१८

अथाष्टादशः पटलः

अथ वक्ष्ये महेशस्य मन्त्रान् सर्वसमृद्धिदान् ।
यैः पूर्वमृषयः प्राप्ताः शिवसायुज्यमञ्जसा ॥ १ ॥
क्रमप्राप्तान् शैवमन्त्रानाह अथेति ।
सर्वसमृद्धिदान् यैरित्यादिना च तत्तदधि- कारिणं प्रति विनियोग उक्तः ॥ १ ॥
हृदयं वपरं साक्षि लान्तोऽनन्तान्वितो मरुत् ।
पञ्चाक्षरो मनुः प्रोक्तस्ताराद्योऽयं षडक्षरः ॥ २ ॥
वामदेवो मुनिश्छन्दः पङ्क्तिरीशोऽस्य देवता ।
षड्भिर्वर्णैः षडङ्गानि कुर्यान्मन्त्रस्य देशिकः ॥ ३ ॥
मन्त्रवर्णादिका न्यस्येत् पञ्चमूर्त्तीर्यथाक्रमम् ।
तर्जनीमध्ययोरन्त्यानामिकाङ्गुष्ठके पुनः ॥ ४ ॥
मन्त्रमुद्धरति हृदयमिति ।
हृदयं नमःपदम् ।
वपरं शः साक्षि इकारयुक् तेन शि ।
लान्तो वः अनन्त आ तदन्वितस्तेन वा ।
मरुत् यः ।
षडक्षर इत्यनेन वाग्भवादिरित्युक्तम् ।
आद्यं बीजम् उमेति शक्तिः ।
केचित्प्रणवादनन्तरं प्रासादबीज- प्रक्षेपात् सप्ताक्षरमिति वदन्ति ।
तन्त्रान्तरे—-
आद्यन्ते सम्पुटीकृत्य हंसवागीश्वरं मनुम् ।
शिवमन्त्रं जपेद्धीमान् सद्यः प्रत्ययमेष्यति ॥
सम्पुटं शिवमन्त्रस्य जपेन् मासम्मतन्द्रितः ।
एकाकी यतचित्तात्मा वश्यमर्थं स विन्दति ॥ इति ॥
अत्र वागीश्वरशब्देन वाग्भवं केवलं रेफरहितं तार्त्तीयं चेति परमगुरवः ।
षड्भिरिति षडङ्गमन्त्रोद्धारमात्रमुक्तम् ।
न्यासमग्रे वक्ष्यतीति न पुनरुक्तिः ।
देशिको यथाक्रममिति ।
प्रत्यक्षरमादौ प्रणव इत्युक्तम् ।
अन्त्या कनिष्ठा ॥ २-४ ॥
ताः स्युस्तत्पुरुषाघोरसद्योवामेशसञ्ज्ञकाः ।
वक्त्रहृत्पादगुह्येषु निजमूर्धनि ताः पुनः ॥ ५ ॥
प्राग्याम्यवारुणोदीच्यमध्यवक्त्रेषु पञ्चसु ।
मन्त्राङ्गानि न्यसेत् पश्चाज्जातियुक्तानि षट् क्रमात् ॥ ६ ॥
ता मूर्त्तयः ।
सद्यः सद्योजातः ।
वामो वामदेवः ।
ईश ईशानः ।
ताः पुर्निर्मूर्धनीत्यन्तेषु स्थानेषु न्यसेदिति पश्चात्तनेन सम्बन्धः ।
चतुर्थीनमोऽन्ताश्च मूर्त्तय इति सम्प्रदायविदः ।
मूर्धनीति काकाक्षिगोलकन्यायेन उभयत्र सम्बध्यते ।
ताः पुननज- मूर्धनि पञ्चसु वक्त्रेषु न्यसेदिति पश्चात्तनेन सम्बन्धः ।
तदुक्तमाचार्यैः—-
वक्त्रहृत्पादगुह्याख्यामूर्धस्वपि च नामभिः ।
प्राग्याम्यवारुणोदीच्यवक्त्रेष्वपि च मूर्धनि ॥ इति ॥
मन्त्राङ्गानीति ।
तत्र प्रयोगः—-ॐ हृत् नं शिर इत्यादि ।
सम्प्रदायविदस्तु ।
ॐ ॐ सर्वज्ञधाम्ने हृत् ।
ॐ नं तृप्तिधाम्ने शिरः ।
ॐ मः अनादिबोधधाम्ने शिखा ।
ॐ शिम् अलुप्तशक्तिधाम्ने वर्म ।
ॐ वां स्वतन्त्रशक्तिधाम्ने नेत्रम् ।
ॐ यम् अनन्तशक्तिधाम्ने अस्त्रम् ।
एवं षडङ्गमिच्छन्ति ।
तदुक्तं वायवीयसंहितायाम्—-
तथैव तु षडङ्गानि पुनरस्योपपादयेत् ।
सर्वज्ञतां तथा तृप्न्तिं बोधं चाद्यन्तवजीतम् ॥
अलुप्तशक्तिं स्वातन्त्र्यमनन्तां शक्तिमेव च ॥ इति ।
क्वचित्तु वर्मनेत्रयोर्व्यत्ययः ।
तदुक्तम्—-
सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च विभोवीधिज्ञाः प्राहुः षडङ्गानि महेश्वरस्य ॥ इति ॥
यथागुरुसम्प्रदायमूहनीयम् ॥ ५-६ ॥
कुर्वीत गोलकन्यासं रक्षायै तदनन्तरम् ।
हृदि वक्त्रेऽंसयोऽर्वेः कण्ठे नाभौ द्विपार्श्वयोः ॥ ७ ॥
पृष्ठे हृदि ततो मूध्नी वदने नेत्रयोर्नसोः ।
दोःपत्सन्धिषु साग्रेषु विन्यसेत्तदनन्तरम् ॥ ८ ॥
शिरोवदनहृत्कुक्षिसोरुपादद्वये पुनः ।
हृदि वक्त्राम्बुजे टङ्के मृगाभयवरेष्वथ ॥ ९ ॥
वक्त्रांसहृत्सपादोरुजठरेषु क्रमान् न्यसेत् ।
मूलमन्त्रस्य षड्वर्णान् यथावद्देशिकोत्तमः ॥ १० ॥
मूध्नी भालोदरांसेषु हृदये ताः पुनर्न्यसेत् ।
पश्चादनेन मन्त्रेण कुर्वीत व्यापकं सुधीः ॥ ११ ॥
नमोऽस्तु स्थाणुरूपाय ज्योतिलीङ्गामृतात्मने ।
चतुर्मूत्तीवपुच्छायाभासिताङ्गाय शम्भवे ।
एवं न्यस्तशरीरोऽसौ चिन्तयेत्पार्वतीपतिम् ॥ १२ ॥
दशावृतिमयं गोलकन्यासमाह कुर्वीतेति ।
तदनन्तरं तत्त्वन्यासानन्तरमित्यर्थः ।
तत्त्वन्यासो यथा—-
वक्ष्यतेऽथो शैवतत्त्वन्यासः प्रसादतः परम् ।
पञ्चाक्षरी परायेति तत्त्वनामात्मने नमः ॥
आवृत्त्या शिवपञ्चाक्षर्यर्णयुक्तं पृथक् सह ।
द्वितीयादि क्षादिवर्णैरान्तैराद्यं ध्रुवादिकैः (कम्) ॥
शिवः शक्तिः सदापूर्वः शिव ईश्वर एव च ।
शुद्धविद्या च माया च कालश्च नियतिः कला ॥
स्मृतोपरागः पुरुषः प्रकृतिर्बुद्ध्यहङ्कृती ।
मन एतान् हृदि न्यस्येत् श्रोत्रादिषु स्थले तथा ।
वागाद्यप्यथशब्दादि मूर्धास्योरौ गुदे पदे ॥
आकाशादीन्न्यसेदेषु वक्ष्यमाणं च पञ्चकम् ।
सदाशिवाद्या आकाशाद्याधिपत्यन्तकाः सङेः ॥
शान्त्यतीताकलाद्यन्ता निवृत्त्याद्याः स्वबीजतः ।
न्यसेत् पादादिशीर्षान्ते मूर्धादिचरणान्तिके ॥
शान्त्यात्मेशानमूर्धा च ङेयुतश्च सदाशिवः ।
सत्यात्मा तत्पुरुषवक्त्रो ङेसंयुत ईश्वरः ॥
नादात्माऽघोरहृदयो ङेयुतश्च महेश्वरः ।
बिन्द्वात्माऽथो वामदेवगुह्यो विष्णुश्च ङेयुतः ॥
बीजात्मा च सद्योजातपादो ब्रह्मा च ङेयुतः ।
ईशानाद्यानूर्ध्ववक्त्राद्यान् सदाशिवपूर्वकान् ॥
ऊर्ध्वादिपञ्चवक्त्रेषु ङेन्तानक्षरपूर्वकान् ॥ इति ।
स्वबीजत इति ।
ह्लां ह्ली� ह्रू� ह्यै� हौ� ।
ईशानाद्यान् ईशानतत्पुरुषाघोरवाम सद्यान् ।
ऊर्ध्ववक्त्राद्यान् ऊर्ध्वपूर्वदक्षोत्तरपश्चिमान् ।
प्रयोगस्तु—-ॐ हों नमः शिवाय पराय शिवात्मने नमः ।
नं क्षं हौं नमः शिवाय पराय शक्त्यात्पने नमः ।
मं लं हौं नमः शिवाय पराय सदाशिवात्मने नम इत्यादि ।
प्रथमचरणेनैकाऽऽवृतिः ।
कण्ठादिहृदन्तं द्वितीया ।
मूर्धादिनासिकान्तं तृतीया ।
ततोऽर्धेनावृतिचतुष्टयम् ।
अन्यत्र सर्वत्र दोःपत्सन्धयश्चत्वार एव गृहीताः ।
अत्राऽङ्गुलिमध्यसन्धिमपि गृहीत्वा पञ्च सन्धयः ।
षष्ठमग्रमिति ।
एकैकस्मिन्नेकैकावृतिः ।
साग्रमित्यत्राऽङ्गुलीनामन्त्यसन्धियोगात् अग्रत्वमपि ज्ञेयम् ।
अत्र सर्वत्र केचन पञ्चाक्षरन्यासमाहुः ।
तन्मते मूलमन्त्रस्य षड्वर्णानित्यनेन ।
अन्यत्रापि " हृन्मुखांसोरुयुग्मेषु षड्वर्णान् क्रमशो न्यसेत् " इत्यनेन च विरोधः स्यात् ।
तत्परिहाराय प्रत्यर्णमादौ प्रणवमाहुः ।
एवमपि अष्टमनवमदशमेषु पृथक् षट्स्थान- निर्देशो वृथा स्यात् ।
अन्यत्रापि दशमावृतौ " मुखांसहृदयेषु त्रीन् परान् पादोरुकुक्षिषु " इति अनेन विरोधात् तदसङ्गतम् ।
कश्चित्तु दोः सन्धिद्वयं तृतीयमग्रम् एवं दोर्द्वन्द्व एका पदद्वन्द्व एका इत्यष्टौ न्यासानेवाह ।
सभ्रान्त एव ।
यतः सर्वत्र गोलकन्यासे ग्रन्थान्तरे च दशावृतीनामेवोक्तत्वात् ।
सन्धिशब्दार्थस्य सङ्कोचे कारणाभावा च ।
ततोऽर्धेनाऽष्टमी ।
पुनरर्धेन नवमी ।
तत्र टङ्कादिषु तत्तन् मुद्रया न्यासो विधेय इति साम्प्रदायिकाः ।
टङ्कः परशुः ।
मुद्रालक्षणानि तु—-
करे करं तु करयोस्तिर्यक् संयोज्य चाऽङ्गुलीः ।
संहताः प्रसृताः कुर्यान् मुद्रेयं परशोर्मता ॥
मिलित्वाऽनामिकाङ्गुष्ठमध्यमाग्राणि योजयेत् ।
शिष्टाङ्गुल्युच्छिरते कुर्यान् मृगमुद्रेयमीरिता ॥ इति ॥
ऊर्ध्वीकृतो वामहस्तः प्रसृतोऽभयमुद्रिका ।
अधोमुखो दक्षहस्तः प्रसृतो वरमुद्रिका ॥ इति ॥
अर्धेन दशमी ।
यथावदिति ।
देशिकोत्तमः ता मूर्त्तीर्यथावत् पुनर्न्यसेदिति सम्बन्धः ।
यथावदित्यनेन प्रणवादि मन्त्रवर्णा इत्युक्तम् ।
देशिकोत्तम इत्यनेन तत्तदङ्गुल्येति ज्ञेयम् ।
इदं पूर्वन्यासयोरप्यूह्यम् ।
अंसेति अंसद्वयम् ॥ ७-१२ ॥
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वरूपं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ १३ ॥
ध्यायेदिति ।
पद्मासीनमिति श्वेतपद्मं चिन्तनीयम् ।
आयुधध्यानं दक्षाद्यूर्ध्वयोराद्ये तदधस्तनयोरन्त्ये ।
अनेनैव क्रमेण स्वशरीरे पूर्वेक्तो न्यासः ।
अत्र ध्यानानन्तरं पद्मलिङ्गमुद्रे दर्शनीये ।
आयुधमुद्राश्च ।
तदुक्तं प्रयोगसारे—-दर्शयित्वा यतः पद्मलिङ्गमुद्रे तदग्रतः ।
इति ।
तत्र पद्ममुद्रालक्षणमुक्तं प्राक् ।
लिङ्गमुद्रालक्षणं तु—-
उच्छिरतं दक्षिणाङ्गुष्ठं वामाङ्गुष्ठेन बन्धयेत् ।
वामाङ्गुलीर्दक्षिणाभिरङ्गुलीभिश्च वेष्टयेत् ।
लिङ्गमुद्रेयमाख्याता शिवसान्निध्यकारिणी ॥ इति ॥
इयं सर्वशैवमन्त्रसाधारणीति ज्ञेयम् ॥ १३ ॥
तत्त्वलक्षं जपेन्मन्त्रं दीक्षितः शैववर्त्मना ।
तावत्सङ्ख्यासहस्राणि जुहुयात् पायसैः शुभैः ।
ततः सिद्धो भवेन्मन्त्रः साधकाभीष्टसिद्धिदः ॥ १४ ॥
शैववर्त्मना दीक्षितः कृतदीक्षः ।
सा च शैवतन्त्रात् कामिकादितो ज्ञेया ।
तत्त्व- लक्षं चतुवींशतिलक्षं मन्त्रं जपेदित्यन्वयः ।
उक्तञ्च—-अक्षरलक्षचतुष्कं जप्यात् ।
इति ।
तावत्सङ्ख्यासहस्राणि चतुवींशतिसहस्राणि ।
अत्र द्रव्यप्रोक्षणे मूलमन्त्रो हु� फडन्तो ज्ञेयः ।
तदुक्तं नारायणीयप्रयोगसारयोः—-
वर्मास्त्रान्तेन मूलेन सम्प्रोक्ष्यैवं प्रकल्पितम् ।
इति ॥ १४ ॥
देवं सम्पूजयेत्पीठे वामादिनवशक्तिके ।
वामा ज्येष्ठा ततो रौद्री काली कलपदादिका ॥ १५ ॥
विकारिण्याह्वया प्रोक्ता बलाद्या विकरिण्यथ ।
बलप्रमथनी पश्चात्सर्वभूतदमन्यथ ॥ १६ ॥
मनोन्मनीति सम्प्रोक्ताः शैवपीठस्य शक्तयः ।
नमो भगवते पश्चात्सकलादि वदेत् पुनः ॥ १७ ॥
गुणात्मशक्तियुक्ताय ततोऽनन्ताय तत्परम् ।
योगपीठात्मने भूयो नमस्तारादिको मनुः ॥ १८ ॥
देवमिति ।
वामादिनवशक्तिके पीठे देवं पूजयेदिति सम्बन्धः ।
तत्र मण्डूकादि परतत्त्वान्तं पीठं सम्पूज्य नव शक्तीः पूजयेदित्यर्थः ।
कलपदादिका इति अग्रिमाया विशेषणम्म् ।
आसां ध्यानमुक्तं प्रयोगसार नारायणीययोः—-
श्वेता रक्तासिता पीता श्यामाऽरुणा सिताऽसिता ।
शोणा च ताः स्मरेच्छक्तीः पीठरूपा यथाक्रमम् ॥ इति ॥ १५-१८ ॥
अमुना मनुना दद्यादासनं गिरिजापतेः ।
मूत्तीं मूलेन सङ्कल्प्या तत्राऽऽवाह्य यजेच्छिवम् ॥ १९ ॥
गिरिजापतेरित्यनेनैतदुक्तम् ।
आत्मयागे आसनं सम्पूज्य स्वागतादिगन्धान्तं दत्त्वा नमोऽस्तु स्थाणुभूतायेति मन्त्रेण पञ्च
पुष्पाञ्जलीर्दद्यादिति ।
तदुक्तमाचार्यैः—-
कुर्यादनेन मन्त्रेण निजदेहे समाहितः ।
मन्त्री पुष्पाञ्जलिं सम्यक् त्रिशः पञ्चश एव च ॥ इति ॥ १९ ॥
कणीकायां यजेन्मूर्त्तीरीशमीशानदिग्गतम् ।
शुद्धस्फटिकसङ्काशं दिक्षु तत्पुरुषादिकाः ॥ २० ॥
पीताञ्जनश्वेतरक्ताः प्रधानसदृशायुधाः ।
चतुर्वक्त्रसमायुक्ता यथावत् सम्प्रपूजयेत् ॥ २१ ॥
कणीकायां दिक्षु " तत्पुरुषादिका मूर्त्तीश्चतस्रो यथावत् सम्पूजयेदित्यन्वयः ।
यथावदित्यनेन प्रणवादि मन्त्रवर्णाद्या इत्युक्तम् ।
ईशानदिग्गतं शुद्धस्फटिकसङ्काश- मीशं पञ्चमं यजेदित्यन्वयः ॥ २०-२१ ॥
कोणेष्वर्च्याः निवृत्त्याद्यास्तेजोरूपाः कलाः क्रमात् ।
अङ्गानि केसरस्थानि विद्येशान् पत्रगान् यजेत् ॥ २२ ॥
कोणेषु आग्नेयादिषु ।
द्वितीयोक्ता निवृत्त्याद्याश्चतस्रः ।
तेजोरूपा इति ध्यानम् ।
प्रथमपटलोक्ता पञ्चीकृतभूतबीजाद्या इति ज्ञेयम् ।
शान्त्यतीतामपि ईशे यजेदिति क्रमादित्यनेनोक्तमित्यन्ये ॥ २२ ॥
अनन्तं सूक्ष्मनामानं शिवोत्तममनन्तरम् ।
एकनेत्रमेकरुद्रं त्रिनेत्रं तदनन्तरम् ॥ २३ ॥
पश्चाच्छ्रीकण्ठनामानं शिखण्डिनमनन्तरम् ।
रक्तपीतसितारक्तकृष्णरक्ताञ्जनासितान् ॥ २४ ॥
किरीटापीतबालेन्दून् पद्मस्थान् भूषणान्वितान् ।
त्रिनेत्रान् शूलवज्रास्त्रचापहस्तान् मनोहरान् ॥ २५ ॥
उत्तरादि यजेत्पश्चादुमां चण्डेश्वरं पुनः ।
ततो नन्दिमहाकालौ गणेशवृषभौ पुनः ॥ २६ ॥
अथ भृङ्गरीटिं स्कन्दमेतान् पद्मासनस्थितान् ।
स्वर्णतोयारुणश्याममुक्तेन्दुसितपाटलान् ॥ २७ ॥
इन्द्रादयस्ततः पूज्या वज्राद्यायुधसंयुताः ।
इत्थं सम्पूजयेद्देवं सहस्रं नित्यशो जपेत् ॥ २८ ॥
सर्वपापविनिर्मुक्तः प्राप्नुयाद्वाञ्छितां श्रियम् ।
द्विसहस्रं जपेद्रोगान् मुच्यते नात्र संशयः ॥ २९ ॥
त्रिसहस्रं जपेन्मन्त्रं दीर्घमायुरवाप्नुयात् ।
सहस्रवृद्ध्या प्रजपन् सर्वान् कामानवाप्नुयात् ॥ ३० ॥
आज्यान्वितैस्तिलैः शुद्धैर्जुहुयाल्लक्षमादरात् ।
उत्पातजनितान् क्लेशान्नाशयेन्नाऽत्र संशयः ।
शतलक्षं जपेत्साक्षाच्छिवो भवति मानवः ॥ ३१ ॥
विद्येशानेवाह अनन्तमिति ।
अस्त्रं बाणः ।
पश्चादेतानुत्तरादि यजेदिति सम्बन्धः।
शतलक्षमिति कोटिम् ।
तन्त्रान्तरादिदं यन्त्रं लिख्यते—-
रेखाषट्कं न्यसेदूर्ध्वं तथा तिर्यक्प्रमाणकम् ।
अग्राग्रसंहताकारम् ऋज्वग्रं च सरेखकम् ॥
वसुपत्रस्वराब्जं च मातृकार्णसमन्वितम् ।
चतुरस्रं द्विधा कृत्वा यन्त्रं पञ्चाक्षराख्यकम् ॥
पञ्चाक्षरीं न्यसेन्मध्ये द्वादशार्णमतः परम् ।
विद्येश्वरांस्तथा न्यस्य द्वादशार्कमतः परम् ॥
बृहत्सौरं ततो न्यस्य कलाशक्तीस्ततः परम् ।
गायत्रीमष्टमातृश्च स्वरांश्चैव ततः परम् ॥
मातृका लोकपालांश्च यन्त्रं पञ्चाक्षराख्यकम् ॥ इति ।
हृदयं ङेणभगवन्नादित्यश्च सङे सह ॥
आद्यं च किरणं सद्योत मानेङे च ठद्वयम् ।
अयं महासौरः कलाशक्तीरमृताद्याः ।
तत्पुरुषायेति गायत्री ।
मातृका ककाराद्या सान्ता ।
शैवागमोक्तं यन्त्रान्तरमुच्यते—-
षट्कोणान्तः साध्ययुक्तं प्रासादं मूलमस्रिषु ।
सन्धिष्वङ्गानि तद्बाह्ये पद्मं पञ्चदलं त्विह ॥
ईशानाद्याः पञ्चमूर्त्तीर्ङेहृदन्ता लिखेत्ततः ।
अष्टपत्रं मातृकाष्टवर्गयुक्तं लिखेद्बहिः ॥
संवेष्ट्याऽनुष्टुभा यन्त्रं जपहोमादिसाधितम् ।
आरोग्यायुःसुतैश्वर्यचतुर्वर्गफलप्रदम् ॥ इति ॥ २३-३१ ॥
षडक्षरः शक्तिरुद्धः कथितोऽष्टाक्षरो मनुः ।
ऋषिश्छन्दः पुरा प्रोक्तो देवता स्यादुमापतिः ॥ ३२ ॥
मन्त्रान्तरमाह षडिति ।
रुद्धः सम्पुटितः ।
प्रणवो बीजं माया शक्तिः ।
पुरा प्रोक्त इति ।
वामदेव ऋषिः पङ्क्तिश्छन्दः ॥ ३२ ॥
अङ्गानि पूर्वमुक्तानि सोममीशं विचिन्तयेत् ॥ ३३ ॥
अङ्गानीति ।
तत्र षड्दीर्घयुक्तबीजाद्यैः षडर्णैः षडङ्गविधिरिति सम्प्रदायविदः ।
प्रयोगस्तु ह्रां ॐ हृत् ।
ह्रो नं शिरः ।
ह्रूं मः शिखा ।
ह्रैं शिं वर्म ।
ह्रौं वा नेत्रम् ।
ह्रः यम् अस्त्रम् ।
सोममित्युमया सहितम् ॥ ३३ ॥
बन्धूकाभं त्रिनेत्रं शशिशकलधरं स्मेरवक्त्रं वहन्तं
हस्तैः शूलं कपालं वरदमभयदं चारुहासं नमामि ।
वामोरुस्तम्भगायाः करतलविलसच्चारुरक्तोत्पलाया
हस्तेनाऽऽश्लिष्टदेहं मणिमयविलसद्भूषणायाः प्रियायाः ॥३४॥
आयुधध्यानं दक्षाद्यूर्ध्वयोराद्ये तदधस्तनयोरन्त्ये ।
करतलेति वामे ।
तदुक्तम्—-
वामोरुपीठगतया निजवामहस्तन्यस्तारुणोत्पलयुजा परिरब्धदेहम् ।
इति ।
हस्तेनेति दक्षिणेन ॥ ३४ ॥
मनुलक्षं जपेन्मन्त्रं तत्सहस्रं यथाविधि ।
जुहुयान्मधुरासिक्तैरारग्वधसमिद्वरैः ॥ ३५ ॥
प्राक्प्रोक्ते पूजयेत् पीठे गन्धपुष्पैरुमापतिम् ।
अङ्गावृतीर्बहिः पूज्या हृल्लेखाद्या यथा पुरा ॥ ३६ ॥
मनुलक्षं चतुर्दशलक्षम् ।
तत्सहस्रं चतुर्दशसहस्रम् ।
यथाविधीति तान्त्रिकाग्नि- मुखविधानेनेत्यर्थः ।
यथा पुरेति नवमपटलोक्तस्वस्वबीजाद्या इत्युक्तम् ।
विधानतः पूज्या इति सम्बन्धः ॥ ३५-३६ ॥
मध्यप्राग्दक्षिणोदीच्यपश्चिमेषु विधानतः ।
हृल्लेखा गगना रक्ता चतुर्थी तु करालिका ।
महोच्छुष्मा क्रमादेताः पञ्चभूतसमप्रभाः ॥ ३७ ॥
पाशाङ्कुशवराभीतिधारिण्योऽमितभूषणाः ।
यजेत् पूर्वादिपत्रेषु वृषभाद्याननुक्रमात् ॥ ३८ ॥
विधानमेवाह मध्येति ।
मध्यं कणीकामध्यम् ।
पश्चिमेषु दिग्भागेष्विति शेषः ।
पञ्चभूतेति पृथिव्यादि ॥ ३७-३८ ॥
हिमालयाभं वृषभं तीक्ष्णशृङ्गं त्रिलोचनम् ।
सर्वाभरणसन्दीप्तं साक्षाच्छन्दःस्वरूपिणम् ॥ ३९ ॥
कपालशूलविलसत्करं कालघनप्रभम् ।
क्षेत्रपालं त्रिनयनं दिगम्बरमथाऽर्चयेत् ॥ ४० ॥
शूलटङ्काक्षवलयं कमण्डलुलसत्करम् ।
रक्ताकारं त्रिनयनं चण्डेशमथ पूजयेत् ॥ ४१ ॥
चक्रशङ्खाभयाभीष्टकरां मरकतप्रभाम् ।
दुर्गां प्रपूजयेत् सौम्यां त्रिनेत्रां चारुभूषणाम् ॥ ४२ ॥
कल्पशाखां रत्नघण्टां दधानं द्वादशेक्षणम् ।
बालार्काभं शिशुं कान्तं षण्मुखं पूजयेत् ततः ॥ ४३ ॥
नन्दिनं पूजयेत्सौम्यं रक्तभूषणमण्डितम् ।
परश्वेणवराभीतिधारिणं श्यामविग्रहम् ॥ ४४ ॥
पाशाङ्कुशवराभीष्टधारिणं कुङ्कुमप्रभम् ।
विघ्ननायकमभ्यर्चेच्चन्द्रार्धकृतशेखरम् ॥ ४५ ॥
श्यामं रक्तोत्पलकरं वामाङ्कन्यस्ततत्करम् ।
त्रिनेत्रं रक्तवस्त्राढ्यं सेनापतिमथाऽर्चयेत् ॥ ४६ ॥
ध्यानपूर्वकमनुक्रममेवाह हिमालयेति ।
प्रतिश्लोकमेकैकध्यानसमाप्तिः ।
एणो मृगः ।
अयुधध्यानक्रमस्तु तत्तत्प्रकरणेऽनुसन्धेयः ।
तत इति पत्राग्रेषु ॥ ३९-४६ ॥
ततोऽष्टमातरः पूज्या ब्राह्म्याद्याः प्रोक्तलक्षणाः ।
इन्द्रादिकान् लोकपालान् स्वस्वदिक्षु समर्चयेत् ॥ ४७ ॥
वज्रादीनि तदस्त्राणि तद्बहिः क्रमशोऽर्चयेत् ।
एवं यो भजते मन्त्री देवेशं तमुमापतिम् ।
स भवेत् सर्वलोकानां प्रियः सौभाग्यसम्पदाम् ॥ ४८ ॥
प्रोक्तलक्षणा यथोक्तस्वरूपाः ॥ ४७-४८ ॥
सान्तः सद्यान्तसंयुक्तो बिन्दुभूषितमस्तकः ।
प्रासादाख्यो मनुः प्रोक्तो भजतां सर्वसिद्धिदः ॥ ४९ ॥
वामदेवो मुनिश्छन्दः पङ्क्तिर्देवः सदाशिवः ।
षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः ॥ ५० ॥
ईशानादीर्न्यसेन् मूर्त्तीरङ्गुष्ठादिषु देशिकः ।
ईशानाख्यं तत्पुरुषमघोरं तदनन्तरम् ।
वामदेवाह्वयं सद्य आसां बीजं क्रमाद्विदुः ॥ ५१ ॥
प्रासादमन्त्रमाह सान्त इति ।
सान्तो हः सद्यान्त औ तेन हौ ।
अस्य नामव्युत्पत्ति- रुक्ताऽऽचार्यैः—-प्रसादनत्वान् मनसो यथावत् प्रासादसञ्ज्ञाऽस्य मनोः प्रदिष्टा ।
इति ।
हृल्लेखासम्पुटम् इति केचित् ।
हकारो बीजम् औमिति शक्तिः ।
तदुक्तम्—-
सान्तोऽनुग्रहसंयुक्तो बिन्दुभूषितमस्तकः ।
प्रासादाख्यो मनुः प्रोक्तो बीजं हं शक्तिरौं स्मृता ॥ इति ॥
सर्वसिद्धिद इत्यनेन विनियोगोक्तिः ।
बीजेनेति मूलमन्त्रेण ।
वामदेव इत्यर्धं पठित्वा षड्दीर्घेत्यर्धं पठनीयम् ।
लेखकदोषवशात् व्यत्ययः ॥ ४९-५१ ॥
ओकाराद्यैः पञ्चह्रस्वैवीलोमात् संयुतं वियत् ।
तत्तदङ्गुलिभिर्भूयस्तत्तद्बीजादिका न्यसेत् ॥ ५२ ॥
शिरोवदनहृद्गुह्यपाददेशे तथा क्रमात् ।
ऊर्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु ताः ॥ ५३ ॥
ओकाराद्यैरिति ।
ओ ए उ इ अ एतै।
तत्तदिति ।
यस्यां यस्यां यो यो न्यस्तस्तया तया ।
तेन समुष्ट्यङ्गुष्ठेन शिरसि ।
साङ्गुष्ठतर्जन्या वदने ।
साङ्गुष्ठ- मध्यमा हृदि ।
साङ्गुष्ठानामया गुह्ये ।
साङ्गुष्ठकनिष्ठिकया पादयोः ।
एवं पञ्चस्वपि मुखेष्विति साम्प्रदायिकाः ।
तथेति ।
ऊर्ध्वमुखादीनां समुच्चयः ।
ता इति मूर्त्तीः ।
तत्तद्बीजादिकाः तत्तदङ्गुलीभिर्न्यसेदिति सम्बन्धः ॥ ५२-५३ ॥
ततः प्रविन्यसेद्विद्वानष्टत्रिंशत्कलास्तनौ ।
ईशानाद्या ऋचः सम्यगङ्गुलीषु यथाक्रमम् ॥ ५४ ॥
अङ्गुष्ठादिकनिष्ठान्तं न्यसेद्देशिकसत्तमः ।
मूर्धास्यहृदयाम्भोजगुह्यपादेषु ताः पुनः ॥ ५५ ॥
अष्टत्रिंशत्कलान्यासं वक्तुमारभते तत इति ।
अयं न्यासो ग्रन्थकृता यद्यपि प्रासादमन्त्राङ्गत्वेनोक्तः तथापीदं पञ्चऋग्विधानं स्वतन्त्रं
सर्वशैवमन्त्रसाधारणं चेति ज्ञेयम् ।
आचार्यैः स्वतन्त्रतयैवोक्तम् ।
अङ्गानि प्रकल्पयेदिति वदता तेनापि सूचितमेव स्वातन्त्र्यम् ।
तानि षडङ्गानि पञ्चर्चानामेव न तु प्रासाद मन्त्रस्य ।
तदुक्तम्—-
वक्ष्यामि शैवागमसारमष्टत्रिंशत्कलान्यासविधिं यथावत् ।
सपञ्चभिर्ब्रह्मभिरीशपूर्वैः सर्ष्यादिकैः साङ्गविशेषकैश्च ॥ इति ॥
अतस्तन्त्रान्तरोक्तमृष्यादि लिख्यते ।
ईशोऽनुष्टुप्भूरिक्शेषास्तत्पुरुषसञ्ज्ञे गायत्र्यापः ।
पुनरग्न्यनुष्टुबापो वामकृतिभगाहरहस्त्वनुष्टुप्भगयुक् ॥ इति ॥
न्यासक्रममेवाह ईशानाद्या इति ।
ता ऋचो यथा—-
१। ईशानः सर्वविद्यानामीश्वरः ।
सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् ॥
२। तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ।
३। अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्वतः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥
४। वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो
बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥
५। सद्योजातं प्रपद्यामि सद्योजाताय वै नमः भवेऽभवे नातिभवे भज (व) स्व मां
भवोद्भवाय नमः ॥
सम्यगित्यनेनैतदुक्तं भवति।
एतास्तैत्तिरीयशाखायां नारायणीयोपनिषदि द्राविड- पाठानुसारा ज्ञेयाः ।
आन्ध्रास्त्वन्यथा पठन्तीति ।
तत्पाठो नात्राऽभिप्रेत इति ।
देशिकामत्तम इत्यनेन अङ्गुष्ठाभ्यां नम इत्यादि योग उक्तः ॥ ५४-५५ ॥
वक्त्रेषूर्ध्वादि विन्यसेद्भूयोऽङ्गानि प्रकल्पयेत् ।
तारपञ्चकमुच्चार्य सर्वज्ञाय हृदीरितम् ॥ ५६ ॥
अमृततेजोमालिनितृप्तायेति पदं पुनः ।
तदन्ते ब्रह्म शिरसे शिरोङ्ग ज्वलितं ततः ॥ ५७ ॥
शिखिशिखाय परतोऽनादिबोधाय तच्छिखा ।
वज्रिणे वज्रहस्ताय स्वतन्त्राय तनुच्छदम् ॥ ५८ ॥
सौं वौं हौमिति सम्भाष्य पुरतो लुप्तशक्तये ।
नेत्रमुक्तं श्लीं पशुं हु� फडन्तेऽनन्तशक्तये ।
अस्त्रमुक्तषडङ्गानि कुर्याद्देशिकसत्तमः ॥ ५९ ॥
अङ्गानि प्रकल्पयेदित्युक्तम् ।
तान्येवाह तारेति ।
तारपञ्चकमिति द्वादशे मूत्तीकल्पनायामुक्तम् ।
शिरोङ्गं शिर इत्यर्थः ।
ज्वलितमित्यग्रिमेण सम्बध्यते ।
तनुच्छदं कवचम् ।
एवमुक्तानि षडङ्गानि देशिकसत्तमः कुर्यादिति सम्बन्धः ।
अत्र देशिकसत्तम इत्यनेनैतदुक्तं भवति ।
शिरोऽङ्गे तृप्तायेत्यस्य पूर्वे नित्यपद प्रयोगः ।
अस्त्रे श्लीमित्यस्याऽनन्तरं शक्तिबीजप्रयोग इति ॥ ५६-५९ ॥
पूर्वदक्षिणपाश्चात्यसौम्यमध्येषु पञ्चसु ।
वक्त्रेषु पञ्च विन्यस्येदीशानस्य कलाः क्रमात् ॥ ६० ॥
ईशानः सर्वविद्यानां शशिनी प्रथमा कला ।
ईश्वरः सर्वभूतानामङ्गदा तदनन्तरम् ॥ ६१ ॥
ब्रह्माधिपतिशब्दान्ते ब्रह्मणोऽधिपतिः पुनः ।
ब्रह्मेष्टदा तृतीया स्याच्छिवो मेऽस्तु ततः परा ॥ ६२ ॥
मरीची कथिता तन्त्रे चतुर्थी च सदाशिवोम् ।
अंशुमालिन्यथ परा प्रणवाद्या नमोऽन्विताः ॥ ६३ ॥
ईशमन्त्रकलान्यासक्रममाह पूर्वेति ।
इष्टदेति कलानाम् ।
सदाशिवोमित्यग्रिमेण सम्बध्यते ।
परा पञ्चमी ।
प्रणवाद्या इति ।
प्रणवशक्तिप्रासादाद्या इत्यर्थः ।
पद्म- पादाचार्याः पञ्चाक्षरीयोगमप्याहुः ।
नमोऽन्विता इति ।
पञ्चापि चतुर्थ्यन्ता इत्यपि ।
चतुर्थ्यन्ताः कलाः सर्वा इति वक्ष्यमाणत्वात् ।
तेन ॐ ह्री� हौं नमः शिवाय ।
ईशानः सर्वविद्यानां शशिन्यै नम इत्यादि प्रयोगः ॥ ६०-६३ ॥
पूर्वपश्चिमयाम्योदग्वक्त्रेषु तदनन्तरम् ।
चतस्रो विन्यसेन् मन्त्री पुरुषस्य कलाः क्रमात् ॥ ६४ ॥
आद्या तत्पुरुषायेति विद्महे शान्तिरीरिता ।
महादेवाय शब्दान्ते धीमहि स्यात् ततः परम् ॥ ६५ ॥
विद्या द्वितीया कथिता तन्नो रुद्रः पदं ततः ।
प्रतिष्ठा कथिता पश्चात् तृतीया स्यात् प्रचोदयात् ।
निवृत्तिस्तत्परा सर्वाः प्रणवाद्या नमोऽन्विताः ॥ ६६ ॥
पुरुषस्य तत्पुरुषस्य ।
प्रचोदयादित्यग्रिमेण सम्बध्यते ।
तत्परा चतुर्थी ।
सर्वा इति चतुर्थ्यन्ता इत्यपि ॥ ६४-६६ ॥
हृद्ग्रीवांसद्वये नाभौ कुक्षौ पुच्छे च वक्षसि ।
अघोरस्य कला न्यस्येदष्टौ मन्त्री यथाविधि ॥ ६७ ॥
अघोरेभ्यस्तथा पूर्वमरीरिता प्रथमा कला ।
अथ घोरेम्य इत्यन्ते मोहा स्यात्तदनन्तरम् ॥ ६८ ॥
घोरान्ते स्यात् क्षमा पश्चात् तृतीया परिकीत्तीता ।
घोरतरेभ्यो निद्रा स्यात् सर्वतः सर्वतत्परा ॥ ६९ ॥
व्याधिस्तु पञ्चमी प्रोक्ता शर्वेभ्यस्तदनन्तरम् ।
मृत्युर्निगदिता षष्ठी नमस्ते अस्तु तत्परम् ॥ ७० ॥
क्षुधा स्यात्सप्तमी रुद्ररूपेभ्यः कथिता तृषा ।
अष्टमी कथिता एता ध्रुवाद्या नमसाऽन्विताः ॥ ७१ ॥
यथाविधीति ।
वक्ष्यमाणोऽङ्गुलीभिर्न्यासः सूचितः ।
अथ घोरेभ्य एतावानृगंशः ।
एता इति ।
चतुर्थ्यन्ता इत्यपि ॥ ६७-७१ ॥
गुह्यमुष्कोरुयुग्मेषु जानुजङ्घायुगे स्फिचोः ।
कट्यां पार्श्वद्वये वामकला न्यस्येत् त्रयोदश ॥ ७२ ॥
प्रथमा वामदेवाय नमोऽन्ते स्याद्वज्रा१ कला ।
स्याज्ज्येष्ठाय नमो रक्षा द्वितीया परिकीत्तीता ॥ ७३ ॥
स्याद्रुद्राय नमः पश्चात् तृतीया रतिरीरिता ।
कालाय नम इत्यन्ते पालिनी परिकीत्तीता ॥ ७४ ॥
कलकामा पञ्चमी स्यात्ततो विकरणाय च ।
नमः संयमनी षष्ठी कथिता तदनन्तरम् ॥ ७५ ॥
बलक्रिया समादिष्टा बलविकरणाय च ।
नमो वृद्धिरष्टमी स्याद्बलान्ते च स्थिरा कला ॥ ७६ ॥
पश्चात् प्रमथनायाऽन्ते नमो रात्रिरुदीरिता ।
सर्वभूतदमनाय नमोऽन्ते भ्रामणी कला ॥ ७७ ॥
नमोऽन्ते मोहिनी प्रोक्ता मन्त्रज्ञैर्द्वादशी कला ।
उन्मनाय नमः पश्चाज्जरा प्रोक्ता त्रयोदशी ।
प्रणवाद्याश्चतुर्थ्यन्ता नमोऽन्तास्ताः प्रकीतीताः ॥ ७८ ॥
मुष्कोऽण्डकोशः ।
वामकला वामदेवकलाः ।
कलकामेत्यत्र कलेति ऋगंशकामेति कला ।
विकरणाय नम इति ऋगंशः ।
बलेति ऋगंशः ।
क्रियेति कला ।
अत्रापि विकरणाय नम इति ऋगंशः ॥ ७२-७८ ॥
पाददोस्तलनासासु मूध्नी बाहुयुगे न्यसेत् ।
सद्योजातोद्भवाः सम्यगष्टौ मन्त्री कलाः क्रमात् ॥ ७९ ॥
सद्योजातं प्रपद्यामि सिद्धिः स्यात्प्रथमा कला ।
सद्योजाताय वै भूयो नमः स्याद्वृद्धिरीरिता ॥ ८० ॥
भवे द्युतिस्तृतीया स्यादभवे तदनन्तरम् ।
लक्ष्मीश्चतुर्थी कथिता ततो नातिभवे पदम् ॥ ८१ ॥
मेधा स्यात् पञ्चमी प्रोक्ता कला भूयो भज (व)स्व माम् ।
प्रज्ञा समीरिता षष्ठी भवान्ते स्यात् प्रभा कला ।
उद्भवाय नमः पश्चात् स्वधा स्यादष्टमी कला ॥ ८२ ॥
प्रणवाद्याश्चतुर्थ्यन्ताः कलाः सर्वा नमोऽन्विताः ।
अष्टत्रिंशत्कलाः प्रोक्ताः पञ्चब्रह्मपदान्तिकाः ॥ ८३ ॥
इति विन्यस्तदेहोऽसौ भवेद्गङ्गाघरः स्वयम् ।
ततः समाहितो भूत्वा ध्यायेद्देवं सदाशिवम् ॥ ८४ ॥
भूय इति पादपूरणे ।
भव इति ऋगंशः ।
पञ्चब्रह्मपदानि पञ्चानाम् ऋचां पदानि ।
अत्र पञ्चानामृचां पदानि कलासहितानि क्रमेण उक्त्वाऽङ्गुष्ठाद्यङ्गुलिभिवीन्यसेत् ।
तेन प्रथमऋक्कलाः साङ्गुष्ठमुष्टिना द्वितीयऋक्कलास्तर्जन्यङ्गुष्ठाभ्यां तृतीयऋक्कला मध्यमाङ्गुष्ठाभ्यां
चतुर्थऋक्कला अनामाङ्गुष्ठाभ्यां पञ्चमऋक्कलाः कनिष्ठाङ्गुष्ठा- भ्यामिति ।
तदुक्तम्—-इति विशदधीवीन्यसेदङ्गुलीभिः ।
इति ।
अन्यत्रापि—-
कनिष्ठाद्यङ्गुलीभिस्तु न्यसेत् सद्यादिकाः क्रमात् ।
साङ्गुष्ठाभिस्तथेशानं समुष्ट्यङ्गुष्ठकेन तु ॥ इति ॥
अस्य स्वतन्त्रत्वात् ध्यानावरणपूजादि वक्तव्यम् ।
तत्र ध्यानं प्रासादावरण- पूजावसरे ग्रन्थकृदुक्तं ज्ञेयम् ।
आवरणपूजा तु आचार्येक्ता यथा—-
न्यैस्यैवं पञ्चभिर्ब्रह्मभिरथ शिवमाराधयेदृग्भि-
राभिर्मध्यप्राग्याभ्यसौम्यापरदिशि पुनरङ्गैरनन्तादिभिश्च ।
अन्योमाद्यैदीशापैः पुनरपि कुलिशाद्यैर्यजेदेवमुक्तं
पाञ्चब्राह्मंविधानं सकलसुखयशोभुक्तिमुक्तिप्रदञ्च ॥ इति ॥ ७९-८४ ॥
मुक्तापीत-पयोदमौक्तिकजवावर्णेर्मुखैः पञ्चभिः
त्र्यक्षैरञ्चितमीशमिन्दुमुकुटं पूर्णेन्दुकोटिप्रभम् ।
शूलं टङ्ककृपाणवज्रदहनान्नागेन्द्रघण्टाङ्कुशान्
पाशं भीतिहरं दधानममिताकल्पोज्ज्वलं चिन्तयेत् ॥ ८५ ॥
एवं ध्यात्वा जपेन्मन्त्रं पञ्चलक्षं मधुप्लुतैः ।
प्रसूनैः करवीरोत्थैर्जुहुयात्तद्दशांशकम् ॥ ८६ ॥
मुक्तेति ।
मुक्तावर्णमूर्ध्वमुखं पीतवर्णं पूर्वमुखं नीलवर्णं दक्षिणमुखं मुक्तावर्णं पश्चिममुखं
विद्रुमवर्णमुत्तरमुखम् ।
पयो ददातीति व्युत्पत्त्या नीलमेघ एव विवक्षितः ।
तदुक्तं वायवीयसंहितायाम्—-
अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् ।
त्रिलोचनारविन्दाढ्यं बालेन्दुकृतशेखरम् ॥
दक्षिणं नीलजीमूतसमानं चन्द्रभूषितम् ।
वक्रभ्रूकुटिलं घोरं रक्तवृत्तत्रिलोचनम् ॥
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ।
सविलासं त्रिनयनं चन्द्राभरणशेखरम् ॥
पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम् ।
चन्द्ररेखाधरं सौम्यं मन्दस्मितमनोहरम् ॥
पञ्चमं स्फटिकप्रख्यं चन्द्ररेखासमुज्ज्वलम् ।
अतीवसौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् ॥ इति ॥
इन्दुमुकुटमिति प्रतिवक्त्रं ज्ञेयम् ।
टङ्कः परशुः ।
नागेशः सर्पेशः ।
भीतिहरम् अभयम् ।
आयुधध्यानं तु ऊर्ध्वादि दक्षे शूलाद्यग्न्यन्तानि वामे अन्त्यानि ।
तदुक्तं वायवीयसंहितायाम्—-
दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ।
सव्ये च नागेशाभीतिघण्टापाशाङ्कुशोज्ज्वलम् ॥ इति ॥
अन्यत्र ऊर्ध्वदक्षवामयोराद्यम् एवमान्तमिति क्रमेणोक्तम्—-शूलाही टङ्कघण्टा- सिसृणिकुलिशपाशाग्न्यभीतीर्दधानं दोभीः ।
इति ।
अन्यत्र व्यत्ययोऽप्युक्तः ।
यदाहुः—- भुजङ्गघण्टाभयदाङ्कुशांश्च पाशं भुजैर्दक्षिणतो दधानम् ।
तथा त्रिशूलं परशुं च खड्गं वज्रं च वह्निं क्रमशो परैश्च ॥ इति ।
अन्यत्र एकवक्त्रं चतुर्भुजं च ध्यानमुक्तम् ।
अथवैकवक्त्रम् ।
दोभीश्चतुभीर्युतमिन्दुमौलिं धृताक्षमालात्रिशिखं क्रमात् तम् ।
यजेत् सखट्वाङ्गकपालहस्तम् ।
इति ।
अन्यत्र तु—- देवं नमामि शिरसा परशुत्रिशूल ।
विद्याकपालपरिघमण्डितबाहुखण्डम् ॥ इति ॥ ८५-८६ ॥
पूर्वेक्ते प्रयजेत्पीठे मूत्तीं मूलेन कल्पयेत् ।
आवाह्य पूजयेत्तस्यां मूर्त्त्याद्यावरणैः सह ॥ ८७ ॥
शक्तिं डमरुकाभीतिवरान् सन्दधतं करैः ।
ईशानं त्रीक्षणं शुभ्रमैशान्यां दिशि पूजयेत् ॥ ८८ ॥
परश्वेणवराभीतिर्दधानं विद्युदुज्ज्वलम् ।
चतुर्मुखं तत्पुरुषं त्रिनेत्रं पूर्वतोऽर्चयेत् ॥ ८९ ॥
अक्षस्रजं मृगपाशौ सृणिं डमरुकं ततः ।
खट्वाङ्गं निशितं शूलं कपालं बिभ्रतं करैः ॥ ९० ॥
अञ्जनाभं चतुर्वक्त्रं भीमदंष्ट्रं भयावहम् ।
अघोरं त्रीक्षणं याम्ये पूजयेन्मन्त्रवित्तमः ॥ ९१ ॥
कुङ्कुमाभं चतुर्वक्त्रं वामदेवं त्रिलोचनम् ।
वराभयाक्षवलयकुठारं दधतं करैः ॥ ९२ ॥
विलासिनं स्मेरवक्त्रं सौम्ये सम्यक् समर्चयेत् ।
कर्पूरेन्दुनिभं सौम्यं सद्योजातं त्रिलोचनम् ॥ ९३ ॥
हरिणाक्षगुणाभीतिवरहस्तं चतुर्मुखम् ।
बालेन्दुशेखरोल्लासि मुकुटं पश्चिमे यजेत् ॥ ९४ ॥
मूर्त्तीति ।
आदिशब्देनाऽङ्गावृतिरुक्ता ।
मूर्त्त्यावरणं च अङ्गावरणं च आवरणानि अनन्तोमेन्द्रवज्रादीनि च तैः मूर्त्त्याद्यावरणैरित्येकशेषेण समासः कार्यः ।
तेन मूत्ती- पञ्चकनिवृत्त्यादिपञ्चकेन प्रथमावरणं सम्पूज्य द्वितीयाङ्गैस्तृतीया विद्येश्वरादिभिरित्यर्थः।
तदुक्तं प्रयोगसारे—- " मूर्त्यङ्गावरणोपेतम् " इति ।
अन्यत्रापि मूत्तीपूजामुक्त्वा उक्तम्—-
आग्नेयेशाननैरृत्यवायुपत्रेष्वथो परः ।
सम्पूज्याऽङ्गानि चोक्तानि दिक्ष्वस्त्रमपि पूजयेत् ॥
स्वनामकलितैर्मन्त्रैरनन्तं सूक्ष्ममेव च ।
इत्यादिना ।
वायवीयसंहितायामपि—-पूजयेत्परमेश्वरम् ।
ब्रह्मभिश्च षडङ्गैश्च ।
इति ।
पद्म- पादाचार्यैरपि मूर्त्त्यावरणाद्बहिरङ्गावरणं द्रष्टव्यमित्युक्तम् ।
तेन यत् केचन मूर्त्त्यावरणात् पूर्वम् अङ्गावरणं वदन्ति तदयुक्तम् ।
नारायणीयेऽपि—-मूर्त्त्याङ्गानि यजेद्यथाविधि ।
इति ।
पूर्वत इत्यादि दिग्ग्रहणं न्यक्कृता प्रसिद्धदिशामेव कृतमिति ज्ञेयम् ।
मन्त्रवित्तमः सम्यक् समर्चयेदित्यनेनेशादीनां न्यासोक्तबीजादित्वेन पूजये- दित्युक्तं भवति ॥ ८७-९४ ॥
निवृत्त्याद्यास्ततः कोणे तेजोरूपाः कलाः क्रमात् ।
केसरेषु षडङ्गानि पूर्ववत् पूजयेत् सुधीः ॥ ९५ ॥
विद्येश्वराननन्ताद्यान् पत्रेषु परितो यजेत् ।
उमादिकास्ततो बाह्ये शक्राद्यानायुधैः सह ॥ ९६ ॥
इति सम्पूज्य देवेशं भक्त्या परमया युतः ।
प्रीणयेन्नृत्यगीताद्यैः स्तोत्रैर्मन्त्री मनोहरैः ॥ ९७ ॥
तेजोरूपा इति ।
एषां शरीराद्याकाराभावे कारणमुक्तमाचार्यैः—-
भूतानां शक्तित्वाद्व्याप्तत्वाज्जगति वा निवृत्त्याद्याः ।
तेजोरूपाः करपदवर्णविहीना मनीषिभिः प्रोक्ताः ॥ इति ॥
तन्त्रान्तरे आकारोऽप्युक्तः ।
वज्राक्षमालामभयमम्बुजं बिभ्रती करैः ।
हेमाभा चारुसर्वाङ्गा निवृत्तिः सितभूषणा ॥
श्वेताकल्पाऽक्षमालाब्जपाशाभयकरा सिता ।
सर्वाभरणसन्दीप्ता प्रतिष्ठाऽतिमनोहरा ॥
शक्त्यक्षमालाब्जाभीतिहस्ता गुञ्जारुणोज्ज्वला ।
कपर्देन्दुस्त्रिकमुखी ध्येया विद्या कला त्रिदृक् ॥
चतुर्वक्त्रभुजा कृष्णा नीलवस्त्रा कपदीनी ।
ध्वजाक्षमालाब्जाभीतिहस्ता शान्तिकला त्रिदृक् ॥
स्फटिकाभा पञ्चवक्त्रा वेदाक्षस्रग्वराभयान् ।
दधती सकपर्देन्दुः शान्त्यतीताऽच्छभूषणा ॥ इति ।
कला इत्यनेन प्रथमपटलोक्तापञ्चीकृतभूतबीजाद्या इत्युक्तम् ।
क्रमादित्यने- नैतदुक्तम् ।
आग्नेयादिषु निवृत्त्यादि चतुष्कं सम्पूज्य ईशस्थाने शान्त्यतीतां पूर्वमेव पूजयेदिति ।
अन्ये तु ईशानशान्त्यतीते मध्ये पूजयेदित्याहुः ।
प्रपञ्चसारसम्मतमेतत् ।
पूर्वमूर्ध्वप्रागित्युक्त्वा पश्चात् पूर्वेक्तदिक्षु मूर्त्तीरित्युक्तेः ।
अन्ये त्वेवं तयोः पूजामाहुः ।
उमादिका इति पूर्ववदुत्तरादि यजेत् ।
अस्य तन्त्रान्तरस्थं यन्त्रद्वयमुच्यते—-
षट्कोणमण्डलं बाह्ये रोचनाचन्दनाक्तया ।
दूर्वया विलिखेन्मन्त्री प्रासादं नामसंयुतम् ॥
बहिः षट्सु च कोणेषु प्रणवाद्यं षडक्षरम् ।
त्रयस्त्रिंशद्दलं बाह्ये त्रिस्त्रिंशद्वर्णमालिखेत् ॥
ईशानवर्णषट्कं च तत्पुरुषं तु सप्तकम् ।
अघोरवर्णषट्कं च वामदेवस्य सप्तकम् ॥
सद्योजातं तथा सप्त नमोऽन्तं वर्णमालिखेत् ।
मृत्युञ्जयेन संवेष्ट्य धारयेद्यन्त्रमुत्तमम् ॥ इति ।
षट्कोणान्तः साध्ययुक्तं प्रासादं मूलमस्रिषु ।
सन्धिष्वङ्गानि तद्वाह्ये पद्मं पञ्चदलं त्विह ॥
ईशानाद्याः पञ्चमूर्त्तीर्ङेकृदन्ता लिखेत्ततः ।
अष्टपत्रं मातृकाष्टवर्गयुक्तं लिखेद्वहिः ॥
संवेष्ट्याऽनुष्टुभा यन्त्रं जपहोमादिसाधितम् ।
आरोग्यायुः सुतैश्वर्य चतुर्वर्गफलप्रदम् ॥ इति ॥ ९५-९७ ॥
तारो माया वियद् बिन्दुमनुस्वरसमन्वितम् ।
पञ्चाक्षरसमायुक्तो वसुवर्णे मनुर्मतः ॥ ९८ ॥
अष्टाक्षरं प्रासादमन्त्रमाह तार इति ।
तारः प्रणवः ।
माया शक्तिबीजम् ।
वियत् हः बिन्दुमनुस्वरौ औं तद्युक् तेन हौम् ।
पञ्चाक्षर इति शैवपञ्चाक्षरः ।
वसुवर्णेऽष्टाक्षरःं पूर्वेक्ते ऋषिछन्दसी ।
उमापतिर्देवता ॥ ९८ ॥
पञ्चाक्षरोक्तवत् कुर्यादङ्गन्यासादिकं बुधः ॥ ९९ ॥
पञ्चाक्षरोक्तवदिति ।
मायाषड्दीर्घाद्यबीजषडक्षरैः षडङ्गमिति सम्प्रदायविदः ।
आदिशब्देन मूत्तीपञ्चकन्यासः ॥ ९९ ॥
वन्दे सिन्दूरवर्णं मणिमुकुटलसच्चारुचन्द्रावतंसं
भालोद्यन्नेत्रमीशं स्मितमुखकमलं दिव्यभूषाङ्गरागम् ।
वामोरुन्यस्तपाणेररुणकुवलयं सन्दधत्याः प्रियाया
वृत्तोत्तुङ्गस्तनाग्रे निहितकरतलं वेदटङ्केष्टहस्तम् ॥१००॥
अष्टलक्षं जपेदेनं मनुं मनुविदां वरः ।
तत्सहस्रं प्रजुहुयात् पायसान्नैर्घृतप्लुतैः ॥ १०१ ॥
प्राक्पीठे मूलमन्त्रेण मूत्तीं सङ्कल्प्या पूजयेत् ।
अङ्गैरावरणं पूर्वमनन्ताद्यैरनन्तरम् ॥ १०२ ॥
उमादिभिः समुद्दष्टं तृतीयं लोकनायकैः ।
चतुर्थं पञ्चमं तेषामायुधैः परिकीत्तीतम् ॥ १०३ ॥
एवं प्रतिदिनं देवं पूजयेत्साधकोत्तमः ।
पुत्रमित्रादिसहितां श्रियं प्राप्य प्रमोदते ॥ १०४ ॥
वन्दे इति ।
वेदः पुस्तकं टङ्कः परशुः ।
वामोरुन्यस्तपाणेरिति दक्षपाणेः ।
अरुणकुवलयमिति ।
वामपाणौ ।
निहितकरतलमिति ।
वामाधस्तनम् ।
तदुक्तम्—-
वामाङ्कन्यस्तवामेतरकरकमलायास्तथा वामबाहु
न्यस्तरक्तोत्पलायाः स्तनविधृतलसद्वामबाहुः प्रियायाः ।
इति ।
ऊर्ध्ववामे इष्टं वरमित्यर्थः ।
वेदटङ्के दक्षस्थे ।
उमादिभिरिति पूर्वेक्तैः ॥ १००-१०४ ॥
तारं स्थिरा सकर्णेन्दुः भृगुः सर्गविभूषितः ।
त्र्यक्षरात्मा निगदितो मनुर्मृत्युञ्जयादिकः ॥ १०५ ॥
ऋषिः कहोलो देव्यादिगायत्री छन्द ईरितम् ।
मृत्युञ्जयो महादेवो देवताऽस्य समीरितः ॥ १०६ ॥
एवं पञ्चक्त्रशिवस्य मन्त्रानभिधाय ऊर्ध्ववक्त्रप्रधानं मृत्युञ्जयमन्त्रमाह तार- मिति ।
तारं प्रणवम् ।
स्थिरा जः ।
कर्णे वामकर्णः ऊ ।
अथवा कर्णशब्देन षट्सङ्ख्या तेन ऊ इन्दुबीन्दुः तेन जूम् ।
भृगुः सकारः सर्गे विसर्गः तद्युक्तः ।
द्वन्द्वावयवसम्पाते पूर्वस्यादौ परिग्रहः ।
इति यद्यपि सामान्यपरिभाषा तथाप्यत्र विशेषवचनात्तद्वाधः पूर्वव्याख्याने ।
तदुक्तं प्रयोगसारे—-
वेदादिः काष्टमः षष्ठस्वरार्धेन्द्वन्वितश्च सः ।
स्वरश्चतुर्थे बिन्द्वन्तौ जलौ (जसौ) बिन्द्वन्वितः शशी ॥
पञ्चाक्षरस्य मन्त्रस्य बीजान्युक्तानि यत्नतः ।
तस्यादितः क्रमाद्बीजैस्त्र्यक्षरः प्रोच्यते त्रिभिः ॥
बीजेनाऽन्त्येन तस्यैव स्यादेकाक्षर ईरितः ।
एते मृत्युञ्जया मन्त्राः क्रमात्प्रोक्ताः फलोत्तराः ॥ इति ।
नारायणीयेऽपि—- सशिवं वामदोर्मध्यं बिन्दुमत्सकलो भृगुः ।
इति ।
तट्टीकायां सशिवं षष्ठस्वरयुक्तम् ।
शिवशब्देन षष्ठस्वरोऽत्र विवक्षितः इत्युक्तम् ।
प्रणवो बीजं स इति शक्तिः ।
जूं बीजमिति पद्मपादाचार्याः ॥ १०५-१०६ ॥
भृगुणा दीर्घयुक्तेन षडङ्गानि समाचरेत् ॥ १०७ ॥
भृगुणा सकारेण ।
दीर्घयुक्तेन षड्दीर्घयुक्तेन समाचरेदिति ।
नाभिहृद्भ्रूमध्येऽ- प्यक्षरन्यासानन्तरमित्यर्थः ॥ १०७ ॥
चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः स्थितं
मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशुप्रभम् ।
कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं
कान्त्या विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावयेत् ॥ १०८॥
पद्मद्वयान्तः स्थितमिति ।
एकमूर्ध्वमुखं तदुपर्युपविष्टं द्वितीयमधोमुखं शिरसि ।
मुद्रा ज्ञानमुद्रा ।
दक्षोर्ध्वात् दक्षाधस्तनं यावदायुधध्यानम् ॥ १०८ ॥
गुणलक्षं जपेन्मन्त्रं तद्दशांशं विशालधीः ।
जुहुयादमृताखण्डैः शुद्धदुग्धाज्यलोलितैः ॥ १०९ ॥
शैवे सम्पूजयेत्पीठे मूत्तीं मूलेन कल्पयेत् ।
अङ्गावरणमाराध्य पश्चाल्लोकेश्वरान् यजेत् ॥ ११० ॥
तदस्त्राणि ततो बाह्ये पूजयेत् साधकोत्तमः ।
जपपूजादिभिः सिद्धे मन्त्रेऽस्मिन् मनुना क्रमात् ॥ १११ ॥
कुर्यात् प्रयोगान् कल्पोक्तानभीष्टफलसिद्धये ।
दुग्धयुक्तैः सुधाखण्डैर्मन्त्री मासं सहस्रकम् ॥ ११२ ॥
आराधितेऽग्नौ जुहुयाद्विधिवद्विजितेन्द्रियः ।
सन्तुष्टः शङ्करस्तेन सुधाप्लावितविग्रहः ॥ ११३ ॥
आयुरारोग्यसम्पत्तियशः पुत्रान् विवर्धयेत् ।
सुधावटौ तिलो दूर्वा पयः सपीः पयोहविः ॥ ११४ ॥
इत्युक्तैः सप्तभिर्द्रव्यैर्जुहुयात्सप्तवासरम् ।
क्रमाद्दशांशतो नित्यमष्टोत्तरमतन्द्रितः ॥ ११५ ॥
सप्ताधिकान् द्विजान्नित्यं भोजयेन्मधुरान्वितम् ।
विकारानुगुणं मन्त्री वर्धयेद्धोमवासरान् ॥ ११६ ॥
गुणलक्षं त्रिलक्षम् ।
विशालधीरित्यनेन शैवं पीठमभ्यर्च्येत्युक्तम् ।
अमृता गुडूची ।
शुद्धेति वस्त्रादिना गालितैः ।
सुधा गुडूची ।
मन्त्रीति ।
एकाक्षरबीजादि- त्वमुक्तम् ।
मासं जुहुयादिति सम्बन्धः ।
सहस्रकमिति प्रत्येकम् ।
विधिवदाराधित इत्यग्नौ शैवं पीठं सम्पूज्येत्यर्थः ।
पयोहविरिति पायसम् ।
विकारमिति ।
रोगानुसारा- च्चतुर्दशैकविंशेत्यादि दिनवृद्धिः ॥ १०९-११६ ॥
होतृभ्यो दक्षिणां दद्यादरुणा गाः पयस्विनीः ।
गुरुं सम्प्रीणयेत्पश्चाद्धनाद्यैर्देवताधिया ॥ ११७ ॥
अनेन विधिना साध्यः कृत्याद्रोहज्वरादिभिः ।
विमुक्तः सुचिरं जीवेच्छरदां शतमञ्जसा ॥ ११८ ॥
अभिचारे ज्वरे तीव्रे घोरोन्मादे शिरोगदे ।
असाध्यरोगक्ष्वेडादौ महादाहे महाभये ॥ ११९ ॥
होमोऽयं शान्तिदः प्रोक्तः सर्वसम्पत् प्रदायकः ।
द्रव्यैरेतैः प्रजुहुयात् त्रिजन्मसु यथाविधि ॥ १२० ॥
भोजयेन्मधुरैर्भेज्यैर्ब्राह्मणान् वेदपारगान् ।
दीर्घमायुरवाप्नोति वाञ्छितां विन्दति श्रियम् ॥ १२१ ॥
द्रव्यैरेतैरिति ।
पूर्वेक्तैः सप्तभिः ।
त्रिजन्मस्विति प्रथमदशमएकोनविंशति- सङ्ख्येषु नक्षत्रेषु ।
यथाविधीति ।
पूर्वेक्तप्रकारेण ॥ ११९-१२१ ॥
एकादशाहुतीर्नित्त्यं दूर्वाभिर्जुहुयाद् बुधः ।
अपमृत्युजिदेषः स्यादायुरारोग्यवर्धनः ॥ १२२ ॥
त्रिजन्मसु सुधावल्लीकाश्मरीबकुलोद्भवैः ।
समिद्वरैः कृतो होमः सर्वमृत्युगदापहः ॥ १२३ ॥
सिद्धान्नैवीहितो होमो महाज्वरविनाशनः ।
अपामार्गसमिद्धोमः सर्वामयविषूदनः ॥ १२४ ॥
प्रणवरचितनालं मन्त्रमध्यार्णपत्रं
भृगुविलसितमध्यं पद्मयुग्मं तदन्तः ।
कृतवसतिमुमेशं वर्णनिर्यत्सुधार्द्रं
कलयतु हृदि नित्यं सर्वदुःखप्रशान्त्यै ॥ १२५ ॥
प्रणवेति ।
मन्त्रमध्यार्णे जूं स चाष्टावृत्त्या अष्टसु पत्रेषु ।
भृगुविलसितेति ।
सविसर्गसकारेण ।
पद्मयुग्मं कलयतु तदन्तः कृतवसतिमुमेशं कलयत्विति सम्बन्धः ।
एवं पद्मद्वयसम्पुटमध्ये उमेशं ध्यायेत् ।
वर्णः कणीकास्थः सकारः तस्मान्निर्यती या सुधा तया आर्द्रम् ॥ १२५ ॥
यन्त्राढ्ये कमले सौम्ये कलशं प्रोक्तवर्त्मना ।
नवरत्नसमायुक्तं दुकूलाभ्यामलङ्कृतम् ॥ १२६ ॥
आपूर्य सलिलैः शुद्धैस्तस्मिन् देवं प्रपूजयेत् ।
उपचारैः षोडशभिवीधानेन विधानवित् ।
अभिषिञ्चेत् प्रियं साध्यं विनीतं दत्तदक्षिणम् ॥ १२७ ॥
आधिव्याधिमहारोगकृत्याद्रोहनिवारणः ।
अभिषेकोऽयमाख्यातः कीत्तीलक्ष्मीजयप्रदः ॥ १२८ ॥
अभिषेकमाह यन्त्रेति ।
यन्त्राढ्य इति वक्ष्यमाणयन्त्रयुक्ते ।
कमल इति भद्र- कमण्डलस्थले ।
सौम्यं मनोहरम् ।
प्रोक्तवर्त्मनेति ।
षष्ठपटलोक्तरीत्या ।
विधानविद्विधानेनेत्यनेनैतदुक्तम् ।
तुर्येक्तागमश्लोकैरुपचारेषु तत्तद्द्रव्यविशेषस्तत्त- न्मुद्राभिरिति ॥ १२६-१२८ ॥
मध्ये साध्याक्षराढ्यं ध्रुवमभिविलिखेन्मध्यगं दिग्दलस्थं
कोणेष्वन्त्यं मनोस्तत्क्षितिभुवनमथो दिक्षु चन्द्रान्विदिक्षु ।
टान्तं यन्त्रं तदुक्तं सकलभयहरं क्ष्वेडभूतापमृत्यु-
व्याधिव्यामोहदुःखप्रशमनमुदितं श्रीप्रदं कीत्तीदायि ॥ १२९ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
अष्टादशः पटलः समाप्तः ॥ १८ ॥
ब्थ् " बि

  यन्त्रमाह मध्य इति ।  

मध्ये कणीकायाम् ।
मध्यगं जूङ्कारम् ।
अन्त्यं सः ।
चन्द्रं ठकारम् ।
तदुक्तम्—-
खड्गीशलाङ्गलिभ्यां तु दिग्विदिक्ष्वङ्कितं बहिः ।
भूपुरं विनिवेश्याऽस्मिन् कलशं समलङ्कृतम् ॥ इति ॥ १२९ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायामष्टादशः पटलः ॥ १८ ॥
ब्थ् " बि

ब्थ् " बि