अथ विंशः पटलः
अथाऽभिधास्ये विधिवदघोरास्त्रमनुत्तमम् ।
यस्य संस्मरणादेव सर्वे नश्यन्त्युपद्रवाः ॥ १ ॥
माया स्फुरद्वयं भूयः प्रस्फुरद्वितयं ततः ।
घोरघोरतरेत्यन्ते तनुरूपपदं पुनः ॥ २ ॥
चटयुग्मं तदन्ते स्यात् प्रचटद्वितयं ततः ।
कहयुग्मं वमद्वन्द्वं ततो बन्धयुगं पुनः ॥ ३ ॥
घातयद्वितयं वर्म फडन्तः समुदाहृतः ।
एकपञ्चाशदर्णेऽयमघोरास्त्रमहामनुः ॥ ४ ॥
अघोरोऽस्य मुनिः प्रोक्तश्छन्दस्त्रिष्टुबुदाहृतम् ।
अघोररुद्रः सन्दिष्टो देवता मन्त्रवित्तमैः ॥ ५ ॥
हृदयं पञ्चभिः प्रोक्तं शिरः षड्भिरुदाहृतम् ।
शिखा दशभिराख्याता तावद्भः कवचं मतम् ॥ ६ ॥
वसुवर्णैः स्मृतं नेत्रं मासार्णैरस्त्रमीरितम् ।
मूर्धनेत्रास्यकण्ठेषु हृन्नाभ्यन्धूरुषु क्रमात् ॥ ७ ॥
जानुजङ्घापदद्वन्द्वे रुद्रभिन्नाक्षरैर्न्यसेत् ।
पञ्चभिश्च पुनः षड्भिर्द्वाभ्यामष्टभिरक्षरैः ॥ ८ ॥
चतुर्वर्णैः षडर्णैश्च करणैः करणैः पुनः ।
चतुभीः षड्भिरक्षिभ्यां वर्णभेदोऽयमीरितः ॥ ९ ॥
मन्त्रमुद्धरति मायेति ।
माया शक्तिबीजम् ।
तनुरूपेति स्वरूपम् ।
वर्म हुम् ।
महामनुरित्यनेन कामनाविशेषे तत्तद्धोजान्तत्वमुक्तम् ।
यदाहुः—-
हुमन्तः स्तम्भने मन्त्रः क्रोमाकृष्टौ समापने ।
वषडन्तः संवनने नमोऽन्तो विषनाशने ॥
ग्रहचौररिपुध्वंसे हुं क्रोमन्तो विधीयते ।
शक्त्यन्तश्चाऽखिलेष्टाप्त्यै क्षौमन्तो मारणे भवेत् ॥
फडन्तो भूतसंहारे मन्त्रोऽयं कल्पपादपः ॥ इति ।
ईश्वरकल्पे तु प्रस्फुरद्वयबन्धद्वयवजीतः एकचत्वारिंशदक्षर उद्धृतः।
मन्त्रस्थ- हलो बीजानि ।
स्वराः शक्तयः ।
हुं बीजं ह्रों शक्तिरिति पद्मपादाचार्याः ।
मन्त्रवित्त- मैरित्युत्तरत्र सम्बध्यते ।
तेनाऽङ्गमन्त्रेषु एकादशभागेष्वपि प्रत्येकं प्रणवमाया- बीजयोगः सूचितः।
पद्मपादाचार्यसम्मतेः ।
तावद्भिर्दशभिः ।
वसुवर्णैरष्टार्णैः ।
मासा- र्णैर्द्वादशभिः ।
क्वचिदन्त्यार्णैरिति पाठः ।
तदा अवशिष्टाक्षरैरित्यर्थः ।
रुद्रभिन्नेति एकादशधा भिन्नैः ।
तमेव भेदमाह ।
पञ्चाभिरिति ।
करणैः चतुभीः ॥ १-९ ॥
सजलघनसमाभं भीमदंष्ट्रं त्रिनेत्रं
भुजगधरमघोरं रक्तवस्त्राङ्गरागम् ।
परशुडमरुखड्गान् खेटकं बाणचापौ
त्रिशिखिनरकपाले बिभ्रतं भावयामि ॥ १० ॥
ध्यानमाह सजलेति ।
दक्षैर्भुजैः परशुखड्गबाणशूलानि वामैरन्यान्येवमायुध-
ध्यानम् ॥ १० ॥
अभिचारे ग्रहध्वंसे कृष्णवर्णे भवेद्विभुः ।
वश्ये कुसुम्भसङ्काशो मुक्तौ चन्द्रसमप्रभः ॥ ११ ॥
ग्रहध्वंसे ग्रहवैकृते ।
यदाहुः—- " कृष्णोऽभिचारग्रहवैकृते च " इति ।
अभिचार इत्याद्युपलक्षणम् ।
तेन कामनाविशेषे ध्यानविशेषा अपि ज्ञेयाः ।
यदाहुः—-
सहस्राब्धिरवं हस्तैर्धनुः पञ्चशतैरपि ।
सन्धायाकृष्य च शरान् विमुञ्चान्तमनारतम् ॥
धावन्तं रिपुसेनायां वमद्विद्युद्घनोपमम् ।
ज्वलत्पिङ्गोर्ध्वकेशं च गजचर्मावगुण्ठितम् ॥
ध्यायेन्नाशाय सैन्यानामरातीनां महास्वनम् ।
त्रिपादहस्तनयनं नीलाञ्जनचयोपमम् ॥
शूलासिशूचीहस्तं च घोरदंष्ट्राट्टहासिनम् ।
घोरापस्मृतिनाशाय ग्रहशान्त्यै विचिन्तयेत् ॥
धावन्तं वैरिणं पश्चादत्युग्रं सधनुःशरम् ।
ध्यायेदुच्चाटनायाऽरेः स तु देशान्तरं व्रजेत् ॥
खड्गं खेटं तथा घण्टां वेतालं शूलमेव च ।
कपालं चापि बिभ्राणं पिङ्गोर्ध्वकचभीषणम् ॥
भूतप्रेतादिनाशाय ध्यायेद्भीमाट्टहासिनम् ।
सीताब्जशीतांशुपुटमिन्दुकान्तेन्दुवर्चसम् ॥
आशाम्बरं व्याघ्रनखप्रमुखैर्बालभूषणैः ।
अलङ्कृताङ्गं द्विभुजं त्रिवर्षार्धकरूपिणम् ॥
कम्राङ्गं सुमुखं सौम्यं नीलकुञ्चितकुन्तलम् ।
स्मरन्नेवमघोरं यः स मृत्युविजयी भवेत् ॥
तप्तजाम्बूनदनिभं शूलखड्गवराभयम् ।
रक्तारविन्दवसतिं स्मरन्नुच्चैः श्रियं लभेत् ॥ इति ॥ ११ ॥
लक्षमेकं जपेन्मन्त्रं घृतसिक्तैस्तिलैः शुभैः ।
तद्दशांशं प्रजुहुयान्मन्त्री मन्त्रस्य सिद्धये ॥ १२ ॥
शुभैरित्यनेनाऽवकरं दूरीकृत्य प्रक्षाल्य शोषितैरित्युक्तम् ॥ १२ ॥
शैवे सम्पूजयेत्पीठे षट्कोणान्तस्थपङ्कजे ।
अङ्गपूजां केसरेषु कृत्वा पत्रेषु तत्परम् ॥ १३ ॥
परशुं डमरुं खड्गं खेटं बाणं च कार्मुकम् ।
शूलं कपालं प्रयजेदष्टास्त्राण्यस्य देशिकः ॥ १४ ॥
दलाग्रेषु ततः पूज्या ब्राह्म्याद्याः प्रोक्तलक्षणाः ।
लोकेशान् पूजयेत्पश्चादायुधैः स्वैः समन्वितान् ॥ १५ ॥
सम्पूजयेद्देवमिति शेषः ।
षट्कोणेति ।
अष्टदलं पद्मं कृत्वा तदुपरि षट्कोणं विधाय चतुरस्रं चतुर्द्वारं कुर्यात् ।
प्रोक्तलक्षणाः षष्ठपटलोक्तस्वरूपाः ॥ १३-१५॥
इति पूजादिभिः सिद्धे मन्त्रेणाऽनेन साधकः ।
इष्टान् प्रयोगान् कुर्वीत सिध्यन्ते नात्र संशयः ॥ १६ ॥
क्रमात् सपीरपामार्गतिलसर्षपपायसैः ।
साज्यैः सहस्रं प्रत्येकं यामिन्यां जुहुयात् सुधीः ॥ १७ ॥
होमोऽयं नाशयेत् सद्यो भूतकृत्याद्युपद्रवान् ।
सितकिंशुकनिर्गुण्डीहेमापामार्गसम्भवैः ॥ १८ ॥
समिद्वरैः कृतो होमः पूर्ववद्भूतशान्तिदः ।
अपामार्गारग्वधयोः पञ्चगव्यसमुक्षिताः ॥ १९ ॥
समिधो जुहुयात् कृष्णपञ्चम्यां निशि संयतः ।
पृथक् सहस्रहोमेन भूतानां निग्रहो भवेत् ॥ २० ॥
क्रमात् सपीरपामार्गपञ्चगव्यहविर्घृतैः ।
हुत्वा सहस्रं प्रत्येकं पात्रे सम्पातयेत् सुधीः ।
सम्पातसपीषा साध्यं भोजयेद् भूतशान्तये ॥ २१ ॥
अपामार्गेति अपामार्गसमिधः ।
साज्यैरिति ।
षष्ठं द्रव्यमाज्यमित्यर्थः ।
हेम धत्तूरः ।
पूर्ववदिति ।
यामिन्यां प्रत्येकं सहस्रम् ।
पञ्चगव्यहविरिति ।
पञ्चगव्यसिद्ध- पायसमित्यर्थः ।
तदुक्तं क्रियाकालगुणोत्तरे तन्त्रे—-
पञ्चगव्योद्भवं शुद्धं चरुं तद्वत् घृतं नवम् ।
इति ।
हुत्वा निशीति ज्ञेयम् ॥ १६-२१ ॥
मध्ये शक्तिं ससाध्यां स्वरगणसहितां केसरेष्वष्टवर्गान्
पत्रान्तर्मन्त्रवर्णान् लिखतु गुणमितानग्रदेशेषु तद्वत् ।
वर्मास्त्रोल्लासिकोणे दहनपुरयुगे कल्पिते भूपुरस्थे
यन्त्रेऽस्मिन् प्राग्विधानात् कृतकलशविधिः सर्वदुःखापहारी ॥२२॥
यन्त्रमाह—-मध्य इति ।
साध्येति ।
साधकादीनामुपलक्षणम् ।
अथवा साध्यते यत्तत् साध्यं तत्सहितम् ।
तेनाऽमुकस्याऽमुकं वशं कुरु कुरु ।
अयमर्थः साध्यशब्दसङ्गृहीतो भवति ।
अष्टदलं पद्मं कृत्वा तत्कणीकायां साध्यसाधककर्म- सहितं शक्तिबीजं स्वरावीतमालिखेत् ।
तदुक्तम्—- हृल्लेखास्थितसाध्याक्षरविलसत्कणीकं कलावीतम् ।
इति ।
अष्टवर्गानिति ।
कचटतपयशलान् ।
गुणमितान् त्रिशः ।
मन्त्रवर्णान् स्फुराद्यान् चटचटान्तान् ।
अग्रदेशेषु पत्राग्रेषु ।
तद्वदिति त्रिशः ।
मन्त्रवर्णान् प्रचटाद्यान् घातयान्तान् ।
तद्बाह्ये परस्परव्यतिभिन्नं त्रिकोणद्वयं कृत्वा तत्कोणेषु वर्मास्त्रे लिखेत् ।
प्राग्विधानादिति षष्ठोक्तरीत्या ।
तदुक्तम्—-
मन्त्राक्षरत्रयोद्यद्दलमध्यदलाग्रकं च तद्बाह्ये ।
वह्निपुटास्रिसमाश्रितकवचास्त्रम् ॥ इति ॥
केचित्तु वर्मास्त्रोल्लासिकोणे दहनपुरयुगे मध्ये शक्तिमिति विप्रकृष्टान्वयेनऽष्टदल
कणीकायां षट्कोणमाहुः ।
तदसम्बद्धम् ।
लिखिताचार्य- वचनविरोधात् ॥ २२ ॥
खट्कोणे शक्तिरन्तः स्फुरयुगलवृता प्रस्फुरद्वन्द्वकोणे
शिष्टैर्मन्त्रस्य वर्णैः रसकरणचतुःषट्चतुर्वेदवेदैः।
षड्भिः कॢप्ताष्टपत्रं दहनपुरयुगेनावृतं वर्मफड्भ्यां
राजत्कोणेन वीतं धरणिपुरयुगं यन्त्रमाघोरमेतत् ॥ २३ ॥
क्षुद्रचौरग्रहव्यालभूतापस्मारनाशनम् ।
यन्त्रमेतत् समाख्यातं सर्वसम्पत्प्रदायकम् ॥ २४ ॥
यन्त्रान्तरमाह षडिति ।
एकाक्षरक्रमेण प्रस्फुरद्वन्द्वकोणे षट्कोणे अन्तर्मध्ये स्फुरयुगलवृता यथावत् साध्यसाधककर्मसहिता शक्तिर्लेख्या ।
शिष्टैरिति ।
घोराद्यै- र्घातयान्तैः ।
दहनपुरयुगेनावृतमिति ।
बाह्ये ।
सर्वसिद्धिप्रदायकमित्यनेनैतदुक्तं भवति ।
यदाहुः—- अथ शत्रुजयं वाञ्छन् घातयप्रपुटं रिपोः ।
नाम कृत्वा चिताभूमौ नियुतं प्रजपेन्मनुम् ॥
लवणोषणधूमाग्निसूरणोन्मत्तवारिभिः ।
सिक्तैः कारस्करफलैर्जुहुयादयुतं सुधीः ॥
उच्चाटे प्रस्फुरपुटं मोहने कहसंयुतम् ।
मंस्तम्भने चटपुटं वियोगे प्रचटेन तु ॥
वमेत्युन्मादने भूयो बन्धयुग्मेन बन्धने ॥ इति ॥
अथ चतुस्त्रिंशदक्षराघोरस्य यन्त्रमुच्यते—-
अथो सप्तपङ्क्त्यारयुक्तं सरोजं ततः कणीकामध्यतारस्य मध्ये ।
॥। ॥। ॥। ॥। त्रयीसार सम्भिन्नसाध्याह्वयं स्यात् ॥
मनुं द्वन्द्वशः पत्रमध्येषु लिप्या वृतं यन्त्रराजं समाबध्य सूत्रैः ।
करे वा गले मस्तके वाथ कट्यां वहन्यः समग्रश्रियो भाजनं स्यात् ॥
तथैवाणिमाद्यैरलं विस्तरेण ।
इति ।
सप्तपङ्क्त्यारयुतं सप्तदशदलम् ।
मन्त्रः प्रथमपटले मदुक्तोऽनुसन्धेयः ।
द्विषड्व- अक्षरद्भिः (?) षडक्षरैर्वर्मास्त्रद्विठान्तैरङ्गम् ।
अस्याऽन्यत् सर्वं पूर्वमन्त्रवत् ज्ञेयम् ।
एकचत्वारिंशदक्षरस्य तु—-
वेदषड्वेददिङ्नागषड्वर्णैः शक्तिपूर्वकैः ।
हुं फडन्तैः षडङ्गं स्यात् अन्यत् पूर्ववदीरितम् ॥ इति ॥ २३-२४ ॥
तारो वान्तो धरासंस्थो वामनेत्रेन्दुभूषितः ।
पार्श्वे वकः कर्णयुतो वर्मास्त्रान्तः षडक्षरः ॥ २५ ॥
मनुः पाशुपतास्त्राख्यो ग्रहक्षुद्रनिवारणः ।
षड्भिर्वर्णैः षडङ्गानि हुं फडन्तैः सजातिभिः ॥ २६ ॥
पाशुपतास्त्रमाह—-तार इति ।
तारः प्रणवः ।
वान्तः शः धरा लः तत्संस्थः
तेन श्ल ।
वामनेत्रम् ई इन्दुः बिन्दुः तेन श्लीम् ।
पार्श्वः पः वकः शः कर्णयुत उकारयुतः तेन शु ।
ब्रह्मा ऋषिः गायत्री छन्दः ।
श्रीं बीजं हुं शक्तिः ।
ग्रहेत्यादि विनियोगोक्तिः ।
षड्भिर्वर्णैर्मन्त्रस्थैः ।
हुं फडन्तैरिति ।
प्रत्येकम् ।
हृदयाय नम इत्यादि जातिसहितैः ॥ २५-२६ ॥
मध्याह्नार्कसमप्रभं शशिधरं भीमाट्टहासोज्ज्वलं
त्र्यक्षं पन्नगभूषणं शिखिशिखाश्मश्रूस्फुरन्मूर्धजम् ।
हस्ताब्जैस्त्रिशिखं समुद्गरमसिं शक्तिं दधानं विभुं
दंष्ट्राभीमचतुर्मुखं पशुपतिं दिव्यास्त्ररूपं स्मरेत् ॥ २७ ॥
आयुधध्यानं तु दक्षाद्यूर्ध्वयोराद्ये तदधस्थयोरन्त्ये ॥ २७ ॥
वर्णलक्षं जपेन्मन्त्रं जुहुयात् तद्दशांशतः ।
गव्येन सपीषा मन्त्री संस्कृते हव्यवाहने ॥ २८ ॥
शैवे पीठे यजेद्देवं प्रागङ्गैरष्टमातृभिः ।
इन्द्रादिभिर्लेकपालैर्वज्राद्यैरायुधैस्ततः ॥ २९ ॥
अनेन मन्त्रितं तोयं ग्रस्तस्य वदने क्षिपेत् ।
सद्यस्तं मुञ्चति क्रन्दन् ग्रहो मन्त्रप्रभावतः ॥ ३० ॥
अमुना मन्त्रितान् बाणान् विसृजेद् युधि भूपतिः ।
जयेत् क्षणेन निखिलान् शत्रून् पार्थ इवापरः ॥ ३१ ॥
वर्णलक्षं षड्लक्षम् ।
मुञ्चतीत्यत्र नृसिंहबीजादित्वम् ।
जपेदित्यत्र दुर्गाबीजादित्वमित्यादि ज्ञेयम् ॥ २८-३१ ॥
वर्णान्त्यमौबिन्दुयुक्तं क्षेत्रपालाय हृन्मनुः ।
ताराद्यो वसुवर्णेऽयं क्षेत्रपालस्य कीत्तीतः ॥ ३२ ॥
क्षेत्रपालमन्त्रमाह वर्णेति ।
वर्णान्त्यः क्षः ।
औ स्वरूपम् ।
हृन्नमःपदम् ।
वसुवर्णेऽयमिति ।
वसुवर्णत्वमनूद्य ताराद्यत्वं विधीयत इति ज्ञेयम् ।
ब्रह्मा ऋषिः गायत्री छन्दः ।
क्षौं बीजम् आयेति शक्तिः ।
क्वचिदेकाक्षर एवोद्धृतः ।
तदुक्तं प्रयोगसारे—-
औबिन्दुसंयुतं बीजं वर्णान्त्यं सर्वसिद्धिदम् ।
इति ।
अत्र विशेषः प्रयोगसारे—-
भेदा एकोनपञ्चाशत् क्षेत्रपालस्य कीत्तीताः ।
मातृकाबीजभेदेन सम्भिन्ना नामभेदतः ॥
अजरश्चापकुम्भश्च इन्द्रसू (स्तु) तिस्ततः परः ।
ईडाचारश्चोल्कसञ्ज्ञ ऊष्माद ऋषिसूदनः ॥
ऋमुक्तो ऌप्तकेशश्च ऌपकश्चैकदंष्ट्रकः ।
एरावतश्चौघबन्धुरौषधिघ्न (धीश)स्तथैव च ॥
अञ्जनश्चाऽस्त्रबाहु(वार)श्च कवलः खरुखानलः ।
गोमुखश्चैव घण्टादो ङणारश्चण्डचारणः ॥
छटाटोपो जटालाख्यो भङ्गारोऽथ ञङ्गश्चरः ।
टङ्कपाणिस्तथा चान्यष्ठाणबन्धुश्च डामरः ॥
ढक्कारवो णकर्णश्च तडिद्देहस्थिरस्तथा ।
दन्तुरो धनदश्चाऽथ नतिक्रान्तः प्रचण्डकः ॥
फट्कारो बीरसन्ध(ङ्घ)श्च भृङ्गाख्यो मेघभासुरः।
युगान्तो रौरवश्चाऽथ लम्बोष्ठो वसवस्तथा ॥
शुकनन्दः षडालाख्यः सुनामा हन्ध्र(ग्रु)कस्तथा ।
एते भेदाः समाख्याता मातृकाक्षरयोनिजाः ॥
नाम यद्यस्य वर्णानां यो वर्णे मातृकान्तरे ।
दृश्यते प्रथमं तत्र तत्रायं क्षेत्रपालकः ॥
तत्र तत्र विशिष्टात्प्राभेदैरेतैर्व्यवस्थितः ।
ततो विशिष्टो यष्टव्यः क्षेत्रपालस्तु सर्वतः ॥
क्षेत्रपालमसम्पूज्य यः कर्म कुरुते क्वचित् ।
तस्य कर्मफलं हन्ति क्षेत्रपालो न संशयः ॥ इति ॥ ३२ ॥
षड्दीर्घभाजा बीजेन षडङ्गान्यस्य योजयेत् ।
ऋषिर्ब्रह्मा भवेदस्य गायत्रं छन्द ईरितम् ।
क्षेत्रपालो देवता पालयेति शक्तिरीरिता ॥ ३३ ॥
नीलाञ्जनाद्रिनिभमूर्ध्वपिशङ्गकेशं
वृत्तोग्रलोचनमुपात्तगदाकपालम् ।
आशाम्बरं भुजगभूषणमुग्रदंष्ट्रं
क्षेत्रेशमद्भुततनुं प्रणमामि देवम् ॥ ३४ ॥
बीजेनेति ।
मन्त्रद्वितीयेन ॥ ३३ ॥
नीलेति ।
नीलः अत एवाऽञ्जनाद्रिनिभः तम् ।
उपात्ते गृहीते हस्ताभ्यामिति शेषः ।
गदाकपाले ।
दक्षे गदा वामे कपालमित्यायुधध्यानम् ।
आशाम्बरं नग्नम् ।
" कपालिनं गदापाणिम् " इति नारायणीये ।
" करधृतोग्रगदाकपालम् " इति प्रयोगसारे ।
क्वचित् जटाकलापमिति पाठः ॥ ३४-३५ ॥
लक्षमेकं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ।
चरुणा घृतसिक्तेन ततः क्षेत्रेशमर्चयेत् ॥ ३५ ॥
धर्मादिकल्पिते पीठे पूर्वमङ्गानि पूजयेत् ।
अनलाख्यमग्निकेशं करालं तदनन्तरम् ॥ ३६ ॥
घण्टारवं महाकोपं पिशिताशयसञ्ज्ञकम् ।
पिङ्गलाक्षमूर्ध्वकेशं पत्रेषु परितो यजेत् ॥ ३७ ॥
प्रधानमूत्तीप्रतिमान्नानालङ्कारबन्धुरान् ।
लोकपालांस्तदस्त्राणि यथापूर्वं प्रपूजयेत् ॥ ३८ ॥
धर्मादिकल्पित इति चतुर्थेक्तप्रकारेण ।
न तु शक्तिपीठपूजा ।
महाकोपमिति महाक्रोधमिति ज्ञेयम् ।
प्रयोगसारनारायणीययोः तथोक्तेः ।
प्रधानमूर्त्तीत्यनलादीनां ध्यानम् ॥ ३५-३८ ॥
तस्मै सपरिवाराय बलिमेतेन निर्हरेत् ।
पूर्वमेहिद्वयं पश्चाद्विदुषि स्यात् पुरुद्वयम् ॥ ३९ ॥
भञ्जयद्वितयं भूयो नर्त्तयद्वितयं पुनः ।
ततो विघ्नपदद्वन्द्वं महाभैरव तत्परम् ॥ ४० ॥
क्षेत्रपाल बलिं गृह्णद्वयं पावकसुन्दरी ।
बलिमन्त्रोऽयमाख्यातः सर्वकामफलप्रदः ॥ ४१ ॥
सपरिवारयेत्यङ्गादिसहिताय ।
सर्वकामफलप्रद इति सिद्धः सन् ।
सिद्धिश्च सहस्रवारजपादित्यपेक्षितार्थद्योतनिकाकारः ॥ ३९-४१ ॥
सोपदंशं बृहत् पिण्डं कृत्वा रात्रिषु साधकः ।
स्मृत्वा यथोक्तं क्षेत्रेशं तस्य हस्ते बलिं हरेत् ॥ ४२ ॥
बलिनाऽनेन सन्तुष्टः क्षेत्रपालः प्रयच्छति ।
कान्तिं मेधां बलारोग्यतेजःपुष्टियशः श्रियः ॥ ४३ ॥
उपदंशं व्यञ्जनम् ।
रात्रिषु ।
प्रहरादूर्ध्वम् ।
यथोक्तं पूर्वेक्तध्यानम् ।
नीलसार- मेयारूढम् ।
हस्ते इति वामहस्तगतकपाले इत्यर्थः ।
तदुक्तं नारायणीये—-
सिद्धेनाऽनेन मन्त्रेण तत्कपाले बलिं हरेत् ।
वामदोष्ण्यष्टदिक्स्थानामन्येषां चानलादिभिः ॥ इति ॥
प्रयोगसारेऽपि—- अथवा प्राङ्गणे ध्यात्वा क्षेत्रेशं प्रोक्तलक्षणम् ।
शितिश्वानसमारूढं तत्कपाले बलिं हरेत् ॥ इति ॥
तत्र प्रयोगः ।
रात्रौ प्रहरादूर्ध्वं प्राङ्गणे गोचर्ममात्रं विलिप्य रक्तगन्ध- पुष्पाक्षतादीन् तत्र संस्थाप्य
कराङ्गन्यासं कृत्वा मूलं दशधा जप्त्वा पीठं सम्पूज्य तत्र क्षेत्रपालमावाह्य उपचारान् कृत्वा
सावरणमभ्यर्च्य विजनो भूत्वा बलिमन्त्रेण वामहस्तेन तत्कपाले त्रिर्बलिमुदकं च दत्त्वा अनलाय
स्वाहेत्यादि मूत्तीभ्योऽङ्घेभ्यश्च सकृद्दत्वा हस्तं प्रक्षाल्य स्वयं देवः सन्नष्टोत्तरशतं
मूलमावर्त्तयेदिति ॥ ४२-४३ ॥
उद्धरेद् वटुकं ङेऽन्तम् आपदुद्धारणं तथा ।
कुरुद्वयं पुनर्ङेऽन्तं वटुकं तं समुद्धरेत् ॥ ४४ ॥
एकविंशत्यक्षरात्मा शक्तिरुद्धो महामनुः ।
अभीष्टफलसंसिध्यै कीत्तीतः सुरपादपः ॥ ४५ ॥
बृहदारण्यक ऋषिश्छन्दोऽनुष्टुबुदाहृतम् ।
आपदुद्धारणो देवो भैरवो देवता बुधैः ॥ ४६ ॥
आपदुद्धरणमन्त्रमाह—-उद्धरेदिति ।
वटुकं ङेऽन्तं वटुकाय ।
तथेति ङेऽन्तम् ।
तेन आपदुद्धारणाय ।
शक्तिरुद्धः शक्तिबीजपुटितः ।
सुरपादपः साधकानां वाञ्छित- प्रदत्वात्कल्पतरुरित्यर्थः ।
भैरव ऋषिः गायत्री छन्दः ।
वं बीजं माया शक्तिः ।
वेष्टनीस्थोऽंशः क्वचिदधिकः ॥ ४४-४६ ॥
अङ्गुलीदेहवक्त्रेषु मूर्त्तीर्न्यस्येद्यथा पुरा ।
सद्यादिपञ्चह्रस्वाढ्य शक्तिबीजपुरः सरम् ॥ ४७ ॥
वकारं पञ्चह्रस्वाढ्यमीशानादिषु योजयेत् ।
षड्दीर्घयुक्त्या शक्त्या वकारेण च तद्वता ॥ ४८ ॥
अङ्गानि जातियुक्तानि प्रणवाद्यानि कल्पयेत् ।
तस्य ध्यानं त्रिधा प्रोक्तं सात्त्विकादिविभेदतः ॥ ४९ ॥
अङ्गुलीति ।
अङ्गुष्ठाद्यङ्गुलीषु ।
देहेति ।
शिरोवदनहृद्गुह्यपादेषु ।
वक्त्रेष्विति ।
ऊर्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषु ।
यथा पुरेति ।
ईशानाद्यानां देहे वक्त्रेषु च न्यासे तत्तदङ्गुलीभिर्न्यास इत्युक्तम् ।
सद्यादय ओकाराद्याः क्लीबवजीताः ।
ईशानादिष्विति ।
आदिशब्देन तत्पुरुषाघोरवामसद्याः ।
ह्रों वोम् ईशानाय नमः अङ्गुष्ठे इत्यादिप्रयोगः ।
तद्वता षड्दीर्घयुक्तेनेत्यर्थः ।
ॐ ह्रां वां हृदयाय नम इत्यादि प्रयोगः ॥ ४७-४९ ॥
वन्दे बालं स्फटिकसदृशं कुन्तलोल्लासिवक्त्त्रं
दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः ।
दीप्ताकारं विशदवसनं सुप्रसन्नं त्रिनेत्रं
हस्ताब्जाभ्यां वटुकमनिशं शूलदण्डो दधानम् ॥ ५० ॥
सात्त्विकं ध्यानमाख्यातमपमृत्युनिवारणम् ।
आयुरारोग्यजननमपर्वफलप्रदम् ॥ ५१ ॥
सात्त्विकध्याने शूलदण्डौ वामदक्षाभ्याम् ।
तदुक्तं विश्वसारोद्धारे—-
वामहस्ते त्रिशूलं च सूक्ष्मदण्डं तु दक्षिणे ।
इति ॥ ५०-५१ ॥
उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं
स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः ।
नीलग्रीवमुदार भूषणशतं शीतांशुचूडोज्ज्वलं
बन्धूकारुणवाससं भयहरं देवं सदा भावये ॥ ५२ ॥
राजसध्याने वामयोराद्ये दक्षयोरन्त्ये ।
तदुक्तं विश्वसारोद्धारे—-
दक्षे शूलाभयं वामे कपालं वरदं तथा ।
इति ॥ ५२ ॥
ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं
दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गपाशाभयानि ।
नागं घण्टां कपालं करसरसिरुहैबीभ्रतं भीमदंष्ट्रं
सर्पाकल्पं त्रिनेत्रं मणिमयविलसत् किङ्किणीनूपुराढ्यम् ॥ ५३॥
राजसं ध्यानमाख्यातं धर्मकामार्थसिद्धिदम् ।
तामसं शत्रुशमनं कृत्याभूतग्रहापहम् ॥ ५४ ॥
तामसध्याने तु दक्षाद्यूर्ध्वयोराद्ये तदधस्थयोद्वीतीये तदधस्थयोरुपान्त्ये तदधस्थयोरन्त्ये ।
अत्र ध्यानानन्तरं डमरुकमुद्रां दर्शयेत् ।
तल्लक्षणं तु—-
मुष्टिं सुशिथिलां बध्वा ईषदुच्छिरतमध्यमाम् ।
दक्षिणादूर्ध्वमुन्नम्य कर्णदेशे प्रचालयेत् ।
एषा मुद्रा डमरुका सर्वविघ्नविनाशिनी ॥ इति ॥ ५३-५४ ॥
वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ।
तद्दशांशं प्रजुहुयात्तिलैर्मधुरसंयुतैः ॥ ५५ ॥
वर्णलक्षम् एकविंशतिलक्षम् ॥ ५५ ॥
धर्माधर्मादिभिः कॢप्ते पीठे पङ्कजशोभिते ।
षट्कोणान्तस्त्रिकोणस्थव्योमपङ्कजसंयुते ॥ ५६ ॥
वटुकं पूजयेद्देवं मूत्तीं मूलेन कल्पयेत् ।
मूलादिसद्योजातेन देवमावाहयेत्ततः ॥ ५७ ॥
वामदेवेन मन्त्रेण स्थापयेत्परमेश्वरम् ।
मूलमन्त्रेण कर्त्तव्यं सान्निध्यं तदनन्तरम् ॥ ५८ ॥
अघोरेण सुधीः कुर्यात् सन्निरोधमनन्तरम् ।
पुरुषाख्येन मनुना योनिमुद्रां प्रदर्शयेत् ॥ ५९ ॥
देवाय वन्दनं कुर्यादीशानेन समाहितः ।
एतत्सर्वं विधातव्यं तत्तन्मुद्राभिरादरात् ॥ ६० ॥
कॢप्ते पीठे इति ।
चतुर्थेक्तप्रकारेण ।
नत्वत्र पीठशक्तयः ।
कीदृशे पीठे ।
षट्कोणान्तस्त्रिकोणस्थव्योमपङ्कजसंयुते ।
पुनः कीदृशे ।
पङ्कजशोभिते ।
तेन मातृकापद्मं कृत्वा तदुपरि त्रिकोणं तदुपरि षट्कोणं तदुपरि अष्टदलं पद्मं तदुपरि चतुरस्रं
चतुर्द्वारमिति पूजायन्त्रम् ।
तदुक्तं विश्वसारोद्धारे—-
चतुरस्रासने पद्ममष्टपत्रं सकणीकम् ।
तस्य मध्ये च षट्कोणं मण्डलं तु विधीयते ॥
तन्मध्ये च त्रिकोणं च तन्मध्ये व्योमपङ्कजम् ।
मध्ये वटुकमावाह्य ।
इति ।
व्योमपङ्कजन्तु मातृपटलोक्तवर्णाब्जम् ।
मूलादिसद्योजातेनेति ।
एवं पञ्चसु सम्बध्यते ।
तत्तन्मुद्राभिरिति ।
मुद्रास्त्रयोविंशे वक्ष्यन्ते ।
ललाटस्थोऽञ्जलिर्वन्दनमुद्रा ॥ ५६-६० ॥
ईशानादीन् यजेद्देवान् न्यासमार्गेण देशिकः ।
सकलीकरणं कृत्वा यजेन्मूर्त्तीर्यथा पुरा ॥ ६१ ॥
व्योमपद्मदलेष्वर्चेदसिताङ्गादिभैरवान् ।
आसिताङ्ग रुरुं चण्डं क्रोधमुन्मत्तभैरवम् ॥ ६२ ॥
कपालिनं भीषणाख्यं संहारं च क्रमादमून् ।
षट्कोणेषु षडङ्गानि क्रमेणाऽभ्यर्चयेत् सुधीः ॥ ६३ ॥
न्यासमार्गेणेति ।
देवदेहे तत्तदङ्गुलीभिर्मूर्धादिषु पञ्चवक्त्रेष्वपि नत्वङ्गुलीषु ।
तदुक्तं नारायणीये—-यथात्मनि तथा देवे न्यासः कार्यः करं विना ।
इति ।
ह्रीं वोम् ईशानाय नम इत्यादि पूजयेत् ।
तत्र देवदेहे प्रथमं विन्यस्य पश्चात् पूजनमिति ज्ञेयम् ।
सकलीकरणं कृत्वा यजेद्देवमिति शेषः ।
मूर्त्तीर्यथा पुरा यजेदिति अनुषज्यते ।
यथा पुरेत्यनेनावरणपूजायां पूर्वदक्षिणसौम्यपश्चिमे ईशे च मूत्ती- पूजेत्युक्तम् ।
विश्वसारोद्धारे तु विशेषः—- " इन्द्राग्नियमसोमाप्सु पञ्च ब्रह्मणः अर्चयेत् " इति ।
ऐउऋलएओअम् एतद्बीजपूर्वानित्युक्तम् ।
प्रयोगस्तु—-अम् असिताङ्गभैरवाय नम इत्यादि ।
भैरवपदं सर्वेषु योज्यम् ।
पुनर्भैरवोद्देशो मातृनिवृत्त्यर्थः ।
क्रमात् सुधीरित्यने- नाग्नेयादि पूजनमित्युक्तम् ॥ ६१-६३ ॥
पूर्वादीशानपर्यन्तं तद्बहिः पूजयेदिमान् ।
डाकिनीपुत्रकान् पूर्वं राकिणीपुत्रकांस्ततः ॥ ६४ ॥
लाकिनीपुत्रकान् पश्चात्काकिनीपुत्रकांस्ततः ।
शाकिनीपुत्रकान् भूयो हाकिनीपुत्रकान् पुनः ॥ ६५ ॥
मालिनीपुत्रकान् पश्चाद्देवीपुत्रांस्ततः परम् ।
अथोमारुद्रमातृणां पुत्रान् दक्षिणतो यजेत् ॥ ६६ ॥
ऊर्ध्वमुख्याः सुतानूर्ध्वमधोमुख्याः सुतानधः ।
इति सम्पूजयेन्मन्त्री पुत्रवर्गांस्त्रयोदश ॥ ६७ ॥
तद्बहिः पद्मपत्रेषु लोकेशवटुकान् यजेत् ।
ब्रह्माणीपुत्रकं पूर्वे माहेशीपुत्रमैश्वरे ॥ ६८ ॥
वैष्णवी पुत्रकं सौम्ये कौमारीपुत्रमानिले ।
इन्द्राणीपुत्रकं भूयः पूजयेत्पश्चिमे ततः ॥ ६९ ॥
महालक्ष्मीसुतं पश्चाद्रक्षोदिशि समर्चयेत् ।
वाराही पुत्रकं याम्ये चामुण्डासुतमानले ॥ ७० ॥
तद्बहिरिति ।
षट्कोणबाह्ये ।
अष्टपत्रान्तः पूर्वादीशानपर्यन्तमिमान् वक्ष्यमाणान् पूजयेदिति सम्बन्धः ॥ ६४-७० ॥
वटुकान् दशदिक्ष्वर्चेद्धेनुकं त्रिपुरान्तकम् ।
वेतालं वह्निजिह्वाख्यं कालान्ताख्यं करालकम् ॥ ७१ ॥
एकपादं भीमदंष्ट्रमचलं हाटकेश्वरम् ।
दिग्विदिक्ष्वन्तरालेषु श्रीकण्ठादीन् यजेत् पुनः ॥ ७२ ॥
क्रोधीश्वरादिभृग्वन्तांस्तद्वद्बाह्ये समर्चयेत् ।
ततस्त्रीन्नकुलीशाद्यान् दक्षिणे पूजयेत् सुधीः ॥ ७३ ॥
दिग्विदिक्ष्विति ।
दिशश्चतस्रः विदिशश्चतस्रस्तदन्तरालान्यष्टौ एवं षोडश ।
पुनस्तद्वदिति ।
दिग्विदिक्ष्वन्तरालेषु ।
तत्र दिशोऽष्टौ विदिशोऽष्टौ तदन्तरालानि षोडशेति द्वात्रिंशत् स्थानानि ज्ञेयानि ॥ ७१-७३ ॥
दिव्यान्तरिक्षभूमिष्ठान् योगीशान् शक्तिसंयुतान् ।
योगिनीभिः सहाऽभ्यर्चेदीशाग्निनिरृतिस्थितान् ॥ ७४ ॥
इति सम्पूजयेद्देवं वटुकं प्रोक्तवर्त्मना ।
धर्मार्थकाममोक्षाणां पतिर्भवति मानवः ॥ ७५ ॥
शक्तिसंयुतानिति सामान्येन विशेषणमात्रम् ।
ताः शक्तयः का इत्यपेक्षायां योगिनीभिः सहेति पदम् ।
तदुक्तं विश्वसारोद्धारे—-
दिव्यान्तरिक्षभूमिष्ठान्योगीशान् पूजयेत्ततः ।
ईशाग्नेयाञ्च नैरृत्यां योगिनीभिः समन्वितान् ॥ इति ॥ ७४-७५ ॥
विघ्नं दुर्गां समाराध्य बलिं दत्त्वा विधानतः ।
काम्यानि साधयेन्मन्त्री यथोक्तां सिद्धिमाप्नुयात् ॥ ७६ ॥
काम्यमात्रे परिभाषामाह विघ्नमिति ॥ ७६ ॥
शाल्यन्नं पललं सपीर्लाजाचूर्णानि शर्करा ।
गुडमिक्षुरसापूपैर्मध्वक्तैः परिमिश्रितैः ॥ ७७ ॥
कृत्वा कवलमाराध्य देवं प्रागुक्तवर्त्मना ।
रक्तचन्दनपुष्पाद्यैर्निशि तस्मै बलिं हरेत् ॥ ७८ ॥
ततः सिध्यन्ति कार्याणि बलिनाऽनेन मन्त्रिणः ।
जुहुयात् सपीषा मन्त्री यथोक्तां सिद्धिमाप्नुयात् ॥ ७९ ॥
वश्याय जुहुयाद्दक्षु शकलैर्वशयेज्जनान् ।
जुहुयात् पुत्रलाभाय प्रफुल्लैः कैरवैः सुधीः ॥ ८० ॥
धनधान्यादिसम्पत्यै जुहुयात्तिलतण्डुलैः ।
बिल्वप्रसूनैर्जुहुयान्महतीं विन्दति श्रियम् ॥ ८१ ॥
लोणैर्मधुरसम्मिश्रैर्वशयेद्वनिताजनान् ।
वृष्टिकामेन होतव्यं वेतसानां समिद्वरैः ॥ ८२ ॥
अन्नेन जुहुयान्नित्यं धनधान्यादिसम्पदे ।
वश्याय जुहुयान्मन्त्री मधुना दिवसत्रयम् ॥ ८३ ॥
तदेव बलिविधानमाह शाल्यन्नमिति ।
पललं मांसम् ।
एकीकृतं पिण्डरूपं कवलं ग्रासम् ।
रक्तचन्दनपुष्पाद्यैर्निशि देवमाराध्य प्रागुक्तवर्त्मना निशि बलिं हरेदिति सम्बन्धः ।
आद्यशब्देन धूपदीपनैवेद्यानि ।
प्रागुक्तेत्यनेन क्षेत्रपालोक्तबलिमन्त्रे क्षेत्रपालशब्दे वटुकेति पदं दत्त्वा देवहस्त इत्युक्तम् ।
यथोक्तामिति ।
स्वमनसि
स्थिताम् ॥ ७७-८३ ॥
रोगोक्तौषधहोमेन रोगा नश्यन्ति तत्क्षणात् ।
कृत्याद्रोहे ग्रहद्रोहे भूतापस्मारसम्भवे ॥ ८४ ॥
व्याघ्राजिने समासीनो जुहुयादयुतं तिलैः ।
भूतादयः पलायन्ते नेक्षन्ते तां दिशं भयात् ॥ ८५ ॥
रोगोक्तेति—-वैद्यकशास्त्रे यस्मिन् रोगे यदौषधमुक्तं तस्य होमादित्यर्थः ॥८४-८५॥
कृष्णाष्टमीं समारभ्य यावत् स्यात्तच्चतुर्दशी ।
तिलैस्तण्डुलसम्मिश्रैर्मधुरत्रयलोलितैः ॥ ८६ ॥
त्रिसहस्रं प्रतिदिनं जुहुयात् संस्कृतेऽनले ।
वटुकेश्वरमभ्यर्च्य भक्ष्यभोज्यफलान्वितम् ॥ ८७ ॥
नित्यं निवेद्य नैवेद्यं मध्यरात्रे बलिं हरेत् ।
एवं जपित्वा प्रयतः सहस्राण्येकविंशति ॥ ८८ ॥
समाप्तिदिवसे रात्रावजं हत्वा बलिं हरेत् ।
ततः कारयिता राजा तोषयेत्साधकं धनैः ॥ ८९ ॥
विधिनाऽनेन सन्तुष्टो वटुकेशः प्रयच्छति ।
तेजो बलं यशः पुत्रान् कान्तिं लक्ष्मीमरोगताम् ॥ ९० ॥
नश्यन्ति शत्रवः सर्वे वर्धन्ते बन्धुबान्धवाः ।
अवग्रहो न जायेत विषये तस्य भूपतेः ॥ ९१ ॥
जुहुयात् केवलैर्लेणैरयुतं स्तम्भनेच्छया ।
निगडादिविमोक्षाय प्रयोगोऽयमुदाहृतः ॥ ९२ ॥
कृष्णेत्यादि भूपतेरित्यन्तमेकः प्रयोगः ।
अवग्रहो वृष्ट्यभावः ।
विषये
देशे ॥ ८६-९२ ॥
वचाचूर्णपलं जप्तं गव्येनाज्येन लोलितम् ।
विभज्य भक्षयेद् बन्ध्या मण्डलात् पुत्रकाङ्क्षिणी ॥ ९३ ॥
विनीतं पुत्रमाप्नोति मेधारोग्यबलान्वितम् ।
आदावन्ते प्रयोगस्य वटुकाय बलिं हरेत् ॥ ९४ ॥
विभज्येति किञ्चिन्न्यूनसप्तसप्तगुञ्जामितम् ।
मण्डलमेकोनपञ्चाशद्दिनानि ।
विश्वसारोद्धारे तु विशेषः—-
वचाचूर्णपलं देवि कुडवं पलसंयुतम् ।
पद्मपत्रे विनिक्षिप्य स्थापयेद्देवसन्निधौ ॥
सिद्धान् सम्पूज्य विधिवज्जपेत् स्पृष्ट्वा तदौषधम् ।
मन्त्रं सहस्रमावर्त्य सिद्धानभ्यर्च्य बुद्धिमान् ॥
ध्यात्वा देवीमृतुस्नातां प्राशयेत्तन्महौषधम् ॥ इति ॥ ९३-९४ ॥
द्विविधो बलिराख्यातो राजसः सात्त्विको बुधैः ।
राजसो मांसरक्ताढ्यः पलत्रयसमन्वितः ॥ ९५ ॥
मुद्गपायससंयुक्तो मधुरत्रयलोलितः ।
सात्त्विको मांसरहितः शेषमन्यत् पुरोक्तव ॥ ९६ ॥
ब्राह्मणो नियतः शुद्धः सात्त्विकं बलिमाहरेत् ।
साधयेन्मनुनाऽनेन भस्म सर्वार्थसिद्धिदम् ॥ ९७ ॥
राजसो मांसरक्ताढ्य इति ।
तत्र किं मांसमित्यपेक्षायां पलत्रयसमन्वित इति ।
तत्र पलत्रयं भूचरखेचरजलचरजम् ।
तदुक्तं विश्वसारोद्धारे—-
मेषकुक्कुटयोर्मांसं शाल्यन्नं घृतसंयुतम् ।
लाजाचूर्णमपूपं च गुडमिक्षुरसान्वितम् ।
मधुमत्स्यकपित्थादि बलिद्रव्यं समीरितम् ॥ इति ।
मरीचैर्जीरकैश्चैव गुडखण्डैस्तथैव च ।
शालितन्दुलसम्भक्तगोक्षीरेण समन्वितम् ।
सैन्धवं दग्धमीनेन पलत्रयसमन्वितम् ॥ इति ॥
तथाऽन्यत्रापि—- पलत्रयं माषचूर्णं दधि क्षीरं घृतं तथा ।
गुडौदनेन संयुक्तं मिश्रीकृत्य विचक्षणः ॥ इति ॥
केचित् फलत्रयमिति पाठमपठन् ।
तच्चिन्त्यम् ॥ ९५-९७ ॥
उशीरं चन्दनं कुष्ठं घनसारं सकुङ्कुमम् ।
श्वेतार्कमूलं वाराहीं लक्ष्मीं क्षीरमहीरुहाम् ॥ ९८ ॥
त्वचो बिल्वतरोर्मूलं शोषयित्वा सुचूर्णयेत् ।
चूर्णं व्योम्नि गृहीतेन गोमयेन विमिश्रितम् ॥ ९९ ॥
कृत्वा पिण्डानि संशोष्य संस्कृते हव्यवाहने ।
मूलेन दग्ध्वा तद्भस्म शुद्धपात्रे विनिःक्षिपेत् ॥ १०० ॥
केतकीमालतीपुष्पैर्वासयेद् भस्मशोधितम् ।
अयुतं प्रजपेन्मन्त्रं स्पृष्ट्वा भस्म सुपूजितम् ॥ १०१ ॥
एतदादाय दिनशः प्रातः पुण्ड्रं करोति यः ।
तस्य रोगाः प्रणश्यन्ति कृत्याद्रोहमहाग्रहाः ॥ १०२ ॥
रिपुचौरमृगादिभ्यो भयमस्य न जायते ।
वर्धन्ते सम्पदः सर्वाः पूज्यते सकलैर्जनैः ॥ १०३ ॥
राजा वश्यो भवेत्तस्य सामात्यः सपरिच्छदः ।
अभिषेकं प्रकुर्वीत राज्ञो विजयकाङ्क्षिणः ॥ १०४ ॥
भस्मसाधनमेवाह—-उशीरमित्यादि ।
घनसारः कर्पूरः ।
वाराही शूकरी काछी मागधी गृष्टि कारिका ।
इति कैयटदेवनिघण्टौ वाराहीनाम्नी औषधी प्रसिद्धा ।
शमी लक्ष्मीः शिवा शीता माङ्गल्या केशहृत्फला ॥
इति कैयटदेवनिघण्टौ लक्ष्मीशब्देन शमी उक्ता ।
व्योम्नि गृहीतेनेति भूतला स्पृष्टेन ।
पुण्ड्रं त्रिपुण्ड्रन्तिर्यक्तिलकः ।
मृगो व्याघ्रः ।
अभिषेकं प्रकुर्वीतेति ।
सप्तभिः पञ्चभिर्वाऽहोभिरित्यर्थः ।
" सप्ताहं वापि पञ्चाहम् " इत्युक्तेः ।
तत्र पूर्वमेव सप्तमं पञ्चमं वा शुभदिनमालोच्य प्रथमारम्भः कार्यः ॥ ९८-१०४ ॥
पूर्वेक्तमण्डपे कॢप्ते वितानध्वजशोभिते ।
सर्वतोभद्रमालिख्य कणीकां तस्य पूरयेत् ॥ १०५ ॥
अष्टद्रोणप्रमाणेन शालिभिः शोधितैः शुभैः ।
तदर्धांस्तण्डुलांस्तस्मिन् न्यस्य दूर्वाक्षतान्वितान् ॥ १०६ ॥
हेमादिविहितं कुम्भं नवरत्नसमन्वितम् ।
संस्थाप्य विमलैस्तोयैरापूर्याऽस्मिन्विनिःक्षिपेत् ॥ १०७ ॥
क्षीरद्रुमप्रबालानि लक्ष्मीं दूर्वां सहां पुनः ।
कर्पूरं चन्दनं बिल्वमुशीरं कुङ्कुमं पुनः ॥ १०८ ॥
कङ्कोलमगुरुं जातिं मल्लिकां चम्पकोत्पलैः ।
गोमेदं दाडिमं पश्चात्पट्टयुग्मेन वेष्टयेत् ॥ १०९ ॥
अभिषेकप्रकारमाह—-पूर्वेक्तेति ।
तृतीयोक्ते इत्यर्थः ।
अष्टद्रोणेति ।
अर्द्ध- खारी ।
तदर्द्धमिति ।
खारीचतुर्थांशः ।
नवरत्नानि षष्ठोक्तानि ।
प्रबालानि पल्लवाः ।
सहा सहदेवी ।
गोमेदं पत्रजम्—-
" गोमेदकं पीतमणौ कक्कोले पत्रजेऽपि च " इति विश्वः ॥ १०५-१०९ ॥
तस्मिन्नावाह्य वटुकं राजसं सम्प्रपूजयेत् ।
बहिरष्टसु कुम्भेषु भैरवानष्ट पूजयेत् ॥ ११० ॥
त्रयोदशसु कुम्भेषु त्रयोदश गणान् यजेत् ।
बाह्य दशसु कुम्भेषु लोकेशानर्चयेत् सुधीः ॥ १११ ॥
तद्बहिर्द्व्याष्टकुम्भेषु श्रीकण्ठादीन् सुरेश्वरान् ।
पञ्चत्रिंशद्घटेष्वर्चेत् कादिवर्णेश्वरान् क्रमात् ॥ ११२ ॥
इति गन्धादिभिः सम्यक् पञ्चावरणमर्चयेत् ।
अयुतं प्रजपेत्स्पृष्ट्वा तान् घटान् देशिकोत्तमः ॥ ११३ ॥
राजसमिति राजसध्यानोक्तमूत्तीम् ।
लोकेशान् लोकेशवटुकान् ।
क्रमादित्यनेन परितो द्वात्रिंशत् दक्षिणे त्रीनित्युक्तम् ।
स्पृष्ट्वेत्युभयत्र ।
कूर्चादिना ॥ ११०-११३ ॥
पायसैः सपीषा शुद्धैस्तिलैर्दशशतं पृथक् ।
जुहुयात्तान् घटान् स्पृष्ट्वा प्रत्यहं बलिमाहरेत् ॥ ११४ ॥
राजसोक्तप्रकारेण रात्रौ देशिकसत्तमः ।
सुदिने शोभने लग्ने वाचयित्वा द्विजन्मभिः ॥ ११५ ॥
स्वस्तिमङ्गलवाक्यानि विशुद्धैर्वेदपारगैः ।
नदत्सु पञ्चवाद्येषु प्रणम्य वटुकेश्वरम् ॥ ११६ ॥
जितेन्द्रियं शुद्धकायं राजानं ब्राह्मणप्रियम् ।
आस्तिकं सत्यवचनमभिषिञ्चेत् प्रसन्नधीः ॥ ११७ ॥
अभिषिक्तो नरपतिः प्रणिपत्य गुरुं परम् ।
भूयसीं दक्षिणां दद्यात् प्रसीदति तथा गुरुः ॥ ११८ ॥
राजाऽभिषिक्तो भवति साक्षाद् भूमिपुरन्दरः ।
परान् विजयते भूपान् स्तूयते सकलैर्जनैः ॥ ११९ ॥
पृथगिति ।
प्रत्येकम् ।
तेन सहस्रत्रयं होमः, प्रत्यहं सप्ताहं पञ्चाहं
वा ॥ ११०-११९ ॥
कृताभिषेकः षण्मासं प्रतिमासं महीपतिः ।
चतुरम्भोधिवलयां शास्ति सर्वां वसुन्धराम् ॥ १२० ॥
अस्यैवावृत्त्या फलविशेषमाह कृतेति ।
षण्मासं प्रतिमासमिति षडावृत्तयः ॥ १२० ॥
गजाश्वशान्तिविधये तेषां शालासु साधकः ।
कुण्डं कृत्वा विधानेन होमं कुर्याद्यथाविधि ॥ १२१ ॥
पायसाज्यतिलैवीद्वानयुतत्रितयावधि ।
ब्राह्मणान् भोजयेन्नित्यं भक्ष्यभोज्यफलादिभिः ॥ १२२ ॥
गजेति ।
प्राक्प्रोक्तविधिना कुम्भान् स्थापयित्वा गन्धानुलेपैः पुष्पाद्यैरभ्यर्च्य विधानेन कुण्डं कृत्वा यथाविधि
होमं कुर्यादिति सम्बन्धः।
तत्र विधानेनेति त्रिकोणम्।
यथाविधीति ।
वटुकमग्नावभ्यर्च्य वटुकं च तत्र पूजयित्वेत्यर्थः ॥ १२१-१२२॥
प्राक्प्रोक्तविधिना कुम्भान् स्थापयित्वाऽत्र देशिकः ।
अभ्यर्च्य गन्धपुष्पाद्यैस्तज्जलैः प्रोक्षयेद्गजान् ॥ १२३ ॥
अश्वशालामनेनैव वर्धन्ते ते दिने दिने ।
युद्धेषु महती शक्तिर्जायते पूर्वतोऽधिका ॥ १२४ ॥
सर्वरोगाः प्रणश्यन्ति कृत्याद्रोहाः परैः कृताः ।
अस्मात्परतरा रक्षा नास्ति तेषां महीतले ॥ १२५ ॥
अभिषिच्य महीपालं परेषां विजयोद्यतम् ।
उक्तेन विधिना मन्त्री यामिन्यां बलिमाहरेत् ॥ १२६ ॥
प्राक्प्रोक्तविधिना ।
चतुर्थेक्तविधिना ।
कुम्भानिति पञ्च ।
अत्र ।
पञ्चसु कुम्भेषु ।
अभ्यर्च्येति ।
मध्ये वटुकम् ईशानं चतुर्ष्वन्या मूर्त्तीरिति शेषः ।
उक्तञ्च—-
पञ्चात्मानं पदं कृत्वा स्वालिप्ते शुद्धभूतले ।
कोष्ठेषु स्थापयेत् सृष्ट्या कलशान् पञ्च शोभनान् ॥
धूपादिवासितान् भूयो जलैरापूरयेत् पृथक् ।
माणिक्यं मौक्तिकं वज्रं नीलं मरकतं तथा ॥
प्रोक्तानि पञ्च रत्नानि निक्षिप्य तेषु पञ्चसु ।
तत्र देवं च मूर्त्तीश्च समभ्यर्च्य यथाविधि ॥ इति ॥
अन्यत्र तु—-सुवर्णं रजतं मुक्ता राजावर्त्तं प्रवालकम् ।
रत्नपञ्चकमाख्यातम् ।
इति ।
गजान् अश्वान् शालाञ्च गजाश्वशालां प्रोक्षयेदिति सम्बन्धः ।
ते गजा अश्वाः ।
शक्तिर्जायत इति ।
तेषामित्यनुषज्यते ।
रोगाः प्रणश्यन्तीत्यत्रापि ।
अभिषिच्येति हरेदित्यन्तं पूर्वेक्ताभिषेकबल्योर- नुवादः ॥ १२३-१२६ ॥
अन्यूनाङ्गमजं हत्वा राजसं प्रागुदाहृतम् ।
बलिप्रदानसमये रिपूणां सर्वसैन्यकम् ॥ १२७ ॥
निवेदयेद् बलित्वेन वटुकाय विशिष्टधीः ।
विदर्भयेच्छत्रुनाम्ना बलिमन्त्रं तथा सुधीः ॥ १२८ ॥
शत्रुपक्षस्य रुधिरं पिशितं च दिने दिने ।
भक्षय स्वगणैः सार्द्धं सारमेयसमन्वितः ॥ १२९ ॥
बलिमन्त्रोऽयमाख्यातः सर्वेषां विजयप्रदः।
अनेन बलिना हृष्टो वटुकः परसैन्यकम् ॥ १३० ॥
सर्वं गणेभ्यो विभजेदामिषं क्रुद्धमानसः ।
एवं कृते परबलं क्षीयते नाऽत्र संशयः ।
विजयश्रियमेतेन राजा प्राप्नोत्ययत्नतः ॥ १३१ ॥
तत्रैव विशेषमाह ।
अन्यूनेत्यादिना ॥ १२७-१३१ ॥
श्रीमायास्मरकूटमत्र विलिखेन्मध्ये दलेष्वष्टसु
द्विःप्रोक्तं वटुकायशब्दमपरान् मन्त्रस्य वर्णान् बहिः।
अष्टद्वन्द्वदलेषु तद्बहिरतस्तत्सङ्ख्यपत्रेष्वथ
द्वात्रिंशद्दलकादिसान्तसहितं यन्त्रं लिखेद् भूपुरे ॥ १३२ ॥
आपदुद्धरणं यन्त्रमपमृत्युभयापहम् ।
सर्वसम्पत्प्रदं नित्यं सर्व सौभाग्यदायकम् ॥ १३३ ॥
रक्षाकरं ग्रहार्त्तानां राज्ञां विजयवर्धनम् ।
आपदुद्धरणादस्मादापदुद्धरणक्षमः ॥ १३४ ॥
तन्त्रेषु नास्ति मन्त्रोऽन्य इत्याहुर्मन्त्रवेदिनः ।
यन्त्रमाह श्रीमायेति ।
श्री श्रीबीजम् ।
माया शक्तिबीजम् ।
स्मरः कामबीजं क्लीम् ।
कूटं क्ष्रीम् ।
मध्ये कणीकायाः ।
तदुक्तं विश्वसारोद्धारे—-
तत्रादौ कणीकामध्ये लक्ष्मीबीजं न्यसेद् बुधः ।
मायाबीजं ततो न्यस्य कामबीजं ततः परम् ॥
कूटाक्षरं ततः पश्चादग्निमायासमन्वितम् ।
चतुर्बीजसमायुक्तं कणीकामन्त्रमुद्धरेत् ॥ इति ॥
एतेन केषाञ्चन स्मररूपमेव कूटं लिखेदिति व्याख्यानं निरस्तम् ।
अष्टदलेषु बटुकाय इत्येकाक्षरक्रमेण लिखनीयम् ।
मन्त्रस्य वर्णानिति ।
आपदित्यादि- मायान्तान् ।
प्रथमषोडशदले ।
तद्बहिः प्रथमषोडशदलाद्बहिः ।
तत्सङ्ख्यपत्रेषु षोडशसु ।
तदुपरि द्वितीयषोडशदले षोडशस्वरान् लिखेत् ॥ १३२-१३४ ॥
अर्घीशो वह्निशिखरो लान्तस्थो दान्त ईरितः ॥ १३५ ॥
फडन्तश्चण्डमन्त्रोऽयं त्रिवर्णात्मा समीरितः ।
अस्य त्रिको मुनिः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतम् ॥ १३६ ॥
चण्डेशो देवता प्रोक्ता कुर्यादङ्गविधिं पुनः ।
हृदयं दीप्त फट् प्रोक्तं ज्वल फट् शिर ईरितम् ॥ १३७ ॥
शिखा ज्वालामालिनी फट् ज्ञेया फट् कवचं मतम् ।
हन फट् नेत्रमाख्यातं सर्वज्वालिनि फट् परम् ।
विन्यस्यैवं षडङ्गानि ततो देवं विचिन्तयेत् ॥ १३८ ॥
चण्डमन्त्रमाह—-अर्घीश इति ।
अर्घीश ऊः।
दान्तो धः लान्तस्थो वह्निशिखरः तेन र्ध्व ।
ऊकारो बीजं फट् शक्तिः ।
त्रिक इति ऋषिनाम ॥ १३५-१३८ ॥
चण्डेश्वरं रक्ततनुं त्रिनेत्रं
रक्तांशुकाढ्यं हृदि भावयामि ।
टङ्कं त्रिशूलं स्फटिकाक्षमालां
कमण्डलुं बिभ्रतमिन्दुचूडम् ॥ १३९ ॥
ध्यानमाह—-चण्डेश्वरमिति ।
टङ्कं परशुम् ।
तदुक्तं नारायणीये—-
शूली परशुकमण्डल्वक्षमाली त्रिलोचनः ।
इति ।
वामोर्ध्वात् वामाधःपर्यन्तमायुधध्यानम् ॥ १३९ ॥
वर्णलक्षं जपेन्मन्त्रं होमं कुर्याद्दशांशतः ।
मधुरत्रयसंयुक्तैवीशुद्धैस्तिलतण्डुलैः ॥ १४० ॥
पञ्चाक्षरोदिते पीठे चण्डेशं साधु पूजयेत् ।
मूर्त्तौ बीजेन कॢप्तायां तत् कूर्मे बिन्दुसंयुतः ॥ १४१ ॥
चण्डेश्वराय हृद् बीजपूर्वः पूजामनुर्मतः ।
अङ्गैर्मातृभिराशेषैर्वज्राद्यैरायुधैर्यजेत् ॥ १४२ ॥
तदिति बीजम् ।
कूर्मः चकारः ॥ १४०-१४१ ॥
पूजामन्त्रमाह—-चण्डेति ।
चण्डेश्वराय स्वरूपम् ।
हृन्नमः ।
बीजपूर्वः स्वस्य बीजपूर्व इत्यर्थः ।
आचार्यैश्च गायत्रीं जपेदित्युक्तम् ।
यदाहुः—-
चण्ड चण्डायेत्युक्त्वा प्राग्वदेतद्विद्महे पदम् ।
चण्डेश्वराय च प्रोक्त्वा धीमहीति पदं वदेत् ॥
तन्नश्चण्ड इति प्रोक्त्वा ब्रूयाद् भूयः प्रचोदयात् ।
एषा तु चण्डगायत्री जपात् सान्निध्यकारिणी ॥ इति ॥ १४२ ॥
चतुरावरणं प्रोक्तं चण्डेशस्य समर्चने ।
इति सिद्धे मनौ मन्त्री धनवान् जायतेऽचिरात् ॥ १४३ ॥
तर्पयेन्मनुनाऽनेन नित्यमष्टोत्तरं शतम् ।
श्रियमाप्नोति महतीं पुत्रमित्रसमन्वितः ॥ १४४ ॥
श्रियमाप्नोतीति ।
श्रीबीजादित्वम् ॥ १४४ ॥
प्रियङ्गुकुसुमैः फुल्लैस्तत्काष्ठज्वलितेऽनले ।
जुहुयादयुतं मन्त्री पुरः क्षोभो प्रजायते ॥ १४५ ॥
मन्त्रीत्यनेन दुर्गाबीजादित्वं सूचितम् ॥ १४५ ॥
साध्यवृक्षत्वचो लोणं पिष्ट्वा पिष्टसमन्वितम् ।
पुत्तलीं रुचिरां कृत्वा प्रतिष्ठाप्य समीरणम् ॥ १४६ ॥
छित्त्वा छित्त्वा प्रजुहुयादष्टोत्तरशतं निशि ।
सप्ताहमेवं कुर्वीत साध्यो दासो भवेत् स्वयम् ॥ १४७ ॥
साध्यवृक्षेति ।
साधस्य यन्नक्षत्रं तन्नक्षत्रवृक्षत्वचः ।
तान् द्वाविंशे वक्ष्यति ।
पिष्टं तण्डुलपिष्टम् ।
तदुक्तमाचार्यैः—-
साध्यर्क्षाङ्घिरपचर्मणां सुमसृणां पिष्टैश्च लोणैः समं
कृत्वा पुत्तलिकां प्रतिष्ठितचलां जप्त्वा च रात्रौ हुनेत् ॥ इति ।
पुत्तलीम् ।
षणवत्यङ्गुलाम् ।
समीरणं प्राणं प्रतिष्ठाप्येति त्रयोविंशप्रकारेण ।
छित्त्वा छित्त्वाति ।
द्वाविंशे वक्ष्यमाणरीत्या ।
साध्य इति ।
लिङ्गमविवक्षितम् ।
पुरुषं स्त्रियमपि वशयेत् ।
तदुक्तम्—-
सप्ताहं पुरुषोऽङ्गना यदि चिरं वश्यस्त्ववश्यं भवे-
दस्मिन् जन्मनि नात्र चोद्यविषयो देहान्तरे संशयः ॥ इति ॥
अथ च साध्यमिति सामान्यत उक्तेद्वीजादिः ।
तत्र विशेषो नारायणीये—- प्रज्वाल्याऽग्निमपामार्गैरेवं वश्यो भवेद् द्विजः ।
दीप्ते वह्नौ चिताकाष्ठैः प्रतिकृत्या तथा हुनेत् ।
राजा वशीभवेदेवं वश्यः स्याद्वैश्यशूद्रयोः ॥ इति ।
दासो भवेदत्र कामादित्वं ज्ञेयम् ॥ १४६-१४७ ॥
शैवमन्त्रेषु निष्णातश्चण्डेश्वरमनुं भजेत् ।
सर्वान् कामानवाप्नोति परत्रेह च नन्दति ॥ १४८ ॥
शैवमन्त्रेष्वित्यनेनैतदुक्तं भवति ।
यावान् चण्डेश्वचरजपस्तावान् शैवषडक्षर मन्त्रजपः ।
यदाहुः—-त्र्यक्षरस्य जपो यावत्तावज्जप्यः षडक्षरः ।
एहिकामुष्मिकीं सिद्धिं तथा हि लभते नरः ॥ इति ॥
सर्वान् कामानिति ।
सतिलैस्तन्दुलैर्हेमकाष्ठाग्नौ जुहुयादरेः ।
उन्मादाय पयोहोमस्तच्छान्तिः खादिरानले ॥ इति ।
यद्यद्वर्णैः प्रसूनैस्तु मन्त्री सप्तदिनं हुनेत् ।
लभेत्तद्रूपबासोऽयमृणहा कामदो मनुः ॥
इत्यादि ज्ञेयम् ॥ १४८ ॥
धरापोऽग्निमरुद्व्योममखेशेन्द्वर्कमूर्त्तये ।
सर्वभूतान्तरस्थाय शङ्कराय नमो नमः ॥ १४९ ॥
धरेत्यादि शैवमन्त्रान्ते शिवस्तुतिः ।
धरेति श्लोकेनाऽष्टमूत्तीत्वमुक्तम् ।
मखेशो यजमानः ॥ १४९ ॥
श्रुत्यन्तकृतवासाय श्रुतये श्रुतिजन्मने ।
अतीन्द्रियाय महसे शाश्वताय नमो नमः ॥ १५० ॥
श्रुत्यन्तेति ।
उपनिषत्प्रतिपाद्यत्वात्तत्र कृतावासायेत्युपचारतः प्रयोगः ।
श्रुतये श्रुतिरूपाय ।
श्रुतीनां जन्म यस्मात् ।
तेनाऽनादिवेदप्रवक्त्रे ।
अतीन्द्रियायेति ।
" यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह " इति श्रुतेः ॥ १५० ॥
स्थूलसूक्ष्मविभागाभ्यामनिर्देश्याय शम्भवे ।
भवाय भवसम्भूतदुःखहन्त्रे नमोऽस्तु ते ॥ १५१ ॥
भवाय भवनाम्ने ।
भवो जन्म तद्दुःखहन्त्रे ॥ १५१ ॥
तर्कमार्गातिदूराय तपसां फलदायिने ।
चतुर्वर्गवदान्याय सर्वज्ञाय नमो नमः ॥ १५२ ॥
तर्कः दुस्तर्कः ।
चतुर्वर्गप्रदात्रे ॥ १५२ ॥
आदिमध्यान्तशून्याय निरस्ताशेषभीतये ।
योगिध्येयाय महते निर्गुणाय नमो नमः ॥ १५३ ॥
विश्वात्मनेऽविचिन्त्याय विलसच्चन्द्रमौलिने ।
कन्दर्पदर्पकालाय कालहन्त्रे नमो नमः ॥ १५४ ॥
आदिः सर्गः मध्यः पालनम् अन्तः संहारः तत्र शून्याय ।
फलानुपगमात् ।
अविचिन्त्याय ।
इयत्ताभावात् ।
कालायाऽन्तकाय ॥ १५३-१५४ ॥
विषाशनाय विहरद् वृषस्कन्धमुपेयुषे ।
सरिद्दामसमाबद्धकपर्दाय नमो नमः ॥ १५५ ॥
शुद्धाय शुद्धभावाय शुद्धानामन्तरात्मने ।
पुरान्तकाय पूर्णाय पुण्यनाम्ने नमो नमः ॥ १५६ ॥
भक्ताय निजभक्तानां भुक्तिमुक्तिप्रदायिने ।
विवाससे विवासाय विश्वेशाय नमो नमः ॥ १५७ ॥
सरिद् गङ्गा सैव दाम तेन प्रबद्धः कपर्दे जटाजूटो येन तस्मै ।
" कपर्देऽस्य जटाजूटः " इति कोषः ॥ १५५-१५७ ॥
त्रिमूत्तीमूलभूताय त्रिनेत्राय नमो नमः ।
त्रिधाम्नां धामरूपाय जन्मघ्नाय नमो नमः ॥ १५८ ॥
देवासुरशिरोरत्नकिरणारुणिताङ्घ्रये ।
कान्ताय निजकान्तायै दत्तार्धाय नमो नमः ॥ १५९ ॥
स्तोत्रेणाऽनेन पूजायां प्रीणयेज्जगतः पति ।
भुक्तिमुक्तिप्रदं भक्त्या सर्वज्ञं परमेश्वरम् ॥ १६० ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
विंशः पटलः समाप्तः ॥ २० ॥
ब्थ् " बि
त्रिमूर्त्तेः ब्रह्मविष्णुरुद्रमूर्त्तेः ।
त्रिधाम्नामिति सूर्याग्निचन्द्रमसाम् ॥१५८-१६०॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां विंशः पटलः ॥ २० ॥
ब्थ् " बि