-२५ ॥
ब्रह्माद्याः सारुणा बाह्य पूजयेत् प्रोक्तलक्षणाः ।
ततोऽर्चयेद् ग्रहान् बाह्ये शक्रादीनायुधैः सह ॥ २६ ॥
इत्थमावरणैर्देवीं दशभिः परिपूजयेत् ।
धर्मार्थकाममोक्षाणां भोक्ता स्याद् द्विजसत्तमः ॥ २७ ॥
तत्त्वसङ्ख्यासहस्राणि मन्त्रविज्जुहुयात्तिलैः ।
सर्वपापविनिर्मुक्तो दीर्घमायुः स विन्दति ॥ २८ ॥
ब्राह्म्याद्याः सारुणा इति अरुणान्ताः।
महालक्ष्मीस्थाने अरुणः पूज्य इत्यर्थः।
पद्मपादाचार्यास्तु अरुणपूजामधिकामाहुः ।
प्रोक्तलक्षणा इति ।
षष्ठपटलोक्तध्यानाः ।
आभिः सप्तमम् ।
ग्रहानिति ।
सूर्यमन्त्रोक्तान् ।
एभिरष्टमम् ।
कल्पान्तरे तु—-अष्टमी ग्रहैरादित्यपरिषदान्तैस्तैः ।
इति ।
इन्द्राद्यैर्नवमम् ।
तदायुधैर्दशमम् ॥ २६-२८ ॥
आयुषे साज्यहविषा केवलेनाऽथ सपीषा ।
दूर्वात्रिकैस्तिलैर्मन्त्री जुहुयात् त्रिसहस्रकम् ॥ २९ ॥
अरुणाब्जैस्त्रिमध्वक्तैर्जुहुयादयुतं ततः ।
महालक्ष्मीर्भवेत्तस्य षण्मासान्नाऽत्र संशयः ॥ ३० ॥
ब्रह्मश्रिये प्रजुहुयात् प्रसूनैर्ब्रह्मवृक्षजैः ।
बहुना किमिहोक्तेन यथावत् साधुसाधिता ।
द्विजन्मनामियं विद्या सिद्धा कामदुघा मता ॥ ३१ ॥
आयुष इति ।
साज्यहविषेत्येकम् ।
केवलेनेति ।
पायसेन ।
सपीषेति च सम्बन्धः ।
त्रिसहस्रमिति ।
पञ्चानामपि सङ्ख्या ।
तदुक्तम्—-
आयुष्कामो जुहुयात् पायसहविराज्यकेवलाज्यैश्च ।
दूर्वाभिः सतिलाभिः सर्वैस्त्रिसहस्रसङ्ख्यकं मन्त्री ॥ इति ॥
तन्त्रान्तरस्थं धारणयन्त्रमुच्यते—-
शक्तेर्बाह्यकृशानुकोणविलसद्भूरादिसत्कणीकं
वस्वब्जं स्वरयुग्मकेसरदलैर्वर्गैस्त्रिवर्णैर्मनोः ।
गायत्र्याः कथितं महःप्रभृतिभिर्यन्त्रं तु दिक्ष्वङ्कितं
चूडामन्त्रतुरीयवेष्टितमिदं क्ष्माकोणताराङ्कितम् ॥ इति ॥
रामवल्लभे तु द्वादशगुणितं तन्त्रं गायत्रीयन्त्रत्वेनोक्तम् ॥ २९-३१ ॥
आग्नेयमभिधास्यामि मन्त्रं सर्वार्थसाधकम् ।
मारीचः काश्यपः प्रोक्तो मुनिरस्य महामनोः ॥ ३२ ॥
त्रिष्टुप् छन्दो देवताऽत्र जातवेदोऽग्निरीरितः ।
नवभिः सप्तभिः षड्भिः सप्तभिः पुनरष्टभिः ॥ ३३ ॥
सप्तभिर्मूलमन्त्रार्णैः षडङ्गविधिरीरितः ।
त्रिष्टुप्मन्त्रमाह आग्नेयमिति ।
स मन्त्रो यथा—-
ॐ जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः ।
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः इति ।
अयं मन्त्र ऋग्वेदे प्रसिद्धः तेनात्र नोक्तः।
हृल्लेखासम्पुटो जप्तव्यः ।
मारीचः।
काश्यप इति विशेषणं विधेयम् ।
हलंशो बीजं स्वरांशः शक्तिः ॥ ३२-३४ ॥
अङ्गुष्ठगुल्फजङ्घासु जानुनोरुरुयुग्मके ॥ ३४ ॥
कट्यन्धुनाभिषु हृदि स्तनयोः पार्श्वयोर्द्वयोः ।
पृष्ठतः स्कन्धयोर्मध्ये बाहुमूलोपबाहुषु ॥ ३५ ॥
प्रकूर्पर प्रकोष्ठेषु मणिबन्धतलेषु च ।
मुखनासाक्षिकर्णेषु मस्तमस्तिष्कमूर्धसु ॥ ३६ ॥
क्रमेण विन्यसेद् वर्णान्मन्त्री मन्त्रसमुद्भवान् ।
शिखाललाटनयनकर्णौष्ठरसनास्वथ ॥ ३७ ॥
सकण्ठबाहुहृत्कुक्षिकटिगुह्योरुजानुषु ।
जङ्घयोः पादयोर्न्यस्येत्पदान्यस्य मनोः सुधीः ॥ ३८ ॥
पदन्यासमाह शिखेति ।
शिखा मूर्धा ।
गुह्यं लिङ्गम् ।
अत्र पदन्यासे नयनयोः पदद्वयं कर्णद्वये पदद्वयम् अन्यत्रैकैकं पदम् ।
तदुक्तमीशानशिवेन—-
स्मृतमिह तु पदानां कं ललाटाक्षिकर्णं
त्वधररसनकण्ठं बाहुहृन्नाभिदेशाः ।
कटिरपि मदनोरू जानुजङ्घाघ्रयोऽमी
श्रवणनयनयोर्द्वे स्थानमेकैकमन्यत् ॥ इति ।
पदान्यष्टादश ।
तानि यथा—-
शराब्धिद्वीष्वेकवह्निद्व्येकैकद्विद्विपावकैः ।
द्व्यग्निद्व्यग्निद्विद्विवर्णैरष्टादश पदानि हि ॥ इति ॥ ३७-३८ ॥
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवाल खेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रदरासिखेटविशिखं चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां स्मरेत् ॥ ३९ ॥
विद्युदिति ।
दरः शङ्खः ।
गुणस्त्रिशूलम् ।
" इष्वासाख्यत्रिशूलान् " इत्याचार्येक्तेः।
आयुधध्यानं तु ।
दक्षाद्यूर्ध्वयोराद्ये ।
तदधस्थयोरग्रिमे ।
तदधस्थयोश्चापविशिखौ ।
तदधस्थयोः शूलतर्जन्यौ ।
तदुक्तम्—-
हेमाचलतटे रम्ये कल्पवृक्षोपशोभिते ।
दिव्योद्यानं चिन्तयेच्च विशालं हेमभूतलम् ॥ १ ॥
कृशानुरूपवप्रेण करालेन समावृतम् ।
तन्मध्ये चिन्तयेद् दिव्यं विचित्रमणिमण्डपम् ॥ २ ॥
तस्मिन् सिंहासनेऽम्भोजकणीकायां विचिन्तयेत् ।
दंष्ट्राकरालाट्टहासं कृष्णवर्णं भयानकम् ॥ ३ ॥
अतितीव्रमुखं सिंहं वमदग्निशिखोज्ज्वलम् ।
तस्योपरिष्ठात्तां देवीं चिन्तयेज्जातरूपिणीम् ॥ ४ ॥
तडित्कोटिनिभां देवीं कोटिबालार्कसन्निभाम् ।
चक्रासिबाणशूलाख्यान् दधतीं दक्षिणैर्भुजैः ॥ ५ ॥
शङ्खं चक्रधनुर्बाणतर्जनीर्वामबाहुभिः ।
चन्द्रखण्डसमायुक्तामतिभीमत्रिलोचनाम् ॥ ६ ॥
ऊर्ध्वोज्वलत्केशपाशामशेषाहरणोन्मुखीम् ।
अङ्गाद्यावृतिसंयुक्तामस्त्रशस्त्रपरीवृताम् ।
इन्द्रादिलोकपालैश्च सेवितां विन्ध्यवासिनीम् ॥ ७ ॥ इति ॥३९॥
अङ्गुष्ठेति ।
पादाङ्गुष्ठद्वयम् ।
स्कन्धयोरिति भिन्नम् ।
मध्य इति ।
कन्धरायाम् ।
उपबाहुष्विति ।
बाहुमूलप्रकूर्परमध्यभागः ।
मस्तं ललाटकेशसन्धिः ।
मस्तिष्कं तदूर्ध्वदेशः ।
मूर्धा ब्रह्मरन्ध्रम् ।
वर्णानिति ।
चतुश्चत्वारिंशत् ।
परिषदित्यस्य पृथक् पाठात् ।
अत्राङ्गुष्ठादिस्थानद्वये वर्णद्वयन्यासः ॥ ३४-३७ ॥
मन्त्रवर्णसहस्राणि जपेन्मन्त्रं विशालधीः ।
तदन्ते तिलसिद्धार्थचित्रमूलैः समिद्वरैः ॥ ४० ॥
क्षीरद्रुमाणामाज्येन हविषाऽन्नैर्घृतान्वितैः ।
चतुश्चत्वारिंशदाढ्यं चतुःशतसमन्वितम् ॥ ४१ ॥
चतुःसहस्रं जुहुयादचीते हव्यवाहने ।
विशालधीरित्यनेन दीक्षाप्रकारेणाऽयं मन्त्रो ग्राह्य इत्युक्तम् ।
तदुक्तमाचार्यैः—-
दीक्षा प्रवर्त्यते पूर्वं यथावद्देशिकोत्तमैः ।
ततोऽस्त्रकॢप्तिः सम्प्रोक्ता स्यात् प्रयोगविधिस्ततः ॥ इति ।
अन्यत्रापि—- अस्त्राणि दीक्षितस्यैव कथयेत् स तु साधयेत् ।
इति ।
चित्रमूलैश्चित्रकमूलैः ।
हविषा पायसेन ।
घृतान्वितैर्घृतसिक्तैः ।
तिलराज्यनलक्षीरवृक्षेध्महविराज्यकैः ।
सपीःसिक्तैः क्रमाद्धोमः साधयेत् समुदायतः ॥
इति ।
आचार्येक्तिः ।
तेन नव द्रव्याणि ।
तेनैकैकद्रव्येण चतुःशतीचतु- र्नवतिराहुतयः ॥ ४०-४२ ॥
मण्डले सर्वतोभद्रे षट्कोणाङ्कितकणीके ॥ ४२ ॥
विधिना वक्ष्यमाणेन पीठं देव्याः प्रपूजयेत् ।
जयाख्यां विजयां भद्रां भद्रकालीमनन्तरम् ॥ ४३ ॥
सुमुखीं दुर्मुखीसञ्ज्ञां पश्चाद् व्याघ्रमुखीं पुनः ।
अथ सिंहमुखीं दुर्गां नव शक्तीः प्रपूजयेत् ॥ ४४ ॥
मण्डल इति ।
तृतीयोक्ते ।
षट्कोणाङ्कितेति ।
तत्पद्मकणीकायां षड्गुणितं यन्त्रं लिखेदित्यर्थः ।
षट्कोणशब्देन षड्गुणितस्योपलक्षितत्वात् ।
तदुक्तमाचार्यैः—-
दीक्षकाख्याक्षराण्यादौ शक्त्यावेष्ट्य ततो बहिः ।
यन्त्रं षड्गुणितं कृत्वा दुर्वर्णलसितास्रकम् ॥
बहिरष्टदलं पद्मम् ।
इत्यादिना ॥
शक्तीः प्रपूजयेदिति ।
आसां ध्यानमुक्तमन्यत्र—-
ज्वलज्ज्वलनसङ्काशाः सर्पा(र्वा)लङ्कारशोभिताः ।
शूलं कुठारडमरुदहनान् करपङ्कजैः ।
दधत्यश्चिन्तनीयाः स्युर्जयाद्या नव शक्तयः ॥ इति ॥४२-४४॥
आसनं सिंहमन्त्रेण दद्यादुक्तेन देशिकः ।
मूत्तीं सङ्कल्प्य मूलेन तस्यामावाह्य पूजयेत् ॥ ४५ ॥
षडङ्गानि यथापूर्वं केसरेष्वर्चयेत् सुधीः ।
अग्न्यादिपादाष्टकोत्पन्ना मूर्त्तयोऽर्च्या बहिः पुनः ॥ ४६ ॥
उक्तेनेति ।
एकादशेऽग्न्यादीत्यनेन मूर्त्तीनां तदादित्वमुक्तं पूजायां न्यासे च ।
तच्चाग्न्यादिपादाष्टकमग्रे वक्ष्यति ॥ ४५-४६ ॥
जातवेदाः सप्तजिह्वो हव्यवाहनसञ्ज्ञकः ।
अश्वोदरजसञ्ज्ञोऽन्यः पुनर्वैश्वानराह्वयः ॥ ४७ ॥
कौमारतेजाः स्याद्विश्वमुखो देवमुखः स्मृतः ।
मूर्त्तयोऽर्च्या इति उक्तम् ।
ताः का इत्यपेक्षायामाह जातवेदा इति ।
मूर्त्तीनां पुनरुक्तिरन्यमूत्तीनिवृत्त्यर्था ।
आसां ध्यानमुक्तमन्यत्र—-
तडित्कोटिसमप्रख्याः सर्वभूषणभूषिताः ।
शूलं शरं कार्मुकं च कपालं स्वैर्महाभुजैः ॥
दधत्यो रक्तवसनाः क्रूरेक्षणभयानकाः ।
ज्वलज्ज्वलनवक्त्राः स्युर्जातवेदादिमूर्त्तयः ॥ इति ॥४७-४८॥
ततो भूसलिलाग्नीरानात्मेनऽन्तान्नमोऽन्वितान् ॥ ४८ ॥
चतुदीक्षु समभ्यर्चेत्कोणेष्वेतत्कलाः पुनः ।
आत्मनेऽन्तानिति ।
भ्वा(भूतत्त्वा)त्मने नम इत्यादि ।
एषां ध्यानं स्वस्वस्थल प्रोक्तमनुसन्धेयम् ।
जलस्य वक्ष्यमाणं वरुणध्यानं ज्ञेयम् ।
एतत्कला निवृत्तिप्रतिष्ठा- विद्याशान्तिरूपाः ।
आसां ध्यानं प्रासादमन्त्रोक्तमनुसन्धेयम् ॥ ४८-४९ ॥
पूर्वादिदिक्षु सम्पूज्या जार्णाद्या वर्णशक्तयः ॥ ४९ ॥
जाग्रता तपनी वेदगर्भा दहनरूपिणी ।
सेन्दुखण्डा शुम्भहन्त्री नभश्चारिण्यनन्तरम् ॥ ५० ॥
वागीश्वरी मदवहा सोमरूपा मनोजवा ।
मरुद्वेगा रात्रिसञ्ज्ञा तीव्रकोपा यशोवती ॥ ५१ ॥
तोयात्मिका पुर्नित्या दयावत्यपि हारिणी ।
तिरस्क्रिया वेदमाता तत्परा दमनप्रिया ॥ ५२ ॥
समाराध्या नन्दिनी च परा रिपुविमदीनी ।
षष्ठी च दण्डिनी तिग्मा दुर्गा गायत्र्यनन्तरम् ॥ ५३ ॥
निरवद्या विशालाक्षी श्वासोद्वाहा च नादिनी ।
वेदना वह्निगर्भाख्या सिंहवाहाह्वया तथा ॥ ५४ ॥
धुर्या दुवीषहा पश्चात् रिरंसा तापहारिणी ।
त्यक्तदोषा निःसपत्ना चत्वारिंशच्चतुर्युताः ॥ ५५ ॥
पूर्वादिदिक्ष्विति ।
एकैकस्यां दिशि एकादशैकादश शक्तीः पूजयेत् ।
तदुक्तम्—-मन्त्रविधानविच्च दिशि दिश्येकादशैकादश ॥ इति ।
जार्णाद्या इति ।
जाप्रभृतिमन्त्राक्षराद्याः ।
तत्परेति ।
दमनप्रियाविशेषणम् ।
परेति कलानाम ।
षष्ठीत्यपि नाम ॥ ४९-५७ ॥
लोकपालांस्ततोऽभ्यर्चेद् वज्राद्यायुधसंयुतान् ।
इत्थं जपादिभिः सिद्धे मन्त्रेऽस्मिन्साधकोत्तमः ॥ ५६ ॥
आग्नेयास्त्राधिकारी स्यात्तद्विधानमुदीर्यते ।
आग्नेयास्त्रमिति प्रोक्तं विलोमपठितो मनुः ॥ ५७ ॥
पूर्वेक्ता एव ऋष्याद्या मन्त्रस्याऽस्य प्रकीत्तीताः ।
प्रतिलोमक्रमादस्य षडङ्गानि प्रकल्पयेत् ॥ ५८ ॥
प्रतिलोमेति ।
सङ्ख्यायाः प्रातिलोम्यम् ।
वर्णप्रतिलोम्यम् ।
वर्णप्रातिलोम्य- स्योक्तत्वात् ।
प्रकल्पयेदिति ।
पूर्वेक्तसङ्ख्याक्षरैः सम्प्रदायात् तारमायादुर्गाद्यैः जात- वेदसे मां रक्ष रक्षाग्नयेऽस्त्राय फडन्तैः ।
तदुक्तम्—-
शिलाहि लोकाङ्गसङ्ख्यैर्धातुनन्दप्रसङ्ख्यकैः ।
विलोमभूतैस्तारादि बीजत्रयशिरोगतैः ॥
आद्यं पदं मां रक्षाऽग्नयेऽस्त्राय फट्युतैः ।
जातियुक्तैः षडङ्गानि दहनास्त्रस्य कल्पयेत् ॥ इति ॥५७-५८॥
वर्णन्यासपदन्यासौ विदध्यात् प्रतिलोमतः ।
ध्यानभेदान् विजानीयाद्गुर्वादेशान्न चाऽन्यथा ॥ ५९ ॥
ध्यानभेदानिति ।
तत्राग्नेयास्त्रदेवताध्यानं यथा—-
मध्ये तालवनस्याऽग्निर्वप्राढ्ये वह्निभूतले ।
महतस्तालवृक्षस्य मूलाभ्यासविराजिते ॥
सिंहस्कन्धाग्निकोणे वा चलच्चरणसंस्थिताम् ।
तडित्कोटिसमप्रख्यां कल्पान्तदहनोज्ज्वलाम् ॥
अकृत्रिमोग्रदंष्ट्रास्यां घण्टामालास्फुरत्कटिम् ।
शूलभोगीन्द्रडमरुविद्युद्वह्नीन् ज्वलत्प्रभान् ॥
दधानां करदण्डैः स्वैर्भूषामदबलाकुलैः ।
भूषितां भूषणैरुग्रैः फणीन्द्रपरिकल्पितैः ॥
अग्न्यादिवर्णमयीं देवीं संविद्रूपां विचिन्तयेत् ॥ इति ॥ ५९ ॥
पूर्ववज्जपकॢप्तिः स्याज्जुहुयात् पूर्वसङ्ख्यया ।
पञ्चगव्यसुपक्वेन चरुणा तस्य सिद्धये ॥ ६० ॥
पूर्ववदिति ।
पूर्वेक्तसङ्ख्यया ।
विशेषस्तन्त्रान्तरे—-
मौनी व्रतपरो मन्त्री शुद्धाचारो जितेन्द्रियः ।
पूर्वेक्तासनमध्यस्थः प्राङ्मुखः स्वस्तिकासनः ।
आग्नेयास्त्रं जपेद्विद्वान् सिद्ध्यर्थं पूर्वसङ्ख्यया ॥ इति ॥
तस्य सिद्धय इति ।
उभयासिद्धत्वे प्रयोगानर्हत्वात् ।
तदुक्तम्—-
यो हि सम्यगसाध्यैतत् क्रियाः कर्त्तुमभीप्सति ।
दिव्यास्त्रदेवतास्तं वै नाशयन्त्येव दारुणाः ॥
तस्मात् सर्वप्रयत्नेन षष्ठकालादिभिर्व्रतैः ।
देहं विशोध्य शस्त्राणि साधयित्वा चरेत् क्रियाः ॥ इति ॥
अन्यत्रापि—-प्रतिलोमानुलोमान्तां विद्यां संसाध्य देशिकः ।
प्रयोगमारभेदेषामस्त्राणामुक्तमार्गतः ॥ इति ॥ ६० ॥
अर्चनं पूर्ववत् कुर्याच्छक्तेस्तु प्रतिलोमतः ।
सर्वत्र देशिकः कुर्याद् गायत्र्या द्विगुणां जपम् ॥ ६१ ॥
अर्चनमिति ।
तत्र विशेषस्तन्त्रान्तरे—-
पीठे पूर्वेदिते देवीमावाह्योक्तेन वर्त्मना ।
प्रवरैर्गन्धकुसुमैः साङ्गां मूलेन पूजयेत् ॥
अङ्गान्यग्न्यादिकोणेषु वह्निमूर्त्तीदीशास्वपि ।
दुर्गा नारायणी चैव दुर्मना शमनप्रिया ॥
नित्यानन्दोत्कराचैव सुवेशा जागरप्रिया ।
पदशक्तीरिमाश्चाष्टौ तृतीयावरणेऽर्चयेत् ।
मन्त्रार्णशक्तीस्तद्बाह्ये लोकपालांश्च पूजयेत् ॥ इति ॥
सर्वत्रेति ।
प्रयोगेषु गायत्र्या द्विगुणं जपम् ।
प्रयोगोक्तजपाद् द्विगुणं जपं कुर्यादित्यर्थः ॥ ६१ ॥
क्रूरकर्माणि कुर्वीत प्रतिलोमविधानतः ।
शान्तिकं पौष्टिकं कर्म कर्तव्यमनुलोमतः ॥ ६२ ॥
प्रतिलोमविधानतः ।
आग्नेयास्त्रेण ।
अनुलोमत इति जातवेदसे इत्यनेन ॥६२॥
प्रयोगकाले प्रजपेदष्टौ पादान् विलोमतः ।
शोधितो जायते पश्चान्मन्त्रोऽयं विधिनाऽमुना ॥ ६३ ॥
प्रजपेदिति पृथक् पृथक् ।
शोधित इति ।
तदुक्तम्—-
मनोः स्थिरादिदोषाणां सर्वेषामुपशान्तये ।
अभिचारकृतानां च मनुपादाष्टकं जपेत् ॥ इति ॥ ६३ ॥
अग्न्याद्यः पञ्चाक्षरः पादो ज्ञेयो ज्ञानेन्द्रियात्मकः ।
धुमाद्योऽन्यः पञ्चवर्णः स्मृतः कर्मेन्द्रियात्मकः ॥ ६४ ॥
ज्ञानेन्द्रियात्मक इति ।
घ्राणरसनचक्षुः श्रोत्रत्वग्रूपाणि ज्ञानेन्द्रियाणि ।
तदात्मकत्वं वर्णक्रमेण ।
एवमग्रेऽपि ।
कर्मेति-वाक्पाणिपादपायूपस्थानि ॥ ६४ ॥
श्वाद्यस्तृतीयः पञ्चार्णः पञ्चभूतमयः स्मृतः ।
त्याद्यः सप्ताक्षरः पादश्चतुर्थे धातुरूपकः ॥ ६५ ॥
पञ्च भूतानि ।
पृथिव्यप्तेजोवाय्वाकाशानि ।
धात्विति ।
त्वगसृङ्मांसमेदो- ऽस्थिमज्जाशुक्राणि ॥ ६५ ॥
दःपूर्वः पञ्चमः पाद ऊर्मिरूपः षडक्षरः ।
तोवर्णादिः षडर्णेऽन्यः षाट्कौशिकमयो मतः ॥ ६६ ॥
सोपूर्वः पञ्चवर्णेऽन्यः शब्दादिमय ईरितः ।
सेवर्णाद्योऽष्टमो ज्ञेयः पञ्चार्णे वचनादिकः ॥ ६७ ॥
ऊर्मीति ।
बुभुक्षापिपासाशोकमोहजरामृत्युरूपाः ।
षाट्कौशिकेति ।
स्नाय्व- स्थिमज्जात्वङ्मांसान्त्राणि ।
शब्दादीति ।
शब्दस्पर्शरूपरसगन्धाः ।
वचनेति ।
वचनादानगतिविसर्गानन्दाः ॥ ६६-६७ ॥
एवं तत्त्वसमायोगात् पादकॢप्तिरुदीरिता ।
तत्तत्पदाक्षरोत्पन्नास्तावत्यो वह्निदेवताः ॥ ६८ ॥
एवं तत्त्वसमायोगादित्यनेन एतदक्षरैस्तत्त्वन्यासः सूचितः ॥ ६८ ॥
प्रधानमूत्तीप्रतिमाः स्वस्ववर्णेदितप्रभाः ।
प्रज्वलत्केशवदना भीमदंष्ट्रा भयानकाः ॥ ६९ ॥
देवताईन्द्रियोत्पन्ना ऊर्ध्वदृष्टय ईरिताः ।
देवता भूतपादोत्थास्तिर्यग्वक्त्राः प्रकीत्तीताः ॥ ७० ॥
धातुरूपाक्षरोद्भूता उभयाननशोभिताः ।
ऊमीजा ऊर्ध्ववदना कोशोत्थास्तिर्यगाननाः ॥ ७१ ॥
एताः सर्वाः स्मृताः क्लीबा इन्द्रियार्थेद्भवाः स्त्रियः।
अधस्तिर्यङ्मुखोपेता ईरिता वर्णदेवताः ॥ ७२ ॥
अभिमुख्यः स्मृताः सौम्ये पराङ्मुख्योऽन्यकर्मणि ।
आभ्योऽसङ्ख्याः समुत्पन्ना देवता ज्वलिताननाः ॥ ७३ ॥
इन्द्रियोत्पन्ना इति ।
आद्यपदद्वयोत्थाः ।
इन्द्रियार्थेद्भवाः स्त्रियः अधस्तिर्यङ्- मुखोपेता इति सम्बन्धः ।
इन्द्रियार्थेद्भवा इति ।
अन्त्यपादद्वयोत्थाः ।
सर्वासामु- पसंहारः ।
ईरिता वर्णदेवता इति ॥ ६९-७३ ॥
याभिर्मन्त्री दहेच्छत्रो राज्यं सगिरिकाननम् ।
अस्त्रं मनुष्यनक्षत्रेष्वारभेत विचक्षणः ॥ ७४ ॥
आसुरेषु प्रयुञ्जीत देवतारासु संहरेत् ।
पूर्वेत्तरत्रयं पश्चाद्भरण्यार्द्राऽथ रोहिणी ।
इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः ॥ ७५ ॥
ज्येष्ठा शतभिषा मूलधनिष्ठाश्लेषकृत्तिकाः ।
चित्रामघाविशाखाः स्युस्तारा राक्षसदेवताः ॥ ७६ ॥
अश्विनी रेवती पुष्यः स्वाती हस्ता पुनर्वसुः।
अनुराधामृगशिरः श्रवणा देवतारकाः ॥ ७७ ॥
उपक्रमेत नन्दासु रिक्तास्वस्त्रं विसर्जयेत् ।
भद्रास्वाहरणं कुर्याज्जयास्वत्यन्तमुत्तमम् ॥ ७८ ॥
उपक्रमो भौमवारे शनिवारे विसर्जनम् ।
प्रतिसंहरणं वारे गुरोः शुक्रस्य वा भवेत् ॥ ७९ ॥
नन्दास्विति ।
प्रतिपत्षष्ठ्येकादशीषु ।
रिक्तास्विति ।
चतुर्थीनवमीचतुर्दशीषु ।
भद्रास्विति ।
द्वितीयासप्तमीद्वादशीषु ।
जयास्विति ।
तृतीयाष्टमी त्रयोदशीषु ।
अत्यन्तमुत्तममाहरणमित्यनुषज्यते—-
" भद्राषु सङ्ग्रहं कुर्याज्जयासु तु विशेषतः " इत्युक्तेः ॥ ७४-७९ ॥
स्थिरेषु राशिष्वारम्भश्चरेषु स्याद्विसर्जनम् ।
अस्त्रसंहरणं कुर्यादुभयेषु विचक्षणः ॥ ८० ॥
स्थिरेष्विति ।
वृषसिंहवृश्चिककुम्भेषु ।
चरेष्विति ।
मेषकर्कटतुलामकरेषु ।
उभयेष्विति ।
द्विस्वभावेषु ।
मिथुनकन्याधनुर्मीनेषु ॥ ८० ॥
कृष्णपक्षेऽनलेनाऽस्त्रं विसृजेच्छशिना पुनः ।
शुक्लपक्षे क्रमादस्त्रं पुनरात्मनि संहरेत् ॥ ८१ ॥
अनलेन तु दक्षिणनासापुटसञ्चारन्मरुता ।
साम्प्रदायिकास्त्वेवं मन्यन्ते ।
अत्राऽनलशब्देनाऽग्निमण्डलम् ।
रमिति बीजम् ।
कृत्तिकादिनक्षत्रमप्युच्यते ।
तद्वच्छशिशब्देन चन्द्रमण्डलं चन्द्रबीजं सौम्यास्तिथयश्चोच्यन्ते ।
तेनायमर्थः- अग्निमण्डलं स्वबीजसंयुक्तं ध्यात्वा नक्षत्रप्रधानमेव विसर्जनकर्म कुर्यात् ॥ ८१ ॥
भानुना मोक्षसंहारौ कुर्यात्पक्षद्वये सुधीः ।
पश्चिमाभिमुखो भूत्वा कर्म सर्वत्र साधयेत् ॥ ८२ ॥
भानुनेति ।
आत्मनो भास्कररूपध्यानेन ।
एवमात्मनो भास्कररूपं विचिन्त्य पूर्वेक्तप्रकारेण पक्षद्वये मोक्षसंहारौ सुधीः कुर्यादित्यनुवादः ।
आत्मनो भास्कर- रूपत्वध्यानमात्रं विशेषः ।
तदुक्तमाचार्यैः—-
नक्षत्रात्मा हुताशः स्यात्तिथ्यात्मेन्दुरुदाहृतः ।
ताभ्यां करोति दिनकृद्विसर्गादानकर्मणी ॥ इति ॥
सर्वत्रेति ।
आरम्भे प्रयोगे उपसंहारे च ।
सामग्रीसम्पादनपूर्वकं कर्मसङ्कल्प आरम्भः ।
हुतक्रियाऽस्त्रविमोचनम् ।
दृष्टफलानन्तरमुद्वासनं संहृतिः ।
अन्यत्र कालनियमं विना प्रारम्भोऽप्युक्तः—-
परचक्रभयादौ च तीव्ररूपे महाभये ।
न कालनियमो गम्यः प्रयोगाणां कदाचन ॥ इति ॥ ८२ ॥
नक्षत्रवृक्षशकलान् साध्याख्याकर्मसंयुतान् ।
तत्तन्मन्त्राक्षरोपेतान् मन्त्री मन्त्रार्णसङ्ख्यया ॥ ८३ ॥
जुहुयादेधिते वह्नौ मारयेद् रिपुमात्मनः ।
कृष्णाष्टमीं समारभ्य यावत् कृष्णचतुर्दशी ॥ ८४ ॥
नक्षत्रवृक्षा द्वाविंशे वक्ष्यमाणाः ।
शकलानिति ।
प्रादेशमितान् ।
साध्याख्या- कर्मसंयुतान् तत्तन्मन्त्राक्षरोपेतानि ।
अनेन क्रमेण—-
" अन्ते नाम्नो भवेन्मन्त्रः पल्लवो मारणे मतः " इति पल्लव उक्तः ॥८३-८४॥
धत्तूरविषवृक्षाक्षभूरुहोत्थान् समिद्वरान् ।
राजीतैलेन संलिप्तान् पृथक् सप्तसहस्रकम् ॥ ८५ ॥
जुहुयात् संयतो भूत्वा रिपुर्यमपुरं व्रजेत् ।
सप्तरात्रं प्रजुहुयात् सिद्धार्थस्नेहलोलितैः ॥ ८६ ॥
विषवृक्षः कारस्करः, अक्षो बिभीतकः, सिद्धार्थस्नेहं सर्षपतैलम् ॥८५-८६॥
आर्द्रवस्त्रो विष्टिकालो मरीचैर्मनुनाऽमुना ।
निगृह्यते ज्वरेणाऽरिः प्रलयाग्निसमेन सः ॥ ८७ ॥
तालपत्रे समालिख्य शत्रुनाम यथाविधि ।
आग्नेयास्त्रेण संवेष्ट्य कुण्डमध्ये निधापयेत् ॥ ८८ ॥
जुहुयान्मरिचैः क्रुद्धो ज्वराक्रान्तः स जायते ।
तदादाय क्षिपेत्तोये शीतले स वशो भवेत् ॥ ८९ ॥
विष्टिकाल इति विष्टौ करणे ।
विषारिघातादि च तत्र सिध्येदित्युक्तेः ।
यथाविधीति—-कर्मसहितम् ।
संवेष्ट्येतिपरितो लेखनम् ।
धत्तूररसेनेति परम- गुरवः ॥ ८७-८९ ॥
पिष्ट्वाऽपामार्ग बीजानि मरीचं मधुसंयुतम् ।
अत्युष्णे लवणे तोये निःक्षिप्य क्वाथयेत्ततः ॥ ९० ॥
ऋक्षवृक्षप्रतिकृतेर्हृदये वदने नसि ।
किञ्चितकिञ्चितक्षिपेत्तोयं दर्व्या कारस्करोत्थया ॥ ९१ ॥
आग्नेयमुच्चरन्मन्त्री सोऽचिराज्ज्वरितो भवेत् ।
क्वथितेऽम्भसि तां क्षिप्त्वा हन्याच्छत्रुमयत्नतः ॥ ९२ ॥
कारस्करेति ।
कुचिला ॥ ९०-९२ ॥
तीक्ष्णस्नेहेन संलिप्तां शत्रुप्रतिकृतिं निशि ।
तापयेदेधिते वह्नौ प्रतिलोममनुं जपन् ॥ ९३ ॥
ज्वरेण बाध्यते सद्यो होमादस्य मृतिर्भवेत् ।
तीक्ष्णस्नेहेन सर्षपतैलेन ।
प्रतिलोममित्याग्नेयमस्त्रम् ।
होमादित्यर्थात् प्रतिकृतेः।
अस्येति रिपोः ॥ ९३-९४ ॥
सामुद्रे सलिले हिङ्गुविषजीरकलोलिते ॥ ९४ ॥
क्वथिते पुत्तलिं साध्यनक्षत्रतरुनिमीताम् ।
अधोवक्त्र्यां विनिक्षिप्य यष्ट्या विषतरूत्थया ॥ ९५ ॥
तच्छिरस्ताडनं कुर्वन् जपेदस्त्रं विलोमतः ।
सप्ताहान्मरणं याति शत्रुर्ज्वरविमोहितः ॥ ९६ ॥
सामुद्रे सलिले ।
लवणोदके ।
विलोमत इति ।
जातभेदोऽभिप्रायेण ।
तेना- ग्नेयास्त्रमित्यर्थः ॥ ९४-९६ ॥
आदित्यरथनागेन्द्रग्रस्ताङ्घिरं तद्विषाहतम् ।
नग्नं तैलेन लिप्ताङ्गं दग्धं भानुमरीचिभिः ॥ ९७ ॥
अधोमुखं निजरिपुं ध्यात्वा क्वथितवारिणा ।
तर्पयेद्भानुमालोक्य शत्रुर्मृत्युप्रियो भवेत् ॥ ९८ ॥
नागेन्द्रः सर्पः ।
तर्पयेदिति दुर्गाम् ॥ ९७-९८ ॥
बिभ्रतीं मुशलं शूलं ध्यायन् कालघनप्रभाम् ।
कार्पासबीजैर्निम्बस्य पत्रैर्मेषीघृतप्लुतैः ॥ ९९ ॥
हुत्वा विद्वेषयेच्छत्रूनस्त्रेणाऽनेन देशिकः ।
बिभ्राणां तर्जनीं शूलं ध्यात्वा दुर्गां भयङ्करीम् ॥ १०० ॥
महिषीघृतसंसिक्तैः पल्लवैवीषवृक्षजैः ।
हुत्वा रिपोः क्षणात् सेनामुच्चाटयति मन्त्रवित् ॥ १०१ ॥
तर्जनीमिति ।
तर्जनीमुद्राम् ।
तल्लक्षणमुक्तं दुर्गापटले ॥ ९९-१०१ ॥
ध्यात्वा देवीं पुरा प्रोक्तां चतुभीर्मरिचान्वितैः ।
अजारुधिरसंसिक्तैर्जुहुयाद्दवसत्रयम् ॥ १०२ ॥
रिपोरुच्चाटनं कुर्यात् सेनाया नाऽत्र संशयः ।
अग्निशूलकरां दुर्गां ज्वलन्तीं प्रलयाग्निवत् ॥ १०३ ॥
ध्यात्वा सर्षपतैलाक्तैर्बीजैर्धत्तूरसम्भवैः ।
हुत्वा विमोहयेच्छत्रून् मरिचैर्वा ससर्षपैः ॥ १०४ ॥
सर्षपतैलाक्तैरित्युत्तरत्राप्यन्वेति ॥ १०२-१०४ ॥
कालाञ्जननिभां दुर्गां शूलखड्गधरां स्मरन् ।
नक्षत्रवृक्षसम्भूतैर्व्रणकृत्स्नेहसंयुतैः ॥ १०५ ॥
समिद्वरैः प्रजुहुयाद्धन्यान्मासेन वैरिणम् ।
सिंहाधिरूढां धावन्तीं धावमानं रिपुं प्रति ॥ १०६ ॥
शरान् कार्मुकनिर्मुक्तान् वह्निज्वालामुखाकुलान् ।
मुञ्चन्तीं संस्मरन् दुर्गां तर्पयेदुष्णवारिणा ।
भानुबिम्बं समालोक्य रिपोरुच्चाटनं भवेत् ॥ १०७ ॥
व्रणकृद्भल्लातः ॥ १०५-१०७ ॥
अतिदुर्गामयोमुष्टिगदाहस्तां विचिन्तयेत् ।
विद्युद्दामसमानाभां महिषीघृतसम्प्लुतैः ॥ १०८ ॥
पुलाकैर्जुहुयान्निम्बबिभीतकसमिद्वरैः ।
कोद्रवैरथ शत्रोश्च सेनायाः स्तम्भनं भवेत् ॥ १०९ ॥
आत्तपाशाङ्कुशां रक्तां गाणिदुर्गामनु स्मरेत् ।
लोणैः समधुरैः साध्यवृक्षकाष्ठैधितेऽनले ॥ ११० ॥
जुहुयान्निशि सप्ताहान्मन्त्रविद्वशयेन् नृपान् ।
पाशाङ्कुशधरां रक्तां विश्वदुर्गां विचिन्तयेत् ॥ १११ ॥
फलिनीकुसुमैः फुल्लैश्चन्दनाम्भः समुक्षितैः ।
जुहुयान्निशि यो मन्त्री तस्य विश्वं वशं भवेत् ॥ ११२ ॥
शरच्चन्द्रनिभां देवीं विगलत्परमामृताम् ।
पाशाङ्कुशधरां ध्यायन् सिन्धुदुर्गां समिद्वरैः ॥ ११३ ॥
वैतसैर्मधुरासिक्तैर्जुहुयात् वृष्टिसिद्धये ।
कपालं त्रिशिखं पाशमङ्कुशं बिभ्रतीं करैः ॥ ११४ ॥
जवाकुसुमसङ्काशामग्निदुर्गां विचिन्तयन् ।
हुत्वा लवणपुत्तल्या मधुरत्रययुक्तया ॥ ११५ ॥
आकर्षेद्वाञ्छितान् साध्यान्मन्त्रविन्नाऽत्र संशयः ।
अतिदुर्गेयमत्याद्या षदन्ता त्रिष्टुबीरिता ॥ ११६ ॥
दुर्वर्णान्ताऽथ गाण्याद्या गाणिदुर्गा समीरिता ।
विश्वाद्याण्यक्षरान्ता सा विश्वदुर्गा समीरिता ॥ ११७ ॥
सिन्ध्वाद्या सा वकारान्ता सिन्धुदुर्गा निगद्यते ।
त्यन्तामग्न्यादिकामेनामग्निदुर्गां विदुर्बुधाः ॥ ११८ ॥
अतिदुर्गादयः पञ्च जातवेदोमन्त्रभेदा एव वक्ष्यमाणाः ।
पुलाकैस्तुच्छधान्यैः ।
अतीति ।
अतिदुर्गाणि विश्वा इत्यारभ्य परिषदन्ता सर्वा ऋक् ।
एवमग्रेऽपि ।
गूढार्थदीपिकाकारस्तु ।
आतिषदिति ।
त्रिवर्णं मन्त्रं वदन् बभ्रामैव ॥१०८-११८॥
अङ्गणे स्थण्डिलं कृत्वा सुगन्धिकुसुमादिभिः ।
देवीमभ्यर्चयेन्नित्यं प्रागुक्तेनैव वर्त्मना ॥ ११९ ॥
आहरेद्रात्रिषु बलिं चरुणा सर्वसिद्धिदम् ।
कृत्यारोगभयद्रोहभूतादीन्नाऽत्र संशयः ॥ १२० ॥
यथावदग्निमाराध्य गन्धैः पुष्पैर्मनोरमैः ।
स्थित्वा तस्याऽग्रतो मन्त्री जपेन्मन्त्रमनन्यधीः ॥ १२१ ॥
जपोऽयं सर्वसिद्ध्यै स्यान्नाऽत्र कार्या विचारणा ।
लवणैर्मधुरासिक्तैर्जुहुयात् पश्चिमामुखः ॥ १२२ ॥
तस्येत्यग्नेः ॥ १२१ ॥
मन्त्रार्णसङ्ख्यया मन्त्री रिपुमात्मवशं नयेत् ।
शालीन्प्रक्षाल्य संशोष्य शुद्धान्कुर्वीत तण्डुलान् ॥ १२३ ॥
जपित्वा पञ्चगव्येषु संस्कृते हव्यवाहने ।
चरुं पचेज्जपन्मन्त्रमवतार्य पुनः सुधीः ॥ १२४ ॥
अर्चयित्वा विशदधीर्देवीमग्नौ यथा पुरा ।
जुहुयाच्चरुणाऽनेन साज्येनाऽष्टसहस्रकम् ॥ १२५ ॥
पात्रे सम्पातनं कुर्वन् साध्यं तत्प्राशयेत् सुधीः ।
शेषं तं निखनेद् वारिसम्पातं प्राङ्गणान्तरे ॥ १२६ ॥
कृत्या रोगा विनश्यन्ति सह भूतग्रहामयैः ।
परैरुत्पादिता कृत्या पुनस्तानेव भक्षयेत् ॥ १२७ ॥
ब्रीहिभिर्हविषा क्षीरैः पयोवृक्षसमिद्वरैः ।
आज्यैर्मधुत्रयोपेतैरेतैर्दशशतं पृथक् ॥ १२८ ॥
जुहुयात् सम्पदां भूमिः साधको भवति ध्रुवम् ।
भास्करे मेषराशिस्थे मन्त्रज्ञोऽनुगुणे दिने ॥ १२९ ॥
नद्यां सागरगामिन्यां सततं पुष्कलाम्भसि ।
उद्धृत्यादाय सिकताः संशोष्य परिशोधयेत् ॥ १३० ॥
न्यस्य ताः पञ्चगव्येषु संस्कृते हव्यवाहने ।
भर्जयेन्मनुना सिद्ध्यै दर्व्या ब्रह्मरुहोत्थया ॥ १३१ ॥
सिकताप्रयोगमाह भास्कर इति ।
सागरगामिन्यामिति साक्षात् ।
पञ्च- गव्येष्विति ।
आलोडनपर्याप्तेषु ॥ १२९-१३१ ॥
सिंहमेषधनुस्थेऽर्के कृष्णपक्षेऽष्टमीतिथौ ।
विशाखा कृत्तिकामूलहस्तौत्तर मघास्वथ ॥ १३२ ॥
रोहिण्यां श्रवणे वारौ मन्दवाक्पतिदैवतौ ।
विहायाऽन्येषु कुर्वीत सिकतास्थापनं सुधीः ॥ १३३ ॥
गृहग्रामादिराष्ट्राणां रक्षार्थं सिकताः शुभाः ।
गृहग्रामादीत्यादि शब्देन नगरम् ॥ १३२-१३४ ॥
प्रस्थाढकघटोन्माना मध्यादिष्ववटेष्विमाः ॥ १३४ ॥
नवसु प्रक्षिपेज्जप्तास्तेषु सम्पूजयेत् क्रमात् ।
मध्यादि देवीशस्त्राणि कपालान्तानि देशिकः ॥ १३५ ॥
चक्रं शङ्खमसिं खेटं बाणञ्चापं त्रिशूलकम् ।
कपालं स्वस्वमन्त्रेण सम्पूज्याऽन्ते बलिं हरेत् ॥ १३६ ॥
प्रस्थेति ।
गृहे प्रस्थमिताः, ग्रामे नगरे आढकमिताः ।
राष्ट्रे घटोन्मिताः ।
अशीतिगुञ्जः कर्षः ।
चतुर्गुणः पलम् ।
चतुष्पलः कुडवः ।
चतुःकुडवः प्रस्थः ।
प्रस्थचतुष्कमाढकः ।
आढकचतुष्कं द्रोणः ।
द्रोणचतुष्कं घटः ।
दशाङ्गुलाधिकं चतुवींशत्यङ्गुलं केचिदाहुः ॥ १३४-१३५ ॥
स्वस्वमन्त्रेणेति—-सप्तदशोक्तेन अन्ते बलिमिति ।
देव्याःचक्राद्यस्त्राणां
च ॥ १३५-१३६ ॥
नक्षत्रग्रहराशीनां लोकेशानां बलिं हरेत् ।
विहिता यत्र रक्षेयं वर्धन्ते तत्र सम्पदः ॥ १३७ ॥
क्षुद्रग्रहमहारोगसौरभूतसरीसृपाः ।
अमुना विलयं यान्ति विधिना नाऽत्र संशयः ॥ १३८ ॥
नक्षत्रेत्यधिपतीनामप्युपलक्षकम् ।
एषां बलिमन्त्राः।
अश्विनीदेवताभ्यो दिवा- नक्तञ्चारिभ्यः सर्वेभ्यो भूतेभ्यो नमः ।
एवं भरणीकृत्तिकापाददेवताभ्यः कृत्तिका- पादत्रयदेवताभ्य इत्याद्यूह्यम् ।
ततस्तदधिपतिभ्यः अश्विन्यधिपत्यश्विदेवताभ्यः ।
एवं यमादिषूह्यम् ।
ततो राशिबलिः ।
अश्विनीभरणी-कृत्तिकापादे मेषदेवताभ्यस्त- दधिपतिभ्यः ।
एवं वृषादिषूह्यम् ।
ततो ग्रहबलिः ।
अश्विनीभरणीकृत्तिकापादमेष- राश्यधिपत्यङ्गारकदेवताभ्यः ।
एवमन्येषामप्यूह्यम् ।
लोकेशबलिर्वास्तौ मदुक्तोऽ- नुसन्धेयः ।
बलिं हरेदिति परितः ॥ १३७-१३८ ॥
सिकतानां विशुद्धानां विकारकुडवं सुधीः ।
पञ्चगव्ययुते पात्रे ब्रह्मवृक्षेण निमीते ॥ १३९ ॥
निक्षिप्य विधिना यत्र स्थापयेत्तत्र सम्पदः ।
दिने दिने प्रवर्धन्ते कालवृद्ध्यादिभिः सह ॥ १४० ॥
महोत्पाता विनश्यन्ति कृत्याद्रोहमहाग्रहाः ।
विशुद्धानामिति ।
नद्यामित्याद्युक्तप्रकारेण ।
विकारकुडवं षोडशकुडवम् ।
प्रस्थं गोमूत्रादीनाम् ॥ १३९-१४१ ॥
चरुगव्याश्मनां कुर्यात् स्थापनं विधिनाऽमुना ॥ १४१ ॥
गोमूत्रं प्रस्थमानं स्याद् गोमयाम्भस्तदर्द्धकम् ।
आज्यात् सप्तगुणं क्षीरं गोमूत्रात् त्रिगुणं दधि ॥ १४२ ॥
गोमूत्रेण समं सपीः सर्वं वा सममुच्यते ।
गावः स्युः कपिलाश्वेतहिमधूम्रारुणप्रभाः ।
अभावे गदिताः सर्वाः सर्वधा कपिलोद्भवम् ॥ १४३ ॥
विधिनेति ।
पूर्वेक्तस्थापनप्रकारेण ।
चर्वश्मनोः ।
गव्ये तु विशेषो नारायणीये—- गव्येषु शालीन् यवमुद्गमाषगोधूमबिल्वास्थितिलाब्जबीजम् ।
पद्मच्छदस्थं विनिधाय पात्रे क्षुद्रा निखन्याद्भुवि नागयोगे ॥
नागयोगमाहान्यः—-
सार्पे मुहूर्त्ते सर्पर्क्षकरणे सर्पसञ्ज्ञिते ।
संयोगो नागयोगोऽयमथवा करणर्क्षयोः ॥ इति ॥
पृथक् शिरः पञ्च सरोजपत्रं
निश्छिद्रमेकीकृतबद्धनालम् ।
गव्ये प्रपूर्णे निखनेददूनां (नन्त्र)
स्मृत्या तदा क्षुद्रविनाशि गेहे ॥ इति ॥
तत्स्थापननक्षत्रादिकमपि तत्रैव—-
पूषा पुष्यपुनर्वसू बसुहरी चित्रा शशी (तथा) रोहिणी
तारास्तास्तिथयोऽंशुमत्फणियमा दिक्पञ्चदश्यो हरिः ।
वारास्त्विन्दुसुतेन्दुशुक्रगुरवो युग्मं कुलीरो धनुः
कुम्भान्त्यावपि राशयो निगदिता गव्यप्रयोगाय ते ॥ इति ॥
सर्वं वेति ।
वाशब्देनान्यत् प्रकारद्वयमुपक्षिप्तम् ।
योजने तत्तन्मन्त्रेण योजन- मित्यपि ज्ञेयम् ।
तदुक्तम्—-
मूत्रं प्रस्थं गोमयं स्यात्पलार्द्धं क्षीरं प्रस्थं दध्यपि क्षीरतोऽर्द्धम् ।
आज्यं दध्नोऽप्यर्द्धमेवं प्रमाणं स्वीयैर्मन्त्रैर्येजयेत् पञ्चगव्यम् ॥
मूत्रं द्विभागं शकृदेकभागं पयोऽष्टभागं दधि तत्समानम् ।
क्षीरार्द्धकं वा चतुरंशमाज्यम् ॥ इति ।
मन्त्रास्त्वाचार्यैरुक्ताः ।
तद्यथा—-
तारभवाभिरथग्भीः क्रमेण संयोजयेच्च गव्यानि ।
आत्माष्टाक्षरमन्त्रैरथवा योज्यानि पञ्चभिः पञ्च ॥ इति ॥ १४१-१४३ ॥
एकोनपञ्चाशत्कोष्ठे फलके ब्रह्मशाखिनः ।
विहाय कोणकोष्ठानि शक्त्याद्यं जातवेदसम् ॥ १४४ ॥
लिखित्वा मध्यकोष्ठादि पूजयेत्तत्र देवताम् ।
कृत्वा होमं ससम्पातं निखनेत्तद्यथा पुरा ।
दद्याद् बलिं यथा पूर्वमस्य पूर्वेदितं फलम् ॥ १४५ ॥
एकोनपञ्चाशदिति ।
पूर्वापरायतदक्षिणोत्तरायताष्टाष्ट रेखाक्रमेण ।
तत्र मध्यकोष्ठे शक्तिबीजं लिखित्वा पूर्वाद्यावृत्तित्रयेण जातवेदोमन्त्रं लिखेत् ।
तत्र तृतीयावृत्तौ ।
बाह्ये कोणचतुष्टयपरित्यागः ॥ १४४-१४५ ॥
मध्ये मायामष्टकोष्ठेषु पादा-
नष्टौ कृत्वा मातृकार्णैः प्रवीतम् ।
भूविम्बस्थं सर्वभूतामयघ्नं
रक्षायुःश्रीकीत्तीदं यन्त्रमेतत् ॥ १४६ ॥
यन्त्रमाह—-मध्य इति ।
पूर्वापरायता दक्षिणोत्तरायताश्चतस्रो रेखाः कुर्यात् ।
तदा नवकोष्ठं भवति ।
मध्य इति ।
मध्यकोष्ठे ॥ १४६ ॥
आग्नेयास्त्रस्य ज्ञानानि विसर्गादानकर्मणी ।
यः पुमान् गुरुणा शिष्टस्तस्याऽधीनं जगत्त्रयम् ॥ १४७ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
एकविंशः पटलः समाप्तः ॥ २१ ॥
ब्थ् " बि
विसर्गादानकर्मणीति ।
विसर्गः संहारः ।
आदानं प्रयोगानन्तरं पुनर्मन्त्र- स्वाकारः ।
यदाहुः—-
विधिवन्मारणं कृत्वा सिद्धमन्त्रेण मन्त्रवित् ।
कर्मान्ते देवतापूजां सविशेषं प्रकल्पयेत् ॥
शक्त्या सन्तर्प्य विप्रांश्च मन्त्रमूत्तीं विसृज्य च ।
समुद्रगायां नद्यां तु कण्ठमात्रे जले स्थितः ॥
अहोरात्रं जपेन्मन्त्रमष्टाधिकसहस्रकम् ।
शुद्धं मनुं तं स्वीकुर्यात् ।
इति ॥ १४७ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायामेकविंशः पटलः ॥ २१ ॥
ब्थ् " बि