१३

अथ त्रयोदशः पटलः

अथ वक्ष्ये गणपतेर्मन्त्रान् सर्वार्थसिद्धिदान् ।
यान् लब्ध्वा मानवा नित्यं साधयन्ति मनोरथान् ॥ १ ॥
" मुख्ये पुष्पाञ्जलिं कृत्वा गणेशाभ्यर्चनं भवेत् " इत्युक्तेः शक्तिमन्त्रानुक्त्वा क्रमप्राप्तान्
गणपतिमन्त्रान् वक्तुमुपक्रमते अथेति ।
सर्वार्थसिद्धिदानिति विनियोगोक्तिः ॥ १ ॥
पञ्चान्तकं शशिधरं बीजं गणपतेवीदुः ।
गणकः स्यान्मुनिश्छन्दो निवृद्विघ्नोऽस्य देवता ॥ २ ॥
गणपतिबीजमुद्धरति पञ्चान्तकमिति ।
पञ्चान्तको गकारः शशी बिन्दुस्तद्युतम् तेन गम् इति ।
अथ च शशी विसर्गस्तद्युतः गः इत्यपि भवति ।
" सर्गः शक्तिर्निशाकरः " इत्युक्तेः ।
गोपनायैवमुद्धारः ।
इदं द्वयम् उत्तरगार्ग्येक्तम् ।
पूजाप्रयोगादिकमुभयोः समानम् ।
केचन औकारयुतमाहुः ।
तदुक्तं प्रयोगसारे—-
बीजमिन्दुमदौयुक्तं कतृतीयं तथैव च ।
इति ।
नारायणीये तु—- खान्तं सान्तविषं सबिन्दुसकलं बिन्द्वौयुतं केवलम् ।
पञ्चैतानि पृथक् फलं विदधते बीजानि विघ्नेशितुः ॥ इति ॥
आचार्यैस्तु प्रणवादिरुद्धतः—-
चतुरीयो विलोमेन तारादिबीन्दुसंयुतः ।
वैघ्नो मन्त्रो हृदन्तोऽर्चाविधौ होमे द्विठान्तकः ॥
गणकः स्यादृषिश्छन्दो निवृद्विघ्नोऽस्य देवता ।
बीजेन दीर्घयुक्तेन दण्डिनाऽङ्गक्रिया मता ॥ इति ॥
गकारो बीजं बिन्दुःशक्तिः ।
अन्यत्र सर्गः शक्तिः ॥ २ ॥
षडदीर्घभाजा बीजेन कुर्यादङ्गक्रियां मनोः ॥ ३ ॥
षडङ्गमाह षडिति ।
प्रयोगसारे पञ्चाङ्गमप्युक्तम्—-
आदौ गणं जयायोक्त्वा स्वाहा हृदयमुच्यते ।
एकदंष्ट्राय सम्भाष्य हु�फड्विद्याच्छिरस्ततः ।
शिखाप्यचल-शब्दादिकणीनत्यन्ततो नमः ॥
कवचं गजवक्त्राय नमो नम इतीरितम् ।
महोदराय चण्डाय हुम्फडित्यस्त्रमिष्यते ॥
एतान्यङ्गानि विन्यस्येत्पञ्चोक्तानि मनीषिभिः ।
सप्रांशुना वा बीजेन षडङ्गान्यपि योजयेत् ॥ इति ॥ ३ ॥
सिन्दूराभां त्रिनेत्रं पृथुतरजठरं हस्तपद्मैर्दधानं
दन्तं पाशाङ्कुशेष्टान्युरुकरविलसद्बीजपूराभिरामम् ।
बालेन्दुद्योतिमौलिं करिपतिवदनं दानपूरार्द्रगण्डं
भोगीन्द्राबद्धभूषं भजत गणपतिं रक्तवस्त्राङ्गरागम् ॥ ४ ॥
आयुधध्यानं तु ऊर्द्धस्थवामदक्षयोरङ्कुशपाशौ ।
अधःस्थयोः स्वदन्तवरदे ।
सर्वेऽपि गणपतिरेकदन्तो ध्येयः ।
सदन्तो दक्षिणपार्श्वे ।
द्वितीयस्य ध्यानं यथा—-
ध्यायेत् स्वैक्येन देवं वृहदुदरतनुं
तं चतुर्बाहुमेकदन्तं पाशाङ्कुशाढ्यं
गजमुखमरुणं दन्तभक्ष्ये दधानम् ॥ इति ॥
पुष्करं च दक्षहस्तस्थितभक्ष्योपरि ।
औकारयुक्तबीजे तु ध्यानम्—-
रक्ताक्षमालापरशुं च दन्तं भक्ष्यं च दोभीः परितो दधानम् ।
हेमाभकान्तिं त्रिदशं गजास्यं लम्बोदरं चैकरदं नमामि ॥ इति ।
अत्रापि पुष्करं पूर्ववज् ज्ञेयम् ।
इदमेव मायाबीजाद्यं यदा तदा ध्यानम्—-
अमृताम्भोधिमध्ये तु वारिजे कुङ्कुमप्रभे ।
ऋतुसङ्ख्यदलोपेते चिन्तयेद्गणनायकम् ॥
पाशाङ्कुशधरं देवं जवाकुसुमसन्निभम् ।
वामपार्श्वगतां देवीमालिङ्गन्तं सुलोचनम् ॥
सुवर्णचषकं शुभ्रं मधुना पूरितं सदा ।
पिबन्तीं वामहस्तेन योगिनीं मदमोहिताम् ॥
रक्तवर्णां महादेवीमालिङ्गन्तीं सुमध्यमाम् ।
बाहुनैकेन विघ्नेशं मत्तं रक्तविलोचनम् ॥
तद्रूपांश्चिन्तयेद्विद्वान् गणान् पूर्वादितः क्रमात् ॥ इति ।
अत्र ध्यानानन्तरमियं गणपतिमुद्रा प्रदर्शनीया—-
मुखात्प्रलम्बितं हस्तं कृत्वा सङ्कुचिताङ्गुलिम् ।
मध्या तर्जनिगताग्राङ्गुष्ठं चाधःस्थमध्यमम् ॥
कुर्यान् मुद्रा गणेशस्य प्रोक्तेयं सर्वसिद्धिदा ॥ इति ।
यद्वा—- तर्जनीमध्यमासन्धिनिर्गताङ्गुष्ठमुष्टिका ।
अधोमुखी दीर्घरूपा मध्यमा विघ्नमुद्रिका ॥ इति ॥
यद्वा—- कुञ्चिताग्रस्य हस्तस्य मूले नासानियोगतः ।
गणेश्वरी भवेन् मुद्रा ।
इति ।
इयं सर्वगणपतिमन्त्रसाधारणीति ज्ञेयम् ॥ ४ ॥
वेदलक्षं जपेन्मन्त्रं दशांशं जुहुयात्ततः ।
मोदकैः पृथुकैर्लाजैः सक्तुभिश्चेक्षुपर्वभिः ॥ ५ ॥
नारिकेलैस्तिलैः शुद्धैः सुपक्वैः कदलीफलैः ।
अष्ट द्रव्याणि विघ्नस्य कथितानि मनीषिभिः ॥ ६ ॥
वेदलक्षं चतुर्लक्षम् ।
दशांशमिति ।
तत्र होमोऽष्टभिर्द्रव्यैर्वक्ष्यमाणैः अर्द्धमर्द्ध- मयुतमेकैकेन द्रव्येण होतव्यम् ।
केचित्तु अष्टद्रव्यमेलनमाहुः ।
तन्न ।
आहुतिप्रमाण- सन्देहापातात् ।
मूले च प्रत्येकं पृथक् क्रियान्वयाच्च ।
विशिष्टस्य द्रव्यान्तर- त्वेनाऽष्टद्रव्यहोमकरणासम्भवाच्च ।
तदुक्तं भट्टाचार्यैः—-
नैव ब्रीहिभिरिष्टं स्याद्यवैर्न च यथाश्रुतैः ।
मिश्रैरिज्येत चेत् ।
इति ।
तथा मिश्राणां विध्यदर्शनादिति च ।
नन्वेवं त्रिमधुरमेलनमपि न कार्यमिति चेत् ।
मैवम् ।
" सर्वं त्रिमधुरोपेतं होमद्रव्यमुदाहृतम् " इति वचनात् तन्मेलनस्य पशुपुरोडाशाद्यवदानानाम्
उपस्तारप्रत्युपस्ताराज्यमेलनवत् अविरोधात् ।
तदुक्तं गणेश्वरविमशीन्याम्—-
अष्टद्रव्यैस्त्रिमध्वक्तैर्जहुयाच्च पृथक् पृथक् ।
इति ।
पृथुकैश्चिपिटकैः ।
शुद्धैरित्यनेनाऽवकरं दूरीकृत्य प्रक्षाल्य शोषितैरित्युक्तम् ।
एषु मन्त्रेषु गायत्र्या प्रोक्षणादिकं कुर्यात् ।
गायत्री यथा—-
एकदंष्ट्राय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो विघ्नः प्रचोदयात् ।
इति ॥ ५-६ ॥
तीव्रादिशक्तिभिर्युक्ते पीठे विघ्नेश्वरं यजेत् ।
तीव्राख्या ज्वालिनी नन्दा भोगदा कामरूपिणी ॥ ७ ॥
उग्रा तेजोवती सत्या नवमी विघ्ननाशिनी ।
सर्वादिशक्तिकमलासनाय हृदयावधिः ॥ ८ ॥
तीव्रेति ।
आसां ध्यानं यथा—-
पाशाङ्कुशाञ्जलिकरा नवकुङ्कुमसन्निभाः ।
तीव्राद्याः पूजनीयाः स्युः शक्तयो मणिभूषणाः ॥ इति ॥ ७-८ ॥
पीठमन्त्रोऽयमेतेन प्रदद्यादासनं विभोः ।
मूलेन मूत्तीं सङ्कल्प्या तस्यां विघ्नेश्वरं यजेत् ॥ ९ ॥
कणीकायां चतुदीक्षु प्रथमं पूजयेदिमान् ।
गणाधिपं गणेशानं तृतीयं गणनायकम् ॥ १० ॥
गणक्रीडं पीतगौररक्तनीलरुचः क्रमात् ।
सर्वान्नागेन्द्रभूषाद्यान् भक्ष्यलक्षितपुष्करान् ॥ ११ ॥
विभोरिति ।
पीठमन्त्रादौ स्वबीजाद्यत्वमुक्तम् ।
प्रथमं पूजयेदिति ।
अत्र प्रथममित्यङ्गावृत्यपेक्षया प्राथम्यं यतश्चतुर्थपटले अङ्गादिलोकपालान्तं पूजयेदिति सामान्यत उक्तम् ।
तदपवादायाऽत्र प्रथममित्युक्तिः—-यद्व्याख्यानावसरे अत एव मयोक्तं ग्रन्थकृता इदं वचनं
सम्भवाभिप्रायेणोक्तमिति ॥ ९-११ ॥
यथापूर्वं ततोऽभ्यर्च्य केसरेष्वङ्गदेवताः ।
पत्रमध्येषु विधिवद्वक्रतुण्डादिकान् यजेत् ॥
वक्रतुण्डमेकदंष्ट्रं महोदरगजाननौ ॥ १२ ॥
लम्बोदराख्यं विकटं विघ्नराजमनन्तरम् ।
धूम्रवर्णं दलागेरषु ब्राह्म्याद्याः पूजयेत्ततः ।
लोकपालांस्तदस्त्राणि देवमित्थं समर्चयेत् ॥ १३ ॥
सिद्धमन्त्रः प्रकुर्वीत प्रयोगान् कल्पचोदितान् ।
तर्पयेत्सलिलैः शुद्धैदीनशो गणनायकम् ॥ १४ ॥
यथापूर्वं चतुर्थपटलोक्तरीत्या ।
विधिवदिति गणपतिबीजादि ।
इत्थं समर्चयेदिति ।
मन्त्रत्रयस्य पूजा समानैव ।
तदुक्तमीशानशिवेन—-
पञ्चान्तकं बिन्दुयुतं सनादं बीजं गणेशस्य वदन्त्यथान्ये ।
ऊकारबिन्द्वन्तमुदीरयन्ति तुल्यस्तयोः स्याद्विधिरेष उक्तः ॥ इति ।
मायाबीजादौ तु षड्दले आमोदादीन् पूजयेदिति विशेषः ।
तर्पणप्रयोगाश्च सर्वमन्त्राणां साधारणा एव ।
तर्पणे तु सर्वेषामयं विशेषः ।
क्रोडन् हेममयोदयाद्रिशिखरे स्थित्वाऽवतीर्णः क्षुधा
सोपानेषु समेत्य रुक्मकलितेष्वब्जादि भक्ष्यं बहु ।
भुक्तवा प्रीतमना यथा पुरमसौ सम्पूजितो विघ्नराट्
कुर्यादित्युषसि स्मृतः स सकलान् कामांस्तथा तपीतः ॥ इति ॥ १२-१४॥
चतुश्चत्वारिंशदाद्यं चतुःशतमतन्द्रितः ।
प्राप्नुयान् मण्डलादर्वागभीष्टमधिकं नरः ॥ १५ ॥
तर्पयेदिति ।
गं गणेशं तर्पयामीति प्रयोगः ।
क्रमाच्चतुःशतमिति ।
प्रतितिथि द्रव्यचतुष्टयेन तावान् होमः ॥ १५-१६ ॥
नारिकेलैः कृतो होमश्चतुर्थ्यां श्रीप्रदो भवेत् ।
शुक्लपक्षप्रतिपदमारभ्य दिनशः सुधीः ॥ १६ ॥
चतुर्थ्यन्तं नारिकेलसक्तुलाजतिलैः क्रमात् ।
चतुःशतं प्रजुहुयाद्वश्याः स्युः सर्वजन्तवः ॥ १७ ॥
वश्या इति ।
तत्र विशेषः प्रयोगसारनारायणीययोः ।
साध्यं पाशाङ्कुशाभ्यामिह विधिवदुपानीय तस्योपरिस्थो
वश्याकाङ्क्षी जपेत्तं सपदि विधिरयं हन्ति रुष्टस्य रोषम् ॥ इति ॥ १७ ॥
सतिलैस्तण्डुलैर्हेमो लक्ष्मीवश्यप्रदो भवेत् ।
लाजैस्त्रिमधुरोपेतैर्हेमः कन्यां प्रयच्छति ॥ १८ ॥
सतिलैरिति ।
अत्रापि शुक्लप्रतिपदमारभ्य चतुर्थ्यन्तं चतुःशतहोमः ।
लाजैरिति ।
अत्रापि शुक्लप्रतिपदमारभ्य चतुर्थ्यन्तं चतुःशतहोमः ।
तमेव प्रतिपद- मारभ्य सप्तमीपर्यन्तमिति विशेषः ।
तदुक्तम्—-
मधुरत्रयसिक्ताभिर्लाजाभिः सप्तवासरम् ।
इति ॥ १८ ॥
अनेन विधिना कन्या वरमाप्नोति वाञ्छितम् ।
आज्याक्तहविषा होमः साधयेदीप्सितं नृणाम् ॥ १९ ॥
अनेन विधिनेति ।
एतादृशेषु स्त्रीणामप्यधिकार इति सूचितम् ॥ १९ ॥
दध्ना विलोलितैर्लेणैर्हेमो निशि चतुदीनम् ।
संवादं कुरुते तद्वद्वश्यं वितनुते सदा ॥ २० ॥
चतुदीनमिति ।
प्रतिपदमारभ्य चतुर्थीपर्यन्तम् ।
संवादः संवननम् ॥ २० ॥
श्वेतार्कभवमूलेन रक्तचन्दनदारुणा ।
इभभग्नेन निम्बेन दन्तिदन्तेन वा कृतम् ॥ २१ ॥
विघ्नेश्वरं समभ्यर्च्च शीतांशुग्रहणे जपेत् ।
स्पृष्ट्वा मन्त्री निराहारस्तं शिखायां समुद्वहन् ॥ २२ ॥
युद्धेषु व्यवहारादौ विजयश्रियमाप्नुयात् ।
जपेदिति ।
ग्रहणादिमोक्षान्तम् ॥ २१-२३ ॥
मन्त्रेणाऽनेन सञ्जप्ता रोचना मदसंयुता ॥ २३ ॥
तिलकक्रियया सर्वान् वशं नयति मानवान् ।
मदो गजमदः ॥ २३-२४ ॥
अनुलोमविलोमस्थबीजे नाम समालिखेत् ॥ २४ ॥
नवनीते समभ्यर्च्य स्पृष्ट्वा प्राणमनुं जपेत् ।
अष्टोत्तरशतं भूयो मूलमन्त्रं प्रजप्य तत् ॥ २५ ॥
भक्षयेन्मौनमास्थाय यामिन्यां सप्तवासरम् ।
स वश्यो जायते शीघ्रं साधकस्य न संशयः ॥ २६ ॥
अनुलोमेति ।
बीजयोर्मध्ये साध्यसाधककर्मनामानि नवनीते लिखेत् ।
अनुलोमविलोमेत्यनेन बीजयोः पुटितत्त्वमात्रमुक्तम् ।
नवनीत इति नूतने ।
बीजवेष्टितमित्यपि ज्ञेयम् ।
तदुक्तमाचार्यैः—-
नवनीते नवे लिख्यादनुलोमविलोमकम् ।
उदरस्थितसाध्याख्यं तद्बीजं तत्प्रवेष्टितम् ।
इति ॥
नवनीत इत्युपलक्षणमपूपादेरपि ।
" कार्येऽयं विधिरपूपे च " इति नारायणीये उक्तेः ।
समभ्यर्च्येति ।
साध्यगणेशम् ।
भूयोऽनन्तरम् अष्टोत्तरशतमिति मूलमन्त्रं प्रजप्येत्यत्राऽन्वेति ।
तन्नवनीतं भक्षयेदिति सम्बन्धः ।
सप्तवासरमिति ।
प्रतिपदादि सप्तमीपर्यन्तमित्यर्थः ।
तन्त्रान्तरोक्तं यन्त्रत्रयमुच्यते ।
अष्टारं पद्ममालिख्य कणीकोपरि तस्य च ।
गौरीं बिन्दुसमायुक्तां नाम्ना सार्द्धं समालिखेत् ॥
प्रागादिदलमूलेषु मूत्तीबीजान्यथालिखेत् ।
कोणपत्रेषु चाग्नीशनिरृत्यनिलसौम्यतः ॥
क्रमादङ्गाद्यवर्णांश्च ततः पत्राग्रकेषु च ।
मातृशक्त्यादिवर्णांश्च ततः पद्मस्य बाह्यतः ॥
स्वदिक्षु लोकपालानामाद्यर्णानि समालिखेत् ।
बहिः षोडशपत्राढ्यं तत्पत्रेषु स्वरान् लिखेत् ॥
शिष्टं मातृकयाऽऽवेष्ट्या पाशेनैवाऽङ्कुशेन च ।
तस्मिन्नावाह्य देवेशं विघ्नं यन्त्रे समर्चयेत् ॥
क्षौमादिसूत्रे सम्बद्ध्य गले यो र्मूध्नि धारयेत् ।
तस्य हस्तगता लक्ष्मीर्वाणी जिह्वागता सदा ॥
मेधा मनोगता कीत्तीर्वर्द्धमाना सदा दिशि ।
इति ।
पद्ममित्यष्टदलम् ।
अष्टारमिति तदुपरि ।
कणीकोपरि कणीकामध्ये ।
गौरी गकारः ।
मूत्तीबीजानीति ।
क्षिप्रप्रसादनोक्ताष्टमूर्त्त्याद्यक्षराणि ।
अङ्गेति पञ्चाङ्गपक्षे पञ्चमं सौम्ये ।
मातर एव शक्तयस्तन्नामाद्यर्णान् ।
स्वदिक्ष्विति स्वस्वदिक्ष्वष्टारे ।
शिष्टं मातृकया ककारादिकया ।
तथा—-
षट्कोणं प्रविलिख्य तस्य जठरे बिन्द्वाढ्यपञ्चान्तकं
नाम्ना भूर्जतरुत्वचि प्रविलिखेद्गोरोचनादूर्वया ।
एकारान्वितकालवर्णमथ युक् दन्तेन गान्तं ततः
शक्रार्णं शिरसा वहन्नपि विधिवद्दीर्घश्च पश्चाद्रसः ॥
माया वायुसखस्य मन्त्रवरमालिख्याऽथ कोणेषु तद्-
बाह्ये पाशमथाङ्कुशं प्रविलिखेद्भूमण्डलं बाह्यतः ।
यन्त्रं गन्धमनोहरैश्च कुसुमैरभ्यर्च्य विघ्नेश्वरं
यो धत्ते शिरसि क्षणेन विपुलां लक्ष्मीं लभेन् मानवः ॥ इति ।
मेघोल्काय स्वाहेति मन्त्रः ।
तथा—-
बीजेन रन्दहनयुग्मगबीजवीतं
कोणे गमालिख कलावसुकेसरेऽब्जे ।
गायत्रिवर्णदलकेऽप्यथ कादिवीतं
भूबीजयुक्क्षितिगृहेऽखिलदं हि यन्त्रम् ॥
इति ॥ २४-२६ ॥
श्रीशक्तिस्मरभूविघ्नबीजानि प्रथमं वदेत् ।
ङेऽन्तं गणपतिं पश्चाद्वरान्ते वरदं पठेत् ॥ २७ ॥
उक्त्वा सर्वजनमेतं वशमानय ठद्वयम् ।
अष्टाविंशत्यक्षरोऽयं ताराद्यो मनुरीरितः ॥ २८ ॥
गणकः स्यादृषिश्छन्दो गायत्री निवृदन्विता ।
महागणपतिः प्रोक्तो देवता देववन्दिता ॥ २९ ॥
महागणपतिमन्त्रमुद्धरति श्रीति ।
भूबीजमग्रे वक्ष्यमाणम् ।
वरदमिति शब्द- कर्मणि द्वितीया मन्त्रे तु सम्बुद्धिः ।
सर्वजनमिति मन्त्रेऽपि द्वितीयान्तम् ।
अत्र केचन यकारं कीलकं मन्यमाना गणपतिपदं सम्बुद्ध्यन्तमाहुः ।
अन्ये श्रीमहागणपतिपदं सम्बुद्ध्यन्तं वशम्पदद्वित्वमप्याहुः ।
इदं ग्रन्थकारस्यापि सम्मतमेव ।
यतो द्वात्रिंशद्भेद- गुणितेत्यत्र गणेशितुर्महामन्त्रमित्युक्तत्वात् ।
अन्ये विघ्नं चतुर्थ्या युतमित्याचार्यपद्ये विघ्नशब्दो महागणपतिपदोपलक्षक इत्याहुः ।
एवमिहापि गणपतिशब्दः ।
यथागुरू- पदेशं च निर्णयः ।
पद्मपादाचार्यैश्च ।
" दीक्षितो मन्त्रीत्यनेन चतुर्थीं परित्यज्य सम्बुद्धि- स्वीकारः " इत्युक्तम् ।
मन्त्रदेव प्रकाशिकाकारादिभिरपि सम्बुद्ध्यन्तस्यैवोद्धृतत्त्वात् ।
गं बीजं स्वाहा शक्तिः ।
तदुक्तम् ।
षष्ठं बीजं द्विठः (बीजान्तजौ) शक्तिरिति ॥२७-२९॥
षड्बीजस्थस्वबीजेन दीर्घभाजा प्रकल्पयेत् ।
षडङ्गानि मनोरस्य यथाविधि विधानवित् ॥ ३० ॥
षडङ्गमाह षड्बीजस्थेति ।
यथाविधीति ।
तत्तज्जातियुतानि शैवषडङ्गमुद्राभिरिति च ।
विधानविदित्यनेनायं प्रयोगः सूचितः ।
ॐ गां हृत् श्रीं गीं शिरः ह्री� गूं शिखा क्लीं गैं वर्म ग्लौं गौं नेत्रं गं गः अस्त्रम् ।
एष पक्षः साम्प्रदायिकः ।
केचित्तु प्रणवादिबीजपञ्चकमुच्चार्य गामित्यादिप्रयोगेण षडङ्गकॢप्तिं वदन्ति ।
अपरे षड्बीजानां प्राक् गामादीन्याहुः ॥ ३० ॥
नवरत्नमयं द्वीपं स्मरेदिक्षुरसाम्बुधौ ।
तद्वीचिधौतपर्यन्तं मन्दमारुतसेवितम् ॥ ३१ ॥
मन्दारपारिजातादि कल्पवृक्षलताकुलम् ।
तद्भूतरत्नच्छायाभिररुणीकृतभूतलम् ॥ ३२ ॥
उद्यद्दनकरेन्दुभ्यामुद्भासितदिगन्तरम् ।
तस्य मध्ये पारिजातं नवरत्नमयं स्मरेत् ।
ऋतुभिः सेवितं षड्भिरनिशं प्रीतिवर्द्धनैः ॥ ३३ ॥
नवरत्नमयं द्वीपमित्यादेरयमर्थः ।
पृथिव्यनन्तरमिक्षुसमुद्रं नवरत्नमयं द्वीपं नवरत्नमयं पारिजातमिति न्यसेत् ।
शेषं समानम् ।
नवरत्नमयमिति ।
नवरत्नमय द्वीपादुत्पत्तेः पारिजातस्यापि नवरत्नमयत्वम् ।
अन्ये तु माणिक्यमूलं वैदूर्याङ्कुरम् इन्द्रनीलशाखं प्रवालपल्लवं मरकतच्छदं गोमेदशृङ्गं
मौक्तिककोरकं वज्रपुष्पं पद्मरागफलमित्याहुः ।
गणेश्वरविमशीन्यामपि—-
मणिवज्रप्रवालाख्यफलप्रसवपल्लवैः ।
इत्यादि ॥ ३१-३३ ॥
तस्याऽधस्तान्महापीठे रचिते मातृकाम्बुजे ।
षट्कोणान्तस्त्रिकोणस्थं महागणपतिं स्मरेत् ॥ ३४ ॥
पीठे रचित इति व्यधिकरणे सप्तम्यौ ।
षट्कोणान्तः त्रिकोणस्थमिति ।
अत्राधोमुखं त्रिकोणं ग्राह्यम् ।
इदं च मातृकापद्मकणीकायामिति ज्ञेयम् ॥ ३४ ॥
हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसा-
दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया सन्ततम् ।
बीजापूरगदाधनुस्त्रिशिखयुक् चक्राब्जपाशोत्पल-
व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे ॥ ३५॥
गण्डपालीगलद्दानपूरलालसमानसान् ।
द्विरेफान् कर्णतालाभ्यां वारयन्तं मुहुर्मुहुः ॥ ३६ ॥
कराग्रधृतमाणिक्यकुम्भवक्त्रविनिःसृतैः ।
रत्नवर्षैः प्रीणयन्तं साधकान् मदविह्वलम् ॥ ३७ ॥
माणिक्यमुकुटोपेतं रत्नाभरणभूषितम् ।
ध्यायन्मन्त्रं जपेन्मन्त्री चतुर्लक्षं समाहितः ॥ ३८ ॥
चतुःसहस्रसंयुक्तं चत्वारिंशत्सहस्रकम् ।
दशांशं जुहुयाद् द्रव्यैरष्टाभिर्मेदकादिभिः ॥ ३९ ॥
हस्तीति ।
हस्तीन्द्रो गजश्रेष्ठः ।
सपद्मकरया वामहस्ते पद्मं दक्षेणालिङ्गनम् ।
धनुरिक्षुधनुः ।
त्रिशिखं त्रिशूलम् ।
वामाधस्ताद्दक्षिणाधः पर्यन्तमायुधध्यानम् ।
कनककलशस्तु शुण्डाग्रे ।
तदुक्तम्—-
वामोर्द्धादिक्रमेण ।
चक्रप्रासरसालकार्मुकगदासद्बीजपूरद्विज-
ब्रीह्यग्रोत्पलपाशपङ्कजकरं शुण्डाग्रजाग्रद्घटम् ॥ इति ॥
महागणपतिस्तवेऽपि वामदक्षयोरूर्ध्वादिक्रमेण ।
चक्राब्जशूलपाशानिक्षूत्पललगुडकलशमञ्जरिकाः
दाडिमरदमणिकुम्भानाबिभ्रतमाश्रये महागणपम् ॥ इति ।
द्राविडास्त्वन्यथा व्याचक्षते ।
अधोवामदक्षयोराद्ये ।
तदूर्द्धयोरपरे ।
तदूर्द्धयो- र्मध्ये ।
तदूर्द्धयोरुपान्त्ये ।
तदूर्द्धयोरन्त्ये इति ।
उक्तं च गणेश्वरविमशीन्याम्—-
दक्षाधःकरमारभ्य वामाधः स्थकरान्तिकम् ।
गदाशूलाब्जकह्लारविषाणं दक्षिणैः करैः ॥
शाल्यग्रपाशचक्रेक्षुचापसद्बीजपूरकम् ।
वामैर्दधानं मञ्जीरविलसच्चरणाम्बुजम् ॥
लीलया रत्नकलशं पुष्कराग्रे निधाय च ।
इति ।
अन्ये तु प्रथमध्यान एव बीजपूरव्यत्ययमिच्छन्ति ।
अन्ये तु तद्रदयोरेव व्यत्यस्तत्त्वमिच्छन्ति ।
तेन वामदक्षयो रदबीजपूरौ प्रतिभातः ।
मन्त्रीति ।
दशांशं पुष्टिमन्त्रजप उक्तः ।
स गुरुमुखादवगन्तव्यः ॥ ३५-३९ ॥
तर्पयेद्दनशो नित्यं प्रागुक्तेनैव वर्त्मना ।
प्रागुक्ते पूजयेत्पीठे विधिना गणनायकम् ॥ ४० ॥
प्रक्प्रोक्तेनेति ।
चतुःशतं चतुश्चत्वारिंशद्वारमित्यर्थः ।
प्रागुक्ते पीठे इति ।
पूर्वमन्त्रोक्ताः पीठशक्तयः पीठमन्त्राश्चात्रापि ज्ञेया इत्यर्थः ।
गणनायकं पूजयेदिति त्रिकोण इति शेषः ।
विधिनेति वक्ष्यमाणेन ।
यन्त्रं तु ध्यानावसर एवोक्तम् ।
सावरणमिति शेषः ॥ ४० ॥
त्रिकोणबाह्ये पूर्वादि चतुदीक्षु समर्चयेत् ।
अग्रस्थबिल्ववृक्षाधः श्रियं श्रीपतिमर्चयेत् ॥ ४१ ॥
पद्मयुग्मधरा पद्मा शङ्खचक्रधरो हरिः ।
दक्षिणे वटवृक्षाधो गौरीं गौरीपतिं यजेत् ॥ ४२ ॥
पाशाङ्कुशधरा गौरी टङ्कशूलधरो हरः ।
पश्चिमे पिप्पलस्याऽधो रतिं रतिपतिं यजेत् ॥ ४३ ॥
रतिरुत्पलहस्ताढ्या कोदण्डास्त्रधरः स्मरः ।
सौम्ये प्रियङ्गुवृक्षाधो महीं पोत्रिणमर्चयेत् ॥ ४४ ॥
शुकव्रीह्यग्रहस्ता भूर्गदाचक्रधरः पतिः ।
देवाग्रे पूजयेल्लक्ष्मीसहितं गोपनायकम् ॥ ४५ ॥
षट्सु कोणेषु सम्पूज्या आमोदाद्याः प्रियान्विताः ।
आमोदं सिद्धिसहितमग्रकोणे समर्चयेत् ॥ ४६ ॥
समृद्ध्या युतमभ्यर्चेत् प्रमोदं वह्निकोणतः ।
सुमुखं कान्तिसंयुक्तमीशकोणे समर्चयेत् ॥ ४७ ॥
दुर्मुखं मदनावत्या यजेद्वरुणकोणके ।
विघ्नं मदद्रवायुक्तं कोणे नैशाचरे यजेत् ॥ ४८ ॥
वायव्ये विघ्नहर्त्तारं द्राविण्या सहितं यजेत् ।
पाशाङ्कुशाभयाभीष्टधारिणोऽरुणविग्रहाः ॥ ४९ ॥
गण्डभित्तिगलद्दानपूरधौतमुखाम्बुजाः ।
विघ्नास्तत्प्रमदाः सर्वा मदाघूणीतलोचनाः ॥ ५० ॥
एकहस्तधृताम्भोजा इतरालिङ्गितप्रियाः ।
षट्कोणपार्श्वयोः पूज्यौ शङ्खपद्मनिधी क्रमात् ॥ ५१ ॥
निजप्रियाभ्यां सहितौ पूर्वेदीरितलक्षणौ ।
केसरेष्वङ्गपूजा स्याद् ब्राह्म्याद्याः पत्रमध्यगाः ॥ ५२ ॥
बहिर्लेकेश्वराः पूज्या वज्रादीनि ततः परम् ।
इत्थं जपादिभिः सिद्धः प्रयोगान् स्वमनीषितान् ॥ ५३ ॥
साधयेदष्टभिर्द्रव्यैरन्यैर्वा कल्पचोदितैः ।
पञ्चमिथुनपूजामाह त्रिकोणेति ।
टङ्कः परशुः ।
उत्पलयुक्तौ हस्तौ ताभ्यामाढ्या।
अस्त्रं बाणः पोत्रिणं वराहम् ।
वह्निकोणतः इति ।
पुरःकल्पितपूर्वदिगपेक्षया यो वह्निकोणस्तत्रेत्यर्थः ।
एवमीशकोण इत्यत्रापि ।
एवं पश्चिमनैरृतवायुकोणेष्वपि ज्ञेयम् ।
तदुक्तमाचार्यैः—-
अग्रास्रावामोदः प्रमोदसुमुखौ च तमभितोऽस्रियुगे ।
पृष्ठे च दुर्मखाख्यस्त्वमुमभितो विघ्नविघ्नकर्त्तारौ ॥ इति ।
विघ्ना इति पूर्वेण सम्बध्यते ।
पूर्वेदीरितेत्यष्टमपटले ।
एतदन्तद्वितीयावृत्तिः ॥४१-५४।
पद्महोमेन भूपालांस्तत्पत्नीरुत्पलैः शुभैः ॥ ५४ ॥
मन्त्रिणः कुमुदैः फुल्लैवीप्रान् पिप्पलसम्भवैः ।
समिद्वरैर्नरपतीनुदुम्बरसमुद्भवैः ॥ ५५ ॥
प्लक्षैर्वैश्यान् वटोद्भूतैः शूद्रान्मन्त्री वशं नयेत् ।
मधुना स्वर्णलाभः स्याद् गोदुग्धेन लभेत गाः ॥ ५६ ॥
आज्यहोमेन महतीं श्रियमाप्नोति मानवः ।
दध्ना सर्वसम्मृद्धिः स्यादन्नैरन्नपतिर्भवेत् ॥ ५७ ॥
पद्महोमेन भूपालानित्यादेर्मन्त्री वशं नयेदित्यादिना सम्बन्धः ।
मन्त्रीत्यनेन सर्वपदस्थाने साध्यनामेत्युक्तम् ।
समिद्वरैरिति ।
अग्रेऽपि त्रिषु सम्बध्यते ॥ ५४-५७ ॥
वृष्टिकामः प्रजुहुयाद् वेतसानां समिद्वरैः ।
कुसुम्भकुसुमैर्हुत्वा वासांसि लभतेऽचिरात् ॥ ५८ ॥
वृष्टीति ।
अत्र स्वबीजानन्तरममृतबीजं ज्ञेयम् ॥ ५८ ॥
प्रत्येकमादौ मूलेन चतुर्वारं प्रतर्पयेत् ।
श्रीशक्तिरतिभूलक्ष्मीः स्वबीजाद्याः प्रियान्विताः ॥ ५९ ॥
चतुरावृत्तितर्पणप्रकारमाह प्रत्येकमिति त्रिभिः ।
आदौ मूलेन चतुर्वारं प्रतर्पयेत् ।
प्रत्येकमित्यस्यायमर्थः ।
या या देवता तर्पणोया तत्र तत्रादौ मूलेन चतुर्वारं चतुर्वारं तर्पणं कर्त्तव्यम् ।
स्वबीजाद्या इति ।
स्वस्वबीजाद्याः प्रियान्विताः प्रत्येकं तर्पयेदिति सम्बन्धः ॥ ५९ ॥
आमोदादीन् स्वबीजाद्या शक्तियुक्तांश्च तर्पयेत् ।
चतुश्चतुः पृथक्मन्त्री शङ्खपद्मनिधी तथा ॥ ६० ॥
नामादिबीजसहितौ तर्पयेत् स्वप्रियान्वितौ ।
तर्पणेनाऽमुना स्वीयमिष्टमाप्नोति मण्डलात् ॥ ६१ ॥
स्वबीजाद्यानिति गणपतिबीजाद्यान् ।
यथा चतुर्वारं स्वप्रियान्विताविति वसुधारावसुमतीसहितौ ।
तद्यथा ।
मूलमन्त्रेण महागणपतिं तर्पयामीति चतुर्वारं सन्तर्प्य श्रीं श्रीश्रीपती तर्पयामीति चतुर्वारं सन्तर्पयेत् ।
अत्र लक्ष्मीशब्देन पञ्चमक्रममिथुनं सङ्गृहीतम् पूजाक्रमविवक्षया ।
तदुक्तमाचार्यैः स्तवे—-
पञ्चकारणभेदेन यस्मान् मिथुनपञ्चकम् ।
करोति पञ्च कृत्यानि तदाद्यं मिथुनं भजेत् ॥ इति ।
अन्यत्रापि—- प्रथमं पूजयेद्देवं ततो मिथुनपञ्चकम् ॥ इति ।
अन्यत्रापि न्यासावसारे—-
शिरोवक्त्रहृदम्भोजगुह्यपत्स्वपि पञ्चकम् ।
मिथुनानां न्यसेत् स्वीयैर्बीजैः स्वैर्नामभिः पृथक् ॥ इति ॥
एवं त्रयोदश देवतानां तर्पणानि भवन्ति ।
त्रयोदशवारं मूलतर्पणानि ।
सर्वान्ते मूलेन चतुर्वारं तर्पणम् ।
एवमष्टोत्तरशतं तर्पणानि भवन्ति ।
अयं कनिष्ठः प्रकारः ।
पद्मपादाचार्यैः कनिष्ठप्रकारे चतुवींशत्यधिकैकशततर्पणान्युक्तानि ।
तद्यथा ।
मूलं ४ महागणपं ४ मूलं ४ पुष्टिं ४ पञ्चमिथुनानि ४० आमोदादि ६४ मूलं ४ एवमिति ।
मध्यमप्रकारस्तु प्रियान्विता इति व्यस्ततर्पणेन ।
तत्र व्यस्तत्वं मूले प्रियान्विताः शक्तियुक्तानित्युक्तेर्लभ्यते ।
तद्यथा ।
मूलं चतुर्वारं सन्तर्प्य श्रीं श्रीपतिसहितां श्रियं तर्पयामीति चतुर्वारं पुनः श्रीं श्रीसहितं श्रीपतिं
तर्पयमीति चतुर्वारं तर्पयेत् ।
एवं षड्विंशतिदेवतातर्पणानि षड्विंशतिवारं मूलतर्पणानि च अन्ते मूलेन चतुर्वारं तर्पणं सर्वादौ च
मूलेन स्वतन्त्रतया चतुर्वारं तर्पणम् ।
एवं षोडशोत्तरा द्विशती तर्पणानां भवति ।
उत्तमप्रकारस्तु प्रत्येकमादौ वक्ष्यमाणतर्पणानामिति शेषः ।
चतुर्वारं तर्पयेदादावन्ते चेत्यर्थः ।
मूलेन प्रत्यर्णमित्यर्थः ।
मूलमन्त्रस्याक्षराणि प्रत्येकं तर्पयेत् ।
तद्यथा ।
आदौ मूलम् ४ प्रथमाक्षरम् ४ पुनर्मूलम् ४ एवमष्टाविंशति वर्णतर्पणानि अष्टाविंशतिवारं मूलतर्पणानि च
अन्ते चतुर्वारं मूलेन ।
एवं द्विशती अष्टाविंशत्यधिका तर्पणानाम् ।
ततो मध्यमप्रकारवदेव द्विशती षोडशोत्तरा ।
एवं चतुश्चत्वारिंशदधिकं चतुःशतं तर्पणानि भवन्ति ।
तदुक्तं गणेश्वरविमशीन्याम्—-
सर्वाभीष्टप्रदं वक्ष्ये चतुरावृत्तितर्पणम् ॥
एकान्ते विजने रम्ये सर्वेपद्रववजीते ॥
कृतस्नानादिको मन्त्री पूर्ववन्याससंयुतः ।
तडागमध्ये सञ्चिन्त्य पुष्पितं नलिनीवनम् ॥
तस्य मध्ये महापद्मं तरुणादित्यसन्निभम् ।
समुन्नतं सुगन्धाट्यं रमणीयं मनोहरम् ॥
सद्योविकसितं ध्यायेन्मन्त्री पूर्वेक्तमन्त्रवित् ।
शुद्धरजतसोपानपङ्क्त्याभरविमण्डलात् ॥
विनिर्गत्याऽवरुह्याऽथ कणीकामध्यसंस्थितम् ।
इति ध्यात्वा सावरणं महागणपतिं सुधीः ॥
प्रवरैर्गन्धकुसुमैः समभ्यर्च्याऽथ पूर्ववत् ।
निधाय पुष्करमुखं साधकेन्द्रस्य मूर्द्धनि ॥
वर्षन्तं रत्नधाराभिर्ध्यात्वा देवस्य मूर्द्धनि ।
चन्द्रचन्दनकाश्मीरकस्तूरीलोलितैर्जलैः ॥
प्रथमं मूलमन्त्रेण चतुर्वारं प्रतर्प्य च ।
मिथुनानि च षड्विघ्नान् शङ्खपद्मनिधी अपि ॥
स्वस्वबीजादिकैर्मन्त्री स्वाहान्तैश्च चतुश्चतुः ।
मूलमन्त्रं चतुर्वारपूर्वकं तर्पयेत् पृथक् ॥
सम्भूयाऽष्टोत्तरशतं कनिष्ठः स्यादयं क्रमः ।
अथवा मूलमन्त्राद्यैर्व्यस्तैरेतैश्च पूर्ववत् ॥
मन्त्रैर्वा तर्पयेद्विद्वानर्चनोक्तप्रकारतः ।
मध्यक्रमोऽयं सम्भूय द्विशतं षोडशोत्तरम् ॥
अथवा मूलमन्त्रेण चतुर्वारं प्रतर्प्य च ।
पूर्वमन्त्राक्षरैर्मन्त्रैः स्वाहान्तैश्च चतुश्चतुः ॥
मूलमन्त्रं चतुर्वारपूर्वकं सम्प्रतर्प्य च ।
मिथुनादींस्ततः पश्चात् पूर्ववत्सम्प्रतर्पयेत् ॥
भवेत् सम्भूय स चतुश्चत्वारिंशच्चतुःशतम् ।
एवं ज्येष्ठक्रमः प्रोक्तो बुधैरागमपारगैः ॥
एवं सन्तोष्य तत्पश्चात् पूर्ववत् सोपचारकैः ।
सर्वाभीष्टं च सम्प्रार्थ्य प्रणम्योद्वासयेत् सुधीः ॥
य एवं तर्पयेन्नित्यं मण्डलात् सकलं लभेत् ।
अनावृष्ट्यां भये घोरे राजचौराद्युपद्रवे ॥
महाज्वरे विवादे च महादारिद्यसङ्कटे ।
विवाहादिषु कार्येषु सर्वेषु च विशेषतः ॥
एवं वै तर्पणं कुर्यान् मानवेन्द्रः प्रसन्नधीः ।
महागणेश्वरः प्रीतो महासम्पत्करो भवेत् ॥ इति ॥
अन्ये तु लक्ष्मीशब्देन शक्तिमत्प्राधान्यमिति वदन्ति ।
मन्त्रोद्देशक्रमो विवक्षितः ।
तन्मते प्रथमं विंशतिवारं ततोऽष्टाविंशतिमन्त्राक्षरैः तावत्कृत्वो मूलेन एतदन्तं चतुर्वारं मूलेन
ततश्चतुवींशतिदेवतातर्पणानि ।
तावत्कृत्वो मूलतर्पणानि तदन्ते मूलेन चतुर्वारम् ।
एवं चतुःशतचतुश्चत्वारिंशत्तर्पणानि भवन्ति ।
तदुक्तं रहस्यपटले मूलनारायणीये—-
विंशत्सङ्ख्यं तर्पयित्वा तु पूर्वं मान्त्रैर्वर्णैर्वेदवारं द्विठान्तैः ।
मध्ये मध्ये तर्पयेद्विघ्नराजं लक्ष्म्यादीनां तर्पणं चैवमेव ॥ इति ॥
अन्यत्रापि—-प्रथमं विंशतिवारं मिथुनानां विघ्नषट्शक्तीनाम् ।
प्रत्येकं निधिशक्त्योश्चतुरावृत्या च मूलेन ॥
मूलात्मकवर्णानामेवं सन्तपीते च निशितधिया ।
स चतुश्चत्वारिंशचतुःशतं सङ्ख्यया भवेदेवम् ॥ इति ॥
ये तु महागणपतिशब्दं सम्बुद्ध्यन्तमाहुः त एकोनत्रिंशदक्षरतर्पणं तावत्कृत्वो मूलेन
षडविंशतिमिथुनतर्पणं तावत्कृत्वो मूलान्ते मूलेन चतुर्वारमिति सङ्ख्यापूत्तीमाहुः ।
ये तु गणपतिपदं सम्बुध्यन्तमाहुः ते मूलं ४ महागणपतिं ४ मूलं ४ पुष्टिं ४ ततोऽक्षरतर्पणं
तावन्मूलेन पूर्ववन्मिथुनादितर्पणम् अन्ते मूलेनेति सङ्ख्यापूत्तीमाहुः ।
त्रिंशदक्षरे तु अक्षरमूलतर्पणानि अन्ते ४ मूले ४ मूलेनेति २४४ ततो मिथुनाष्टकेनाऽन्ते मूलेनेति ६८ तत
आमोदादीनामन्ते मूलेनेति १३२ ।
एवं सङ्ख्यापूत्तीर्ज्ञेया ।
ये तु श्रीमहागणपतिशब्दं सम्बुध्यन्तं वशंशब्दस्य च द्वित्वमाहुः ते द्वात्रिंशदक्षरं तर्पणं तावत्-
कृत्वो मूलेन बीजपूराद्येकादशभिः ८८ मिथुनचतुष्टयषड्विघ्ननिधिद्वयेन कनिष्ठोक्त- प्रकारेण तावत्कृत्वो
मूलेनाऽन्ते च चतुर्वारं मूलेनेत्याहुः ।
बीजापूरादिमन्त्रास्तु—-
बीजापूरं गदा चेक्षुकार्मुकं च त्रिशूलयुक् ।
चक्राब्जपाशोत्पलानि कलमाग्रं विषाणयुक् ॥
ङेन्ताश्च रत्नकलशो हृदन्ताः प्रणवादिकाः ।
गम्बीजाद्यादिकाः पञ्च श्रीबीजाद्यादिकाः पुनः ॥
षड्बीजाद्योऽन्तिमश्चैते वक्ष्यमाणपदादिकाः ।
यथाक्रमं महाविघ्नायुधानां मनवः स्मृताः ॥
बीजपूरादयः पञ्च विलोमेन गम्बीजाद्यानि गं ग्लौं क्लीं ह्री� श्रीम्बीजानि आदौ येषां तथा ।
पुनः रत्यादयः पञ्चक्रमेण श्रीबीजाद्याः श्रीमित्यादि पञ्चबीजादिकाः ।
अन्तिमो रत्नकलशः प्रणवादिषड्बीजाद्य इत्यर्थः ।
मन्त्रकला शक्तिसप्राणत्रिगुणः कालचक्रलयक्षयौ च ।
व्याप्तिरक्तिभूस्वरूपं विद्यात्रैलोक्यमात्मने युक्तम् ॥ इति ॥
पद्मपादाचार्यास्त्वन्यथा चतुरावृत्तितर्पणमाहुः ।
तद्यथा ।
दशधा भिन्नेन मूल- मन्त्रेण बीजपूराद्येकादशभिर्महागणपतिक्षिप्रप्रसादनतदुक्तविघ्नाद्यष्टनामयुतेन
गणपतय इत्यस्मात् पूर्वं मूलमन्त्रेण चतुवींशतिदेवताश्च एवं पञ्चपञ्चाशद्देवतातर्पणानि तावन्ति मूलेन
अन्ते चतुर्वारं मूलेनेति चतुःशतं चतुश्चत्वारिंशत् ।
प्रयोगसारे तु—-अष्टाविंशतिरक्षराणि दशभिर्युक्तं चतुभीः पदैः ।
पश्चात् पञ्चरमादिकांश्च गणपान् षट् द्वौ निधी तर्पयेत् ॥
प्रत्येकं मनुनाऽमुना च चतुरावृत्त्या विभोर्मस्तके
व्यात्वा रत्नमयं महागणपतिं भक्तप्रसन्नं सुधीः ॥ इति ॥ ६०-६१ ॥
स्मृतिस्थं मांसमौबिन्दुयुक्तं भूबीजमीरितम् ॥ ६२ ॥
भूबीजमुद्धरति स्मृतीति ।
मांसं लकारः स्मृतिस्थं गकारस्थम् औ स्वरूपं बिन्दुश्च एतद्युक्तः ।
तेन ग्लौम् इति ॥ ६२ ॥
बीजं षट्कोणमध्ये स्फुरदनलपुरे तारगं दिक्षु लक्ष्मीं
मायाकन्दर्पभूमीस्तदनु रसपुटेष्वालिखेद्बीजषट्कम् ।
तत्सन्धिष्वङ्गमन्त्रान् वसुदलकमले मूलमन्त्रस्य वर्णान्
शिष्टान् पत्रेषु विद्वान् विलिखतु गुणशश्चाऽन्त्यमन्त्ये पलाशे ॥६३॥
आवीतं लिपिभिः क्रमोत्क्रमवशात् पाशाङ्कुशाभ्यामपि
क्ष्मागेहद्वितयेन वेष्टितमिदं यन्त्रं गणाधीशितुः ।
लाक्षाकुङ्कुमरोचनामृगमदैर्भूर्जे वरे हेम्नि वा
संलिख्याऽभिवहन् लभेत सकलैः सम्प्रार्थनीयां श्रियम् ॥ ६४ ॥
उक्तं महागणपतेवीधानं सुरपूजितम् ।
सर्वसिद्धिकरं पुंसां समस्तपुरुषार्थदम् ॥ ६५ ॥
यन्त्रमाह बीजमिति ।
वसुदलकमले अष्टदलपद्मे षट्कोणमध्ये स्फुरदनलपुरे लसत्त्रिकोणे तारगं प्रणवस्यं बीजं
गणपतिबीजं गमिति लिखेदित्यन्वयः ।
दिक्षु त्रिकोणाद्वहिः अग्रादीति ज्ञेयम् ।
रसपुटेषु ।
षट्सु कोणेषु ।
बीजषट्कं मन्त्राद्यम् ।
तस्य अग्रादि षट्कोणस्य सन्धिषु अङ्गमन्त्रान् महागणपतेः षडङ्गमन्त्रान् ।
पत्रेषु मन्त्रस्य द्वाविंशतिवर्णान् शिष्टान् गुणशस्त्रिशः अन्त्यं वर्णमष्टमे दल एकमेव लिखेत् ।
ततः क्रमोत्क्रमलिपिभिर्वेष्टयेत् ।
ततः पाशाङ्कुशाभ्यां वेष्टयेत् ।
पद्मपादाचार्यैस्तु " अष्ट- पदान्यष्टपत्रे विलिख्य तद्बहिर्वृत्तत्रये मातृकापाशाङ्कुशार्णान् विलिख्य तद्बहि-
र्भूपुरद्वये पाशमायाबीजे लिखेत् " इत्युक्तम् ।
लाक्षा अलक्तकरसः ।
कुङ्कुमं काश्मीरजम् ।
रोचना गोरोचना ।
मृगमदः कस्तूरी ॥ ६३-६५ ॥
माया विरिपदद्वन्द्वां ततो गणपतिं वदेत् ।
खङ्गीशपावकौ पश्चाद्वरदान्ते वदेत् पुनः ॥ ६६ ॥
सर्वलोकं मे पदान्ते वशमानय ठद्वयम् ।
षड्विंशत्यक्षरो मन्त्रो भजतां सुरपादपः ॥ ६७ ॥
गणकः स्यादृषिश्छन्दो गायत्रं देवता मनोः ।
विरिगणपतिमन्त्रमाह मायेति ।
खड्गीशो वः पावको रेफः ।
हृल्लेखा बीजं स्वाहा शक्तिः ।
केचन वरेत्यादिपञ्चाक्षराणि लोकामिति च हित्वा एकोनविंशत्यक्षर- माहुः ।
अस्य निवृच्छन्दः ।
अन्यत् पूर्ववत् ।
केचन लोकपदे जनपदं पठन्ति ।
अन्ये विरीत्यादौ महागणपतिबीजषट्कं प्रयोजयन्ति ॥ ६६-६८ ॥
विरिविघ्नेश्वरः प्रोक्तो भजतां सर्वकामदः ॥ ६८ ॥
अन्तःकरणवेदेषु भूतपञ्चविलोचनैः ।
एवं विभक्तैर्मन्त्रार्णैर्मायाद्यैरङ्गकल्पना ।
महागणपतेः प्रोक्ते स्थाने मन्त्री विचिन्तयेत् ॥ ६९ ॥
षडङ्गमाहान्तरिति ।
अन्तःकरणानि चत्वारि वेदाश्चत्वार इषवः पञ्चभूतानि पञ्चलोचन द्वे ।
द्वितीयस्य षट्पदैः षडङ्गम् ।
तृतीयस्य महागणपति मन्त्रवत् ॥ ६८ ॥
सिन्दूराभमिभाननं त्रिनयनं हस्तेषु पाशाङ्कुशौ
बिभ्राणां मधुमत्कपालमनिशं सार्द्धेन्दुमौलिं भजे ।
पुष्ट्याश्लिष्टतनुं ध्वजाग्रकरया पद्मोल्लसद्धस्तया
तद्योन्याहितपाणिमात्तवसुमत्पात्रोल्लसत् पुष्करम् ॥ ७० ॥
चतुर्लक्षं जपेन्मन्त्रं तद्दशांशं हुतक्रिया ।
प्राक्प्रोक्तैरष्टभिर्द्रव्यैस्त्रिमध्वक्तैः समीरिता ॥ ७१ ॥
पूर्वेक्ते पूजयेत् पीठे तीव्रादिनवशक्तिके ।
मूलेन मूत्तीं सङ्कल्प्या तत्रावाह्याऽर्चयेद्विभुम् ॥ ७२ ॥
पुष्करं करिहस्ताग्रम् ।
ध्याने तु दक्षे पाशः वामे अङ्कुशः अधोदक्षे मधुमत्कपालम् अधोवामः प्रियायोन्याहितः ।
तद्वत् पुष्टिरपि चतुर्भुजा ।
तत्र दक्ष- वामयोः पद्मे ।
पद्मोल्लसद्धस्तयेत्यत्र पद्माभ्याम् उल्लसन्तौ हस्तौ यस्याः सा तथेति विग्रहः ।
अधोदक्षिणेन प्रियस्याश्लेषः अधोवामेन तद्ध्वजाग्रस्पृगिति सम्प्रदायविदः ।
कश्चित्तु पुष्टिं द्विहस्तामेवाह ।
एकहस्ते पद्मं द्वितीयहस्तो ध्वजाग्रस्पृगिति ।
तन्मते आश्लेषो नाम निकटत्वं न तु हस्तेनालिङ्गनमिति ।
द्वितीयमन्त्रेऽपि इदमेव ध्यानम् ।
तृतीयमन्त्रे तु—-
बीजापूरगदे शरासनमरिं मालां च दक्षैः करै-
र्वामैर्बाणसपाशकोत्पलरदान् रत्नाढ्यकुम्भं दधत् ।
सिन्दूरारुणविग्रहस्त्रिनयनो योन्यस्तशुण्डो गणः
सल्लिङ्गाहितपाणिमम्बुजकरां पुष्टिं वहन् वोऽवतात् ॥
पूजादिकं त्रयाणां समानम् ॥ ७०-७२ ॥
मिथुनावृत्तिराद्या स्यादामोदाद्यैदीगम्बरैः ।
द्वितीयाऽङ्गैस्तृतीया स्याच्चतुर्थी मातृभिः स्मृता ॥ ७३ ॥
पञ्चमी लोकपालैः स्यात् षष्ठी वज्रादिभिः स्मृता ।
इति सिद्धमनुर्मन्त्री प्रफुल्लैः सरसीरुहैः ॥ ७४ ॥
जुहुयाद्वशगाः सर्वे तण्डुलैस्तिलमिश्रितैः ।
हुत्वा श्रियमवाप्नोति मोदकैराज्यलोलितैः ।
हुत्वा विजयमाप्नोति पाथीवो युद्धभूमिषु ॥ ७५ ॥
पूर्वेक्त इति महागणपतिपूजायन्त्रे ।
तीव्रादिनवशक्तिक इत्यनेन पीठमन्त्रस्य मायादित्वमुक्तम् ॥ ७३-७५ ॥
मधुत्रयेण हवनं वशं नयति पाथीवान् ।
भक्ष्यभोज्यादिकं सर्वं हुत्वाऽभीष्टानि साधयेत् ॥ ७६ ॥
मधुत्रयेण पयोमधुघृतेन ।
भक्ष्यभोज्यादिकमिति ।
भक्ष्यं लड्डुकादि ।
भोज्यमन्त्रादि ।
आदिशब्देन लेह्यचोष्यादिकं गृह्यते ।
तत्र लेह्यं रसालादि ।
तल्लक्षणं सूपशास्त्रे—-
अर्द्धाढकं सुचिरपर्युषितस्य दघ्नः खण्डस्य षोडश पलानि शशिप्रभस्य ।
सपीः पलं मधु पलं मरिचं द्विकर्षं शुण्ठीपलार्द्धमपि चार्द्धपलं चतुर्णाम् ॥
शक्लोपले ललनया मृदुपाणिघृष्टा कर्पूरपूरसुरभीकृतभाण्डसंस्था ।
एषा वृकोदरकृता सरसा रसाला या स्वादिता भगवता मधुसूदनेन ॥ इति ।
चतुर्णां त्वगेलापत्रकेसराणाम् अर्द्धपलमिति मिलित्वा ।
तन्त्रान्तरोक्तमस्य यन्त्रं लिख्यते ।
वक्ष्ये महासिद्धिकरं हि यन्त्रं भूर्जस्य पत्रे पशुरोचनाक्तैः ।
दूर्वाङ्कुरैर्भूगृहयुग्मशक्तौ संलिख्य साध्यं विरिसम्पुटं च ॥
कोणेषु मन्त्रं श्रुतिशोऽवशिष्टं तेनापि नाम्नाऽप्यथ वेष्टयित्वा ।
संलिख्य यन्त्रं च गणाधिराजमावाह्य चाभ्यर्च्य च गन्धपुष्पैः ॥
सञ्जप्य तद्धारणतश्च नित्यं वशं प्रयात्यस्य जगत् समस्तम् ॥ इति ।
प्रथममन्त्रे श्रुतिश इति त्रिशः ।
अन्त्यकोणे द्वयम् ।
द्वितीयमन्त्रे श्रुतिः कर्णस्तेन द्विश इत्यर्थः ।
तदुक्तम्—-
वकाररेफावपि लोचनाढ्यौ पुनस्तथोद्धृत्य गणात्पतीति ।
सर्वं समुच्चार्य च मे वशः स्यात् मकारमायुक्तमतो नयेति ॥
शब्दाच्छिरः स्यात् ।
इति ।
तृतीयमन्त्रे श्रुतिशश्चतुर्द्धा ।
अत्र मध्यगतशक्तिस्तु मन्त्रबाह्या ।
अन्त्ये दले एकमक्षरं लिखेत् ॥ ७६ ॥
शक्तिरुद्धं निजं बीजं महागणपतिं वदेत् ।
ङेऽन्तमग्निवधूः प्रोक्तो मन्त्रोऽयं द्वादशाक्षरः ॥ ७७ ॥
गणकः स्यादृषिश्छन्दो गायत्री निवृदादिका ।
उदिता देवता तन्त्रे नाम्ना शक्तिगणाधिपः ।
व्यस्तैः समस्तैर्मन्त्रस्य पदैरङ्गानि कल्पयेत् ॥ ७८ ॥
शक्तिगणपतिमन्त्रमाह शक्तीति ।
निजं बीजं गम् ।
डेऽन्तमित्यस्य पश्चात्तनेन सम्बन्धः ।
ह्री� गं ह्री� महागणपतये स्वाहा ।
गं बीजं स्वाहा शक्तिः ।
व्यस्तैरिति ।
मन्त्रस्य पञ्चभिः पदैः पञ्चाङ्गानि सर्वेण षष्ठम् ॥ ७७-७८ ॥
मुक्तागौरं मदगजमुखं चन्द्रचूडं त्रिनेत्रं
हस्तैः स्वीयैर्दधतमरविन्दाङ्कुशौ रत्नकुम्भम् ।
अङ्कस्थायाः सरसिजरुचः स्वध्वजालम्बिपाणे-
र्देव्या योनौ विनिहितकरं रत्नमौलिं भजामः ॥ ७९ ॥
लक्षमेकं जपेन्मन्त्रमपूपैस्तद्दशांशतः ।
जुहुयादचीते वह्नौ दिनशो देवमर्चयेत् ॥ ८० ॥
प्राक्प्रोक्ते पूजयेत्पीठे प्रागुक्तेनैव वर्त्मना ।
हुत्वेक्षुखण्डैर्मतिमान् राज्यश्रियमवाप्नुयात् ॥ ८१ ॥
नारिकेलफलैस्तद्वद्रम्भापक्वफलैस्ततः ।
वशयत्यखिलं लोकं पृथुकैः शर्करान्वितैः ॥ ८२ ॥
वशं नयति राजानं सक्तुभिर्ब्राह्मणान् शुभैः ।
घृतहोमेन धनवान् जायते नात्र संशयः ॥ ८३ ॥
ध्याने तु ऊर्द्धयोर्दक्षवामयोराद्ये ।
अधोदक्षे रत्नकुम्भः अधोवामो देवीयोनिस्थः।
शुण्डादण्डस्तु रत्नकुम्भोपरीति सम्प्रदायः ।
सरसिजेन दक्षहस्तस्थितेन रुक्यस्याः सा तथा ।
तद्वामो ध्वजाग्रस्पृक् ।
प्रागुक्तेनेत्यव्यवहितेन ॥ ७९-८३ ॥
शक्त्या रुद्धं निजं बीजं वशमानय ठद्वयम् ।
ताराद्यो मनुराख्यातो रुद्रसङ्ख्याक्षरान्वितः ॥ ८४ ॥
मन्त्रान्तरमाह शक्त्येति ।
रुद्रेत्येकादशः ।
ॐ ह्री� गं ह्री� वशमानय स्वाहा ।
गं बीजं स्वाहा शक्तिः ॥ ८४ ॥
ऋष्याद्याः पूर्वमुक्ताः स्युरङ्गं मन्त्रपदैर्भवेत् ।
एकेनादौ त्रिभिर्द्वाभ्यां त्रिभिर्द्वाभ्यामनन्तरम् ।
समस्तेनाऽस्त्रमाख्यातम् अङ्गकॢप्तिरियं मता ॥ ८५ ॥
पूर्वमित्यव्यवहितम् ।
पदान्येवाहम् एकेनेति ॥ ८५ ॥
हस्तैबीभ्रतमिक्षुदण्डवरदौ पाशाङ्कुशौ पुष्कर-
स्पृष्टस्वप्रमदावराङ्गमनयाऽऽश्लिष्टं ध्वजाग्रस्पृशा ।
श्यामाङ्ग्या विधृताब्जया त्रिनयनं चन्द्रार्द्धचूडं जवा
रक्तं हस्तिमुखं स्मरामि सततं भोगातिलोलं विभुम् ॥ ८६ ॥
लक्षत्रयं जपेन्मन्त्रमिक्षुखण्डैर्दशांशतः ।
अपूपैराज्ययुक्तैर्वा जुहुयान्मन्त्रसिद्धये ॥ ८७ ॥
स्वगुरुं धनधान्याद्यैः प्रीणयेत् प्रीतमानसः ।
पूजा पूर्ववदादिष्टा ततः काम्यानि साधयेत् ॥ ८८ ॥
हुत्वाऽपूपैस्त्रिमध्वक्तैर्वशयेद् भुवि पाथीवान् ।
चतुर्थ्यां नारिकेलेन महतीं श्रियमश्नुते ॥ ८९ ॥
लवणैर्मधुसंयुक्तैर्वशयेद्वनिताजनम् ।
ध्याने तु वामाधस्ताद्वामोर्ध्वपर्यन्तम् ।
देवीध्यानं विरिगणपतिध्यानोक्तं ज्ञेयम् ।
पूर्ववदिति विरिगणपतिवदित्यर्थः ॥ ८६-९० ॥
संवर्त्तको नेत्रयुतः पार्श्वे वह्नयासनस्थितः ॥ ९० ॥
प्रसादनाय हृन्मन्त्रः स्वबीजाद्यो दशाक्षरः ।
गणको मुनिरस्य स्याद्विराट् छन्द उदाहृतम् ॥ ९१ ॥
क्षिप्रप्रसादनो विघ्नो देवताऽस्य समीरिता ।
दीर्घयुक्तेन बीजेन षडङ्गानि प्रकल्पयेत् ॥ ९२ ॥
क्षिप्रप्रसादमन्त्रमाह संवर्त्तक इति ।
संवर्त्तः क्षः नेत्रमिकारः तद्युतः ।
पार्श्वः पकारो वह्न्यासनो रेफासनः ।
स्वबीजाद्यो गमिति बीजाद्यः गं क्षिप्रप्रसादनाय नमः ।
श्रीबीजाद्य इति केचित् ।
गं बीजम् आयेति शक्तिः ।
दीर्घयुक्तेन बीजेनेति आदि-
बीजेन ॥ ९०-९२ ॥
पाशाङ्कुशौ कल्पलतां विषाणं
दधत् स्वशुण्डाहितबीजपूरः ।
रक्तस्त्रिनेत्रस्तरुणेन्दुमौलि-
र्हारोज्ज्वलो हस्तिमुखोऽवताद्वः ॥ ९३ ॥
पाशेति ।
विषाणं दन्तम् ।
आयुधध्यानं दक्षाद्यूर्द्धयोराद्ये तदधस्थयोरन्त्ये वामोर्द्धादि वामाधस्तनं यावत् ।
इत्येके ॥ ९३ ॥
लक्षं जपेज्जपस्याऽन्ते जुहुयादयुतं तिलैः ।
समधुत्रितयैर्द्रव्यैरथवाऽष्टाभिरीरितैः ॥ ९४ ॥
समधुत्रितयैः पयोमधुघृतसहितैरिति तिलविशेषणम् ।
तदुक्तमाचार्यैः—- अथ तिलैरयुतं त्रिमधुरसिक्तैर्जुहुयात् ।
इति ।
मधुरत्रितयैरिति पाठे मधुरस्य त्रितयं येष्विति बहुव्रीहिणा नेयम् ॥ ९४ ॥
एकाक्षरोदिते पीठे वक्ष्यमाणेन वर्त्मना ।
पूजयेद्गन्धपुष्पाद्यैर्धूपदीपैर्गजाननम् ॥ ९५ ॥
अङ्गानि पूर्वमभ्यर्च्य विघ्नानष्टौ यजेत्ततः ।
विघ्नं विनायकं वीरं शूरं वरदसञ्ज्ञकम् ॥ ९६ ॥
इभवक्त्रं चैकदन्तं लम्बोदरमनन्तरम् ।
पत्राग्रेष्वर्चयेत्पश्चाद् ब्राह्म्याद्यास्तदनन्तरम् ॥ ९७ ॥
लोकपालांस्तदस्त्राणि विघ्नपूजा समीरिता ।
आज्यान्नैर्जुहुयान्नित्यमन्नवान् वत्सराद्भवेत् ॥ ९८ ॥
पायसान्नेन महतीं श्रियमाप्नोति मानवः ।
आज्यहोमेन वशयेत्प्राणिनः सकलान् सुधीः ॥ ९९ ॥
नारिकेलफलं पक्वं लोष्टचर्मसमन्वितम् ।
जुहुयात् प्रत्यहं मन्त्री मण्डलात् सिद्धिमाप्नुयात् ॥ १०० ॥
लोष्टशब्देन अन्तर्वत्तीनारिकेलोपरिभागः तदुपरिभागः त्वग्लक्षणः चर्मशब्द- वाच्यः ।
अष्टधा नारिकेलमित्यस्यापवादः ।
विधिनाऽमुनेत्यष्टद्रव्यहोमेन ॥ १०० ॥
जुहुयादष्टभिर्द्रव्यैर्मधुरत्रयसंयुतैः ।
वशयेत्पाथीवान् सर्वान् तत्पत्नीवीधिनाऽमुना ॥ १०१ ॥
दिनादिषु चतुश्चत्वारिंशद्वारैः शुभोदकैः ।
तर्पयेद्विघ्नराजस्य मस्तके श्रीप्रसिद्धये ॥ १०२ ॥
शुभोदकैरिति अमृतरूपैर्जलैरित्यर्थः ॥ १०१-१०२ ॥
पाशाङ्कुशौ कल्पलतां स्वदन्तं
करैर्वहन्तं कनकाद्रिकान्तम् ।
सोपानपङ्क्त्या दिननाथविम्बा-
दायान्तमम्भोजगतं विचिन्त्य ॥ १०३ ॥
प्रागुक्तमन्त्रसम्प्रोक्तान् प्रयोगान् मनुनाऽमुना ।
तैरस्मिन्नथवा प्रोक्तान् कुर्यान्मन्त्री विधानवित् ॥ १०४ ॥
तर्पणे तु ध्यानविशेषमाह पाशेति ।
सोपानपङ्क्त्या राजतया ।
दिननाथविम्बात् सूर्यमण्डलात् ।
आयान्तं जले इति शेषः ।
अम्भोजगतं जलस्थकल्पिताम्भोजगतं गणपितं साध्यर्मूध्नि पुष्करं दत्वा स्थितं विचिन्त्य ।
एवं ध्यानं कृत्वेत्यर्थः ।
विघ्नराजस्य मस्तके श्रीप्रसिद्धये शुभोदकैस्तर्पयेदिति सम्बन्धः ।
तदुक्तम्—- विम्बादम्बुदवत् समेत्य सवितुः सोपानकै राजतैस्-
तोये तोयजविष्टरैर्धृतलतादन्तं सपाशाङ्कुशम् ।
नासां साध्यनृके निधाय सुधया तद्रन्धनिर्यातया
सिञ्चन्तं पुनरन्वहं गणपतिं स्मृत्वाऽमृतैस्तर्पयेत् ॥ इति ॥
अथ यन्त्रद्वयम्—-नामषट्कोणके बीजमध्ये लिखेद्वेष्टयित्वाऽमुनाऽथाङ्गमन्त्रैस्ततः ।
अष्टपत्रे स्वरान् केसरे युग्मशः क्ष्यादिवर्णान्विहीनान् लिखाद्यादिकैः ॥
अग्रतो लिख्य गायत्रिवर्णांस्त्रिशो बाह्यतः कादिभिर्वेष्टयित्वा बहिः ।
भूपुरद्वन्द्वके भूमिबीजं लिखेद्यन्त्रमेतन्मतं सिद्धिसम्पत्प्रदम् ॥ इति ॥
अथातो महायन्त्रराजं प्रवक्ष्ये पशोः रोचनासिक्तदूर्वाङ्कुरेण ।
लिखेत् पञ्चपत्रे दशारं सरोजं गणेशस्य बीजं तु तारोदरे तु ॥
ततस्तस्य मध्ये तु रक्षेति नाम्रा दशैतेषु मन्त्रांश्च मन्त्रं लिखेच्च ।
ततो बाह्यतः पाशवर्णाङ्कुशार्णौ लिखित्वा बहिः शक्रविम्बद्वयं तत् ।
लिखित्वा तथा तं गणेशानमस्मिन् समभ्यर्च्य गन्धादिभिः पुष्पजातैः ॥
भुजे कण्ठदेशे वहेत् सर्वरक्षा ततो मङ्गलं नाऽन्यदस्तीह किञ्चित् ॥ इति ।
उक्तञ्च—- क्षिप्रप्रसादनः पूर्वे महागणपतिः परम् ।
विघ्नो विनायको वीरः शूरो वरद एव च ॥
इभवक्त्रश्चैकदन्तस्तथा हस्तिमुखः स्मृतः ।
ङेऽन्ता नमोऽन्ता मन्त्राः स्युरेतैस्तर्पणहोमतः ॥
साधयेदीप्सितं मन्त्री ।
इति ।
तत्कल्पान्मन्त्रमिति मूलं युग्मशः पञ्चपत्रे ॥ १०३-१०४ ॥
पञ्चान्तको बिन्दुयुतो वामकर्णविभूषितः ।
तारादिहृदयान्तोऽयं हेरम्बमनुरीरितः ॥ १०५ ॥
चतुर्वर्णात्मको नॄणां चतुर्वर्गफलप्रदः ।
षड्दीर्घभाजा बीजेन षडङ्गानि समाचरेत् ॥ १०६ ॥
हेरम्बमनुमाह पञ्चान्तक इति ।
पञ्चान्तको गः वामकर्ण ऊकारः ।
ॐ गूं नमः ।
गणक ऋषिर्गायत्री छन्दः हेरम्बगणपतिर्देवता ।
गकारो बीजं बिन्दुः शक्तिः ।
बीजेनेति ।
एतन्मन्त्रोक्तेन ॥ १०५-१०६ ॥
मुक्ताकाञ्चननीलकुन्दघुसृणच्छायैस्त्रिनेत्रान्वितै-
र्नागास्यैर्हरिवाहनं शशिधरं हेरम्बमर्कप्रभम् ।
दृप्तं दानमभीतिमोदकरदान् टङ्कं शिरोऽक्षात्मिकां
मालां मुद्गरमङ्कुशं त्रिशिखकं दोभीर्दधानं भजे ॥ १०७ ॥
मुक्तेति ।
घुसृणं कुङ्कुमम् ।
ऊर्द्धादिमुक्तादिवर्णाः ।
नागास्यैर्हस्तिमुखैरुप- लक्षितम् ।
हरिः सिंहः ।
टङ्कं परशुम् ।
त्रिशिखं त्रिशूलम् ।
क्वचिदङ्कुशं च त्रिशिखमिति पाठः ।
तत्र ह्रेत्राष्टासंयुता व्यस्तेत्यनेन चकारस्य लघुता ।
अतीब्रप्रयत्नो- च्चारणेन ।
तेन न छन्दोभङ्गः ।
आयुधध्यानं दक्षवामयोरधस्थयोः वराभये तदूर्ध्वेर्ध्वस्थयोरन्यानि एवमन्तम् ।
क्वचिद् दृप्तमित्यत्र कुम्भमिति पाठः ।
तदा कुम्भः शुण्डाग्रे ।
दृप्तमिति पाठे तु मोदकोपरि शुण्डादण्ड इति ज्ञेयम् ।
केचिन् मुद्गरमित्यत्र पन्नगमिति पठन्ति ।
तदुक्तम्—-
वन्दे दोभीर्दधानं जपवलयभुजे साङ्कुशे मोदकाभी-
टङ्कानुद्यत्कपालं भुजगवररदान् स्वर्णकुम्भाढ्यशुण्डम् ।
सिंहस्थं पञ्चवक्त्रं त्रिनयनमरुणं दिव्यवस्त्रोरुभूषं
हेरम्बाख्यं महान्तं गणपतिमखिलस्वार्थदं प्रार्थयेऽहम् ॥इति॥१०७॥
लक्षत्रयं जपेन्मन्त्रं दशांशं जुहुयात्तिलैः ।
तीव्रादिपूजिते पीठे देवं हेरम्बमर्चयेत् ॥ १०८ ॥
तीव्रादिपूजित इत्यनेन पीठमन्त्रस्याऽन्यत्वं सूचयति ॥ १०८ ॥
प्रणवः कवचद्वन्द्वं महासिंहाय गां ततः ।
हेरम्बेति पदं पश्चादासनाय हृदन्वितः ॥ १०९ ॥
तमेवाह प्रणव इति ।
कवचद्वन्द्वं हुं हुम् ।
गामिति स्वरूपम् ॥ १०९ ॥
अयमासनमन्त्रः स्यात्प्रदद्यादमुनाऽऽसनम् ।
तारादिविघ्नबीजेन मूत्तीं तस्य प्रकल्पयेत् ।
आवाह्य पूजयेत् तस्यामङ्गावरणसंयुतम् ॥ ११० ॥
बाह्ये लोकेश्वराः पूज्या वज्रादीनि ततः परम् ।
एवमभ्यर्चयेन्नित्यं साधयेत् स्वमनीषितान् ॥ १११ ॥
तारादीति ।
नमो रहितेन मूलमन्त्रेणेत्यर्थः ॥ ११०-१११ ॥
मोदकैर्जुहुयात् षष्ठ्यामष्टम्यां कृशरैस्तथा ।
चतुर्दशीदिनेऽपूपैर्जुहुयाद्वाञ्छिताप्तये ॥ ११२ ॥
एभिर्द्रव्यैः प्रजुहुयान्मन्त्री पर्वदिनेष्वपि ।
साधयेत्सकलान् कामान् प्रयत्नेनैव साधकः ॥ ११३ ॥
षष्ठ्यामित्युभयत्र पक्षे ।
एवमग्रेऽपि ।
कृशरैमीश्रैस्तिलतण्डुलैः ।
एभिर्मेदक- कृशरापूपैः ।
पर्वदिने पूणीमामावस्ययोः ॥ ११२-११३ ॥
अम्भोजं प्रथमं लिखेद्वसुदलं मध्ये स्वबीजान्तरे
साध्याख्यां बहिरङ्गमन्त्रविलसत्किञ्जल्कसंशोभितम् ।
पत्राणामुदरे विभज्य मुनिशो मालामनुं शेषितान्
षड्वर्णांश्चरमे दले परिवृतं शक्त्या शकारेण च ॥ ११४ ॥
धारणयन्त्रमाह अम्भोजमिति ।
मध्ये अष्टदलकणीकायाम् ।
स्वबीजान्तरे एतन्मन्त्रबीजमध्ये ।
साध्याख्यां साधककर्मसहितामिति ज्ञेयम् ।
बहिरिति कणीकायाः।
अङ्गमन्त्रेति ।
पूजावदग्रे नेत्रम् ।
मुनिशः सप्तधा ।
मालामनुं वक्ष्यमाणम् ।
चरमे अष्टमे ।
शक्त्या शकारेण चेत्यावृत्तिद्वयम् ॥ ११४ ॥
रोचनामदकाश्मीरैर्भूर्जपत्रे विलिख्य तत् ।
वेष्टितं श्वेतसूत्रेण लोहैस्त्रिभिरपि क्रमात् ।
धारयेद्बाहुना यन्त्रं सर्वान् कामानवाप्नुयात् ॥ ११५ ॥
मदो गजमदः ।
त्रिभिर्लेहैः ।
षष्ठपटलोक्तैः ।
क्रमादिति ।
ताम्ररजत-
सुवर्णैः ॥ ११५ ॥
शक्त्यङ्कुशं ध्रुवान्ते स्यात् स्वबीजं हृदयं ततः ।
सर्वविघ्नाधिपायाऽन्ते ङेऽन्तं सर्वार्थसिद्धिदम् ॥ ११६ ॥
प्रवदेत् सर्वदुःखप्रशमनायपदं ततः ।
एह्येहि भगवन् सर्वा आपदः स्तम्भयद्वयम् ॥ ११७ ॥
भुवनेशीं स्वबीजं गां नतिः पावकवल्लभा ।
पुनरङ्कुशमायान्तं पञ्चपञ्चाशदक्षरः ॥ ११८ ॥
मालामन्त्रोऽयममुना प्रयोगान् साधयेत् सुधीः ।
मालामन्त्रमाह शक्तीति ।
स्वबीजं मन्त्रस्थबीजम् ।
भुवनेशीस्वबीजं भुवनेश्याः स्वस्य च बीजं ह्री� गू� ।
गामिति स्वरूपम् ।
पञ्चपञ्चाशदक्षर इत्युक्तेः शमनाय एह्येहीति न सन्धिः ।
ॐ ह्री� क्रों गूं नमः सव्रविघ्नाधिपाय सर्वार्थसिद्धिदाय सव्रदुःखप्रशमनाय एह्येहि भगवन् सर्वा
आपदः स्तम्भय सतम्भय ह्री� गूं गां नम् स्वाहा क्रों ह्री� ।
अमुना प्रयोगान् साधयेदित्यनेनास्य स्वातन्त्र्येण मन्त्रत्वमप्युक्तम् ।
तद्विधानं यथा ।
अस्य अमितं छन्दः हेरम्बगणपतिवत् सर्वं ज्ञेयम् ॥ ११६-११९ ॥
तारं खड्गीश्वरः कूर्मे निःस्वरो णान्त ईरितः ॥ ११९ ॥
भुवे नतिः सप्तवर्णः सुब्रह्मण्यात्मको मनुः ।
वह्निबीजेन षड्दीर्घयुक्तेनाऽङ्गक्रिया मता ॥ १२० ॥
सुब्रह्मण्यमन्त्रमाह तारमिति ।
खड्गीशो वः कूर्मश्चकारः ।
निस्वरः स्वरहीनो व्यञ्जनमिति यावत् ।
णान्तः तः ।
भुवे स्वरूपम् ।
अत्र सन्धौ तकारे दकार इति ज्ञेयम्।
तदुक्तं प्रयोगसारे—- वचद्भुवे नमो मन्त्रः सुब्रह्मण्याधिदैवतः ।
इति ।
नारायणीये तु—- तारं वचन्नाभिजले शिवयोनियुते नमः ।
इति ।
अग्निगायत्र्यौ ऋषिछन्दसी ।
प्रणवो बीजं वकारः शक्तिः ।
केचन प्रणवपुटितमाहुः ।
अन्ये तु मायाद्यमाहुः ।
तदुक्तं प्रयोगसारे—- प्रशस्तः प्रणवाद्यन्तःशक्तिपूर्वं परे जगुः ।
इति ।
वह्निबीजेनेति रेफेण ॥ ११९-१२० ॥
सिन्दूरारुणकान्तिमिन्दुवदनं केयूरहारादिभि-
दीव्यैराभरणैवीभूषिततनुं स्वर्गस्य सौख्यप्रदम् ।
अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागांशुकं
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ १२१ ॥
लक्षमेकं जपेन्मन्त्रं साज्येन हविषा ततः ।
दशांशं जुहुयादन्ते ब्राह्मणानपि भोजयेत् ॥ १२२ ॥
ध्यानं तु दक्षाद्यूर्ध्वयोराद्ये तदधस्थयोरन्त्ये ।
सुब्रह्मण्य इति कात्तीकेयनाम ।
तदुक्तं हयशीर्षपञ्चरात्रे—-
अभयं वामहस्तेस्यादम्भोजं दक्षिणे करे ।
कुक्कुटं वामहस्ते तु शक्तिं दक्षिणतो न्यसेत् ॥
चतुर्भुजः समाख्यात एकवक्त्रोऽग्निजस्त्वयम् ।
इति ॥ १२१-१२२ ॥
धर्मादिकल्पिते पीठे वह्निमण्डलपश्चिमे ।
पूजयेद्विधिना देवमुपचारैर्यथोदितैः ॥ १२३ ॥
वह्निमण्डलपश्चिम इति ।
अनेन चतुर्थपटलोक्तवह्निमण्डलान्तमेव पूजा ।
पीठ- शक्तिपीठपूजा नास्ति ।
अन्यथा वह्निमण्डलपश्चिम इति न वदेत् ।
चतुर्थपटल एवोक्तत्वात् ॥ १२३ ॥
केसरेष्वङ्गपूजा स्यात्पत्रमध्यगतानिमान् ।
जयन्ताख्यमग्निवेश्यं कृत्तिकापुत्रसञ्ज्ञकम् ॥ १२४ ॥
अनन्तरं भूतपतिं सेनान्यं गुहसञ्ज्ञकम् ।
हेमशूलं विशालाक्षं शक्तिवज्र(शूल)करान् यजेत् ॥१२५॥
दिग्दलाग्रेषु पूर्वादि देवसेनापतिं पुनः ।
विद्यां मेधां ततो वज्रं कोणस्थान् शक्तिकुक्कुटौ ॥ १२६॥
मयूरं द्वीपमभ्यर्चेद् बाह्ये लोकेश्वरान् पुनः ।
अस्त्राणि तेषामन्ते स्युः सुब्रह्मण्यार्चनेरिता ॥ १२७ ॥
स्वादुभिर्भक्ष्यभोज्याद्यैः षष्ठ्यां सम्प्रीणयेद्विभुम् ।
पूजयेद्देवताबुद्ध्या कुमारान् ब्रह्मचारिणः ॥ १२८ ॥
सन्तानं विजयं वीर्यं रक्षामायुः श्रियं यशः ।
प्रदद्यात् साधकस्याशु सुब्रह्मण्यः सुराचीतः॥ १२९ ॥
विधिनेत्युक्तं विधिमाह केसरेष्विति ।
तस्य नैवेद्यांशदानं धूर्त्तसेनाय ॥ १२४-१२९ ॥
जपतर्पणपूजादौ विघ्नेशं सर्वसिद्धिदम् ।
प्रीणयेदनया स्तुत्या प्राप्तये सर्वसम्पदाम् ॥ १३० ॥
ओङ्ङ्कारमाद्यं प्रवदन्ति सन्तो
वाचः श्रुतीनामपि यं गृणन्ति ।
गजाननं देवगणानताङ्घिरं
भजेऽहमर्द्धेन्दुकृतावतंसम् ॥ १३१ ॥
गणेशस्तुतिमारभते ओङ्कारमिति ।
अपिभीन्नक्रमः ।
सन्तः यं श्रुतीनामाद्यम् ओङ्कारं वाचोऽप्याद्यं गृणन्ति ।
शब्दब्रह्मस्वरूपमिति यावत् ॥ १३०-१३१ ॥
पादारविन्दार्चनतत्पराणां
संसारदावानलभङ्गदक्षम् ।
निरन्तरं निर्गतदानतोयैस् -
तं नौमि विघ्नेश्वरमम्बुदाभम् ॥ १३२ ॥
कृताङ्गरागं नवकुङ्कुमेन
मत्तालिमालां मदपङ्कलग्नाम् ।
निवारयन्तं निजकर्णतालैः
को विस्मरेत् पुत्रमनङ्गशत्रोः ॥ १३३ ॥
शम्भोर्जटाजूटनिवासिगङ्गा-
जलं समादाय कराम्बुजेन ।
लीलाभिराराच्छिवमर्चयन्तं
गजाननं भक्तियुता भजन्ति ॥ १३४ ॥
कराम्बुजेन शुण्डाग्रेण ।
आरात् समीपे ।
भक्तियुता भजन्ति इत्यत्र तं शरणं भजामि इत्यपि क्वचित् पाठः ॥ १३२-१३४ ॥
कुमारभुक्तौ पुनरात्महेतोः
पयोधरौ पर्वतराजपुत्र्याः ।
प्रक्षालयन्तं करशीकरेण
मौग्ध्येन तं नागमुखं भजामि ॥ १३५ ॥
मौग्ध्येनेति ।
देवीस्तनौ सदानुच्छिष्टाविति भावः ॥ १३५ ॥
त्वया समुद्धृत्य गजास्य हस्तं
ये शीकराः पुष्कररन्ध्रमुक्ताः ।
व्योमाङ्गणे ते विचरन्ति ताराः
कालात्मना मौक्तिकतुल्यभासः ॥ १३६ ॥
भो गजास्य कालात्मना त्वया हस्तमुद्धृत्य ये शीकराः पुष्कररन्ध्रमुक्ताः ।
पुष्करं करिहस्ताग्र इति नामलिङ्गानुशासने ।
ते तारा विचरन्तीति गम्योत्प्रेक्षा शीकरा न भवन्ति ।
तारा इत्युत्प्रेक्षा इत्यर्थः ॥ १३६ ॥
क्रीडारते वारिनिधी गजास्ये
वेलामतिक्रामति वारिपूरे ।
कल्पावसानं प्रविचिन्त्य देवाः
कैलासनाथं स्तुतिभिः स्तुवन्ति ॥ १३७ ॥
स्तुवन्तीति अन्यकृतः कल्पावसाने न्यस्य स्तुत्यसङ्गतिरित्यलङ्कारः ।
वस्तुतस्तु अनन्यनिवारणीयत्वेन तत्स्तुतिः ॥ १३७ ॥
नागानने नागकृतोत्तरीये
क्रीडारते देवकुमारसङ्घैः ।
त्वयि क्षणं कालगतिं विहाय
तौ प्रापतुः कन्दुकताभनेन्दू ॥ १३८ ॥
नागकृतोत्तरीये सर्पेत्तरीये त्वयि क्रीडारत इति सम्बन्धः ।
कालगतिं कालपारवश्यं त्यक्त्वा ॥ १३८ ॥
मदोल्लसत्पञ्चमुखैरजस्र-
मध्यापयन्तं सकलागमार्थान् ।
देवानृषीन् भक्तजनैकमित्रं
हेरम्बमर्कारुणमाश्रयामि ॥ १३९ ॥
पादाम्बुजाभ्यामतिवामनाभ्यां
कृतार्थयन्तं कृपया धरित्रीम् ।
अकारणं कारणमाप्तवाचां
तं नागवक्त्रं न जहाति चेतः ॥ १४० ॥
वामनाभ्यां मुखछन्दाद्यपेक्षया ह्रस्वता ।
एतेनास्य ह्रस्वावेवाङ्घ्री ध्येयाविति सूचितम् ।
आप्तवाचां वेदानां कारणं प्रवर्त्तयितारम् ॥ १३९-१४० ॥
येनाऽपीतं सत्यवतीसुताय
पुराणमालिख्य विषाणकोट्या ।
तं चन्द्रमौलेस्तनयं तपोभि-
रवाप्यमानन्दघनं भजामि ॥ १४१ ॥
पदं स्तुतीनामपदं श्रुतीनां
लीलावतारं परमात्ममूर्त्तेः ।
नागात्मको वा पुरुषात्मको वे-
त्यभेद्यमाद्यं भज विघ्नराजम् ॥ १४२ ॥
पुराणं भारताख्यम् ।
पदं स्थानम् ।
अपदमगोचरम् ।
क्वचित् स्तुतिश्रुतिपदयोः व्यत्ययः ।
परमात्ममूर्त्तेरित्यत्र परमष्टेति केचित पठन्ति ॥ १४१-१४२ ॥
पाशाङ्कुशौ भग्नरदं त्वभीष्टं
करैर्दधानं कररन्ध्रमुक्तैः ।
मुक्ताफलाभैः पृथुसीकरौघैः
सिञ्चन्तमङ्गं शिवयोर्भजामि ॥ १४३ ॥
शिवयोः पित्रोः ॥ १४३ ॥
अनेकमेकं गजमेकदन्तं
चैतन्यरूपं जगदादिबीजम् ।
ब्रह्मेति यं ब्रह्मविदो वदन्ति
तं शम्भुसूनुं शरणं भजामि ॥ १४४ ॥
स्वाङ्कस्थिताया निजवल्लभाया
मुखाम्बुजालोकनलोलनेत्रम् ।
स्मेराननाब्जं मदवैभवेन
रुद्धं भजे विश्वविमोहनं तम् ॥ १४५ ॥
अनेकमिच्छया ।
एकं तत्त्वतो ॥ १४४-१४५ ॥
ये पूर्वमाराध्य गजाननं त्वां
शास्त्राणि सर्वाणि पठन्ति तेषाम् ।
त्वत्तो न चाऽन्यत् प्रतिपाद्यमेतैस् -
तदस्ति चेत् सर्वमसत्यकल्पम् ॥ १४६ ॥
ये पठन्ति तेषां पुरुषाणां त्वत्तोऽन्यत् प्रतिपाद्यं ज्ञेयं नास्ति ।
चकारात्तेषां शास्त्राणामपि त्वत्तोऽन्यत् प्रतिपाद्यं नास्तीत्यर्थः ।
यतः सर्वेषु शास्त्रेष्वात्मनः प्रतिपादितत्वात् एतैः शास्त्रैस्त्वदन्यत्प्रतिपाद्यते चेत् तत्
सर्वमसत्यकल्पम् ।
तानि शास्त्राण्येव न भवन्तीत्यर्थः ।
बौद्धशास्त्रादिवत् ॥ १४६ ॥
हिरण्यगर्भं जगदीशितारं
कविं पुराणं रविमण्डलस्थम् ।
गजाननं यं प्रविशन्ति सन्तस् -
तत्कालयोगैस्तमहं प्रपद्ये ॥ १४७ ॥
तत्कालयोगैरिति हिरण्यगर्भाद्यवतारो गणेश एवैको लीलया भवति ।
परमात्मरूपत्वादित्यर्थः ॥ १४७ ॥
वेदान्तगीतं पुरुषं भजेऽह-
मात्मानमानन्दघनं हृदिस्थम् ।
गजाननं यन्महसा जनानां
विघ्नान्धकारो विलयं प्रयाति ॥ १४८ ॥
तदेव रूपमाह वेदान्तगीतमिति ॥ १४८ ॥
शम्भोः समालोक्य जटाकलापे
शशाङ्कखण्डं निजपुष्करेण ।
स्वभग्नदन्तं प्रविचिन्त्य मौग्ध्या-
दाकृष्टुकामः श्रियमातनोतु ॥ १४९ ॥
मौग्ध्यादिति लीलया ।
तस्य कदाचिदपि ज्ञानभ्रंशाभावात् ॥ १४९ ॥
विघ्नार्गलानां विनिपातनार्थं
यं नारिकेलैः कदलीफलाद्यैः ।
प्रतारयन्तो मदवारणास्यं
प्रापुर्नरोऽभीष्टमहं भजे तम् ॥ १५० ॥
यज्ञैरनेकैर्बहुभिस्तपोभि-
राराध्यमाद्यं गजराजवक्त्रम् ।
स्तुत्याऽनया ये विधिना स्तुवन्ति
ते सर्वलक्ष्मीनिधयो भवन्ति ॥ १५१ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
त्रयोदशः पटलः समाप्तः ॥ १३ ॥
ब्थ् " बि
विघ्नेत्यादिना भक्तवात्सल्यमुक्तम् ।
नर इति बहुवचनम् ॥ १५०-१५१ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां त्रयोदशः पटलः ॥ १३ ॥
ब्थ् " बि