१७

अथ सप्तदशः पटलः

अथ वक्ष्ये जगन्मूलं मन्त्रं श्रीपुरुषोत्तमम् ।
गोपितं वैष्णवे तन्त्रे भुक्तिमुक्तिफलप्रदम् ॥ १ ॥
वैष्णवतन्त्रगोपितत्वादन्ते स्मरणारूढत्वात् पुरुषोत्तमादिमन्त्रान् वक्तुमुपक्रमते अथेति ।
उक्तं च मन्त्रतन्त्रप्रकाशे—-
पुरुषोत्तमसञ्ज्ञस्य विष्णोर्भेदचतुष्टयम् ।
त्रैलोक्यमोहनस्तेषां प्रथमः प्रकृतिर्मतः ॥
श्रीकरश्च हृषीकेशः कृष्णश्चात्र चतुर्थकः ।
श्रीधरो वा चतुर्थः स्यात्प्रद्युम्नो वेति केचन ॥ इति ॥
मन्त्रदेवतयोरभेदेन पुरुषोत्तममित्युक्तिः ।
अतिरहस्यत्वाद् गोपितम् ।
अत एवाऽऽचार्यैः गुप्तपटले उद्धारः कृतः ।
भुक्तिमुक्तीत्यनेन विनियोग उक्तः ॥ १ ॥
तारमाररमाबीजं नत्यन्ते पुरुषोत्तमम् ।
पुनरप्रतिरूपान्ते ततो लक्ष्मीनिवास च ॥ २ ॥
सकलान्ते जगत्पूर्वं क्षोभणेतिपदं पुनः ।
सर्वस्त्रीहृदयोपेतं विदारणपदं पुनः ॥ ३ ॥
ततः परं त्रिभुवनमदोन्मादकरं ततः ।
सुरासुरान्ते मनुजसुन्दरीजनशब्दतः ॥ ४ ॥
मनांसि तापयद्वन्द्वं दीपयद्वितयं पुनः ।
शोषयद्वितयं भूयो मारयद्वितयं पुनः ॥ ५ ॥
स्तम्भयद्वितयं पश्चान्मोहयद्वितयं पुनः ।
द्रावयद्वितयं पश्चादाकर्षययुगं ततः ॥ ६ ॥
समस्तपरमोपेतसुभगेन च संयुतम् ।
सर्वसौभाग्यशब्दान्ते करेतिपदसंयुतम् ॥ ७ ॥
सर्वकामप्रदपदममुकं हनयुग्मकम् ।
चक्रेण गदया पश्चात् खड्गेन तदनन्तरम् ॥ ८ ॥
सर्वबाणैभीन्दयुगं पाशेनेतिपदं ततः ।
कट्टद्वयान्तेऽङ्कुशेन ताडयद्वितयं पुनः ॥ ९ ॥
कुरुशब्दद्वयमथो किं तिष्ठसि पदं पुनः ।
तावद्यावत्पदस्याऽन्ते समीहितमनन्तरम् ॥ १० ॥
ततो मे सिद्धमाभाष्य भवत्यन्ते सवर्म फट् ।
नमोऽन्तोऽयं मनुः प्रोक्तो द्विशताक्षरसंयुतः ॥ ११ ॥
जैमिनिर्मुनिराख्यातश्छन्दोऽस्याऽमितमीरितम् ।
समस्तजगतामादिर्देवता पुरुषोत्तमः ॥ १२ ॥
मन्त्रमुद्धरति तारेति ।
तारो देवीप्रणवः ।
ओङ्कारस्य सामान्येन सर्वमन्त्रादि- त्वेनोक्तेः अत्रापि तथा सम्प्रदायाद्वा प्रणवादित्वम् ।
यद्वा तारश्च तारश्चेत्येकशेषे तारौ पश्चाद्रमादिपदैः सह समासः ।
तत्र प्रथमतारपदेन प्रणवः द्वितीयतारपदेन देवीप्रणवः ।
इदं व्याख्यानं पद्मपादाचार्याणां सम्मतम् ।
मारः कामबीजम् ।
रमा श्रीबीजम् ।
नतिर्नमःपदम् ।
सर्वस्त्रीहृदयेति स्वरूपम् ।
अत्र क्वापि न सन्धिः ।
द्वितीयान्तानि सर्वाणि आभाष्येत्यस्य कर्माणि मन्त्रे तु सम्बुद्धयः ।
समीहितं सिद्धमिति च मन्त्रेऽपि द्वितीयान्तम् ।
द्विशताक्षर इत्युक्तिस्तु अमुकेति साध्यनामपरमित्येतत्केति केचन ।
अन्ये तु अमुकपदस्थाने दुरितादिपद प्रक्षेपाद् द्विशताक्षरसंयुत इत्युक्तेः ।
अधिकाक्षरत्वमपि न दोषायेत्यूचुः ।
केचिदेवमाहुः—- शक्तिश्रीमारीभिः पुटितः स्मरणाच्च लोकमोहनकृत् ।
इति ।
प्रणवो बीजं हु� शक्तिः ॥ २-१२ ॥
पुरुषोत्तमशब्दान्ते वदेत् त्रिभुवनं ततः ।
मदोन्मादकरान्ते हु� हृदयं सकलं ततः ॥ १३ ॥
जगत्क्षोभणशब्दान्ते लक्ष्मीदयित हु� शिरः।
मन्मथोत्तमसंयुक्तमङ्गजे कामदायिनि ॥ १४ ॥
हु� शिखा परमोपेत सुभगाक्षरसंयुतम् ।
सर्वसौभाग्यकर हु� कवचं परिकीत्तीतम् ॥ १५ ॥
ततः सुरासुरोपेतमनुजान्वितसुन्दरी ।
ततः परस्ताद् हृदयविदारणपदं वदेत् ॥ १६ ॥
सर्वप्रहरणधर सर्वकामिक तत्परम् ।
हनद्वयं च हृदयं बन्धनानि ततः परम् ॥ १७ ॥
आकर्षयपदद्वन्द्वं महाबल हुमस्रकम् ।
त्रिभुवनेश्वरपदं ततः सर्वजनान्ततः ॥ १८ ॥
मनांसि हनयुग्मान्ते दारयद्वितयं च मे ।
वशमानय हु� नेत्रं ताराद्याः फट् नमोऽन्तिकाः ।
षडङ्गमन्त्राः सन्दिष्टा नेत्रान्तास्तन्त्रवेदिभिः ॥ १९ ॥
षडङ्गमन्त्रानुद्धरति पुरुषोत्तमेति ।
शिखामन्त्रे अङ्गजे इत्यस्य पूर्वेण सह सन्धिः ।
तदुक्तम्—- मन्मथवर्णानुक्त्वा तदनु वदेदुत्तमाङ्गजेवर्णान् ।
इति ।
अस्त्रमन्त्रे हृदयेतिद्वयमपि स्वरूपम् ।
ताराद्या इति ।
उक्ता नेत्रान्ताः षडङ्गमन्त्राः।
ताराद्याः प्रणवाद्याः फट् नमोऽन्तिकाः सन्दिष्टा इति सम्बन्धः ।
तन्त्रवेदिभिरित्यनेनै- तदुक्तं भवति ।
यदाहुः—-
करयोर्व्यापकं मन्त्रं न्यस्याऽङ्गान्यङ्गुलीषु तलयोश्च ।
न्यस्य बाणाननङ्गसहितान् व्यापकमन्त्रं ततो न्यसेद्वपुषि ॥
मातृकया विन्यसेत् प्रत्यर्णं मारबीजसम्पुटया ।
न्यसेच्च मारमालामन्त्रार्णान् मातृकावदङ्गानि (दानाभि) ॥
चत्वारिंशद्वर्णान् पञ्चोदरसुहृद्गलास्यनासासु ।
सङ्ख्यापयेच्च देहे त्रीनर्णान् सकृत् सकृत् समस्तेन ॥
क्लीम्मातृकार्णपूर्वा मूर्त्तीर्न्यस्येच कामरतिपूर्वाः ।
इति ।
पीठमन्त्रात् पूर्वं गरुडमुद्रया गरुडमन्त्रं हृदि न्यसेत् ।
यदाहुः—-
ईरितरीत्या देहे पीठन्यासान्तिकं विधाय हृदि ।
गरुडस्य मुद्रया तन्मन्त्रं न्यस्य न्यसेत् तु पीठमनुम् ॥ इति ॥ १३-१९ ॥
त्रैलोक्यमोहनार्णान्ते हृषीकेशपदं पुनः ।
पश्चादप्रतिरूपादि मन्मथानन्तरं वदेत् ॥ २० ॥
सर्वादि स्त्रीपदं पश्चाद्धृदयाकर्षणं ततः ।
आगच्छाऽऽगच्छ मन्त्रोऽयं ताराद्यो नमसाऽन्वितः ॥ २१ ॥
अनेन मनुना कृत्वा व्यापकं न्यस्य बाहुषु ।
अष्टायुधानि मुद्राभिर्मन्त्रैः सार्धं विचिन्तयेत् ॥ २२ ॥
व्यापकमन्त्रे अप्रतिरूपेत्यस्य पूर्वेण सह सन्धिर्नाऽन्यस्येति ।
बाहुषु तत्तन् मुद्राभिः तत्तन्मन्त्रैः सार्धमष्टायुधानि विन्यस्य चिन्तयेत् देवमिति शेषः ।
अष्टायुधानि ध्यानोक्तानि ।
न्यासक्रमोऽपि तत्रैव वक्ष्यते ।
मुद्रालक्षणानि तु ।
पूर्वेक्ता पाशमुद्रा ज्ञेया ।
अथवेयं पाशमुद्रा ।
यदाहुः—-
तर्जन्यङ्गुष्ठकौ कृत्वा सक्ताग्रौ कुञ्चिताः पराः ।
पाशमुद्रा समाख्याता ।
इति ।
वामस्य मध्यमाग्रं तु तर्जन्यग्रे नियोजयेत् ।
अनामिकां कनिष्ठां च तस्याङ्गुष्ठेन पीडयेत् ॥
दर्शयेद्दक्षिणस्कन्धे धनुर्मद्रेयमीरिता ॥ इति ।
अथवेयं धनुर्मद्रा ज्ञेया ।
यदाहुः—-
बाहुमूलं स्पृशेत्तेन बाह्वग्रेणैव साधकः ।
धनुर्मुद्रा यशः कीत्तीबलवीर्यविवधीनी ॥ इति ॥
कनिष्ठानामिके बद्धा स्वाङ्गुष्ठेनैव वामतः ।
शिष्टाङ्गुली तु प्रसृते संश्रिलष्टे खड्गमुद्रिका ॥ इति ॥
शङ्खमुशलचक्रगदाङ्कुशमुद्रा मया पूर्वमुक्ताः ।
एतदनन्तरं देहे श्रीवत्स- कौस्तुभवनमाला यथास्थानं स्वमन्त्रमुद्राभिर्न्यसेत् ।
तदुक्तम्—-
अथ भूषणानि विद्वान् विन्यसेन्निजतनौ यथास्थानम् ।
इति ।
एतेषां मुद्राः प्रागुक्ताः ।
मन्त्रास्तु वक्ष्यन्ते ॥ २०-२२ ॥
क्षीराम्भोनिधिमध्यस्थं निरन्तरसुरद्रुमम् ।
उद्यदर्केन्दुकिरणदूरीकृततमोभरम् ॥ २३ ॥
कालमेघसमालोकनृत्यद् बहीकदम्बकम् ।
उत्फुल्लकुसुमामोदप्रहृष्यद्भृङ्गसङ्कुलम् ॥ २४ ॥
कूजत्कोकिलसङ्घेन वाचालितदिगन्तरम् ।
नानाकुसुमसौरभ्यवाहिगन्धवहान्वितम् ॥ २५ ॥
कल्पवल्लीनिकुञ्जेषु क्रीडत्सिद्धकदम्बकम् ।
देवगन्धर्वकन्याभिर्गायन्तीभिरलङ्कृतम् ॥ २६ ॥
अनेकदीघीकायुक्तमुद्यानं महदद्भुतम् ।
तस्य मध्ये मणिमये मण्डपे तोरणान्विते ॥ २७ ॥
ऋतुभिः षड्भिरनिशं सेवितस्य महीयसः ।
सुरद्रुमस्य मूलस्थे महासिंहासने शुभे ॥ २८ ॥
रक्तारविन्दमध्यस्थगरुडोपरि संस्थितम् ।
ध्यायेद्वल्लभया सार्धं जगन्नाथं जगन्मयम् ॥ २९ ॥
क्षीरेत्यनेन पृथिव्यनन्तरं क्षीरसमुद्ररत्नद्वीपाद्भुतोद्यानमणिमण्डपकल्पतरु-
महासिंहासनगरुडान् पीठन्यासादौ योजयेदित्युक्तम् ॥२३-२९ ।
देवं श्रीपुरुषोत्तमं कमलया स्वाङ्कस्थया पङ्कजं
बिभ्रत्या परिरब्धमम्बुजरुचा तस्यां निबद्धेक्षणम् ।
ध्यायेच्चेतसि शङ्खपाशमुशलांश्चापेषुखड्गान् गदां
हस्तैरङ्कुशमुद्वहन्तमरुणं स्मेरारविन्दाननम् ॥ ३० ॥
ध्यानमाह देवमिति ।
अम्बुजरुचेति पीतवर्णया ।
तत्र कमला द्विभुजा ।
वामे पद्मं दक्षेणालिङ्गनम् ।
तदुक्तम्—-
साब्जवामकरां पीतां श्लिष्यन्तीं पाणिना पतिम् ॥ इति ।
अन्यत्रापि-वामकरस्थाम्बुजया प्रतप्तकनकाभयाऽतिसुन्दर्या ।
इति ।
आयुधध्यानं तु वामेषु ऊर्ध्वादि बाधशङ्खधनुर्गदाः दक्षेषु ऊर्ध्वादि अङ्कुश- मुशलखड्गचक्राणि ।
तदुक्तं मन्त्रतन्त्रप्रकाशे—-
दक्षिणाधःकरे चक्रं चिन्तयेदर्कभास्वरम् ।
खड्गं तथोपरितने मुशलं च तदुत्तरे ॥
सव्योर्ध्वदक्षिणे हस्ते चिन्तयेद्रुचिराङ्कुशम् ।
वामोर्ध्वे चिन्तयेत् पाशं तदधः शङ्खमेव च ।
सशरं च धनुर्वामे गदां ध्यायेदधःकरे ॥ इति ।
पूर्वेक्तायुधन्यासो देहेऽनेन क्रमेण ज्ञेयः ।
अत्र ध्यानानन्तरमेता मुद्रा दर्शनीयाः।
यदाहुः—- श्रीवत्सकौस्तुभौ वनमालाख्या च मारबीजेन ।
ऊर्ध्वाङ्गुष्ठौ मुष्टी नियोजितौ मस्तके मिथः श्लिष्टौ ॥
त्रैलोक्यमोहनाख्या मुद्रा तां मूघ्नी योजयेत्तदनु ।
इति ॥ ३० ॥
एवं ध्यात्वा श्रियः कान्तं मनुं लक्षचतुष्टयम् ।
जपेद्वशी विधायाऽथ कुण्डमर्धेन्दुसन्निभम् ॥ ३१ ॥
जुहुयाद्वैष्णवे वह्नौ पद्मैर्जातिसमुद्भवैः ।
पुष्पैर्यवैः क्रमात्पश्चाद् ब्राह्मणानपि भोजयेत् ॥ ३२ ॥
वशीत्येनेनाचार्येक्ता पूर्वमेव सूचिता ।
यदाहुः—-
ध्यात्वा लक्षार्धसङ्ख्यं जपतु मनुमिमं प्राप्तमन्त्राभिषेको
द्रव्यैरेभिश्च जुह्वद्भवति मनुवरस्याऽधिकारी क्रियासु ॥
शतं दधिघृतं पयः पृथगथाऽयुतं साज्यहविषा शृतेन
पयसा हुनेद्रविमितं तथा साक्षततिलैः ।
तथा दशदशोन्मितं त्रिमधुभिर्वरैश्चार्त्तवफलैः
पलाशसमिधां शतं समभितोषयेत् स्वगुरुवरम् ॥ इति ॥
जुहुयादिति ।
दशांशमिति शेषः ।
तदुक्तं " दशांशं वैष्णवे वह्नौ " इति ।
क्रमात् पश्चादित्यनेन तर्पणाद्युक्तम् ॥ ३१-३२ ॥
अर्चयिष्यन् जगन्नाथं गायत्र्या परिशोधयेत् ।
आत्मानं यागवस्तूनि यागभूमिं च देशिकः ॥ ३३ ॥
देशिक इत्यनेन कामाद्ययेत्युक्तम् ॥ ३३ ॥
त्रैलोक्यमोहनायेति विद्महे पदमीरयेत् ।
स्मराय धीमहि पश्चात्तन्नो विष्णुः प्रचोदयात् ॥ ३४ ॥
गायत्र्येषा समाख्याता वैष्णवी सर्वसिद्धिदा ।
प्राक्प्रोक्ते वैष्णवे पीठे कल्पयेदासनं ततः ॥ ३५ ॥
पक्षिराजाय ठद्वन्द्वमस्य मन्त्रः प्रकीत्तीतः ।
सर्वसिद्धिदेति स्वातन्त्रेयण जपेत् ।
तदृष्यादिकं यथा—-
सङ्कर्षणो मुनिश्छन्दो गायत्रं पुरुषोत्तमः ।
देवता मूध्नी भालाक्षिदोःपत्सन्ध्यग्रकेषु च ॥
अक्षराणि प्रविन्यस्य षडङ्गानि समाचरेत् ।
पञ्चभिश्च त्रिभिश्चैव पञ्चभिश्च त्रिभिः पुनः ॥
चतुभीश्च चतुभीश्च कुर्यादङ्गानि वर्णकैः ।
द्विशताक्षरवच्चाऽस्याः पूजाद्यन्यत् समीरितम् ॥ इति ॥
प्राक्प्रोक्ते पञ्चदशोक्ते पीठे ।
अनेन विमलाद्याः शक्तीः पूजयेदित्यर्थः ।
पूजायन्त्रं तु मन्त्रतन्त्रप्रकाशोक्तम् ।
यथा—-
लिखेदष्टदलं पद्मं चन्दनेन सुगन्धिना ।
युगद्वारं सुशोभाढ्यं कामं तन्मध्यतो लिखेत् ॥ इति ।
अस्येत्यासनस्य ॥ ३४-३६ ॥
सङ्कल्पितायां मूलेन मूर्त्तौ देवमनन्यधीः ॥ ३६ ॥
आवाह्य मनुना विद्वान् व्यापकेन समर्चयेत् ।
भृगुर्लान्तयुतः सेन्दुर्बीजं देव्याः प्रकीत्तीतम् ॥ ३७ ॥
अवधानं विना आवाहनमेव कर्त्तुमशक्यमित्यनन्यधीरित्युक्तिः ।
आवाह्येति ।
व्यापकेन मनुना देवमावाह्य कणीकायां समर्चयेदिति सम्बन्धः ।
व्यापकेनेति पूर्वेक्तेनैव व्यापकमन्त्रेण ।
विद्वानिति ।
षोडशोपचारा व्यापकमन्त्रेणैवेत्युक्तम् ।
तदुक्तम्—-आवाहनविसर्गान्तेषूक्तोऽयं पूर्वसूरिभिः ।
इति ।
देवीबीजमुद्धरति भृगुरिति ।
भृगुः सः ।
लान्तयुतो वयुक् ।
सेन्दुः सबिन्दुः ।
इदं देव्या बीजम् ।
अनेनाऽङ्गपूजायाः पूर्वम् अङ्कस्थाया देव्याः पूजां कुर्यादिति शेषः ।
तदुक्तम्—-
दक्षेतरोरौ कमलामथेष्ट्वा समर्चयेदावरणानि भूयः ।
इति ।
अन्यत्रापि—- वामोरौ संस्थितामिष्ट्वा श्रियमङ्गानि पूजयेत् ।
इति ।
अत्र भूषणानि पूजयित्वाऽङ्गानि पूजयेत् ।
तदुक्तं नारायणीये—-
श्रीवत्सकौस्तुभौ विद्वान् स्तनस्योपरि वक्षसि ।
वनमालां गले चान्यत् पीतवस्त्रादि पूजयेत् ॥ इति ॥ ३६-३७ ॥
कणीकायां यजेदादौ विधानेनाऽङ्गदेवताः ।
दलेषु पूजयेत् पश्चाल्लक्ष्म्याद्या धृतचामराः ॥ ३८ ॥
मुक्ताहारलसच्चारुपयोधरभरानताः ।
जवाकुसुमसङ्काशा मदविभ्रममन्थराः ॥ ३९ ॥
ह्रस्वत्रयल्कौबसर्ग रहितस्वरशोभितम् ।
देवीबीजं क्रमादासां मन्त्रमाहुर्मनीषिणः ॥ ४० ॥
विधानेनेति ।
केसरेष्वग्रादिचतुदीक्षु वर्मान्तानि सम्पूज्य विदिक्षु अस्त्रं पुरतो नेत्रमित्यर्थः ।
तदुक्तं मन्त्रतन्त्रप्रकाशे—-
पूर्वादि दिक्षु चाऽभ्यर्चेद्धृदाद्यङ्गचतुष्टयम् ।
कीणेष्वस्त्रं प्रपूज्याऽथ पुरतो नेत्रमर्चयेत् ॥ इति ॥
अन्यत्रापि—- अङ्गानि वर्मावधिकानि दिक्षु विदिक्षु चास्त्रं पुरतश्च नेत्रम् ।
इति ।
दलेषु दलमूलेषु ।
लक्ष्म्याद्या इति पूर्वमन्त्रोक्ताः ।
सर्गे विसर्गः ।
एभिरष्ठभी रहिताः स्वराः ।
आ ई ऊ ए ए ओ औ अम् एतद्युक्तं देवीबीजमासां मन्त्रमाहुरिति सम्बन्धः ॥ ३८-४० ॥
दलाग्रेषु यजेच्छङ्खं शार्ङ्गं चक्रमसिं गदाम् ।
अङ्कुशं मुशलं पाशमेतान्यस्त्राणि शाङ्गीणः ॥ ४१ ॥
स्वमुद्राभिः स्वमनुभिः कथ्यन्ते मनवः क्रमात् ।
आद्यो जलचरायाऽन्ते ठद्वयं मनुरीरितः ॥ ४२ ॥
शार्ङ्गाय सशरायाऽन्ते स्वाहान्तोऽनन्तरो मनुः ।
सुदर्शनमहाचक्रराजाऽन्ते स्याद्दहद्वयम् ॥ ४३ ॥
सर्वदुष्टभयं पश्चात् कुरु छिन्दिद्वयं पृथक् ।
विदारयपदद्वयं परमन्त्रान् ग्रस ग्रस ॥ ४४ ॥
भक्षयत्रासयद्वन्द्वां प्रत्येकं वर्म फट् द्वयम् ।
चक्राय नम इत्येष तृतीयो मन्त्र ईरितः ॥ ४५ ॥
स्वमुद्राभिरिति ।
दलाग्रेषु शाङ्गीण एतान्यस्त्राणि स्वमुद्राभिः सह स्वमनु- भिर्यजेदिति सम्बन्धः ।
तत्र मुद्रालक्षणं मयोक्तं प्राक् ।
आद्यः शङ्खमन्त्रः ।
जलचरायेति महाजलचरायेति ज्ञेयम् ।
अन्ते ठद्वयमिति च कवचास्त्रयोः पूर्वमुच्चारणं सूचितम् ।
मनुरीरित इत्यनेन पाञ्चजन्याय नम इत्यस्यान्ते प्रयोगः सूचितः ।
आचार्यैः प्रथमं चक्रमन्त्रोद्धारे महासुदर्शनायेति हु� फट् स्वाहेत्यन्तः सुदर्शनाय नम इत्युद्धृतम् ।
तदनन्तरं शङ्खादिमन्त्रा उद्धृताः ।
तत्र पद्मपादाचार्यैर्व्याख्यातं शङ्खादिमन्त्रेष्वपि महा- शब्दः अन्ते च पाञ्चजन्याय नम
इत्यादि प्रयोक्तव्यम् इति ।
मन्त्रतन्त्रप्रकाशे अपेक्षितार्थद्योतनिकायामपि एवमेव मन्त्रा उद्धृताः ।
मूलकारेणापि चक्रमन्त्रे चक्राय नम इति ।
कौमोदकीमन्त्रे च कौमोदकीपर इति वदता स्पष्टमेवोक्तम् ।
तेनायं मन्त्रः ॐ महाजलचराय हु� फट् स्वाहा पाञ्चजन्याय नमः (१) ।
अन्ते महाशब्दान्ते शार्ङ्गाय सशराय ।
स्वाहान्त इत्यनेन हु� फट् स्वाहान्त इत्युक्तम् ।
अन्यथा स्वाहेत्येव वदेत् ।
तदुक्तम्—-धनुषः शार्ङ्गायाऽथ सशराय हु� फट् युग्मको मन्त्रः ।
इति ।
आचार्यैरपि " हु� फट् स्वाहा मुशलस्य " इत्युद्धृत्य " शार्ङ्गाय सशराय च " इत्युक्तम् ।
तत्र चकारेण हु� फट स्वाहेत्यस्य समुच्चय इति ।
एवं तदग्रिमयोरपि खड्गाङ्कुशयोः तट्टीकाकारैर्व्याख्यातम् ।
मनुरित्यनेन शार्ङ्गाय नम इत्युक्तम् ।
अनन्तरः शार्ङ्गमन्त्रः ।
मन्त्रस्तु महाशार्ङ्गाय सशराय हु� फट् स्वाहा शार्ङ्गाय नमः (२) ।
सुदर्शनेति ।
पृथगिति ।
कुरुकुरु छिन्दिछिन्दीति ।
प्रत्येकमिति ।
भक्षय भक्षय त्रासय त्रासयेति अनयोर्मध्ये भूतानीत्यपि ज्ञेयम् ।
तदुक्तमाचार्यैः—-भक्षयद्वयभूतानि त्रासयद्वयवर्मफट् ।
इति ।
अन्यत्रापि—-भूतानि त्रासयद्वयम् ।
हु� फडिति द्वयम् ।
ठद्वयं स्वाहेत्यर्थः ।
चक्रायेति सुदर्शनायेति ज्ञेयम् ।
तदुक्तम्—-
स्वाहा सुदर्शनायेत्यथ नतिरिति चक्रमन्त्र उपदिष्टः ।
इति ।
तृतीय इति चक्रमन्त्रः ।
मन्त्रो यथा ।
सुदर्शन महाचक्रराज दह दह सर्वदुष्टभयं कुरु कुरु छिन्दि छिन्दि विदारय विदारय परमन्त्रान्
ग्रस ग्रस भक्षय भक्षय भूतानि त्रासय त्रासय हु� फट् स्वाहा सुदर्शनाय नमः (३) ॥ ४५ ॥
खड्गतीक्ष्णपदान्ते स्याच्छिन्दयुग्मं हुमादि च ।
चतुर्थेऽयं मनुः प्रोक्तः कौमोदकि महाबले ॥ ४६ ॥
सर्वासुरान्तकिपदं प्रसीदयुगवर्मफट् ।
स्वाहान्तोऽयं मनुः प्रोक्तः सद्भः कौमोदकीपरः ॥ ४७ ॥
खड्गेति ।
महाखड्गेति ज्ञेयम् ।
छिन्दिकट्टयुगं पृथगित्यपपाटः ।
बहुग्रन्थविरोधात्।
अपेक्षितपदानुद्धाराच्च ।
तदुक्तमाचार्यैः—-खड्गतीक्ष्णान्ते छिन्दयुक् खड्गमन्त्रकः ।
इति ।
" खड्गतीक्ष्णछिन्दयुगं हु� फडाद्ययं मन्त्रः " इति अपेक्षितार्थद्योतनिकायां मन्त्र- तन्त्रप्रकाशेऽपि
एतादृशस्योद्धृतत्वात् ।
तेनायं पाठः छिन्दयुग्मं हुमादि चेति ।
आदिशब्दात् फट् स्वाहेति च ।
खड्गाय नम इति ।
चतुर्थः खड्गमन्त्रः ।
मन्त्रो यथा ।
महाखड्ग तीक्ष्ण छिन्द छिन्द हु� फट् स्वाहा खड्गाय नमः (४) ।
कौमोदकीति महाकौमोदकीपरः ।
कौमोदक्यै नम इत्यन्तः ।
मन्त्रस्तु ।
महाकौमोदकि महाबले सर्वासुरान्तकि प्रसीद प्रसीद हु� फट् स्वाहा कौमोदक्यै
नमः (५) ॥ ४७ ॥
अङ्कुशान्ते कट्टयुगं षष्ठोऽयं मनुरीरितः ।
संवर्त्तकान्ते मुशल पोथयद्वितयं पुनः ॥ ४८ ॥
हु� फट् द्विठान्तो मन्त्रोऽयं सप्तमः परिकीत्तीतः ।
पाशैर्बन्धद्वयं पश्चादाकर्षय पदद्वयम् ॥ ४९ ॥
वह्निजायावधिः सद्भरष्टमो मन्त्र ईरितः ।
लोकेशान् पूजयेत् पश्चाद्वज्राद्यैरायुधैः सह ॥ ५० ॥
अङ्कुशेति महाङ्कुशेति ।
अयमिति हु� फट् स्वाहा समुदायः ।
तदुक्तम् " अङ्कुशकट्टयुगोपरि हुमादि " इति ।
मनुरित्यङ्कुशाय नम इति ।
षष्ठ इत्यङ्कुशस्य।
मन्त्रस्तु ।
महाङ्कुश कट्ट कट्ट हु� फट् स्वाहा अङ्कुशाय नमः (६) ।
मुशलेति महामुशल ।
मन्त्र इति मुशलाय नम इति ।
सप्तम इति मुशलस्य ।
मन्त्रस्तुं संवर्त्तक महामुशल पोथय हु� फट् स्वाहा मुशलाय नमः (७) ।
पाशेति महापाश ।
वह्निजायावधिरिति हु� फट् स्वाहान्त इत्यर्थः ।
तदुक्तम्—-महापाशपदोपरि बन्धद्वयं तथा कर्षयद्वयं हु� फट् स्वाहा ।
इति ।
पाशमन्त्र इति ।
पाशाय नम इति ।
अष्टम इति पाशस्य ।
मन्त्रस्तु ।
महापाश बन्ध बन्ध आकर्षय आकर्षय हु� फट् स्वाहा पाशाय नमः (८) ।
अन्यत्रैषां प्रणवकामादित्वमुक्तम् ।
आयुधमन्त्राः क्रमतो वक्ष्यन्ते ।
तारमार- बीजाद्या इति ।
एषां पूजायां विशेषः ।
यदाहुराचार्याः—-
दरचक्रगदामुशलाः पूर्वाद्याशासु चाथ कोणेषु ।
वह्न्यादिषु शार्ङ्गखड्गाङ्कुशपाशाः ।
इति ॥
आयुधानां वर्णा उक्ता मन्त्रतन्त्रप्रकाशेऽपि—-
चक्रं भास्करसङ्काशं खड्गमाकाशसन्निभम् ।
मुशलं श्यामलं ज्ञेयमङ्कुशः कृष्णवर्णकः ॥
पीतं पाशं विजानीयाच्छङ्खं चन्द्रप्रभं स्मरेत् ।
धनुः स्याद्वेमपिङ्गाभं गदा पावकसन्निभा ॥ इति ॥
पश्चादित्यनेन श्रीवत्सकौस्तुभवनमाला अपि स्वस्वस्थाने स्वमुद्रास्वमन्त्रैः पूजनीया इत्युक्तम् ।
अपेक्षितार्थद्योतनिकामन्त्रतन्त्रप्रकाशादिषु उक्तत्वात् ।
केचन प्रधानपूजायामेव पूजयन्ति ।
तथोक्तं मया प्राक् ।
तत्र मुद्रालक्षणानि मयोक्तानि
प्राक् ।
मन्त्रास्तु ।
ॐ महाश्रीवत्साय हु� फट् स्वाहा श्रीवत्साय नमः ।
ओम्ं महामृतसम्भवाय हु� फट् स्वाहा कौस्तुभाय नमः ।
ॐ महावनमाले हु� फठ् स्वाहा वनमालायै नमः ॥ ४८-५० ॥
इत्थमभ्यर्चयन्नित्यं यथावत् पुरुषोत्तमम् ।
प्राप्नोति महतीं लक्ष्मीं सौभाग्यमतुलं यशः ।
आयुरारोग्यमैश्वर्यं मनोऽभीष्टानि विन्दति ॥ ५१ ॥
यथावदिति ।
पूर्वेक्तप्रकारेण ॥ ५१ ॥
हयारिकुसुमैर्देवमर्चयित्वा यथाविधि ।
शशिप्रसूनैर्जुहुयादष्टोत्तरसहस्रकम् ॥ ५२ ॥
मासमात्रेण वशगास्तस्य स्युः सकला नृपाः ।
हुत्वा बिल्वफलैः पक्वैः श्रियं विन्देदनिन्दिताम् ॥ ५३ ॥
प्रफुल्लैररुणाम्भोजैस्तामेव लभते पुनः ।
हुत्वा ज्योतिष्मतीतैलं सहस्रं वसुसङ्ख्यकम् ॥ ५४ ॥
सुभगो जायते सम्यक् सर्वेषां नात्र संशयः ।
विधानेनाऽमुना मन्त्री महारोगात् प्रमुच्यते ॥ ५५ ॥
अश्वत्थसमिधां होमः पराहृतधनप्रदः ।
आज्याक्तदूर्वाहोमेन मुच्यते महतो भयात् ॥ ५६ ॥
यस्य नामयुतं मन्त्रं जपेदयुतसङ्ख्यया ।
स भवेद्दासवत् तस्य नात्र कार्या विचारणा ॥ ५७ ॥
बहुना किमिहोक्तेन मनुना साधकोत्तमः ।
साधयेत्सकलान् कामान् साक्षाद्विष्णुरिवापरः ॥ ५८ ॥
हयारिः करवीरः।
यथाविधीत्यग्नौ पीठपूजापूर्वकमित्यर्थः।
शशिप्रसूनैः कुमुदैः।
वसुसङ्ख्यकं सहस्रम् अष्टसहस्रम् ।
यस्य नामयुतमिति अमुकपदस्थाने ॥ ५२-५८ ॥
उत्तिष्ठपदमाभाष्य श्री क्रोधीशहुताशनौ ।
वह्निजायावधिर्मन्त्रो वस्वक्षरसमन्वितः ॥ ५९ ॥
श्रीकरमन्त्रमाह उत्तिष्ठेति ।
श्री स्वरूपम् ।
क्रोधीशः कः ।
हुताशो रेफः ।
वस्वक्षरः अष्टाक्षरः ।
केचन श्रीबीजपूर्वकम् अपरे तारपूर्वकमेनमाहुः ।
तदुक्तम्—-
केचिच्छ्रीबीजाद्यं केचित्ताराद्यमेनमिच्छन्ति ।
इति ।
प्रणवमारश्रीबीजैः सम्पुट इति पद्मपादाचार्याः ।
अतएव समन्वित इत्युक्तिः ॥ ५९ ॥
ऋषिरस्य भवेद्वामः पङ्क्तिश्छन्द उदाहृतम् ।
श्रीकराख्यो हरिः प्रोक्तो देवताऽस्य मनीषिभिः ॥ ६० ॥
हृदयं भीषयद्वन्द्वं त्रासयद्वितयं शिरः ।
शिखा प्रमर्दययुगं वर्म प्रध्वंसयद्वयम् ॥ ६१ ॥
अस्त्रं रक्षयुगं सर्वे हुमन्ताः समुदीरिताः ।
र्मूध्नि नेत्रद्वये कण्ठे हृदयोदरयोः पुनः ॥ ६२ ॥
ऊरुजाङ्घपदद्वन्द्वे मन्त्रवर्णान् प्रविन्यसेत् ।
मुखे न्यसेद् ब्राह्मणोऽस्य मुखमासीदिमं मनुम् ॥ ६३ ॥
बाहू राजन्यः कृतोऽयं न्यस्तव्यो बाहुयुग्मके ।
ऊरू तदस्य यद्वैश्य इममूरुद्वये न्यसेत् ॥ ६४ ॥
पादद्वये न्यसेन्मन्त्रं पद्भ्यां शूद्रो अजायत ।
चक्रं शङ्खं गदां पद्मं हस्ताग्रेष्वथ विन्यसेत् ॥ ६५ ॥
इत्थं न्यासं तनौ कृत्वा देवं पूर्वेक्तमण्डपे ।
रक्तपद्मासनस्थस्य गरुडस्योपरि स्थितम् ॥ ६६ ॥
वामो वामदेव इत्यर्थः ।
तदूक्तम् " ऋषिरस्य वामदेवः " इति ।
ॐ बीजं स्वाहा शक्तिः ।
तदुक्तम्—-
विष्णुः सबिन्दुरुदितो बीजं शक्तिः शिरोऽस्य विज्ञेयम् ।
इति ।
मनीषिभिर्हुमन्ताः समुदीरिता इति सम्बन्धः ।
मनीषिभिरित्यनेन पञ्चाङ्गान्तर- मष्टाङ्गं कर्त्तव्यमित्युक्तम् ।
यदाहुः—-
अष्टाङ्गानि च कुर्यान् मन्त्रार्णैरुदितवर्त्मना क्रमतः ।
हृदयशिरः पूर्वशिखाकवचास्त्राक्ष्युदरपृष्ठसम्भिन्नेः ॥ इति ॥
मूर्ध्नीति ।
अयं सृष्टिन्यासः ।
यदाहुः—-
सृष्टिरियं निदीष्टा तुन्दादिहृदन्तिका स्थितिस्तद्वत् ।
पादाद्यो मूर्धान्तः कथित एष सृष्ट्यादिः ॥ इति ॥
विन्यसेदिति स्वस्वमन्त्रैः स्वस्वमुद्राभिः ॥ ६०-६६ ॥
काञ्चनाद्रिसमप्रभं कमलाननं कमलेक्षणं
चक्रशङ्खगदासरोजधरं मनोहरदर्शनम् ।
कौस्तुभाङ्कितवक्षसं मुकुटाङ्गदादिविभूषणं
तार्क्ष्यवाहनमच्युतं हृदि भावयामि जगत्पतिम् ॥ ६७ ॥
न्यासस्थानमायुधध्यानेन ज्ञेयम् ।
आयुधध्यानं तु दक्षाद्यूर्ध्वयोराद्ये तदधस्थ- योरन्ये ।
अत्र ध्यानानन्तरं श्रीवत्सकौस्तुभवनमालामुद्राः प्रदर्शयेत् ॥ ६७ ॥
अष्टलक्षं जपेन्मन्त्री मन्त्रमेनं दशांशतः ।
बिल्वक्षीरद्रुमोत्थाभिः समिद्भररुणाम्बुजैः ॥ ६८ ॥
पयोऽन्नैः सपीषा हुत्वा गुरुं सन्तोषयेद्धनैः ।
मूर्त्तौ मूलेन कॢप्तायां पूजयेद् देवमन्वहम् ॥ ६९ ॥
अङ्गान्यादौ केसरेषु दिक्पत्रेषु समर्चयेत् ।
श्रियं रतिं धृतिं कान्तिं लीलापङ्कजधारिणीः ॥ ७० ॥
पीतारुणाश्यामनीला विदिक्पत्रेषु पूजयेत् ।
वासुदेवादिकाः मूर्त्तीः पार्श्वयोर्निधियुग्मकम् ॥ ७१ ॥
क्षीरद्रुमेति अश्वत्थोदुम्बरप्लक्षवटाः ।
तेनाष्टभिर्द्रव्यैः प्रत्येकमयुतरीत्या दशांशसिद्धिः ।
मूलेन कॢप्तायामिति ।
पूर्वेक्ते वैष्णवे पीठे इति शेषः ।
अङ्गानि समाराध्येति शेषः ।
समाराध्येति केसरेष्विति शेषः ।
अन्ये कणीकायां पूजयन्ति ।
पार्श्वयोरित्यष्टदलबाह्ये ॥ ६८-७१ ॥
विष्वक्सेनं यजेदीशे लोकपालाननन्तरम् ।
एवं सम्पूजयेद् देवं साधयेदिष्टमात्मनः ॥ ७२ ॥
दूर्वाचरुभ्यां साज्याभ्यां जुहुयादयुतं बुधः ।
सम्पातितं चरुं पश्चात्साध्यो भुञ्जीत साधितम् ॥ ७३ ॥
ब्राह्मणान् भोजयेत् सम्यङ्मधुरैर्हेमवासरे ।
तोषयेद् गुरुमर्थेन वस्त्रैर्धान्यैवीभूषणैः ॥ ७४ ॥
जित्वाऽपमृत्युरोगादीन् दीर्घमायुः स विन्दति ।
आज्यसिक्तैः सरसिजैर्जुहुयादयुतत्रयम् ॥ ७५ ॥
निवसेत् कमला तस्मिन् न त्यजेत् तत्सुतानपि ।
बिल्ववृक्षसमिद्धोमात् साक्षद्धनपतिर्भवेत् ॥ ७६ ॥
पूगपुष्पसमायुक्तैस्तन्दुलैर्मधुरोक्षितैः ।
जुहुयादचिरादेव सम्पदां जायते निधिः ॥ ७७ ॥
विष्वक्सेनं यजेदिति ।
अत्र विष्वकोनमुद्रा प्रदर्शनीया ।
यदाहुः—-
नासिकाग्रसमीपस्थां कृत्वा वामस्य तर्जनीम् ।
दण्डवद्दक्षिणे कुर्याद्दक्षिणस्य प्रदेशिनीम् ॥
विष्वक्सेनस्य मुद्रेयं तत्पूजायां प्रदर्शयेत् ॥ इति ।
ईश इति पद्मबाह्ये ।
अन्ये अग्रे पूजयन्ति ।
एतदन्तं द्वितीयावरणम् ।
अनन्तरमिति वज्रादीन् ।
चरुमिति होमशेषम् ।
सुसाधितमिति जपादिना ॥ ७२-७७ ॥
आज्येन जुहुयाल्लक्षं परान् जयति पाथीवः ।
अब्जसूत्रं भुजे बद्धं मनुनाऽनेन साधितम् ॥ ७८ ॥
रोगापमृत्युदुःखानि नाशयेन्नाऽत्र संशयः ।
जलाञ्जलिभिरात्मानमभिषिञ्चेत् दिने दिने ॥ ७९ ॥
स्नानकालेषु स भवेत् सौभाग्यश्रीसमृद्धिमान् ।
अब्जसूत्रमिति मन्त्रवर्णसङ्ख्यान्यब्जसूत्राण्यानीय मन्त्रेणाऽष्टौ ग्रन्थयो देयाः ।
तदुक्तफलदम् ॥ ७८-८० ॥
ऊर्ध्वबाहुद्वयो मन्त्री पश्यन्नादित्यमण्डलम् ॥ ८० ॥
सहस्रमानं प्रजपेन्नित्यं निशितधीर्मनुम् ।
सर्वे मनोरथास्तस्य सिद्धेयुर्नाऽत्र संशयः ॥ ८१ ॥
निशितधीरित्यनेन तत्र देवतां ध्यायन्नित्युक्तम् ।
गौतमकल्पोक्तं यन्त्रमुच्यते—-
तारं ससाध्यमष्टारे कोणे मूलाक्षराणि तु ।
प्रत्येकं शक्त्यस्त्रिपुञ्जिकोणाग्रेषु षडङ्गकम् ॥
बहिरष्टदले पद्मे लिखेदष्टाक्षरं मनुम् ।
पञ्चाङ्गैर्वेष्टयेद्बाह्ये द्वादशाक्षरसंयुतम् ॥
पद्मं द्वादशपत्रं तु वृत्तात् षट्कोणकं बहिः ।
कोणेष्वनङ्गबीजं तु बहिरष्टदलाम्बुजम् ॥
केसरेषु कलाः पत्रे द्वन्द्वशः श्रीकरं मनुम् ।
तारः श्रीकरकृष्णौ च ङेन्तौ गोपीकुचान्ततः ॥
भूषणायेति मन्त्रोऽयं तत्पाशाङ्कुशवेष्टितम् ।
संवीतं च सदण्डेन व्योम्नैतद्यन्त्रमुत्तमम् ॥
भूतप्रेतपिशाचाश्च यक्षगन्धर्वराक्षसाः ।
लयं यान्ति तथा सर्वे केवलं यन्त्रधारणात् ॥
संसाधितं महायन्त्रमपस्मारहरं परम् ।
साध्यनामाङ्कितं यन्त्रं धारयित्वा वशङ्करम् ॥
यद्यत्कामयते वत्स तत् प्राप्नोति समाहितः ॥ इति ॥ ८०-८१ ॥
कृष्णाय पदमाभाष्य गोविन्दाय ततः परम् ।
गोपीजनपदस्याऽन्ते वल्लभाय द्विठावधिः ॥ ८२ ॥
कामबीजादिराख्यातो मनुरष्टादशाक्षरः ।
नारदोऽस्य मुनिः प्रोक्तो गायत्रं छन्द उच्यते ॥ ८३ ॥
देवता कथितः कृष्णः सर्वकामफलप्रदः ।
चतुःकरणवेदाब्धिनेत्रसङ्ख्याक्षरैः क्रमात् ।
पञ्चाङ्गानि मनोः कुर्यान्मन्त्रविज्जातिसंयुतैः ॥ ८४ ॥
गोपालमन्त्रमाह कृष्णायेति ।
द्विठेति स्वाहा ।
क्लीं बीजं स्वाहा शक्तिः ।
तदुक्तम्—-
वक्ष्ये मन्त्रस्याऽस्य बीजं सशक्ति चक्रो शक्रो वामनेत्रप्रदीप्तः ।
सप्रद्युम्नो बीजमेतत्प्रदिष्टं मन्त्रः प्राद्युम्नो जगन्मोहनोऽयम् ॥
हंसो मेदो वक्त्रवृत्ताभ्युपेतः पोत्रीनेत्राद्यन्वितोऽसौ युगार्णा ।
प्रोक्ता शक्तिः सर्वगीर्वाणवृन्दैर्वन्द्यस्याग्नेर्वल्लभा कामदेयम् ॥ इति ॥
करणेति चत्वारि ॥ ८२-८४ ॥
स्मरेद् वृन्दावने रम्ये मोहयन्तं मनोरमम् ।
गोविन्दं पुण्डरीकाक्षं गोपकन्याः सहस्रशः ॥ ८५ ॥
आत्मनो वदनाम्भोजप्रेषिताक्षिमधुव्रताः ।
पीडिताः कामबाणेन चिरमाश्लेषणोत्सुकाः ॥ ८६ ॥
मुक्ताहारलसत्पीततुङ्गस्तनभरानताः ।
स्रस्तधम्मिल्लवसना मदस्खलितभाषणाः ॥ ८७ ॥
दन्तपङ्क्तिप्रभोद्भासि स्पन्दमानाधराञ्चिताः ।
विलोभयन्तीवीविधैवीभ्रमैर्भावगभीतैः ॥ ८८ ॥
गोपकन्या मोहयन्तमिति सम्बन्धः ।
आत्मनो जगदात्मनः ।
तासां चात्मरूपस्य कृष्णस्येत्यर्थः ।
स्पन्दमानाः सस्फुरणा ये अधराः तैरञ्चिताः पुष्पिताः ॥ ८५-८८ ॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलाचीततनुं गोपाल(गोगोप)सङ्घावृतं
गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥ ८९ ॥
फुल्लेति ।
इन्दीवरं नीलोत्पलम् ।
बर्हावतंसं मयूरपिच्छकर्णाभरणम् ।
कल- वेणुवादनपरम् ।
अनेन द्विभुजं ध्यानमुक्तम् ।
अत्र ध्यानान्तरं वेणुश्रीवत्सकौस्तुभवन- मालाबिल्वमुद्राः प्रदर्शयेत् ।
तत्र वेणुबिल्वमुद्रालक्षणं यथा—-
ओष्ठे वामकराङ्गुष्ठो लग्नस्तस्य कनिष्ठिका ।
दक्षिणाङ्गुष्ठसंसक्ता तत्कनिष्ठा प्रसारिता ॥
तर्जनीमध्यमानामाः किञ्चित् सङ्कुच्य चालिताः ।
वेणुमुद्रेह कथिता सुगुप्ता प्रेयसी हरेः ॥
उच्यतेऽच्युतमुद्राणां भद्रा बिल्वफलाकृतिः ॥
अङ्गुष्ठं वाममुद्दण्डितमितरकराङ्गुष्ठकेनाऽथ बद्धा
तस्याऽग्रं पीडयित्वाऽङ्गुलिभिरपि च ता वामहस्ताङ्गुलीभिः ।
बद्धा गाढं हृदि स्थापयतु विमलधीर्व्याहरन् मारबीजं
बिल्वाख्या मुद्रिकैषा स्फुटमिह गदिता गोपनीया विधिज्ञैः ॥
मनो वाणी देहैर्यदिह च पुरा वापि विहितं
त्वमत्या मत्या वा तदखिलमसौ दुष्कृतचयम् ।
इमां मुद्रां जानन् क्षपयति नरस्तं सुरगणा
नमन्त्यस्याऽधीना भवति सततं सर्वजनता ॥ इति ॥ ८९ ॥
मन्त्रमेनं यथान्यायमयुतद्वितयं जपेत् ।
जुहुयादरुणाम्भोजैस्तद्दशांशं समाहितः ॥ ९० ॥
यथान्यायमित्यनेनैतदुक्तं भवति ।
यदाहुः—-
अद्रेः शृङ्गे नद्यास्तटे बिल्वमूले तोये हृद्दघ्ने गोकुले विष्णुगेहे ।
अश्वत्थाधस्तादम्बुधेश्चापि तीरे स्थानेष्वेतेष्वासीन एकैकशस्तु ॥
प्रजपेदयुतचतुष्कं दशाक्षरं मनुवरं पृथक् क्रमशः ।
अष्टादशाक्षरं चेदयुतद्वयमित्युदीरिता सङ्ख्या ॥
शाकं मूलं फलं गोस्तनभवदधिनी भैक्ष्यमन्नं च सक्तुम् ।
दौग्धान्नं चेत्याददानः क्षितिधरशिखरादौ क्रमात् स्थानभेदे ॥
एकं चैषामशक्तौ गदितमिह मया पूर्वसेवाविधानम् ।
निर्वृत्तेऽस्मिन् पुनश्च प्रजपतु विधिवत् सिद्धये साधकेशः ॥
दशलक्षमक्षयफलप्रदं मनुं प्रतिजप्य शिक्षितमतिर्दशाक्षरम् ।
सुषिरयुगलवर्णं चेन्मनुं पञ्चलक्षम् ।
इति ॥
तद्दशांशं पञ्चलक्षदशांशम् ।
समाहित इत्यनेनैतदुक्तं भवति ।
यदाहुः—- अमलमतिरलाभे पायसैरम्बुजानां ससितघृतसुसिक्तैरारभेद्धोमकर्म ।
इति ॥ ९० ॥
वैष्णवे पूजयेत् पीठे यथावत् देवकीसुतम् ।
अङ्गावरणमाराध्य पत्रेषु प्रयजेत् प्रियाः ॥ ९१ ॥
कालिन्दी नाग्नजित्याख्या मित्रविन्दा ततः परम् ।
चारुहासिन्यथ परा रोहिणी जाम्बवत्यथ ॥ ९२ ॥
रुक्मिणी सत्यभामेति कथिताश्चारुभूषणाः ।
पीताम्बरधराः सौम्याः कराम्बुजधृताम्बुजाः ॥ ९३ ॥
एरावतादीनभ्यर्च्येत् गजानष्टौ ततो बहिः ।
लोकपालान् यजेन्मन्त्री वज्राद्यस्त्राणि तद्बहिः ॥ ९४ ॥
इति सम्पूजयेत् देवं गोविन्दं जगतां पतिम् ।
कुर्वीत कल्पनिदीष्टान् प्रयोगान्निजवाञ्छितान् ॥ ९५ ॥
लक्ष्मीप्रसूनैर्जुहुयाच्छिरयाच्छिरयमिच्छन्ननिन्दिताम् ।
साज्येनाऽन्नेन जुहुयादाज्यान्नस्य समृद्धये ॥ ९६ ॥
वैष्णव इति नारायणाष्टाक्षरोक्ते ।
यथावदित्यनेनैतदुक्तं भवति ।
दामादि- वज्रास्त्रान्तैः सप्तभिरावरणैर्देवमर्चयेत् ।
ग्रन्थोक्ताङ्गादिवज्रास्त्रान्तं पञ्चावरणं वा ।
अङ्गलोकपालतदस्त्राणीत्यावरणत्रयं वा ।
कृष्णाष्टकेनैकावरणं वेति ।
तदुक्तम्—-
कथितमावृतिसप्तकमच्युतार्चनविधाविति सर्वसुखावहम् ।
प्रयजतादथवाऽङ्गपुरन्दराशनिमुखैस्त्रितयावरणं त्विदम् ॥
श्रीकृष्णो वासुदेवश्च नारायणसमाह्वयः ।
देवकीनन्दनो यदुश्रेष्ठो वार्ष्णेय इत्यपि ॥
असुराक्रान्तशब्दान्ते भारहारीति सप्तमः ।
धर्मसंस्थापकश्चाऽष्टौ चतुर्थ्यन्ताः क्रमादिमे ॥
एभिरेवाऽथवा पूजा कर्त्तव्या कंसवैरिणः ॥ इति ।
एते चत्वारोऽपि पक्षा मुख्या एव ।
कल्पभेदाद्भेदः ।
आराध्येति केसरेष्विति ।
एरावतादीनष्टमोक्तान् ॥ ९१-९६ ॥
आरण्यैः कुसुमैवीप्रान् जातिभिः पृथिवीपतीन् ।
प्रसूनैरसितैर्वैश्यान् शूद्रान्नीलोत्पलैर्नवैः ॥ ९७ ॥
वशयेल्लवणैः सर्वान् पङ्कजैर्वनिताजनान् ।
गोशालासु कृतो होमः पायसेन ससपीषा ॥ ९८ ॥
गवां शान्तिं करोत्याशु गोविन्दो गोकुलप्रियः।
शिशुवेशधरं देवं किङ्किणीदामशोभितम् ॥ ९९ ॥
स्मृत्वा प्रतर्पयेन्मन्त्री दुग्धबुध्या शुभैर्जलैः ।
धनधान्यांशुकादीनि प्रीतस्तस्मै ददाति सः ॥ १०० ॥
पिण्डं मूलेन वीतं दहनपुरयुगे कोणराजद्रसार्णे
कुर्यात् पद्मं दशार्णस्फुरितदशदलं कामबीजेन वीतम् ।
पद्मं किञ्जल्कसंस्थं स्वरविकृतिदलं प्रोल्लसत्षोडशार्णं
किञ्जल्कं व्यञ्जनाढ्यं विकृतियुगदलेष्वपीतानुष्टुबर्णम् ॥१०१॥
पाशाङ्कुशाभ्यामावीतं क्षौणीपुरयुगस्रिषु ।
अष्टाक्षरेण लसितं यन्त्रं गोविन्ददैवतम् ।
धमार्थकामफलदं सर्वरक्षाकरं स्मृतम् ॥ १०२ ॥
यन्त्रमाह पिण्डमिति ।
वक्ष्यमाणं पिण्डबीजम् ।
परस्परव्यतिभिन्ने दहनपुरयुगे षट्कोणे ।
रसार्णं षडर्णम् ।
षडर्णदशार्णषोडशार्णानुष्टुबष्टार्णान् वक्ष्यति ।
विकृतिदलं षोडशदलम् ।
विकृतियुगदलं द्वात्रिंशद्दलम् ।
अत्रोभयत्र केसरस्थानेषु एकैकार्णलेखः ।
पाशाङ्कुशाभ्यामित्येकावृतिः ॥ १०१-१०२ ॥
पञ्चान्तको धरेरस्थो मनुबिन्दुविभूषितः ।
पिण्डबीजमिदं प्रोक्तं सर्वसिद्धिकरं परम् ॥ १०३ ॥
पिण्डबीजमाह पञ्चान्तक इति ।
पञ्चान्तको गः धरा लः इरो यः तत्संस्थः ग्ल्यः ।
मनुरौ बिन्दुश्च एतद्युक्तस्तेन ग्ल्यौम् ।
सर्वसिद्धिकरं परमित्यनेनाऽस्य स्वातन्त्रंय नमोऽन्तत्वेन त्र्यक्षरत्वम् ।
प्रणवमायादित्वेन वा त्र्यक्षरत्वमुक्तम् ।
अस्यर्ष्यादिकमुच्यते—-मुनिर्नारद आख्यातश्छन्दो गायत्रमीरितम् ।
देवता बालकृष्णोऽङ्गं षड्दीर्घाक्रान्तबीजतः ॥
अव्यात् व्याकोशनीलाम्बुजरुचिररुणाम्भोजनेत्रोऽम्बुजस्थो
बालो जङ्घाकटीरस्थलकलितरणत्किङ्किणीको मुकुन्दः ।
दोर्भ्यां हैयङ्गवीनं दधदतिविमलं पायसं विश्ववन्द्यो
गोगोपीगोपवीतो रुरुनखविलसत्कण्ठभूषश्चिरं वः ॥
जपेल्लक्षं मनुवरं पायसैरयुतं हुनेत् ।
पूजा तु वैष्णवे पीठे अङ्गदिक्पालवज्रकैः ॥ इति ॥
यदृषिर्नारदः प्रोक्तो जगती छन्द ईरितम् ।
श्रीकृष्णो देवता बीजं ग्लौं य शक्तिः प्रकीत्तीता ॥
षडङ्गं मूलमन्त्रेण कुर्यात् देवं विचिन्तयेत् ।
कदम्बमूले तिष्ठन्तं देवदेवं जनार्दनम् ॥
इन्दीवरदलश्यामं पूर्णचन्द्रनिभाननम् ।
देवगन्धर्वयक्षौघकिन्नरोरगसेवितम् ॥
मोहनं गोपगोपीनां वल्लभं देवकीसुतम् ।
मयूरपिच्छसंयुक्तं वनमालाविभूषितम् ॥
पूर्णचन्द्रनिभं कान्तं वृन्दावननिवासिनम् ।
वेणुं गायन्तममलं सर्वभूतमनोहरम् ॥
लेलिह्यमानं वत्सैश्च मृगैः सिंहैस्तथा द्विजैः ।
सर्वाभरणसंयुक्तं सर्वाभरणशोभितम् ॥
कौस्तुभोद्भासितोरस्कं दामपिच्छसमावृतम् ।
अप्रमेयमचिन्त्यं च गोपालं शिशुरूपिणम् ॥
ध्यायेत्तं देवदेवेशं सर्वलोकैकनायकम् ।
अङ्गैश्च वासुदेवाद्यैरुक्मिण्याद्यैस्तृतीयकम् ॥
कुमुदेन्द्रायुधैश्चापि षडावरणमीरितम् ।
जपोऽयुतचतुष्कः स्याद्दशांशं जुहुयात्ततः ॥
पायसेन सिताक्तेन तर्पयेत्तावदेव तु ।
मन्त्रसिद्धस्य लोकोऽयं सद्यो वश्यो भविष्यति ॥ इति ॥ १०३ ॥
स्मरः कृष्णाय ठद्वन्द्वं षडर्णे मनुरीरितः ॥ १०४ ॥
षडर्णमाह स्मर इति ।
स्मरः कामबीजम् ।
मनुरीरित इत्यनेनाऽयमपि स्वतन्त्रो मन्त्र इत्युक्तम् ।
अस्य मुन्यादि प्रजान्तम् अष्टादशार्णवत्ं षड्लक्षं जपः ।
दशांशं होमोऽष्टादशार्णेक्तद्रव्येणेति ज्ञेयम् ।
पञ्चाङ्गानि तु—-
ङेस्वाहान्तैश्चक्रपदैः पञ्चाङ्गान्याविसुस्थितैः ।
त्रैलोक्यरक्षणयुतैरसुरान्तकसंयुतैः ।
इति ॥ १०४ ॥
गोपीजनान्ते प्रवदेद् वल्लभायाऽग्निसुन्दरी ।
अयं दशाक्षरो मन्त्रो दृष्टादृष्टफलप्रदः ॥ १०५ ॥
दशार्णमाह गोपीति ।
अग्निसुन्दरी स्वाहा ।
दृष्टादृष्टफलप्रद इत्यनेनाऽस्य स्वातन्त्र्यमुक्तम् ।
अस्य सर्वं षडक्षरवत् ज्ञेयम् ॥ १०५ ॥
प्रणवं हृदयं कृष्णं ङेऽन्तमुक्त्वा ततः परम् ।
तादृशं देवकीपुत्रं हु�फट्स्वाहासमन्वितम् ॥ १०६ ॥
षोडशाक्षरमन्त्रोऽयं गोविन्दस्य समीरितः ।
षोडशार्णमाह प्रणवमिति ।
हृदयं नमः पदम् ।
ङेऽन्तं कृष्णं कृष्णाय ।
तादृशञ्च ङेऽन्तं तेन देवकीपुत्रायेति ।
गोविन्दस्येत्यनेनाऽयमपि स्वतन्त्रो मन्त्र इत्युक्तम् ।
अस्य सर्वं दशाक्षरवत् ज्ञेयम् ॥ १०६-१०७ ॥
पिण्डं रतिपतेर्बीजं नमो भगवते ततः ॥ १०७ ॥
नन्दपुत्राय बालादिवपुषे श्यामलाय च ।
गोपीजनपदस्याऽन्ते वल्लभाय द्विठावधिः ॥ १०८ ॥
अनुष्टुब्मन्त्र आख्यातो गोपालस्य जगत्पतेः ।
अनङ्गः कृष्णगोविन्दौ ङेऽन्तावष्टाक्षरो मनुः ॥ १०९ ॥
द्वात्रिंशदर्णमाह पिण्डमिति ।
पूर्वेक्तं पिण्डबीजम् ।
रतिपतेर्बीजं कामबीजम् ।
गोपालस्य जगत्पतेरित्यनेनाऽयमपि स्वतन्त्रो मन्त्र इत्युक्तम् ।
अस्यर्ष्यादिकं यथा—-
अमुष्य नारद ऋषिश्छन्दोऽनुष्टुप् समीरितम् ।
देवता हरिराख्यात आचक्राद्यैरथाऽङ्गकम् ॥
दक्षिणे रत्नचषकं वामे सौवर्णवेत्रकम् ।
करे दधानं देवीभ्यामाश्लिष्टं चिन्तयेद्धरिम् ॥
जपेल्लक्षं मनुवरं पायसैरयुतं हुनेत् ।
पूजा तु वैष्णवे पीठे ह्यङ्गदिक्पालवज्रकैः ॥
एवं सिद्धमनुर्मन्त्री त्रैलोक्यैश्वर्यभाग्भवेत् ॥ इति ।
अष्टार्णमाह अनङ्गेति ।
अनङ्गः कामबीजम् ।
ङेऽन्तौ कृष्णगोविन्दौ कृष्णाय गोविन्दाय।
अयमपि स्वतन्त्रो मन्त्रः ।
अस्य मुन्यादि सर्वं पूर्वेक्तषडक्षरवत् ज्ञेयम् ॥१०७-१०९॥
प्राक्प्रत्यग्दक्षिणोदग्विधिवदभिलिखेत् स्पष्टरेखाचतुष्कं
कोणोद्यच्छूलयुक्तं वलययुगयुतं मध्यपूर्वं तदन्तम् ।
श्लोकस्याऽर्णान् परस्ताद्वसुपदविवरेष्वष्टवर्णान् लिखित्वा
तद्बाह्ये द्वादशार्णैस्तदनु परिवृतं देवकीपुत्रयन्त्रम् ॥११०॥
कामलिङ्गयन्त्रमाह प्रागिति ।
प्राक्प्रत्यग्रेखाद्वयं दक्षिणोदग्रेखाद्वयं लिखेत् ।
एवमुभयं मिलित्वा रेखाचतुष्कं भवति ।
इदमेव विधिवत्पदेनोक्तम् ।
कोणोद्य- च्छूलयुक्तम् ।
मध्यकोष्ठकोणेभ्यो बहिः कर्णसूत्रचतुष्टयं दद्यात् तेन शूलाकारता भवत्येव ।
वलययुगयुतम् ।
तत्रैकं वृत्तं रेखाग्रस्पशी द्वितीयं मध्यकोष्ठे तद्वृत्तान्तराले ।
मध्यपूर्वमिति ।
मध्यकोष्टमारभ्य लेखनारम्भः ।
तदन्तम् ।
मध्यकोष्ठ एव समाप्ति- रित्यर्थः ।
तत्राऽक्षरलेखनक्रमः ।
प्राक्संस्थतया मध्यादि कोष्ठत्रये आद्यवर्णत्रय- मालिख्य आग्नेयां वृत्तद्वयान्तराले कोणरेखामभितः
कोष्ठद्वये देवेत्यक्षरं लिखेत् ।
ततो दक्षिणे ऊर्ध्वादि कोष्ठद्वये देवे इत्यक्षरद्वयं लिखेत् ।
तकारस्तु मध्यकोष्ठस्थ एव वाचनीयः ।
ततो मध्यकोष्ठाद्दक्षिणस्थमेवाक्षरद्वयं संवाच्य नैरृत्यकोणे मध्यरेखो- भयतः कोष्ठद्वये
वरेत्यक्षरद्वयं लिखेत् ।
पश्चिमे तु दक्षिणवदेव ।
ततो वायव्यकोणे मध्यरेखोभयतः कोष्ठद्वये रुटेत्यक्षरद्वयं लिखेत् ।
ततः उत्तरे तु दक्षिणवदेव ।
ईशकोणे मध्यरेखोभयतः कोष्ठद्वये देवेत्यक्षरद्वयं लिखेत् ।
ततः प्राच्यां लिखितान्य- क्षराणि ऊर्ध्वतो वाचयेत् ।
एवं श्लोकमन्त्राक्षरलेखनक्रमः ।
परस्तादिति मध्य- कोष्ठाद्बहिः प्रथमवृत्तान्तः एकैकस्मिन् कोणे कर्णसूत्रोभयतः कोष्ठद्वन्द्वमव- शिष्यते ।
तत्र प्रादक्षिण्यक्रमेण ईशानादि पूर्वेक्तमष्टवर्णं लिखेत् ।
तदनु तदनन्तरम् ।
तद्बाह्ये द्वितीयवृत्तबाह्ये ।
द्वादशार्णैः पञ्चदशोक्तवासुदेवमन्त्रार्णैः परिवृतम् ।
शूलोत्पन्नद्वादशसु कोष्ठेषु द्वादशवर्णलिखनेनार्थात् वृत्तं भवति इति वृत्तमित्युक्तिः ।
एवम्भूतं यन्त्रमुक्तफलदम् ।
एष साम्प्रदायिकः पक्षः ।
केचन प्रागपरायताश्चतस्रः उदग्दक्षिणायताश्चतस्रो रेखाः कुर्यात् ।
एवं नवकोष्ठानि सम्पद्यन्ते ।
तत्र मध्यकोष्ठे वलययुगयुतं कार्यमित्याहुः ।
ते मध्यपूर्वं तदन्तमित्यस्य व्याख्यानं प्रष्टव्या भवन्ति ।
भूर्जपत्रादावित्यादिशब्देन ताम्ररजत- काञ्चनादीनां ग्रहणम् ।
तत्तल्लेख्यविशेषेण कालविशेषोऽपि पूर्वेक्तोऽनुसन्धेयः ।
यथाविधीति विधिर्दशीतः ।
एवं लिखनप्रस्तावे ॥ ११०-११३ ॥
तं सुकीदेवदेवे तं तं देवे वरतो रतम् ।
तं रतो रुटतो ख्यातं तं ख्यातं देवकीसुतम् ॥ १११ ॥
लिखितं भूर्जपत्रादौ यन्त्रमेतद्यथाविधि ।
विधृतं बाहुना नित्यं सर्वकामफलप्रदम् ॥ ११२ ॥
पलाशवृक्षफलके लिखितं साधुसाधितम् ।
गोस्थाने निखनेदेतद् गवां वृद्धिर्भवेत् सदा ॥ ११३ ॥
श्लोकं चतुःषष्टिपदेषु भूर्जे
शिवादि दैत्यादि लिखेत् क्रमेण ।
तत् सर्वतोभद्रमिति प्रसिद्धं
यन्त्रं यशः श्रीविजयप्रदायि ॥ ११४ ॥
फलके खादिरे कॢप्तं गवां गोष्ठे निवेशितम् ।
रक्षाकृच्चौरमारिघ्नं सवत्सानां गवां हितम् ॥ ११५ ॥
क्षीरगोपयगोरक्षीरक्षमाक्षक्षमाक्षर ।
गोमानोगगनोमागोपक्षगक्षक्षगक्षप ॥ ११६ ॥
यन्त्रान्तरमाह श्लोकमिति ।
श्लोकं वक्ष्यमाणम् ।
चतुःषष्टिपदेष्विति ।
सर्वतः सशूलेष्विति ज्ञेयम् ।
तदुक्तमपेक्षितार्थद्योतनिकायाम्—-
चतुःषष्टिपदोपेतं शूलमालाविभूषितम् ।
इति ।
शिवादि ईशानादि ।
दैत्यादि नैरृत्यादि ।
कोष्ठोत्पादनसाध्यादि लेखनप्रकारो दशमे मदुक्तोऽनुसन्धेय ।
एतावपि द्वौ सिद्धमन्त्रौ ।
आभ्यां क्रमेण आर्त्तबालगोरक्षां कुर्यात् ॥ ११४-११६ ॥
ब्रह्मा भूम्यां समासीनः शान्तिबिन्दुसमन्वितः ।
बीजं मनोभुवः प्रोक्तं जगत्त्रितयमोहनम् ॥ ११७ ॥
एकाक्षरं काममन्त्रमाह ब्रह्मेति ।
ब्रह्मा कः ।
भूमिर्लः ।
एतदासीनः ।
शान्तिरी बिन्दुस्तेन क्लीम् ।
ककारो बीजम् ईकारः शक्तिः ।
तदुक्तं दक्षिणामूत्तीसंहितायां " कतुर्ये बीजशक्तिके " इति ।
जगत्रितयमोहनमित्यनेन हकारसकारादित्वं सूचितम् ।
केवलहकारादित्वं महावश्यदम् ।
केवलसकारादित्वं दीर्घायुष्ट्वदमिति ।
तदुक्तं—-
हंसारूढो मदनस्त्रैलोक्यक्षोभको भवेदाशु ।
हयुतो रञ्जनकृत् स्याज्जीवेन युतस्तथाऽऽयुषे शस्तः ॥ इति ॥ ११७ ॥
ऋषिः सम्मोहनः प्रोक्तो गायत्रं छन्द ईरितम् ।
सर्वसम्मोहनः साक्षाद्देवता मकरध्वजः ॥ ११८ ॥
" सर्वसम्मोहनकृष्ण एतयोः स्याद्देवता " इत्युक्तेः साक्षादित्यनेन केवलः कृष्णोऽपि ।
तत्र सम्मोहनकृष्णदेवतापक्षे अष्टभुजध्यानम् ।
यदाहुः—-
विश्वप्राणस्योद्यत्प्रद्योतनसद्युतेः सुपर्णस्य ।
आसीनमुन्नतांसे वैद्रुममङ्गाङ्गमङ्गजोन्मथितम् ॥
चक्रदराङ्कुशपाशान् सुमनोबाणेक्षुचापमुशलगदाः ।
दधतं स्वदोभीररुणायतविपुलविघूणीताक्षियुगनलिनम् ॥
स्वात्माभेदतयेत्थं ध्यात्वैकाक्षरमथाऽष्टवर्णं वा ।
प्रजपेद्दिनकरलक्षं त्रिमधुरसिक्तैश्च किंशुकप्रसवैः ॥
जुहुयात्तरणिसहस्रं विमलैः सलिलैश्च तर्पयेत्तावत् ।
इति ।
एवमष्टभुजो वा ध्येयः ।
तदुक्तं मन्त्रतन्त्रप्रकाशे—-
नित्यमष्टभुजं ध्यायेदरुणं पुरुषोत्तमम् ।
रमयाऽऽलिङ्गितं वामे लोकत्रितयमोहनम् ॥
चक्रं खड्गं च मुशलं दक्षे बिभ्राणमङ्कुशम् ।
वामे पाशं तथा शङ्खं सशरं चापमेव च ॥
कौमोदकी च बिभ्राणं सर्वभूषणभूषितम् ।
दशलक्षजपादेष सिद्धमन्त्रः प्रजायते ॥ इति ॥
अस्य मन्त्रद्वयस्य पूजादिकं सर्वं पुरुषोत्तममन्त्रवदेव ।
यदाहुः—-
प्रायः पुरुषोत्तमविधिरेवमतोऽन्यत्ततोऽवगतव्यम् ।
इति ।
केवलकृष्णदेवतापक्षे तु अष्टादशाक्षरोक्त मार्गेण ध्यानपूजादिकं सर्वमस्य विज्ञेयम् ।
विशेषान्तरं च—-एतदेव रमाबीजपुटितं चाखिलार्थदम् ।
लक्ष्मीनारायणौ हेममण्डपे चिन्तयेच्छुभौ ॥
तदेव मायापुटितं विद्यावश्यं प्रयच्छति ।
स्वभावाद्वश्यदं त्वेतद् धनदं भोगदं तथा ॥
यद्यस्मात्कामयेद्विद्यां द्विजेन्दो मन्त्रतत्त्ववित् ।
भारत्या सहितं विष्णुं तत्र ध्यायेच्छशिप्रभम् ॥
गद्यपद्यैस्तथा शास्त्रैः पूरयन्ती जगत्रयम् ।
ध्यातव्या तु तदा दक्षे विष्णोर्वाणी सुभूषणा ।
इति ॥
तारेण वेष्टितं कामं प्रजपेद्धर्ममोक्षयोः ।
सिद्धये श्रीहरिं ध्यायेत् श्वेतं मुनिगणावृतम् ॥ इति ॥
अन्यत्र तु—- कमलासनस्थो नकुली वामनेत्रार्धचन्द्रवान् ।
इति ।
अनेन कामबीजानन्तरं भुवनेशीबीजमित्युक्तम्म् ।
ध्यानं च—-
नाभिमध्ये समुद्भूतां भ्रूमध्ये च विनिःसृताम् ।
प्रणवाम्बुजमध्यस्थां मुक्तालङ्कारभूषिताम् ।
लेखनीं पुस्तकं हस्ते धारयन्तीं समभ्यसेत् ॥ इति ।
तत्रैव विशेषः—- लिपिभिन्नो मनुर्जप्तो लोकक्षोभकरो भवेत् ।
इति ।
अन्यत्रापि—- वरपाशाङ्कुशधरां मद्यपूर्णकपालभृत् ।
नित्यां ध्यात्वा जपेत् कामबीजमिष्टार्थसिद्धये ॥ इति ।
अन्यत्रापि—- सकृज्जप्तेन बीजेन ब्रह्महत्यां व्यपोहति ।
द्विजप्तेन तथा ब्रह्मचतुभीरितरैरपि ॥
सर्वयज्ञफलं चापि त्रिजप्तेन तु लभ्यते ।
चतुर्जप्तेन तृप्यन्ते सर्वदेवगणास्तथा ॥
पञ्चजप्तेन देवेन्द्रं षड्जप्तेन तथा पितृन् ।
सप्तजप्तेन योगोन्द्रान् सर्वान् प्रीणाति साधकः ॥
अष्टजप्तेन प्रीणाति स्वयमेव पितामहः ।
नवजप्तेन वै विष्णुर्दशजप्तेन शङ्करः ॥
कारणं यत्प्रधानाख्यं प्रकृतिः सगुणात्मकम् ।
प्रीणाति साधकेन्द्रस्तु नामैकादशाभिर्मुने ॥
तथा द्वादशजप्तेन सर्वगं पुरुषं हितम् ।
मोक्षं च साधकेन्द्राणां नित्यं जप्तं प्रयच्छति ॥
विधानेन गृहीतं स्यान्मोक्षदं भवतो मुने ।
अन्यथा भोगदं वत्स स्त्रीणामाकर्षणे मुने ॥
यथा यथा हि जपति व्याप्तिं गत्वा तु साधकः ।
तथा तथा हि सिध्यन्ति सिद्धविद्याधरस्त्रियः ॥ इति ॥ ११८ ॥
बीजेन दीर्घयुक्तेन षडङ्गविधिरीरितः ॥ ११९ ॥
दीर्घयुक्तेन षड्दीर्घयुक्तेन ।
एतदनन्तरं भालास्यकण्ठहृन्मूलाधारेषु पञ्चवाणान् विन्यसेत् ।
अग्रे पूजायामावृतित्वेनोक्तैः ।
तदुक्तमाचार्यैः—- " न्यस्तशरबीजदेहः " इति ॥ ११९ ॥
जवारुणं रत्नविभूषणाढ्यं मीनध्वजं चारुकृताङ्गरागम् ।
कराम्बुजैरङ्कुशमिक्षुचापं पुष्पास्त्रपाशौ दधतं भजामि ॥१२०॥
आयुधध्यानं वामोर्ध्वाद्दक्षोर्ध्वं यावत् ।
अत्र ध्यानानन्तरमेते मुद्रे दर्शनीये ।
हस्तौ तु सम्पुटौ कृत्वा प्रसृताङ्गुलिकौ तथा ।
तर्जन्यौ मध्यमापृष्ठे अङ्गुष्ठौ मध्यमान्वितौ ॥
काममुद्रेयमाख्याता सर्वसत्त्वप्रियङ्करी ।
मूर्धन्यगुष्ठमुष्टी द्वे मुद्रा त्रैलोक्यमोहिनी ॥ इति ॥ १२० ॥
लक्षत्रयं जपेन्मन्त्रं मधुरत्रयसंयुतैः ।
पुष्पैः किंशुकजैः फुल्लैर्जुहुयात्तद्दशांशतः ॥ १२१ ॥
वक्ष्यमाणे यजेत् पीठे विधिना मकरध्वजम् ।
मोहिनी क्षोभिणी त्रासा स्तम्भिन्याकषीणी पुनः ॥ १२२ ॥
द्राविण्युन्मादिनीक्लिन्नाक्लेदिन्यः पीठशक्तयः ।
बीजाद्यमासनं दत्त्वा मूत्तीं मूलेन कल्पयेत् ॥ १२३ ॥
वक्ष्यमाणे पीठे विधिना वक्ष्यमाणेन यजेदिति ।
मण्डूकादिपरतत्त्वान्तं सम्पूज्य वक्ष्यमाणाः पीठशक्तीः पूजयेदित्यर्थः ।
बीजाद्यमिति ।
क्लीं कामयोगपीठाय नम इति आसनं पूजयेदित्यर्थः ॥ १२१-१२३ ॥
अस्यां सम्यग्यजेद् देवं वक्ष्यमाणेन वर्त्मना ।
इष्ट्वाङ्गावरणं पूर्वं मध्ये दिक्षु यजेच्छरान् ॥ १२४ ॥
द्रामाद्यं शोषणं पूर्वं द्रीमाद्यं मोहनं ततः ।
सन्दीपनाख्यं क्लीमाद्यं ब्लूमाद्यं तापनं ततः ॥ १२५ ॥
सर्गान्तभृगुणा भूयो मादनं पञ्चमं ततः ।
प्रणामबाणहस्ताब्जा ध्येयास्ता बाणदेवताः ॥ १२६ ॥
वक्ष्यमाणेनेत्युक्तं वर्त्माऽऽह इष्ट्वेति ।
कणीकायामिति शेषः ।
तदुक्तम्—- " इष्ट्वा कणीकायामङ्गानि " इति ।
मध्य इति पञ्चमम् ।
" दिक्षु शरान् मध्ये च पञ्चमं पुनः " इत्युक्तेः ।
द्रामित्यादौ अनुस्वारे आचार्याणां ङकारव्यवहार इति ज्ञेयम् ।
सर्गान्तभृगुरिति सः ।
प्रणामेति ।
एकहस्ते प्रणामः अपरहस्ते बाणः ॥१२४-१२६ ॥
सम्पूज्यास्तत्र मध्येषु शक्तयोऽष्टौ यथाक्रमम् ।
अनङ्गरूपाऽऽद्याऽनङ्गमदनाऽनङ्गमन्मथा ॥ १२७ ॥
अनङ्गकुसुमा पश्चादनङ्गमदनातुरा ।
अनङ्गशिशिराऽनङ्गमेखलाऽनङ्गदीपिका ॥ १२८ ॥
लीलाकमलधारिण्यः स्मेरवक्त्राः सुशोभिताः ।
बहिः षोडशपत्रेषु पूज्याः षोडशशक्तयः ॥ १२९ ॥
युवतिवीप्रलम्भाऽन्या ज्योत्स्ना सुभ्रूर्मदद्रवा ।
सुरता वारुणी लोला कान्तिः सौदामिनी पुनः ॥ १३० ॥
कामच्छत्रा चन्द्ररेखा शुक्ली स्यान्मदना पुनः ।
ज्योतिर्मायावती ताः स्युः कह्लारविलसत्कराः ॥ १३१॥
स्मेरवक्त्रा युवतयो मदविभ्रममन्थराः ।
दलाग्रेषु पुनः पूज्याः स्मरस्य परिचारकाः ॥ १३२ ॥
शोकमोहौ विलासोऽन्यो विभ्रमो मदनातुरः ।
अपत्रपो युवा कामी धृ(चू)तपुष्पो रतिप्रियः ॥ १३३ ॥
ग्रीष्मस्तपान्त ऊर्जेऽन्यो हेमन्तः शिशिरो मदः ।
इक्षुकार्मुकपुष्पेषुधरा रक्ताः सुभूषिताः ॥ १३४ ॥
अपराङ्गनिषङ्गाढ्या वनितासक्तमानसाः ।
रतिप्रियानष्टदिक्षु यजेदष्टौ विशिष्टधीः ॥ १३५ ॥
परभृत्सारसौ पश्चाच्छुकमेधाह्वयौ पुनः ।
अपाङ्गभ्रूविलासौ द्वौ हावभावौ प्रकीत्तीताः ॥ १३६ ॥
यथाक्रममित्यनेन कामबीजादित्वम् ।
युवत्यादीनां सर्वासां मायाबीजादित्वं ज्ञेयम् ।
यदाहुः—-
हृल्लेखया स्वनाम्ना च शक्त्यादीनां समर्चनम् ।
इति ॥ विशिष्टधीरित्यनेन सर्वत्र सम्बध्यमानेनेदमेव सूचितम् ।
युवतयस्तरुण्य इत्यर्थः ॥ १२७-१३६ ॥
चतुरस्तस्य कोणेषु पूज्यास्तत्परिचारिकाः ।
माधवी मालती पश्चाद्धरिणाक्षी मदोत्कटा ॥ १३७ ॥
सितचामरधारिण्यः सर्वाभरणभूषिताः ।
बाह्ये लोकेश्वरान् पश्चात्तदस्त्राण्यर्चयेत् क्रमात् ॥ १३८ ॥
इत्थं यो भजते देवं सुगन्धिकुसुमादिभिः ।
स भवेल्लब्धसौभाग्यो लक्ष्म्या जितधनेश्वरः ॥ १३९ ॥
अशोकपुष्पैर्दध्यक्तैर्जुहुयाद्दवसत्रयम् ।
अष्टोत्तरसहस्रं यो स भवेज्जगतां प्रियः ॥ १४० ॥
गव्येनाज्येन जुहुयान्मन्त्रेणाऽष्टोत्तरं शतम् ।
साधकेन्द्रः ससम्पातमचीते हव्यवाहने ॥ १४१ ॥
सम्पाताज्येन वनिता भोजयेदात्मनः पतिम् ।
अनया यद्यदादिष्टं तत्तत् स कुरुते सदा ॥ १४२ ॥
कन्यार्थी जुहुयाल्लाजैर्दध्यक्तैर्मण्डलान्तरे ।
कन्यामिष्टामवाप्नोति साऽपि सत्पतिप्राप्नुयात् ॥ १४३ ॥
अचीते हव्यवाहने जुहुयादिति सम्बन्धः ।
ससम्पातमिति ।
पात्रान्तरे सम्पातं कुर्वन् ।
साधकेन्द्र इत्यनेन सम्पातस्याऽष्टोत्तरशतवारं जप उक्तः ॥ १४१ ॥
सम्पाताज्यस्य विनियोगमाह सम्पातेति ।
मण्डलान्तरे कन्यामाप्नोतीति सम्बन्धः ।
तेन एकोनपञ्चाशद्दिनं होम उक्तः ॥ १४२-१४३ ॥
कामोल्लासितमध्यमङ्गविलसत् षट्कोणमेत्दबहि-
र्गायत्रीगुणवर्णवद्वसुदलं मालामनोरक्षरैः ।
षट्सङ्ख्यैः सहिताष्टपत्रसहितं क्षौणीपुरेणावृतं
कोणन्यस्तमनोभवेन कथितं यन्त्रं जगन्मोहनम् ॥ १४४ ॥
यन्त्रमाह कामेति ।
षट्कोणमध्ये कामबीजान्तः साध्यसाधककर्मनाम लिखनीयम् ।
कामषडङ्गान्याग्नेयादिषट्कोणेषु लिखेत् ।
तदुक्तम्—-
षडङ्गान्यग्निकोणादिकोणेष्वेव क्रमाल्लिखेत् ।
इति ।
एतद्बहिरष्टदलमध्ये वक्ष्यमाणगायत्र्यर्णां स्त्रिशस्त्रिशो लिखित्वा मालामनो- र्वक्ष्यमाणस्य षट्
षडक्षराणि दलाग्रेषु लिखेत् ।
मूले वसुदलाष्टपत्रशब्दौ तत्रैकत्र दल- मध्यमन्यत्र दलाग्रमिति ज्ञेयम् ।
कोणन्यस्तमनोभवेन क्षौणीपुरेणावृतमिति सम्बन्धः ।
तदुक्तमाचार्यैः—-आलिख्यात्कणीकायामनलपुरयुगे मारबीजं ससाध्यं
तद्रन्ध्रेष्वङ्गषट्कं बहिरपि गुणशो मारगायत्रिवर्णान् ।
मालामन्त्रं दलाग्रेष्वपि गुहमुखशः पाथीवास्रिष्वनङ्गम् ॥ इति ॥ १४४ ॥
कामदेवायशब्दान्ते विद्महे ङेऽन्तमीरयेत् ।
पुष्पबाणं धीमहि स्यात् तन्नोऽनङ्गः प्रचोदयात् ॥ १४५ ॥
कामगायत्रीमुद्धरति कामदेवायेति ।
ङेऽन्तं पुष्पबाणं पुष्पबाणाय ॥ १४५ ॥
नमोऽन्ते कामदेवाय वदेत् सर्वजनं ततः ।
प्रियाय सर्ववर्णान्ते जनसम्मोहनाय च ॥ १४६ ॥
ज्वलद्वयं प्रज्वलार्णान् वदेत् सर्वजनस्य च ।
हृदयं मम शब्दान्ते वशं कुरुयुगं शिरः ।
मालामनुरयं साष्टचत्वारिंशद्भरक्षरैः ॥ १४७ ॥
मालामन्त्रमाह नमोऽन्ते इति ।
सर्व इति यद्वर्णद्वयं तदन्ते ।
हृदयमिति स्वरूपम् ।
शिरः स्वाहा ।
अयं स्वतन्त्रो मन्त्रः ।
अस्यर्ष्यादिकं यथा—-
नारदो जगती कामो मुन्याद्याः परिकीत्तीताः ।
सप्तसप्तनवमुनिदशाष्टार्णैः षडङ्गकम् ॥
यद्वाऽमृतोद्भवश्चैव परो मकरकेतनः ।
सङ्कल्पजन्मान्यश्चाऽक्षतरूपेक्षुधनुर्धरौ ॥
पुष्पबाणश्च कामाद्यैर्ङेस्वाहान्तैः षडङ्गकम् ।
बाणान् भालास्यगलहृदाधारेषु प्रविन्यसेत् ॥
शेषमन्यत्तु पूजादिकामबीजवदीरितम् ।
जपादौ मारबीजाद्यो जगत्रयवशीकरः ॥
विलिप्य गन्धपङ्केन लिखेदष्टदलाम्बुजम् ।
कणीकायां लिखेद्वह्निपुटितं मण्डलद्वयम् ॥
तस्य मध्ये लिखेत्कामं साध्याख्याकर्मसंयुतम् ।
साध्याख्यापुटितैः कामैस्तं कामं वेष्टयेद् बुधः ॥
श्रियं च षट्सु कोणेषु एन्द्रनिरृतिवायुषु ।
आलिखेच्च तथा मायां वह्निवारुणशूलिषु ॥
अक्षरैः कामगायत्र्या वेष्टयेत् केसरे सुधीः ।
मारमालामनोर्वर्णैर्दलेष्वष्टसु मन्त्रवित् ॥
लिखेद् गुहाननसङ्ख्यैर्मातृकां तु विलेखयेत् ।
भूबिम्बं च लिखेद्बाह्ये श्रीमाये दिग्विदिक्ष्वपि ॥
यन्त्रमेवं समालिख्य जातरूपमये पटे ।
राजते ताम्रपट्टे वा भूर्जे क्षौममयेऽपि वा ॥
सूक्ष्मतन्तुमये वापि प्रतिष्ठाप्य समीरणम् ।
हुत्वा सहस्रमाज्येन यन्त्रसम्पातपूर्वकम् ॥
अर्चयित्वाऽयुतं जप्त्वा धारयेत्तदनुत्तमम् ।
त्रैलोक्यैश्वर्यमाप्नोति देवैरपि सुपूजितम् ॥
आकर्षणं सुरस्त्रीणां नागलोकनिवासिनाम् ।
पिशाचयक्षरक्षांसि गन्धर्वाप्सरकिन्नराः ॥
दुष्टसत्त्वाश्च ये सत्त्वाः प्रसर्पन्त्येव दूरतः ।
यन्त्रराजमिमं दृष्ट्वा विद्रवन्त्यतिमोहिताः ॥
बहुना किमिहोक्तेन सर्वलोकसुखावहम् ।
स्त्रीणामाकर्षकं सद्यो राज्ञो वश्यकरं भुवि ॥
योगसिद्धिकरं पुंसां भवसागरतारकम् ।
भुक्तिमुक्तिप्रदं पुंसामिति प्रोक्तं स्वयम्भुवा ॥इति ॥१४६-१४७॥
साध्याख्यापुटितैः स्मरैः परिवृतं कामं लिखेन्मध्यतः
पश्चात्तारविकारपक्षकपरान्नासाघीझिण्टीशघान् ।
शूलाढ्याष्टदलेषु साधु विलिखेत्ताम्बूलपत्रोदरे
यन्त्रं यां निशि खादयेत् कृतजपं वश्या भवेत्तस्य सा ॥ १४८ ॥
कथितं पुष्पबाणस्य साङ्गोपाङ्गसमर्चनम् ।
सौभाग्यकान्तिविभवदारपुत्रसमृद्धिदम् ॥ १४९ ॥
यन्त्रान्तरमाह साध्येति ।
मध्यतः अष्टदलकणीकायाम् साध्यसाधककर्मनाम- पुटितैः स्मरैः कामबीजैः परिवृतं कामं
साध्यसाधककर्मसहितं लिखेत् ।
अष्टसु दलेषु लिखनीयमाह तार इति ।
तारेण त्रित्वसङ्ख्यातेन इकारः ।
अन्ये प्रणवमाहुस्तदसत् ।
पद्मपादाचार्यादिबहुग्रन्थविरोधात् ।
विकारोऽन्त्यः स्वरः ।
पक्षो द्वितीयः स्वर इति ।
केचन साम्प्रदायिकास्तु पञ्चदश स्वरमाहुः ।
पद्मपादाचार्यस्य सम्मतेः ।
को वायुस्तेन यः स परो यस्य तेन मकारः ।
तदुक्तं गौतमेन मन्त्रव्याकरणे—-
ब्रह्मणो वाचकः कः स्यात् कशब्दो मूर्धवाचकः ।
सूर्यस्य वाचकः कः स्यात् कशब्दो वायुवाचकः ॥ इति ॥
अन्धे कपरः ख इत्याहुस्तदसत् ।
पद्मपादाचार्यग्रन्थविरोधात् ।
नासाशब्देन तदुच्चारणीयः अनुनासिकः ।
तन्मध्येऽपि प्रथमातिक्रमे कारणाभावात् ङकारः ।
केचन नासा अकार इत्यूचुस्तदसत् ।
तद्ग्रन्थादिविरोधादेव ।
अघीरर्घीशः ऊ ।
झिण्टीश ए ।
घ इति स्वरूपम् ।
क्वचित् झिण्टीशकानिति पाठः ।
स प्रामादिकः ।
तदुक्तमाचार्यैः—-तार्रत्विक्पक्षजाष्टादशसमिदृतुगण्डान्तगान्ताक्षराढ्यम् ।
इति ।
एतद्व्याख्याने पद्मपादाचार्यैर्व्याख्यातम् ।
तार इः ।
ऋत्विक् अः ।
पक्षः अम् ।
जाष्ठादशो मः ।
समित् ङः ऋतुः ऊः ।
गण्डान्तः ए ।
गान्तो घ इति ।
शूलाढ्येति दलाग्रेषु शूलानि कुर्यात् ॥ १४८-१४९ ॥
आदाय वेदाः सकलाः समुद्रान् निहत्य शङ्खासुरमत्युदग्रम् ।
दत्ताः पुरा येन पितामहाय विष्णुं तमाद्यं भज मत्स्यरूपम् ॥१५०॥
एवं सप्रपञ्चं विष्णुमन्त्रान्निरूप्य शिष्यचेतसि दृढभक्तेरुत्पादनाय दशावतार क्रमेण विष्णुं
स्तौति आदायेत्यादिना ।
येन शङ्खासुरं निहत्य समुद्रादादाय तेनेत्यर्थात् पितामहाय ब्रह्मणे सकला वेदा दत्ता इत्यन्वयः ।
वेदानिति पाठे ते इत्यर्थः ॥ १५० ॥
दिव्यामृतार्थं मथिते महाब्धौ
देवासुराभ्यां वासुकिमन्दराभ्याम् ।
भूमेर्महावेगविघूणीताया-
स्तं कूर्ममाधारगतं स्मरामि ॥ १५१ ॥
भूमेराधारगतमिति सम्बन्धः ॥ १५१ ॥
समुद्रकाञ्ची सरिदुत्तरीया वसुन्धरा मेरुकिरीटभारा ।
दंष्ट्राग्रतो येन समुद्धृता भूस्तमादिकोलं शरणं प्रपद्ये ॥१५२॥
भक्तात्तीभङ्गक्षमया धिया यः स्तम्भान्तरालादुदितो नृसिंहः।
रिपुं सुराणां निशितैर्नखाग्रै वीदारयन्तं न च विस्मरामि ॥१५३॥
येनैवम्भूता भूर्दंष्ट्राग्रतो दंष्ट्राग्रेण उद्धतेति सम्बन्धः ॥ १५२-१५३ ॥
चतुः समुद्राभरणा धरित्री
न्यासाय नाऽलं चरणस्य यस्य ।
एकस्य नाऽन्यस्य पदं सुराणां
त्रिविक्रमं सर्वगतं स्मरामि ॥ १५४ ॥
अन्यस्य द्वितीयस्य चरणस्य न्यासाय सुराणां पदं नालमिति सम्बन्धः ॥१५४॥
त्रिःसप्तवारं नृपतीन् निहत्य
यस्तर्पणं रक्तमयं पितृभ्यः ।
चकार दोर्दण्डबलेन सम्यक्
तमादिशूरं प्रणमामि भक्त्या ॥ १५५ ॥
कुले रघूणां समवाप्य जन्म
विधाय सेतुं जलधेर्जलान्तः ।
लङ्केश्वरं यः शमयाञ्चकार
सीतापतिं तं प्रणमामि भक्त्या ॥ १५६ ॥
हलेन सर्वानसुरान् विकृष्य
चकार चूर्णं मुशलप्रहारैः ।
यः कृष्णमासाद्य बलं बलीयान्
भक्त्या भजे तं बलभद्ररामम् ॥ १५७ ॥
चूर्णं चूर्णीभूतान् चकारेत्यन्वयः ।
यः कृष्णं बलं सहायमासाद्य ॥१५५-१५७॥
पुरा पुराणामसुरान् विजेतुं
सम्भावयन् चीवरचिन्हवेशम् ।
चकार यः शास्त्रममोघकल्पं
तं मूलभूतं प्रणतोऽस्मि बुद्धम् ॥ १५८ ॥
कल्पावसाने निखिलैः खुरैः स्वैः
सङ्घट्टयामास निमेषमात्रात् ।
यस्तेजसा निर्दहतीति भीमो
विश्वात्मकं तं तुरगं भजामः ॥ १५९ ॥
शङ्ख सुचक्रं सुगदां सरोजं
दोभीर्दधानं गरुडाधिरूढम् ।
श्रीवत्सचिन्हं जगदादिमूलं
तमालनीलं हृदि विष्णुमीडे ॥ १६० ॥
चीवरचिह्नवेशं सम्भावयन् धारयन्नित्यन्वयः ॥ १५८-१६० ॥
क्षीराम्बुधौ शेषविशेषतल्पे शयानमन्तः स्मितशोभिवक्त्रम् ।
उत्फुल्लनेत्राम्बुजमम्बुजाभमाद्यं श्रुतीनामसकृत् स्मरामि ॥१६१॥
प्रीणयेदनया स्तुत्या जगन्नाथं जगन्मयम् ।
धर्मार्थकाममोक्षाणामाप्तये पुरुषोत्तमम् ॥ १६२ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
सप्तदशः पटलः समाप्तः ॥ १७ ॥
ब्थ् " बि
शेष एव विशेषः असाधारणात् ॥ १६१-१६२ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां सप्तदशः पटलः ॥ १७ ॥
ब्थ् " बि