अथ पञ्चदशः पटलः
अथ वक्ष्ये महामन्त्रान् विष्णोः सर्वार्थसाधकान् ।
यस्य संस्मरणात् सन्तो भवाब्धेः पारमाश्रिताः ॥ १ ॥
क्रमप्राप्तान् विष्णुमन्त्रानाह अथेति ।
सर्वार्थेति सकामं प्रति विनियोगोक्तिः ।
मुमुक्षुं प्रत्याह यस्येति ॥ १ ॥
तारं नमः पदं पश्चान्नरौ दीर्घसमन्वितौ ।
पवनो णाय मन्त्रोऽयं प्रोक्तो वस्वक्षरान्वितः ॥ २ ॥
साध्यनारायणः प्रोक्तो मुनिश्छन्द उदाहृतम् ।
मन्त्रस्य देवी गायत्री देवता विष्णुरव्ययः ॥ ३ ॥
मन्त्रमुद्धरति तारमिति ।
नरौ नकाररेफौ दीर्घ आ तेन समन्वितौ तेन नारा इति ।
अत्र नमः शब्दस्य रोरुत्वे गुणे च ओङ्कार इति ज्ञेयम् ।
पवनो यः ।
णायेति स्वरूपम् ।
वस्वक्षरः अष्टाक्षरः ।
तदुक्तं मन्त्रतन्त्रप्रकाशे—-
नाभसं पञ्चमे षष्ठे स्थितं वर्णद्वयं क्रमात् ।
द्वितीयो मिश्रसंयुक्तस्तृतीयः स्यात्तु पञ्चमः ॥
वह्निर्वायुस्ततः प्रोक्तौ सानन्तौ त्रिचतुर्थकौ ।
चतुर्थे पञ्चमस्तद्वन्मन्त्रान्ते वायुवर्णकम् ॥ इति ।
अत्र नाभसमित्यनुषज्यते ।
तेन पञ्चमे तवर्गे यन्नाभसं नकाररूपाक्षरं तत् तृतीयं मन्त्रं तृतीयमक्षरमित्यर्थः ।
अत्र तृतीयमिति प्रणवं विना ।
सानन्तौ आकारयुक्तौ ।
त्रिचतुर्थकौ नकाररेफौ ।
चतुर्थे टवर्गे यत् पञ्चममक्षरं नकारमित्यर्थः ।
पञ्चमे तवर्गे षष्ठे पवर्गे यन्नाभसमक्षरं नकारमकाररूपं क्रमेणोद्धरणीयम् ।
तत्र द्वितीयो मकारः मिश्रेण ओकारेण संयुक्तः ।
प्रणवो बीजम् आयेति शक्तिः ।
तदुक्तं मन्त्रतन्त्रप्रकाशे—-
ज्वलत्प्रभः श्रुतेरादिबीन्दुमान् विष्णुरव्ययः ।
बीजमष्टाक्षरस्य स्यात्तेनाऽष्टाक्षरता भवेत् ॥
अथ पञ्चदशाद्वर्णात् केवलं व्यजनीकृतात् ।
उत्तरो मन्त्रशेषस्तु शक्तिरित्यस्य कथ्यते ॥ इति ।
साध्यनारायणो नामाऽन्तर्यामीति देशिकाः ।
तदुक्तं मन्त्रतन्त्रप्रकाशे—-
अन्तर्यामी ऋषिः छन्दो गायत्री ।
इति ।
प्रत्यर्णमृष्यादि यथा—-
गौतमश्च भरद्वाजो विश्वामित्र ऋषिस्तथा ।
जमदग्निर्वशिष्ठश्च कश्यपोऽत्रिश्च कुम्भजः ॥
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ।
त्रिष्टुब्जगत्यौ च विराट् वसवोऽष्टौ च देवता ॥ इति ॥ २-३ ॥
क्रुद्धोल्काय हृदाख्यातं महोल्काय शिरः स्मृतम् ।
वीरोल्काय शिखा प्रोक्ता द्यूल्काय कवचं स्मृतम् ॥ ४ ॥
सहस्रोल्कायाऽस्त्रमुक्तमङ्गकॢप्तिरियं मता ।
पञ्चाङ्गमन्त्रोद्धारमाह क्रुद्धोल्कायेत्यादि ।
चतुर्थ्यन्तोद्धारेण सर्वेषां स्वाहान्तता जातिः पूर्वमुक्ता ।
उक्तं च मन्त्रतन्त्रप्रकाशे—-
उल्कैः क्रुद्धमहावीरद्युसहस्रेति पूर्वकैः ।
एषां विभक्तियुक्तानां भवेदन्तेऽग्निवल्लभा ॥ इति ॥
अन्यत्रापि—-क्रुद्धोल्कादिपदैर्वह्निर्जायान्तैर्जातिसंयुतैः ।
इति ।
अङ्गकॢप्तिरियं मतेत्यनेन पूर्वं करन्यासः सूचितः ।
स यथा—-
कुर्यात्करयोवीधिवत् सृष्ट्यादिन्यासमष्टमन्त्रार्णैः ।
दक्षिणतर्जन्याद्या सृष्टिः स्याद्वामतर्जनीं यावत् ॥
तर्जन्युभयाद्येह स्थितिः कनिष्ठाद्वयान्तिका क्रमतः ।
सृष्टेवीपरीतः स्यात् संहारोऽयं करे प्रोक्तः ॥
अष्टाङ्गं विन्यस्य स्थितिक्रमादङ्गपञ्चकं न्यसेत् ॥ इति ।
तत्र विशेषो नारायणीये—-
कनिष्ठादि तदन्तानामङ्गुलीनां त्रिपर्वसु ।
ज्येष्ठाग्रेण क्रमात्ताररुद्धानष्टाक्षरान् न्यसेत् ।
इति ॥ ४-५ ॥
भूयो वर्णैर्मनोः षड्भिः षडङ्गानि समाचरेत् ॥ ५ ॥
अवशिष्टौ पुनर्वर्णौ विन्यसेत् कुक्षिपृष्ठयोः ।
बद्धदिक् चक्रमन्त्रेण मन्त्रवर्णांस्तनौ न्यसेत् ॥ ६ ॥
पञ्चाङ्गमुक्त्वाऽष्टाङ्गमाह भूय इति ।
तत्र षडङ्गवदेव षडक्षराणि विन्यस्य णाम् उदराय नमः यं पृष्ठाय नम इति कुक्षिपृष्ठयोर्न्यसेत् ।
तदुक्तम्—-
अष्टाक्षरेण व्यस्तेन कुर्याच्चाऽष्टाङ्गकं सुधीः ।
सहृच्छिरः शिखावर्मनेत्रास्योदरपृष्ठके ॥ इति ।
ईशानशिवेनाप्युक्तम्—-
अस्य स्याद्धृदयं तारः शिरो नार्णः शिखा च मो ।
नावर्णः कवचं श (चा) स्त्रं रावर्णे नयनं परः ॥
उदरं पृष्ठमन्त्यौ च वर्णौ हि नमसा युतौ ॥ इति ।
अन्यत्रापि—-हृदयशिरः पूर्वशिखा कवचास्त्राक्ष्युदरपृष्ठसम्भिन्नैः ।
इति ॥
इदमेव साम्प्रदायिकम् ।
बद्धदिगिति छोटिकां वादयन् ।
चक्रमन्त्रेणेति अग्रिम- पटले वक्ष्यमाणेन एन्द्रीचक्रेण बध्नामि इत्यादिना ।
चतुर्थपटले सामान्यास्त्रमन्त्रेण दिग्बन्ध उक्तः ।
अत्र मन्त्रविशेषकथनाय पुनर्वचनम् ।
मन्त्रवर्णांस्तनौ न्यसेदित्यनेन सृष्टिस्थितिसंहारन्यासः सूचितः ।
यदाहुः—-
मूर्द्धन्यक्ष्णोरास्ये हृदि नाभौ गुह्यजानुपादेषु ।
सृष्टिरियं निदीष्टा नाभ्यादि हृदन्तिका स्थितिस्तद्वत् ॥
संहारः पादाद्यो मूर्द्धान्तः कथित एष सृष्ट्यादिः ॥ इति ।
मन्त्रतन्त्रप्रकाशे तु—- नाभावारभ्यते यस्तु हृदये च समाप्यते ।
स्थितिन्यासः स विज्ञेयो दृष्टादृष्टफलप्रदः ॥ इति ।
इदमेव साम्प्रदायिकम् ।
तत्रैव विशेषः—-
विन्यसेद्वर्णमेकैकं बिन्द्वन्तं ध्रुववेष्टितम् ।
तत्राङ्गुलीभिर्न्यासः स्याच्छिरस्येकैव मध्यमा ॥
तर्जनीमध्यमाभ्यां तु चक्षुषोर्न्यास इष्यते ।
अङ्गुष्ठानामिकाभ्यां तु मुखे न्यासः प्रकीत्तीतः ॥
हृदये ज्ञानमुद्रा स्यादङ्गुष्ठश्च कनिष्ठिका ॥
नाभौ प्रकीत्तीता गुह्ये अनङ्गुष्ठाः प्रकीत्तीताः ।
सर्वा जानौ च पादे च पञ्चापि परिकीत्तीताः ॥ इति ॥ ५-६ ॥
आधारे हृदये वक्त्रे दोःपन्मूलेषु नासिके ।
कण्ठे नाभौ हृदि कूर्चे पार्श्वपृष्ठेषु तत्परम् ॥ ७ ॥
मूर्द्धास्यनेत्रश्रवणघ्राणेषु तदनन्तरम् ।
दोः पादसन्ध्यङ्गुलिषु धातुप्राणेषु हृत्स्थले ॥ ८ ॥
मूर्द्धेक्षणास्यहृत्कुक्षिसोरुजङ्घापदद्वये ।
एकैकशो न्यसेद्वर्णान् गण्डांसोरुपदेषु च ॥ ९ ॥
चक्रशङ्खगदाम्भोजं पदेष्ववहितो न्यसेत् ।
एवं पञ्चाङ्गाष्टाङ्गाक्षरन्यासानुक्त्वा दशावृत्तिमयं विभूतिपञ्जरन्यासमाह आधारेति ।
अत्र प्रत्येकमक्षरं प्रणवपुटितं कृत्वा न्यसेत् ।
मन्त्रतन्त्रप्रकाशे तथोक्तेः ।
प्रत्यावृत्तिसम्पूर्णेन व्यापकं च ।
तथाच पद्मपादाचार्याः—- " मन्त्री मन्त्रवर्णेति न्यास- मन्त्राणां प्रणवपुटितत्वं प्रतिपर्यायं
व्यापकन्यासश्चोक्तः " इति ।
पूर्वार्द्धेनैकावृत्तिः ।
तत्र कः समासः ।
द्वितीयार्द्धेन द्वितीया ।
तृतीयार्द्धेन तृतीया ।
चतुर्थार्द्धेन तुर्याद्यष्टमान्तं पञ्च।
तत्र दक्षकरसन्धिचतुष्टयाङ्गुष्ठवर्जं चतुरङ्गुलिष्वेका ।
अन्ये तु दक्षहस्तसन्धित्रयपञ्चाङ्गुलिष्वित्यूचुः ।
एवं वामकरे द्वितीया ।
दक्षपादे तृतीया ।
वामपादे चतुर्थी ।
अन्ये तु करद्वयसन्धिष्वेका ।
पादद्वयसन्धिष्वन्या ।
अङ्गुष्ठद्वयवर्जकराङ्गुलिषु तृतीया ।
एवं पादाङ्गुलिषु चतुर्थीत्याहुः ।
हृदय एव त्वगादिषु पञ्चमी ।
पञ्चमार्द्धेन नवमी ।
श्लोकेन दशमी ।
तत्र गण्डांसोरुचरणेषु चतुरो वर्णान् विन्यस्य चक्रशङ्खगदापद्मप्रस्थानेषु शिष्टांश्चतुरो वर्णान्
तदायुधमुद्रासहितान् विन्यसेत् इत्यवहितपदेन सूचितमिति सम्प्रदायविदः ।
तन्मुद्रालक्षणं तु—-
वाममुष्ट्यन्तरेऽङ्गुष्ठे दक्षिणे सरलाङ्गुलीः ।
वामाङ्गुष्ठः स्पृशेदग्रे योजितः सरलोदरः ॥
अन्योन्याभिमुखौ हस्तौ कृत्वा तु ग्रथिताङ्गुलीः ।
अङ्गुल्यौ मध्यमे भूयः संलग्ने सुप्रसारिते ॥
गदामुद्रेयमाख्याता भुक्तिमुक्तिकरी तथा ।
इति ॥
चक्रपद्ममुद्रालक्षणे प्रागुक्ते ॥ ७-१० ॥
अष्टार्णेऽष्टप्रकृत्यात्मा ज्ञेयोऽसौ चतुरात्मनाम् ॥ १० ॥
संयोगात् सूरिभिः प्रोक्तो विशिष्टो द्वादशाक्षरः ।
मूत्तीपञ्जरं वक्तुं तदुपोद्घातत्वेन द्वादशाष्टाक्षरयोरैक्यमाह अष्टेति ।
अष्ट प्रकृतयः प्रथमपटलोक्ताः ।
अष्टप्रकृतय इत्यनेनाऽष्टतत्त्वन्यासः सूचितः ।
स द्विविधः संहारसृष्टिरूपः ।
तत्र संहारे मन्त्रः अनुलोमः ।
सृष्टौ मन्त्र प्रतिलोमः ।
तत्त्वानि पृथिव्यप्तेजोवायवाकाशाहङ्कारमहत्प्रकृतिरूपाणि ।
स्थानानि तु पादलिङ्ग हृदयमुख- मूर्द्धहृदयहृदयानि सप्त ।
सर्वतनौ चैकम् ।
सृष्टौ तत्त्वानुलोम्यञ्च विज्ञेयम् ।
तत्र प्रयोगः ।
ॐ नमः पराय पृथिव्यात्मने नमः पादयोः, नं नमः पराय जलात्मने नमः लिङ्ग इत्यादि संहारे ।
ततः सृष्टौ प्रयोगः ।
यं नमः पराय प्रकृत्यात्मने नमः सर्वशरीरे ।
णां नमः पराय महदात्मने नमो हृदीत्यादि ।
तदुक्तम्—-
क्षितिसलिलानलपवनव्योमाहङ्कृतिमहत्प्रकृत्याख्यैः।
व्युत्क्रमगदितैरेतैः क्रमगतमन्त्रार्णसंयुतैर्मन्त्री ॥
चरणान्धुहृदयवक्त्त्रकहृदयव्यापकेषु विन्यसेत् ।
संहारोऽयं गदितो विपरीता सृष्टिरस्य निदीष्टा ॥ इति ॥
चतुरात्मनां तुर्येक्तानाम् ।
अनेन बिन्दुनादशक्तिशान्तरूपाणाम् आत्मादि- चतुष्टयानां शरीरे व्यापकत्वेन न्यासः सूचितः ।
प्रयोगश्च—-ॐ बिन्दुरूपात्मने नमः, ॐ नादरूपान्तरात्मने नमः, ॐ शक्ति- रूपपरमात्मने नमः, ॐ
शान्तिरूपज्ञानात्मने नम इति ॥ १०-११ ॥
अतस्तन्मन्त्रवर्णाद्या द्वादशस्वरसंयुताः ॥ ११ ॥
द्वादशादित्यसहिता मूर्त्तीर्द्वादश विन्यसेत् ।
केशवाद्याः क्रमाद्देहे वक्ष्यमाणविधानतः ॥ १२ ॥
ललाटे केशवं धात्रा कुक्षौ नारायणं पुनः ।
अर्यम्णा हृदि मित्रेण माधवं कण्ठदेशतः ॥ १३ ॥
वरुणेन च गोविन्दं पुनर्दक्षिणपार्श्वके ।
अंशुना विष्णुमंसस्थं भगेन मधुसूदनम् ॥ १४ ॥
गले विवस्वता युक्तं त्रिविक्रममनन्तरम् ।
वामपार्श्वस्थमिन्द्रेण वामनाख्यमथांसके ॥ १५ ॥
पुष्णा श्रीधरनामानं गले पर्जन्यसंयुतम् ।
हृषीकेशाह्वयं पृष्ठे पद्मनाभं ततः परम् ॥ १६ ॥
त्वष्ट्रा दामोदरं पश्चाद्विष्णुना ककुदि न्यसेत् ।
द्वादशार्णं महामन्त्रं ततो मूध्नी प्रविन्यसेत् ॥ १७ ॥
न्यासमेवाह अत इति ।
तन्मन्त्रवर्णाद्याः द्वादशाक्षरमन्त्रवर्णाद्याः ।
द्वादशस्वराः नपुंसकचतुष्टयव्यतिरिक्ताः तैः संयुताः ।
द्वादशादित्यसहिताः केशवाद्या द्वादश मूर्त्तीः देहे वक्ष्यमाणविधानतः क्रमात् विन्यसेदिति सम्बन्धः ।
तत्र प्रयोगः—-ओम्म् अं केशव- धातृभ्यां नमः ललाट इत्यादि ।
केचन धातृसहिताय केशवाय नमः इति ।
अन्ये तु केशवाय धात्रे नमः इत्याहुः ।
कुक्षाविति नैकट्यान्नाभिभागो लक्ष्यते ।
अर्यम्णेति ।
पश्चात्तनेन सम्बध्यते ।
कण्ठदेशत इत्यस्याऽग्रिमेण सम्बन्धः ।
अंशुना विष्णुमिति पश्चात्तनेन सम्बध्यते ।
अंसस्थमिति दक्षिणांसस्थम् ।
गले ग्रीवादक्षिणभागे ।
दक्षिणपार्श्वत इत्यतो दक्षिणपदानुवृत्तेरुभयत्र ।
अथांसक इत्यस्याग्रिमेण सम्बन्धः ।
तत्रांसके वामांसके ।
गले ग्रीवावामभागे ।
वामपार्श्वस्थमित्यतो वामपदानुवृत्तेरुभयत्र ।
तदुक्तं दक्षिण- पार्श्वांसतद्गले तथा वामत्रय इति ।
अन्यत्रोभयत्र गलस्थाने कर्णमाहुः ।
हृषीकेशा- ह्वयमिति पूर्र्वेण सम्बध्यते ।
त्वष्ट्रेत्यस्यापि पूर्वेणाऽन्वयः ।
ककुदीति पृष्ठगतग्रीवाभागे।
तदुक्तं स्वायम्भुवे नारसिंहे—-
केशवं विन्यसेत्तार्क्ष्यमूर्द्धदेशेऽथ विष्णुना ।
नाभौ नारायणं देवं विष्णुं तेन समन्वितम् ॥
माधवं हृदि विन्यस्येत् मन्मथेन च संयुतम् ।
मन्मथान्तेन संयुक्तं गले गोविन्दसञ्ज्ञकम् ॥
विष्णुं भूतस्वरेणाऽथ दक्षपार्श्वे विनायकम् ।
तदंशे मातृबीजेन सूदनं मधुपूर्वकम् ॥
बिन्दुना शिवयुक्तेन दक्षकर्णे त्रिविक्रमम् ।
वामनं श्रीधरं चैव हृषीकेशमतः परम् ॥
वामे चैकारमोकारमौकारं बिन्दुना सह ।
बिन्दुना पद्मनाभं च पृष्ठदेशे तदङ्गयुक् ॥
अन्त्यं ककुदि दामेन द्वादशाङ्गमिति स्मृतम् ।
द्वादशेमानि बीजानि नादबिन्दुयुतानि च ॥
आदित्या द्वादशे प्रोक्ता द्वादशाक्षरसंयुताः ।
इति ।
अन्यत्रापि—- केशवादि युगषट्कमूत्तीभिर्धातृपूर्वमिहिरान्नमोऽन्तगान् ।
द्वादशाक्षरभवाक्षरैः स्वरैः क्लीबवर्णरहितैः पृथग् न्यसेत् ॥ इति।
केशवादि मूर्त्तीनां मन्त्रोद्देशाच्च क्लीबरहितत्वं गम्यते ।
महामन्त्रमष्टाक्षरम् ।
तदुक्तं मन्त्रतन्त्रप्रकाशे—-
अष्टाक्षरेण सहितं विन्यसेद् द्वादशाक्षरम् ॥ इति ।
" मन्त्रविन्मूर्घ्नीत्यष्टाक्षरेण सार्द्धमित्यर्थः " इति पद्मपादाचार्याः ॥ ११-१७ ॥
पुनः किरीटमन्त्रेण व्यापकं विन्यसेत्ततः ।
ब्रूयात्किरीटकेयूरहारं मकरकुण्डलम् ॥ १८ ॥
शङ्खचक्रगदाम्भोजहस्तं पीताम्बरं धरम् ।
श्रीवत्साङ्कितवक्षोऽन्ते स्थलशब्दमुदीरयेत् ॥ १९ ॥
श्रीभूमिसहितस्वात्मज्योतिर्द्वयमुदाहृतम् ।
पश्चाद्दीप्तिकरायेति सहस्रादित्यतेजसे ॥ २० ॥
नमोऽन्तः प्रणवाद्योऽयं किरीटमनुरीरितः ।
एवं न्यासं तनौ कृत्वा ध्यायेन्नारायणं परम् ॥ २१ ॥
किरीटमन्त्रमुद्धरति ब्रूयादिति ।
हारमित्यादौ शब्दकर्मणि द्वितीया ।
मन्त्रे तु सम्बुध्यन्तानि सर्वाणि ।
कुण्डलमिति कुण्डलालङ्कृतेति मन्त्रभागः ।
तथापि पद्मपादाचार्याः—- " मन्त्रविन् मकरान्ते कुण्डलमिति मकरकुण्डलालङ्कृत इति पदाध्याहारः सूचितः " इति ।
मन्त्रतन्त्रप्रकाशेऽपि—-
तारः किरीटकेयूरहारान्ते मकरं पदम् ।
कुण्डलालङ्कृतेत्यन्ते चक्रशङ्खगदापद्मम् ॥ इति ॥
श्रीभूमिसहितस्वात्मज्योतिर्द्वयमिति स्वरूपम् ।
न तु ज्योतिः पदस्य द्विरुक्तिः ।
तथा चाचार्याः—-श्रीभूमिसहितस्वात्मज्योतिर्द्वयपदं वदेत् ।
इति ॥ १८-२१ ॥
उद्यत्कोटिदिवाकराभमनिशं शङ्खं गदां पङ्कजं
चक्रं बिभ्रतमिन्दिरावसुमतीसंशोभिपार्श्वद्वयम् ।
कोटीराङ्गदहारकुण्डलधरं पीताम्बरं कौस्तुभो-
द्दीप्तं विश्वधरं स्ववक्षसि लसच्छ्रीवत्सचिन्हं भजे ॥२२॥
आयुधध्यानं तु दक्षाधोवामोर्ध्वदक्षोर्ध्ववामाधःक्रमेण ।
तदुक्तं हयशीर्ष पञ्चरात्रे—- पङ्कजं दक्षिणे यस्य पाञ्चजन्यं तथोपरि ।
वामाधस्तु गदा यस्य चक्रं चोर्ध्वे व्यवस्थितम् ॥
आदिमूर्त्तेस्तु भेदोऽयं केशवेन प्रकीर्त्त्यते ।
इति केशवलक्षणमुक्त्वा—- अधरोत्तरभावेन कृतमेतत्तु यत्र वै ।
नारायणाख्या विज्ञेया स्थापिता भुक्तिमुक्तिदा ॥ इति ।
मन्त्रतन्त्रप्रकाशेऽपि—- सव्यान्यपाणौ प्रथमे तु पद्मं विभ्राणमब्जं तदनन्तरे च ।
आद्ये गदा वामकरेऽथ चक्रं विराजयन्तं भुवनानि भासा ॥ इति।
ध्यानविशेषाश्च तत्रैव—-
वामे विचिन्त्या कमलायताक्षी हेमाभवर्णा कमला च देवी ।
विभूतिकामेन सुरत्नहारा प्रेम्णा सृजन्ती नयने हरौ या ॥
तदा देवं सुवर्णाभं चिन्तयेद्रत्नभूषितम् ।
क्षेत्रधान्यसुवर्णानां प्राप्तये धरणीं स्मरेत् ॥
देवीं दूर्वादलश्यामां दधानां शालिमञ्जरीम् ।
चिन्तयेद् भारतीं देवीं वीणापुस्तकधारिणीम् ॥
दक्षिणे देवदेवस्य पूर्णचन्द्रनिभाननाम् ।
क्षीराब्धिफेनपुञ्जाभे वसानां श्वेतवाससी ॥
भारत्या सहितं विष्णुं ध्यायेदेवं परात्परम् ।
वेदवेदार्थसंवेदी जायते सर्ववित्तमः ॥ इति ।
नारायणीये तु—- प्रणवद्वयमध्यस्थो नमोऽन्तश्च सबीजकः ।
निर्बीजो मोक्षकृन् मन्त्रो यथोक्तप्रणवादिकः ॥ इति ।
अत्र ध्यानानन्तरं श्रीवत्सकौस्तुभवनमालायुधमुद्राः प्रदर्शयेत् ।
तल्लक्षणानि तु—- अन्योन्यपृष्ठकरयोर्मध्यमानामिकाङ्गुली ।
अङ्गुष्ठेन तु बघ्नीयात्कनिष्ठामूलसंश्रिते ॥
तर्जन्यौ कारयेदेषा मुद्रा श्रीवत्ससञ्ज्ञिका ।
अनामापृष्ठसंलग्ना दक्षिणस्य कनिष्ठिका ॥
कनिष्ठिकान्या बध्नीयादनामादक्षतर्जनीम् ।
गृहीत्वा दक्षिणाङ्गुष्ठमध्यमानामिकात्रयम् ॥
उच्छ्रयित्वा तत्र वामे तर्जनीमध्यमे न्यसेत् ।
दक्षिणे मणिबन्धे च वामाङ्गुष्ठं तु योजयेत् ॥
मुद्रेयं कौस्तुभस्योक्ता दर्शनीया प्रयत्नतः ।
स्पृशेत्कण्ठादि पादान्तं तर्जन्याङ्गुष्ठनिष्ठया ।
करद्वयेन मालावन् मुद्रेयं वनमालिका ॥ इति ।
आयुधमुद्रालक्षणं तत्र तत्र पूर्वमेवोक्तम् ॥ २२ ॥
विकारलक्षं प्रजपेन्मनुमेनं समाहितः ।
तद्दशांशं सरसिजैर्जुहुयान्मधुराप्लुतैः ॥ २३ ॥
पीठे सम्पूजयेद्देवं विमलादिसमन्विते ।
विमलोत्कषीणी ज्ञाना क्रिया योगा ततः परम् ॥ २४ ॥
प्रह्वी सत्या तथेशानाऽनुग्राहा नवमी तथा ।
विकारलक्षं षोडशलक्षम् ॥ २३-२५ ॥
नमो भगवते ब्रूयाद्विष्णवे च पदं वदेत् ॥ २५ ॥
सर्वभूतात्मने वासुदेवायेति वदेत्ततः ।
सर्वात्मसंयोगपदाद्योगपद्मपदं पुनः ॥ २६ ॥
पीठात्मने हृदन्तोऽयं मन्त्रस्तारादिरीरितः ।
दत्त्वाऽनेनासनं मन्त्री मूत्तीं मूलेन कल्पयेत् ॥ २७ ॥
दत्वाऽनेनासनं मन्त्रीत्यनेनैतदुक्तम् ।
आत्मपूजायामासनं दत्त्वा आसनादि गन्धान्तं कृत्वा किरीटमन्त्रेण पुष्पाञ्जलिपञ्चकं दद्यादिति ।
तदुक्तमाचार्यैः—-
विधिवत्किरीटमन्त्रेण कुर्यात् पुष्पाञ्जलिमपि ।
इति ॥ २५-२७ ॥
आवाह्य पूजयेद्देवं सुगन्धिकुसुमादिभिः ।
अङ्गान्यभ्यर्च्य मन्त्रार्णान् केसरेषु समर्चयेत् ॥ २८ ॥
आदिशब्देन धूपदीपनैवेद्यानि ।
अङ्गानीति कणीकान्तश्चतुर्थपटलोक्तप्रकारेणा- ऽङ्गानि सम्पूज्याऽग्रादिकेसरेषु क्रमादष्टाङ्गभूतान् मन्त्रार्णानर्चयेत् ।
ॐ नमः नं नम इत्यादि प्रयोगः ।
" बीजैः पूजा स्याद्विभक्त्या वियुक्तैः " इत्युक्तेः ।
अत्राङ्गपूजावत् पूजा न कार्या ।
" अष्टाङ्गकं सुधीरिति न्यास एवाऽष्टाङ्गविनियोगः न तु पूजायामिति विशेषज्ञ इत्यर्थः " इति
पद्मपादाचार्यैरुक्तत्वात् ।
अत एवात्र मन्त्रार्णानित्युक्तं नाष्टाङ्गमिति ।
मन्त्रार्णध्यानमुक्तं महाकपिलपञ्चरात्रे—-
ओङ्कारं तु सदा ध्येयं ज्योतिर्मालासमाकुलम् ।
नकारं मेघवर्णाभं मोकारं चिन्तयेत्ततः ॥
भिन्नाञ्जनसमाकारं तृतीयं बीजमुत्तमम् ।
नाकारं श्यामवर्णाभं सौम्यरूपं सुशोभनम् ॥
राकारं जलवर्णाभं सम्यक् सन्दीप्ततेजसम् ।
धूम्रवर्णं सदा ध्येयं यकारं परमुत्तमम् ॥
अनौपम्यगुणाकारं णाकारं च विचिन्तयेत् ।
यकारं तु ततो ध्येयं पद्मरागसमप्रभम् ॥ इति ॥ २८ ॥
दलेषु वासुदेवाद्या मूर्त्तीः शक्तिसमन्विताः ।
वासुदेवं सङ्कर्षणं प्रद्युम्नमनिरुद्धकम् ॥ २९ ॥
हिमपीत तमालेन्द्रनीलाभाः पीतवाससः ।
शङ्खं चक्रगदाम्भोजधरा एते चतुर्भुजाः ॥ ३० ॥
शान्तिं श्रियं सरस्वत्या रतिं कोणदलेषु ताः ।
श्वेतकाञ्चनगोदुग्धदूर्वावर्णाः सुभूषिताः ॥ ३१ ॥
दलेष्विति दलमध्येषु इदं सामान्यवचनम् ।
अग्रे कोणदलेषु ता इत्युक्तेः मूर्त्तीनामग्न्यादिचतुदीग्दलमध्ये पूजेति ज्ञेयम् ।
आसां ध्यानं मूलमन्त्रदेवतावत् ज्ञेयम् ।
एवमग्रिममन्त्रेऽपि ।
कोणदलेष्विति ।
आग्नेयादि कोणदलमध्ये ।
" तथा वह्न्यादयः कोणा विदिक् वाचकयोगतः " इत्युक्तेः ॥ २९-३१ ॥
हेतीनर्चेद्दलागेरषु शङ्खं चक्रं गदाम्बुजे ।
कौस्तुभं मुसलं खड्गं वनमालां यथाक्रमम् ॥ ३२ ॥
रक्ताच्छपीतकनकश्यामकृष्णासिपाण्डुरान् ।
बहिरग्रे समभ्यर्चेत् गरुडं कुङ्कुमप्रभम् ॥ ३३ ॥
मुक्तामाणिक्यसङ्काशौ दक्षिणोत्तरतो निधी ।
ध्वजं वरुणदिग्भागे श्यामलं पूजयेत्ततः ॥ ३४ ॥
अरुणं विघ्नमाग्नेये श्याममार्यं निशाचरे ।
श्यामां दुर्गां वायुकोणे सेनान्यं पीतमीश्वरे ॥ ३५ ॥
इन्द्रादीन् पूजयेत्पश्चाद् वज्राद्यायुधसंयुतान् ।
इति सम्पूञ्जयेद् विष्णुं प्रोक्तैरावरणैः सह ।
धर्मार्थकामान् लब्ध्वाऽन्ते विष्णोः सायुज्यमाप्नुयात् ॥ ३६ ॥
हेतीनिति वक्ष्यमाणान्यायुधानि ।
हेतिशब्दः पुंलिगोऽप्यस्ति ।
यथाक्रम- मित्युत्तरत्र सम्बध्यते ।
बहिरिति ।
अष्टदलाद्बहिः चतुरस्रान्त इत्यर्थः ।
निधी शङ्खपद्मौ वरुणदिग्भागे ।
देवतापृष्ठदेशे ।
नारायणीये तु—- आद्यावृत्तेर्बहिस्तार्क्षं देवस्य पुरतोऽर्चयेत् ।
इति ।
धर्मार्थकामेति ।
अर्थे श्रीबीजादित्वं ज्ञेयम् ।
तदुक्तं मन्त्रतन्त्रप्रकाशे—-
श्रीबीजेन युतं मन्त्रं तत्कामस्तन्मना जपेत् ।
इति ।
कामनायामपि विशेषः—-
नारसिंहमिवात्मानं देवं ध्यात्वाऽतिभैरवम् ।
मन्त्रेण स्पर्शयेच्छस्त्रं नाऽविजित्य निवर्त्तते ॥
नारसिंहेन बीजेन मन्त्रं योज्य तदा जपेत् ।
शतमष्टोत्तरं जप्त्वा वामहस्ताभिमन्त्रिताः ॥
पुनः पुनरपः सिञ्चेत् सर्पदष्टोऽपि जीवति ।
गारुडेन तदा युक्तं पञ्चार्णेन तदा जपेत् ॥
निवीषीकरणे ध्यायेद्विष्णुं गरुडवाहनम् ।
अशोकफलके यक्षीमालिख्याऽशोकसंहतौ ॥
अशोकपुष्पैराराध्य भगवन्तं तदग्रतः ।
जुहुयात्तानि पुष्पाणि त्रिसन्ध्यं सप्तरात्रकम् ॥
प्रत्यक्षा जायते यक्षी वरमिष्टं प्रयच्छति ।
गाणपत्यसमायुक्तं जपेल्लक्षं पयोव्रतः ॥
महागणपतिं देवं प्रत्यक्षमिह पश्यति ।
भारतीबीजसंयुक्तं षाण्मासिकजपाच्च ताम् ॥ इति ॥
तथा—- यो जपेत्प्रणवं पूर्वं मन्त्रे त्रैवणीकः पुमान् ।
योषितश्च तथा शूद्रा जपेयुः प्रणवं विना ॥
आदावष्टाक्षरस्य स्यात्प्रणवः सार्वकामिकः ।
आदावन्ते यदा ह्येष ज्ञानवृद्धिस्तदा भवेत् ॥
आदितः सहितां कुर्यादन्ततस्तु न संहिताम् ॥ इति ।
कल्पोक्तं यन्त्रमुच्यते—-अष्टपत्रं च षट्कोणं रविसङ्ख्यदलाम्बुजम् ।
दन्तपत्रं च तद्बाह्ये वृत्तं भूमिपुरं शुभम् ॥
ससाध्यं कणीकायां तु लिखेदाद्यस्वरं सुधीः ।
अष्टपत्रेषु मूलार्णान् पत्राग्रे श्रीकरं लिखेत् ॥
षट्कोणे चक्रमन्त्रार्णान् सूर्यारे द्वादशार्णकम् ।
दन्तपत्रे मन्त्रराजं वृत्ते नृहरिबीजकम् ॥
षण्मन्त्रै रविसंयुक्तं साक्षाद्विष्णोश्च मन्दिरम् ।
आवाह्य मन्त्रैराराध्य सूत्रैर्बद्धा दृढं वहन् ॥
सर्वदा तस्य वर्द्धन्ते धनारोग्यार्थसम्पदः ।
सायुज्यं साष्टी सालोक्यं सारूप्यं वाथ वाञ्छितम् ॥
इति ॥ ३२-३६ ॥
प्रणवो हृद्भगवते वासुदेवाय कीत्तीतः ।
प्रधानो वैष्णवे तन्त्रे मन्त्रोऽयं द्वादशाक्षरः ॥ ३७ ॥
ऋषिः प्रजापतिश्छन्दो गायत्री परिकीत्तीतम् ।
देवताऽस्य मनोः प्रोक्ता वासुदेवो मनीषिभिः ॥ ३८ ॥
तारेण हृदयं प्रोक्तं नमसा शिर ईरितम् ।
चतुर्वर्णैः शिखा प्रोक्ता पञ्चार्णैः कवचं मतम् ।
समस्तेन भवेदस्त्रमङ्गकल्पनमीरितम् ॥ ३९ ॥
द्वादशाक्षरवासुदेवमन्त्रमाह प्रणव इति ।
हृन्नमः ।
अत्रापि भगवते परतः पूर्ववत् सन्धिः ।
तदुक्तं मन्त्रतन्त्रप्रकाशे—-
अन्त्यौ यौ पञ्चमे षष्ठे वक्तव्यौ क्रमतस्तु तौ ।
द्वितीयो मिश्रसंयुक्तस्तस्माद्भगवते पदम् ॥
सानन्तं वारुणं बीजं जीवः स्याच्छिवसंयुतः ।
पञ्चमस्थो भगी रामो वा यान्ते द्वादशार्णकः ॥
स्त्रीशूद्रयोवीतारोऽयं सतारोऽयं द्विजन्मनाम् ॥ इति ।
अन्त्यौ पञ्चमे वर्गे अन्त्यो नः ।
षष्ठे वर्गे अन्तो मः ।
स मिश्रसंयुक्तः ओयुक्तः ।
वारुणं बीजं वः ।
सानन्तम् आयुतं तेन वा ।
जीवः सः शिवः उ तेन युतः ।
पञ्चमवर्गस्तस्य रामस्तृतीयो दः स भगी एकारयुतः ।
स्पष्टमन्यत् ।
ॐ बीजं नमः शक्तिः ।
तदुक्तं बीजं तारः शक्तिर्नम इति ।
अङ्गकॢप्ति- रुदीरितेत्यनेन द्वादशाङ्गमपि कर्त्तव्यमित्युक्तम् ।
तद्यथा—-ॐ हृदयाय नम इत्यादि ।
पञ्चाङ्गन्यासस्थानेषु पञ्चाङ्गवदेव विन्यस्य नेत्रयोर्नेत्राभ्यां वौषडिति विन्यस्य ते जठराय नम इत्यादि
षट्सु स्थानेषु न्यसेत् ।
तदुक्तम्—-
हृदादि नेत्रजठरपृष्ठबाहूरुजानुषु ।
सपादेषु मनोरर्णैर्नमोन्तैर्द्वादशाङ्गकम् ॥ इति ॥
पद्मपादाचार्यास्तु पुरुषसत्याच्युतवासुदेव सङ्कर्षणप्रद्युम्नानिरुद्धनारायणब्रह्म-
विष्णुनरसिंहवाराहमूर्त्तीनां द्वादशाङ्गे योगमाहुः ।
अन्यत्रापि—-
आदौ पुरुषः सत्याच्युतौ पुनर्वासुदेवपूर्वाः स्युः ।
नारायणयुग्ब्रह्मा विष्णुनृसिंहौ तथा वराहश्च ॥ इति ॥३७-३९ ॥
मूध्नी भाले दृशोरास्ये गले दोर्हृदयाम्बुजे ।
कुक्षौ नाभौ ध्वजे जानुद्वये पादद्वये न्यसेत् ॥ ४० ॥
मूर्ध्नीति ।
मूध्नी न्यसेन्मन्त्रवर्णानिति शेषः ।
अयं सृष्टिन्यासः ।
अत्र स्थिति- संहारावपि ज्ञेयौ ।
यदाहुः—-
हृदादिकान्तावधीमं स्थितिन्यासं प्रचक्षते ।
पादादारभ्य शीर्षान्तं न्यासं संहारमूचिरे ॥
संहृतेर्देषसंहारः सृष्टेश्च सुतपुष्टयः ।
स्थितेस्तु शान्तिविन्यासस्तस्मात् कार्यस्त्रिधा च सः ॥ इति ।
अन्यत्र व्यवस्थाऽप्युक्ता ।
यदाहुः—-
स्थितिन्यासो गृहस्थानामुद्दिष्टः सर्वसिद्धिदः ।
प्रथमाश्रमिणां न्यास उत्पत्तिः समुदाहृतः ॥
यतीनां च वनस्थानां संहारः समुदाहृतः ।
विरक्तस्य गृहस्थस्य संहारोऽपि विधीयते ॥
सपत्नीकवनस्थानां स्थितिन्यासो विधीयते ।
विद्याथीनामथैतेषां सृष्ट्यन्तोऽपि विशिष्यते ॥ इति ।
अत्र सामान्यतो न्यसेदित्युक्तत्वादेषु द्वादशतत्त्वान्यपि न्यसेत् ।
तद्यथा—- ॐ नमः पराय जीवात्मने नमः मूर्ध्नीत्यादि ।
तत्त्वानि तु—- जीवप्राणधियश्चित्तं हृत्पद्मं सूर्यमण्डलम् ।
चन्द्रमण्डलमग्नेश्च मण्डलं स्वकलान्वितम् ॥
वासुदेवादयश्चेति तत्त्वानि द्वादशाऽवदन् ॥ इति ॥ ४० ॥
विष्णुं शारदचन्द्रकोटिसदृशं शङ्खं रथाङ्गं गदा-
मम्भोजं दधतं सिताब्जनिलयं कान्त्या जगन्मोहनम् ।
आबद्धाङ्गदहारकुण्डलमहामौलिं स्फुरत्कङ्कणं
श्रीवत्साङ्कमुदारकौस्तुभधरं वन्दे मुनीन्द्रैः स्तुतम् ॥ ४१ ॥
आयुधध्यानं तूर्ध्वादिदक्षयोश्चक्रपद्मे ।
एवं वामयोर्गदाशङ्खौ ।
तदुक्तं हयशीर्षपञ्चरात्रे—-वासुदेवं तु कुर्वीत चतुर्बाहुं सुरेश्वरम् ।
दक्षिणोपरि चक्रं तु पद्मञ्चाऽधः प्रकल्पयेत् ॥
वामोपरि गदा कार्या शङ्खञ्चाऽधः सुशोभनम् ।
इति ।
अत्र ध्यानानन्तरं श्रीवत्सकौस्तुभवनमालाञ्जलिमुद्राः प्रदर्शयेत् ।
" अञ्जल्याऽ- ञ्जलिमुद्रा स्याद्वासुदेवाभिधा च सा " इत्युक्तेः ।
एता अग्रिममन्त्रेऽपि दर्शनीयाः ॥ ४१॥
वर्णलक्षं जपेन्मन्त्रं दीक्षितो विजितेन्द्रियः ।
तत्सहस्रं प्रजुहुयात्तिलैराज्यपरिप्लुतैः ॥ ४२ ॥
पीठे प्रागीरिते मूत्तीं मूलमन्त्रेण कल्पयेत् ।
पूजयेद्विधिनाऽनेन वासुदेवं विधानवित् ॥ ४३ ॥
वर्णलक्षं द्वादशलक्षम् ।
दीक्षितो वैष्णवमार्गेणेत्यर्थः ।
सा च दीक्षा वैष्णव- तन्त्रान्नारदपञ्चरात्रादितो ज्ञेया ।
तत्सहस्रं द्वादशसहस्रम् ।
विधानविदित्यनेनोपचारोक्ता- गमश्लोकानामत्राऽवश्यकत्वं सूचितम् ॥ ४२-४३ ॥
प्रथमावृतिरङ्गैः स्यात् वासुदेवादिभिः परा ।
शान्त्यादिशक्तिसहितैः परा द्वादशमूत्तीभिः ॥ ४४ ॥
चतुर्थी सुरनाथाद्यैर्वज्राद्यैः पञ्चमी मता ।
एवं सम्पूजितो विष्णुः प्रदद्यादिष्टमात्मनः ॥ ४५ ॥
पायसेन घृताक्तेन मन्त्रवर्णसहस्रकम् ।
जुहुयान्मनसः शुद्ध्यै समिद्भः क्षीरभूरुहाम् ।
तत्सङ्ख्यया पयोऽक्ताभिः सर्वपापविमुक्तये ॥ ४६ ॥
द्वादशमूत्तीभिरिति केशवाद्यैः ।
एषां ध्यानं मूलदेवतावत् ॥ ४४-४६ ॥
हृल्लेखाबीजयुगलं रमाबीजयुगं पुनः ।
लक्ष्म्यान्ते वासुदेवाय हृदन्तः प्रणवादिकः ॥ ४७ ॥
चतुर्दशाक्षरो मन्त्रः प्रोक्तोऽयं सुरपादपः ।
हृदयं शक्तिबीजाभ्यां रमाभ्यां शिर ईरितम् ॥ ४८ ॥
लक्ष्म्यै प्रोक्ता शिखा वर्म वासुदेवाय कीत्तीतम् ।
नमसाऽस्त्रं समुद्दष्टं सर्वं तारादि कल्पयेत् ॥ ४९ ॥
लक्ष्मीवासुदेवमन्त्रमाह हृल्लेखेति ।
हृल्लेखा भुवनेशीबीजम् ।
यथा हृल्लेखा- शब्देन भुवनेशी उच्यते तथा प्रागेव दशीतम् ।
रमा श्रीबीजम् ।
लक्ष्म्यन्ते लक्ष्मीपदान्ते इत्यर्थः ।
हृदन्तो नमोऽन्तः ।
ॐ ह्री� ह्री� श्री� श्री� लक्ष्मीवासुदेवाय नमः ।
प्रणवो बीजं माया शक्तिः ॥ ४७-४९ ॥
विद्युच्चन्द्रनिभं वपुः कमलजावैकुण्ठयोरेकतां
प्राप्तं स्नेहवशेन रत्नविलसद्भूषाभरालङ्कृतम् ।
विद्या पङ्कजदर्पणं मणिमयं कुम्भं सरोजं गदा
शङ्खं चक्रममूनि बिभ्रदमितां दिश्याच्छिरयं वः सदा ॥ ५०॥
विद्युदिति ।
एकतामिति देहार्धविभागेन ।
विद्यादीनि प्रथमानिदीष्टानि ।
पश्चादमूनि बिभ्रदित्यन्वयः ।
वामेष्वाद्यचतुष्टयमूर्ध्वादि दक्षेष्वन्त्यचतुष्टयमित्या- युधध्यानम् ॥ ५० ॥
वर्णलक्षं जपेदेनं तत्सहस्रं सरोरुहैः ।
होमं कुर्याद्विकसितैर्मधुरत्रयसंयुतैः ।
पूजा स्याद्वैष्णवे पीठे द्वादशाक्षरवर्त्मना ॥ ५१ ॥
पायसेन कृतो होमो लक्ष्मीवश्यप्रदायकः ।
मधुराक्तैस्तिलैर्हुत्वा सर्वकार्याणि साधयेत् ॥ ५२ ॥
वर्णलक्षं चतुर्दशलक्षम् ।
तत्सहस्रं चतुर्दशसहस्रम् ।
विकसितैरिति ।
पूजायां कुड्मलानामपि ग्रहणादत्र विकसितैरिति विशेषोक्तिः ।
स्वयं विकसितस्य तु निषिद्धत्वादेव निवृत्तिः ॥ ५१-५२ ॥
तारो हृद्विष्णवे पश्चात् ङेऽन्तः सुरपतिर्भवेत् ।
महाबलाय ठद्वन्द्वं मनुरष्टादशाक्षरः ॥ ५३ ॥
ऋषिरिन्दुवीराट् छन्दो देवता दधिवामनः ।
हृदेकेन शिरो द्वाभ्यां शिखा त्रिभिरुदीरिता ॥ ५४ ॥
कवचं पञ्चभिः प्रोक्तं नेत्रं तावद्भरक्षरैः ।
द्वाभ्यामस्त्रमिति प्रोक्तः प्रकारोऽङ्गस्य सूरिभिः ॥ ५५ ॥
दधिवामनमन्त्रमाह तार इति ।
हृत् नमःपदम् ।
अत्रापि पूर्ववद्विसर्गेण सह सन्धिर्ज्ञेयः ।
ङेऽन्तः सुरपतिः सुरपतये ।
ठद्वन्द्वं स्वाहा ।
प्रणव श्रीबीजसम्पुटः इति केचित् ।
प्रणवो बीजं स्वाहा शक्तिः तावद्भिरिति पञ्चभिः ।
प्रकारोऽङ्गस्य सूरिभिरित्यनेन साम्प्रदायिकाः अन्यथा षडङ्गमाहुरिति सूचितम् ।
तद्यथा—-प्रणवा- दिपञ्चभिः पदैः पञ्चाङ्गानि कृत्वा सर्वेण षष्ठमिति ॥ ५३-५५ ॥
मूध्नी भाले दृशोर्युग्मे कर्णनासौष्ठतालुषु ।
कण्ठे बाहुद्वये पृष्ठे हृदयोदरनाभिषु ॥ ५६ ॥
गुह्योरुजानुयुग्मेषु जङ्घयोः पादयोर्न्यसेत् ।
अष्टादश मनोर्वर्णान् पश्चाद्देवं विचिन्तयेत् ॥ ५७ ॥
मूर्ध्नीत्यादिषु सर्वत्र एकैकवर्णन्यासः ।
कर्णयुग्मौष्ठतालुष्वित्यपपाठः ।
कर्णनासौष्ठतालुष्विति पाठः ।
पश्चादिति पृष्ठे ।
मन्त्रतन्त्रप्रकाशे तु—-
मूध्नी दृक्श्रवणद्वन्द्वे नासायां मुखमध्यतः ।
कण्ठहृद्बाहुयुग्मे च नाभौ पृष्ठे च गुह्यके ॥
जान्वोश्च पादयोरर्णान् ।
इति स्थानान्युक्तानि ।
पश्चादित्यनेन पदन्यासोऽपि सूचितः ।
यदाहुः—-भ्रूमध्यगलहृन्नाभिलिङ्गाधारेषु विन्यसेत् ।
इति ॥ ५६-५७ ॥
मुक्तागौरं नवमणिलसद्भूषणं चन्द्रसंस्थं
भृङ्गाकारैरलकनिकरैः शोभि वक्त्रारविन्दम् ।
हस्ताब्जाभ्यां कनककलशं शुद्धतोयाभिपूर्णं
दध्यन्नाढ्यं कनकचषकं धारयन्तं भजामः ॥ ५८ ॥
ध्यानमाह मुक्तेति ॥ ५८ ॥
गुणलक्षं जपेन्मन्त्रं तद्दशांशं घृतप्लुतैः ।
पायसान्नैः प्रजुहुयाद्दध्यन्नैर्वा यथाविधि ॥ ५९ ॥
चन्द्रान्तं कल्पिते पीठे प्रागुक्ते तं समर्चयेत् ।
मूत्तीं मूलेन सङ्कल्प्या वक्ष्यमाणविधानतः ॥ ६० ॥
षडङ्गानि समभ्यर्च्य केसरेषु यथा पुरा ।
अभ्यर्च्य वासुदेवादीन् ध्वजादीनर्चयेत्ततः ॥ ६१ ॥
केशवाद्या दलाग्रेषु सुरेन्द्रादीननन्तरम् ।
वज्रादीनि गजानष्टौ सप्तावरणमीरितम् ।
विधानमेतद्देवस्य कीत्तीतं सुरपूजितम् ॥ ६२ ॥
गुणलक्षं त्रिलक्षम् ।
यथाविधीत्यग्रे सम्बध्यते ।
चन्द्रान्तमिति ।
रविवह्निमण्डले सम्पूज्य अन्ते चन्द्रमण्डलं पूजयेदित्यर्थः ।
अत्र चन्द्रमण्डलान्ता पूजा ।
तस्य तदासनत्वात् ।
तदुक्तं मन्त्रतन्त्रप्रकाशे—-
धर्मज्ञानमये पीठे पूजयेचन्द्रमण्डलम् ।
इति ।
चन्द्रमण्डलमन्त्रोऽप्युद्धृतः ।
विष्णवे सह सोमाय त्रैलोक्याप्यायनाय च ।
स्वाहान्तस्तारहृत्पूर्वे मन्त्रेणैवाऽर्चयेच्च तत् ॥ इति ॥
एतद्यथाविधिपदेन सूचितम् ।
प्रागुक्ते नारायणाष्टाक्षरोक्ते पीठे वक्ष्यमाण- विधानतः तं समर्चयेदिति सम्बन्धः ।
यथा पुरेति चतुर्थेक्तरीत्या ।
वासुदेवादीन् सशक्तिकान् पूर्ववत् ।
ध्वजादीनित्यष्टौ प्रसिद्धदिक्क्रमेण ।
तदुक्तम्—-
ध्वजश्च वैनतेयश्च शङ्खपद्मौ दिशो गताः ।
विघ्नार्यकौ तथा दुर्गा विष्वक्सेनौ विदिग्गताः ॥ इति ।
तत्र ग्रन्थकृता नारायणाष्टाक्षरे अग्रदक्षिणोत्तरपश्चिमादिपूजाकथनार्थम् एते एव
वैनतेयाद्या उपदिष्टाः ।
केशवाद्या द्वादश दलाग्रेषु अष्टदलाद्बहिरित्यर्थः ।
गजानित्यष्ट- मोक्तान् स्वस्वदिक्षु ॥ ५९-६२ ॥
पायसाज्येन जुहुयात्सहस्रं श्रियमाप्नुयात् ।
धान्यहोमेन धान्याप्तिः शतपुष्पीसमुद्भवैः ॥ ६३ ॥
बीजैः सहस्रसङ्ख्यातो होमो भयविनाशनः ।
दध्योदनेन शुद्धेन हुत्वा मुच्येत दुर्गतेः ॥ ६४ ॥
स्मृत्वा त्रैविक्रमं रूपं जपेन्मन्त्रमनन्यधीः ।
मुक्तो बन्धाद्भवेत्सद्यो नात्र कार्या विचारणा ॥ ६५ ॥
पट्टे सम्पाद्य देवेशं भित्तौ वा पूजयेत् सुधीः ।
सुगन्धिकुसुमैर्नित्यं महतीं श्रियमाप्नुयात् ॥ ६६ ॥
शतपुष्पी कान्यकुब्जभाषायां सौम्फ इति प्रसिद्धा ।
दुर्गतेः दारिद्र्यात् ॥ ६३-६६ ॥
ससाध्यतारोज्ज्वलकणीकाब्ज-
मष्टाक्षरैरुज्ज्वलकेशराढ्यम् ।
मन्त्राक्षरद्वन्द्वयुताष्टपत्रं
शिष्टार्णयुग्मोल्लसितान्त्यपत्रम् ॥ ६७ ॥
द्वादशाक्षरसंवीतं तद्बहिर्मातृकाक्षरैः ।
विदध्याद्वैष्णवं यन्त्रं सर्वसम्पत्प्रदायकम् ॥ ६८ ॥
यन्त्रमाह ससाध्येति ।
कणीकायां साध्यसाधककर्मसहितं प्रणवं लिखेत् ।
अष्टाक्षरैरिति नारायणाष्टाक्षरैः ।
शिष्टार्णेत्यनेनाऽन्त्यपत्रे वर्णचतुष्टयं लिखेदित्युक्तम् ।
तद्बहिर्मातृकाक्षरैर्वेष्टितं विदध्यादिति सम्बन्धः ।
अस्य तन्त्रान्तरोक्तं विधानमभिधीयते—-
अस्य तैलो मुनिश्छन्दो जगत्यन्नप्रदो हरिः ।
देवता प्रणवाद्यैश्च पदैः सर्वेण चाऽङ्गकम् ॥
कर्पूरधवलं देवं निविष्टं सरसीरुहे ।
सुप्रसन्नं सुनेत्रं च चारुस्मितमनोहरम् ॥
दण्डं चाऽमृतकुण्डं च शरच्चन्द्रसमप्रभम् ।
दधिभक्तं सोपदंशं वसुपात्रं च बिभ्रतम् ॥
चिन्तयेज्जगदीशानं जगदात्तीहरं हरिम् ।
दीक्षां प्राप्य शुचिर्भूत्वा जपेद् द्वादशलक्षकम् ॥
तदन्ते जुहुयाद्विद्वान् पायसेन दशांशकम् ।
पूजा तु वैष्णवे पीठे कर्त्तव्या साधकोत्तमैः ॥
लिखेत्पद्मं सप्तदशदलं प्रणवमालिखेत् ।
कणीकायां ससाध्यं तं स्वरैरावेष्टयेत् क्रमात् ॥
चतुस्त्रिंशत्केसरेषु कादिक्षान्तान् लवजीतान् ।
दलेषु मन्त्रवर्णाश्च ताराभ्यां वेष्टयेद्बहिः ॥
श्री(स्व)बीजाभ्यां तद्बहिश्च यन्त्रं सर्वफलप्रदम् ।
अस्मिन् यन्त्रे समावाह्य देवमङ्गानि पूर्ववत् ॥
इष्ट्वा शक्तीश्च पत्रेषु लोकेशास्त्राणि पूजयेत् ।
पूषा सुमनसा प्रीतिर्ज्येतिः सौम्या मरीचिका ॥
अंशुमालिन्यङ्गिरा च शशिनी चन्द्रिका तथा ।
अमोघा करुणा चैव छाया सम्पूर्णमण्डला ॥
पुष्टिस्तथाऽमृता सिद्धिः शक्तयः समुदीरिताः ।
इति ।
अथ ब्रह्मयामलोक्तं यन्त्रमुच्यते—-
वृत्ताकारमथो कृत्वा चन्द्रमण्डलमध्यतः ।
सम्यक् च विलिखेत्तारं साध्यनामसमन्वितम् ॥
वारुणार्णान् लिखित्वा च साग्निमायासबिन्दुकम् ।
दलैश्च सप्तदशभिः कृत्वा पद्मं सकणीकम् ॥
नादिव्योमान्तमन्त्रं वै पद्मस्यैव दलेषु च ।
कृत्वा यन्त्रं महाभाग समालभ्य जपेन्मनुम् ॥
महारक्षा समाख्याता धारणाच्च श्रियावहम् ॥ इति ।
नारदकल्पोक्तं यन्त्रान्तरम्—-
दलैः षोडशभिर्युक्तं सतारं कणीकोज्ज्वलम् ।
कलारूढदलं बाह्ये पद्ममष्टदलं लिखेत् ॥
तेष्वष्टाक्षरमालिख्य तदग्रे वृत्तमालिखेत् ।
अष्टादशदलं बाह्ये तेष्वप्यष्टादशाक्षरम् ॥
आलिख्यान्ते च भूगेहमष्टशूलसमन्वितम् ।
कोणेष्वक्षरमालिख्य वह्न्यादिषु यथाक्रमम् ॥
शूलाक्षिरोगगुल्मादिगर्भस्फोटादिकानपि ।
विषादिकान्नरः सम्यक् मन्त्री यन्त्रेण नाशयेद् ॥ इति ॥
अक्षरं ठकारम् ।
तन्त्रान्तरोक्तमेतदुपासककर्त्तव्यमुच्यते—-
नाऽश्नीयात्तण्डुलीशाकं तथा चौदुम्बरं फलम् ॥
श्राद्धनां नवकं चैव भक्षयेन्न कदाचन ।
पद्मपत्रे न भुञ्जीत तथा चार्कदलेष्वपि ॥
तुषकार्पासबीजानि न स्पृशेच्च कदाचन ।
वल्मीकं गोमयं विप्रच्छायामपि न लङ्घयेत् ॥
देवाग्निगुरुपूजां च कुर्याद्भक्तिसमन्वितः ।
इति ॥ ६७-६८ ॥
उद्गिरत्पदमाभाष्य प्रणवोद्गीथशब्दतः ।
सर्ववागीश्वरेत्यन्ते प्रवदेदीश्वरेत्यथ ॥ ६९ ॥
सर्ववेदमयाचिन्त्यपदान्ते सर्वमुच्चरेत् ।
बोधयद्वितयान्तोऽयं मन्त्रस्तारादिरीरितः ॥ ७० ॥
ऋषिर्ब्रह्माऽस्य सन्दिष्टश्छन्दोऽनुष्टुबुदाहृतम् ।
देवता स्याद्धयग्रीवो वागैश्वर्यप्रदो विभुः ।
तारेण पादैर्मन्त्रस्य पञ्चाऽङ्गानि प्रकल्पयेत् ॥ ७१ ॥
हयग्रीवमन्त्रमाह उद्गिरदिति ।
प्रणवोद्गीथेति स्वरूपम् ।
सर्वमुच्चरेदिति मन्त्रेऽपि द्वितीयान्तमेव ।
श्लोकरूपो महामन्त्रः ।
श्लोकादौ तारः ।
मन्त्रस्थहलो बीजानि स्वराः शक्तयः ।
वागैश्वर्यप्रद इति विनियोगोक्तिः ॥ ६९-७१ ॥
शरच्छशाङ्कप्रभमश्ववक्त्रं
मुक्तामयैराभरणैरुपेतम् ।
रथाङ्गं शङ्काङ्कितबाहुयुग्मं
जानुद्वयन्यस्तकरं भजामः ॥ ७२ ॥
ध्यानमाह शरदिति ।
अत्र ध्यानानन्तरमियं मुद्रा दर्शनीया—-
वामहस्ततले दक्षा अङ्गुलीस्तास्त्वधोमुखीः ।
संरोप्य मध्यमां तासामुन्नम्याऽधो विकुञ्चयेत् ॥
हयग्रीवप्रिया मुद्रा तन्मूर्त्तेरनुकारिणी ॥ इति ॥ ७२ ॥
वर्णलक्षं जपेन्मन्त्रं कुन्दपुष्पैर्मधुप्लुतैः ।
दशांशं वैष्णवे वह्नौ जुहुयान्मन्त्रसिद्धये ॥ ७३ ॥
अष्टाक्षरोदिते पीठे हयग्रीवं प्रपूजयेत् ।
बीजेन मूत्तीं सङ्कल्प्या बीजमुद्धिरयते यथा ॥ ७४ ॥
वर्णलक्षं द्वात्रिंशल्लक्षं वैष्णवे वह्नाविति ।
तत्र वैष्णवपीठमभ्यर्च्येत्यर्थः ॥ ७३-७४ ॥
वियद्भृगुस्थमर्घीशबिन्दुमद्बीजमीरितम् ।
केसरेषु चतुर्वेदांश्चतुदीक्षु समर्चयेत् ॥ ७५ ॥
हयग्रीवबीजमुद्धरति वियदिति ।
वियत् हः ।
भृगुस्थं सकारस्थम् ।
अर्घीशः ऊकारः बिन्दुश्च तद्वत् ।
कल्पान्तरे चतुर्दशस्वरयुक्तमुदाहृतम् ।
तदुक्तं शाङ्करकल्पे—-
शून्यं शून्यसमायुक्तं जीवस्योपरि संस्थितम् ।
अनुग्रहयुतं कृत्वा वागीशं सर्वकामदम् ॥ इति ॥
केचिद्रुद्रेण भूषितं कृत्वेति पठन्ति ।
एतद्वीजाद्यो ङेऽन्त हयग्रीवशब्द- नत्यन्तोऽष्टाक्षरो मन्त्रः ।
हं बीजम् ।
सौ शक्तिः ।
देवीगायत्री छन्दः ।
अन्यद्वक्ष्य- माणैकाक्षरविधानवत् सर्वं ज्ञेयम् ।
एतावपि स्वतन्त्रौ मन्त्रौ ।
विद्याकामेन वाक्पुटौ जप्यौ बालातार्तीयसम्पुटौ वा वश्यकामेन कामराजसम्पुटौ वा ।
हं बीजं सं शक्तिः ।
तदृष्यादिकं यथा—-
ब्रह्मत्रिष्टुफयग्रीवा ऋष्याद्याः परिकीत्तीताः ।
षड्दीर्घयुक्तमूलेन षडङ्गविधिरीरितः ॥
धवलनलिननिष्ठं क्षीरगौरं कराग्रै-
र्जपवलयसरोजे पुस्तकाभीष्टदाने ।
दधतममलवस्त्राकल्पजालाभिरामं
तुरगवदनविष्णुं नौमि देवारिजिष्णुम् ॥
वेदलक्षं जापित्वाऽन्ते तद्दशांशं हुनेद्घृतैः ।
पुरोक्ते प्रयजेत् पीठे गायत्यारवाह्य पूजयेत् ॥
ङेऽन्तं वागीश्वरपदं विद्महे पदमुच्चरेत् ।
हयग्रीवं चे ङेऽन्तं स्याद्धीमहीति ततो वदेत् ॥
तन्नोहंसःपदान्ते च प्रवदेच्च प्रचोदयात् ।
प्रथमावृतिरङ्गैः स्यात् द्वितीया चाष्टभिर्हयैः ॥
प्रज्ञाहयस्तथा मेधाहयः स्मृतिहयस्तथा ।
विद्याहयः श्रीहयश्च वागीशीहय एव च ॥
विद्याविलाससुहयो हयान्तो नादमर्दनः ।
मेधादिभिस्तृतीया स्यात्ताश्च मेधा सरस्वती ॥
प्रज्ञा तृतीया विजया पञ्चमी चाऽपराजिता ।
तुष्टिः पुष्टिः सप्तमी स्याच्छ्रद्धा चैवाऽष्टमी मता ॥
कल्पान्तरे तु लक्ष्म्याद्यास्ताश्च लक्ष्मीः सरस्वती ।
रतिप्रीती कीत्तीकान्ती तुष्टिः पुष्टिस्तथाऽष्टमी ॥
चतुर्थी कुमुदाद्यैस्ते कुमुदः कुमुदाक्षकः ।
पुण्डरीकः सर्वनेत्रो वामनः शङ्कुकर्णकः ॥
सुमुखः सुप्रतिष्ठः स्याल्लोकपालैस्तु पञ्चमी ।
तदायुधैश्च षष्ठी स्यादेवं पूजा समीरिता ॥ इति ॥
बीजं रेफसमायुक्तं हुङ्कारद्वयमध्यगम् ।
यस्य नाम्ना जपेन्मन्त्रं मारयेत्तं न संशयः ॥
हुङ्कारद्वयमध्यस्थं बीजराजं सुरेश्वरि ।
विद्वेषयेज्जगत् सर्वं मासं जप्त्वा न संशयः ॥
लिखेद्रोचनया भूर्जे मन्त्रं बाहौ विधारयेत् ।
महारक्षा भवेदेषा सर्वदोषविनाशिनी ॥ इति ॥
शाङ्करकल्पोक्तं यन्त्रमुच्यते—-
प्रणवद्वयसंयुक्तमकारद्वयमध्यगम् ।
वादिनाम लिखेद्बीजे भूर्जपत्रे हरिद्रया ॥
पत्राष्टके हयग्रीवाष्टाक्षरं स्वरकेसरे ।
कादि क्षान्तवृतं बाह्ये तद्बहिर्भूपुरं लिखेत् ॥
वाक्स्तम्भनमिदं प्रोक्तं शरावद्वयसम्पुटे ।
वेष्टितं पीतसूत्रेण मूकत्वं कुरुतेऽचिरात् ॥ इति ॥ ७५ ॥
विदिक्ष्वङ्गस्मृतिन्यायसर्वशास्त्राणि पूजयेत् ।
अर्चयेत् पत्रमध्येषु विधानेनाऽङ्गदेवताः ॥ ७६ ॥
बाह्ये लोकेश्वरांस्तेषां वज्राद्यस्त्राणि संयजेत् ।
एवं यो भजते देवं साक्षाद्वागीश्वरो भवेत् ॥ ७७ ॥
बैल्वैः फलैः कृतो होमः श्रीकरः परिगीयते ।
कुन्दपुष्पाणि जुहुयादिच्छन् वाक्श्रियमव्ययम् ॥ ७८ ॥
विदिक्ष्विति ।
शिक्षाकल्पव्याकरणनिरुक्तज्योतिषछन्दोरूपेभ्यः षडङ्गेभ्यो नमः स्मृतिभ्यो नमः न्यायशास्त्रेभ्यो नमः
सर्वशास्त्रेभ्यो नमः इत्यादि प्रयोगः ।
विधानेनेति चतुर्थेक्ताग्नेयादिस्थानेषु पत्रमध्येष्विति चतुर्थेक्तकेसराङ्ग पूजापवादः ॥ ७६-७८ ॥
मनुनाऽनेन सञ्जप्तं घृतं ब्राह्मीरसैः सृतम् ।
कवितामावहेत्पुंसामनर्गलविजृम्भणाम् ॥ ७९ ॥
वचामनेन सञ्जप्तां भक्षयेत् प्रातरन्वहम् ।
सर्ववेदागमादीनां व्याख्याता जायतेऽचिरात् ।
मनोरस्य समो नास्ति ज्ञानैश्वर्यप्रदोऽपरः ॥ ८० ॥
मनुनेति ।
" अकल्कोऽपि भवेत् स्नेहो यः साध्यः केवले द्रवे " इत्युक्तत्वात् ।
घृताच्चतुर्गुणे ब्राह्मीरसे घृतं पचेत् ।
घृतावशेषमुत्तार्याऽनेन सञ्जप्तं पिबेत् ॥७९-८०॥
अनन्तोऽग्न्यासनः सेन्दुर्बीजं रामाय हृन्मनुः ।
षडक्षरोऽयमादिष्टो भजतां कामदो मणिः ॥ ८१ ॥
ब्रह्मा प्रोक्तो मुनिश्छन्दो गायत्रं देवता मनोः ।
देशिकेन्द्रैः समाख्यातो रामो राक्षसमर्दनः ॥ ८२ ॥
दीर्घभाजा स्वबीजेन कुर्यादङ्गानि षट् क्रमात् ।
ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्नाभ्यन्धुषु पादयोः ।
षडक्षराणि विन्यस्येन्मन्त्रस्य मनुवित्तमः ॥ ८३ ॥
राममन्त्रमाह अनन्त इति ।
अनन्त आकारः अग्न्यासनो रेफासनः सेन्दुः सबिन्दुः ।
बीजमित्यनेनैकाक्षरोऽप्ययं मन्त्र इति सूचितम् ।
तदुक्तम्—-
वह्निस्थं शयनं विष्णोरर्धचन्द्रविभूषितम् ।
एकाक्षरो मनुः प्रोक्तो मन्त्रराजः सुरद्रुमः ॥ इति ।
अस्यर्ष्यादिकं सर्वं वक्ष्यमाणमेव ।
एतदर्थ उक्तः स्कन्दयामले निर्वाणखण्डे—-
रेफोऽग्निरहमेवोक्तो विष्णुः सोमो म उच्यते ।
मध्यगस्त्वावयोर्ब्रह्मा रविराकार उच्यते ॥
ज्योतींषि कवलीकृत्य त्रीण्याकाशो विभुः स्वयम् ।
नादोऽभिधत्ते सन्मात्रं त्वमेव परमेश्वरम् ॥ इति ।
रामाय हृदित्यनेनाऽयं पञ्चाक्षरोऽपि मन्त्र इत्युक्तम् ।
यदाहुः—-
सप्रतिष्ठौ रमौ वायुर्हृत् पञ्चार्णे मनुः स्मृतः ।
विश्वामित्रो मुनिः प्रोक्तः पङ्क्तिश्छन्दोऽस्य देवता ॥
रामभद्रो बीजशक्ती प्रथमार्णनती क्रमात् ।
भ्रूमध्ये हृदि नाभ्यन्धुपादयोवीन्यसेन् मनुम् ॥
षडङ्गं पूर्ववद्यद्वा पञ्चार्णैर्मनुनाऽस्त्रकम् ।
मध्ये वनं कल्पतरोर्मूले पुष्पलताकुलम् ॥
लक्ष्मणेन प्रगुणितमक्ष्णः कोणेन सायकम् ।
अवेक्ष्यमाणं जानक्या धृतव्यजनयेश्वरम् ॥
जटाभारलसच्छीर्षं श्यामं मुनिगणावृतम् ।
लक्ष्मणेन धृतच्छत्रमथवा पुष्पकोपरि ॥
दशास्यमथनं प्राग्वत् ससुग्रीवविभीषणम् ।
विजयार्थी विशेषेण वर्णलक्षं जपेन्मनुम् ॥ इति ।
मनुरिति ।
एवं मिलित्वा मन्त्रः षडक्षर इत्यर्थः ।
कामदो मणिश्चिन्तामणिरि- त्यनेनास्य विनियोगं वदता स्वबीजं विनापि बहुप्रकारं षड्वर्णत्वं बहुप्रकारं
च सप्तवर्णत्वं सूचितम् ।
तदुक्तं स्कन्दयामले निर्वाणखण्डे—-
विश्वरूपस्य ते नाम विश्वे शब्दादि वाचकाः ।
तथापि मूलमन्त्रस्ते विश्वेषां बीजमक्षयम् ॥
मुक्तये प्रणवाद्योऽयं रमादिरपि भुक्तये ।
वाग्भवादिस्तु वाक्सिद्ध्यै मायादिरखिलेष्टदः ॥
अखिलोऽयं महाशक्तिर्मन्त्रचिन्तामणिवीभो ।
इति ।
अन्यत्र—- स्वकामशक्तिवाग्लक्ष्मी ताराद्यः पञ्चवर्णः ।
षडक्षरः षड्विधः स्याच्चतुर्वर्गफलप्रदः ॥
पञ्चाशन्मातृकामन्त्रवर्णप्रत्येकपूर्वकः ।
लक्ष्मीवाग्मन्मथादिश्च तारादिः स्यादनेकधा ॥
श्रीमायामन्मथैकैक बीजाद्यन्तगतो मनुः ।
चतुर्वर्णः स एव स्यात् षड्वर्णे वाञ्छितप्रदः ॥
स्वाहान्तो हुम्फडन्तो वा नत्यन्तो वा भवेदयम् ।
ब्रह्मा समोहनः शक्तिर्दक्षिणामूत्तीरेव च ॥
अगस्त्यः श्रीशिवः प्रोक्ता मुनयोऽत्र क्रमादिमे ।
छन्दो गायत्रसञ्ज्ञं च श्रीरामश्चैव देवता ॥
अथवा कामबीजादेवीश्वामित्रो मुनिर्मनोः ।
छन्दो देव्यादि गायत्री रामभद्रोऽस्य देवता ॥
बीजशक्ती यथापूर्वम् ।
इति ।
राक्षसमर्दनः इति विशेषणं विधेयम् ।
रां बीजं नमः शक्तिः ।
तदुक्तं शौनककल्पे—-
जानीयात्प्रथमं वर्णं बीजं शक्तिं नतिं तथा ।
इति ।
केचन आयेति शक्तिमाहुः ।
दीर्घभाजा षड्दीर्घभाजा ।
स्वबीजेन मन्त्राद्यबीजेन।
क्रमादित्यनेन षड्वर्णैर्वा षडङ्गमित्युक्तम् ।
यदाहुः—-
बीजैः षड्दीर्घयुक्तैर्वा मन्त्रार्णैर्वा षडङ्गकम् ।
इति ।
अन्धु गुह्यम् ।
मनुवित्तम इत्यनेनैतदुक्तं भवति ।
पञ्चाक्षरे पादन्यासः ।
सप्ताक्षरे ब्रह्मरन्ध्रभ्रूमध्यकण्ठहृन्नाभिगुह्यपादेषु न्यासः ।
द्व्यक्षरे ब्रह्मरन्ध्रहृदोः ।
त्र्यक्षरे गुह्यान्तयोः ।
चतुरक्षरे गुह्यपादान्तयोरिति ॥ ८१-८३ ॥
कालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासितं
मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि ।
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यन्तीं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥ ८४ ॥
ध्यानमाह कालेति ।
वीरासनमन्त्ये वक्ष्यति ।
ज्ञानमुद्रालक्षणं प्राक् ।
अपरं वामम् ।
राघवं पश्यन्तीं पार्श्वगतां सीताञ्च भजे इति सम्बन्धः ।
अस्मिन् पाठे वक्ष्यमाणसीतामन्त्रस्यापि ध्यानमुक्तं भवति ।
क्वचित्पश्यन्तमिति पाठः ।
तदा सीतां पश्यन्तं राघवं भजे इति सम्बन्धः ।
उक्तञ्च—-
वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभम् ।
इति ।
आकल्पो भूषा ।
अत्र ध्यानानन्तरं नारायणाष्टाक्षरोक्तां गरुडमुद्रां च दर्शयेत् ॥ ८४ ॥
वर्णलक्षं जपेन्मन्त्रं दशांशं कमलैः शुभैः ।
जुहुयादचीते वह्नौ ब्राह्मणान् भोजयेत्ततः ॥ ८५ ॥
वर्णलक्षं षट्लक्षम् ।
अचीते वह्नाविति रामपीठं वह्नावावाह्येत्यर्थः ॥ ८५ ॥
पूजयेद्वैष्णवे पीठे मूत्तीं मूलेन कल्पयेत् ।
श्रीं सीतायै द्विठान्तेन सीतां पार्श्वगतां यजेत् ॥ ८६ ॥
श्रीं सीतायै स्वाहा इति ।
अयं स्वतन्त्रोऽपि मन्त्रः ।
तदुक्तम्—-सीतामन्त्रोऽपि कथितः स्वतन्त्रोऽङ्गपरोऽपि च ।
इति ।
स्कन्दयामले निर्वाणखण्डेऽपि—-
ब्रह्मा गृणाति त्वच्छक्तिं देवीं वाचं त्वदाप्तये ।
विष्णुर्ध्यायति त्वामेव सुषुम्णां पारमेश्वरीम् ॥
सीतामुपास्ते व्योमान्तरीश्वरो बिन्दुरूपिणीम् ।
सदाशिवो नादमयीं खातीतामुन्मनीं शिवः ॥ इति ।
अस्यर्थ्यादिकमगस्तिसंहितोक्तं यथा—-
जनकोऽस्य ऋषिश्छन्दो गायत्रं देवता मनोः ।
सीता भगवती प्रोक्ता श्रीबीजं शक्तिरन्तजौ ॥
दीर्घस्वरयुजाद्येन षडङ्गानि प्रकल्पयेत् ।
पूजयेद्वैष्णवे पीठे ध्यायेद्राघवसंयुताम् ॥
सुवर्णाभाम्बुजकरां रामालोकनतत्पराम् ।
वर्णलक्षं जपेन्मन्त्रमिष्टार्थान् साधयेत्ततः ॥ इति ॥ ८६ ॥
अग्रे पार्श्वद्वये शार्ङ्गं शरानङ्गानि तद्बहिः ।
हनूमन्तं ससुग्रीवं भरतं सविभीषणम् ॥ ८७ ॥
लक्ष्मणाङ्गदशत्रुघ्नान् जाम्बुवन्तं दलेष्विमान् ।
वाचयन्तं हनूमन्तमग्रतो धृतपुस्तकम् ॥ ८८ ॥
यजेद्भरतशत्रुघ्नौ पार्श्वयोर्धृतचामरौ ।
धृतातपत्रं हस्ताभ्यां लक्ष्मणं पश्चिमे यजेत् ॥ ८९ ॥
सृष्टिं जयन्तं विजयं सुराष्ट्रं राष्ट्रवर्द्धनम् ।
अकोपं धर्मपालाख्यं सुमन्त्रं च दलाग्रतः ॥ ९० ॥
सर्वाभरणसम्पन्नान् लोकेशानर्चयेत्ततः ।
तदस्त्राणि ततो बाह्ये वज्रादीनि प्रपूजयेत् ॥ ९१ ॥
एवं पूजादिभिः सिद्धे मनौ कर्म्माणि साधयेत् ।
जातीप्रसूनैर्जुहुयाच्चन्दनाम्भःसमुक्षितैः ॥ ९२ ॥
राजवश्याय कमलैर्धनधान्यादिसम्पदे ।
नीलोत्पलानां होमेन वशयेदखिलं जगत् ॥ ९३ ॥
बिल्वप्रसूनैर्जुहुयादिन्दिरावाप्तये नरः ।
दूर्वाहोमेन दीर्घायुर्भवेन्मन्त्री निरामयः ॥ ९४ ॥
रक्तोत्पलहुतान्मन्त्री धनमाप्नोति वाञ्छितम् ।
मेधाकामेन होतव्यं पलाशकुसुमैर्नवैः ॥ ९५ ॥
तज्जप्तमम्भः प्रपिबेत्कविर्भवति वत्सरात् ।
तन्मन्त्रितान्नं भुञ्जीत महदारोग्यमाप्नुयात् ॥ ९६ ॥
अग्रे पार्श्वद्वय इति व्यधिकरणे सप्तम्यौ ।
तेनाग्रे पुरतः पार्श्वद्वये वामदक्षिण- पार्श्वयोः शार्ङ्ग शरानिति सम्बन्धः ।
अनेनैतावत्पर्यन्तं मुख्यपूजेत्युक्तम् ।
उक्तञ्च—-
वामपार्श्वे त्रिकोणस्य शार्ङ्गं दक्षिणके शरान् ।
शं शार्ङ्गाय नमोऽस्त्वेवं शं शरेभ्यो नमोऽस्त्विति ॥
पूजानुज्ञां ततो लब्ध्वा रश्मीनङ्गान्यथो यजेत् ।
इति ।
पूजायन्त्रं तु तन्त्रान्तरोक्तं यथा—-
भूगृहाष्टकपत्रान्तः षट्कोणमतिसुन्दरम् ॥ इति ।
अत्रैव वक्ष्यमाणं धारणयन्त्रं वा ।
तदुक्तमगस्तिसंहितायाम्—-
षट्कोणादि धरण्यन्तं पूर्ववद्विलिखेदथ ।
तस्य मध्ये लिखेत्तारं षट्सु कोणेष्वपि क्रमात् ॥
मूलमन्त्राक्षराण्येव सन्धिष्वङ्गं च मान्मथम् ।
मायां गण्डेषु किञ्जल्के स्वराणां लेखनं मतम् ॥
पत्रेषु पूर्ववन् मालामन्त्रो लेख्यः क्रमेण हि ।
दशाक्षरेण संवेष्ट्य काद्यानि व्यञ्जनानि च ॥
दिग्विदिक्षु लिखेद्बीजे नरसिंहवराहयोः ।
एतद्यन्त्रान्तरं चात्र साङ्गावरणमर्चयेत् ॥
सौवर्णे राजते भूर्जे लिखित्वाऽर्चनमारभेत् ।
इति ।
अङ्गानि तद्बहिरिति आग्नेयादि षट्सु कोणेषु ॥
तदुक्तम्—- इष्ट्वाङ्गदेवताः षट्कोणेष्वग्निकोणादि ।
इति ।
अन्यत्रापि—- षट्कोणे प्रथमावृत्तिः स्यादङ्गैरग्नितः क्रमात् ।
इति ।
पश्चिमे देवपृष्ठभागे ।
अत्र हनूमन्तमित्यादि प्रथममुद्दिश्य पश्चाद्वाचयन्त- मित्यादिना यत्प्राधान्येन चतुर्णां
सध्यानं पूजनमाह ।
तेनैषां चतुर्णां मन्त्रा अपि प्रधानभूता इत्यपि सूचितम् ।
यदगस्तिसंहितायाम्—-
आञ्जनेयमनुं वक्ष्ये भुक्तिमुक्त्येकसाधनम् ।
प्रकाशितं शङ्करेण लोकानां हितकाम्यया ॥
भूतप्रेतपिशाचादिडाकिनीब्रह्मराक्षसाः ।
दृष्ट्वाऽथ प्रपलायन्ते मन्त्रानुष्ठानतत्परम् ॥
प्रधानश्चाऽङ्गभूतोऽयं मन्त्रराजो ह्यनुत्तमः ।
पूर्वं नमः पदञ्चोक्त्वा ततो भगवते पदम् ॥
आञ्जनेयपदं ङेऽन्तं महाबलपदं तथा ।
वह्निजायान्त एव स्यान् मन्त्रो हनूमतः परः ॥
सर्वसिद्धिकरः प्रोक्तो मन्त्रश्चाऽष्टादशाक्षरः ।
ऋषिरीश्वर एव स्यादनुष्टुप् छन्द उच्यते ॥
हनूमान् देवता प्रोक्तो हं बीजं शक्तिरन्तजौ ।
हनूमत्प्रीणनं चैव फलमाद्यमुदाहृतम् ॥
नमो भगवते चाञ्जनेयायाऽङ्गुष्ठयोर्न्यसेत् ।
रुद्रमूर्त्तय इत्येवं तर्जनीभ्यामनन्तरम् ॥
वायुसुतायाऽपि तथा मध्यमाभ्यामपि स्फुटम् ।
अग्निगर्भाय च तथाऽनामिकाभ्यां प्रविन्यसेत् ॥
रामदूताय च पुनः कनिष्ठाभ्यां विचक्षणः ।
ब्रह्मास्त्रवारणार्थाय चाऽस्त्रमन्त्रः समीरितः ॥
एवं षडङ्गं च मुने कृत्वा ध्यायेदनन्यधीः ।
स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् ॥
कुण्डलद्वयसंशोभिमुखाम्भोजं मुहुर्मुहुः ।
अयुतं तु पुरश्चर्या रामस्याग्रे शिवस्य वा ॥
पूजां तु वैष्णवे पीठे शैवे वा विदधीत वै ।
आवृतिभिवीना नित्यं नक्ताशी विजितेन्द्रियः ॥ इति ।
रेफपूर्वं समुद्धृत्य बिन्दुलक्ष्मणसंयुतम् ।
ङेऽन्तोऽयं लक्ष्मणमनुर्नमसा च समन्वितः ॥
अगस्त्य ऋषिरस्याऽथ गायत्रं छन्द उच्यते ।
लक्ष्मणो देवता प्रोक्तो लं बीजं शक्तिरस्य हि ॥
नमस्तु विनियोगो हि पुरुषार्थचतुष्टये ।
दीर्घभाजा स्वबीजेन षडङ्गानि प्रकल्पयेत् ॥
द्विभुजं स्वर्णरुचिरं तनुं पद्मनिभेक्षणम् ।
धनुर्बाणकरं रामसेवासंसक्तमानसम् ॥
पूजापि वैष्णवे पीठे साङ्गावरणवजीते ।
सप्तलक्षं पुरश्चर्या ततः सिद्धस्तु साधयेत् ॥
भरतस्यैवमेव स्याच्छत्रुघ्नस्याऽप्ययं विधिः ।
अङ्गत्वेनोदिता ह्येते प्राधान्येनापि सम्मताः ॥
आदौ वाऽप्यन्ततो वापि पूजायां राघवस्य तु ।
एतेषामपि कर्त्तव्या पूजा भुक्तिफलेप्सुभिः ॥
प्राधान्येन पृथक्त्वेन अङ्गत्वे रामपीठके ।
लक्ष्मणस्तु सदा पूज्यः प्राधान्येनैव नित्यशः ॥
यथा रामस्य पूजा स्यात्तथा तस्यापि नित्यशः ॥
साफल्यं रामपूजाया यदीच्छेन्नियतब्रतः ॥
तेन यत्नेन कर्त्तव्या लक्ष्मणस्यापि विस्तरात् ।
श्रीराममन्त्रभेदास्तु बहवः सन्ति वै मुने ॥
तत्साधकैः सदा कार्या सौमित्रेरपि नित्यशः ।
अष्टोत्तरसहस्रं वा शतं वा सुसमाहितः ॥
लक्ष्मणस्य मनुर्जप्यो मुमुक्षुभिरतन्द्रितम् ।
अजप्त्वा लक्ष्मणमनुं राममन्त्रं जपन्ति ये ॥
तज्जप्तस्य फलं नैव प्रयान्ति कुशला अपि ।
अरिमित्रविधिः कोऽपि नैव कार्ये भवेदिह ॥
यो जपेल्लक्ष्मणमनुं नित्यमेकान्तमास्थितः ।
मुच्यते सर्वपापेभ्यः स कामानश्नुतेऽखिलान् ॥
प्रयोगायैव मन्त्रोऽयमुपदिष्टो हि शाङ्गीणा ।
सन्ध्याञ्चोपास्य विधिवन् मूलमन्त्रेण मन्त्रवित् ॥
त्रिकालं नियतो भूत्वा कृतनित्यविधिः स्वयम् ।
दीक्षायुतो यथान्यायं गुर्वनुज्ञापुरःसरम् ॥
मुच्यते सर्वपापेभ्यो याति विष्णोः परं पदम् ।
एहिकाननपेक्ष्यैवं निष्कामो योऽर्चयेद्विभुम् ॥
दीक्षां प्राप्य विधानेन गुरोवीगतकल्मषात् ।
आचारादिरताद्दान्ताद् गृहस्थाद्विजितेन्द्रियात् ॥
तदनुज्ञानुसारेण पुरश्चर्या यथाविधि ।
स सर्वान् पुण्यपापौघान् दग्ध्वा निर्मलमानसः ॥
पुनरावृत्तिरहितं शाश्वतं पदमाप्नुयात् ।
सकामो वाञ्छितान् लब्ध्वा भुक्त्वा भोगान् यथेप्सितान् ॥
जातिस्मरश्चिरं भूत्वा याति विष्णोः परं पदम् ।
यथा श्रीराममन्त्राणां प्रयोक्तुः पापसम्भवः ॥
तथा नो लक्ष्मणमनोः किन्तु याति परां गतिम् ।
केचिन् मुक्त्यर्थमेव स्युः केचिदैहिकसाधनाः ॥
भुक्तिमुक्तिप्रदश्चाऽयमेको विज्ञायते परम् ॥ इति ॥ ८७-९६ ॥
तारं मध्ये विलिखतु मनुं षट्सु कोणेषु सन्धि-
ष्वङ्गं मायां स्मरमपि लिखेत्कोणगण्डेषु पश्चात् ।
किञ्जल्केषु स्वरगणमथो पत्रमध्येषु माला-
मन्त्रोत्थार्णान् गुहमुखमितानष्टमे पञ्च वर्णान् ॥ ९७ ॥
दशाक्षरेण संवेष्ट्य कादिवर्णैश्च भूपुरे ।
दिग्विदिक्षु लिखेद्बीजे नरसिंहवराहयोः ॥ ९८ ॥
धारणयन्त्रमाह तारमिति ।
मध्ये कणीकायां साध्यसाधककर्मसहितं प्रणवं लिखेत् ।
मनुं रामषडक्षरम् ।
सन्धिषु षट्सन्धिषु ।
अङ्गं षडङ्गमन्त्राः ।
कोणगण्डेषु कोणकपोलेषु ।
एकत्र मायाम् अपरत्र कामं लिखेत् ।
ततोऽष्टदलकेसरस्थाने षोडशस्वरान् लिखेत् ।
मालामन्त्रो वक्ष्यमाणः सप्तचत्वारिंशदक्षरः ।
गुहमुखमितान् षट्परिमितान् ।
दशाक्षरेण वक्ष्यमाणेन ।
कादिवर्णैः संवेष्ट्येति सम्बन्धः ।
भूपुरे दिग्विदिक्षु बीजे लिखेदिति सम्बन्धः ।
नरसिंहबीजमग्रिमपटले वक्ष्यमाणम् ।
वराहबीजं वाराहमन्त्रे वक्ष्यमाणम् ॥ ९७-९८ ॥
नमो भगवते ब्रूयाच्चतुर्थ्या रघुनन्दनम् ।
रक्षोघ्नविषदायाऽन्ते मधुरादि समीरयेत् ॥ ९९ ॥
प्रसन्नवदनायेति पश्चादमिततेजसे ।
बालाय पश्चाद्रामाय विष्णवे तदनन्तरम् ।
प्रणवादि नमोऽन्तोऽयं मालामनुरुदीरितः ॥ १०० ॥
मालामन्त्रमाह नम इति ।
रघुनन्दनाच्चचतुर्थी रघुनन्दनाय ।
प्रसन्नवदनाय अमिततेजसे इत्यत्र न सन्धिः ।
सप्तचत्वारिंशदक्षराणि यन्त्रे नियमितत्वात् अयं मालामन्त्रोऽपि स्वतन्त्रः ।
तदृष्यादिकं यथा—-
मुनिः पितामहश्छन्दः सात्यनुष्टुप च देवता ।
राज्याभिषिक्तो रामश्च बीजशक्ती तथा पुरा ॥
तारवाक्कामबीजैश्च सम्पुटं प्रजपेदमुम् ।
शिरस्याननवृत्ते च भ्रूमध्येऽक्षिद्वयेऽपि च ॥
श्रोत्रयोर्घ्राणयोश्चैव गण्डयोरोष्ठयोरपि ।
दन्तयोरास्यदेशे च दोःपत्सन्ध्यग्रकेषु च ॥
कण्ठे स्तने हृदि द्वन्द्वे पार्श्वयोः पृष्ठदेशतः ।
जठरे नाभ्यधिष्ठाने गुह्ये वर्णान् प्रविन्यसेत् ।
सप्तर्त्तुसप्तदशषड्रुद्रसङ्ख्यैः षडङ्गकम् ॥
उद्भिन्ननीलशकलामलकान्तिमब्ज-
चापासिवाणकरमम्बुजपत्रनेत्रम् ।
पीताम्बरं स्मितसुधामधुरं मुरारिं
सञ्चिन्तयेन् मिथिलराजसुतासहायम् ॥
जपेद्द्वादशलक्षं च ध्यात्वैवं विजितेन्द्रियः ।
बैल्वैः फलैः प्रसूनैश्च पत्रैस्त्रिमधुसंयुतैः ॥
मधुरत्रययुक्तेन पयोऽन्नेन सिताम्बुजैः ।
होमं दशांशतः कुर्यात्तथा सर्वत्र तर्पणम् ॥
प्राक्प्रोक्ते पूजयेत् पीठे मूर्त्तावावाह्य देवताम् ।
प्रथमाङ्गावृतिः प्रोक्ता द्वितीया लक्ष्मणादिभिः ॥
नारदाद्यैस्तृतीया स्याल्लक्ष्म्याद्याभिस्तुरीयका ।
चतुदीक्स्थैश्च सृष्ट्याद्यैः पञ्चमी लोकनायकैः ॥
षष्ठी वज्रादिभिः प्रोक्ता सप्तमीज्या प्रकीत्तीता ।
लक्ष्मणो भरतश्चैव शत्रुघ्नश्च हनूमता ॥
सुग्रीवः पञ्चमः प्रोक्तः षष्ठ उक्तो विभीषणः ।
अङ्गदः सप्तमः प्रोक्तो नीलोऽष्टम उदाहृतः ॥
नारदश्च वसिष्ठश्च वामदेवस्तृतीयकः ।
जाबालो गौतमश्चापि भरद्वाजोऽथ कश्यपः ॥
वाल्मीकिश्चाष्टमः प्रोक्तो लक्ष्मीश्चापि सरस्वती ।
रतिप्रीती कीत्तीकान्ती तुष्टिपुष्टी इमाः क्रमात् ॥
सृष्टिर्जयन्तविजयौ सिद्धार्थः कार्यसाधकः ।
अशोकश्चैव पूर्वस्यां श्रीवत्सश्च गदा तथा ॥
पाञ्चजन्यः कौस्तुभाख्यो वनमाला च दक्षिणे ।
उत्तरे चक्रपद्मे च शार्ङ्गबाणाश्च खड्गकाम् ॥
पश्चिमे धर्मगरुडधर्मपालसुमन्त्रकान् ॥ इति ॥ ९९-१०० ॥
जानकीवल्लभायाऽथ भवेत् पावकवल्लभा ।
हुमादिरेषः कथितो राममन्त्रो दशाक्षरः ॥ १०१ ॥
दशाक्षरोऽपि स्वतन्त्रो मन्त्रः ।
तदृष्यादिकं यथा—-
दशाक्षरोऽयं मन्त्रोऽस्य वसिष्ठः स्यादृषिवीराट् ।
छन्दस्तु देवता रामः सीतापाणिपरिग्रही ॥
आद्यं बीजं द्विठः शक्तिः कामेनाङ्गानि पूर्ववत् ।
शिरोललाटभ्रूमध्य तालुकण्ठेषु हृद्यपि ॥
नाभ्यन्धुजानुपादेषु दशार्णान् विन्यसेन्मनोः ।
अयोध्यानगरे चित्रसर्वसौवर्णमण्डपे ॥
मन्दारपुष्पैराबद्धविताने तोरणाञ्चिते ।
सिंहासने समारूढं पुष्पकोपरि राघवम् ॥
रक्षोभिर्हरिभिर्मौलैदीव्ययानगतैः शुभैः ।
संस्तूयमानं मुनिभिः प्रह्वैश्च परिसेवितम् ॥
सीतालङ्कृतवामाङ्कं लक्षणेनोपसेवितम् ।
श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् ॥
ध्यानान्ते च जपेन्मन्त्रं वर्णलक्षं विचक्षणः ।
दशांशं जुहुयाद्बैल्वैः फलैर्मधुरसंयुतैः ॥ इति ॥
अस्य पूजा षडक्षरवदेव ज्ञेया ॥ १०१ ॥
जपादिसाधितं यन्त्रं स्वर्णपट्टादिकल्पितम् ।
बाहुना विधृतं दद्याद्विजयश्रीपराक्रमान् ॥ १०२ ॥
जपादीति आदिशब्देन पूजासम्पातौ ।
स्वर्णपट्टादिकल्पितमित्यादिशब्देन रजत- ताम्रभूर्जपत्राणि ।
तत्तल्लेख्यविशेषे कालविशेषोऽपि ।
यदगस्तिसंहितायाम्—-
यावज्जीवं तु सौवर्णे रौप्ये विंशतिवाषीकम् ।
भूर्जे द्वादशवर्षाणि तदर्धं ताम्रपत्रके ॥
एवं लेख्यविशेषेण यन्त्रसिद्धिः प्रतिष्ठिता ॥ इति ।
इदं गदितं विधानं राममन्त्रस्य राम इति द्व्यक्षरस्य मन्त्रस्य ज्ञेयमिति शेषः ।
वह्निर्नारायणेनाढ्यो जठरः केवलोऽपि च ।
द्व्यक्षरो मन्त्रराजोऽयं भुक्तिमुक्तिफलप्रदः ॥
एकाक्षरोक्तमृष्यादि स्यादाद्येन षडङ्गकम् ।
तारमायारमानङ्गवाक्स्वबीजैस्तु षड्विधः ॥
द्व्यक्षरो मन्त्रराजः स्यात् सर्वाभीष्टफलप्रदः ।
द्व्यक्षरश्चन्द्रभद्रान्तो द्विविधश्चतुरक्षरः ॥
ऋस्यादि पूर्ववत् ज्ञेयमेतेषां तु विचक्षणैः ॥ इति ॥ १०२ ॥
गदितं राममन्त्रस्य विधानं सुरपूजितम् ।
तारं नमो भगवते वराहपदमीरयेत् ॥ १०३ ॥
रूपाय भूर्भुवःस्वः स्यात् पतये तदनन्तरम् ।
भूपतित्त्वं मे पदान्ते देह्यन्ते च ददापय ॥ १०४ ॥
वह्निजायावधिर्मन्त्रः स्यात् त्रयस्त्रिंशदक्षरः ।
भार्गवो मुनिराख्यातश्छन्दोऽनुष्टुबुदाहृतम् ॥ १०५ ॥
देवतादिवाराहोऽस्य मन्त्रस्य कथितो बुधैः ।
एकदंष्ट्राय हृदयं व्योमोल्काय शिरः स्मृतम् ॥ १०६ ॥
शिखा तेजोऽधिपतये विश्वरूपाय वर्म च ।
महादंष्ट्राय शस्त्रं स्यात् पञ्चाङ्गमिति कल्पयेत् ॥ १०७ ॥
एवं महाकपिलनारदहयशीर्षपञ्चरात्रस्कन्दयामलवैष्णवतन्त्रप्रोक्तमन्त्र चतुष्टय- मुक्त्वा
राममन्त्रयन्त्रे नरसिंहवराहयोरुद्दिष्टत्वात् तत्र नरसिंहे बहुवक्तव्यत्वादादौ वाराहमन्त्रमुद्धरति तारमिति ।
वह्निजाया स्वाहा ।
हुं बीजं स्वाहा शक्तिः ।
तत्र मन्त्रार्थेन विनियोगोक्तिः ॥ १०३-१०७ ॥
आपादं जानुदेशाद्वरकनकनिभं नाभिदेशादधस्तान्
मुक्ताभां कण्ठदेशात्तरुणरविनिभं मस्तकान्नीलभासम् ।
ईडे हस्तैर्दधानं रथचरणदरौ खड्गखेटौ गदाख्यां
शक्तिं दानाभये च क्षितिचरणलसद्दंष्ट्रमाद्यं वराहम् ॥१०८॥
ध्यानमाह आपादमिति ।
रथचरणं चक्रम् ।
दरः शङ्खः ।
गदाख्यां गदाम् ।
क्षितिः पृथिवी तस्याश्चरणो मूलं तत्र लसन्ती दंष्ट्रा यस्य तम् ।
दंष्ट्रालग्नभूमिमित्यर्थः ।
दक्षाद्यूर्ध्वयोराद्ये तदधोधस्थयोरन्योन्य इत्यायुधध्यानम् ।
अत्र ध्यानानन्तरमिदं मुद्राद्वयं दर्शनीयम् ।
तल्लक्षणं यथा—-
वामहस्तमथोत्तानं कृत्वा देवस्य चोपरि ।
नामयेदिति सम्प्रोक्ता मुद्रा वाराहसञ्ज्ञिता ॥ इति ॥
दक्षहस्तं चोर्ध्वमुखं वामहस्तमधोमुखम् ।
अङ्गुल्यग्रन्त संयुक्तं मुद्रा वाराहसञ्ज्ञिता ॥ इति ॥ १०८ ॥
लक्षमेकं जपेन्मन्त्रं मधुराक्तैः सरोरुहैः ।
जुहुयात्तद्दशांशेन पीठे विष्णोः प्रपूजयेत् ॥ १०९ ॥
मूत्तीं मूलेन सङ्कल्प्या वक्ष्यमाणविधानतः ।
पूर्वादिषु चतुदीक्षु हृदाद्यङ्गानि पूजयेत् ॥ ११० ॥
अस्त्रं कोणेष्वधश्चोर्ध्वं चक्राद्यस्त्राणि तद्बहिः ।
चक्रं शङ्खमसिं खेटं गदां शक्तिं वराभये ॥ १११ ॥
सम्पूज्य बाह्ये लोकेशान् बहिरस्त्राणि संयजेत् ।
ध्यानाद्देवो धनं दद्याज्जपात् दद्याद्वसुन्धराम् ।
प्रयच्छेज्जपपूजाद्यैर्धनधान्यमहीश्रियः ॥ ११२ ॥
विष्णोः पीठे वक्ष्यमाणविधानतः पूजयेद्वराहमिति शेषः ।
पूर्वादीति चतुर्थेक्ताग्नेयादिस्थानापवादः ।
तद्बहिरिति पत्रमध्येषु ॥ १०९-११२ ॥
रवौ सिंहगतेऽष्टम्यां शुक्लपक्षे सितां शिलाम् ।
पञ्चगव्येषु निक्षिप्य स्पृष्ट्वा तमयुतं जपेत् ॥ ११३ ॥
सिंहेति मेषचापयोरप्युपलक्षणम् ।
उक्तञ्च नारायणीये—-
शुक्लाष्टम्यां रवौ मेषसिंहचापगते खनेत् ।
इति ।
सितां शिलामिति ।
फलाधिकाम् ।
दशपलमितां बिल्वपात्रादिस्थामिति पद्मपादाचार्याः ॥ ११३ ॥
उत्तराभिमुखो भूत्वा तां शिलां निखनेद्भुवि ।
शत्रुचौरमहाभूतैः कृतां बाधां प्रणाशयेत् ॥ ११४ ॥
निखनेदिति ।
भूबीजसहितं वराहमन्त्रं जपन्निति ज्ञेयम् ।
तदुक्तमाचार्यैः—-
उदग्वक्त्रो मन्त्री मनुजपरतः स्थापयतु ताम् ।
इति ॥ ११४ ॥
भानूदये भौमवारे साध्यक्षेत्रात्समाहरेत् ।
मृत्तिकां सञ्जपन्मन्त्री तां पुनवीभजेत् त्रिधा ॥ ११५ ॥
चूल्ल्यामेकां समारोप्य पाकपात्रे तथापरम् ।
गोदुग्धे परमालोड्य शोधितांस्तण्डुलान् क्षिपेत् ॥ ११६ ॥
संस्कृतेऽग्नौ पचेत्सम्यक् चरुं मन्त्री जपन्मनुम् ।
अवतार्य चरुं पश्चादग्नौ देवं यथाविधि ॥ ११७ ॥
धूपदीपादिकैरिष्ट्वा पुनराज्यप्लुतं चरुम् ।
जुहुयादेधिते वह्नौ यावदष्टोत्तरं शतम् ॥ ११८ ॥
एवं सप्तारवारेषु जुहुयात् क्षेत्रसिद्धये ।
प्रातःकाले भृगोर्वारे मृदं साध्यमहीतलात् ॥ ११९ ॥
आदाय हविरापाद्य पूर्ववज्जुहुयात् सुधीः ।
विरोधो नश्यति क्षेत्रे सह चौराद्युपद्रवैः ॥ १२० ॥
राजवृक्षसमुत्थाभिः समिद्भर्मनुनाऽमुना ।
त्रिसहस्रं प्रजुहुयात्तस्य स्युः सर्वसम्पदः ॥ १२१ ॥
शालिभिर्जुहुयान्मन्त्री नित्यमष्टोत्तरं शतम् ।
समृद्धैर्धान्यसङ्घातैः शोभते तस्य मन्दिरम् ॥ १२२ ॥
तावदाज्येन जुहुयात् मण्डलात् स्वर्णमाप्नुयात् ।
लाजैः कन्यामवाप्नोति मध्वक्तैर्निजवाञ्छितम् ॥ १२३ ॥
मधुरत्रयसंयुक्तैर्जुहुयादुत्पलैर्नवैः ।
महतीं श्रियमाप्नोति मण्डलात्पूर्वसङ्ख्यया ॥ १२४ ॥
मन्त्रीत्यनेन भूबीजसाहित्यमुक्तमिति पद्मपादाचार्याः ।
निखननमभिजित्येव ।
" क्षेत्रमध्येऽभिजित्काले " इत्युक्तेः ।
साध्यक्षेत्राज्जिघृक्षितात् ।
सञ्जपन्निति सर्वत्र सम्बध्यते ।
समा (सञ्जपेदित्यत्र सम्पदेन) भूबीजयोग उक्तः ।
सम्यक् संस्कृतेऽग्नौ चरुं पचेदिति सम्बन्धः ।
तत्र सम्यगित्यनेन अष्टादशसंस्कारादि महागणपति मन्त्रहोमान्त- मित्युक्तं भवति ।
मन्त्रीत्यनेन भूबीजयोगः ।
होमेऽपि तद्बीजयोगो ज्ञेयः ।
यथा विधीत्यनेनाग्नौ मण्डूकादि पुष्पान्तं समभ्यर्च्येत्युक्तम् ।
आदिशब्देन नैवेद्यग्रहणम् ।
पुनरनन्तरम् ।
आरो भौमः ।
हविरापाद्येति चरुं कृत्वा ।
पूर्ववद्धविरापाद्य पूर्ववत् जुहुयादित्यनेन भौमवारप्रयोगोक्तक्रमेणाष्टोत्तरशतमित्युक्तम्।
नवैरित्यनेनान्यत्र पर्युषित- ग्रहणमपि ।
अत्र तु न तथेत्युक्तम् ।
पूर्वसङ्ख्यया त्रिसहस्रमित्यादि ॥ ११५-१२४ ॥
मध्ये बीजं सतारं दहनपुरयुगे चक्रवर्णान् षडस्रे-
ष्वालिख्याऽङ्गानि सन्धिष्वथ करणदलैरम्बुजं केसरेषु ।
अष्टार्णान् पत्रमध्ये लिखतु वसुमितान् मन्त्रवर्णांश्चतुर्थे
शिष्टं पत्रे पुरस्ताद्वसुदलकमले केसरस्थस्वराढ्ये ॥ १२५ ॥
मन्त्रार्णान् देवसङ्ख्यान् दलमनु विलिखेदन्त्यमन्न्येऽथ बाह्ये
किञ्जल्कैः कादिवर्णैवीकसितकमले षोडशारे यथावत् ।
मन्त्रार्णान् युग्मशस्तच्चरमदलगतं शिष्टवर्णं लिखित्वा
तारक्ष्माकोलबीजैस्तदनु परिवृतं साध्यनामार्णमध्यैः ॥१२६॥
दभीतैः साध्यनामार्णैर्मन्त्रवर्णैर्वृतं बहिः ।
भूबिम्बेनाऽस्य कोणेषु भूबीजं साध्यसंयुतम् ।
अष्टशूलेषु वाराहं भूबीजसहितं लिखेत् ॥ १२७ ॥
यन्त्रमाह मध्य इति ।
दहनपुरयुगे परस्परव्यतिभिन्ने षट्कोणे मध्ये व्यधिकरणे सप्तम्यौ ।
तत्र सतारं सप्रणवं साध्यसाधकनामकर्मसहितं बीजं वक्ष्यमाणं वाराहं लिखेत् ।
अत्र तारः चक्रमन्त्रस्थ इति ज्ञेयम् ।
षडस्रेषु षट्कोणेषु ।
चक्रवर्णान् वक्ष्यमाणप्रणवव्यतिरिक्तचक्रमन्त्रार्णान् ।
अङ्गानि सन्धिषु चक्रमन्त्रषडङ्गानीति सम्प्र- दायविदः ।
रन्ध्रेष्वङ्गमनूनपीत्यस्य प्रपञ्चसारपद्यस्य व्याख्याने पद्मपादाचार्यैः चक्र- मन्त्रषडङ्गानीति व्याख्यातम् ।
करणदलैश्चतुर्दलैः ।
अष्टार्णान्नारायणाष्टार्णान् ।
एकैकस्मिन् केसरे वर्णद्वयक्रमेण मन्त्रवर्णान् वाराहमन्त्रार्णान् ।
वसुमितानष्टमितान् ।
चतुर्थपत्रे नव वर्णाः ।
यथावदिति ।
अत्र पत्रादीति सर्वत्र सम्बध्यते ।
तारः प्रणवः ।
क्ष्मा भूबीजं महागणपतिपटले उद्धृतम् ।
कोलबीजं वक्ष्यमाणं वाराहबीजम् ।
एतैः किंविशिष्टैः साध्यनाम्नोऽक्षराणि मध्ये येषां तैर्वेष्टयेत् ।
एतेन साध्यनामाक्षर- परिपुटितत्वं बीजानामुक्तं भवति ।
तदुक्तमाचार्यैः—-
तारमहीकोलार्णैः प्रवेष्टयेत् साध्यपरिपुटितैः ।
इति ।
मन्त्रवर्णैर्दभीतैः साध्यनामार्णैः वृतमिति सम्बन्धः ।
दभीतलक्षणं त्रयोविंशे वक्ष्यति ।
" तद्बाह्ये मनुवर्णैवीदभीताभिश्च साध्यपदलिपिभिः " इत्याचार्येक्तेः बहिर्भू- बिम्बेन वृतमिति सम्बन्धः ।
अष्टशूलेष्विति वद्धीताष्टरेखाग्रकृतेषु ।
तत्र मध्यरेखाया दक्षे वाराहं वामे भूबीजं लिखेदिति सम्प्रदायः ॥ १२५-१२७ ॥
सार्घीशबिन्दुगगनं बीजं वाराहमीरितम् ।
रोचनागुरुकर्पूरलाक्षाकुङ्कुमचन्दनैः ॥ १२८ ॥
गोमयाम्भसि सम्पिष्टैलीखेद्यन्त्रं शुभे दिने ।
लेखन्या हेममया च सर्वकामप्रसिद्धये ॥ १२९ ॥
स्वर्णपट्टे लिखेद्यन्त्रं राज्यश्रीसमवाप्तये ।
ग्रामसिद्धयै च रजते ताम्रपट्टे धनाप्तये ॥ १३० ॥
भूर्जपत्रे निजेष्टाप्त्यै क्षौमे भूसिद्धे लिखेत् ।
जपपूजादिभिः सिद्धं यन्त्रं कुर्यान्निजेप्सितम् ॥ १३१ ॥
ग्रामपत्तनराष्ट्रेषु यन्त्रमेतत् सुसाधितम् ।
निखनेच्छुभवारादौ साङ्गं दिक्षु समर्चयेत् ॥ १३२ ॥
क्षुद्रापमृत्युचौरादि भूतव्यालमहाभयैः ।
न शक्यते परं द्रष्टुं तं देशं देवताबलात् ॥ १३३ ॥
वाराहबीजमुद्धरति सार्घीशेति ।
गगनं हः अर्घीशः ऊकारः बिन्दुरेतद्युतम् ।
अयमपि स्वतन्त्रो मन्त्रः ।
अस्यर्ष्यादिकं यथा ।
हयग्रीव ऋषिः प्रोक्तश्छन्दस्त्रिष्टुप् च देवता ।
वराहो दीर्घयुक्तेन षडङ्गानि च कल्पयेत् ।
ध्यानपूजादिकं सर्वमस्य वाराहमन्त्रवत् ॥ इति ।
कल्पान्तरे तु भूरित्युद्धृतम् ।
तदुक्तम्—-
नाभिर्वामश्रवाः सर्गी तस्य बीजमिहोच्यते ।
इति ।
जपपूजादिभिरित्यादिशब्देन सम्पातः ।
तदुक्तम्—-
मन्त्रं सञ्जप्तमेतद्घृतकृतसम्पातपातं करोतीति ।
सुसाधितमिति जपपूजासम्पातैः ।
शुभवारादावित्यादिशब्देन स्थिरराश्यादाविति ज्ञेयम् ।
साङ्गं दिक्षु समर्चयेत् इत्यस्य अयमभिप्रायः ।
आत्मानं वाराहरूपं ध्यात्वा तत्र यन्त्रे वाराहमावाह्य सम्पूज्य पूजोक्तक्रमेण हृदयादीनि पूर्वादि चतुदीक्षु
सम्पूज्य अस्त्रं दिक्षु ऊर्ध्वाधश्च पूजयेदिति ।
तदुक्तम्—-
मन्त्री समास्थाय वराहरूपं साध्यप्रदेशे निखनेच्च यन्त्रम् ।
स्थिराख्यराशावभिवाह्य कोलमङ्गानि दिक्षु क्षिपतां यथावत् ॥ इति ।
परमत्यर्थम् ।
अस्याऽष्टाक्षरोऽपि मन्त्रः प्रसङ्गेन प्रकाश्यते—-
अष्टाक्षरे महामन्त्रे शाखादिः प्रथमाक्षरम् ।
द्वितीयं व्याहृतिस्तस्माद्वाराहाय हृदं ततः ॥ इति ।
अस्य ब्रह्मा ऋषिः जगती छन्दः श्रीवाराहो देवता ।
भं बीजम् ।
ॐ शक्तिः ।
ध्यानम्—-
कृष्णाङ्गं त्वतिनीलवक्त्त्रनलिनं पद्मस्थितं स्वाङ्कग-
क्षौणीशक्तिमुदारबाहुभिरथो शङ्खं गदामम्बुजम् ।
चक्रं बिभ्रतमुग्रकान्तिमनिशं देवं वराहं भजे
भूलक्ष्मीरतिकान्तिभिः परिवृतं चर्मासिसन्दीप्तिभिः ॥ इति ।
शेषं समानम् ।
अस्य यन्त्रद्वयमुच्यते—-
चतुर्दले मध्यबीजे केसरेऽष्टाक्षरं मनुम् ।
दलेष्वग्रसमस्ताश्च समस्ता व्याहृतीलीखेत् ॥
केसरेषु स्वरानष्ट पत्रे नारायणं मनुम् ।
दन्तसङ्ख्यदले कादीन् पत्रेष्वानुष्टुभं मनुम् ॥
हक्षेतिनाम्ना परितस्ततः पाशाङ्कुशावृतम् ।
स्मरणाद्धारणात्तस्य सर्वमिष्टफलं लभेत् ॥ इति ।
तथा—- मध्ये बीजे तथाऽष्टारे तदीयाष्टाक्षरं लिखेत् ।
बहिर्द्व्यष्टारपद्मे तु मन्त्रानुष्टुभमालिखेत् ॥
द्वन्द्वरूपेण तच्चक्रं वाराहमिति विश्रुतम् ।
यद्यत्कामयते मन्त्री सर्वमेतेन साधयेत् ॥ इति ।
मन्त्रस्तु—- परजात महाराव वराहाङ्गाऽवनेर्धव ।
वर्द्धते योऽन्वहं देवं वन्देऽहं वालिजाधवम् ॥
इति ॥ १२८-१३३ ॥
हृदयं भगवत्यै स्याद्धरण्यै तदनन्तरम् ।
धरण्यन्ते धरेद्वन्द्वे द्विठान्तोऽयं ध्रुवादिकः ॥ १३४ ॥
एकोनविंशत्यर्णाढ्यं धराहृदयमीरितम् ।
वराहोऽस्य मुनिः प्रोक्तश्छन्दो निवृदुदाहृतम् ॥ १३५ ॥
देवता सर्वभूतानां प्रकृतिर्वसुधा मता ।
हृदयं त्रिभिराख्यातं चतुभीः शिर ईरितम् ॥ १३६ ॥
त्रिभिः शिखा समुद्दष्टा कवचं पञ्चभिर्मतम् ।
द्वाभ्यां नेत्रं समाख्यातं द्वाभ्यामस्त्रं पुनर्भवेत् ।
मन्त्रवर्णैः षडङ्गानि कुर्यादेवं विधानवित् ॥ १३७ ॥
वराहमन्त्रप्रसङ्गात् धरणीमन्त्रमाह हृदयमिति ।
हृदयं नमःपदम् ।
अत्रापि पूर्ववद्विसर्गेण सह सन्धिर्ज्ञेयः ।
प्रणवो बीजं स्वाहा शक्तिः ।
विधानवित् इत्यनेन शाक्तषडङ्गमुद्राभिरित्युक्तम् ॥ १३४-१३७ ॥
श्यामां विचित्रांशुकरत्रभूषणां
पद्मासनां तुङ्गपयोधरानताम् ।
इन्दीवरे द्वे नवशालिमञ्जरीं
शुकं दधानां वसुधां भजामहे ॥ १३८ ॥
लक्षमेकं जपेन्मन्त्री धराहृदयमादरात् ।
ससपीषा पायसेन जुहुयात्तद्दशांशतः ॥ १३९ ॥
दक्षाद्यूर्ध्वयोराद्ये तदधस्थयोरन्ये इत्यायुधध्यानम् ॥ १३८-१३९ ॥
तां विष्णोः पूजयेत्पीठे वक्ष्यमाणविधानतः ।
अङ्गानि पूजयेदादौ भूवह्निजलमारुतान् ॥ १४० ॥
दिक्पत्रेषु समभ्यर्च्य कोणपत्रेषु तत्कलाः ।
आशापालाः पुनः पूज्या वज्राद्यस्त्रसमन्विताः ॥ १४१ ॥
एवं सिद्धमनुर्मन्त्री साधयेत् स्वमनोरथान् ।
मधुरत्रयसंयुक्तैर्जुहुयादरुणोत्पलैः ॥ १४२ ॥
सहस्रं भूसमृद्धिः स्यात्तथा नीलोत्पलैः शुभैः ।
प्रियङ्गुपुष्पैर्मध्वक्तैर्धनधान्यमहीश्रियः ॥ १४३ ॥
मञ्जरीं शालिसम्भूतां मधुरत्रयलोलिताम् ।
जुहुयात्साधिते वह्नौ मण्डलात् स्याद्धरापतिः ॥ १४४ ॥
विष्णोरिति ।
ग्लौ� वसुन्धरायोगपीठाय नम इति पीठमन्त्रः ।
अनेनैव बीजेन मूत्तीकल्पनं ज्ञेयम् ।
दिक्पत्रेषु अग्रपृष्ठदक्षोत्तरेषु ।
कोणपत्रेषु इत्यत्राऽऽग्नेयादिषु ।
तत्कलाः इति निवृत्तिप्रतिष्ठाविद्याशान्तयः ।
स्वमनोरथा नित्यनेन पृथ्वीप्राप्तौ स्वबीजयोगः ।
धनधान्यलाभे श्रीयोगः ।
कीर्त्तौ शक्तियोगोऽन्यत्र वराहबीजयोगोऽपि सूचितः ॥ १४०-१४४ ॥
शुक्रवारे दिनमुखे गृहीत्वा साध्यभूमृदम् ।
तामम्भसि विनिक्षिप्य शोधितेऽत्र चरुं पचेत् ॥ १४५ ॥
पयोघृताभ्यां सहितं जुहुयात्तं हुताशने ।
षण्मासं शुक्रवारेषु हुत्वैवं प्राप्नुयान्महीम् ॥ १४६ ॥
धरामेवं भजन्मन्त्री पशुरत्नधनादिभिः ।
धरायाः वल्लभः स स्यान्नात्र कार्या विचारणा ॥ १४७ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
पञ्चदशः पटलः समाप्तः ॥ १५ ॥
ब्थ् " बि
शुक्रवार इति ।
तामम्भसीति तृतीयांशम् ।
दुग्धे वा ।
तत्रैकमंशं चुल्ल्यामेकं पात्रे इति ज्ञेयम् ॥ १४५-१४७ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां पञ्चदशः पटलः ॥ १५ ॥
ब्थ् " बि