अथ चतुर्दशः पटलः
अथोच्यते चन्द्रमसो मनुः सर्वसमृद्धिदः ।
खड्गीशस्थो भृगुबीन्दुर्मनुस्वरसमन्वितः ॥ १ ॥
सोमाय हृदयान्तोऽयं मन्त्रः प्रोक्तः षडक्षरः ।
ऋषिरुक्तो भृगुः छन्दः पङ्क्तिः सोमोऽस्य देवता ॥ २ ॥
दीर्घभाजा स्वबीजेन मनोरङ्गक्रिया मता ॥ ३ ॥
अथ क्रमप्राप्ता सौरमन्त्रान् वक्तुकामस्तस्य तेजस्त्रयात्मकत्वादाद्यन्तयोः सोमाग्न्योर्मन्त्रान् वदन्
तन्मन्त्रान् वक्तुमुपक्रमते अथेति ।
सर्वसमृद्धिद इति विनियोगोक्तिः ।
मन्त्रमुद्धरति खड्गीशेति ।
खड्गीशो वः तत्स्थो भृगुः सः मनुस्वरः चतुर्दशस्वर औ बिन्दुश्च तद्युक्तः तेन स्वौम् ।
प्रयोगसारे तु—-सवौबिन्द्वादिसोमाय नमो मन्त्रः प्रकीत्तीतः ।
इति ।
क्वचिद्बन्दुमानो स्वर इति पाठः ।
नारायणीये च आचार्यैश्च स्वौमित्युद्धृतम् ।
अन्ये तु इदं मृत्युञ्जयबीजम् ।
एतदाद्यो ग्रन्थकृताऽनुद्धत इति वदन्ति ।
स्वौं बीजम् ।
आयेति शक्तिः ।
पद्मपादाचार्यैर्मेति शक्तिरुद्धृता ।
अन्यत्र तु—-
ऋषिरत्रिवीराट्छन्दो बीजमाद्यमुदाहृतम् ।
नमः शक्तिः ।
इति ।
प्रणवप्रासादसम्पुट इति केचन ।
श्रीकामैः श्रीपुटः कार्य इत्यपरे ।
स्वबीजेनेति ।
मन्त्राद्यबीजेन स्व इति बीजेन वा ॥ १-३ ॥
कर्पूरस्फटिकावदातमनिशं पूर्णेन्दुविम्बाननं
मुक्तादामविभूषितेन वपुषा निर्मूलयन्तं तमः ।
हस्ताभ्यां कुमुदं वरं च दधतं नीलालकोद्भासितं
स्वस्याऽङ्कस्थमृगाङ्कोदिताश्रयगुणं सोमं सुधाब्धिं भजे ॥ ४ ॥
ध्यानमाह कर्पूरेति ।
दक्षिणवामाभ्यां कुमुदवरे ।
क्वचिद्धनमिति पाठः ।
धनं निधिपात्रम् ।
अङ्कस्थमृगात् उदित उत्पन्नः आश्रयगुणो नीलिमा यत्र ।
तेनाङ्कोऽपि ध्येय इत्यर्थः ।
तदुक्तम्—-भवतु भवदभीष्टद्योतिताङ्कः शशाङ्कः ।
इति ।
अथवा स्वस्याङ्कस्थ- मृगेणोदित आश्रयगुणः सेवनीयगुणो येन कलङ्कित्वापवादे सत्यप्यत्यागात् ।
सुधाब्धिम् अमृतस्वरूपम् ॥ ४ ॥
रसलक्षं जपेन्मन्त्रं साधको विजितेन्द्रियः ।
षट्सहस्रं प्रजुहुयात्पायसेन ससपीषा ॥ ५ ॥
रसलक्षं षड्लक्षम् ।
साधकसत्तम इत्यनेन विद्यामन्त्रस्य दशांशजप उक्तः ।
प्रयोगेऽपि तज्जपः ।
तत्र धनलाभे श्रीयोगः कवित्वे वाग्भवयोगः सुखादौ प्रणवयोग इति पद्मपादाचार्याः ॥ ५ ॥
सोमान्तं पूजिते पीठे पूजयेद्रोहिणीपतिम् ।
अङ्गानि केसरेषु स्युस्तद्देव्यः पत्रमध्यगाः ॥ ६ ॥
रोहिणी कृत्तिका भूयो रेवती भरणी पुनः ।
रात्रिदार्द्रा ततो ज्योतिः कला हारसमप्रभाः ॥ ७ ॥
सितमाल्याम्बरधरा मुक्ताहारविभूषणाः ।
पयोधरभराक्रान्ता रचिताञ्जलयः शुभाः ॥ ८ ॥
वल्लभासक्तमनसो मदविभ्रममन्थराः ।
समभ्यर्च्याः सरोजाक्ष्यश्चन्द्रबिम्बनिभाननाः ॥ ९ ॥
सोमान्तमिति ।
चतुर्थपटले तस्मिन् सूर्येन्दुपावकानिति अनेन अग्निमण्डलान्ता पूजोक्ता ।
अत्र तु सूर्याग्निमण्डले सम्पूज्य अन्ते सोममण्डलं पूजनीयम् ।
कश्चित् सोमान्तमिति वह्निमण्डले पूजा न कर्त्तव्येत्याह ।
तन्न ।
असाम्प्रदायिकत्वात् ।
मन्त्रदेव- प्रकाशिकादिबहुग्रन्थविरोधाच्च ।
पीठकॢप्तौ तु सोमान्तमिति ।
प्रपञ्चसारपद्यव्याख्याने पद्मपादाचार्यैः पीठार्चने सूर्यवह्निमण्डलार्चनं कृत्वा ततः
सोममण्डलमभ्यर्च्य तत्र भगवन्तमावाहयेदित्युक्तम् ।
पूजिते पीठ इति ।
पीठनवशक्तिपूजापूर्वकं पीठमन्त्रेणेति शेषः ।
ताश्च पीठमन्त्रा अपि तन्त्रान्तरोक्ता ज्ञेयाः।
तद्यथा—-
अमृता तारका ज्योत्स्ना विमला व्यापिनी तथा ।
चित्रा च कृत्तिका कान्तिः श्रवणा नव शक्तयः ॥
अमृतान्ते कलात्मने संवित्पीठाय ते नमः ।
इति ।
पद्मपादाचार्यैरन्याः पीठशक्तय उक्ताः ॥
राका कुमुद्वती नन्दा सुधा सञ्जीवनी क्षमा ।
आप्यायनी चन्द्रिका च ह्लादिनी नव शक्तयः ॥
पूर्वादिक्रमतो मन्त्री नत्यन्ताः पूजयेदिमाः ॥ इति ।
कलेति शक्तिनाम ।
" कलामीशदलेषु " इत्युक्तेः ।
क्वश्चित्करालीति शक्ति- नाम ।
" कराली च क्रमादिमाः " इत्युक्तेः ।
हारसमप्रभाः श्वेता इत्यर्थः ॥ ६-९ ॥
आदित्यमङ्गलबुधमन्दवाक्पतिराहवः ।
शुक्रकेतुयुताः पूज्या दलाग्रेषु ग्रहा इमे ॥ १० ॥
स्वस्ववर्णाम्बरोपेताः स्वनामाद्यर्णबीजकाः ।
रक्तारुणश्वेतनीलपीतधूम्रसितासिताः ॥ ११ ॥
आदित्येति ।
मङ्गलः अङ्गारकः ।
मन्दः शनैश्चरः ।
वाक्पतिर्बृहस्पतिः ।
तत्र चतुदीक्षु आदित्यादयः अग्निकोणादिषु भौमादयः पूज्या इति ज्ञेयम् ।
यदाहुः—-
पूर्वदक्षिणपाश्चात्यसौम्यपत्राग्रके क्रमात् ।
रविश्चान्द्रिर्गुरुः शुक्रः सम्पूज्याः साधकैरमी ॥
आग्नेयादिषु कोणेषु भौममन्दाहिकेतवः ।
इति ।
स्वनाम्नाम् आद्यर्णाः आद्यक्षराणि सबिन्दूनि बीजानि येषां ते ।
एतेन ग्रहाणां मन्त्राः सूचिताः।
ग्रहयज्ञाङ्गत्वेन तत्र सूर्यमन्त्रं वक्ष्यति।
अन्येषां सप्तानाम् अम् अङ्गारकाय नम इत्यादयो ज्ञेयाः ।
अत्राग्रे च पूजायामपि अयमेव प्रयोगोऽनुसन्धेयः ॥ १०-११ ॥
वामोरुन्यस्ततद्धस्ता दक्षिणेन धृताभयाः ।
अम्बुजाढ्यकरो भानुर्दंष्ट्राभीममुखः शनिः ॥ १२ ॥
राहुवीकृतवक्त्रः स्यात्केतुः स्याद्विहिताञ्जलिः ।
लोकपालास्ततः पूज्या वज्राद्यस्त्रैः सह क्रमात् ॥ १३ ॥
एवं सिद्धमनुर्मन्त्री सम्पदां वसतिर्भवेत् ।
हृत्पुण्डरीकमध्यस्थं तारहारविभूषितम् ॥ १४ ॥
तारापतिं स्मरन्मन्त्री त्रिसहस्रं मनुं जपेत् ।
राज्यैश्वर्यं दरिद्रोऽपि प्राप्नुयाद्वत्सरान्तरे ॥ १५ ॥
वामोवीति सूर्यकेतू हित्वा अन्येषां ध्यानम् ।
सूर्यस्तु पद्मकरः केतुस्तु विहिताञ्जलिरित्युक्तेः ।
तदुक्तं महाकपिलपञ्चरात्रे—-
आदित्यो द्विभुजः प्रोक्तो युवा लक्षणलक्षितः ।
हस्तयोः पङ्कजे तस्य कार्ये स्कन्धमिते शुभे ॥
केतोस्तु—- खड्गदीपधरं कृष्णमथवा विहिताञ्जलिम् ।
इति ।
प्रयोगसारेऽपि—- पूर्वार्द्धकायः पिङ्गभ्रू रक्तनेत्रः कृताञ्जलिः ।
इति ।
तार उज्ज्वलो हारो मुक्ताहारः ।
तारापतिमिति नायिकासहितम् ॥ १२-१५ ॥
पूर्वेक्तसङ्ख्यं प्रजपेत् शशिनं मूध्नी चिन्तयन् ।
रोगापमृत्युदुःखानि जित्वा वर्षशतं वसेत् ॥ १६ ॥
ब्रह्मचर्यरतः शुद्धश्चतुर्लक्षमिमं जपेत् ।
निधानं भूगतं सद्यः प्राप्नुयाद्यत्नवजीतः ॥ १७ ॥
जितेन्द्रियो जपेन्मन्त्रं पौर्णमास्यां विशेषतः ।
भवेत्सौभाग्यनिलयः सम्पदामपरो निधिः ॥ १८ ॥
घोरान् ज्वरान् शिरोरोगानभिचारनुपद्रवान् ।
विषाणामपि सङ्घातं नाशयेन्मनुनाऽमुना ॥ १९ ॥
पौर्णमास्यां निराहारो दद्यादर्घं विधूदये ।
प्राक्प्रत्यगायतं कुर्याद् भूतले मण्डलत्रयम् ॥ २० ॥
निषण्णः पश्चिमे मन्त्री मण्डले विहितासने ।
मध्यस्थे स्थापयेत्पश्चात् पूजाद्रव्याण्यशेषतः ॥ २१ ॥
पूर्वेक्तसङ्ख्यमिति त्रिसहस्रम् ।
शुद्ध इत्यनेन त्रिषवणस्नायी पयआहारश्चेत्युक्तम् ।
यत्प्रयोगसारे—- कृत्वा त्रिषवणं स्नानं क्षीराहारो निरन्तरः ।
जपेच्चत्वारि लक्षाणि विधानं लभते ध्रुवम् ॥ इति ॥
मण्डलत्रयमिति ।
गोमयादिना ॥ १६-२१ ॥
अन्यस्मिन्मण्डले सोममर्चयित्वाऽम्बुजान्विते ।
राजतं चषकं तत्र स्थापयेत् पुरतः सुधीः ॥ २२ ॥
गोदुग्धेन समापूर्य स्पृष्ट्वा तं प्रजपेन्मनुम् ।
अष्टोत्तरशतं पश्चाद्विद्यामन्त्रेण देशिकः ॥ २३ ॥
दद्यादर्घं शशाङ्काय सर्वकार्यार्थसिद्धये ।
अनेन विधिना कुर्यात्प्रतिमासम्मतन्द्रितः ॥ २४ ॥
षण्मासाभ्यन्तरे सिद्धिं साधकेन्द्रः समश्नुते ।
श्रियमप्युजीतान् पुत्रान् सौभाग्यं पुष्कलं यशः ॥ २५ ॥
कन्यामिष्टामवाप्नोति कन्याऽपि वरमाप्नुयात् ।
अन्यस्मिन् पौरस्त्ये ।
सोममर्चयित्वेति पीठादिन्यासं विधाय आत्मयागं कृत्वा बहिः पीठे पङ्कजान्विते अर्चयित्वेत्यर्थः ।
उक्तञ्च—-
आसीनः पश्चिमे मध्यसंस्थे द्रव्याणि विन्यसेत् ।
आत्मानं सकलीकृत्याऽभ्यर्च्याचान्तः सुरेश्वरः ॥
पूर्वस्मिन् पङ्कजोपेते मण्डले सोममर्चयेत् ॥ इति ।
सुधीरित्यनेनैतदुक्तं भवति ।
विलोममन्त्रं जपन् पूरणं कर्पूरादीनां कुमुदादीनां च पुष्पाणां तत्र निक्षेप इति ।
यदाहुः—-
संस्थाप्य राजतं तत्र चषकं परिपूरयेत् ।
विलोमं प्रजपन् मन्त्रं गव्येन पयसा सुधीः ॥
क्षिपेच्च तत्र कर्पूरशीतकाश्मीरकाक्षतान् ।
कुशग्रन्थियवांश्चैव पुष्पाण्येतानि चादरात् ॥
कुमुदेन्दीवरस्वर्णकेतकीनवमल्लिकाः ।
चम्पकानि यथालाभं शतपत्राणि च क्षिपेत् ॥
आवाहयेच्चन्द्रबिम्बान्निजाद्वा हृदयाद्विभुम् ।
एवं समावाह्य गन्धपुष्पाद्यैरर्चयेद्विधुम् ॥ इति ॥
निराहारोऽर्घ्यं दद्यादित्युक्तत्वादर्घ्यदानादनन्तरं रात्रौ भोजनमनिषिद्धम् ।
कन्या पीत्यनेनैवमादिषु स्त्रियाम् अप्यधिकार इत्युक्तं भवति ॥ २२-२६ ॥
बहुना किमिहोक्तेन सर्वं दद्यान्निशापतिः ॥ २६ ॥
विद्ये विद्यामालिनि स्याच्चन्द्रिण्यन्ते ततो भवेत् ।
पुनश्चन्द्रमुखि स्वाहा विद्यामन्त्र उदाहृतः ॥ २७ ॥
विद्यामन्त्र उदाहृत इत्यनेनैतदुक्तम् ।
नवाक्षराद्य एष एव कन्याप्रदानसमर्थ इति।
नवाक्षराणि तु ।
रक्षयुग्मं गजौ प्रोक्त्वा कणीनि स्यान्नवाक्षरम् ।
इति ।
नारायणीये नवाक्षरादिविद्यामन्त्रमुद्धृतम् ।
विलोमान्तरितं मन्त्रं पत्रे लिख्य तदासनः ।
जपेद् द्वादशसाहस्रमेतदेकदिनेन यः ॥
ज्येष्ठामाराध्य शुक्रर्क्षे कन्या तस्याशु दीयते ।
इति ।
अथ तन्त्रान्तरोक्तं यन्त्रमुच्यते—-
चन्द्रं चन्द्रकलाभिरन्विते शशाङ्के नामतारोदरे ।
षट्पत्रे परितो विलिख्य च भृगुर्दन्तेन बिन्द्वञ्चितः ॥
सोमायेति पदं नमः पदयुतं चालिख्य तद्वाह्यतः ।
कादिक्षान्तगतं समर्च्य विधिना कट्यां गले मस्तके ॥
जप्तं बद्धमिदं क्षणेन गरलप्रध्वंसि तत्पुष्टिदम् ।
इति ॥ २६-२७॥
तारो घृणिर्भृगुः पश्चाद्वामकर्णविभूषितः ।
वह्न्यासनो मरुच्छेषः सनेत्रोऽत्रित्यपश्चिमः ॥ २८ ॥
अष्टाक्षरो मनुः प्रोक्तो भानोरभिमतप्रदः ।
देवनागो१ मुनिः प्रोक्तो गायत्री छन्द ईरितम् ॥ २९ ॥
आदित्यो देवता प्रोक्तो दृष्टादृष्टफलप्रदः ।
सत्याय हृदयं प्रोक्तं ब्रह्मणे द्विठ ईरितः ॥ ३० ॥
विष्णवे स्याच्छिखा वर्म रुद्राय परिकीत्तीतम् ।
अग्नये नेत्रमाख्यातं शर्वायाऽस्त्रमुदीरितम् ॥ ३१ ॥
तेजोज्वालामणि हु�फट्स्वाहान्ताः पृथगीरिताः।
अङ्गमन्त्रान् पुनर्न्यस्येत् पञ्चमूर्त्तीर्यथाक्रमम् ॥ ३२ ॥
आदित्यं विन्यसेन्मूध्नी रविं मुखगतं न्यसेत् ।
हृदये भानुनामानं भास्करं गुह्यदेशतः ॥ ३३ ॥
सूर्यं चरणयोर्न्यस्येत् ह्रस्वैः सद्यादिपञ्चभिः ।
प्रधानमूत्तीप्रतिमाः सर्वाभरणभूषिताः ॥ ३४ ॥
मूर्द्धास्यकण्ठहृदयं कुक्षिनाभिध्वजाङ्घिरषु ।
मन्त्रवर्णान् न्यसेदष्टौ प्रत्येकं प्रणवादिकान् ।
एवं न्यस्तशरीरोऽसौ चिन्तयेत्तेजसां निधिम् ॥ ३५ ॥
सूर्यमन्त्रमाह तार इति ।
घृणिरिति स्वरूपम् ।
भृगुः सः वामकर्ण ऊ तेन विभूषितस्तेन सू ।
मरुद्यकारो वह्नेः रेफस्यासनः तेन र्यः ।
शेषः अनन्त आ अत्रिर्दः सनेत्र इकारयुक्तस्तेन दि ।
त्यपश्चिम इति मन्त्रविशेषणं त्य इत्यन्तमक्षरमित्यर्थः ।
पश्चिम इत्यनेन ओमन्तोऽपि भवतीति सूचितम् ।
अभिमतप्रद इत्यनेन विनियोगोक्तिः ।
अयं मन्त्रः साक्षाच्छुतिपठित इति शूद्रादेरत्र नाधिकारः ।
तदुक्तं तैत्तिरीयशाखायां नारायणीयोपनिषदि—-घृणिरिति द्वे अक्षरे सूर्य इति त्रीणि आदित्य इति ।
त्रीणि एतद्वै सावित्रस्याष्टाक्षरं पदं श्रियाभिषिक्तं य एवं वेद श्रिया है वाभिषिच्यत इति ।
केचन श्रीमन्तमाहुः ।
अन्ये श्रीकामहृल्लेखापुटितं मह्यं लक्ष्मीं प्रयच्छेत्यनेन पल्लवितमाहुः ।
रं बीजं यं शक्तिः ।
केचन शक्तिबीजाद्यं श्रीमन्तमाहुः ।
तन्मते प्रणवो बीजं माया शक्तिः ।
तदुक्तम्—-
श्रीबीजान्तः सम्प्रदाये मूलमन्त्रस्तु याजुषः(मानुषः)।
अयं श्रीकामहृल्लेखासम्पुटोऽन्ते प्रयच्छ मे ॥
लक्ष्मीमित्थं पल्लवितः शङ्कराचार्यसम्मतः ।
हृल्लेखापूर्वकोऽन्त श्रीवीश्वरूपमते स्थितः ॥ इति ।
द्विठः स्वाहा ।
ईरिता उक्ताः ।
सत्यायेत्यादयोऽङ्गमन्त्राः पृथक् प्रत्येकमेतदन्ता ज्ञेयाः ।
तत्र प्रयोगः ।
सत्याय तेजो ज्वालामणि हु� फट् स्वाहा ।
हृदयाय नम इत्यादि ।
अन्ये तु सत्यायेत्यादिचतुर्थी अविवक्षितेत्याहुः ।
तेन सत्यतेजो ज्वालामणि हु� फट् स्वाहा हृदयाय नम इत्यादि प्रयोगः ।
एष एव साम्प्रदायिकः ।
अपेक्षितार्थद्योतनिका- कारादिभिस्तथा लिखितत्वात् ।
अत एव प्रपञ्चसारटीकाकारैः ब्रह्मेत्यत्राकारश्रुति- श्चतुर्थीनिवारणायेति व्याख्यातम् ।
पुनरित्यनेनाऽष्टाङ्गोऽपि सूचितः ।
सूत्रमन्त्रषड- क्षराणि षडङ्गस्थानेषु षडङ्गवद्विन्यस्य उदरपृष्ठयोर्नमोऽन्तयोर्वर्णद्वयं न्यसेदित्यष्टाङ्गम् ।
सद्यादीति ।
ओकारादिविपरीतनपुंसकवजीतपारिभाषिक पञ्चह्रस्वैः सह यथाक्रमं पञ्चमूर्त्तीर्न्यसेदिति सम्बन्धः ।
ॐ आदित्याय नमः एं रवये नमः उं भानवे नमः इं भास्कराय नमः अं भ सूर्याय नम इति प्रयोगः ।
यथाक्रमम् इत्यनेन ऊर्द्धादिमुखेष्वपि न्यसेदित्युक्तम् ।
प्रत्येकमिति ।
तेन ॐ ॐ नमो मूर्ध्नीति प्रयोगः ।
एवं न्यस्तेत्यनेन नवग्रहन्यासोऽपि सूचितः ।
स उक्तो मया प्राक् ॥ २८-३५ ॥
रक्ताब्जयुग्माभयदानहस्तं
केयूरहाराङ्गदभूषणाढ्यम् ।
माणिक्यमौलिं दिननाथमीडे
बन्धूककान्तिं विलसत्त्रिनेत्रम् ॥ ३६ ॥
दानं वरम् ।
आयुधध्यानं वामाद्यूर्द्धयो रक्ताब्जे तदधस्तनयोरन्ये ।
अत्र ध्यानानन्तरं कमलबिम्बमुद्रे प्रदर्शनीये ।
कमलाकृतिमुद्रा तु सौरमुद्रेयमीरिता ।
इत्युक्तेः ।
प्रयोगसारेऽपि—- दर्शयेदग्रतस्त्वब्जबिम्बमुद्रे यथोदिते ।
इति ।
तत्रालमुद्रालक्षणं यथा—-
करौ तु सम्मुखौ कृत्वा संहतावुन्नताङ्गुली ।
तलान्तमिलिताङ्गुष्ठौ कुर्यादेषाऽब्जमुद्रिका ॥ इति ॥
नारायणीये बिम्बमुद्रालक्षणम्—-
पद्माकारौ करौ कृत्वा अविश्लिष्टे तु मध्यमे ।
अङ्गुल्यौ धारयेत्तस्मिन् बिम्बमुद्रेति सोच्यते ॥ इति ।
एते सर्वसौरमन्त्रसाधारणे इति ज्ञेयम् ॥ ३६ ॥
वसुलक्षं जपेन्मन्त्रं समिद्भः क्षीरशाखिनाम् ।
तत्सहस्रं प्रजुहुयात् क्षीराक्ताभिजीतेन्द्रियः ॥ ३७ ॥
वसुलक्षमष्टलक्षम् ।
अत्र विशेषः प्रयोगसारे—-
रक्ताम्बरधरो रक्तगन्धमाल्यविभूषितः ।
घृतक्षीरसमायुक्तगुडभक्ताशनो निशि ॥
भैक्षाहारोऽथवा वीतसङ्गः सन्तोषवान् सदा ।
मन्त्रमावर्त्तयेन्नित्यमाराधनपरायणः ॥ इति ।
अन्यः पुरश्चरणसामान्यविधिर्वक्ष्यमाण एवानुसन्धेयः ।
तत्सहस्रमष्टसहस्रम् ॥ ३७ ॥
पीठस्य कॢप्तेः प्रथमं दिक्षु मध्ये च संयजेत् ।
प्रभूतं विमलं सारं समाराध्यमनन्तरम् ॥ ३८ ॥
पीठस्य कॢप्तेः प्रथममिति ।
मण्डुकादिवेदिकान्तं सम्पूज्य धर्मादेः प्राक्परमसुखान्तान् सम्पूज्य पश्चाद्धर्मादिपूजेति केचन ।
अन्ये तु धर्मादिस्थाने प्रभूतादिकान् सम्पूज्य मध्ये फलकरूपेण परमसुखं पूजयेत् ।
धर्माधर्मादिपूजा नास्तीत्याहुः ।
एतदेव साम्प्रदायिकम् ।
उक्तञ्च नारायणीये—-
पीठाङ्घ्रीन् कल्पयेदेतान् हृदा मध्ये विदिक्षु च ।
इति ।
एतत् सर्वसूर्यमन्त्रसाधारणम् ।
दिक्ष्विति सामान्यत उक्तेरत्राग्नेयादिकोणा एव गृह्यन्ते ।
विदिक् मध्येषु संयजेदिति पाठः ।
यदाहुराचार्याः—-
प्रयजेदथ प्रभूतां विमलां साराह्वयां समाराध्याम् ।
परमसुखामग्न्यादिष्वस्रिषु मध्ये च पीठकॢप्तेः प्राक् ॥ इति ॥
प्रयोगसारेऽपि—- ईशानान्तं च विदिक्ष्वेतान् प्रपूजयेत् ।
इति ॥ ३८ ॥
परमादिसुखं पीठं स्वबिम्बान्तं प्रकल्पयेत् ।
दीप्ता सूक्ष्मा जया भद्रा विभूतिवीमला पुनः ॥ ३९ ॥
अमोघा विद्युता सर्वतोमुखी पीठशक्तयः ।
दीप्तदीपशिखाकारा बीजान्यासां विदुः क्रमात् ॥ ४० ॥
स्वबिम्बान्तमिति ।
सोमग्निमण्डले सम्पूज्य सूर्यमण्डलं पूजनीयमित्यर्थः ।
दीप्तेत्यासां ध्यानम् ।
तदुक्तं प्रयोगसारे—-
दीप्तदीपशिखाकारा ध्येयाः स्युर्नव शक्तयः ।
इति ॥ ३९-४० ॥
अक्लीबह्रस्वत्रितयस्वरान् बिन्द्वग्निसंयुतान् ।
वदेत्पदं चतुर्थ्यन्तं ब्रह्मविष्णुशिवात्मकम् ॥ ४१ ॥
सौराय योगपीठाय नमः पदमनन्तरम् ।
पीठमन्त्रोऽयमाख्यातो दिनेशस्य जगत्पतेः ॥ ४२ ॥
अक्लीबेति ।
ह्रस्वत्रितयम् ऐउ ।
अत्र क्लीबह्रस्वत्रितयपदाभ्यां नञा सह सम्बन्धः ।
अग्नी रेफः ।
रां रीं रूं रैम् इत्यादि नवबीजानि ।
अन्ये तु ह्रस्वत्रयम् ऐअम् इत्याहुः ।
तदुक्तं महाकपिलपञ्चरात्रे—-
आद्योपान्त्यं तृतीयं च त्यक्त्वा चैवं नपुंसकम् ।
भेदयेन्नवधा यान्तं स्वरैरेभिर्यथाक्रमम् ।
बिन्दुयुक्तानि बीजानि शक्तीनामुद्धृतानि वै ॥ इति ।
अन्यत्राकारेकारविसर्गान् हित्वा नव बीजानीति ।
तदुक्तं प्रयोगसारनारायणीययोः—-
आद्यमन्त्यं तृतीयं च त्यक्त्वाऽपि च नपुंसकान् ।
इति ।
पीठमन्त्र इति ।
सर्वसूर्यमन्त्रसाधारण इति ज्ञेयम् ॥ ४१-४२ ॥
तारादि खं खखोल्काय मनुना मूत्तीकल्पना ।
साक्षिणं सर्वलोकानां तस्यामावाह्य पूजयेत् ॥ ४३ ॥
तारादीति ।
खखोल्कायेति स्वरूपम् ।
तदुक्तं महाकपिलपञ्चरात्रे—-
याष्टमं बिन्दुना युक्तं कद्वितीयं तथैव च ।
तदेव केवलं भूय ओभिन्नं सविलोमकम् ॥
सविलोमाचतुर्थं तु यतृतीयोपरि स्थितम् ।
अक्षरं तद्द्वितीयेन स्वरेणैव प्रभेदितम् ॥
वानुलोमाच्चतुर्थं तु केवलं तदनन्तरम् ।
समासादुद्धृतो वत्स मूत्तीमन्त्रः षडक्षरः ॥ इति ।
अयमन्येषामपि सूर्यमन्त्राणां मूत्तीमन्त्र इति ज्ञेयम् ।
तत्राकाशबीजादिरुद्धृत इति विशेषः ।
अथवात्रैवं व्याख्येयम् ।
तारश्च आदिशब्देन प्रथमोत्पन्नत्वात् आकाशस्तस्य बिन्दुः सम्प्रदायादिति ।
अथवा खमिति तन्त्रेण द्वयमुपात्तम् एकेनाकाशबीजमन्येन स्वरूपम् ।
प्रयोगसारेऽपि—-सूर्यकान्ताक्षरे प्रोक्ता बिन्दुभूषितमस्तके ।
इति ।
नारायणीये च—- खकान्ती दण्डिनी चण्डो मज्जा दशनसंयुता ।
मांसं दीर्घा जवद्वायुरन्ते तस्यापि कृद्विदुः ॥
एतच्च साधयेत्कामानभिषेकजपादिना ।
इति ।
निर्बीजोऽपि तत्रैवोद्धृतः ।
अत्र लकारतकारौ वेदिकापीठभेदेनेति उभावपि साम्प्रदायिकौ ।
निर्बीजो मूत्तीकल्पनायां सबीजो जपादाविति ज्ञेयम् ।
अयं स्वतन्त्रोऽपि मन्त्रः ।
अस्यर्ष्यादि यथा—-
ऋषिः सूक्ष्मक आख्यातो जगती छन्द ईरितम् ।
देवः सूर्ये बीजशक्ती कान्तमज्जास्थहृत्स्मृते ॥
सूक्ष्मरूपायाग्निवधूः स्वाहान्तः सूक्ष्मतेजसे ।
सूक्ष्मकरा (रुपा) याग्निवधूः सूक्ष्मबलाय ठद्वयम् ॥
सूक्ष्मकायाय सहम्फट्जातियुक्ताः समीरिताः ।
पञ्चाङ्गमन्त्रा मन्त्रार्णैः षडङ्गं वा प्रकल्पयेत् ॥
रक्तपद्मद्वयं हस्ते बिभ्राणां वरदाभये ।
बन्धूकाभं त्रिनेत्रं च रविं ध्यायेत् सुभूषितम् ॥
लक्षमेकं जपेन्मन्त्रं क्षीराहारो जितेन्द्रियः ।
जुहुयात्तद्दशांशेन बिल्वाश्वत्थसमिद्वरैः ॥
सूर्यपीठेऽष्टाक्षरवत्पुजा ।
वक्ष्यमाणार्घ्यदानं च ।
खेचरीसिद्धिश्च फलं ज्ञेयम् ।
उक्तञ्च नारायणीये—-अनेन बहुभिः प्राप्ताः खेचरत्वादिसिद्धयः ।
इति ।
मूत्तीकल्पनेति ।
मूलमन्त्रमुचार्य पश्चादिममुचार्य मूत्तीकल्पनेति पद्मपादाचार्याः ॥ ४३॥
अङ्गानि पूजयेदादौ दिक्पत्रेष्वर्कमूर्त्तयः ।
आदित्याद्याश्चतस्रोऽर्च्याः शक्तयः कोणपत्रगाः ॥ ४४ ॥
स्वस्वनामादिवर्णाः स्युस्तासां बीजान्यनुक्रमात् ।
उषा प्रज्ञा प्रभा सन्ध्या शक्तयः परिकीत्तीताः ॥ ४५ ॥
पत्राग्रसंस्था ब्राह्म्याद्याः पुरतोऽरुणमर्चयेत् ।
अङ्गानि पूजयेदिति कणीकायाम् ।
तदुक्तं नारायणीये—-
वह्निरक्षोमारुतेशदिक्षु पूज्या हृदादयः ।
स्वमन्त्रैः कणीकान्तस्था दिक्ष्वस्त्रं पुरतश्च दिक् ॥ इति ।
आदावित्यनेन केसरेष्वष्टाङ्गपूजा सूचिता ।
आदित्याद्या इति न्यासोक्तबीज- सहिताः ।
अत्र केचनादित्यादिमूर्त्तयश्चतस्र इति सामानाधिकरण्यं कृत्वा सूर्यं न पूजयन्ति।
तदसत् ।
उद्दिष्टपञ्चकमध्ये एकत्यागे कारणाभावात् ।
मुख्यतया कणीकायां स पूजित इति चेत् ।
पञ्चसु कः पूजितः को नेति नियामकाभावात् ।
पूर्वत्र परत्र च यत्र यत्र पञ्चकमुक्तम् तत्र त्यागस्याऽदृष्टचरत्वाच्च ।
तेन पद्मपादाचार्येक्तरीत्या आदित्यं मध्ये सम्पूज्य रव्यादयो दिक्चतुष्के पूज्याः ।
चतस्र इति शक्तिविशेषणत्वेन योज्यम् ।
पुरतोऽरुणमर्चयेदित्युक्तेः ।
कल्पितदिगपेक्षया तदीशदलमपि सम्मुखदलमिति ।
तेन महालक्ष्मीस्थाने अरुणः पूज्यः ।
" मातृभिररुणान्ताभिः " इत्याचार्येक्तेः ।
पद्म- पादाचार्यास्तु मातृः सम्पूज्य पुरतोऽरुणमर्चयेदित्यूचुः ।
अतएव नारायणीये पूर्वपत्रे अरुणस्तथेत्युक्तम् ॥ ४४-४६ ॥
चन्द्रादीनर्चयेत् पश्चाद् ग्रहानष्टौ ततो बहिः ॥ ४६ ॥
इन्द्रादींश्च तदस्त्राणि यथापूर्वं समर्चयेत् ।
एवं सम्पूज्य विधिवद्भास्करं भक्तवत्सलम् ॥ ४७ ॥
चन्द्रादीनिति स्वबीजाद्यान् ।
चन्द्रः सोमः ।
तत्र पूर्वादिषु चन्द्रबुधगुरुशुक्रान् आग्नेयादिषु भौममन्दराहुकेतूनिति ज्ञेयम् ।
प्रयोगस्तु पूर्वेक्तोऽनुसन्धेयः ।
अतएव नारायणीये—-पूर्वादिदिक्षु सम्पूज्याश्चन्द्रज्ञगुरुभार्गवाः ।
आग्नेयादिषु कोणेषु कुजमन्दाहिकेतवः ॥ इति ।
विधिवदित्यनेन सूर्यपरिषद्भ्यो नम इति बहिः पारिषदान् पूजयेदित्युक्तम् ।
" ग्रहैः सुरैश्चापि सूर्यपरिषद्भिः " इत्युक्तेः ॥ ४६-४७ ॥
दद्यादर्घ्यं प्रतिदिनं वारे वा तस्य चोदिते ।
प्रभाते मण्डलं कृत्वा पूर्ववत्पीठमर्चयेत् ॥ ४८ ॥
प्रभाते अर्चयेदिति सम्बन्धः ।
मण्डलमिति वृत्तम् ।
कृत्वेति रक्तचन्दनेन ।
तदुक्तं प्रयोगसारे—-रक्तचन्दनगन्धेन कृत्वा वृत्तं सुशोभनम् ।
मण्डलम् ।
इति ॥ ४८ ॥
पात्रं ताम्रमयं प्रस्थतोयग्राहि मनोहरम् ।
निधाय तत्र मनुना पूरयेत्तच्छुभोदकैः ॥ ४९ ॥
प्रस्थतोयग्राहीति ।
प्रस्थप्रमाणमुक्तं श्रीधराचार्यैः—-
कुडवश्चतुःपलः स्यात्प्रस्थः कुडवैश्चतुभीः स्यात् ।
इति ।
मनुना विलोमपठितेनेति विशेषः ।
यदाहुः—-
प्रजपन्मनुं प्रतिगतक्रमतः परिपूरयेत् सुविमलैः सलिलैः ।
इति ।
शुभोदकैरिति ।
आदित्यमण्डलान्निसरदमृतधारारूपत्वेन ध्यातैरित्यर्थः ॥ ४९॥
कुङ्कुमं रोचनाराजीरक्तचन्दनवैणवान् ।
करवीरजवाशालिङ्कुशश्यामाकतण्डुलान् ॥ ५० ॥
राजी आसुरी ।
रक्तं रक्तचन्दनम् ।
चन्दनं श्वेतचन्दनम् ।
वैणवं वेणुबीजानि ।
करवीरं रक्तकरवीरपुष्पमिति परमगुरवः ।
जवा रक्तजवा ।
कुशं कुशाग्रं तण्डुला अक्षताः ॥ ५० ॥
निक्षिपेत्सलिले तस्मिन्नैक्यं सञ्चिन्त्य भानुना ।
साङ्गमभ्यर्चयेत्तस्मिन् भास्करं प्रोक्तलक्षणम् ॥ ५१ ॥
निक्षिपेदिति ।
यथालाभं क्वचित्तिला अपि ।
तदुक्तमाचार्यैः—-
गोरोचनास्रतिलवैणवराजिरक्त
शीताख्यशालिकरवीरजपाकुशाग्रान् ।
श्यामाकतण्डुलयुतांश्च यथाप्रलाभान्
संयोज्य भक्तिभरतोऽर्घविधिवीधेयः ॥ इति ।
एक्यं सङ्कल्प्येति स्वात्मन इति शेषः ।
" स्वैक्यं सम्भावयन् समाहितधीः इष्ट्वा दिनेशम् " इत्युक्तेः ।
तस्मिन् पात्रे ।
साङ्गमिति षडङ्गाष्टाङ्गसहितम् ।
अष्टाङ्गेनाऽभि- सम्पूज्येति प्रयोगसारे उक्तेः ।
तत्र मन्त्रषडक्षराणि षडङ्गस्थानेषु षडङ्गवद्विन्यस्य उदरपृष्ठयोर्वर्णद्वयं विन्यसेदिति ।
प्रोक्तलक्षणं पूर्वेक्तध्यानम् ॥ ५१ ॥
गन्धपुष्पादिनैवेद्यैर्यथाविधि विधानवित् ।
तत् पिधाय जपेन्मन्त्रं सम्यगष्टोत्तरं शतम् ॥ ५२ ॥
पुनः सम्पूज्य गन्धाद्यैर्जानुभ्यामवनिं गतः ।
आमस्तकं तदुद्धृत्य व्योम्नि सावरणे रवौ ॥ ५३ ॥
दृष्टिं निधाय स्वैक्येन मूलमन्त्रं धिया जपन् ।
दद्यादर्घ्यं दिनेशाय प्रसन्नेनाऽन्तरात्मना ॥ ५४ ॥
कृत्वा पुष्पाञ्जलिं भूयो जपेदष्टोत्तरं शतम् ।
यावदर्घ्यामृतं भानुः समादत्ते निजैः करैः ॥ ५५ ॥
तेन तृप्तो दिनमणिर्दद्यादस्मै मनोरथान् ।
अर्घ्यदानमिदं पुंसामायुरारोग्यवर्द्धनम् ॥ ५६ ॥
धनधान्यपशुक्षेत्रपुत्रमित्रकलत्रदम् ।
तेजोवीर्यवशःकान्तिविद्याविभवभाग्यदम् ॥ ५७ ॥
आदिशब्दात् धूपदीपौ ।
यथाविधीत्यनेनैतदुक्तं भवति ।
सावरणमिति ।
व्योम्नि सूर्यमण्डलेऽपि स्थितमावरणसहितं देवं विलोक्य मनसा सम्पूज्येति च ।
उक्तञ्च—-
इष्ट्वा दिनेशमथ पीठगतं तथैव व्योमस्थितं परिवृतावरणं विलोक्य ।
इति ।
विधानवित् तत् पिधायेति सम्बन्धः ।
विघानविदित्यनेनैतदुक्तं भवति ।
सोमात्मना भावितामृतवीजयुतेन वामोपष्टब्धेन स्वदक्षिणहस्तेनेति ।
सम्यगिति प्राणायामत्रयं षडङ्गन्यासं विधायेत्युक्तम् ।
पुनः सम्पूज्य ।
जलमिति शेषः ।
अर्ध्यं दद्यादिति ।
तत्र प्रकारः ।
मूलान्ते भगवते रवये अर्घ्यं कल्पयामि नम इत्युच्चार्येति ।
प्रसन्नेनान्तरात्मनेति भक्त्या दद्यादित्युक्तम् ॥ ५२-५७ ॥
आकाशमग्निदीर्घेन्दु संयुक्तं भुवनेश्वरी ।
सर्गान्वितो भृगुर्भानोस्त्र्यक्षरो मनुरीरितः ॥ ५८ ॥
आधारादि पदाग्रान्तं कण्ठादाधारकावधि ।
मूर्द्धादि कण्ठपर्यन्तं क्रमाद्बीजत्रयं न्यसेत् ॥ ५९ ॥
प्रयोजनतिलकमन्त्रमाह आकाशेति ।
आकाशो हः अग्नी रेफः दीर्घ आ इन्दुबीन्दुः एतद्युतः तेन ह्रामिति ।
भुवनेश्वरी ह्री� ।
विसर्गान्वितो विसर्गयुक्तः ।
भृगुः सः ।
ह्रां ह्री� सः ।
ऋष्यादि यथा—- मनोरस्य भवेद् ब्रह्मा मुनिरुक्तोऽथवा भृगुः ।
छन्दोऽपि खलु गायत्री देवता तीक्ष्णदीधितिः ॥ इति ।
आद्यं बीजं द्वितीयं शक्तिः ।
प्रणवादिरिति केचित् ।
प्रयोगविशेषे परमात्मादि- रजपादिर्वेति पद्मपादाचार्याः ॥ ५८-५९ ॥
षडदीर्घस्वरयुक्तेन मध्येनाऽङ्गानि कल्पयेत् ॥ ६० ॥
अङ्गानीति नेत्रान्तानीति ज्ञेयम् ।
अग्रे वक्ष्यमाणत्वादत्र नोक्तम् ।
तदुक्तं प्रयोगसारे—- अङ्गुष्ठादिकनिष्ठान्तमङ्गुलीषु यथाक्रमात् ।
न्यस्त्वा विनेत्रमङ्गानि नेत्रं हस्ततले न्यसेत् ॥ इति ।
नारायणीयेऽपि—- न्यस्याङ्गुलीषु पञ्चाङ्गं लोचनं तलयोर्न्यसेत् ।
इति ।
तथा—- न्यस्त्वा नेत्रान्तमङ्गानि तथैवात्मनि संयतः ॥ इति ।
प्रयोगसारे नारायणीये चान्यान्यङ्गान्युक्तानि—-
कतृतीयं विलोमेन बीजं हृदयमुच्यते ।
अर्कः शिरश्चतुर्थ्यन्तः कथ्यते भूर्भुवः स्वरो� ॥
ज्वालिनीति शिखा गीता हुं वर्म समुदाहृतम् ।
द्वितीयस्वरसम्भिन्नं शचतुर्थं सबिन्दुकम् ॥
नेत्रं स्वरान्तमारूढं यान्तमस्त्रमिति क्रमात् ।
इति
नारायणीये तु—-प्रयोजनादितिलकः साक्ष्यङ्गान्तः स्मृतो मनुः ।
इति ।
न्यासे क्रमसङ्ग्रहे विशेषः—- हस्तयोस्तलपृष्ठे च न्यस्य मन्त्राक्षरत्रयम् ।
पदान्तराधिवक्त्रेषु तथा सप्तग्रहानपि ॥
मुखे बाहौ च पदयोरुदरे वक्षसि क्रमात् ।
मूर्द्धादिपञ्चस्थानेषु हृल्लेखाद्याश्च विन्यसेत् ॥ इति ।
मूत्तीपञ्चकमिति नवग्रहन्यासे इति पद्मपादाचार्याश्च ॥ ६० ॥
रक्ताम्बुजासनमशेषगुणैकसिन्धुं
भानुं समस्तजगतामधिपं भजामि ।
पद्मद्वयाभयवरान् दधतं कराब्जै-
र्माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम् ॥ ६१ ॥
आयुधध्यानं पूर्ववत् ॥ ६१ ॥
भानुलक्षं जपेन्मन्त्रमन्नाज्येन दशांशतः ।
तिलैर्वा मधुरासिक्तैर्जुहुयाद्विजितेन्द्रियः ॥ ६२ ॥
भानुलक्षं द्वादशलक्षम् ॥ ६२ ॥
पूर्वेक्ते पूजयेत्पीठे विधानेनाऽमुना रविम् ।
प्रथमावृत्तिरङ्गैः स्यात् परा चन्द्रादिभिर्ग्रहैः ॥ ६३ ॥
तृतीया लोकपालैः स्याच्चतुर्थी स्यात्तदायुधैः ।
इति सम्पूज्य निर्माल्यं तेजश्चण्डाय दीयताम् ॥ ६४ ॥
अर्घ्यं प्रागीरितं दद्याद्भानवे संयतेन्द्रियः ।
सोऽपि रत्नं धनं धान्यं पुत्रपौत्रान् पशून् यशः ।
वस्त्राणि भूषणादीनि दद्यादस्मै न संशयः ॥ ६५ ॥
अङ्गैरितिं तत्राङ्गध्यानं यथा—-
भास्वत्सरोजहस्तानि शान्तानि वरदान्यपि ।
अङ्गानि दिव्यरूपाणि ध्येयानि वलवन्ति च ॥
दंष्ट्राकरालमस्त्रं तु विद्युत्पुञ्जसमप्रभम् ।
इति ।
प्रयोगसारे नारायणीयेऽपि—-
रक्ता हृदादयः सौम्या वरदाः पद्मधारिणः ।
विद्युत्पुञ्जनिभं त्वस्त्रमुग्रदंष्ट्रम्भयावहम् ॥ इति ॥
परा चन्द्रादिभिर्ग्रहैरिति ।
अत्र स्वस्वनामादिवर्णादित्वमनुसन्धेयम् ।
" स्वनामाद्य- क्षरैबीन्दुभूषितैरन्वितं यजेत् " इति प्रयोगसारे उक्तेः ।
तत्रायं विशेषः ।
प्रागादिस्थितैः चन्द्रबुधगुरुशुक्रैः आग्नेयादिस्थितैर्भौममन्दराहुकेतुभिः ।
तदुक्तमाचार्यैः—- प्रागादि दिशासंस्थाः शशिबुधगुरुभार्गवाः क्रमेण स्युः ।
आग्नेयादिष्वस्रिषु धरणिजमन्दाहिकेतवः पूज्याः ॥ इति ।
प्रयोगसारेऽपि—- सोममैन्द्रे बुधं याम्ये पश्चिमे तु वृहस्पतिम् ।
सौम्ये शुक्रं तथाग्नेयामङ्गारकमथाऽऽसुरे ॥
शनैश्चरं ततो राहुं वायव्यां केतुमीश्वरे ।
इति ।
तेजश्चण्डोऽर्कगणः ।
प्रयोगसारे प्रयोगविशेष उक्तः—-
स्वजन्मदिननक्षत्रे ग्रहणे वा स्वजन्मभे ।
ग्रहाणामपि वैषम्ये भये वा प्रत्युपस्थिते ॥
इष्ट्वा दिवाकरं देवं ग्रहैः सार्द्धं यथोदितम् ।
मूलेन सवितुर्बीजैरन्येषां च पुरोदितैः ॥
प्रत्येकं जुहुयात्तेषां ग्रहाणां तद्दिशि क्रमात् ।
एकत्र वाऽथवा वह्निकार्यं कृत्वा विधानतः ॥
समित्सपीश्चरुघृतैः क्रमादष्टोत्तरं शतम् ।
प्रतिव्याहृतिसंयुक्तं प्रत्येकं स्मरणान्वितम् ॥
अर्कः पलाशापामार्गावश्वत्थोदुम्बरौ यथा ।
खदिरश्च शमी दूर्वा दर्भाश्च समिधः क्रमात् ॥
पूर्णाहुतिं ततो दद्यात्तेषां प्रत्येकमर्णतः ।
कृतेनाऽनेन यज्ञेन ग्रहास्तुष्यन्ति भाविताः ॥
सर्वे रोगाः प्रणश्यन्ति सङ्ग्रामेषु जयं लभेत् ।
अभिचारादयो दोषाः शान्तिं यान्ति न संशयः ॥
इति ॥ ६३-६५ ॥
आकाशमग्निपवन सद्यान्तार्घीशबिन्दुमत् ।
मार्त्तण्डभैरवं नाम बीजमेतदुदाहृतम् ॥ ६६ ॥
पुटितं विम्बबीजेन सर्वकामफलप्रदम् ।
टान्तं दहननेत्रेन्दुसहितं तदुदीरितम् ॥ ६७ ॥
मार्त्तण्डभैरवबीजमाह आकाशमिति ।
आकाशो हः अग्नी रेफः पवनो यः सद्यान्त औ अर्घीश उ बिन्दुः एतद्युक्तः ।
अत्र स्वरद्वयमपि गुरूपदेशतो यथा सम्प्रदाय- मुच्चारणीयम् ।
ब्रह्मा ऋषिर्निवृच्छन्दः ।
हं बीजं बिन्दुः शक्तिः ।
विम्बबीजमाह टान्तमिति ।
टान्तं ठः दहनो रेफः नेत्रमिः इन्दुबीन्दुः एतद्युक्तेन ठिरमिति ।
सर्वकामफलप्रदमित्यनेनैतत् सङ्गृहीतम् ।
यदुक्तं नारायणीये—-
आरोग्यमायुः श्रीवीद्या कान्तिः पुष्टिर्धनं यशः ।
सौभाग्यं शक्तिरैश्वर्यं रक्षा मेधा वचो द्युतिः ।
सिध्यन्त्येवंविधाः कामा मन्त्रस्यास्य प्रभावतः ॥
इति ॥ ६६-६७ ॥
पञ्चह्रस्वाद्यबीजेन पञ्चमूर्त्तीः प्रविन्यसेत् ।
मध्यमादिकनिष्ठान्तमङ्गुलीषु क्रमादिमाः ॥ ६८ ॥
सूर्याख्यो भास्करो भानुस्ततो रविदिवाकरौ ।
शिरोवदनहृद्गुह्यपाददेशे तु ताः पुनः ॥ ६९ ॥
दीर्घयुक्तेन बीजेन नेत्रान्ताङ्गानि विन्यसेत् ।
व्यापकं मूलबीजेन कुर्वीत तदनन्तरम् ॥ ७० ॥
पञ्चेति ।
सद्यान्तपञ्चह्रस्वाद्यमित्यर्थः।
" मूर्त्तीः सद्यावसानिकाः " इति नारायणीय उक्तेः ।
मध्यमादीति ।
मध्यमातर्जन्यङ्गुष्ठानामाकनिष्ठास्वित्यर्थः ।
" मध्यमादि- भुजान्ततः " इति नारायणीय उक्तेः ।
बीजेनेति मार्त्तण्डभैरवेण ।
पूर्वत्रापि दीर्घयुक्तेन षड्दीर्घयुक्तेन ।
नेत्रान्ताङ्गानीति ।
हृदयशिरःशिखाकवचानि विन्यस्याऽस्त्रमपि विन्यस्य पश्चान्नेत्रं विन्यसनीयमिति सम्प्रदायविदः ।
केचित्तु नेत्रान्तानीति पञ्चाङ्गान्येव नेत्रान्तानि न्यसनीयानि " पञ्चाङ्गानि मनोर्यस्य नेत्रं तस्य न विद्यते "
इति अस्याऽपवादमाहुः ।
तदसम्प्रदायिकम्—-
अङ्गानि कुर्याद्दीर्घाढ्यरमाबीजेन मन्त्रवित् ।
इति श्रीपटले ।
मध्येन दीर्घयुक्तेन प्राक्पुटेन प्रकल्पयेत् ।
अङ्गानि जातियुक्तानि क्रमेण मनुवित्तमः ॥ इति भुवनेशीपटले ।
एवमन्यत्रापि यत्र यत्र दीर्घवचनं तत्र तत्र षण्णां दीर्घाणां ग्रहणात् अत्र सङ्कोचे कारणाभावात्
नेत्रान्ताङ्गानीति वचनेन सङ्कोच इति चेत् तदपि न ।
साम्प्रदयिक- व्याख्यानुसारेणाऽप्युपपत्तेः किञ्च नेत्रं तस्य विवर्जयेदिति साक्षान्निषिद्धस्य नेत्राङ्गस्य
सामान्यभूतेनाऽन्यथाऽप्युपपद्यमानेन नेत्रान्ताङ्गानीति वचनेन बाधोऽपि न कर्त्तुं शक्यते ।
अन्यच्चाग्रे अङ्गपूजा यथा पूर्वमिति वचनात् दिक्ष्वस्त्रपूजोक्तैव ।
नेत्रमात्रे विशेष उक्तः ।
अग्रे पुरुषोत्तममन्त्रेऽपि नेत्रान्ताङ्गान्युक्तानि ।
तत्र च षडङ्गमन्त्रा नेत्रान्ता एवोद्धृताः।
षडङ्गमन्त्राः सन्दिष्टा नेत्रान्तास्तन्त्रवेदिभिः ।
इत्यनेन ।
पूर्वेक्तमन्त्रे लिखितप्रयोगसारवचनाच्च ।
अस्मिन् मन्त्रे नारायणीये च प्रांशवोऽङ्गानि षडिति तेन साम्प्रदायिकव्याख्यैव गरीयसीत्यलम् ।
अत्र नेत्राङ्गोत्कर्षे तन्मन्त्रोत्कर्षेऽपि ज्ञेयः ।
न्यायसिद्धत्वात् ॥ ६८-७० ॥
हेमाम्भोजप्रवालप्रतिमनिजरुचिं चारुखट्वाङ्गपद्मौ
चक्रं शक्तिं सपाशं सृणिमतिरुचिरामक्षमालां कपालम् ।
हस्ताम्भोजैर्दधानं त्रिनयनविलसद् वेदवक्त्राभिरामं
मार्त्तण्डं वल्लभार्द्धं मणिमयमुकुटं हारदीप्तं भजामः ॥ ७१ ॥
लक्षत्रयं जपेन्मन्त्री बीजं बिम्बपुटीकृतम् ।
दशांशं कमलैः फुल्लैर्जुहुयान्मधुरोक्षितैः ॥ ७२ ॥
ध्यानमाह हेमेति ।
प्रवालञ्च तेन रक्तम् ।
तदुक्तं नारायणीये—-सिन्दूरारुणमीशानं वामार्द्धदयितं रविम् ।
इति ।
सृणिरङ्कुशः ।
वेदवक्त्रञ्चतुर्वक्तम् ।
तदुक्तं नारायणीये—-
पाशाङ्कुशधरं देवं साक्षमालं कपालिनम् ।
खट्वाङ्गब्जारिशक्तीश्च दधानं चतुराननम् ॥ इति ॥
दक्षाद्यूर्ध्वयोराद्ये वामान्तमायुधानि ध्येयानि ।
त्रिनयनेत्यनेन द्वादशनेत्रत्वमुक्तम् ।
अष्टबाहुं द्विषट्काक्षमिति नारायणीय उक्तेः ।
वल्लभार्द्धमिति वामे ॥ ७१-७२ ॥
पीठे दीप्तादिभिर्युक्ते कणीकायामुषादिकाः ।
पूर्वादिदिक्षु सम्पूज्य मूत्तीं मूलेन कल्पयेत् ॥ ७३ ॥
आवाह्य पूजयेद्देवं वक्ष्यमाणविधानतः ।
सूर्यादींश्चतुरो दिक्षु विदिक्ष्वन्यं समर्चयेत् ॥ ७४ ॥
अङ्गपूजा यथापूर्वं नेत्रमीशानदिग्गतम् ।
ग्रहानष्टौ ततो बाह्य लोकपालांस्ततः परम् ॥ ७५ ॥
अर्घ्यप्रदानं प्रयजेन्मन्त्री मार्त्तण्डभैरवम् ।
इति सिद्धमनुर्मन्त्री साधयेदिष्टमात्मनः ॥ ७६ ॥
दीप्तादिभिर्युक्ते पीठे सौर इत्यर्थः ।
उषादिकाः सम्पूज्येति पीठमन्त्रात् पूर्वगत- कणीकायामिति ज्ञेयम् ।
आसां बीजेऽपि विशेषो नारायणीये उक्तः ।
यदाहुः—-
न्यसेदुषां प्रभां सन्ध्यां प्रज्ञां दिक्ष्वब्जकणीके ।
दण्डि दीर्घस्वनामादि वर्णैरावाहयेत्ततः ॥ इति ।
न्यसेदित्यनेन पीठन्यासेऽप्ययं क्रम इत्युक्तम् ।
पूजयेद्देवमिति ।
बिम्ब- बीजपुटीकृतेन नमोऽन्तेन बीजेन ।
" यजेद्यथोपचारान्ते बिम्बेन हृदयेन च " इत्युक्तेः सूर्यादीनिति आदिपदेन भास्करभानुरवयः सङ्गृहीताः ।
विदिक्ष्वन्यमिति पञ्चमं दिवा- करम् ।
यथापूर्वमिति ।
चतुर्थेक्तरीत्या ।
नेत्रमिति ।
तेन ईशानदिशि अङ्गद्वयपूजनम् ।
ग्रहानिति पूर्वमन्त्रोक्तक्रमेण ।
ततः परमिति वज्रादिभिः ।
अर्घ्यप्रदानमिति ।
पूर्वेक्त- मर्घ्यविधानमत्रापि कुर्यादित्यर्थः ॥ ७३-७६ ॥
शाल्याज्यतिलबिल्वानां लक्षहोमाद्भवेन्निधिः ।
राजवृक्षसमुद्भूतैः पुष्पैर्हेमो रमाकरः ॥ ७७ ॥
जवाकुसुमहोमेन वशयत्यचिरान्नृपान् ।
मातुलिङ्गफलैर्हुत्वा धनमिष्टं लभेत सः ॥ ७८ ॥
इमं मन्त्रं जपन्मर्त्यः कीत्तीं पुत्रान् बलं द्युतिम् ।
वाक्सिद्धिममितां लक्ष्मीं सौभाग्यमपि साधयेत् ॥ ७९ ॥
साधयेदिष्टमित्युक्त्वा तदेवाह शालीति ।
बिल्वेति बिल्वफलानि ।
तदुक्तम्—- सपीर्व्रीहितिलैर्वैल्वैः फलैर्लक्षं हुनेन्निधिः ।
इति ।
लक्षहोमादिति ।
पञ्चविंशतिसहस्रमित्या प्रत्येकम् ।
भवेन्निधिरिति ।
मन्त्रिण इति शेषः ।
मातुलिङ्गो बीजपूरः ।
लभेन्निधिमिति वा पाठः ॥ ७७-७९ ॥
वियदर्द्धेन्दुसहितं तदादिः सर्गसंयुतः ।
अजपाख्यो मनुः प्रोक्तो द्व्यक्षरः सुरपादपः ॥ ८० ॥
ऋषिर्ब्रह्मा स्मृतो देवी गायत्री छन्द ईरितम् ।
देवता जगतामादिः सम्प्रोक्तो गिरिजापतिः ॥ ८१ ॥
अजपामन्त्रमाह वियदिति ।
अग्नीषोमात्मकत्वादस्याऽत्र पटले उक्तिः ।
तयोराद्यन्तयोरुक्तेः ।
वियत् हः अर्द्धेन्दुः बिन्दुः तदादिः सः सर्गे विसर्गः ।
द्व्यक्षरः सुरपादप इत्यनेनैतदुक्तं भवति ।
जपकाले एवं ध्यायेदिति ।
तदुच्यते ।
मन्त्रोच्चारण- काले मन्त्रं सुषुम्णारन्धपूर्ण विश्वरूपं सदानन्दात्मकं सप्तविंशकं ब्रह्म ध्यात्वा
तत्प्रभया विद्धसर्वाङ्गमात्मानम् अर्द्धनारीश्वररूपं षड्विंशकमीश्वरं चिन्तयेत् ।
पिङ्गलारन्ध्रस्थमादिबीजपञ्चविंशकं पुरुषबीजरूपं प्राणात्मना ध्यात्वा द्वितीयबीज- मिडारन्ध्रमध्यस्थचतुवींशकप्रकृतिरूपम् अपानात्मना चिन्तयेत् ।
विश्वरूपान् मन्त्रान् दीपाद्दीपान्तप्रभेव निर्गच्छन्तौ वामदक्षिणभागौ इडापिङ्गले परिपूर्णसुषुम्णायाः स्त्री-
पुरुषचिह्नितौ कृतौ ध्यायेत् ।
हं बीजं सः शक्तिः ॥ ८०-८१ ॥
हसा षड्दीर्घयुक्तेन कुर्यादङ्गक्रियां मनोः ॥ ८२ ॥
हसेति संयुक्तेन ।
साम्प्रदायिका अन्यथा षडङ्गमाहुः ।
सूर्यात्मने हृत् ।
सोमात्मने शिरः ।
निरञ्जनात्मने शिखा ।
निराभासात्मने कवचम् ।
अव्यक्तात्मने नेत्रम् ।
अतनु सूक्ष्मः प्रचोदयात्मने अस्त्रम् ।
ह्सा (ह्रा) मित्याद्यैरेभिरिति केचित् ॥ ८२ ॥
उद्यद्भानुस्फुरिततडिदाकारमर्द्धाम्बिकेशं
पाशाभीती वरदपरशू सन्दधानं कराग्रैः ।
दिव्याकल्पैर्नवमणिमयैः शोभितं विश्वमूलं
सौम्याग्नेयं वपुरवतु वश्चन्द्रचूडं त्रिनेत्रम् ॥ ८३ ॥
वामोर्ध्वादि दक्षिणोर्ध्वान्तमायुधध्यानम् ॥ ८३ ॥
भानुलक्षं जपेन्मन्त्रं पायसेन ससपीषा ।
दशांशं जुहुयात्सम्यक् ततः सिद्धो भवेन्मनुः ॥ ८४ ॥
भानुलक्षं द्वादशलक्षम् ॥ ८४ ॥
दीप्तादिपूजिते पीठे प्रागुक्ते प्रयजेद्विभुम् ।
मूत्तीं मूलेन सङ्कल्प्य यजेदङ्गादिभिः सह ॥ ८५ ॥
ऋतं वसुं नरवरौ दिग्दलेषु विदिक्ष्वथ ।
अर्चयेदृतजां गोजामब्जाख्यामद्रिजां पुनः ॥ ८६ ॥
लोकेश्वरांस्तदस्त्राणि पूजयेत् देवमन्वहम् ।
अर्घ्यं च विधिवद्दद्यात् प्राक् प्रोक्तेनैव वर्त्मना ॥ ८७ ॥
प्रागुक्ते पीठे मूत्तीं मूलेन सङ्कल्प्या विभुम् अङ्गादिभिः सह प्रयजेदिति अन्वयः ।
आदिशब्दार्थमाह ऋतमित्यादि ।
यजेदङ्गैः सह क्रमादित्यपि पाठः ।
अङ्गैः सह ऋतादीन् दिग्दलेषु अर्चयेदित्यन्वयः ॥ ८५-८७ ॥
मन्त्राढ्यमातृकाम्भोजे पूर्णकुम्भं निधाय तम् ।
पिधाय वामहस्तेन न्यस्तमन्त्रेण संयतः ॥ ८८ ॥
अष्टोत्तरशतं मन्त्रं जपेत्तोयं सुधामयम् ।
स्मृत्वा तेनाऽभिषिञ्चेद् यं स भवेद्विगतामयः ॥ ८९ ॥
आयुरारोग्यविभवानमितान् लभते नरः ।
अनेनैव विधानेन विषार्त्ते निवीषो भवेत् ॥ ९० ॥
मन्त्रेति अजपाढ्यकणीके मातृकोक्तार्चापद्मे ।
संयत इत्येननैतदुक्तं भवति ।
वामहस्ततले चन्द्रमण्डलं ध्यात्वा तन्मध्ये मन्त्रं सञ्चिन्त्य तेन हस्तेन तन्मुखं पिधायेति ।
स्मृत्वेति पूर्वेण सम्बध्यते ।
यमिति लिङ्गमविवक्षितम् ।
" नारी नरो वा विधिनाऽभिषिक्तः " इत्युक्तेः ॥ ८८-९० ॥
इन्दुभ्यां विगलत्सुधापरिवृतं मन्त्रान्त्यबीजं ततः
प्रच्योतत्परमामृतार्द्रशशिना संसिक्तमाद्यं स्मरन् ।
मन्त्री मन्त्रमिमं जपेद्विषगदोन्मादापमृत्युज्वरान्
जित्वा वर्षशतं विशिष्टविभवो जीवेत् सुखं बन्धुभिः ॥ ९१ ॥
इन्दुभ्यामित्यन्त्यबीजगाभ्यां विसर्गावयवबिन्दुभ्याम् ।
तत इत्यन्त्यबीजात् ।
तत्र प्रकारः ।
मनोरमप्रदेशे पद्मासने उपविश्य सुषुम्णाग्रन्थिताधोमुखसहस्रदलपद्म- कणीकामध्ये विसर्गं
चन्द्रमण्डलद्वयरूपेण ध्यात्वा तस्मात् चन्द्रमण्डलद्वयात् विगलितबहुलसुधाधारया संसिच्यमानमनाहतकमलकणीकागतं सकारं सञ्चिन्त्य सुषुम्णारन्ध्रेण सकारनिर्गतसुधारसेनाऽभिषिच्यमानं परिपूर्णसुधामयं मणिपूरस्थं बिन्दुं ध्यात्वा ततः स्रवदमृतधारापरिपूर्णं मूलाधारस्थितं हकारं चिन्तयित्वा ततोऽमृत- रसपरिपूर्णं मन्त्राक्षरामृतसंसिक्तमात्मानं परमानन्दसन्दोहनिमग्नमिव ध्यायेदिति ।
अस्य जीवमन्त्रस्य तन्त्रान्तरोक्तो विशेष उच्यते—-
ईश्वर उवाच—- अजपाराधनं देवि कथयामि तवाऽनधे ।
यस्य विज्ञानमात्रेण परम्ब्रह्माऽधिगच्छति ॥
हंसः पदं परेशानि प्रत्यहं जपते नरः ।
मोहान्धो यो न जानाति मोक्षस्तस्य न विद्यते ॥
श्रीगुरोः कृपया देवि ज्ञायते जप्यते ततः ।
तस्योच्छ्वासैस्तु निश्वासैस्तदा बन्धक्षयो भवेत् ॥
उच्छ्वासे चैव निश्वासे हंस इत्यक्षरद्वयम् ।
तस्मात्प्राणस्तु हंसाख्य आत्माकारेण संस्थितः ॥
नाभेरुच्छ्वासनिश्वासा हृदयाग्रे व्यवस्थिताः ।
षष्टिश्वासैर्भवेत् प्राणः षट् प्राणा घटिका मता ॥
षष्टिर्नाड्या अहोरात्रं जपसङ्ख्याऽजपामनोः ।
एकविंशतिसाहस्रं षट्शताधिकमीश्वरि ॥
प्रत्यहं जपते प्राणः स्पन्दा (सदा) नन्दमयीं पराम् ।
उत्पत्तिर्जप आरम्भो मृतिरस्य निवेदनम् ॥
विना जपेन देवेशि जपो भवति मन्त्रिणः ।
अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनी ॥
एवं जपं महेशानि प्रत्यहं विनिवेदयेत् ।
गणेशब्रह्मविष्णुभ्यो हराय परमेश्वरि ॥
जीवात्मने क्रमेणैव तथा च परमात्मने ।
षट् शतानि सहस्राणि षडेव च तथा पुनः ॥
षट्सहस्राणि च पुनः सहस्रं च सहस्रकम् ।
पुनः सहस्रं गुरवे क्रमेण तु निवेदयेत् ॥
आधारे स्वर्णवर्णाभे वादिसान्तानि संस्मरेत् ।
द्रुतसौवर्णवर्णानि दलानि परमेश्वरि ॥
स्वाधिष्ठाने विद्रुमाभे बादिलान्तानि च स्मरेत् ।
विद्युत्पुञ्जप्रभाभानि सुनीलमणिपूरके ॥
डफान्तानि महानीलप्रभाणि च विचिन्तयेत् ।
पिङ्गवर्णे महावह्नि कणीकाभानि चिन्तयेत् ॥
कादिठान्तानि पत्राणि चतुर्थेऽनाहते प्रिये ।
विशुद्धौ धूम्रवर्णे तु रक्तवर्णान् स्वरान् स्मरेत् ॥
आज्ञायां विद्युदाभायां शुभ्रौ हक्षौ विचिन्तयेत् ।
कर्पूरद्युतिसंराजत्सहस्रदलनीरजे ॥
नादात्मकं ब्रह्मरन्ध्रं जानीहि परमेश्वरि ।
एतेषु सप्तचक्रेषु स्थितेभ्यः परमेश्वरि ॥
जपं निवेदयेदेनमहोरात्रभवं प्रिये ।
अजपा नाम गायत्री त्रिषु लोकेषु दुर्लभा ॥
अजपां जपतो नित्यं पुनर्जन्म न विद्यते ।
अजपा नाम गायत्री योगिनां मोक्षदायिनी ॥
अस्याः सङ्कल्पमात्रेण नरः पापैः प्रमुच्यते ।
अनया सदृशी विद्या अनया सदृशो जपः ॥
अनया सदृशं पुण्यं न भूतं न भविष्यति ॥ इति ॥ ९१ ॥
व्याहृतित्रयमग्निः स्याज्जातवेद इहावह ।
सर्वकर्माणि सम्भाष्य साधयाऽग्निप्रिया ततः ॥ ९२ ॥
ताराद्योऽयं मनुः प्रोक्तः पञ्चविंशतिवर्णवान् ।
ऋषिर्भृगुर्भवेच्छन्दो गायत्रं देवताऽनलः ॥ ९३ ॥
विभक्तैः पञ्चभिः षड्भिश्चतुभीः पञ्चभिस्त्रिभिः ।
द्वाभ्यामङ्गक्रिया प्रोक्ता वर्णैर्मूलमनोः क्रमात् ॥ ९४ ॥
अग्निमन्त्रमाह व्याहृतीति ।
अग्निरिति स्वरूपम् ।
विसर्गस्य सन्धौ रेफः ।
अग्निप्रिया स्वाहा ।
प्रणवशक्तिपुटित इति केचित् ।
श्रीकामैः श्रीबीजादिर्जप्तव्यः ।
प्रणवो बीजं स्वाहा शक्तिः ।
व्याहृतित्रयं ततोऽग्निप्रिया ताराद्योऽयं मनुरित्यनेन सप्ताक्षरः समृद्ध्याग्निमन्त्रोऽपि सूचितः ।
तदुक्तमाचार्यैः—-
वियतो दशमोऽघीसर्गयुक्तो भुवसर्गौ भृगुलान्तषोडशाचः ।
हुतभुग्दयिता ध्रुवादिकोऽयं मनुरुक्तः सुसमृद्धिदः कृशानोः ॥ इति ।
अस्य प्रणवो बीजं स्वाहा शक्तिः ।
एतन्मन्त्रोक्तमेर्वष्यादि ।
द्विरुक्ताभिर्व्या- हृतिभिः षडङ्गम् ।
ध्यानं तु—-
शक्तिस्वस्तिकपाशान् साङ्कुशवरदाभयान् दधत् त्रिमुखः ।
मुकुटादिविविधभूषोऽवताच्चिरं पावकः प्रसन्नो वः ॥
जपेदिमं मनुमृतुलक्षमादराद्दशांशतः प्रतिजुहुयात् पयोऽन्धसा ।
ससपीषा सुसिततरैश्च षाष्टिकैः ।
इति ।
पूजा तु वक्ष्यमाणक्रमेणैवेति ।
अग्निरित्यादि स्वाहान्तोऽपि पृथक् मन्त्र इत्यपि सूचितम् ।
तदुक्तं प्रयोगसारे—-
मन्त्रोऽप्यग्निर्जातवेद इहावहसमन्वितः ।
सर्वकर्माण्यतः साधय स्वाहेति क्रमोदितः ॥ इति ।
अपेक्षितार्थद्योतनिकायामप्येतादृश उक्तः ।
" द्विवेदवेदेषुवह्निद्विवर्णैरङ्गकल्पना " इति ।
ऋष्यादि ध्यानपूजादिकं समानमेव ॥ ९२-९४ ॥
अंसासक्तसुवर्ण माल्यमरुणस्रक्चन्दनालङ्कृतं
ज्वालापुञ्जजटाकलापविलसन्मौलिं सुशुक्लांशुकम् ।
शक्तिस्वस्तिकदर्भमुष्टिकजपस्रक् स्रुक्स्रुवाभीवरान्
दोभीवीभ्रतमञ्चितत्रिनयनं रक्ताभमग्निं भजे ॥ ९५ ॥
आयुधध्यानं वामाद्यूर्ध्वयोराद्ये तदधस्थयोरन्ये ।
एवमान्तम् ।
ध्यान्मनन्तरं सप्तजिह्वाख्यमुद्रां प्रदर्शयेत् ।
तल्लक्षणं यथा—-
मणिबन्धस्थितौ कृत्वा प्रसृताङ्गुलिकौ करौ ।
कनिष्ठाङ्गुष्ठयुगले मिलित्वाऽन्याः प्रसारयेत् ।
सप्तजिह्वाख्यमुद्रेयं वैश्वानरवशङ्करी ॥ इति ।
इयं सर्वाग्निमन्त्रसाधारणीति ज्ञेयम् ॥ ९५ ॥
गुरोर्लब्धमनुर्मन्त्री चतुर्दश्यामुपोषितः ।
जपेद्भानुसहस्राणि शुद्धाचारो जितेन्द्रियः ॥ ९६ ॥
गुरोर्लब्धमनुर्मन्त्री चतुर्दश्यामुपोषितो जपेदित्यन्वयः ।
चतुर्दश्यामिति चैत्रकृष्ण- चतुर्दश्याम् ।
तदुक्तम्—- वत्सरादेश्चतुर्दश्यां दिनादावेव दीक्षितः ।
मन्त्रं द्वादशसाहस्रं जपेत्सम्यगुपोषितः ॥ इति ॥ ९६ ॥
अमावस्यादिने विप्रान् भाजयेन्मधुरोत्तरैः ।
भक्ष्यभोज्यैर्यथाशक्ति दद्यात्तेभ्योऽथ दक्षिणाम् ॥ ९७ ॥
भुक्त्वा(इष्ट्वा)स्वयं समानीय होमद्रव्याणि शोधयेत् ।
अपरं दिनमारभ्य होमं कुर्यादतन्द्रितः ॥ ९८ ॥
मधुरोत्तरैः शर्करादि मधुरद्रव्याधिकैः ।
अपरं दिनमिति शुक्लप्रतिपदम् ।
तदुक्तम्—- परेऽह्नि प्रतिपद्येतैर्जुहुयादचीतेऽनले ।
इति ।
नारायणीये च—- अग्न्यादिषु दिगन्तेषु तिथिष्वष्टोत्तरं शतम् ।
इति ॥ ९७-९८ ॥
क्रमाद्वटसमिद्ब्रीहि तिलराजी हविर्घृतैः ।
प्रत्येकमष्टोत्तरशतं जुहुयाद् दिनशः सुधीः ॥ ९९ ॥
क्रमात् वटेति षड्द्रव्याणि ।
नारायणीये तु सप्तद्रव्याण्युक्तानिन्यग्रोधसमिधो ब्रीहितिलराजीघृतान्विताः ।
सपायसघृता नित्यम् ।
इति ।
तथा—- तैर्द्रव्यैः सप्तमिः पृथक् ।
इति ॥ ९९ ॥
दशाहमेवं निर्वर्त्य विधानेन विधानवित् ।
दत्त्वा पूर्णाहुतिं सम्यगेकादश्यां द्विजोत्तमान् ॥ १०० ॥
सम्पूज्य तर्पयेद्वित्तैर्यथाविभवमादरात् ।
गुरवे दक्षिणां दद्यादरुणां गां पयस्विनीम् ॥ १०१ ॥
वासांसि धनधान्यानि दत्त्वा सम्प्रीणयेत् पुनः ।
स्वमण्डलान्तं प्रयजेत्पीठं सनवशक्तिकम् ॥ १०२ ॥
पीता श्वेताऽरुणा कृष्णा धूम्रा तीब्रा स्फुलिङ्गिनी।
रुचिरा ज्वालिनी प्रोक्ता कृशानोर्नव शक्तयः ॥ १०३ ॥
दशाहमिति ।
एवं विधानेन दशाहं निर्वर्त्य विधानविदेकादश्यां पूर्णाहुतिं हुत्वा द्विजोत्तमान् सम्यक् सम्पूज्येत्यन्वयः ।
तत्र विधानविदित्यनेन महाव्याहृतिहोमं कृत्वा अङ्गमूत्तीलोकपालास्त्राणामेकैकामाहुतिं दत्त्वा
पूर्णाहुतिरित्युक्तम् ।
सम्यक् तर्पयेदित्य- नेन अर्घ्यादिभिरुपचारैरित्युक्तम् ।
स्वमण्डलान्तं वह्निमण्डलान्तम् ॥ १००-१०३ ॥
स्वबीजेनासनं दद्यान्मूत्तीं मूलेन कल्पयेत् ।
तत्र सम्पूजयेद्वह्निं विधिना प्रोक्तलक्षणम् ॥ १०४ ॥
अङ्गपूजां पुरा कृत्वा मूर्त्तीरष्टौ दलेष्विमाः ।
जातवेदाः सप्तजिह्वो हव्यवाहनसञ्ज्ञकः ॥ १०५ ॥
अश्वोदरजसञ्ज्ञोऽन्यः पुनर्वैश्वानराह्वयः ।
कौमारतेजाः स्याद्विश्वमुखो देवमुखः परः ॥ १०६ ॥
अर्च्याः स्वस्तिकशक्तिभ्यां विराजितकराम्बुजाः।
लोकेशानर्चयेद् बाह्ये वज्राद्यायुधसंयुतान् ॥ १०७ ॥
स्वबीजेनेति रमित्यनेन ।
रं वह्नियोगपीठाय नमः इति आसनमन्त्रः ।
विधिनेति षोडशोपचारैः ।
प्रोक्तलक्षणमुक्तध्यानम् ।
मूर्त्तीनां कथनमन्यमूत्तीनिवृत्त्यर्थम् ।
प्रयोग- सार नारायणीययोरन्या मूर्त्तय उक्ताः—-
अग्निर्वैश्वानरः पश्चात् परः प्रोक्तो हुताशनः ।
हुतवर्त्मा जातवेदास्ततश्चापि हुतावहः ।
भूयो देवमुखः सप्तजिह्वश्चेत्यग्निमूर्त्तयः ॥ इति ।
एता व्याहृतित्रयरहिते मन्त्रे ज्ञेयाः ॥ १०४-१०७ ॥
इति सम्पूजयेन्नित्यं जपेत् साग्रं सहस्रकम् ।
जायते वत्सरादर्वाग्धनधान्यसमृद्धिमान् ॥ १०८ ॥
जपेत् साग्रं सहस्रकमिति नित्यजपसङ्ख्योक्ता ।
इयं सर्वत्रापि ज्ञेया ॥ १०८ ॥
साज्यमन्नं प्रजुहुयाद्वत्सराल्लभते श्रियम् ।
कुसुमैर्ब्रह्मवृक्षस्य दधिक्षौद्रघृतप्लुतैः ॥ १०९ ॥
करवीरप्रसूनैर्वा मण्डलात् स्यात्समृद्धिमान् ।
षण्मासं कपिलाज्येन जुहुयाद्वत्सरान्तरे ॥ ११० ॥
तस्य सञ्जायते लक्ष्मीः कीत्तीस्त्रैलोक्यवन्दिता ।
शालिभिर्जुहुयान्नित्यं विधिनाऽष्टोत्तरं शतम् ॥ १११ ॥
ब्रीहिगोमहिषान्नाद्यैर्भवनं तस्य पूर्यते ।
तिलहोमेन महतीं लक्ष्मीमाप्नोति मानवः ॥ ११२ ॥
पलाशबिल्वखदिरशमीदुग्धमहीरुहाम् ।
विकङ्कतारग्वधयोः समिद्भिः करवीरजैः ॥ ११३ ॥
प्रसूनैः कुमुदैः पद्मैः कह्लारैररुणोत्पलैः ।
जातीप्रसूनैर्दूवाभिर्नित्यमष्टोत्तरं शतम् ॥ ११४ ॥
एकेन जुहुयान्मन्त्री प्रतिपत्स्वथवा सुधीः ।
साधेयदखिलान् कामान् षण्मासान्नाऽत्र संशयः ॥ ११५॥
जुहुयादिति षण्मासम् ।
विधिनाऽष्टोत्तरं शतमिति ।
विधिनेति प्रति प्रतिपदं चेत्युक्तम् ।
नित्यं जुहुयात् प्रति प्रतिपदं चेति विकल्पः ।
एकेन नित्यमष्टोत्तरं शतमितिं दुग्धमहीरुह एकस्य यस्य कस्य चिद्ग्रहणात् ।
अरुणोत्पलैः रक्तकमलैः रक्तकुवलयैरित्यपि ।
यत्कोशश्च—- " रक्तोत्पलं कोकनदं रक्ताब्जे रक्तसन्ध्यके " इति ।
अतः सप्तसमिधः सप्तपुष्पाणि एका दूर्वेति पञ्चदश द्रव्याणि ।
तत्र प्रतिपदादि पर्वपर्यन्तं प्रत्यहमेकैकेनोक्तसङ्ख्यया जुहुयात् ।
एवं प्रतिपक्षं यावत् षण्मासपूत्तीः ।
अथवा प्रतिपत्स्विति पक्षे एकेन एकैकेन तेन तस्मिन् दिवसे पञ्चदशभिर्द्रव्यैः प्रत्येकमष्टोत्तरशतसङ्ख्यया
जुहुयात् ॥ १०९-११५ ॥
उत्तिष्ठपुरुष ब्रूयाद्धरिपिङ्गल तत्परम् ।
लोहिताक्षपदं देहि मे ददापय ठद्वयम् ॥ ११६ ॥
चतुवींशत्यक्षरात्मा समृद्धिमनुरीरितः ।
ऋष्यादयः पुरा प्रोक्ताः षड्भूतकरणैस्त्रिभिः ॥ ११७ ॥
चतुभीर्युगलेनाऽर्णैर्मूलमन्त्रसमुद्भवैः ।
विदधीत षडङ्गानि जातियुक्तानि मन्त्रवित् ॥ ११८ ॥
तुरगाग्निमन्त्रमाह उत्तिष्ठति ।
ठद्वयं स्वाहा ।
समृद्धिमनुरित्यनेन विनियोगोक्तिः।
मन्त्रस्थ हलो बीजानि ।
स्वराः शक्तयः ।
प्रणवो बीजं स्वाहा शक्तिरिति पद्मपादाचार्याः ।
प्रणवाद्य इति केचित् ।
नृसिंहबीजाद्य इत्यन्ये ।
लक्ष्मीबीजाद्य इत्यपरे ।
मृत्युञ्जयाद्य इत्यपि केचित् ।
प्रयोगे देहि मे एतत्पूर्वं साध्ययोगोऽपि ज्ञेयः ।
भूतैरिति पञ्चभिः ।
करणैश्चतुभीः ।
प्रयोगसारनारायणीययोः लोहिताक्षमेपदद्वयाति- रिक्तः प्रणवादिवींशत्यक्षर एवोद्धृतः ।
तदुक्तम्—-
उत्तिष्ठपुरुषेत्युक्त्वा हरिपिङ्गल देह्यथ ।
ददापयेति तारादिः स्वाहान्तो मन्त्र ईरितः ॥ इति ।
चतुस्त्रीषुद्व्यब्धियुगैर्वर्णैश्चाऽङ्गं पुरोदितम् ।
इति ॥ ११६-११८॥
स्वर्णाश्वत्थविनिर्गतं हुतवहं सिन्दूरपुञ्जप्रभं
ज्वालाभिर्निचिताङ्गरोमनिचयं कान्त्या जगन्मोहनम् ।
अश्वाकारमनर्घरत्नविलसद् भूषालसत्कन्धरं
रत्नैरिन्द्रियनिर्गतैर्वसुमतीमाच्छादयन्तं स्मरेत् ॥ ११९ ॥
तुरगाग्निध्यानमाह स्वर्णेति ॥ ११९ ॥
लक्षं मनुं जपेदेनं पयोऽन्नेन ससपीषा ।
दशांशं जुहुयाद्वह्नौ तुरगाग्निमनुं स्मरन् ॥ १२० ॥
पीठे प्रागीरितेऽभ्यर्च्येत्तदङ्गैर्मूत्तीभिः सह ।
आशापालैस्तदीयास्त्रैरर्चयेद्धव्यवाहनम् ॥ १२१ ॥
प्रातः स्नानरतो मन्त्री सहस्रं यो जपेन्मनुम् ।
जित्वा रोगान् सुखं जीवेत् श्रिया वर्षशतं नरः ॥ १२२ ॥
हृत्प्रमाणे जले स्थित्वा भानुमालोक्य संयतः ।
चतुःसहस्रं प्रजपेन्नित्यं संवत्सरावधि ॥ १२३ ॥
अपमृत्युभयं रोगकृत्यादारिद्र्यसम्भवान् ।
क्लेशान्निजीत्य तेजस्वी जीवेद्वर्षशतं सुधीः ॥ १२४ ॥
कृत्तिकायां प्रतिपदि शालिहोमो धनप्रदः ।
दध्ना शमीसमिद्भर्वा प्रतिपत्सु भवेद्धनम् ॥ १२५ ॥
इष्टावाप्तिर्भवेदाज्यैः पद्मैः ग्राममवाप्नुयात् ।
तै(ति) लैर्ज्येतिष्मतीभूतै रिपुराज्यं जयेन्नृपः ॥ १२६ ॥
लक्षं मनुं जपेदिति ।
तत्र प्रकारोऽपेक्षितार्थद्योतनिकायाम् ।
कृत्तिका- विशाखयोर्मध्ये अष्टमी चतुर्दशी वा यदि भवति तदाऽत्र अभिजित्काले पुरश्चरण- मारभ्य
शमीरक्तचन्दनकरवीरकाणाम् अन्यतमेनाऽग्निप्रतिमाम् आपाद्य मूलेना- वाहनादि विसर्गान्तं कर्म कुर्वन्
त्रिषवणस्नायी त्रिसहस्रं त्रिशतं चतुस्त्रिंशदधिकं
नित्यं जप्त्वा घृताभिधारितशमीसमिद्भिः तादृक्पायसेन वा तदर्द्धं जुहुयान् मासं
गुरोश्च गामपि दद्यात् सिद्धो भवति ।
उभयोः सन्ध्ययोर्मध्याह्ने वा करवीरपुष्पै- रर्चयेदिति ।
प्रागीरित इत्यव्यवहिते ।
तत्र कल्पतरुस्थाने स्वर्णाश्वत्थः पूजनीयः ।
ध्याने तथोक्तेः ॥ १२०-१२६ ॥
अश्वत्थसमिधो मेषीघृताक्ता जुहुयान्नरः ।
कन्यामिष्टामवाप्नोति सापि तं प्राप्नुयात् पतिम् ॥ १२७ ॥
शुद्धाज्येन कृतो होमो ज्वरनाशकरः स्मृतः।
सप्ताहं जुहुयान्मन्त्री बन्धूककुसुमैः शुभैः ॥ १२८ ॥
साग्रं सहस्रमचिरान्महतीं श्रियमश्नुते ।
मासं क्षीरेण गव्येन क्षीराहारो जितेन्द्रियः ॥ १२९ ॥
सहस्रं जुहुयान्मन्त्री सम्पदामधिपो भवेत् ।
आज्याक्तदूर्वाहोमेन जीवेद्वर्षशतं नरः ॥ १३० ॥
अष्टोत्तरशतं नित्यं हविषा मृगमुद्रया ।
जुह्वतो जायते लक्ष्मीर्धनधान्यसमृद्धिदा ॥ १३१ ॥
प्रतिमासं प्रतिपदि जुहुयादयुतं घृतैः ।
श्रीर्भवेन्महती तस्य षण्मासादनपायिनी ॥ १३२ ॥
अरुणैरुत्पलैः फुल्लैर्मधुरत्रयसंयुतैः ।
जुहुयाद्वत्सरार्द्धं यः स भवेदिन्दिरापतिः ॥ १३३ ॥
अरुणाज्यैस्त्रिमध्वक्तैर्जहुयादन्वहं सुधीः ।
सहस्रं वत्सरार्द्धेन भवेद् भूमिपुरन्दरः ॥ १३४ ॥
मृगमुद्रयेति ।
मृगमुद्रालक्षणं तु—-
मिलित्वाऽनामिकाङ्गुष्ठमध्यमाग्राणि योजयेत् ।
शिष्टाङ्गुल्युच्छिरते कुर्यान्मृगमुद्रेयमीरिता ॥ इति ॥ १३१ ॥
वत्सरं जुह्वतस्तस्य लक्ष्मीरिन्द्रेण वाञ्छिता ।
जुहुयादमृताखण्डैः पयोऽक्तैः सप्तवासरम् ॥ १३५ ॥
त्रिसहस्रं प्रतिदिनं मन्त्रविद्विजितेन्द्रियः ।
कृत्याद्रोहज्वरोन्मादरोगान् जित्वा निरन्तरम् ॥ १३६ ॥
जीवेद्वर्षशतं भूत्वा तेजसा भास्करप्रभः ।
करवीरजवाबिल्व पलाशनृपभूरुहाम् ॥ १३७ ॥
प्रसूनैः कुमुदैः फुल्लैः कुरण्टैर्जातिसम्भवैः ।
पुष्पैर्हुत्वा त्रिमध्वक्तैर्मन्त्री प्रतिपदं प्रति ॥ १३८ ॥
प्राप्नुयान्महतीं लक्ष्मीं वत्सराद्वाञ्छिताधिकाम् ।
आदाय तण्डुलप्रस्थं निर्मलं साधुशोधितम् ॥ १३९ ॥
गोदुग्धेन हविः कृत्वा कवलं तेन कल्पयेत् ।
आज्याक्तं तत् समादाय पूजिते हव्यवाहने ॥ १४० ॥
अमृता गुडूची ।
नृपभूरुट् राजवृक्षः ।
हुत्वेति प्रत्येकम् ।
एकैकशः शतमिति आचार्येक्तेः ।
गोदुग्धेनेति रक्तवर्णगोदुग्धेन ।
तदुक्तं प्रयोगसारे—-
शालेयैस्तन्दुलैः प्रस्थैः शोणगोक्षीरसाधितम् ।
हविः पिष्टं घृताक्तं तु जुहुयादाज्यमिश्रितम् ॥ इति ॥ १३५-१४० ॥
गन्धपुष्पादिभिः सम्यग् जपित्वाऽष्टोत्तरं शतम् ।
जुहुयात् प्रतिपद्यग्निं ध्यात्वा तुरगविग्रहम् ॥ १४१ ॥
जायते वत्सरादर्वाग्लक्ष्मीस्त्रैलोक्यमोहिनी ।
मन्त्रेणाऽनेन सञ्जप्तां वचां खादेद्दनागमे ।
भारती निवसेत्तस्य मुखाम्भोजे विनिश्चला ॥ १४२ ॥
अष्टोत्तरशतं जप्तं जलं प्रातः पिबेन्नरः ।
जठराग्निर्ज्वलेत्तस्य हविषेव हुताशनः ॥ १४३ ॥
सम्यक् जपित्वेति लक्ष्मीबीजाद्यमित्युक्तम् ।
कवलहोमानन्तरमष्टोत्तरं सहस्रं शतं वा घृतेन जुहुयादिति अपेक्षितार्थद्योतनिकाकार
आह स्म ॥ १४१-१४३ ॥
कृत्वा नवपदात्मानं मण्डलं प्रागुदीरितम् ।
कलशान्नव कल्याणान् स्थापयेत् प्रोक्तवर्त्मना ॥ १४४ ॥
क्षीरवृक्षत्वगुद्भूतैः क्वाथैस्तान् पूरयेत् क्रमात् ।
वस्त्रादिभिरलङ्कृत्य नव रत्नानि निक्षिपेत् ॥ १४५ ॥
मध्ये सम्पूजयेदग्निं मूर्त्तीरष्टौ दिशां क्रमात् ।
कुम्भेषु गन्धपुष्पाद्यैर्धूपदीपैर्मनोहरैः ॥ १४६ ॥
स्पृष्ट्वा जपेत्ततः कुम्भान् मन्त्रमष्टोत्तरं शतम् ।
अभिषिञ्चेत्ततः साध्यं विनीतं दत्तदक्षिणम् ॥ १४७ ॥
ज्वरग्रहमहारोगदारिद्र्यादीन् विजित्य सः ।
जीवेद्वर्षशतं सम्यगभिषिक्तः श्रिया सह ॥ १४८ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
चतुर्दशः पटलः समाप्तः ॥ १४ ॥
ब्थ् " बि
नवपदात्मानं नवनाभम् ।
प्रागिति तृतीये ।
प्रोक्तवर्त्मना षष्ठपटलोक्तरीत्या ॥ १४४ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां चतुर्दशः पटलः ॥ १४ ॥
ब्थ् " बि