१९

अथैकोनविंशः पटलः

अथ वक्ष्ये मन्त्ररत्नं समस्तपुरुषार्थदम् ।
अवापुर्येन जप्तेन दिव्यं ज्ञानं मुनीश्वराः ॥ १ ॥
एवमूर्ध्ववक्त्रप्रधानमन्त्रनिरूपणानन्तरं दक्षिणवक्त्रप्रधानं सौम्य (शैव) मन्त्रमाह ।
अथेति ।
समस्तपुरुषार्थदमित्यनेन विनियोग उक्तः ॥ १ ॥
दक्षिणामूर्त्तये पूर्वं तुभ्यं पदमनन्तरम् ।
वटमूलपदस्याऽन्ते पदं पश्चान्निवासिने ॥ २ ॥
ध्यानैकनिरताङ्गाय पश्चाद् ब्रूयान्नमः पदम् ।
रुद्राय शम्भवे तारशक्तिरुद्धोऽयमीरितः ॥ ३ ॥
षट्त्रिंशदक्षरो मन्त्रः सर्वकामफलप्रदः ।
मुनिः शुकः समुद्दष्टश्छन्दोऽनुष्टुप्समीरितम् ॥ ४ ॥
दक्षिणामूत्तीनामाऽस्य देवता शम्भुरीरितः ।
षड्भिर्वर्णैर्हृदाख्यातं द्वाभ्यां शिर उदीरितम् ॥ ५ ॥
शिखाऽष्टभिः समुद्दष्टा वस्वर्णैः कवचं मतम् ।
पञ्चभिर्नेत्रमाख्यातं त्रिभिरस्त्रमुदाहृतम् ॥ ६ ॥
षडेते तारशक्त्याद्या ह्राङाद्यन्ताः सजातयः ।
अङ्गमन्त्राः समुद्दष्टा यथावद्देशिकोत्तमैः ॥ ७ ॥
मन्त्रमुद्धरति दक्षिणेति ।
श्लोकरूपो मन्त्रः ।
तारशक्तिरुद्धोऽयमित्युभाभ्यां रुद्धः पुटितः तेनान्ते व्युत्क्रमः ।
प्रणवो बीजं माया शक्तिः ।
ह्राङादीति मकारे ङकारः ।
प्रयोगस्तु—-ॐ ह्री� दक्षिणामूर्त्तये ह्रां हृदयाय नमः ॐ ह्री� शिरसे स्वाहा इत्यादि ।
यथावद्देशिकोत्तमैरित्यनेन शैवषडङ्गमुद्राभिः सह कर्त्तव्यतोक्ता ॥ २-७ ॥
मूध्नी भाले दृशोः श्रोत्रे गण्डयुग्मेऽथ नासिके ।
आस्ये दोः सन्धिषु गलेस्तनहृन्नाभिमण्डले ॥ ८ ॥
कट्यां गुह्ये पुनः पादसन्धिष्वर्णान्न्यसेत् क्रमात् ।
व्यापकं तारशक्तिभ्यां कुर्याद्देहे ततः परम् ॥ ९ ॥
मूर्ध्नीत्यादि चतुस्त्रिंशत्स्थानेषु चतुस्त्रिंशद्वर्णान् विन्यस्य शिष्टाभ्यां व्यापकं कुर्यादित्यर्थः ।
तदुक्तम्—-एवं प्रणवहृल्लेखापूर्वाक्षरन्यासादिकं कृत्वा ।
इति ।
आचार्या अपि—-पुनर्द्वाभ्यां मन्त्रविद्व्यापकं न्यसेत् ।
इति ।
केचित् तु नसोस्तनयो- रेकैकमक्षरं न्यसनीयमिति द्वाविंशदक्षरन्यासमेवाहुः ।
एष एव साम्प्रदायिकः पक्षः ।
तदुक्तमाचार्यैः—- कालिकश्रुतिदृग्गण्डद्वयनासास्यके दश ।
इत्यादिना ।
पूर्वलिखिताचार्यपद्यव्याख्याने पद्मपादाचार्यैर्द्वाभ्यां मन्त्रविदित्यनेन आद्यन्त- प्रणवशक्त्योरेकत्वं
जानन्नित्यर्थ इति व्याख्यातम् ।
व्यापकं तारशक्तिभ्यामिति वदता मूलकारेणापि सूचितमेव ।
तेन ॐ ह्री� दं नम इत्यादि प्रयोगः ।
" कृतसन्दीक्षो मन्त्री " इत्यनेन न्यासमन्त्रादौ प्रणवशक्तियोग उक्त इत्यादि पद्मपादाचार्याः ॥ ८-९ ॥
हेमाचलतटे रम्ये सिद्धकिन्नरसेविते ।
विविधद्रुमशाखाभिः सर्वतो वारितातपे ॥ १० ॥
सुपुष्पितैर्लताजालैराश्लिष्टकुसुमद्रुमैः ।
शिलाविवरनिर्गच्छन्निर्झरानिलसेविते ॥ ११ ॥
गायद्भृङ्गाङ्गनासङ्घे नृत्यद्बहीकदम्बके ।
कूजत्कोकिलसङ्घेन मुखरीकृतदिङ्मुखे ॥ १२ ॥
परस्परविनिर्मुक्तमात्सर्यमृगसेविते ।
आद्यैः शुकाद्यैर्मुनिभिरजस्रं समुपस्थिते ॥ १३ ॥
पुरन्दरमुखैर्देवैः सेवायातैवीलोकितम् ।
वटवृक्षं महोच्छ्रायं पद्मरागफलोज्ज्वलम् ॥ १४ ॥
गारुत्मतमयैः पत्रैर्निविडैरुपशोभितम् ।
नवरत्नमयाकल्पैर्लम्बमानैरलङ्कृतम् ॥ १५ ॥
जलजैः स्थलजैः पुष्पैरामोदिभिरलङ्कृतम् ।
शृण्वद्भिर्वेदशास्त्राणि शुकवृन्दैर्निषेवितम् ॥ १६ ॥
संसारतामविच्छेदकुशलच्छायमद्भुतम् ।
विचिन्त्य तस्य मूलस्थे रत्नसिंहासने शुभे ॥ १७ ॥
आसीनममिताकल्पं शरच्चन्द्रनिभाननम् ।
स्तूयमानं मुनिगणैदीव्यज्ञानाभिलाषिभिः ।
संस्मरेज्जगतामाद्यं दक्षिणामूत्तीमव्ययम् ॥ १८ ॥
ध्यानमाह हेमेति ।
हेमाचलतटे वटवृक्षं सञ्चिन्त्येति सम्बधः ।
लम्बमानैरिति वटप्ररोहैः ।
लीबणी इति गौडभाषायाम् ।
अनेनैतदुक्तं भवति ।
मणिमण्डपा-
नन्तरं हेमाचलतटे वटवृक्षं तदधो रत्नसिंहासनमिति पीठन्यासे विशेषः शेषं
समानमिति ॥ १०-१८ ॥
कैलासाद्रिनिभं शशाङ्कशकलस्फूर्जज्जटामण्डितं
नसालोकनतत्परं त्रिनयनयनं वीरासनाध्यासितम् ।
मुद्राटङ्ककुरङ्गजानुविलसत्पाणिं प्रसन्नाननं
कक्षाबद्धभुजङ्गमं मुनिवृतं वन्दे महेशं परम् ॥ १९ ॥
ध्यानमाह कैलासेति ।
वीरासनमन्त्यपटले वक्ष्यति ।
मुद्रा ज्ञानमुद्रा ।
तदुक्तमाचार्यैः—-मुद्रां भद्रार्थदात्रीम् ।
इति ।
टङ्कः परशुः ।
दक्षयोराद्ये वामयोरन्ये आयुधे ॥ १९ ॥
अयुतद्वयसंयुक्तं गुणलक्षं जपेन्मनुम् ।
तद्दशांशं तिलैः शुद्धैर्जुहुयात् क्षीरसंयुतैः ॥ २० ॥
पञ्चाक्षरोदिते पीठे विधानेन प्रपूजयेत् ।
उपचारै समुत्पन्नैः पाद्याद्यैः परमेश्वरम् ॥ २१ ॥
एवं कृतपुरश्चर्यः सिद्धमन्त्रो भवेत् सुधीः ।
भिक्षाहारो जपेन्मासं मनुमेनं जितेन्द्रियः ॥ २२ ॥
नित्यं सहस्रमष्टार्धं परं विन्दति वाङ्मयम् ।
त्रिवारं जप्तमेतेन मनुना सलिलं पिबेत् ॥ २३ ॥
नित्यशो दक्षिणामूत्तीं ध्यायन् साधकसत्तमः ।
शास्त्रव्याख्यानसामर्थ्यं लभते वत्सरान्तरे ॥ २४ ॥
गुणलक्षं त्रिलक्षम् ।
समुत्पन्नैः समुक्तैः समुत्पादितैरिति वार्थः ।
तेनोक्त- प्रकारेणैवोपचारान् कुर्यात् न जलादिनेत्युक्तं भवति ॥ २०-२४ ॥
ब्राह्मीसैन्धवसिद्धार्थवचाकुष्ठकणोत्पलैः ।
सुगन्धिसंयुतैः कल्कैः शृतं ब्राह्मीरसे घृतम् ॥ २५ ॥
सिद्धार्थे गौरसर्षपः ।
कणा पिप्पली ।
उत्पलं मुस्ता ।
सुगन्धिशब्देन त्वक्पत्रैलाकेसराणि ।
तदुक्तं वैद्यकनिघण्टौ—-
त्वक्पत्रैलाकेसराणि चातुर्जातं सुगन्धिकम् ॥ इति ।
एतेषां कल्केन ब्राह्मीरसे घृतपाकः ।
तत्र—-
स्नेहः सिध्यति शुद्धाम्बुनि क्वाथस्वरसैः क्रमात् ।
कल्कस्य योजयेदंशं चतुर्थं षष्ठमष्टमम् ॥
इति विशेषपरिभाषावचनात् पलमितेन कल्केन षट्पलं घृतं पचेत् ।
पञ्चप्रभृति यत्र स्युर्द्रव्याणि स्नेहसंविधौ ।
तत्र स्नेहसमान्याहुरर्वाक् च स्याच्चतुर्गुणम् ॥
इत्युक्तत्वात् चतुवींशतिपलानि ब्राह्मीरसः ।
घृतावशेषमुत्तारितमुक्तफलदम् ।
शृतं पक्वम् ॥ २५ ॥
मनुनाऽनेन सञ्जप्तमयुतं साधुसाधितम् ।
निपीतं कविताकान्तिरक्षायुःश्रीधृतिप्रदम् ॥ २६ ॥
साधु साधितमिति ।
अयमर्थः ।
घृते उक्तप्रकारेण देवतापीठमभ्यर्च्य तत्र सावरणं देवमिष्ट्वा बहिरग्निं प्रतिष्ठाप्य तत्रापि
ब्राह्मीरसेन देवपीठमभ्यर्च्य हुत्वा तत्सम्पाताज्येनाऽऽप्लुतं कुर्यादिति ।
निपीतमिति ।
शुचिना प्रातरिति शेषः ।
तन्त्रान्तरोक्तं यन्त्रमुच्यते—-
अथ मेधाकरं ज्ञानवाक्सिद्धिकविताकरम् ।
वक्ष्येऽहं दक्षिणामूत्तीयन्त्रं सर्वार्थसाधकम् ॥
दन्तपत्रदलोपेतं पङ्कजं भूर्जचर्मणि ।
दूर्वाग्रैः पशुपित्ताढ्यैलीखेच्च कणीकोदरे ॥
साध्याख्यां प्रविलिख्याऽथ पत्रेष्वानुष्टुभं लिखेत् ! ।
तद्बहिः पृथिवीगेहं तत्कोणे नकुलीश्वरम् ॥
तस्मिन्नावाह्य सम्पूज्य देवं सन्तर्प्य धारयेत् ।
तस्य हस्तगतं सद्यो ब्रह्मज्ञानादिकं भवेत् ॥ इति ॥ २६ ॥
प्रणवो हृदयं पश्चात्ततो भगवते पदम् ।
ङेयुतं दक्षिणमूत्तीं मह्यं मेधामुदीरयेत् ॥ २७ ॥
प्रयच्छ ठद्वयान्तोऽयं द्वाविंशत्यक्षरो मनुः ।
मुनिश्चतुर्मुखश्छन्दो गायत्री देवता मनोः ॥ २८ ॥
दक्षिणामूत्तीराख्यातो वेदव्याख्यानतत्परः ।
ताररुद्धैः स्वरैर्दीर्घैः षड्भिरङ्गानि कल्पयेत् ॥ २९ ॥
मन्त्रान्तरमाह प्रणव इति ।
हृदयं नमःपदम् ।
अत्रापि पूर्ववद्विसर्गेण सन्धिः ।
ङेयुतो दक्षिणामूत्तीः दक्षिणामूर्त्तये ।
मह्यं मेधामित्यत्र हसमेधामित्येके ।
प्रज्ञामेधामित्यन्ये ।
केचन मेधापदस्थाने प्रज्ञाशब्दमाहुः ।
इदं तु स्वस्वगुरुसम्प्रदाया- नुसारेण बोद्धव्यम् ।
प्रणवान्तो नादो बीजं स्वाहा शक्तिः ।
नारदीये तु शक्तिरहस्येह वाग्भव इत्युक्तम् ।
ताररुद्धैरिति प्रणवसम्पुटितैः ।
षड्भिर्दीर्घैः स्वरैः ।
आ ई ऊ ए औ अः एभिरित्यर्थः ॥ २७-२९ ॥
अथवा मनुसम्भूतैः पदैर्वा कल्पयेत् क्रमात् ।
पूर्वेक्तवटमूलस्थं चिन्तयेन्मन्त्रनायकम् ॥ ३० ॥
अथवेति ।
अत्र प्रणवाद्यैर्नमोऽन्तैः षड्भिः पदैः षडङ्गमिति परमगुरवः ।
अक्षरन्यासस्तु नारदीये—-
शिरोललाटहृदयनासागण्डरदद्वये ।
जिह्वानोग्रे गले बाह्वोर्हृन्नाभ्यन्धुगुदोरुषु ।
जानुजङ्घापाष्णीपादे सर्वसन्धिषु चान्तिमम् ॥ इति ।
वटमूलस्थमित्यत्र विशेषः ।
व्याख्यापीठे समासीनमाक्रान्तापस्मृतिं पदे ।
इति ॥ ३० ॥
स्फटिकरजतवर्णं मौक्तिकीमक्षमाला-
ममृत कलशविद्याज्ञानमुद्राः कराग्रैः ।
दधतमुरगकक्षं चन्द्रचूडं त्रिनेत्रं
विधृतविविधभूषं दक्षिणामूत्तीमीडे ॥ ३१ ॥
उरगकक्षं विलम्बबद्धसर्पम् ।
दक्षोर्ध्वात् दक्षाधस्तनं यावत् आयुधध्यानम् ।
तदुक्तम्—-दक्षिणे चाऽक्षमालां च ज्ञानमुद्रां च पावनीम् ।
वामे पुस्तक- मापूर्णपीयूषकलशं तथा ॥ इति ॥ ३१ ॥
लक्षमेकं जपेन्मन्त्रं ब्रह्मचारिव्रते स्थितः ।
जुहुयात् सघृतैः पद्मैर्दशांशं संस्कृतेऽनले ॥ ३२ ॥
पूर्वेदिते यजेत्पीठे वक्ष्यमाणेन वर्त्मना ।
अङ्गानभ्यर्चयेद्बाह्ये पत्रेष्वष्टसु पूजयेत् ॥ ३३ ॥
सरस्वतीं वाचयन्तीं पुस्तकं सस्मिताननाम् ।
ब्रह्माणं सनकं पश्चात् सनन्दनमतःपरम् ॥ ३४ ॥
सनत्कुमार नामानं शुकं व्यासं गणेश्वरम् ।
सिद्धगन्धर्वयोगीन्द्रविद्याधरगणान् बहिः ॥ ३५ ॥
बाह्ये लोकेश्वरानर्चेद्वज्राद्यायुधसंयुतान् ।
इत्थं पूजादिभिः सिद्धे मन्त्रेऽस्मिन् साधकोत्तमः ॥ ३६ ॥
वल्लभो जायते वाचां वाचस्पतिरिवाऽपरः ।
मन्त्रेणाऽनेन सञ्जप्तैवीशुद्धैः सलिलैः सुधीः ॥ ३७ ॥
अभिषिञ्चेत् स्वशिरसि श्रियमारोग्यमाप्नुयात् ।
कण्ठमात्रे जले स्थित्वा जपेन्मन्त्रं सहस्रकम् ।
प्रत्यहं मण्डलादर्वाक् कवीनामग्रणीर्भवेत् ॥ ३८ ॥
बहिरिति चतुरस्रान्तदीक्षु ॥ ३५ ॥
गौर्या पार्श्वस्थया सार्द्धं श्रीकामी चिन्तयन् विभुम् ।
अयुतं प्रजपेन्मन्त्रं भूयसीं श्रियमाप्नुयात् ॥ ३९ ॥
गौर्येति ।
तद्ध्यानं यथा—-
एश्यर्यकामी देवेशं देव्या सार्धं यजेत् सुधीः ।
उदयार्कसमप्रख्यां बन्धूकसदृशप्रभाम् ॥
आपीनतुङ्गकठिनकुचद्वयविराजिताम् ।
द्विनेत्रां द्विभुजां पद्महस्तां च जनमोहिनीम् ॥
देवस्य वामपार्श्वस्थां सञ्चिन्त्याऽऽराधयेन्नरः ।
तदा मन्त्रे विशेषोऽस्ति मेधास्थाने श्रियं न्यसेत् ।
इति ॥
श्रीकामी इत्यत्र श्रीपुटितत्वं ज्ञेयम् ॥ ३९ ॥
भुञ्जानः प्रयतो मन्त्री गोमूत्रे शृतमोदनम् ।
भिक्षान्नमथवा मन्त्रमयुतद्वितयं जपेत् ।
अश्रुतान् वेदशास्त्रादीन् व्याचष्टे नात्र संशयः ॥ ४० ॥
भुञ्जान इत्यत्र प्रयोगे ध्यानविशेषो यथा—-
वामपाणिगतद्योतज्जातवेदसपुस्तकम् ।
व्याख्यामुद्राक्षमालाभ्यां विराजितकरद्वयम् ॥ इति ॥
भिक्षान्नमथवेति भुञ्जान इति सम्बन्धः ।
अश्रुतानित्यत्र बालापुटितत्वं ज्ञेयम् ॥ ४० ॥
सिद्धगन्धर्वमुनिभिर्येगीन्द्रैरपि सेवितौ ।
ज्ञानवागथीनां प्रीत्यै कथितौ मन्त्रनायकौ ॥ ४१ ॥
सिद्धेत्यनेन वश्यादिप्रयोगा अपि सूचिताः ।
तदुक्तम्—-
वश्यकामो महादेवं रक्तवर्णं विचिन्तयेत् ।
वामोरुसंस्थितां देवीं चिन्तयेन् मदविह्वलाम् ।
प्रजासृष्टिनिमित्तं च चिन्तयन्तौ स्मरेच्छिवौ ॥ इति ॥
कल्पोक्तं यन्त्रं लिख्यते—-
भूर्जे रोचनया दशारसहितं पद्मं लिखेत्कणीका-
मध्ये तारलिपौ ससाधकनराभिख्यं मनुं द्वन्द्वशः ।
पत्रेष्वन्त्यदलेऽपि मन्त्रलिपिभिः संवेष्टयेद्बाह्यतः
सम्पूज्याऽथ जपेन तस्य फलितं कर्णेन सर्वज्ञताम् ॥
यात्येतेन च साधयेदनुदिनं स्तम्भादिकं वश्यकृद्य-
द्यद्वाञ्छितमन्यदत्र सुधियः कामानिहाऽमुत्र च ।
इति ॥ ४१ ॥
लोहितोऽग्न्यासनः सद्यो बिन्दुमान् प्रथमं ततः ।
द्वितीयं वह्निबीजस्था दीर्घा शान्तीन्दुभूषितः ॥ ४२ ॥
तृतीयं लाङ्गली सर्गी मन्त्रो बीजत्रयान्वितः ।
नीलकण्ठात्मकः प्रोक्तो विषद्वयहरः परः ॥ ४३ ॥
हरद्वयं वह्निजाया हृदयं परिकीत्तीतम् ।
कपदीने ठयुगलं शिरोमन्त्र उदाहृतः ॥ ४४ ॥
नीलकण्ठाय ठद्वन्द्वं शिखामन्त्र उदाहृतः ।
कालकूटपदस्याऽन्ते विषभक्षणङेयुतम् ॥ ४५ ॥
हु� फट् कवचमादिष्टं विद्वद्भर्नीलकण्ठिने ।
स्वाहान्तमस्त्रमेतानि पञ्चाङ्गानि मनोवीदुः ॥ ४६ ॥
मूध्नी कण्ठे हृदम्भोजे क्रमाद्बीजत्रयं न्यसेत् ।
ततः समाहितो भूत्वा नीलकण्ठं विचिन्तयेत् ॥ ४७ ॥
नीलकण्ठमन्त्रमाह लोहित इति ।
लोहितः पः अग्नी रेफः तदासनः तेन प्र ।
सद्य ओ बिन्दुश्च तेन प्रोम् ।
दीर्घा नकारः वह्निबीजं रेफः तत्स्था तेन न्र ।
शान्तिरी इन्दुबीन्दुः तद्युक्ता तेन न्रीम् ।
लाङ्गली ठकारः ।
सर्गे विसर्गः तद्युक्तः ।
अरुणा ऋषिः त्रिष्ट्प् छन्दः ।
आद्यं बीजम् अन्त्यः शक्तिः ।
विषद्वयं स्थावरजङ्गमम् ।
तद्धरमेतदिति विनियोग उक्तः ।
ङेयुतमिति चतुर्थ्येकवचनान्तम् ॥ ४२-४७ ॥
बालार्कायुततेजसं धृतजटाजूटेन्दु खण्डोज्ज्वलं
नागेन्द्रैः कृतभूषणं जपवटीं शूलं कपालं करैः ।
खट्वाङ्गं दधतं त्रिनेत्रविलसत्पञ्चाननं सुन्दरं
व्याघ्रत्वक्परिधानमब्जनिलयं श्रीनीलकण्ठं भजे ॥ ४८ ॥
लक्षत्रयं जपेन्मन्त्रं तद्दशांशं ससपीषा ।
हविषा जुहुयात् सम्यक् संस्कृते हव्यवाहने ॥ ४९ ॥
शैवे पीठे यजेदेनं मृत्युञ्जयविधानतः ।
एवं पूजादिभिः सिद्धे मनौ मन्त्री विषद्वयम् ॥ ५० ॥
नाशयेदचिरादेव नीलकण्ठ इवाऽपरः ।
मनुनाऽनेन सञ्जप्तैः कुम्भस्थैः सलिलैः शुभैः ॥ ५१ ॥
अभिषिञ्चेद्विषाक्रान्तं स विषान्मुच्यते ध्रुवम् ।
स्पृष्ट्वा जपेद्विषाक्रान्तं तत्क्षणं निवीषो भवेत् ॥ ५२ ॥
बीजाभ्यां प्रथमान्ताभ्यां पार्श्वयोवीषमाहरेत् ।
मध्येन मध्यगं सर्वं मनुनाऽनेन संहरेत् ॥ ५३ ॥
बहुना किमिहोक्तेन मन्त्रेणाऽनेन मन्त्रवित् ।
कालकूटविषं साक्षाद् भुक्तं स्यात्परमामृतम् ॥ ५४ ॥
ध्यानमाह बालेति ।
आयुधध्यानं पूर्ववत् ॥ ४८-५४ ॥
अग्निः संवर्त्तकादित्यरानिलौषष्ठबिन्दुमत् ।
चिन्तामणिरिति ख्यातं बीजं सर्वसमृद्धिदम् ॥ ५५ ॥
काश्यपो मुनिराख्यातश्छन्दोऽनुष्टुबुदाहृतम् ।
अर्द्धनारीश्वरः प्रोक्तो देवता जगतां पतिः ॥ ५६ ॥
रेफादिव्यञ्जनैः षड्भिः कुर्यादङ्गानि षट् क्रमात् ॥ ५७ ॥
दक्षिणवक्त्रप्रधानमन्त्रानन्तरम् उत्तरवक्त्रप्रधानं चिन्तामणिमन्त्रमाह अग्निरिति ।
अग्नी रेफः संवर्तः क्षः आदित्यो मः रः स्वरूपम् ।
अनिलो यः औ स्वरूपम् षष्ठ ऊ बिन्दुः एतद्युक्तं बीजम् ।
अत्र स्वरद्वयोच्चारणमपि गुरूपदेशतो ज्ञेयम् ।
रेफो बीजम् ।
ऊकारः शक्तिः ।
सर्वसमृद्धिदमित्यनेन पौष्टिके सकारादिः शुभ्रः ।
आकर्षण- वश्ययोर्यथोद्धृतो यथाध्यानं च ।
क्षोभे हकारादी रक्तः हंसादिरपि यथोक्त उच्चाटने यकारादिर्धूम्रः ।
स्तम्भने लकारादिः पीतः मोक्षार्थे हादिः रेफरहितो वासितः ॥
इति सूचयता विनियोगः उक्तः ।
एषां संयोग ऊर्ध्वाग्निस्थानेकात्पूर्वमित्युक्तेः ।
जगतां पतिरित्यनेनोमेशोऽपि देवतेत्युक्तम् ।
यदाहुराचार्याः—-
छन्दोऽनुष्टुप् देवतोमेशः ।
यान्तैः षड्भिर्वर्णैरङ्गं वा देवताऽर्धनारीशः ।
इति ।
रेफादीति ।
कषयोगे क्ष इति क्षकारस्य व्यञ्जनद्वयम् ।
एवं रेफादि यान्तैः षड्भिः सबिन्दुकैः षडङ्गानीति सम्प्रदायविदः ॥ ५५-५७ ॥
नीलप्रवालरुचिरं विलसत्त्रिनेत्रं
पाशारुणोत्पलकपालत्रिशूलहस्तम् ।
अर्धाम्बिकेशमनिशं प्रविभक्तभूषं
बालेन्दुबद्धमुकुटं प्रणमामि रूपम् ॥ ५८ ॥
अर्धनारीश्वरपक्षे ध्यानमाह नीलेति ।
अर्धाम्बिकेशं महेशार्धं नीलं पार्वत्यर्धं प्रवालरुक् ।
पाशोत्पले देव्यर्धहस्ताग्रे ।
अन्ये महेशार्धहस्तजे ।
प्रविभक्तभूषमिति ।
महेशांशे सर्पाद्यलङ्कृतं पार्वत्यंशे रत्नताटङ्काद्यलङ्कृतमिति ।
उमेशपक्षे ध्यानमाचार्येक्तं यथा—-
अहिशशधरगङ्गाबद्धतुङ्गाप्तमौलि-
स्त्रिदशगणनताङ्घिरस्त्रीक्षणः स्त्रीविलासः ।
भुजगपरशुशूलान् खड्गवह्नी कपालं
शरमपि धनुरीशो बिभ्रदव्याच्चिरं वः ॥
इदं ध्यानं प्रयोगविषये ।
पुरश्चरणनित्यजपादौ तु अर्धनारीश्वरध्यानमेव ।
यदाहुराचार्याः—- हावभावललितार्धनारिकं भीषणार्धमथवा महेश्वरम् ।
पाशसोत्पलकपालशूलिनं चिन्तयेज्जपविधौ विभूतये ॥ इति ॥ ५८॥
एकलक्षं जपेद्बीजमित्थं मन्त्री विचिन्तयेत् ।
अयुतं मधुना सिक्तैर्जुहुयात्तिलतण्डुलैः ॥ ५९ ॥
शैवोदिते यजेत्पीठे प्रागङ्गैः षड्भिरीरितैः ।
वृषाद्यैर्मातृभिः पश्चाल्लोकपालैस्तदायुधैः ॥ ६० ॥
एवमभ्यर्चयेद् देवमर्धनारीश्वरं परम् ।
तेजः कान्ति यशो लक्ष्मीवाचां भवति वल्लभः ॥ ६१ ॥
प्रासादाद्यं जपेन्मन्त्रमयुतं रोगशान्तये ।
स्वरावृतमिदं बीजं विगलत्परमामृतम् ॥ ६२ ॥
चन्द्रबिम्बस्थितं मूध्नी ध्यातं क्ष्वेडगदापहम् ।
प्रतिलोमात्स्वरावीतं बीजं वह्निगृहे स्थितम् ॥ ६३ ॥
रेफादिव्यञ्जनोल्लासि षट्कोणाभिवृतं बहिः ।
भूतार्त्तस्य स्मृतं मूध्नी भूतमाशु विनाशयेत् ॥ ६४ ॥
यजेत्पीठे ।
उमेशमित्यर्थः ।
परमर्धनारीश्वरम् एवमभ्यर्चयेदित्यन्वयः ।
एवमुपदेशमार्गेणेत्यर्थः ।
तत्र शैवं पीठं सम्पूज्यार्द्धनारीश्वरमावाह्याऽभ्यर्च्याऽङ्गैः प्रथमावरणं, राद्यष्टवर्णैद्वीतीयं,
मातृभिः तृतीयं, तदनु लोकपालैर्वज्राद्यैश्च ।
तदुक्तमाचार्यैः—- आरभ्यादिज्वलनमथ दिक्संस्थैरष्टभिर्मनोर्वर्णैः ।
आराधयेच्च मातृभिरिति सम्प्रोक्तः प्रयोगविधिरपरः ॥ इति ॥
चन्द्रबिम्बस्थितं ठकारस्थं र्मूध्नि ध्यातं विषार्त्तस्येति शेषः ।
वह्निगृह इति ।
ऊर्ध्वाग्रे त्रिकोणे ।
रेफादीति रकषमरयानि ॥ ५९-६४ ॥
बीजं चन्द्रगतं वीतं स्वरैः षोडशभिः क्रमात् ।
गलत्परसुधापूरं नेत्रे ध्यातं रुजं हरेत् ॥ ६५ ॥
एवमेव स्मृतं बीजं कुक्षौ शूलादिरोगहृत् ।
चन्द्रगतं ठकारगम् ।
एवमेवेति ठकारगं स्वरावृतं गलत्परसुधारूपमिति ॥ ६५-६६ ॥
स्फोटे विषज्वरे दाहे मोहे शीर्षगदे भ्रमे ॥ ६६ ॥
बीजमेतत्तथा ध्यातं तत्तत्क्लेशान् विनाशयेत् ।
कुङ्कुमाभमिदं बीजं त्रिकोणगतमुज्ज्वलम् ॥ ६७ ॥
यस्य मूध्नी स्मरेन्मन्त्री स वश्यो जायतेऽचिरात् ।
ऊर्ध्वरेफस्थसाध्याख्यं बीजं वह्निगृहे स्थितम् ॥ ६८ ॥
वह्निगेहद्वयेनाऽग्नियुक्तकोणेन संवृतम् ।
प्रतिलोमस्वरावीतं चुल्लीस्थाने निवेशितम् ॥ ६९ ॥
वशीकरोत्यामरणादचिरेणैव दासवत् ।
मधुरत्रययुक्तेन शालिपिष्टेन पुत्तलीम् ॥ ७० ॥
कृत्वा प्रतिष्ठितप्राणां विभज्य जुहुयाद्वशी ।
त्रिवासरमनेनैव साध्यस्तस्य वशीभवेत् ॥ ७१ ॥
तथेति ।
ठकारगं स्वरावृतं गलत्परसुधापूरमिति ।
ध्यातं विनाशयेदिति ।
तत्तत्- स्थाने ।
अग्नी रेफः ।
भूर्जपत्रादौ यन्त्रं कृत्वा चुल्ल्यां निखनेदित्यर्थः ॥ ६७-७० ॥
पुत्तलीमिति ।
द्वादशाङ्गुलाम् ।
प्रतिष्ठितप्राणामिति ।
त्रयोविंशे वक्ष्यमाण प्रकारेण ॥ ७०-७१ ॥
मकारगतसाध्याख्यमनलस्थगदाह्वयम् ।
चन्द्रगं चतुरस्रेण टान्तकोणेन वेष्टितम् ॥ ७२ ॥
बीजं ताम्बूलपत्रस्थं प्रजप्तं मनुनाऽमुना ।
भक्षितं नाशयेत्सम्यक् शिरोरोगं न संशयः ॥ ७३ ॥
मकार इति मन्त्रस्थे ।
अनलस्थेति ऊर्ध्वरेफगतरोगनामयुक्तम् ।
" विष- पावकोद्यत् " इत्यस्य व्याख्याने विषसम्बन्धिरेफ इति पद्मपादाचार्यैर्व्याख्यातम् ।
चन्द्रगं ठकारस्थम् ।
टान्तकोणेन चतुरस्रेण वेष्टितं बीजमिति सम्बन्धः ॥ ७२-७३ ॥
लिखित्वा बन्धुजीवेन त्रिकोणं बीजगभीतम् ।
अत्र वह्निं समाधाय सम्यगाराध्य देवताम् ॥ ७४ ॥
जुहुयात् कृतसम्पातं सपीषाऽष्टोत्तरं शतम् ।
सम्पाताज्येन संसिक्ता त्रिलोहकृतमुद्रिका ।
विधृता भूतवेतालकृत्यारोगविनाशिनी ॥ ७५ ॥
बन्धुजीवपुष्परसेन ।
अन्यत्र बन्धुजीवपदेन जवापुष्पं पठ्यते ।
उक्तञ्च—- " जपात्रिकोणगे वह्नौ " इति ।
प्रपञ्चसारटीकाकारेण विज्ञानचन्द्रिकाकृता व्याख्यातम् —- " बन्धुजीवं बन्धूकं जपा वा " इति ।
त्रिलोहकृतेति ।
षष्ठोक्तरीत्या ।
पद्मपादाचार्यै- र्मन्त्राक्षरसङ्ख्यं लोहत्रयं ग्राह्यमित्युक्तम् ॥ ७४-७५ ॥
ऊर्ध्ववह्निरहितं मनुमेनं वह्निगेहयुगले परिलेख्य ।
अग्निमस्रिषु महीपुरवीतं यन्त्रमेतदुदितं ग्रहवैरि ॥ ७६ ॥
अग्निं रम् ।
अस्रिषु षट्सु कोणेषु ॥ ७६ ॥
अग्निबीजलसत्कोणत्रिकोणलिखिते ध्रुवे ।
शरावे कपिलाज्याब्जसूत्रदीपं प्रविन्यसेत् ॥ ७७ ॥
घटेनैनं पिधायाऽस्य पृष्ठे यन्त्रमिदं लिखेत् ।
भूतार्त्तमत्र संस्थाप्य चिन्तामणिमनुं जपेत् ।
तमाविश्य क्षणान् मुञ्चेद् ग्रहः क्रूरोऽपि सर्वथा ॥ ७८ ॥
लिखिते इति ।
रक्तरजसेति ज्ञेयम् ।
उक्तञ्च नारायणीये—-
तारे बीजाङ्ककोणाग्निगेहस्थे रजसाऽपीते ॥ इति ।
अपेक्षितार्थद्योतनिकायां व्याख्यातं रक्तेन रजसाऽग्निगेहं संश्लिष्य तत्- कोणेष्वग्निबीजं लिखित्वा
तन्मध्ये प्रणवं लिखेदिति ।
एनं शरावम् ।
अस्य घटस्य ।
इदमित्युक्तम् ।
लिखेदिति जपया ।
अत्रेति ।
लिखितयन्त्रपृष्ठे ।
जपेदिति ।
ग्रस्तं संस्पृश्येति शेषः ।
मुञ्चेदिति ।
मन्त्राभिषेकेण ।
तदुक्तं नारायणीये—-
तत् पिधाय घटेनाऽन्यत् स्वयन्त्रे जपया कृते ।
घटपृष्ठगते ग्रस्तं न्यस्य चिन्तामणिं जपेत् ॥
ग्रहावेशविनाशार्थं ग्रस्तं तेनाऽभिषेचयेत् ॥ इति ।
स्वेति चिन्तामणियन्त्रे ।
तेनेति चिन्तामणिमन्त्रेणेति लघुटीकायां
व्याख्यातम् ॥ ७७-७८ ॥
कृशानुभवनद्वये मनुमिमं लिखित्वा
पुनस्तदस्रिषु हलो लिखेत्स्वरयुगं ततः सन्धिषु ।
ध्रुवेण परिवेष्टितं धरणिगेहमध्यस्थितं
मनोरथफलप्रदं भवति यन्त्रमेतन्नृणाम् ॥ ७९ ॥
तदस्रिषु तत्कोणेषु ।
हलो व्यञ्जनानि बीजस्थानि रकषमरयाः ।
स्वरयुगं बीजस्थम् औ ऊ ।
ध्रुवेण प्रणवेन एकावृत्तिः ।
धरणिगेहास्रिषु नृसिंहबीजलिखितं
ज्ञेयम् ॥ ७९ ॥
षट्कोणान्तस्त्रिकोणे लिखतु मनुमिमं साध्यनामाक्षराढ्यं
षट्कोणेष्वङ्गमन्त्रान् वसुदलविवरेष्ट मन्त्राक्षराणि ।
वीतं बाह्ये कलाभिस्तदनु परिवृतं कादिभिर्यादिभि-
स्तत् क्षौणीबिम्बेन युक्तं नृहरिमनुयुतं यन्त्रमापद्ग्रहघ्नम् ॥ ८०॥
अष्टमन्त्राक्षराणीति ।
षट् हलः द्वौ स्वरौ एकैकवर्णरीत्या ।
कलाभिः षोडश स्वरैः ।
कादिभिर्यादिभिरित्यनेन मातृकया आवृत्तित्रयमुक्तम् ।
नृहरिमन्विति ।
नृसिंहबीजं भूगृहकोणेषु ।
तदुक्तम्—- " कुगेहास्रके नारसिंहम् " इति ॥ ८० ॥
अस्मिन्यन्त्रे प्रतिष्ठाप्य कलशं प्रोक्तवर्त्मना ।
कृतोऽभिषेकः स्यात् कृत्याभूतद्रोहादिशान्तिदः ॥ ८१ ॥
प्रोक्तवर्त्मनेति ।
षष्ठोक्तरीत्या ॥ ८१ ॥
स्वरावृतममुं मनुं लिखतु टान्तमध्ये ततः
षडस्रिषु हुताशनं तदनु कादिवणैर्वृतम् ।
धरापुरयुगेन तन्नृहरिबीजयुक्तास्रिणा
प्रवेष्टितमुदाहृतं दुरितरोगकृत्यापहम् ॥ ८२ ॥
टान्तमध्ये ठकारमध्ये ।
षडस्रिषु षट्कोणेषु ।
हुताशनं रेफम् ॥ ८२ ॥
क्षकारो माग्निपवनवामकर्णार्धचन्द्रवान् ।
उक्तं तुम्बुरुबीजं तु येन सिध्यन्ति साधकाः ॥ ८३ ॥
तुम्बुरुबीजमाह क्षकार इति ।
क्षकारः म स्वरूपम् ।
अग्नी रेफः पवनो यः वामकर्ण ऊकारः अर्धचन्द्रो बिन्दुः तद्युक्तः ।
बीजशक्ती पूर्ववत् ॥ ८३ ॥
षड्दीर्घभाजा बीजेन षडङ्गानि प्रकल्पयेत् ।
क्षकाररहितं बीजं क्रमाज्जभसहान्वितम् ॥ ८४ ॥
चत्वारि देवीबीजानि देव्यो ज्ञेया इमाः क्रमात् ।
जयाख्या विजया पश्चादजिता चाऽपराजिता ॥ ८५ ॥
षड्दीर्घेति षडङ्गमन्त्रोद्धारः ।
न्यासं त्वग्रे वक्ष्यति ।
जभसह इति स्वरूपम् ।
एतानि क्रमेण क्षकारस्थाने योजितानि चत्वारि देवीबीजानि ।
तदुक्तं प्रयोगसारे—-
बीजं जभसहोपेतं क्षेत्रस्थाने यथाक्रमात् ॥ इति ।
नारायणीयेऽपि—-
मूलं जभसहोपेतं देवीबीजान्यमन्दिरम् ।
इति ॥
अपेक्षितार्थद्योतनिकायामेव बीजान्युद्धृतानि ।
ज्वलस्तु लेखकदोषवशात् क्वचित् दृश्यते ॥ ८४-८५ ॥
बीजमङ्गुलिषु न्यस्य करयोर्व्यापकं ततः ।
कनिष्ठादिषु विन्यस्येत् षडङ्गानि तलावधि ॥ ८६ ॥
बीजमिति मूलबीजम् ।
करयोर्व्यापकमिति ।
हस्ततलयोरत्रोपरि च मूल- बीजेनेति शेषः ।
तदुक्तं नारायणीये—-
न्यस्याऽङ्गुलिषु मूलं तद्धस्तयोर्व्यापकं न्यसेत् ।
इति ।
अङ्गुष्ठादिष्वङ्गुलीषु न्यसेद्बीजमित्यनेनैव करन्यासस्य प्राप्तत्वात् ।
कनि- ष्ठादिष्विति ।
विशेषविधानार्थं पुनरुक्तिः ॥ ८६ ॥
देवं देवीः स्वबीजादि कनिष्ठादिषु विन्यसेत् ।
पादान् मूर्धावधि न्यस्येन् मुष्टिनाऽवयवेषु तत् ॥ ८७ ॥
तलाभ्यां व्यापकं कुर्यान् मूर्धादिचरणावधि ।
षडङ्गानि ततो न्यस्येद्यथास्थानं विशालधीः ॥ ८८ ॥
देवं देवीर्यथापूर्वं मूर्धास्यहृदयाम्बुजे ।
नाभौ गुह्ये क्रमान् न्यस्येत् पश्चाद्देवं विचिन्तयेत् ॥ ८९ ॥
स्वबीजादीति ।
देवस्य मूलं देवीनां तूक्तानि चत्वारि जभसहान्वितमूलम् ।
मुष्टिना दक्षिणेन ।
अवयवेषु पादजानुगुह्यनाभिहृदयकण्ठमुखशिरःसु ।
एवमपेक्षितार्थ- द्योतनिकाकारोक्ततलमूलम् ।
उक्तञ्च नारायणीये—-
मुष्टिनाऽवयवेषु च पादादि न्यस्य मूर्धादि हस्ताभ्यां व्यापकं न्यसेत् ।
इति ।
व्यापकं कुर्यादिति ।
मूलेनेति शेषः ।
विशालधीरित्यनेन शैवमुद्राभिः सहेत्युक्तम् ।
यथापूर्वमिति ।
स्वस्वबीजादि ॥ ८७-८९ ॥
रक्ताभमिन्दुशकलाभरणं त्रिनेत्रं
खट्वाङ्गपाशसृणिशुभ्रकपालहस्तम् ।
वेदाननं चिपिटनासमनर्घभूषं
रक्ताङ्गराग कुसुमांशुकमीशमीडे ॥ ९० ॥
लक्षमानं जपेन्मन्त्रं जुहुयात्सपीषाऽन्वितम् ।
वक्ष्यमाणे यजेत्पीठे देवमावरणैः सह ॥ ९१ ॥
ध्यानमाह रक्ताभमिति ।
सृणिरङ्कुशः ।
दक्षाधस्ताद्वामाधःपर्यन्तमायुधध्यानम् ॥ ९०-९१ ॥
नपुंसकस्वरैवीद्वान् स्वराद्यन्तद्वयेन च ।
धर्मादिकानधर्माद्यान् पादान् गात्राणि विन्यसेत् ॥ ९२ ॥
स्वदेहे पीठकल्पनमाह नपुंसकेति ।
अनुलोमविलोमगैरिति लेखक दोषवशात् प्रामादिकः ।
स्वराद्यन्तद्वयेन चेति पाठः ।
तदुक्तं नारायणीये—-
नासादिभिः स्वराद्यन्तैश्चतुभीश्च क्रमाद् बुधः ।
इति ।
प्रयोगसारेऽपि—- क्लीबैराभ्याममोभ्यां च क्रमाद्धर्मादिपूजनम् ।
इति ।
एवं षोडशापि स्वरा उपयुक्ता भवन्ति ।
अपेक्षितार्थद्योतनिकाकारेण एवमेव प्रयोगो लिखितः ।
तेन क्लीबाद्यान् धर्मादीन् ।
अआ अंअः एतदाद्यानधर्मादीन् ।
विन्यसेदिति चतुर्थेक्तस्थानेषु ॥ ९२ ॥
इकारेण न्यसेत्पश्चात्तनुरूपान् गुणानथ ।
शान्त्या तत्परवर्णेन मायाविद्यामये क्रमात् ॥ ९३ ॥
अधऊर्ध्वच्छदे न्यस्येदर्घीशेन ततोऽम्बुजम् ।
सन्ध्यक्षरैर्यजेन्मन्त्री शक्तीर्वामादिकाः क्रमात् ॥ ९४ ॥
गुणानिति ।
सत्त्वादीन् त्रिवर्णान् ।
शान्त्या ईकारेण ।
तत्परवर्णेन उकारेण ।
अर्घीशेन ऊकारेण ।
सन्ध्यक्षरैरिति ।
ए ए ओ औ एभिः ।
एषां यथा सन्धिसम्भवत्वं तथा द्वितीयपटले प्रतिपादितम् ॥ ९३-९४ ॥
वामां ज्येष्ठां तथा रौद्रीमिच्छां ज्वालास्वरूपिणीः ।
एवं प्रकल्पिते पीठे मूत्तीं मूलेन कल्पयेत् ॥ ९५ ॥
आवाह्य पूजयेद्देवं तस्यामावरणैः सह ।
अङ्गावृतेर्बहिर्देवीदीक्पत्रेषु समर्चयेत् ॥ ९६ ॥
जयाद्याः स्वस्वबीजेन रक्ता रक्तानुलेपनाः ।
अरुणांशुकपुष्पाढ्यास्ताम्बूलापूरिताननाः ॥ ९७ ॥
वल्लकीवादनपरा मदमन्मथपीडिताः ।
ज्वालास्वरूपिणीरिति पीठशक्तिध्यानम् ।
तदुक्तं नारायणीये—-
ज्वलदनलशिखाभा भास्वराः शक्तयः स्युः ।
इति ।
मूलबीजमुच्चार्य तुम्बुरुयोगपीठाय नम इति पीठमन्त्रोऽपि सूचितः ।
एवं प्रकल्पिते पीठे इत्यनेन एवमिति येन प्रकारेण देहे पीठं प्रकल्पितं तेनैव क्रमेण मण्डलेऽपि
पीठे परिकल्पित इत्यर्थः ।
तस्यामिति ।
मूर्त्तौ ॥ ९५-९८ ॥
ईशादिकोणेष्वभ्यर्चेद् दूतीर्बीजादिकाः क्रमात् ॥ ९८ ॥
दुर्भगां सुभगां भूयः करालीं मोहिनीमिमाः ।
बद्धाञ्जलिपुटाः किञ्चिदानम्रवदनाम्बुजाः ॥ ९९ ॥
देवीसदृशभूषाढ्या दूतीमन्त्रान् विदुः क्रमात् ।
चतुरः शादिकान् वर्णानर्धेन्दुकृतशेखरान् ॥ १०० ॥
ईशादिकोणेष्विति ।
ईशकोणमारभ्याप्रदक्षिणम् आग्नेयपर्यन्तमित्यर्थः ।
बीजादिकाः वक्ष्यमाणबीजादिकाः ।
देव्यो जयाद्यास्तत्सदृशभूषणाः ।
तदुक्तं नारायणीये—-
तादृग्रूपाश्च दूत्यो रचितकरपुटाः किञ्चिदानम्रवक्त्राः ।
शर्वाद्यग्न्यन्तसंस्थाः ।
इति ।
शादिकानिति ।
शषसहान् ।
अर्द्धेन्दुबीन्दुः ।
तदुक्तं प्रयोगसारे—-
ऊष्माणो बिन्दुशेखरा दूतीनामिति तद्बीजम् ।
इति ।
नारायणीयेऽपि—-बीजानि दूतीनामूष्माणो बिन्दुशेखराः ।
इति ॥ ९८-१०१ ॥
लोकपालान् यजेद् बाह्ये वज्राद्यायुधसंयुतान् ।
एवं यो भजते भक्त्या देवमुक्तेन वर्त्मना ।
न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते ॥ १०१ ॥
वायुवह्निपुरान्तस्थं बीजं स्मृत्वा जपेत् सुधीः ।
ज्वरभूतमहारोगा नश्यन्ति तेन तत्क्षणात् ॥ १०२ ॥
वाय्विति ।
प्रथमपटलोक्तवायुमण्डलं तत्राग्निपुरं तदन्तश्च बीजमित्यर्थः ।
स्मृत्वा मूर्ध्नीति शेषः ॥ १०२ ॥
क्रुद्धस्य हृदये ध्यात्वा जपेद् बीजमनन्यधीः ।
स वश्यो जायते शीघ्रं मन्त्रस्याऽस्य प्रभावतः ॥ १०३ ॥
हृद्रोगे कामलारोगे विष्टम्भे श्वासकासयोः ।
एतज्जप्तं जलं प्रातः पिबेत्तद्रोगशान्तये ॥ १०४ ॥
वश्यो जायत इत्यत्र कामबीजादित्वम् ।
रोगशान्तये इत्यत्र नृसिंह-
बीजादित्वम् ॥ १०३-१०४ ॥
कृत्वा नवपदात्मानं मण्डलं तत्र शोभनान् ।
कलशान् स्थापयेन्मन्त्री नव पूर्वेक्तलक्षणान् ॥ १०५ ॥
मध्ये देवं यजेत्सम्यक् देवीः पूर्वेक्तकुम्भगाः ।
इष्ट्वा कोणस्थिता दूतीरभिषिञ्चेत् पतिव्रताम् ॥ १०६ ॥
नारी सा लभते पुत्रं बन्ध्याऽपि किमुताऽपरा ।
भूतकृत्याग्रहद्रोहशान्तिदः सम्पदावहः ॥ १०७ ॥
अभिषेकोऽयमाख्यातो राज्ञां विजयवर्द्धनः ॥ १०८ ॥
नवपदान्वितं नवनाभं तृतीयोक्तम् ।
पूर्वेक्तेति ।
षष्ठोक्तम् ।
कोणस्थिता ईशादि।
लभते पुत्रमित्यत्र मायाबीजादित्वम् ।
विजयवर्द्धन दुर्गाबीजादित्वं
ज्ञेयम् ॥ १०५-१०८ ॥
अन्तर्बीजं स्वरगणलसत्केसरं तस्य बाह्य
देवीदूतीमनुयुतदलं दिग्विदिक्षु क्रमेण ।
काद्यैर्वर्णैर्वृतमथ बहिर्भूमिगेहेन वीतं
यन्त्रं प्रोक्तं सकलसुखदं रोगकृत्याग्रहघ्नम् ॥ १०९॥
यन्त्रमाह अन्तरिति ।
अष्टदलं कमलं कृत्वा तत्कणीकायां मूलमालिख्य दिग्दलेषु देवीबीजानि विदिक्षु दूतीबीजानि क्रमेणेति
पूर्ववल्लिखेत् ॥ १०९ ॥
प्रणवो हृदयं पश्चात् ङेऽन्तं पशुपतिं पुनः ।
तारो नमो भूतपदं ततोऽधिपतये ध्रुवम् ॥ ११० ॥
नमो रुद्राय युगलं खड्गरावणशब्दतः ।
विहरद्वितयं पश्चात्सरनृत्ययुगं पृथक् ॥ १११ ॥
श्मशानभस्माचीतान्ते शरीराय ततः परम् ।
घण्टाकपालमालादिधरायेति पदं पुनः ॥ ११२ ॥
व्याघ्रचर्मपदस्याऽन्ते परिधानाय तत्परम् ।
शशाङ्ककृतशब्दान्ते शेखराय ततः परम् ॥ ११३ ॥
कृष्णसर्पपदं पश्चात्ततो यज्ञोपवीतिने ।
चलयुग्मं वल्गुयुगमनिवर्त्तकपालिने ॥ ११४ ॥
हनयुग्मं ततो भूतान् त्रासयद्वितयं पुनः ।
भूयो मण्डलमध्ये स्यात् कटयुग्मं ततः परम् ॥ ११५ ॥
रुद्राङ्कुशेन शमय प्रवेशययुगं ततः ।
आवेशययुगं पश्चाच्चण्डासिपदमीरयेत् ॥ ११६ ॥
धराधिपतिरुद्रोऽथ ज्ञापयेत्यग्निसुन्दरी ।
खड्गरावणमन्त्रोऽयं सप्तत्यूर्ध्वशताक्षरः ॥ ११७ ॥
भूताधिपतये स्वाहा पूजामन्त्रोऽयमीरितः ।
सद्यादिपञ्चह्रस्वाढ्यकान्तबीजादिकान् न्यसेत् ॥ ११८ ॥
खड्गरावणमन्त्रमाह ।
प्रणव इति ।
ङेऽन्तं पशुपतिं पशुपतये ।
तारः प्रणवः ।
ततः अधिपतये ।
अत्र प्राक्तनेन सह सन्धिः ।
ध्रुवं प्रणवम् ।
पृथगिति सरसर नृत्यनृत्य ।
रुद्रो इति स्वरूपम् ।
अथाऽनन्तरमग्निसुन्दरी स्वाहा ।
अन्यत्र कुत्रापि न सन्धिः ।
प्रणवो बीजं स्वाहा शक्तिः ।
कान्तः खः ॥ ११०-११८ ॥
ईशानाद्याः पञ्चमूर्त्तीर्देहे वक्त्रेषु च क्रमात् ।
षड्दीर्घबिन्दुयुक्तेन कान्तेनाऽङ्गक्रिया मता ॥ ११९ ॥
ईशानाद्या इति पूर्वपटलोक्ताः ।
देह इति शिरोवदनहृद्गुह्यपादेषु ।
वक्त्रेष्विति ।
ऊर्ध्वादिपञ्चसु ।
कान्तेनेति ।
खकारेण ॥ ११९ ॥
घण्टाकपालसृणिमुण्डकृपाणखेट-
खट्वाङ्गशूलडमरूनभयं दधानम् ।
रक्ताङ्गमिन्दुशकलाभरणं त्रिनेत्रं
पञ्चाननाब्जमरुणां शुकमीशमीडे ॥ १२० ॥
अयुतद्वितयं मन्त्रं जपित्वा तद्दशांशतः ।
पायसेन घृताक्तेन जुहुयात्तस्य सिद्धये ॥ १२१ ॥
आयुधध्यानं दक्षाद्यूर्ध्वयोराद्ये तदधस्तनयोरन्त्ये एवमन्तम् ॥ १२०-१२१ ॥
पञ्चाक्षरोदिते पीठे पूजयेत् खड्गरावणम् ।
बीजेन मूत्तीकॢप्तिः स्यात् तत् कान्तं मनुबिन्दुमत् ॥१२२॥
अङ्गानि दलमूलेषु दूतीः पत्रेषु संयजेत् ।
चुलुकुण्डां प्रस्खलिनीं तृतीयां कृष्णपिङ्गलाम् ॥ १२३ ॥
फल्गुनीं टिरिटिल्लीं च पञ्चमीं मन्त्रमालिकाम् ।
सप्तमीं शङ्खिनी पश्चाच्चन्द्राङ्कितजटामिमाः ॥ १२४ ॥
पूर्वपत्रादि सव्येन खड्गरावणवल्लभाः ।
एन्द्रीं कौमारिकीं ब्राह्मीं वाराहीं वैष्णवीं पुनः ॥ १२५ ॥
वैनायकीं च चामुण्डां माहेशीं दिक्षु पूजयेत् ।
द्वारपालान् यजेद्दक्षु द्वौ द्वौ प्रागादि देशिकः ॥ १२६ ॥
रौद्रपिङ्गलनामानौ द्वौ श्मशानविभीषणौ ।
दृढकर्णं भृङ्गिरीटिमुदीच्यामर्चयेत् पुनः ॥ १२७ ॥
आमर्दकमहाकालौ कोणपालान् यजेत् पुनः ।
कुम्भकर्णमशोकाख्यं भल्लाटं जातहारकम् ॥ १२८ ॥
इन्द्रादिकान् लोकपालान् सायुधान् पूजयेत् ततः ।
धूपदीपादिभिर्देवं प्रीणयित्वा महेश्वरम् ॥ १२९ ॥
पञ्चाक्षरोदिते शैवपञ्चाक्षरपीठे पूजा ।
बीजेनेति ।
अनन्तरं वक्ष्यमाणेन ।
तदिति बीजम् ।
मनुः औः ।
दूतीरिति ।
वक्ष्यमाणाः ।
चन्द्राङ्कितजटामित्यष्टमीम् ।
सव्येनेत्यप्रादक्षिण्यतः ।
उदीच्यामित्युत्तरेण सम्बध्यते ।
कोणपालानिति ।
आग्नेयादि ।
केशरेष्वङ्गपूजा ॥ १२२-१२९ ॥
पञ्चक्रूरान्धसा बाह्ये ततो भूतबलिं हरेत् ।
एवं पूजादिभिः सिद्धे मन्त्रे मन्त्रविदां वरः ॥ १३० ॥
नाशयेत्सकलान् भूतान् कृत्याग्रहमहाभयान् ।
आदेशं तस्य कुर्वन्ति भूता भीता महात्मनः ॥ १३१ ॥
बहुना किमिहोक्तेन मन्त्रेणाऽनेन भूतले ।
सदृशो नास्ति मन्त्रोऽन्यो भूतनिग्रहसाधने ॥ १३२ ॥

॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
ऊनविंशः पटलः समाप्तः ॥ १९ ॥
ब्थ् " बि
पञ्चक्रूरान्धसेति ।
अन्नदधिसक्तुहरिद्रालाजतिलरूपेण ।
तदुक्तमाचार्यैः—- लाजतिलनक्तरजोदधिसक्त्वन्नानि भूतक्रूराख्यम् ।
इति ॥ १३०-१३२ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायामेकोनविंशतिः पटलः ॥ १९ ॥
ब्थ् " बि