अथ षोडशः पटलः
अथाऽभिधास्ये विधिवन्नारसिंह महामनुम् ।
उग्रं वीरं वदेत्पूर्वं महाविष्णुमनन्तरम् ॥ १ ॥
ज्वलन्तं पदमाभाष्य सर्वतोमुखमीरयेत् ।
नृसिंहं भीषणं भद्रं मृत्युर्मृत्युं वदेत्ततः ।
नमाम्यहमयं प्रोक्तो मन्त्रराजः सुरद्रुमः ॥ २ ॥
ऋषिर्ब्रह्मा समुद्दष्टश्छन्दोऽनुष्टुबुदाहृतम् ।
देवता नरसिंहोऽस्य सुरासुरनमस्कृतः ॥ ३ ॥
नृसिंहमन्त्रराजमुद्धरति उग्रमिति ।
मन्त्रे सर्वाणि द्वितीयान्तानि ।
श्लोकरूपो द्वात्रिंशदक्षरो मन्त्रः ।
वैदिकत्वादस्य प्रणवादित्वं ज्ञेयम् ।
तापनीये तथोक्तत्वात् ।
साम्प्रदायिकास्तु सुरद्रुम इत्यनेन शक्तिबीजपुटितमेनमाहुः ।
अस्य हं बीजम् ईं शक्तिः ।
तथा च तापनीये—-
ॐ देवा ह वै प्रजापतिमब्रुवन् आनुष्टुभस्य मन्त्रराजस्य नारसिंहस्य शक्तिं बीजं
नो ब्रूहि भगव इति ।
स होवाच प्रजापतिः ।
माया वा एषा नारसिंही सर्वमिदं सृजति सर्वमिदं रक्षति सर्वमिदं संहरति तस्मान् मायामेतां शक्तिं विद्यात् ।
य एतां मायां शक्तिं वेद स पाप्मानं तरति स मृत्युं जयति सोऽमृतत्वं च गच्छति महतीं श्रियमश्नुते
मीमांसन्ति ब्रह्मवादिनः ।
ह्रस्वा वा दीर्घा वा लुप्ता वेति ।
यदि ह्रस्वा भवति सर्वं पाप्मानं तरति अमृतत्वं च गच्छति ।
यदि दीर्घा भवति महतीं श्रियमाप्नोति अमृतत्वं च गच्छति ।
यदि प्लुता भवति ज्ञानवान् भवति अमृतत्वं च गच्छति ।
सर्वेषां वा एतद्भूतानामाकाशः परायणम् ।
सर्वाणि ह वा इमानि भूतानि आकाशादेव जायन्ते आकाशादेव जातानि जीवन्ति ।
आकाशं प्रयन्ति अभिसंविशन्ति।
तस्मादाकाशं बीजं विद्यादिति ॥ १-३ ॥
चतुभीर्हृदयं वर्णैः शिरस्तावद्भरीरितम् ।
शिखाऽष्टाभिः समुद्दष्टा षड्भिः कवचमीरितम् ॥ ४ ॥
तावद्भर्नयनं प्रोक्तमस्त्रं स्यात्करणाक्षरैः ।
शिरोललाटनेत्रेषु मुखबाह्वङ्घिरसन्धिषु ॥ ५ ॥
साग्रेषु कुक्षौ हृदये गले पार्श्वद्वये पुनः ।
अपराङ्गे ककुदि च न्यसेद्वर्णान् यथाक्रमम् ॥ ६ ॥
तावद्भिरिति चतुभीः ।
तावद्भिः षड्भिः ।
करणाक्षरैरिति चतुभीः ।
साम्प्रदा- यिकास्त्वन्यथा षडङ्गमाहुः ।
तद्यथा ।
हामाद्यैश्चतुभीः पादैरर्द्धद्वयसहितैरानन्दात्मने प्रियात्मने ज्योतिरात्मने मायात्मने ज्वालात्मने
ज्ञानात्मने क्रमादेतदन्तैः षडङ्गानि ।
तापनीये तु पञ्चाङ्गमेवोक्तम्—-
तस्य हि पञ्चाङ्गानि भवन्ति ।
चत्वारः पादाः चत्वार्यङ्गानि भवन्ति ।
सप्रणवं सर्वं पञ्चमं भवतीति ।
अक्षरन्यासमाह शिर इति ।
तत्र प्रणवयोर्मध्ये एकैकमक्षरं सबिन्दुकमुच्चार्य न्यसनीयम् ।
यत्तापनीये—-
ओमित्येतदक्षरमिदं सर्वम् ।
तस्मात् प्रत्यक्षरमुभयत ओङ्कारो भवति ।
अक्षराणां न्यासमुपदिशन्ति ब्रह्मवादिनः इति ।
अपराङ्गे पृष्ठे ।
ककुदि अपरगले ।
अथ तन्त्रान्तरोक्तो नृसिंहसान्निध्यकारकः सर्वरक्षाकरो दशविधन्यास उच्यते ।
यदाहुः—-
नृसिंहसान्निध्यकरो न्यासो दशविधस्त्विह ।
प्रोच्यते तत्र पूर्वेऽयमङ्गुलीन्यास उच्यते ॥
कराङ्गुष्ठाद्यङ्गुलीषु पृथगाद्यन्तपर्वणोः ।
सर्वाङ्गुलौ न्यसेच्छिष्टं तलयोरक्षरद्वयम् ॥
ब्रह्मरन्ध्रललाटभ्रूमध्यदृक्षु दृशोप्यधः ।
कपोले कर्णमूले च चिबुकोर्ध्वाधरोष्ठके ॥
कण्ठोरोदक्षदोर्वामदोर्हृत्तनुषु नाभिके ।
दक्षान्यदोस्तले कट्यां मेढ्रोर्वेर्जानुजङ्घयोः ॥
गुल्फे पादकराङ्गुल्योः सर्वसन्धिषु रोमसु ।
रक्तास्थिमज्जासु मनोर्वर्णान्न्यस्येद्विचक्षणः ॥
द्व्यर्णान् पदे गुल्फजानुकटिनाभिषु हृत्स्थले ।
बाह्वोः कण्ठे तु चिबुके ओष्ठे गण्डे प्रविन्यसेत् ॥
कर्णयोर्वदने नासापुटे नेत्रे च मूर्धनि ।
पदानि तु मुखे केशे चक्षुः श्रोत्रेषु विन्यसेत् ॥
आस्ये च हृदये नाभौ कटिजानुपदेष्वपि ।
नासादृक्कर्णनाभीहृत्कदोः पत्सु प्रविन्यसेत् ॥
चतुर्वर्णान् मनोः पादान् ककुन्नाभिषु सर्वतः ।
अर्धद्वयं न्यसेन्र्मूध्नि आहृत्पादात्तदङ्गकम् ॥
उग्राद्युग्रादीनि नव पदानीह नमाम्यहम् ।
इत्यन्तान्यास्यकघ्राणदृक्कर्णेषु च पक्ष्मसु ॥
हृदि नाभौ च कट्यादिपादान्तं नवसु न्यसेत् ।
वीरा(तारा)द्यान्यपि तान्येव यथा पूर्वं प्रविन्यसेत् ॥
नृसिंहाद्यानि तान्येव पूर्ववद्विन्यसेत् सुधीः ॥ इति ॥ ४-६ ॥
माणिक्याद्रिसमप्रभं निजरुचा सन्त्रस्तरक्षोगणं
जानुन्यस्तकराम्बुजं त्रिनयनं रक्तोल्लसद्भूषणम् ।
बाहुभ्यां धृतचक्रशङ्खमनिशं दंष्ट्राग्रवक्त्रोल्लस-
ज्ज्वालाजिह्वमुदग्रकेशनिचयं वन्दे नृसिंहं विभुम् ॥ ७ ॥
ध्यानमाह माणिक्येति ।
अत्र ध्यानानन्तरमेता मुद्राः प्रदर्शयेत् ॥
जानुमध्यगतौ कृत्वा चिबुकोष्ठौ समावुभौ ।
हस्तौ च भूमिसंलग्नौ कम्पमानः पुनः पुनः ॥
मुखं विजृम्भितं कृत्वा लेलिहानां च जिह्विकाम् ।
एषा मुद्रा नारसिंही प्रधानेति प्रकीत्तीता ॥
वामस्याङ्गुष्ठतो बद्धा कनिष्ठामङ्गुलीत्रयम् ।
त्रिशूलवत् सम्मुखोर्ध्वं कुर्यान् मुद्रां नृसिंहगाम् ॥
अङ्गुष्ठाभ्यां च करयोस्तथाक्रम्य कनिष्ठिके ।
अधोमुखाभिः श्लिष्टाभिः शेषाभिर्नृहरेर्मता ॥
हस्तावधोमुखौ कृत्वा नाभिदेशे प्रसार्य च ।
तर्जनीभ्यां नयेत् स्कन्धौ प्रोक्तैषाऽन्त्राख्यमुद्रिका ॥
हस्तावूर्ध्वमुखौ कृत्वा तले संयोज्य मध्यमे ।
अनामायां तु वामायां दक्षिणां तु विनिक्षिपेत् ॥
तर्जन्यौ पृष्ठतो लग्ने अङ्गुष्ठौ तर्जनीश्रितौ ।
वक्त्रमुद्रा भवेदेषा नृहरेः सन्निधौ मता ॥
वक्त्रमुद्रां तथा कृत्वा तर्जनीभ्यां तु मध्यमे ।
पीडयेद् दंष्ट्रमुद्रैषा सर्वपापप्रणाशिनी ॥ इति ॥
एताः सर्वनृसिंहमन्त्रसाधारण्य इति ज्ञेयम् ॥ ७ ॥
वर्णलक्षं जपेन्मन्त्रं तत्सहस्रं घृतप्लुतैः ।
पायसान्नैः प्रजुहुयाद्विधिवत् पूजितेऽनले ॥ ८ ॥
एवं कृते भवेन्मन्त्री सिद्धमन्त्रः प्रतापवान् ।
पूजा प्रागीरिते पीठे मूत्तीं मूलेन कल्पयेत् ॥ ९ ॥
पूजयेद्विधिवत्तस्यां दैत्यशत्रुमनन्यधीः ।
अङ्गान्यादौ समाराध्य दिग्दलेषु यजेत् पुनः ॥ १० ॥
पक्षीन्द्रं शङ्करं शेषमब्जयोनिं यथाक्रमम् ।
श्रियं ह्रियं धृतिं पुष्टिमग्न्यादिषु यजेत् पुनः ॥ ११ ॥
लोकपालाः समभ्यर्च्यास्तदस्त्राणि ततः परम् ।
इत्थं जपादिभिः सिद्धे मनौ काम्यानि साधयेत् ॥ १२ ॥
वर्णलक्षमिति द्वात्रिंशल्लक्षम् ।
तत्सहस्रं द्वात्रिंशत्सहस्रम् ।
विधिवदिति देवता- पीठं तत्राभ्यर्च्येत्यर्थः ।
प्रागीरिते इति नारायणाष्टाक्षरोक्ते ।
विधिवदिति वक्ष्यमाण- विधानेन ।
किञ्च विधिवदित्यनेन तापनीयोक्तमन्त्रे दशावरणानि पूजयेदित्युक्तम् ।
समाराध्येति तूपर्येक्तरीत्या ॥ ८-१२ ॥
उद्यत्कोटिरविप्रभं नरहरिं कोटीरहारोज्ज्वलं
दंष्ट्राभीममुखं लसन्नखमुखैर्दीर्घैरनेकैर्भुजैः ।
निभीन्नासुरनाथमग्निशशभृत्सूर्यात्मनेत्रत्रयं
विद्युत्पुञ्जसटाकलापभयदं वह्निं वमन्तं भजे ॥ १३ ॥
ध्यानमाह उद्यदिति ॥ १३ ॥
सौम्ये सौम्यं स्मरेत्कार्ये क्रूरे क्रूरमिमं भजेत् ।
श्रीपुष्पैर्जुहुयान्मन्त्री बिल्वकाष्ठैधितेऽनले ॥ १४ ॥
सहस्रं श्रियमाप्नोति पत्रैर्वा बिल्वसम्भवैः ।
प्रसूनैर्वा फलैस्तद्वद्दूर्वाहोमादरोगताम् ॥ १५ ॥
मन्त्रजप्तां वचां श्वेतां भक्षयेत् प्रातरन्वहम् ।
वाक्सिद्धिं लभते मन्त्री वाचस्पतिरिवापरः ॥ १६ ॥
सौम्य इति ।
एतदुपासनाविषये ।
सौम्यं पूर्वेक्तध्यानम् ।
क्रूरे प्रयोगविषय इत्यर्थः ।
क्रूरमनन्तरोक्तम् ।
तदुक्तमाचार्यैः—-
प्रतिपत्तिरस्य चोक्ता प्रसन्नता क्रूरता विशेषेण ।
द्विविधा प्रसन्नया स्यात् साधनपूजाऽन्यया प्रयोगविधिः ॥ इति ॥
श्रीरिति लक्ष्मीलता ।
तद्वदिति श्रियमाप्नोतीत्यर्थः ।
अरोगतामित्यत्राप्नोती- त्यनुषज्यते ॥ १४-१६ ॥
सलिले देवमभ्यर्च्च गन्धपुष्पादिभिः शुभैः ।
दूर्वाभिस्तत्र जुहुयान्नित्यमष्टोत्तरं शतम् ॥ १७ ॥
उपसर्गा विनश्यन्ति क्षुद्रभूतज्वरादिभिः ।
तत्रेति जले ।
उपसर्गा उपद्रवाः ।
तदुक्तमाचार्यैः—-
दूर्वात्रिकैरष्टसहस्रसङ्ख्यैराराध्य मन्त्री जुहुयादथाप्सु ।
शान्तिं प्रयान्त्येव तदोपसर्गा आपो हि शान्ता इति च श्रुतिः स्यात् ॥
उत्पाते सति महति ह्युपद्रवाणां होमोऽयं भवति स शान्तिदो नराणाम् ।
यद्वान्यन्निजमनसेप्सितं च कामं तत्प्राप्नोत्यखिलनृणां प्रियश्च भूयात् ॥
इति ॥ १७-१८ ॥
दुःस्वप्ने निशि सञ्जाते स्नात्वा मन्त्रममुं जपेत् ॥ १८ ॥
अनिद्रो मन्त्रवित् पश्चात् सुस्वप्नस्तस्य जायते ।
दुःस्वप्नानन्तरं तदैव ।
जपेदित्यष्टोत्तरशतम् ।
सुस्वप्न इति ।
स एव दुःस्वप्न एवं सुस्वप्नफलदो भवति ॥ १८-१९ ॥
व्याघ्रचौरमृगादिभ्यो महारण्ये भयाकुले ॥ १९ ॥
रक्षेन्मनुरयं जप्तो भयेष्वन्येषु मन्त्रिणम् ।
अनेन मन्त्रितं भस्म विषग्रहमहामयान् ॥ २० ॥
नाशयेदचिरादेव मन्त्रस्याऽस्य प्रभावतः ।
घोरेऽभिचारे सोन्मादे महोत्पाते महाभये ॥ २१ ॥
जपेन्मन्त्रं स्मरेद्देवं दुःखान्मुक्तो भवेन्नरः ।
सिंहरूपं महाभीमं नखदंष्ट्रातिभीषणम् ॥ २२ ॥
स्मृत्वाऽऽत्मानं रिपुं पश्चाद्ध्यायेन्मृगशिशुं पुरा ।
गृहीत्वा गलदेशे तं पुनदीक्षु क्षिपेद् द्रुतम् ।
पुत्रमित्रकलत्राद्यैरुच्चाटो जायते रिपोः ॥ २३ ॥
मृगाः सिंहाद्याः ।
विषेत्यनेन सर्पादीनां विषम् ।
ग्रहा अष्टादश ।
महामया- नित्यनेन ज्वरादयः सङ्गृहीताः ।
यदाहुः—-
मूषिकलूतावृश्चिकबहुपादाद्युत्थितं विषं शमयेत् ।
अष्टोत्तरशतजापान् मनुरयमभिमन्त्रितं च भस्माद्यम् ॥
सशिरोऽक्षिकर्णहृद्गलकुक्षिरुजाज्वरविसर्पवमिहिक्वाः ।
मन्त्रौषधाभिचारिककृतान् विकारानयं मनुः शमयेत् ॥ इति ॥
रिपुमित्यग्रिमेण सम्बध्यते ।
तं रिपुं क्षिपेदित्यन्वयः ।
पुरेति पाठे आत्मानं पुरा स्मृत्वेत्यन्वयः ।
पुरः इति पाठे आत्मनः अग्रे इत्यर्थः ॥ १९-२३ ॥
पूर्वमृत्युपदे साध्यनाम कृत्वा स्वयं हरिः ।
निशितैर्नखदंष्ट्राग्रैः खण्ड्यमानं रिपुं स्मरेत् ॥ २४ ॥
नित्यमष्टोत्तरशतं जपेन्मन्त्रमतन्द्रितः ।
जायते मण्डलादर्वाक् शत्रुर्वैवस्वतप्रियः ॥ २५ ॥
पूर्वमृत्युपदे इति ।
मन्त्रे मृत्युमृत्युमिति मृत्युपदद्वयमस्ति ।
तत्र पूर्वमृत्युपदं त्यक्त्वा तत्स्थाने साध्यनामप्रयोग इत्यर्थः ।
स्वयं हरिरिति ।
आत्मानं नृसिंहरूपं ध्यात्वेत्यर्थः ॥ २४-२५ ॥
यत्नं कुर्वीत विधिवच्छत्रुसेनानिवारणे ।
बिभीतकाष्ठैर्ज्वलिते पावके रिपुमर्दनम् ॥ २६ ॥
विचिन्त्य देवं नृहरिं सम्पूज्य कुसुमादिभिः ।
समूलतूलैर्जुहुयाच्छरैर्दशशतं पृथक् ।
रिपुं खादन्निव जपेन्निभीन्दन्निव तान् क्षिपेत् ॥ २७ ॥
यत्नं कुर्वीतेत्यादि अनर्थः स्यान् महीपतेरित्यन्तमेक एव प्रयोगः ।
विधिवद्यत्न- मेवाह बिभीतेति ।
रिपुमर्दनमित्यनेन क्रूरध्यानं कर्त्तव्यमिति सूचितम् ।
पृथगिति प्रत्यहम् ।
रिपुं खादन्निव जपेदित्यस्यायमर्थः ।
होमसमये रिपुं खादन्निव नृसिंहोऽ- हमित्यात्मानं ध्यात्वा जपेत् मन्त्रमुच्चरेत् ।
ततोऽरीन् भिन्दन्निव नृसिंहोऽहमिति आत्मानं ध्यात्वा तान् शरानग्नौ क्षिपेदिति ।
तदुक्तम्—-
खादन्निवोच्चरेन् मनुमरींश्च भिन्दन्निव क्षिपेत् समिधः ।
इति ॥ २६-२७ ॥
हुत्वा सप्तदिनं मन्त्री सेनामिष्टां महीपतेः ।
प्रस्थापयेच्छुभे लग्ने परराज्यजयेच्छया ॥ २८ ॥
हुत्वा महीपतेरिष्टां सेनां शुभे लग्ने प्रस्थापयेदिति सम्बन्धः ॥ २८ ॥
तस्याः पुरस्तान्नृहरिं निघ्नन्तं रिपुमण्डलम् ।
स्मृत्वा प्रयोगं कुर्वीत यावदायाति सा पुनः ॥ २९ ॥
विजित्य निखिलाञ्ञ्छत्रून् सह वीरश्रिया सुखम् ।
आगत्य विजयी राजा ग्रामक्षेत्रधनादिभिः ॥ ३० ॥
प्रीणयेन्मन्त्रिणं सम्यग्विभवैः प्रीतमानसः ।
मन्त्री यदि न सन्तुष्येदनर्थः स्यान्महीपतेः ॥ ३१ ॥
स्मृत्वा प्रयोगमिति ।
यावदायाति तावज्जपं पूर्वेक्तध्यानं च कुर्यादित्यर्थः ।
तदुक्तम्—-यावज्जितारिरेष्यति नृपतिस्तावज्जपेत् स्मरन् देवम् ।
इति ॥
तन्त्रान्तरोक्ता ध्यानभेदा लिख्यन्ते—-
नरसिंहं महाभीमं कालानलसमप्रभम् ।
अन्त्रमालाधरं रौद्रं कण्ठहारेण शोभितम् ॥
नागयज्ञोपवीतं च पञ्चाननसुशोभितम् ।
चन्द्रमौलिं नीलकण्ठं प्रतिवक्त्रं त्रिनेत्रकम् ॥
भुजैः परिघसङ्काशैर्दशभिश्चोपशोभितम् ।
अक्षसूत्रं गदां पद्मं शङ्खं गोक्षीरसन्निभम् ॥
धनुश्च मुषलं चैव बिभ्राणं चक्रमुत्तमम् ।
खड्गं शूलं च बाणं च नृहरिं रुद्ररूपिणम् ॥
इन्द्रगोपाभनीलाभं चन्द्राभं स्वर्णसन्निभम् ।
पूर्वादि चोत्तरं यावदूर्ध्वास्यं सर्ववर्णकम् ॥
एवमुग्रं हरिं ध्यायेत् सर्वव्याधिविमुक्तये ।
सर्वमृत्युहरं दिव्यं स्मरणात् सर्वसिद्धिदम् ॥
ध्येयो यदा महत्कर्म तदा षोडशहस्तवान् ।
नृसिंहः सर्वलोकेशः सर्वाभरणभूषितः ॥
द्वौ विदारणकर्माढ्यौ द्वौ चान्त्रोद्धरणाञ्चितौ ।
चक्रशङ्खधरौ द्वौ तु द्वौ च बाणधनुर्धरौ ॥
खड्गखेटधरौ द्वौ च द्वौ गदापद्मधारिणौ ।
पाशाङ्कुशधरौ द्वौ तु द्वौ रिपोर्मुकुटापीतौ ॥
इति षोडशदोर्दण्डमण्डितं नृहरिं विभुम् ।
ध्यायेन्नीरदनीलाभमुग्रकर्मण्यनन्यधीः ॥
ध्येयो महत्तमे कार्यें दशद्वाविंशहस्तवान् ।
नृहरिः सर्वभूताद्यः सर्वसिद्धिकरः प्रभुः ॥
दक्षिणे चक्रपद्मे च परशुं पाशमेव च ।
हलं च मुषलं चैवमभयं चाङ्कुशं तथा ॥
पट्टिशं भिन्दिपालं च खड्गमुद्गरतोमरान् ।
वामभागे करैः शङ्खं खेटं पाशं च शूलकम् ॥
अग्निं च वरदं शक्तिं कुण्डिकां च ततः परम् ।
कार्मुकं तर्जनीमुद्रां गदां डमरुसर्पकौ ॥
द्वाभ्यां कराभ्यां च रिपोर्जानुमस्तकपीडनम् ।
ऊर्ध्वीकृताभ्यां बाहुभ्यामान्त्रमालाधरं हरिम् ॥
अधःस्थिताभ्यां बाहुभ्यां हिरण्यकविदारणम् ।
प्रियङ्करं च भक्तानां दैत्यानां च भयङ्करम् ॥
नृसिंहं संस्मरेदित्थं महामृत्युभयापहम् ।
अथोच्यते ध्यानमन्यन् मुखरोगहरं शुभम् ॥
स्वर्णाद्याभे सुपर्णे स्थितमभिसुमुखं कोटिपूर्णेन्दुवर्ण
विद्युन्मालासटाभिस्त्रिशिखमयदृशं पीतवस्त्रोरुभूषम् ।
हस्तोद्यच्चक्रशङ्खाभयवरमखिलक्ष्वेलरोगादिमृत्युं
स्वैर्ध्वानैर्ध्वंसयन्तं सुरनुतमनिशं संस्मरेच्छ्रीनृसिंहम् ॥ इति ॥ २९-३१ ॥
बीजं साध्यसमन्वितं प्रविलिखेन्मध्येऽष्टपत्रेष्वथो
मन्त्रार्णान् श्रुतिशो विभज्य विलिखेत् लिप्या बहिर्वेष्टयेत् ।
बाह्ये कोणगबीजबद्ध वसुधा गेहद्वयेनावृतं
यन्त्रं क्षुद्रविषग्रहामयरिपुप्रध्वंसनं श्रीपदम् ॥ ३२ ॥
यन्त्रमाह बीजमिति ।
बीजं वक्ष्यमाणं नारसिंहम् ।
श्रुतिशश्चत्वारि चत्वारि ।
लिप्या मातृकया ।
कोणगं बीजं नृसिंहबीजम् ।
यन्त्रम् एवम्भूतम् ।
बद्धं व्यतिभिन्नं यद्वसुधागेहद्वयं तेन वृतम् ॥ ३२ ॥
कृत्वा नवपदात्मानं मण्डलं यन्त्रसंयुतम् ।
अस्मिन् संस्थापयेन्मन्त्री कलशान्नव शोभनान् ॥ ३३ ॥
कषायतोयसम्पूर्णान् वस्त्ररत्नादिसंयुतान् ।
मध्ये सम्पूजयेद्देवं नृसिंहं शान्तविग्रहम् ॥ ३४ ॥
तार्क्ष्यादीन् पूजयेन्मन्त्री पूर्वादिषु यथाक्रमम् ।
इति संसाधितैस्तोयैरभिषिञ्चेत् प्रियं नरम् ॥ ३५ ॥
अभिचारग्रहोन्मादा विनश्यन्त्यरिभिः सह ।
अभिषिक्तस्तदा विप्रान् भोजयेद्देवताधिया ॥ ३६ ॥
यथावत् पूजयेत्पश्चाद्भक्त्या गुरुमवञ्चयन् ।
राजा विजयमाप्नोति युद्धेषु विधिनाऽमुना ॥ ३७ ॥
यन्त्रसंयुतमिति नवनाभमध्यपद्मकणीकायाम् ।
अस्मिन् नवनाभमण्डले ।
कषायः क्षीरद्रुमत्वचां रस एव तोयम् ।
वस्त्ररत्नादीत्यादिशब्देन हेम ।
शान्तविग्रहमिति ।
माणिक्येति प्रोक्तध्यानम् ।
तार्क्ष्यादीनिति पूर्वेक्तपक्षीन्द्रादीन् ।
पूर्वादिषु अग्रादिषु ।
देवताधिया यथावद् गुरुं पूजयेदिति सम्बन्धः ।
यथावदित्यनेन पाद्याद्युपचारोक्तिः ॥ ३३-३७ ॥
बीजाङ्कं फणपञ्चकं प्रविलिखेच्छेषस्य भोगे पुन-
र्द्वात्रिंशत्पदसंयुते परिलिखेन्मन्त्राक्षराणि क्रमात् ।
पुच्छे नाम जपादिसाधितमिदं होमेन सम्पातितं
भूतापस्मृतिदुःखरोगशमनं यन्त्रं रिपुध्वंसनम् ॥ ३८ ॥
यन्त्रान्तरमाह बीजाङ्कमिति ।
पूर्वापरायताः पञ्च रेखाः कुर्यात् ।
दक्षिणोदग्गता नव रेखाः कुर्यात् ।
प्राग्रेखाग्रेषु पञ्चसु फणाकारता कार्या ।
पश्चिमाग्रेषु पञ्चसु पुच्छाकारता कार्या ।
तत्र प्रतिफणमेकैकं बीजं लिखेत् ।
जपादीत्यादिशब्देन प्राणप्रतिष्ठापूजे ।
तन्त्रान्तरस्थं यन्त्रमुच्यते—-
षोडशारं महाचक्रं लिखेद् भूर्जे प्रयत्नतः ।
दलेषु मन्त्रवर्णानि युग्मयुग्मक्रमाल्लिखेत् ॥
त्रैलोक्यमोहनं बीजं कणीकायां लिखेद्बुधः ।
श्रीबीजेन संवेष्ट्य क्रोङ्कारेणाऽवरुध्य च ॥
विवादे कलहे न्याये तथा राजकुले जयी ।
मेधाकरी वश्यकरी नरनारीवशङ्करी ॥
शिखायां धारयेद्बाहौ कण्ठे वा कटिसूत्रके ।
सर्वत्र सुभगो लोके सर्वत्राऽप्रतिमो भवेत् ॥
चिन्तामणिर्नाम रक्षा स्वयं सिंहेन निमीता ।
पुनरन्यां प्रवक्ष्यामि रक्षां त्रैलोक्यमोहिनीम् ॥
यस्याः सन्धारणादेव भवेयुः सर्वसम्पदः ।
श्वेतभूर्जे लिखेत्पद्मं द्वात्रिंशत्सिंहसंयुतम् ॥
मध्ये सिंहेश्वरं बीजं लिखेत् पूर्ववदेव तु ।
श्रीबीजेन तु संवेष्ट्य वलयत्रयसंयुतम् ॥
पाशाङ्कुशैश्च संवेष्ट्य पूजयेद्यन्त्रमुत्तमम् ।
त्रैलोक्यमोहनं नाम सर्वकामार्थसाधनम् ॥
चक्रराजं महाराजं सर्वचक्रेश्वरेश्वरम् ।
धारणाज्जयमाप्नोति सत्यं सत्यं न संशयः ॥ इति ॥
कृष्णं रुद्रं महाघोरं भीमं भीषणमुज्ज्वलम् ।
करालं विकरालं च दैत्यान्तं मधुसूदनम् ॥
रक्ताक्षं पिङ्गलाक्षं च अञ्जनं दीप्ततेजसम् ।
सुघोणं सुहनुं चैव विश्वाक्षं राक्षसान्तकम् ॥
विशालं धूम्रकेशं च हयग्रीवं घनस्वनम् ।
मेघनादं मेघवर्णं कुम्भकर्णं कृतान्तकम् ॥
तीव्रतेजमग्निवर्णं महोग्रं विश्वभूषणम् ।
विघ्नक्रमं महासेनं सिंहा द्वात्रिंशदीरिताः ॥ इति ॥ ३८ ॥
क्षकारो वह्निमारूढो मनुस्वरसमन्वितः ।
बिन्दुनादलसन्मूर्धा बीजं नरहरेर्मतम् ॥ ३९ ॥
नृसिंहबीजमुद्धरति क्षकार इति ।
वह्नी रेफः मनुस्वर औ ।
अयमपि स्वतन्त्रो मन्त्रः ।
अस्यर्ष्यादिकं यथा—-
ऋषिरत्रिश्च गायत्री छन्दः श्रीनृहरिः प्रभुः ।
देवता दीर्घयुग्बीजेनैवाऽङ्गं परिकल्पयेत् ॥
ध्यानं पूर्ववदेव स्यादेकलक्षं जपेन् मनुम् ।
तद्दशांशं हुनेत्सम्यक् घृताक्तैः पायसैः शुभैः ॥
अर्चा होमादिकं सर्वमस्य पूर्ववदाचरेत् ।
मन्त्रराजवदेवाऽस्य प्रयोगानपि साधयेत् ॥
हृल्लेखासम्पुटं केचित् सङ्गिरन्ते मनुं त्वमुम् ॥ इति ।
तथा—- अष्टारं विलिखेत्पद्मं श्लक्ष्णं (शुक्लं) कणीकायां युतम् ॥
मूलमन्त्रं लिखेत्तत्र प्रणवेन समन्वितम् ।
एकाक्षरं नारसिंहं नाभ्यां चैव ससाधकम् ॥
जपेदष्टसहस्रं तु सूत्रेणावेष्ट्य तद्बहिः ।
सुवर्णेन तु संवेष्ट्य रौप्येणावेष्टयेत्ततः ॥
ताम्रेणावेष्टयेत् पश्चाल्लाक्षया च प्रयत्नतः ।
पुनर्मन्त्रेण सम्मन्त्र्य ह्यग्निमुत्तारयेत् प्रिये ॥
कण्ठे भुजे शिखायां वा धारयेद्यन्त्रमुत्तमम् ।
नरनारीनरेन्द्राश्च सर्वे स्युर्वशगा भुवि ॥
दुष्टास्तं नैव बाधन्ते पिशाचोरगराक्षसाः ।
चक्रराजप्रसादेन सर्वत्र जयमाप्नुयात् ॥
द्वादशारं महाचक्रं पूर्ववद्विलिखेत् सुधीः ।
मात्राद्वादशसम्भिन्नं दले तल्लेखयेद्बुधः ॥
मध्ये मन्त्रं शक्तियुक्तं श्रीबीजेन तु वेष्टयेत् ।
कालान्तकं नाम चक्रं सुरासुरवशङ्करम् ॥
चक्रमुल्लेखयेत् भूर्जे सर्वशत्रुनिवारणम् ।
यस्य धारणमात्रेण सर्वत्र विजयी भवेत् ॥
स श्लाघ्योऽथ भवेल्लोके यथा देवो नृकेसरी ॥ इति ॥ ३९ ॥
बीजं नमो भगवते नरसिंहाय तत्परम् ।
स्याज्ज्वालामालिने पश्चाद्दीप्तदंष्ट्राय तत्परम् ॥ ४० ॥
अग्निनेत्राय सर्वादि रक्षोघ्नाय पदं वदेत् ।
सर्वभूतविनाशान्तं नकारो दीर्घवान् मरुत् ॥ ४१ ॥
सर्वज्वरविनाशान्ते नायार्णौ दहयुग्मकम् ।
पचद्वयं रक्षयुग्मं हुं फट् स्वाहा धुरवादिकः ॥ ४२ ॥
सप्तषष्ट्यक्षरैः प्रोक्तो ज्वालामाली महामनुः ।
हृत् त्रयोदशभिः प्रोक्तं शिरो दशभिरीरितम् ॥ ४३ ॥
शिखैकादशभिः प्रोक्ता वर्माऽष्टादशभिर्मतम् ।
वर्णैर्द्वादशभिर्नेत्रमस्त्रं स्यात्करणाक्षरैः ।
एवमङ्गानि विन्यस्य चिन्तयेन्मन्त्रदेवताम् ॥ ४४ ॥
ज्वालानृसिंहमन्त्रमाह बीजमिति ।
बीजं नारसिंहम् ।
नकारो दीर्घवान् ना ।
मरुत् यकारः ।
ब्रह्मा ऋषिः अति छन्दः ज्वालामाली नृसिंहो देवता ।
क्षौं बीजं स्वाहा शक्तिः ।
करणाक्षरैश्चतुरक्षरैः ।
ननु मन्त्रस्य सप्तषष्ट्यक्षरत्वमुक्तम् ।
हृत् त्रयोदशभि- रित्यादिनाऽङ्गोक्तौ अष्टषष्ट्यक्षराणि लभ्यन्ते इति पूर्वापरविरोध इति चेत् सत्यम् ।
तत्राङ्गकरणे पदविभेदेनैव अङ्गकरणाद् दंष्ट्राय तत्रैव शिरोऽङ्गस्य समाप्तिः ।
शिखा तु अग्निनेत्रायेत्याद्येकादशभिः ।
मन्त्रे तु दंष्ट्रायाऽग्नीति सन्धिरेवेति न दोषः ॥४०-४४॥
उज्ज्वलत्प्रलयानलाभमयुग्मनेत्रमनारतं
भासुरं शिखिनः शिखाभिरुदग्रदंष्ट्रमुखाम्बुजम् ।
रक्षसां भयदं विकीर्णसटाकलापविभीषणं
शङ्खचक्रकृपाणखेटकधारिणं नृहिरं भजे ॥ ४५ ॥
लक्षमेकं जपेन्मन्त्रं तद्दशांशं समाहितः ।
कपिलाज्येन जुहुयात् समिद्धे हव्यवाहने ॥ ४६ ॥
प्रागुक्ते पूजयेत्पीठे देवं सम्प्रोक्तवर्त्मना ।
कुर्वीत मन्त्रराजोक्तान् प्रयोगान्मनुनाऽमुना ।
विशेषात् क्षुद्रभूतादिनाशनोऽयं मनुः स्मृतः ॥ ४७ ॥
रक्षसां भयदमिति विनियोगोक्तिर्ज्ञेया ।
सटाकलापं स्कन्धकेशरसमूहम् ।
" सटा जटाकेसरयोः " इति कोशः ।
वामाद्यूर्ध्वाद्वामाधस्तनं यावदायुधध्यानम् ॥ ४५-४७ ॥
पाशः शक्तिर्नरहरिरङ्कुशो वर्म फट् मनुः ।
षडक्षरो नरहरेः कथितः सर्वकामदः ॥ ४८ ॥
ऋषिर्ब्रह्मा समुद्दष्टः पङ्क्तिश्छन्द उदाहृतम् ।
देवता नरसिंहोऽस्य षड्बीजैरङ्गकल्पना ॥ ४९ ॥
लक्ष्मीनृसिंहमन्त्रमाह पाश इति ।
पाश आम् ।
शक्तिर्मायाबीजम् ।
नरहरि- र्नृसिंहबीजम् ।
अङ्कुशःक्रोम् ।
वर्म हु� ।
फट् स्वरूपम् ।
क्ष्रौं बीजं माया शक्तिः ।
सर्वकामद इत्यनेन विनियोग उक्तः ॥ ४८-४९ ॥
कोपादालोलजिह्वं विवृतनिजमुखं सोमसूर्याग्निनेत्रं
पादादानाभि रक्तप्रभमुपरि सितं भिन्नदैत्येन्द्रगात्रम् ।
चक्रं शङ्खं सपाशाङ्कुशकुलिशगदादारणान्युद्वहन्तम्
भीमं तीक्ष्णोग्रदंष्ट्रं मणिमयविविधाकल्पमीडे नृसिंहम् ॥ ५०॥
आयुधध्यानं तु दक्षाद्यूर्ध्वयोराद्ये तदधोऽधस्थयोरन्योन्ये इति ।
एवं क्रमेण चतुर्थाभ्यां दक्षवामाभ्यां दारणमुद्रा ।
तल्लक्षणं तु—-
मिथः संसृष्टसम्मुख्योऽङ्गुलयो ऋज्वधोऽग्रकाः ।
स्वस्थानसरलाङ्गुष्ठौ मुद्रेयं दारणा मता ॥ इति ।
ईडे स्तुवे ।
ईड् स्तुताविति धातुः ॥ ५० ॥
ऋतुलक्षं जपेदेनं घृतेन जुहुयात्ततः ।
तत्सहस्रं समिद्धेऽग्नौ तोषयेद्द्रविणैर्गुरुम् ॥ ५१ ॥
अर्चाप्रागीरिते पीठे मूत्तीं मूलेन कल्पयेत् ।
अङ्गावृतेर्बहिश्चक्रं शङ्खं पाशाङ्कुशौ पुनः ॥ ५२ ॥
वज्रं कौमोदकीं खड्गखेटौ पत्रेषु पूजयेत् ।
इन्द्राद्यानेतदस्त्राणि पूजयेद् बाह्यतः सुधीः ॥ ५३ ॥
ऋतुलक्षं षड्लक्षम् ।
तत्सहस्रं षट्सहस्रम् ॥ ५१-५३ ॥
एवं कृत्वा पुरश्चयर्ं मन्त्रेणाऽनेन मन्त्रवित् ।
प्रयोगान् कल्पनिदीष्टान् कुर्यात् स्वस्य परस्य च ॥ ५४ ॥
एवं कृत्वा पुरश्चर्यामिति ।
अत्र सर्वमन्त्राणां साधारणपुरश्चरणविधानमुच्यते ।
तत्र पुरश्चरणशब्दार्थे वायवीयसंहितायाम्—-
साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ।
पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणाम् ॥
पुरतो विनियोगस्य चरणाद्वा तथोदितम् ॥ इति ।
अगस्तिसंहितायामपि—-अथ वक्ष्ये विधानानि पौरश्चरणिके विधौ ।
विना न येन सिद्धः स्यान्मन्त्रो वर्षशतैरपि ॥
तत् पुरश्चरणं नाम मन्त्रसिद्ध्यर्थमात्मनः ।
यथोक्तं नियमं कृत्वा स्वकल्पोक्तजपस्य हि ॥
करणं द्विजयागान्तं प्रोक्तं देशिकासत्तमैः ॥ इति ॥
मन्त्रतन्त्रप्रकाशेऽपि—-धर्मार्थकाममोक्षेषु शास्त्रमार्गेण योजनम् ।
सिद्धमन्त्रस्य सम्प्रोक्तो विनियोगो विचक्षणैः ॥
पुरश्चरणपूर्वेऽसौ विनियोगो मनोर्मतः ।
फलाय मन्त्रसेवाय राजसेवा यथा तथा ॥
चरणात्पूर्वमेवाऽसौ पुरश्चरणमुच्यते ॥ इति ॥
तथा—- सितैकविधहेमन्तशाल्यन्नं स्वीयसञ्चितम् ॥
अशूद्रावहतं पद्भ्यामनुत्तोल्य च यद्धतम् ।
दधि क्षीरं घृतं गव्यम् एक्षवं गुडवजीतम् ॥
तिलाश्चैव सिता मुद्राः कन्दः केमुकवजीतः ।
नारिकेलफलं चैव कदलं लवली तथा ॥
आम्रमामलकं चैव पनसं च हरीतकी ।
व्रतान्तरे प्रशस्तं च हविष्यं मन्यते बुधः ॥
अवैष्णवमसत्यं च यदशस्तं व्रतान्तरे ।
त्याज्यमेवात्र तत्सर्वं यदीच्छेत् सिद्धिमात्मनः ॥
क्षारं च लवणं मांसं गृञ्जनं कांस्यभोजनम् ।
माषाढकीमसूरांश्च कोद्रवांश्चणकानपि ॥
ताम्बूलं च द्विभुक्तं च दुःसंवासं (भाषं) प्रमत्तताम् ।
श्रुतिस्मृतिविरुद्धं च जपं रात्रौ च वर्जयेत् ॥ इति ॥
तथा—- मनः संहरणं शौचं मौनं मन्त्रार्थचिन्तनम् ।
अव्यग्रत्वमनिर्वेदो जपसम्पत्तिहेतवः ॥ इति ॥
तथा—- भूशया ब्रह्मचारित्वं मौनं चर्यानसूयिता ।
नित्यं त्रिषवणस्नानं क्षुद्रकर्मविवर्जनम् ॥
नित्यपूजा नित्यदानं देवतास्तुतिकीर्त्तनम् ।
नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः ॥
जपनिष्ठा द्वादशैते धर्माः स्युर्मन्त्रसिद्धिदाः ।
इति ॥
तथा—- स्त्रीशूद्रपतितव्रात्यनास्तिकोच्छिष्टभाषणम् ।
असत्यभाषणं जिह्मभाषणं परिवर्जयेत् ॥
सत्यैरपि न भाषेत जपहोमार्चनादिषु ।
असद्भाषणमत्यर्थं वर्जयेदन्यपूजनम् ॥
वाङ्मनः कर्मभिर्नित्यं निस्पृहो पतितादिषु ।
वर्जयेद् गीतवाद्यादिश्रवणं नृत्यदर्शनम् ॥
ताम्बूलं गन्धलेपं च पुष्पधारणमेव च ।
मैथुनं तत्कथालापं तद्गोष्ठीः परिवर्जयेत् ॥
कौटिल्यं क्षौरमभ्यङ्गमनिवेदितभोजनम् ।
असङ्कल्पितकृत्यं च वर्जयेन् मर्दनादिकम् ॥
त्यजेदुष्णोदकस्नानं सुगन्धामलकादिकम् ।
शिरोऽङ्ग पञ्चगव्येन पावयेद्बहिरन्तरम् ॥
स्नायाच्च पञ्चगव्येन केवलामलकेन वा ।
शक्तौ त्रिषवणस्नानमन्यथा सकृदाचरेत् ॥ इति ॥
तथा—- अपवित्रकरो नग्नः शिरसि प्रावृतोऽपि वा ।
प्रलपन् वा जपेद्यावत् तावन्निष्फलमुच्यते ॥
सकृदुच्चरिते शब्दे प्रणवं समुदीरयेत् ।
प्रोक्ते पामरशब्देऽपि प्राणायामं सकृच्चरेत् ॥
बहुप्रलापे चावश्यं न्यस्याऽङ्गानि ततो जपेत् ।
क्षुतेऽप्येवं तथाऽस्पृश्यस्थानानां स्पर्शने तथा ॥ इति ।
वायवीयसंहितायामपि—-
उष्णीषी कञ्चुकी नग्नो मुक्तकेशोऽङ्गनावृतः ।
अपवित्रकरोऽशुद्धः प्रलपन्न जपेत् क्वचित् ॥
असंवृतौ करौ कृत्वा शिरसा प्रावृतोऽपि वा ।
चिन्ताव्याकुलचित्तो वा क्रुद्धो भ्रान्तः क्षुधान्वितः ॥
अनासनः शयानो वा गच्छन्नुत्थित एव वा ।
रथ्यायामशिवस्थाने न जपेत्तिमिरान्तरे ॥
उपानद्गूढपादो वा यानशय्यागतस्तथा ।
प्रसार्य न जपेत् पादावुत्कटासन एव वा ॥
पतितानामन्त्यजानां दर्शने भाषिते श्रुते ।
क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सृजेत् ॥
प्राप्तावाचम्य चैतेषां प्राणायामं षडङ्गकम् ।
कृत्वा सम्यग् जपेच्छेषं यद्वा सूर्यादिदर्शनम् ॥
मार्जारं कुक्कुटं क्रौञ्चं श्वादं गृध्र खरं कपिम् ।
दृष्ट्वाऽऽचम्य चरेत्कर्म स्पृष्ट्वा स्नानं विधीयते ॥
एवमादींश्च नियमान् पुरश्चरणकृच्चरेत् ॥ इति ॥
क्रोधं मदं क्षुतं त्रीणि निष्ठीवनविजृम्भणे ।
दर्शनं स्वस्य नीचानां वर्जयेज्जपकर्मणि ॥
आचामेत् सम्भवे त्वेषां स्मरेद्वा मां त्वया सह ।
ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम् ॥ इति ॥
एवमुक्तविधानेन विलम्बत्वरितं विना ।
उक्तसङ्ख्याजपं कुर्यात् पुरश्चरणसिद्धये ॥
देवतागुरुमन्त्राणामैक्यं सम्भावयन्धिया ।
जपेदेकमनाः प्रातःकालान् मध्यन्दिनावधि ॥
जपाङ्गानां दशांशेन विधेयः सिद्धिमिच्छता ।
यत्सङ्ख्यायां समारब्धं तत्कर्त्तव्यमहर्निशम् ॥
यदि न्यूनाधिकं कुर्याद् व्रतभ्रष्टो भवेन्नरः ।
प्रजपेदुक्तसङ्ख्यायाश्चतुर्गुणजपं कलौ ॥ इति ॥
अन्यत्रापि—- कृते जपस्तु कल्पोक्तस्त्रेतायां द्विगुणो जपः ।
द्वापरे त्रिगुणः प्रोक्तश्चतुर्गुणजपः कलौ ॥ इति ॥
मन्त्रतन्त्रप्रकाशे नारायणाष्टाक्षरे—-
जपेन्निरन्तरं विद्वानष्टलक्षाण्यतन्द्रितः ।
मन्त्रसिद्धिरियं प्रोक्ता युगे त्वाद्ये मनीषिभिः ॥
द्वितीये द्विगुणा तस्मात्तत्तोये त्रिगुणा तु सा ।
कलौ चतुर्गुणा प्रोक्ता मुनिभिर्नारदादिभिः ॥ इति ॥
सङ्ख्यापूर्त्तौ निजैर्द्रव्यैर्जपसङ्ख्यादशांशतः ।
यथोक्तकुण्डे जुहुयाद्यथाविधि समाहितः ॥
अथवा प्रत्यहं जप्त्वा जुहुयात्तद्दशांशतः ।
ततो होमदशांशं तु जले सम्पूज्य देवताम् ॥
तर्पयामीति मन्त्रान्ते प्रोक्त्वाऽद्भिर्मूध्नि तर्पयेत् ।
स्वाभिषेकाघमर्षौ च सूर्यार्घ्यं जलपानकम् ॥
प्रणामं मन्त्रतः कुर्यात् पूर्वपूर्वदशांशतः ।
तदन्ते महतीं पूजां कुर्याद् ब्राह्मणभोजनम् ॥
गुरुं सन्तोषयेदेवं मन्त्राः सिध्यन्ति मन्त्रिणः ।
इत्थं पुरश्चरणतः प्रसन्ना देवता भवेत् ॥
दशाङ्गोपासनं भक्त्या पुरश्चरणमुच्यते ।
जपो होमस्तर्पणं च पूजा ब्राह्मणभोजनम् ॥
पूर्वपूर्वदशांशेन कुर्यात्पञ्चाङ्गसंयुतम् ।
यद्यदङ्गं विहीयेत तत्सङ्ख्याद्विगुणो जपः ॥
कर्त्तव्यश्चाऽङ्गसिद्ध्यर्थं तदशक्तेन भक्तितः ।
इति ॥
मन्त्रतन्त्रप्रकाशेऽपि—-असम्भवे तु होमस्य होमात् स्याद् द्विगुणो जपः ।
इति ॥
अन्यत्रापि—- होमकर्मण्यशक्तानां विप्राणां द्विगुणो जपः ।
इतरेषां तु वर्णानां त्रिगुणादिः समीरितः ॥ इति ॥
एकमङ्गं विहीयेत ततो नेष्टमवाप्नुयात् ।
अङ्गहीनं भवेद्यद्यत्तत्तन्नेष्टार्थसाधकम् ॥
सर्वथा भोजयेद्विप्रान् कृतसाङ्गत्वसिद्धये ।
विप्राराधनमात्रेण व्यङ्गं साङ्गं भवेत् सदा ॥
न्यूनातिरिक्तकर्माणि न फलन्ति मनोरथान् ।
तान्येव पूर्णतां यान्ति समस्तानि कृतानि च ॥
अतो यत्नेन विदुषो भोजयेत् सर्वकर्मसु ।
यानि यान्यपि कर्माणि हीयन्ते द्विजभोजनैः ।
निरर्थकानि तानि स्युर्बीजान्यूषरगाणि च ॥ इति ॥
कुलप्रकाशतन्त्रेऽपि—-
संसारे दुःखभूयिष्ठे यदीच्छेत् सिद्धिमात्मनः ।
पञ्चाङ्गोपासनेनैव मन्त्रजापी सुखं व्रजेत् ॥
पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च ।
होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥
यद्यदङ्गं विहीयेत तत्सङ्ख्याद्विगुणं जपम् ।
कुर्वीत त्रिचतुःपञ्चसङ्ख्यया साधकः प्रिये ॥
कुर्वीत साङ्गसिद्ध्यर्थं तदशक्तेन भक्तितः ।
एकमङ्गं विहीयेत मन्त्रान्नेष्टमवाप्नुयात् ॥
अन्नैश्चतुवीधैर्देवि पदार्थैः षड्रसान्वितैः ।
सुभोजितेषु विप्रेषु सर्वं हि सफलं भवेत् ॥
सम्यक्सिद्धैकमन्त्रस्य पञ्चाङ्गोपासनेन हि ।
सर्वे मन्त्राश्च सिध्यन्ति तत्प्रभावात् कुलेश्वरि ॥ इति ॥
अन्यत्र विशेषः—-
अशक्तानां होमे निगमरसनागेन्द्रगुणितो
जपः कार्यश्चेति द्विजनृपविशामाहुरपरे ।
स होमश्चेदेषां सम इह जपो होमरहितो
य उक्तो वर्णानां स खलु विहितस्तच्चलदृशाम् ॥
यं वर्णमाश्रितो यः शूद्रः स च तन्नतभ्रुवां विहितम् ।
विदधीत जपं विधिवच्छ्रद्धावान् भक्तिभारनम्रतनुः ॥ इति ॥
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ।
ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः ॥
नद्यां समुद्रगामिन्यां नाभिमात्रेऽम्भसि स्थितः ।
ग्रहणादि तु मोक्षान्तं जपेन्मन्त्रं समाहितः ॥
अनन्तरं तद्दशांशक्रमाद्धोमादिकं चरेत् ।
तदन्ते मन्त्रसिद्ध्यर्थं गुरुं सम्पूज्य तोषयेत् ॥
ततश्च मन्त्रसिद्धिः स्याद् देवता च प्रसीदति ।
अथवा देवतारूपं गुरुं भक्त्या प्रतोषयेत् ॥
पुरश्चरणहीनोऽपि मन्त्रः सिद्धेन्न संशयः ।
एवं साधितमन्त्रस्तु काम्यकर्माण्यथाचरेत् ॥ इति ॥
अन्यत्रापि—- उपदेशस्य सामर्थ्याच्छ्रीगुरोश्च प्रसादतः ।
मन्त्रप्रभावाद्भक्त्या च मन्त्रसिद्धिः प्रजायते ॥
सिद्धमन्त्राद् गुरोर्लब्ध्वा मन्त्रसिद्धिं च भावयेत् ।
पूर्वजन्मकृताभ्यासान् मन्त्रः शीघ्रेण सिद्धिदः ॥ इति ॥
अन्यत्र तु—- त्रिकालं गन्धपुष्पाद्यैर्याऽर्च्यते देवता निशि ।
पुरश्चरणकृत्येन विनैवाऽसौ प्रसीदति ॥ इति ॥
तथा वैशम्पायनसंहितायाम्—-पुरश्चरणसम्पन्नो मन्त्रो हि फलदायकः ।
किं होमैः किं जपैश्चैव किं मन्त्रन्यासविस्तरैः ॥
रहस्यानां च मन्त्राणां यदि न स्यात् पुरस्क्रिया ।
पुरस्क्रिया तु मन्त्राणां प्रधानं बीजमुच्यते ॥
व्याधिग्रस्तो यथा देही सर्वकर्मसु न क्षमः ।
पुरश्चरणहीनोऽयं तथा मन्त्रोऽपि कीत्तीतः ॥
येषां जपे च होमे च सङ्ख्या नोक्ता मनीषिभिः ।
तेषामष्टसहस्राणि सङ्ख्योक्ता जपहोमयोः ॥
यस्मिंश्च निगदेनैव मन्त्रे सङ्ख्याऽभिधीयते ।
तत्र सर्वत्र मन्त्राणां सङ्ख्यावृद्धिर्युगक्रमात् ॥
कल्पोक्ता च कृते सङ्ख्या त्रेतायां द्विगुणा भवेत् ।
द्वापरे त्रिगुणा प्रोक्ता कलौ सङ्ख्या चतुर्गुणा ॥
अनुक्ते तु हविर्द्रव्ये तिलाज्यं हविरुच्यते ।
शाकं मूलं फलं भैक्ष्यं हविष्यं सक्तवोऽथवा ॥
अथवा क्षीरमात्रं स्यात् पुरश्चर्त्तुश्च वृत्तये ।
न सेवेत स्त्रियं मांसं मधुं वा मन्त्रसाधकः ॥
एतानि सेवमानस्य न सिध्यति पुरस्किरया ।
स्त्रियं शूद्रं न भाषेत पुरश्चरणकृन्नरः ॥
जपं च प्रातरारभ्य कुर्यान् मध्यन्दिनावधि ।
असत्यं नाभिभाषेत नेन्द्रियाणि प्रलोभयेत् ॥
नैरन्तर्यविधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् ।
दिवसातिक्रमात् पुंसो मन्त्रसिद्धिर्भवेन् न हि ॥
शक्तिहीनश्च यो मन्त्रो न सिध्यति कदाचन ।
यावत्सङ्ख्यं जपेदह्नि पूर्वस्मिंस्तावदेव तु ॥
दिनान्तरेऽपि प्रजपेदन्यथा सिद्धिरोधकृत् ।
शिवस्य सन्निधाने तु सूर्याग्न्योश्च गुरोरपि ॥
दीपस्य ज्वलितस्यापि जपकर्म प्रशस्यते ।
शयनं कुशशय्यायां विन्यसेच्छुचिवस्त्रधृक् ॥
तद्वासः क्षालयेन् नित्यमन्यथा विघ्नभाग्भवेत् ।
स्नानं त्रिषवणं प्रोक्तमशक्त्या द्विः सकृत्तु वा ॥
अस्नातस्य फलं नास्ति न चाऽतर्पयतः पितृन् ।
नाऽप्यतर्पयतो देवान् नाऽसत्यमपि जल्पतः ॥
नैकवासा जपेन् मन्त्रं बहुवस्त्रावृतोऽपि वा ।
विपर्यासं न कुर्याच्च कदाचिदपि मोहतः ॥
उपर्यधो बहिर्वस्त्रे पुरश्चरणकृद्बुधः ।
विनियोगविधाने तु भवेदनियमः क्वचित् ॥
पुरश्चरणकार्येषु वर्जयेत्तं प्रयत्नतः ।
कृत्वा मन्त्रजपं मन्त्री पुरस्काराय संयतः ॥
दशांशं जुहुयादग्नौ यथोक्तविधिना बुधः ।
यद्वा जपचतुर्थांशं स्वाहान्तं मन्त्रमुच्चरन् ॥
ततो होमदशांशं तु स्वाहान्तं तर्पयेज्जलैः ।
तर्पणस्य दशांशेन नमोऽन्तं मन्त्रमुद्धरेत् ॥
अभिषिञ्चेत्त् स्वमूर्द्धानं जलैः कुम्भाख्यमुद्रया ।
एवंविधविधानेन कृतमन्त्रपुरस्क्रियः ॥
विनियोगसमारभ्यं यथायथमथाचरेत् ।
इति ।
गोपालमन्त्रे विशेषस्तर्पणे तत्रैवोक्तः—-
इह गोपालमन्त्राणां तर्पणं होमसङ्ख्यया ।
समं ज्ञेयं तु सर्वेषामित्यागमविदो विदुः ॥ इति ॥
अन्यत्रापि—-तर्पयेत्तावदन्येषां मनूनां हुतसङ्ख्यया ।
तर्पणं विहितं नित्यम् ।
इति॥
अथारब्धपुरश्चरणमध्ये सूतकादिकं चेन् निपतति तथापि सङ्कल्पितस्य पुरश्चरणस्य
समाप्तिरेव कर्त्तव्या ।
तथा च विष्णुः—-
व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे ।
प्रारब्धे सूतकं न स्यादनारब्धे तु सूतकम् ॥ इति ।
सूतकमित्युभयं प्रारम्भश्च तत्रैवोक्तः—-
प्रारम्भो वरणं यज्ञे सङ्कल्पो व्रतजापयोः ।
नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया ॥ इति ॥
मन्त्रतन्त्रप्रकाशे पुरश्चरणे सर्वनियमानुक्त्वा—-
शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत् ।
न दोषो मानसे जाप्ये सर्वदेशेऽपि सर्वदा ॥
जपनिष्ठो द्विजः श्रेष्ठः सर्वयज्ञफलं लभेत् ।
सर्वेषामेव यज्ञानां जपयज्ञः प्रशस्यते ॥
अहिंसया हि भूतानां जायतेऽसौ महाफलः ।
यज्ञानां जपयज्ञोऽहमित्याह भगवान् इरिः ॥
जपेनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः ।
कुर्यादन्यन्न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ॥
इत्याहुर्मुनयः शान्ता जपसिद्धा अकिञ्चनाः ।
इति ।
पद्मनाभीयेऽपि—- यावन्तः कर्मयज्ञाः स्युः प्रदीप्तानि तपांसि च ।
सर्वे ते जपयज्ञस्य कलां नाऽर्हन्ति षोडशीम् ॥
जपेन देवता नित्यं स्तूयमाना प्रसीदति ।
प्रसन्ना विपुलान् भोगान् दद्यान् मुक्तिं च शाश्वतीम् ॥ इति ॥
भृगुसंहितायामपि—- ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः ।
सर्वे ते जपयज्ञस्य कलां नाऽर्हन्ति षोडशीम् ॥इति ॥
नारायणीये तु—- जपाशक्तस्य सर्वतः ।
मूलमन्त्राद्दशांशं स्यादङ्गादीनां जपादिकम् ।
जपात् सशक्तिर्मन्त्रः स्यात्कामदा मन्त्रदेवता ॥ इति ॥
जपलक्षणमुक्तं वायवीयसंहितायाम्—-
जपः स्यादक्षरावृत्तिः स उच्चोपांशुमानसः ।
य उच्चनीचस्वरितैः शब्दैः स्पष्टपदाक्षरैः ॥
मन्त्रमुच्चारयेद्वाचा जपयज्ञः स वाचिकः ।
शनैरुच्चारयेन् मन्त्रमीषदोष्ठौ प्रचालयेत् ॥
किञ्चिच्छ्रवणयोग्यः स्यादुपांशुः स जपः स्मृतः ।
धिया यदक्षरश्रेणीं वर्णस्वरपदात्मिकाम् ॥
उच्चरेदर्थसंस्मृत्या स उक्तो मानसो जपः ।
उच्चैर्जपो विशिष्टिः स्याद्यज्ञादेर्दशभिर्गुणैः ॥
उपांशुः स्याच्छतगुणः सहस्रो मानसः स्मृतः ।
इति ।
भृगुसंहितायामपि—-
विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गणैः ।
उपांशुः स्याच्छतगुणः सहस्रो मानसः स्मृतः ॥ इति ।
अन्यत्र तु—- न कम्पयेच्छिरो ग्रीवां जिह्वामोष्ठं न चालयेत् ।
मनसा चिन्तितं बीजं दन्तघातं न कारयेत् ॥ इति ॥
आचार्या अपि—- नातिद्रुतं नातिविलम्बितं च ।
इति ।
मन्त्रतन्त्रप्रकाशे तु विशेषः—-
अपि चान्यं प्रवक्ष्यामि मन्त्रसिद्धिकरं परम् ।
मन्त्रसाधकयोरैक्यं दुर्लभं भुवि मानवैः ॥
उक्तं साङ्कर्षणे तन्त्रे शिवेनाऽखिलवेदिना ।
आनन्दाख्ये पञ्चरात्रे शुक्राय कवये पुरा ॥
संस्कृतं पूजितं मन्त्रं दत्त्वा शिष्याय देशिकः ।
कुर्यादथ तयोरैक्यं शास्त्रदृष्टेन वर्त्मना ॥
मन्त्रं विदर्भयित्वा तु नामवर्णैर्यथाक्रमम् ।
आद्यन्ते सकलं नाम ततः प्रणवमालिखेत् ॥
स्वराः पत्रेषु संलेख्या ध्यायेत्तानमृतात्मकान् ।
भूर्जे रोचनगन्धाद्यैः पद्ममध्ये सुशोभने ॥
मृदा पवित्रयाऽऽवेष्ट्य तत् पुनः सिक्थकेन च ।
निक्षिपेन्मधुरे तत् तु मृण्मये लघुभाजने ॥
क्षीरपूर्णे नवे कुम्भे तत् क्षिपेल्लघुभाजनम् ।
धारयेद् देशिकः कुम्भमग्निकुण्डसमीपतः ॥
मन्त्रसाधकयोरैक्यसिद्ध्यर्थं जुहुयात्ततः ।
मूलमन्त्रेण मन्त्रज्ञः सहस्रं शतमेव वा ॥
कुम्भे सम्पातयेच्चैव मधुराणां त्रयं शुभम् ।
निधाय निक्षिपेत् कुम्भं शनैस्तं महदम्भसि ॥
मन्त्रसाधकयोरैक्यं भवेदेव फलप्रदम् ।
एतद्यो न विजानाति नासौ देशिक उच्यते ॥
रहस्यं कथितं चैतन् न वदेद्यस्य कस्य चित् ।
उत्तमाय तु शिष्याय प्रियपुत्राय वा वदेत् ॥ इति ॥ ५४ ॥
रक्तोत्पलैस्त्रिमध्वक्तैः सहस्रं जुहुयान्नवैः ।
नित्यं मासाद्भवेदिष्टं वत्सराद्धनधान्यवान् ॥ ५५ ॥
रक्तैस्त्रिमधुरोपेतैः पद्मैर्भानुसहस्रकम् ।
जुहुयान्महतीं लक्ष्मीमायुर्वश्यमवाप्नुयात् ॥ ५६ ॥
रक्तोत्पलै रक्तकुवलयैः ।
नवैरपर्युषितैः ।
रक्तैः पद्मैः कोकनदैः ॥५५-५६ ॥
लाजांस्त्रिमधुरोपेतान् प्रातःकालेषु जुह्वतः ।
कन्यासिद्धिर्भवेत्पक्षात् कन्यायाः सद्वरो भवेत् ॥ ५७ ॥
दूर्वाः पयोघृताभ्यक्ता दशोत्तरशतं सुधीः ।
अन्वहं जुहुयात्सम्यग्दीर्घमायुरवाप्नुयात् ॥ ५८ ॥
तस्य रोगाः प्रणश्यन्ति कृत्याद्रोहादिभिः सह ।
सपञ्चगव्यं जुहुयादपामार्गस्य मञ्जरीम् ॥ ५९ ॥
नित्यं सहस्रमानेन सप्ताहं विजितेन्द्रियः ।
होमोऽयं सर्वथा भूतकृत्यारोगान् प्रणाशयेत् ॥ ६० ॥
सतिलैराज्यपामार्गहविराज्यैर्यथाक्रमम् ।
द्विसहस्रं प्रजुहुयात् क्षुद्ररोगग्रहान् जयेत् ॥ ६१ ॥
पयोऽक्तैरमृताखण्डैस्त्रिसहस्रं चतुदीनम् ।
अनेन विहितो होमो ग्रहज्वरविनाशनः ॥ ६२ ॥
नृसिंहशक्तिबीजे द्वे शूले तारगते लिखेत् ।
तत्र ग्रहार्त्तं संस्थाप्य जपेन्मन्त्रं षडक्षरम् ।
आविश्य सद्यस्तं मुञ्चेद् ग्रहः क्रन्दन् भयाकुलः ॥ ६३ ॥
अमृता गुडूची ।
तारगते शूले इति प्रणवस्यादौ यच्छूलाकारं तत्र ।
जपेन्मन्त्रमिति तदुपर्युपवेशितं ग्रहार्त्त स्पृशन्नित्यर्थः ॥ ५७-६३ ॥
आलिख्याऽग्निपुरद्वयं तदुदरे शक्तिं ससाध्यां लिखेत्
षट्कोणेषु षडक्षराण्यथ मनोः किञ्जल्कसंस्थान् स्वरान् ।
पत्रेष्वष्टसु मन्त्रराजविहितान् वर्णान् क्रमाद्वेदशः
काद्यर्णैः पुनरावृत्तं क्षितिपुरे कोणेषु चिन्तामणिम् ॥ ६४ ॥
नारसिंहमिदं यन्त्रं लिखितं भूर्जपत्रके ।
विधृतं शिरसा शीर्षरोगभूतज्वरान् हरेत् ॥ ६५ ॥
बहुनाऽत्र किमुक्तेन मन्त्रैरेतैरुदीरितैः ।
समो नास्ति मनुः कश्चिच्छापानुग्रहकारकः ॥ ६६ ॥
यन्त्रमाह आलिख्येति ।
अग्निपुरद्वयं परस्परव्यतिभिन्नम् ।
मनोः षडक्षर नृसिंहमन्त्रस्य ।
चिन्तामणिं नारसिंहमिति सामानाधिकरण्यम् ।
तेन नृसिंहस्यैकाक्षरं भूर्जपत्रके लिखितमिदं यन्त्रं हरेदिति सम्बन्धः ।
तदुक्तं नृसिंहकल्पे—-
षट्कोणबीजेन विशिष्टकणीकं शक्त्यर्णयुक्मूलचतुष्कलाष्टकम् ।
वृतं जनन्या जगतीगृहास्रके यन्त्रं सचिन्तामणिकं विचिन्तयेत् ॥
आं ह्री� क्ष्रौं क्रों च हु� फट् च शक्तिमन्त्रः कलाष्टकम् ।
अचां युग्मानि चिन्तार्णे नृसिंहैकाक्षरो मनुः ॥ इति ॥ ६४-६६ ॥
तारो भृगुवीयद्भूयस्तदाद्यं वह्निदीर्घयुक् ।
पावकः कवचास्रान्तो मनुः सप्ताक्षरः स्मृतः ॥ ६७ ॥
अहिर्बुध्न्यो मुनिः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतम् ।
देवता मुनिभिः प्रोक्ता चक्ररूपो हरिः स्वयम् ॥ ६८ ॥
आचक्राय हृदाख्यातं विचक्राय शिरः स्मृतम् ।
सुचक्राय शिखा प्रोक्ता धीचक्राय तनुच्छदम् ॥ ६९ ॥
सञ्चक्राय स्मृतं नेत्रं ज्वालाचक्राय तत्परम् ।
षडङ्गमन्त्राः प्रत्येकं द्विठान्ता जातिसंयुताः ॥ ७० ॥
वाराहयन्त्रे सुदर्शनमन्त्रस्योद्दिष्टत्वात्तमाह तार इति ।
तारः प्रणवः ।
भृगुः स ।
वियत् हः ।
तदाद्यं सः ।
वह्नी रेफः ।
दीर्घ आकारः तद्युक् तेन स्रा ।
पावको रेफः ।
कवचं च हु� ।
अस्त्रं फट् ।
सं बीजम् ।
हु� शक्तिः ।
तत् परमस्त्रम् ।
द्विठान्ताः स्वाहान्ताः ॥ ६७-७० ॥
एन्द्रीचक्रेण बध्नामि नमश्चक्राय ठद्वयम् ।
मन्त्रेणाऽनेन कुर्वीत दिशां प्रागादि बन्धनम् ॥ ७१ ॥
प्रागादिदिशामित्यनेन एन्द्रीचक्रेण बध्नामीत्यस्मिन् मन्त्रे एन्द्रीपदस्थाने आग्नेयीत्यादीनां पदानामूहः
कार्य इत्युक्तं भवति ।
एवं दशस्वपि दिशासु ।
तदुक्तम्—-
एन्द्रीं समारभ्य दिशस्त्वधस्तादन्तं समुक्त्वा क्रमशो दशानाम् ।
चक्रेण बध्नामि नमस्तथोक्त्वा चक्राय शीर्षं च दिशां प्रबन्धः ॥ इति ॥ ७१ ॥
त्रैलोक्यान्ते रक्षयुगं हु� फट् स्वाहा ध्रुवादिकः ।
अग्निप्राकारमन्त्रोऽयं रक्षार्थं पुनरात्मनः ॥ ७२ ॥
त्रैलोक्यान्त इत्यत्र मन्त्रे त्रैलोक्यपदं द्वितीयान्तं ज्ञेयम् ।
रक्षेति क्रिया श्रवणात् ।
तदुक्तम्—- त्रैलोक्यं रक्षरक्षेति हु� फट्स्वाहेति चोदितः ।
तारादिकोऽयं मन्त्रः स्यादग्निप्राकारसञ्ज्ञकः ॥ इति ॥ ७२ ॥
प्राकारं तेन कुर्वीत मन्त्रेण मनुवित्तमः ।
सितरक्ताञ्जनप्रख्यं तारं मूर्धनि विन्यसेत् ॥ ७३ ॥
अन्यानग्निनिभान्वर्णान् भ्रुवोर्मध्ये मुखे हृदि ।
गुह्यजानुपदद्वन्द्वसन्धिषु क्रमशो न्यसेत् ॥ ७४ ॥
कुर्वीतेति ।
मनसा अग्निप्राकारं चिन्तयन् आत्मनः प्रदक्षिणं परिभ्रमदुदकं क्षिपेदिति परमगुरवः ।
उक्तञ्च—-
आत्मनः परितो वह्निप्राकारं त्राणनाय च ।
भूतप्रेतपिशाचेभ्यो विधाय तदनन्तरम् ॥
अद्भिः पुष्पाक्षतैश्चैव वह्निबीजास्त्रमन्त्रितैः ।
प्रक्षिपेत् परितो मन्त्री भयविघ्ननिवृत्तये ॥ इति ।
सितेति ।
अकारोकारमकाराणां क्रमेण ध्यानम् ।
पदद्वन्द्वसन्धिषु अन्त्यवर्ण- न्यासः ॥ ७३-७४ ॥
कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं
रक्ताक्षं पिङ्गकेशं रिपुकुलभयदं भीमदंष्ट्राट्टहासम् ।
चक्रं शङ्खं गदाब्जे पृथुतरमुषलं चापपाशाङ्कुशान् स्वैः
बिभ्राणां दोभीराद्यं मनसि मुररिपुं भावयेच्चक्रसञ्ज्ञम् ॥ ७५ ॥
कल्पान्तेति ।
चापं सशरं ज्ञेयम् ।
तदुक्तम्—-
दोभीश्चक्रदरौ गदाब्जकुलिशांश्चास्त्रं च पाशङ्कुशौ ॥ इति ।
अतएव पूजायां सशरं धनुरिति वक्ष्यति ।
आयुधध्यानं दक्षाद्यूर्ध्वाभ्यामाद्ये तदधराधराभ्यामन्य इति ।
अत्र ध्यानानन्तरं चक्रमुद्रां प्रदर्शयेत् ॥ ७५ ॥
अर्कलक्षं जपेन्मन्त्रं जुहुयात्तत्सहस्रकम् ।
तिलैः ससर्षपैः पद्मैबील्वैर्दुग्धौदनैः क्रमात् ॥ ७६ ॥
विष्णोः सम्पूजयेत्पीठे मूत्तीं मूलेन कल्पयेत् ।
अङ्गानि पूर्वमभ्यर्च्य चक्राद्यस्त्राणि तद्बहिः ॥ ७७ ॥
चक्रं शङ्खं गदां पद्मं मुषलं सशरं धनुः ।
पाशाङ्कुशौ दलाग्रेषु लक्ष्म्याद्याः पूजयेत्ततः ॥ ७८ ॥
लक्ष्मीं सरस्वतीं पश्चाद्रतिं प्रीतिं ततः परम् ।
कीत्तीकान्ती तुष्टिपुष्टी सर्वा एताः स्मृता द्विशः ॥ ७९ ॥
पीतरक्तसितश्यामा इन्द्राद्यस्त्राणि तद्बहिः ।
इति सिद्धे मनौ प्रोक्तप्रयोगान् कर्त्तुमर्हति ॥ ८० ॥
आत्मनो वा परार्थं वा दृष्टादृष्टफलप्रदान् ।
दूर्वाहोमो विधातव्यो दीर्घमायुरभीप्सता ॥ ८१ ॥
अर्कलक्षं द्वादशलक्षम् ।
क्रमात् तत्सहस्रं न तु प्रत्येकम् ।
तिलैरिति प्रत्येकं चतुवींशतिशतानि ।
विष्णोः पीठे नारायणाष्टाक्षरोक्ते ।
अभ्यर्च्येति केसरेष्विति शेषः ।
तद्वहिरिति पत्रमध्ये ।
सशरं धनुरित्येकम् ।
दलाग्रेष्विति उत्तरेण सम्बध्यते ।
लक्ष्म्याद्या इत्युत्तरपटलोक्तबीजाद्याः ।
द्विश इति ।
आद्ये द्वे पीते ।
रतिप्रीती रक्ते ।
उपान्त्ये सिते ।
अन्त्ये श्यामे ।
प्रयोगान् कर्त्तुमर्हतीत्यनेनैतदुक्तं भवति ।
ॐ सुदर्शनाय विद्महे चक्र- राजाय धीमहि तन्नश्चक्रः प्रचोदयात् ।
अस्य प्रयोगेषु मूलमन्त्रदशांशजप इति ।
केचिन् महाचक्राय धीमहीति पठन्ति ।
अपेक्षितार्थद्योतनिकायां तु नमश्चक्राय विद्महे सहस्र- ज्वालाय धीमहि तन्नो निवारितः
प्रचोदयादिति गायत्री पठिता ।
पक्षत्रयमपि साम्प्र- दायिकमेव ।
यथागुरूपदेशं च निर्णयः ।
दीर्घमायुरिति मृत्युञ्जयादित्वम् ॥ ७६-८१ ॥
श्रीकामो जुहुयात्पद्मैः फुल्लैराज्यपरिप्लुतैः ।
मेधाकामेन होतव्यं प्रसूनैर्ब्रह्मवृक्षजैः ॥ ८२ ॥
दिनत्रयं यो जुहोति गुलिकाः पुरुनिमीताः ।
अष्टोत्तरसहस्रेण स जयेन्निखिलापदः ॥ ८३ ॥
गव्येनाज्येन गोसिद्ध्यै जुहुयाद्दिवसत्रयम् ।
उदुम्बरसमिद्धोमः पुत्रदायी भवेन्नृणाम् ॥ ८४ ॥
प्रलयाग्निसमं चक्रं यस्य मूर्धनि चिन्तयेत् ।
सप्ताहाज्ज्वरमूर्च्छार्त्ते मण्डलान्मृतिमेति सः ॥ ८५ ॥
श्रीकाम इति श्रीबीजादित्वम् ।
मेधाकामेनेति वाग्भवादित्वं ज्ञेयम् ।
जुहोतीति ।
त्रिदिनमिति ।
चतुदीनं वा ।
" जुहुयात्रिदिनं गुग्गुलगुलिकासहस्रकं चाष्टकं च मन्त्रितमः त्रिदिनं चतुदीनं वा " इत्युक्तेः ।
पुरुर्गुग्गुलः ।
निखिलापद इति ।
नृसिंहबीजादित्वम् ।
मूर्च्छार्ना भवेदिति शेषः ॥ ८२-८५ ॥
अकारादिस्वरावीतं याहियाहिपदावृतम् ।
सकारं चिन्तयेच्छत्रोर्मूर्धन्युच्चाटमावहेत् ॥ ८६ ॥
अकारादीति ।
अकारादीनां वायुबीजयोगो ज्ञेयः ।
तेन यंयामित्यादि उच्चाटमा- वहेदिति दशाहत इति ज्ञेयम् ।
तदुक्तमाचार्यैः—-दशाहतोऽसौ प्रतिबाध्यते रिपुः ।
इति ॥ ८६ ॥
अनेन विधिना शत्रुर्मण्डलान्मृत्युभाग्भवेत् ।
शरच्चन्द्रनिभं सार्णं सुधाधाराभिवषीणम् ॥ ८७ ॥
स्मरेन्मूर्धनि यस्याऽसौ स जीवेद्विगतामयः ।
आत्मानं चक्रनाभिस्थं ध्यात्वा मन्त्रममुं जपेत् ॥ ८८ ॥
एकोऽपि रणभूमिस्थो जयेत् प्रत्यथीनो बहून् ।
अनेन विधिनेत्यनेन प्रयोगान्तरमपि तादृशं सूचितम् ।
यदाहुराचार्याः—-
सान्तं वायसवर्णं शत्रोः शिरसि स्मरेच्च सप्ताहम् ।
उच्चाटयति क्षिप्रं मारयते वा धियोऽस्य नैशित्यात् ॥ इति ॥
शरच्चन्द्रनिभमित्यनेन सितं वं वामित्यादिवीतमिति ज्ञेयम् ।
सार्णं सकाराक्षरं जपेदिति ।
सह नमो स्रार नारा हु� फट् पणेति पादत्रयान्तम् ॐ इति चतुः पादान्तगीतामन्त्रादित्वं ज्ञेयम् ॥ ८७-८९ ॥
अपामार्गस्य समिधो जुहुयादयुतावधि ॥ ८९ ॥
रक्षोभूतपिशाचारिपीडा तस्य न जायते ।
निर्गुण्डीसर्जकनकश्वेतकिंशुकसम्भवैः ॥ ९० ॥
समिद्वरैः कृतो होमः क्षुद्ररोगग्रहापहः ।
अपामार्गस्य समिधः सपीर्मध्ये शृतश्चरुः ॥ ९१ ॥
साज्यमेतानि जुहुयादष्टोत्तरशतं पृथक् ।
साधकाय पुनर्दद्याच्चरुं सम्पातसाधितम् ॥ ९२ ॥
अभिचारकृता द्रोहास्तस्य नश्यन्ति सर्वथा ।
अपामार्गस्य समिधः पञ्चगव्यपरिप्लुताः ॥ ९३ ॥
जुहुयादयुतं मन्त्री दिशासु बलिमाहरेत् ।
दध्योदनेन मनुना क्षुद्ररोगादिशान्तये ॥ ९४ ॥
अपामार्गस्येति ।
फट्स्थाने वषट्कारो ज्ञेयः ।
सर्जः शालः ।
कनको धत्तूरः ।
क्षुद्राः स्तम्भाद्याः षड्रोगाः प्रसिद्धाः ।
ग्रहाः अष्टादश महाग्रहाः सप्तव्यन्तराः ।
पृथगिति प्रत्येकम् ।
चरुं दद्यादिति होमचरुशेषं मन्त्रजप्तञ्च ।
सम्पातसाधितमिति प्रतिद्रव्यसम्पातसाधितम् ।
हुत्वा सम्पातितं शेषं तज्जप्तं प्राशयेश्चरोः ।
इति नारायणीये उक्तेः ।
सर्वथेत्यनेन तद्भस्मानुलेपः ।
क्षुद्रग्रहामयध्वंसि तद्भूत्या चानुलेपनम् ।
इति तत्रैवोक्तेः ।
मनुना वक्ष्यमाण- बलिमन्त्रेण ॥ ८९-९४ ॥
क्षीरवृक्षसमित्क्षीरहविराज्यैः पृथक् पृथक् ।
चतुःसहस्रं होतव्यं शान्तिः स्यात्सर्वतोमुखी ॥ ९५ ॥
क्षीरेति सप्तद्रव्यैः ।
पृथक् पृथगिति प्रत्येकम् ॥ ९५ ॥
दक्षिणोत्तरगं मन्त्री चक्रयुग्मं समालिखेत् ।
वेदादि विलिखेन्मध्ये मन्त्रवर्णान् षडस्त्रिषु ॥ ९६ ॥
मध्यं पीतं कोणषट्कं रक्तं श्यामलमन्तरम् ।
नेमिं श्वेतां लसद्वह्निशिखाभिरुपशोभिताम् ॥ ९७ ॥
दक्षिणोत्तरगमित्यारम्य न संशय इत्यन्तमेकः प्रयोगः ।
चक्रयुग्ममिति ।
षडारं परिधिनेमिसहितम् ।
मन्त्रवर्णानिति सुदर्शनमन्त्रवर्णान् ।
अन्तरमिति षडारसन्धयः ।
नेमिमिति चक्रपरिधिरेखाम् ।
वह्निशिखाभिरिति ।
अग्निज्वालाकारेव वक्ररेखा कार्या इत्यर्थः ।
तदुक्तम्—-विरचितशिखिरेखाकुलम् ।
इति ॥ ९६-९७ ॥
पाथीवं मण्डलं बाह्ये कुर्यादेवं यथाविधि ।
रक्ततोयेन सम्पूर्णं कुम्भं सौम्ये प्रविन्यसेत् ॥ ९८ ॥
आवाह्य पूजयेत्तस्मिंश्चक्रात्मानं जनार्दनम् ।
दक्षिणे मण्डले कुर्याद्धोमकर्म विधानवित् ॥ ९९ ॥
पाथीवमिति ।
कृष्णवर्णम् ।
तदुक्तं नारायणीये—-
बहिः कृष्णवर्णरेखा च पाथीवी ।
इति ।
कुर्यादेवं यथाविधीत्यनेनैतत् पञ्चम्यादि पूर्णान्ततिथिषु कर्त्तव्यमिति सूचितम् ।
तदुक्तम्—-पूर्णासु माङ्गल्य विवाहयात्रासपौष्टिकशान्तिकर्म कार्यम् ।
इति ।
तथा—- हस्तादि पञ्चनक्षत्रे रेवत्याश्विनमुत्तरम् ।
श्रविष्टा रोहिणी पुष्या शान्तिकर्मसु पूजितम् ॥ इति ॥
रक्ततोयेनेति लाक्षादिरसेन रक्ततोयं कृत्वेत्यर्थः ।
सौम्ये उत्तरदिक्स्थचक्र इत्यर्थः ।
तस्मिन्निति कुम्भे ।
दक्षिणे मण्डले दक्षिणदिक्स्थचक्रे ।
विधान विदित्यनेन सपदां हसन्तिकां संस्थाप्य तत्राग्निं प्रतिष्ठाप्य होमकर्म कुर्यादिति सूचितम् ॥ ९८-९९ ॥
क्रमात् सपीरपामार्गैस्तन्दुलैः सर्षपैस्तिलैः ।
पायसैर्गव्यसपीभ्यां षड्विंशत्यधिकं शतम् ॥ १०० ॥
जुहुयादेधिते वह्नौ प्रतिद्रव्यं विधानवित् ।
सम्पातयेत् कुम्भतोये पूजिते सौम्यमण्डले ॥ १०१ ॥
प्रस्थार्धं चरुणा पिण्डं कृत्वा तस्मिन्विनिक्षिपेत् ।
बाह्ये बलिप्रदानार्थं तदर्धमवशेषयेत् ॥ १०२ ॥
स्नातं विशुद्धवस्त्राढ्यै साध्यमानीय तं पुनः ।
दक्षिणे स्थापयेन्मन्त्री कुम्भाग्निभ्यामनन्तरम् ॥ १०३ ॥
अपामार्गैरपामार्गसमिद्भिः ।
उक्तं च नारायणीये " साज्यापामार्गसमिधौ " इति ।
गव्यं पञ्चगव्यम् ।
" सकलैर्गव्यैः " इत्युक्तेः ।
प्रतिद्रव्यमित्यष्टोत्तरसहस्रं मिलित्वा भवति।
तदुक्तं नारायणीये " सहस्राष्टकसङ्ख्यया " इति ।
घृतस्य वारद्वयमुक्तिः क्रमार्था ।
विधानवित् सम्पातयेदित्यनेनाष्टद्रव्यहोमेऽपि सम्पात इति सूचितम् ।
प्रतिद्रव्यमिति काकाक्षिगोलकन्यायेनोभयत्र सम्बध्यते ।
तदुक्तम्—- हुत्वा तद्धुतशिष्टमत्र विधिवत् क्षिप्त्वा प्रतिद्रव्यकम् ।
इति ।
नारायणीयेपि—- हुतशेषं क्षिपेत् कुम्भे प्रतिद्रव्यं विधानवित् ।
इति ।
विधानविदित्यनेन समिधादि होमे आहुत्यन्ते कलशे हस्तमात्रस्पर्शा एव सम्पाता इति सूचितम् ।
पूजिते सौम्यमण्डले इति व्यधिकरणे सप्तम्यौ ।
तस्मिन्निति कुम्भमुखे ।
विनिक्षिपेदिति वषडन्तमूलान्वितसुदर्शनगायत्र्या सा पूर्वेक्ताऽनुसन्धेया ।
तदर्धशेषं होमार्थकृतपायसार्धम् ।
दक्षिण इति चक्रे ।
तत्रत्यां हसन्तीमन्यत्र संस्थाप्येत्यर्थः ।
मन्त्रीत्यनेन सह नमो इति स्रार नारा इति हु� फडिति पादत्रयान्तेन ओमिति चतुर्थपादान्तेन गीतामन्त्रेण
विशिष्टं साध्यस्य सकलीकरणं सूचितम् ॥ १००-१०३ ॥
नीराज्य तौ नयेद्बाह्ये ग्रामादष्टमराशिके ।
स्थापयेत्तौ यथापूर्वं सपरिस्तरणौ क्रमात् ॥ १०४ ॥
नीराज्येति ।
नीराजनं गीतामन्त्रेण ।
एकदैव कुम्भाग्निभ्यां नीराजनं यत् तत् पुरुषान्तरसाहायेनेति ज्ञेयम् ।
ताविति कुम्भाग्नी अष्टमराशिके स्थापयेदिति ।
राशिस्थानान्युक्तानि कादिमते—-
प्राच्यां मेषवृषौ वह्नौ मिथुनं दक्षिणे तथा ।
कुलीरसिंहमथ तन्नैरृत्यां कन्यका स्थिता ॥
तुलाकीटौ पश्चिमतो धनुर्वायौ तु संस्थितम् ।
नक्रकुम्भावुत्तरतो मीनमैशे तु संस्थितम् ॥ इति ॥
एतद्राशिस्थानं ज्ञात्वा साध्यस्य योऽष्टमराशिस्तत्र स्थापयेदित्यर्थः ।
यथापूर्वमिति ।
तद्दक्षिणभागेऽग्निं स्थापयेत् ।
तदुक्तम्—-
अग्न्यादिकमपि सर्वं क्षिपेदथ घटस्य पश्चिमे भागे ।
इति ॥ १०४ ॥
हुत्वा वह्नौ यथापूर्वं शिष्टान्नेन बलिं हरेत् ।
मनुना वक्ष्यमाणेन दशदिक्षु यथाविधि ॥ १०५ ॥
यथापूर्वमित्यष्टभिर्द्रव्यैः उक्तप्रमाणेन च ।
शिष्टान्नेनेति हुतशिष्टान्नेन ।
तदुक्तं नारायणीये—-दद्यादनेन मन्त्रेण हुतशेषान्धसा बलिम् ।
इति ।
आचार्या अपि—-हुतशेषान्नेन बलिम् ।
इति ।
यथाविधीति ।
लोकपालबलिरपि सूचितः ॥ १०५ ॥
सहृद्विष्णुगणेभ्योऽन्ते सर्वशान्तिकरे पुनः ।
भ्यो बलिं प्रतिगृह्णन्तु शान्तये हृदयं ततः ॥ १०६ ॥
ब्राह्मणान् भोजयेत् सम्यङ्मधुरोत्तरमादरात् ।
गुरवे दक्षिणां दद्याद्वस्त्रभूषणसंयुताम् ॥ १०७ ॥
हन्यादयं विधिः पुंसां कृत्यारोगग्रहज्वरान् ।
रक्षः पिशाचमार्यादिक्लेशान् शीघ्रं न संशयः ॥ १०८ ॥
बलिमन्त्रमाह सहृदिति ।
हृन्नमः पदम् ।
हृदयं नमः पदम् एतदन्तो मन्त्रः ।
अस्य प्रणवशक्त्यादित्वं ज्ञेयम् ।
मारी कृत्याविशेषः ।
आदिशब्देनेत्यादिकापदादि ॥ १०६-१०८ ॥
विधाय पञ्जरं मन्त्री फलकैः क्षीरशाखिनाम् ।
पञ्चगव्येन सम्पूर्य तस्मिन् साध्यं निवेशयेत् ॥ १०९ ॥
धौतवस्त्रं विशुद्धाङ्गं स्पृष्ट्वा सम्यग्जपेन्मनुम् ।
पूर्वादिदिक्षु संस्थाप्य वह्निं ब्राह्मणसत्तमैः ॥ ११० ॥
कारयेत्पूर्वसन्दिष्टैर्द्रव्यैर्हेमं विधानवित् ।
तोषयेद्दक्षिणाभिस्तान् यजमानः स्वशक्तितः ॥ १११ ॥
गुरुं च धनधान्याद्यैर्नत्वा सम्प्रीणयेत्तदा ।
सर्वरोगहरः प्रोक्तः कृत्याद्रोहादिनाशनः ॥ ११२ ॥
अपमृत्युहरः पुंसां विधिरेषः प्रकीत्तीतः ।
पञ्चगव्यैः कषायैर्वा क्षीरभूरुहसम्भवैः ॥ ११३ ॥
पूरितैः कलशैर्जप्तैः कृतसम्पातसंयुतैः ।
अभिषिञ्चेद् ग्रहाविष्टमभिचारातुरं नरम् ॥ ११४ ॥
सुस्थो भवति शीघ्रेण विधानेनाऽमुना नरः ।
भानुवारेऽभिषेकस्य विधानेन सुसाधितैः ॥ ११५ ॥
सलिलैः स्रापयेन्नारीं सुखप्रसवकाङ्क्षिणीम् ।
सप्तवाराभिषेकेण सर्वे नश्यन्त्युपद्रवाः ॥ ११६ ॥
क्षीरशाखिनामिति पलाशस्याऽप्युपलक्षणम् ।
तदुक्तं नारायणीये—-
फलकैः कल्पिते पात्रे पलाशक्षीरशाखिनाम् ।
इति ।
आचार्याश्च—-पालाशैर्वा स्तनजद्रुमजैर्वा पञ्जरे कृते फलकैः ।
इति ॥
अनेन क्षीरद्रुमेष्वपि विकल्पो ज्ञेयः ।
सम्यक् जपेदिति चतुदीक्षु क्रियमाणहोम- समाप्तिपर्यन्तमित्युक्तम् ।
पूर्वसन्दिष्टैः घृतादिभिरष्टद्रव्यैः ।
विधानविदित्यनेन प्रतिद्रव्यं षड्विंशत्यधिकशतं होम इत्युक्तम् ।
पञ्चगव्यैः पूरितैरिति व्यधिकरणे तृतीये ।
कलशैरिति नवमिः ।
सम्पातेन होमाक्षेपः ।
होमोऽपि पूर्वेक्ताष्टद्रव्यैः पूर्वेक्तसङ्ख्यः ।
अमुना विधानेन नरः शीघ्रेण सुस्थो भवतीति सम्बन्धः ।
तद्विधानप्रकारो यथा ।
पूर्वेक्तं नवनाभं मण्डलं कृत्वा पूर्ववत् कलशान्नव संस्थाप्य उक्तद्रव्यैरापूर्य मध्ये
मन्त्रोक्तदेवतां सम्पूज्य परितोऽष्टकलशेषु आयुधाष्टकं सम्पूज्य कार्यानुरूपं होमं कृत्वा
तत्सम्पातयुक्तैर्घटैरभिषिञ्चेदिति ।
पञ्चकलशपक्षे पञ्चाब्जं मण्डलं कृत्वा दिक्षु चक्र- गदामुशलपाशा अर्चनीयाः ।
शेषं पूर्ववत् ।
अभिषेकस्य विधानेनेति ।
एककलश- स्थापनप्रकारेण उक्तरूपेण चेत्यर्थः ।
सुसाधितैरित्यनेन पूर्ववद्धोमः सम्पातश्च ।
सप्तसु वारेषु भानुवारेषु योऽभिषेकस्तेन ॥ १०९-११६ ॥
पञ्चगव्ये शृतं सपीर्मन्त्रितं मनुनाऽमुना ।
गभीणीनां ग्रहार्त्तानां सेवितं तच्छुभावहम् ॥ ११७ ॥
पञ्चगव्य इति ।
" अकल्कोऽपि भवेत् स्नेहो यः साध्यः केवले द्रवे " इति परिभाषणात् कल्कं विनैव तद्घृतं साध्यम् ।
तत्र
पञ्चप्रभृति यत्र स्युर्द्रव्याणि स्नेहसंविधौ ।
तत्र क्षीरसमान्याहुः ।
इत्युक्तेः ।
घृतसमान्येव पञ्चगव्यानि दत्त्वा घृतं पचेत् ।
क्षीरदध्यारनालैः वचनात् प्राप्तमपि जलं न देयम् ।
गोमूत्रस्य सत्त्वादिति ॥ ११७ ॥
उच्चस्थानगते शुक्रे मनुना साधुसाधिता ।
त्रिलोहीमुद्रिका हन्यात् क्षुद्रभूतग्रहान् ज्वरान् ॥ ११८ ॥
शुक्रे उच्चस्थानगते मीनगते ।
साधुसाधितेति षष्ठोक्तरीत्या ॥ ११८ ॥
तद्वर्णसङ्ख्यया सूत्रे ग्रन्थीन् कृत्वा जपादिभिः ।
साधितं कल्पयेद्धस्ते कण्ठे वा दुःखशान्तये ॥ ११९ ॥
तद्वर्णसङ्ख्यया मन्त्रवर्णसङ्ख्यया ।
इदमुभयत्र सम्बध्यते ।
तेन सप्त सूत्राणि कृत्वा तत्र सप्त ग्रन्थयो देयाः ।
अस्य प्रयोगस्य विशेषो नारायणीये—-
हुनेद् गव्याक्तापामार्गसमिदाज्यं चरुं घृतम् ।
परिस्तीर्णसिताताम्रसूत्रसन्धिस्थितान् घटान् ॥
क्षीरवृक्षक्वाथपूर्णान् होमकालेऽभिमन्त्रयेत् ।
तत्सङ्ख्यपातैः स्नापयेत् गव्यशेषपुरःसरम् ॥
कल्पयेत्तस्य हस्तादौ तत् सूत्रं ग्रन्थितं जपात् ।
इति ।
जपादिभिरित्यादिशब्देन पूजासम्पातौ हस्ते कर्णे चेति ।
पुमान् दक्षिणे स्त्री
वाम इति ज्ञेयम् ॥ ११९ ॥
पञ्चगव्यं जपेत् स्पृष्ट्वा मन्त्रं दशशतावधि ।
न्यस्तं तत् पद्मपत्रादौ पत्रे वा ब्रह्मवृक्षजे ॥ १२० ॥
फले बिल्वस्य वा मन्त्री गृहे स्वस्य परस्य च ।
निखनेत् सर्वरक्षा स्याद्वर्धते सर्वसम्पदः ॥ १२१ ॥
पलाशक्षीरवृक्षाणां त्वचो मलयजं पुरुम् ।
कुङ्कुमं यामिनीं कुष्ठं बिल्वापामार्गसर्षपान् ॥ १२२ ॥
तिलदूर्वायवान् देवीं तुलसीयुगलं कुशम् ।
लक्ष्मीं गोरोचनां पद्मं वचां गोमयसंयुताम् ॥ १२३ ॥
विष्णुक्रान्तामर्कयुतां जपन्मन्त्रं विनिक्षिपेत् ।
पञ्चगव्येन सम्पूर्णे पात्रे तत् संस्कृतेऽनले ॥ १२४ ॥
संस्थाप्य क्वाथयेत् सम्यग्यावद्भस्म भविष्यति ।
तदादाय जपेद् भूयः प्रयुतं देवता धिया ॥ १२५ ॥
लिपेत्सर्वाङ्गमेतेन किञ्चिच्छिरसि निक्षिपेत् ।
कृत्याद्रोहग्रहोन्मादव्याधिदुःखनिवारणम् ॥ १२६ ॥
सर्वशत्रुप्रशमनं सर्वपापहरं परम् ।
शुभदं वश्यदं पुंसां समस्तापन्निवारणम् ॥ १२७ ॥
गभीणीबालरुग्णानां विशेषेण प्रशस्यते ।
अस्मात्परतरा रक्षा नास्ति लोके प्रकीत्तीता ॥ १२८ ॥
पद्मपत्रादावित्यादिशब्देन ब्रह्मपत्रादिपात्र इत्यादि ।
मन्त्री नरः स्वस्य परस्य वा गृहे निखनेदिति सम्बन्धः ।
पुरुं गुग्गुलम् ।
यामिनी हरिद्रा ।
कुष्ठं कूडम् ।
बिल्वेति बिल्वपञ्चाङ्गम् ।
देवी सहदेवी ।
पद्मेति ।
पद्मपञ्चाङ्गम् ।
पद्मदलादिक- मित्यस्य व्याख्याने अपेक्षितार्थद्योतनिकायां विल्वपञ्चाङ्गं पद्मपञ्चाङ्गमित्युक्तम् ।
अर्केति अर्कत्वक् ।
तदिति पात्रम् ।
सम्यक् क्वाथयेदिति ।
मन्त्रं जपन्नित्युक्तम् ।
प्रयुतमिति दशलक्षम् ।
क्वचिदयुतमिति पाठः ॥ १२०-१२८ ॥
मुस्ता शुण्ठी निशा वह्निरेला यष्टिर्वचा वृषा ।
पाठा विडङ्गं मञ्जिष्ठा द्राक्षा दार्वी सरोहिणी ॥ १२९ ॥
फलत्रयं च तैः कल्कैः पञ्चगव्येषु सपीषाम् ।
प्रस्थं पचेद्यथान्यायं मन्त्रेणाऽनेन साधितम् ॥ १३० ॥
कान्तिदं सुतदं स्त्रीणां भूतप्रेतभयापहम् ।
गर्भरक्षाकरं शुद्धं पञ्चगव्यघृतं विदुः ॥ १३१ ॥
मुस्तेति ।
मुस्ता मोच्छ्य (मुथा) ।
निशा हरिद्रा ।
वह्निश्चित्रकः ।
यष्टिः यष्टिमधु ।
वृषा आढरूषः ।
वासक इति यावत् ।
दार्वी दारुहरिद्रा ।
रोहिणी कटकी ।
फलत्रयं हरितकीबिभीतकामलकानि ।
यथान्यायं वैद्यकशास्त्रोक्तप्रकारेण ।
तत्र सपीःप्रमाणमुक्तमेव ।
कल्कश्च स्नेहपादिकमित्युक्तत्वात् कुडवमात्रं कल्को ग्राह्यः ।
पञ्चप्रभृतीति वचनात् प्रत्येकं पञ्चगव्यानि स्नेहसमानि ।
आज्यावशेषमुत्तार्य शीतलं कृत्वाऽनेन मन्त्रेन साधितं सञ्जप्तम् ॥ १२९-१३१ ॥
टान्तान् सप्त लिखेन्मध्ये षट्सु कोणेषु तेष्वथ ।
मन्त्रवर्णान् लिखेदेतच्चक्रमापन्निवारणम् ॥ १३२ ॥
यन्त्रमाह टान्तानिति ।
मध्यादिषट्कोणेषु सप्त ठकारान् विलिख्य तेषु ठकारेषु क्रमेण मन्त्राक्षराणि लिखेत् ।
मध्ये साध्यसाधककर्मलिखनं च ज्ञेयम् ।
आपदिति श्वासज्वरौ ।
" चक्रं श्वासज्वरापहम् " इति नारायणीय उक्तेः ॥ १३२ ॥
षट्कोणमध्ये विलिखेत् ससाध्यं
तारं षडस्त्रिष्ववशिष्टवर्णान् ।
अङ्गानि तत्सन्धिषु यन्त्रमेतत्
करोति रक्षां विधिवत् प्रजप्तम् ॥ १३३ ॥
यन्त्रान्तरमाह षडिति ।
षडस्रिष्वित्यग्न्यादि ।
विधिवदित्यनेनाऽष्टोत्तरसहस्रं जप उक्तः ।
रक्षां करोति तत्र स्थापितमिति शेषः ।
तदुक्तम्—-
मध्ये तारं तदनु च मनुं वर्णशः कोणषट्के
बाह्ये चाऽङ्गं लिखतु कनके ताम्रके वाऽथ रौप्ये ।
पाषाणे वा विधिवदभिजप्याऽथ संस्थापितं
तत् चक्रं चोरग्रहरिपुभयध्वंसि रक्षाकरं च ॥ इति ॥ १३३ ॥
तारं लिखेत् ठान्तगतं ससाध्यं
कोणेषु शिष्टं मनुवर्णषट्कम् ।
अङ्गानि सन्धिष्वथ षोडशारं
सषोडशार्णं वसुधापुरस्थम् ॥ १३४ ॥
जपित्वा कृतसम्पातं गभीणीनां हितं पुरम् ।
अभिचारग्रहोन्मादान् यन्त्रमेतद्विनाशयेत् ॥ १३५ ॥
यन्त्रान्तरमाह तारमिति ।
ठान्तगतमिति तारविशेषणम् ।
षोडशारमिति ।
षोडशाङ्के समे वृत्ते पञ्चमे पञ्चमे लिखेत् ।
रेखा अङ्के षोडशाद्यं षोडशारमिदं मतम् ॥
इति षोडशारलेखनप्रकारः ।
षोडशार्णं वक्ष्यमाणषोडशाक्षरं चक्रमन्त्रम् ।
अन्येषां षोडशाक्षरशब्देन षोडशदलं तदुपरि च वृत्तं तदुपरि पाथीवमण्डलम् ।
मन्त्रश्च ।
ॐ नमो भगवते वासुदेवाय हु� फट् स्वाहा ।
तदुक्तं नारायणीये—-साङ्ख्यादिन्दोर्बहिः कोणषट्के मन्त्राक्षरान् लिखेत् ।
सन्धिष्वङ्गाद्वहिर्वृत्तात्पत्रषोडशके मनुम् ।
पुनर्वृत्तं च भूगेहे लिखेदेतद्यथाविधि ॥ इति ।
क्वचित् षोडशार्णं तत्सङ्ख्यपत्रे इति पाठः ।
जपित्वेत्यतो हुत्वेति
शेषः ॥ १३४-१३५ ॥
मध्ये तारं ससाध्यं मनुमथ विलिखेत् षट्सु कोणेषु सन्धि-
ष्वङ्गान्यन्ते कलानां युगयुगविलसत् केशराष्टार्णपत्रम् ।
किञ्जल्कान् कादिवर्णैद्वीवसुदललसत्षोडशार्णं स्वनाम्ना
हक्षाभ्यां त्रिःप्रवीतं लिखतु परिवृतं तत् त्रिपाशाङ्कुशाभ्याम् ॥१३६॥
यन्त्रान्तरमाह मध्ये इति ।
मनुं तारव्यतिरिक्तचक्रमन्त्रम् ।
अन्ते षट्कोणबाह्ये ।
कलानां स्वराणाम् ।
अष्टार्णे नारायणाष्टाक्षरः ।
द्विवसुदलं षोडशदलम् ।
स्वनाम्ना साध्यनाम्ना सह हक्षाभ्यां त्रिःप्रवीतं हक्षयोर्मध्ये साध्यनामेत्यर्थः ।
तत् त्रिपाशाङ्कुशाभ्यामित्यावृत्तित्रयम् ।
यस्तु त्रिःप्रवीतमित्यावृत्तित्रयं कथमावृत्तित्रय- मित्यपेक्षायां स्वनाम्ना हक्षाभ्यामेका द्वितीया
पाशेन तृतीयाऽङ्कुशेन ।
द्वितीयं त्रिःपदं सत्त्वरजस्तमोरूपतया आवृत्तिध्यानमिति व्याख्यानात् ।
स नमस्य एव ।
केचन तार पाशाङ्कुशाभ्यामिति पाठं पठित्वा योजयन्ति ।
त्रिःप्रवीतं तत्रैका हक्षाभ्यां स्वनाम्ना अपरा तारेण तृतीया पाशाङ्कुशाभ्यामिति ।
अयमेव पक्षः साम्प्रदायिकः ।
केचन द्वितीयत्रिशब्दस्यैव अकारोकारमकारात्मकत्वात् प्रणव एवार्थ इति व्याचक्षते ।
द्विवचनमावृत्त्यपेक्षया ।
तदुक्तम्—-
त्रिवीतं व्योमान्त्यार्णं स्वनाम्ना विरचितगुणपाशाङ्कुशं चक्रयन्त्रम् ।
इति ।
एतद्व्याख्याने पद्मपादाचार्याः ।
गुणः प्रणवः ।
केवलहक्षाभ्यामावृत्तित्रयम् ।
अपरायामावृत्तौ तारमुक्त्वा साध्यनाम्नोऽक्षरद्वयमुच्चार्य पुनः पाशमुच्चार्य साध्य- नाम्नोऽक्षरद्वयमुच्चार्य
पुनरङ्कुशबीजमुच्चार्य पुनः साध्यनाम्नोऽक्षरद्वयमुच्चारयेत् ।
एवं रूपैर्वर्णैर्वेष्टयेदित्याहुः ।
पाशाङ्कुशवेष्टितमित्यस्य व्याख्याने अपेक्षितार्थद्योत- निकायां पाशेन त्रिवारम् अङ्कुशेनापि त्रिवारमित्युक्तम् ॥ १३६ ॥
तारं नमो भगवते महासुदर्शनाय च ।
वर्मास्त्रान्तश्चक्रमन्त्रः षोडशाक्षर ईरितः ॥ १३७ ॥
षोडशाक्षरं मन्त्रमुद्धरति तारमिति ।
अयमपि स्वतन्त्रो मन्त्रः ।
अस्यर्ष्यादि सर्वं पूर्वमन्त्रोक्तम् ।
अथास्य तन्त्रान्तरस्थं यन्त्रमुच्यते—-
षट्कोणं चक्रमालिख्य तस्यारेषु सुदर्शनम् ।
अष्टारं पङ्कजं बाह्ये दलेष्वष्टाक्षरं परम् ॥
तद्बाह्ये द्वादशारं स्याल्लिखेच्च द्वादशाक्षरम् ।
षोडशारं ततः पद्मं मूलमन्त्रं समालिखेत् ॥
कामबीजेन परितो वेष्टयेद्यन्त्रमुत्तमम् ।
महासुदर्शनं बाह्ये विलिखेद्देशिकोत्तमः ॥
तारं नमो भगवते महासुदर्शनाय च ।
महाचक्राय च महाज्वालङे दीप्तरूपङे ॥
सर्वतो रक्षयुग्मं च महावलसङे द्विठः ।
मध्ये साध्यं समालिख्य प्रणवस्योदरे मुने ॥
सर्वसिद्धिप्रदं यन्त्रमिति देवोऽब्रवीत् स्वयम् ।
इति ॥ १३७ ॥
चक्रमन्त्रमिदं प्रोक्तं सर्वभीतिनिवारणम् ।
क्षुद्रापमृत्युशमनं राज्ञां विजयवर्धनम् ॥ १३८ ॥
रेखा विलिख्याऽष्ट शिरांसि तासा-
माबध्य बाह्ये श्रुतिशः क्रमेण ।
स्थानेहृषीकेशमनुं विभज्य
पादान् लिखेत् कोष्ठचतुष्टयस्थान् ॥ १३९ ॥
अष्टाक्षरार्णैः प्रविदभीतांस्तान्
कोष्ठद्वये चक्रमनुं यथावत् ।
मध्यस्थकोष्ठे विलिखेत्ससाध्यं
स्यात्सप्तकोष्ठाह्वययन्त्रमेतत् ॥ १४० ॥
स्थाने हृषीकेश तव प्रकीर्त्या
जगत् प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ १४१ ॥
सप्तकोष्ठयन्त्रमाह रेखा इति ।
पूर्वापरायता रेखा लिखेत् ।
तासां शिरांसि बाह्ये क्रमेण श्रुतिश आबध्येति सम्बन्धः ।
प्रथमादिरेखाग्रं स्वतुर्याग्रेण मेलयेत् ।
तेन हरीतकीवद्भवतीति केचित् ।
पद्मपादाचार्यप्रभृतिभिः श्रुतिशस्त्रिश इति व्याख्यातम् ।
तेषां मते प्रथमादिरेखाग्रं स्वस्वतृतीयादिरेखाग्रेण सह मेलयेदित्यर्थः।
अन्ये तु पूज्यपादा एवं व्याचक्षते ।
प्रथमरेखाग्रं स्वतुर्यरेखाग्रेणाबध्य पुनस्तृतीयरेखाग्रात् षष्ठरेखा- ग्रमाबध्य पुनः
पञ्चमरेखाग्रादष्टमरेखाग्रं बन्धयेत् ।
एवं द्वितीयापार्श्वेऽपि ।
तदा द्वितीयरेखा सप्तमी च केवलं मध्येऽवशिष्यते ।
ततो द्वितीयरेखायाः पूर्वाग्र- मारभ्योत्तरतो नीत्वा तत्पश्चिमाग्रेण बन्धयेत् ।
एवं सप्तमरेखापूर्वाग्रमारभ्य दक्षिणतो नीत्वा तत्पश्चिमाग्रेण बन्धयेत् ।
एवं बाह्ये इत्युक्तिश्च सार्थका भवति ।
एवं मध्यकोष्ठ- त्रयमेकरेखाबद्धं च भवतीति ।
एवमेतद्यन्त्रलिखनं स्वगुरुसम्प्रदायानुसारेण बोद्धव्य- मिति सङ्क्षेपः ।
अष्टाक्षर प्रविदभीतान् पादान् कोष्ठचतुष्टयस्थान् प्रथमद्वितीयषष्ठ- सप्तमस्थान् लिखेत् ।
विदभीतलक्षणं त्रयोविंशे वक्ष्यते ।
कोष्ठद्वये तृतीयपञ्चमरूपे ।
यथावदिति ससाध्यम् ।
मध्यस्थकोष्ठे चतुर्थकोष्ठे ।
ससाध्यं चक्रमनुमित्यनुषज्यते ।
तदुक्तमाचार्यैः—-कोष्ठत्रयलिखितसाध्य सुदर्शनं च ।
इति ॥ १३९-१४१ ॥
धारितं सप्तकोष्ठं तत् त्रायते महतो भयात् ।
दुःस्वप्नदुर्निमित्तादिशमनं कीत्तीतं बुधैः ॥ १४२ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
षोडशः पटलः समाप्तः ॥ १६ ॥
ब्थ् " बि
धारितमिति ।
धारणप्रकार उक्त आचार्यैः—-
भूर्जे वा क्षौमपट्टे तनुमसृणतरे कर्पटे वाऽस्य यन्त्रं
मन्त्री सम्यग् लिखित्वा पुनरपि गुलिकीकृत्य लाक्षाभिवीतम् ।
कृत्वा भस्मादिहोमप्रविहितघृतसम्पातपातात्तशक्ति
जप्तं सम्यक् प्रबध्यात्प्रतिशममुपयान्त्येव सर्वे विकाराः ॥ इति ॥
तन्मन्त्रमित्यर्थः ।
नपुंसकलिङ्गेऽपि मन्त्रशब्दस्य बहुषु स्थलेषु प्रयोगात् ।
तेनायमर्थः ।
गीतामन्त्रविदभीतः साष्टाक्षरश्चक्रमन्त्रोऽपि जप्त एतत्फलद इति ।
तदुक्तमाचार्यैः—-स्थाने हृषीकेशविदभीतं च साष्टाक्षरं चाप्यभिजप्तमेतत् ।
रक्षां ग्रहादेः सततं विधत्ते यन्त्रं सुकॢप्तं च मनुत्रयेण ॥ इति ॥
स्थाने हृषीकेशेति मन्त्रस्य चतुभीश्चरणैः सर्वेण पञ्चाङ्गं कृत्वा
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्वित्तिश्च वेदाः ।
वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥
इति ध्यात्वा कणीकायां देवं पत्रेष्वङ्गानि तद्वहिर्लेकपालानर्चयेत् ।
दशलक्षजपः पुरश्चरणम् ।
दशांशं घृतेन होमः ।
सर्वपापक्षयसर्वशान्तिसर्वग्रहनिवारण सर्वरक्षोघ्नमिति फलम् ॥ १४२ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां षोडशः पटलः ॥ १६ ॥
ब्थ् " बि