१२

अथ द्वादशः पटलः

अज्ञानतिमिरध्वंसि संसारार्णवतारकम् ।
आनन्दबीजमवतादतर्क्यं त्रैपुरं महः ॥ १ ॥
अथ वक्ष्ये परां विद्यां त्रिपुरामतिगोपिताम् ।
यां ज्ञात्वा सिद्धिसङ्घानामधिपो जायते नरः ॥ २ ॥
एवं दुर्गामन्त्रानुक्त्वा मातृकापटले तार्त्तीयस्योद्दष्टत्वाद्भैरवोमन्त्रं वक्तुमुप- क्रमते ।
अज्ञानेति ।
त्रिपुराशब्दव्युत्पत्तिरुक्ताऽन्यत्र—-
त्रिमूत्तीसर्गाच्च पुराभवत्वात् त्रयीमयत्वाच्च पुरैव देव्याः ।
लये त्रिलोक्या अपि पूरणत्वात् प्रायोऽम्बिकायास्त्रिपुरेति नाम ॥ इति ।
सिद्धेश्वरीमते तु—- ब्रह्मविष्णुमहेशानैस्त्रिदेवैरचीता पुरा ।
त्रिपुरेति तदा नाम कथितं दैवतैः पुरा ॥ इति ।
अतिगोपितामित्यनेनैतदुक्तं भवति ।
मयाऽपि गुप्तमेव स्वरूपमुद्धृतमिति ।
अन्यथा विद्यां वक्ष्ये इति प्रतिज्ञाय विद्या वेद्येत्युपसंहारः अथ च मन्त्र उद्धृतः इदमसङ्गतं स्यात् ।
यतः " शक्त्याद्या तु भवेद्विद्या शिवाद्यो मन्त्र उच्यते " इत्युक्तेः ।
तदुक्तम्—- एषा सा शाम्भवी विद्या गुप्ता कुलवधूरिव ।
कर्णात्कर्णेपदेशेन सञ्चरत्यवनीतले ॥ इति ।
सिद्धीत्यादि विनियोगोक्तिः ॥ १-२ ॥
वियद्भृगुहुताशस्थो भौतिको बिन्दुशेखरः ।
वियत्तदादि केन्द्राग्निस्थितं वामाक्षिबिन्दुमत् ।
आकाशभृगुवह्निस्थो मनुः सर्गेन्दुखण्डवान् ॥ ३ ॥
मन्त्रमुद्धरति वियदिति ।
वियत् हः भृगुः सः हुताशो रेफः ।
ते तिष्ठन्त्यत्र सः सुपि स्थः बाहुलकादधिकरणे कः ।
भौतिक ए बिन्दुरनुस्वारः इत्याद्यं कूटम् ।
वियत् हः तदादिः सः।
कः स्वरूपम् ।
इन्द्रो लः अग्नी रः ।
एते स्थिता यत्रेत्याहिताग्न्यादिः।
वामाक्षि ई बिन्दुरनुस्वार इति द्वितीयं कूटम् ।
आकाशो हः भृगुः सः वह्नी रेफः मनुरौ सर्गे विसर्गः इन्दुखण्डः अनुस्वारः इति तृतीयं कूटम् ।
आद्यन्तयो रेफः कीलकम् ।
तदुक्तमाचार्यैर्भैरवीस्तवे—-
आद्यं तृतीयमनलोजीतमेव बीजं कूटं द्वितीयमनलेन विराजमानम् ।
इति ॥ ३ ॥
वाग्भवं प्रथमं बीजं कामबीजं द्वितीयकम् ।
तृतीयं कामराजाख्यं त्रिभिर्बीजैरितीरिता ॥ ४ ॥
पञ्चकूटात्मिका विद्या वेद्या त्रिपुरभैरवी ।
ऋषिः स्याद्दक्षिणामूत्तीश्छन्दः पङ्क्तिः समीरितः ॥ ५ ॥
देवता देशिकैरुक्ता देवी त्रिपुरभैरवी ।
नाभेराचरणं न्यस्येद्वाग्भवं मन्त्रवित् पुनः ॥ ६ ॥
हृदयान्नाभिपर्यन्तं कामबीजं प्रविन्यसेत् ।
शिरसो हृत्प्रदेशान्तं तार्त्तीयं विन्यसेत् ततः ॥ ७ ॥
आद्यं द्वितीयं करयोस्तार्त्तीयमुभयोर्न्यसेत् ।
मूद्र्ध्न्याधारे हृदि न्यस्येद् भूयो बीजत्रयं क्रमात् ॥ ८ ॥
एषां प्रत्येकं नामान्याह वाग्भवमिति ।
पञ्चकूटात्मिकेति ।
हसकलरेति पञ्चव्यञ्जनसंयोगात् पञ्चकूटात्मकत्वं रेफरहितत्वेन चतुष्कूटत्वं रेफोपरि नादयोगे
षट्कूटत्वं ज्ञेयम् ।
अस्यास्त्रिंशत्प्रस्तारभेदा ग्रन्थगौरवभयान्नोक्ताः ।
ते तन्त्रान्तरात् द्रष्टव्याः ।
आद्यं बीजं मध्यं शक्तिः अन्त्यं वा शक्तिः ।
व्यस्तबीजध्यानफलमुच्यते सारस्वतमतात्—-
नवकुन्दनिभां देवीं मुक्ताजालविभूषणाम् ।
मुद्राकपालविद्याक्षमालाराजन्महाभुजाम् ॥
वाग्भवं यो महेशानि लक्षं जपति संयतः ।
कविता जायते तस्य नानावृत्तार्थशोभना ॥
रक्तां सुरतरोर्मूले विलसन्मणिपीठगाम् ।
सृणिपाशकपालेषुमातुलिङ्गधनुःकराम् ॥
रक्तैरलङ्कृतां पुष्पैर्मदाघूणीतलोचनाम् ।
हेलाविलाससम्पन्नां नवयौवनसुन्दरीम् ॥
देवीं ध्यात्वा जपेलक्षं यो बीजं मध्यमं वशी ।
त्रैलोक्यं क्षोभयेदाशु पुरावत् सिद्धिभागसौ ॥
अक्षमालासुधाकुम्भमुद्रापुस्तकधारिणीम् ।
नवकुन्देन्दुसाङ्काशां राजन्मौक्तिकभूषणाम् ॥
शक्तिं संविन्मयीं ध्यात्वा बीजं सारस्वतं वशी ।
यो जपेत्जायते तस्य कविता भुवि सन्तता ॥ इति ॥
तन्त्रान्तरे च—- विद्याकामो वाग्भवाख्यं शुक्लवस्त्रानुलेपनः ।
मौक्तिकाभरणो भूमिगृहे जप्यात् त्रिलक्षकम् ॥
गद्यपद्यान्युद्गिरन्तीं स्वं वाणीमिति भावयन् ।
पलाशैरेव जुहुयात् पुष्पैस्त्रिमधुराप्लुतैः ॥
स जायते कविश्रेष्ठः सुन्दरीणां च वल्लभः ।
त्रिलोकी वश्यकामश्चेत् कामराजं द्वितीयकम् ॥
कस्तूरीकुङ्कुमामोदमधुरोऽरुणभूषणः ।
रक्तक्षौमाम्बरधरो जपेल्लक्षत्रयं सुधीः ॥
नेत्राञ्चलैर्मदालोलैर्वशे विदधती जगत् ।
अम्बिकेति स्वकं रूपं ध्यायन् हृष्टेन चेतसा ॥
जुहुयान्मालतीपुष्पैः शीतकर्पूरसम्प्लुतैः ।
जगन्ति तस्य वश्यानि भवन्ति बहुनाऽत्र किम् ॥
वाग्विलासमधिगन्तुमना यो बीजमन्त्यमपि पुष्करलक्षम्
सञ्जपेद्विमलभूषणवस्त्रोऽसौ भवेत् कविवरोऽमितकीत्तीः ।
मालतीमुकुलकैर्दलद्दलैश्चन्दनाम्भसि घने निमज्जितैः
श्रीकरी कुसुमकैर्हतक्रिया सैव चाशु कविताकरी मता ॥ इति ।
अत्र ग्रन्थकृताऽतिगुप्ततरत्वाद्बीजत्रयस्य दीपन्युद्धारो न कृतः ।
तेन च विनेयं विद्या न सिद्धिदा ।
अतस्तदुद्धारः सिद्धेश्वरीतन्त्राल्लिख्यते—-
वागीश्वर्यास्तु मन्त्रे हुतवहदयितास्थानगं वाग्भवाख्यं
क्लिन्ने क्लेदिन्यपि स्यादिह तदनु महाक्षोभमित्येव योज्यम् ।
तस्मात् कुवीत्यसौ चेन्मनुरयमुदितो रुद्धवर्णस्तदन्तस्-
तारान्मोक्षं तदन्ते कुरुपदमसहितं स्याच्च समोहनाख्यम् ॥
बीजानां दीपनानि स्युरिह हि मनवो यैः सुदीप्तः सदैव
त्रैबीजो मन्त्रराजो भवति जपविधौ सर्वसम्पत्तिकारी ।
विद्यानां पारगामी युवतिजनमनःक्षोभकारी विहारी ।
मन्त्री स्यात् सर्वसम्पन्नरतिपतिसदृशो मुक्तबाधश्चिरायुः ॥ इति ॥
चेतन्याह्लादन्युद्धारः प्रथमश्लोकव्याख्यानोक्तोऽनुसन्धेयः ।
उत्तरषट्के तु—-
आदिमेन तु सा लुप्ता मध्यमेन तु कीलिता ।
अन्तिमेन तु सा छिन्ना तेन विद्या न सिध्यति ॥
आदिमादिमनादिं च मध्यं मध्यममध्यमम् ।
अन्त्यमन्त्यमनन्त्यं च त्रिपुरा शीघ्रसिद्धिदा ॥
आदिमध्ये तु मध्यादावन्त्यमध्ये तु संस्थितौ ।
पुरः क्षोभाय जप्तव्यं विधिनाऽनेन साधकैः ॥ इति ।
अन्यत्र तु—-
आद्यं बीजं मध्यमे मध्यमादावन्त्यं चान्त्ये योजयित्वा जपेद् यः ।
त्रैलोक्यान्तः पातिनो भूतसङ्घा वश्यास्तस्यैश्वर्यभाजो भवेयुः ॥
आद्यं कृत्वा चावसानेऽन्त्यबीजं मध्ये मध्यं चादिमे साधकेन्द्रः ।
कुर्यान्नित्यं यो जपेन्मन्त्रमेनं जीवन्मुक्तः सोऽश्नुते दिव्यसिद्धिम् ॥ इति ।
करयोरिति वामदक्षिणयोः ।
तदुक्तम्—-हस्ततले च सव्ये दक्षाह्वये द्वितीये ।
इति ॥ ४-८ ॥
नवयोन्यात्मकं न्यासं कुर्याद्बीजैस्त्रिभिः पुनः ।
कर्णयोश्चिबुके भूयः शङ्खयोर्वदने पुनः ॥ ९ ॥
नेत्रयोर्नसि विन्यस्येदंसयोः पिठरे पुनः ।
ततः कूर्परयोः कुक्षौ जानुनोर्ध्वजमूर्द्धनि ॥ १० ॥
पादयोर्गुह्यदेशे च पार्श्वयोर्हृदयाम्बुजे ।
स्तनयोः कण्ठदेशे च रत्यादिमथ विन्यसेत् ॥ ११ ॥
नवयोन्यात्मकमिति यदुक्तं तमेवाह कर्णेति ।
त्रित्रिस्थानैरेकैका योनिः ।
अत्र वामाङ्गादिन्यास इति केचित् ।
अत एव पूजायां वामकोण इत्याद्युक्तिः ।
शङ्खयोरिति ।
ललाटपार्श्वेच्चप्रदेशयोः ।
त्रिकाण्ड्यामपि—- " शङ्खो निधौ ललाटास्थि " ।
नसीति नासिकायाम् ।
पिठरे उदरे ।
उच्चाकारत्वात्तस्य ।
कुक्षावित्यनेन नैकढ्याद्योन्या- कारतासिद्धये नाभिभागो लक्ष्यः ।
तदुक्तम् ।
कौर्परयोर्नाभिमण्डले न्यसेदिति ।
क्वचिन्नाभाविति पाठः ।
ध्वजो लिङ्गम् ॥ ९-११ ॥
मूले रतिं हृदि प्रीतिं भ्रुवोर्मध्ये मनोभवाम् ।
बालाबीजैस्त्रिभिर्न्यस्येत् स्थानेष्वेषु विलोमतः ॥ १२ ॥
अमृतेशीं च योगेशीं विश्वयोनिं क्रमादिमाः ।
विलोमबीजैवीन्यस्येन्मूत्तीन्यासमथाचरेत् ॥ १३ ॥
रत्यादीति यदुक्तं तदेवाह—-मूल इति ।
विलोमतस्त्रिभिर्बालाबीजैः विन्यसेदिति सम्बन्धः ।
स्थानेष्वेष्विति उत्तरत्र सम्बध्यते ।
तत्र विलोमत्वं नामेदं रतेर्वाग्भवं प्रीतेरन्त्यं मनोभवाया मध्यमिति ।
यदाहुः—-
कामस्य कामबीजं रतिबीजं वाग्भवं समुद्दिष्टम् ।
समोहनाख्यमन्त्यं प्रीतेर्बीजं यथा प्रोक्तम् ॥ इति ।
एष्विति ।
पूर्वेक्तस्थानेषु विलोमबालाबीजैः सह अमृतेश्याद्या न्यसेदित्यन्वयः ।
अत्रापि विलोमत्वं पूर्ववदेव ॥ १२-१३ ॥
स्वस्वबीजादिकं पूर्वं मूर्ध्नीशानमनोभवम् ।
न्यसेद्वक्त्रे तत्पुरुषं मकरध्वजमात्मवित् ॥ १४ ॥
हृद्यघोरकुमारादिकन्दर्पं तदनन्तरम् ।
गुह्यदेशे प्रविन्यस्येद्वामदेवादिमन्मथम् ॥ १५ ॥
सद्योजातं कामदेवं पादयोवीन्यसेत्ततः ।
ऊद्ध्र्वप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु तान् ॥ १६ ॥
स्वस्वबीजादिकमिति ।
मूर्त्तीनां वक्ष्यमाणानि बीजानि मनोभवादीनां क्रमेण वनिताचतुर्थबाणवाग्भवकाममायाबीजानि ज्ञेयानि ।
उभयत्र आदिशब्दः तत्पूर्वत्वमात्रं बोधयति ।
तेनैकपद्यम् ।
तान् ईशानमनोभवादीन् ।
तेनायं प्रयोगः ।
ह्स्राम् ईशानाय स्त्रीं मनोभवाय नम इत्यादि ॥ १४-१६ ॥
प्रविन्यसेद्यथापूर्वं भृगुर्व्येमाग्निसंस्थितः ।
सद्यादि पञ्चह्रस्वस्थो बीजमेषां प्रकीत्तीतम् ॥ १७ ॥
यथापूर्वमिति ।
स्वस्वबीजादिकमिति च यदुक्तं तानि बीजान्युद्धरति भृगुरिति ।
भृगुः सः व्योम हः अग्नी रेफः ताभ्यां सम्यग्युत इति ।
ऊर्द्धाधोभागे क्रमेण ।
सद्यादिपञ्चह्रस्वा विलोमेन ओ ए उ इ अ इति ॥ १७ ॥
षड्दीर्घयुक्तेनाद्येन बीजेनाऽङ्गक्रिया मता ।
पञ्चबाणांस्तनौ न्यस्येन्मन्त्रीं त्रैलोक्यमोहनान् ॥ १८ ॥
षडिति ।
षड्दीर्घयुक्तेन बीजेन मध्यबीजेन ।
आद्येन बीजेन मन्त्राद्येन ।
सम्प्रदायात् ।
शाक्ताद्येनेत्यपि ज्ञेयम् ।
तेनायं प्रयोगः ।
ह्स्रोः हसकल ह्रां ह्री� ह्स्रौं हृत् ५ ह्री� ह्री� ह्स्रौ� शिरः ५ ह्रू� ह्री� ह्स्रौ� शिखा ५ ह्रै� ह्री� ह्स्रौ�
वर्म ५ ह्रौ� ह्री� नेत्रं ५ ह्रः ह्री� ह्स्रौ� अस्त्रम् ॥ १८ ॥
द्रामाद्यां द्राविणीं मूध्नी द्रीमाद्यां क्षोभिणीं पदे ।
क्लीं वशीकरणीं वक्त्रे गुह्ये ब्लूम्बीजपूवीकाम् ॥ १९ ॥
आकर्षणीं हृदि पुनः सर्गान्तर्भृगुसंयुतम् ।
सम्मोहनीं क्रमादेवं बाणन्यासोऽयमीरितः ॥ २० ॥
भालभ्रूमध्यवदनलम्बिकाकण्ठहृत्सु च ।
नाभ्यधिष्ठानयोः पञ्च ताराद्याः सुभगादिकाः ॥ २१ ॥
न्यस्तव्या विधिना देव्यो मन्त्रिणा सुभगा भगा ।
भगसपीण्यथ परा भगमालिन्यनन्तरम् ॥ २२ ॥
अनङ्गाऽनङ्गकुसुमा भूयश्चाऽनङ्गमेखला ।
अनङ्गमदना सर्वा मदविभ्रममन्थराः ॥ २३ ॥
प्रधानदेवतावर्णभूषणाद्यैरलङ्कृताः ।
अक्षस्रक्पुस्तकाभीतिवरदाढ्यकराम्बुजाः ॥ २४ ॥
द्रामाद्यामिति ।
अत्र सर्वत्राचार्येण मस्थाने ङः पठितः ।
अन्यत्र तु द्रां द्रीं क्लीं ब्लूं स आदिका बाणा इति ।
तदुक्तं त्रिपुरासारे—-
अद्रीशो मुखवृत्तवह्निसहितस्त्वाद्यं सदण्डस्त्रि-
मूर्त्याक्रान्ताननवृत्तमेव खलु तद्बीजं द्वितीयं भवेत् ॥
मुखान्तस्थितं देवराजाधिरूढं सवामेक्षणं वक्त्रपूर्वेण युक्तम् ।
भपूर्वं सवृत्तारिषष्टस्वरार्द्धक्षपेशं कतुर्यं कपूर्वेण युक्तम् ॥ इति ।
अद्रीशो दः मुखवृत्तम् आ वह्नी रः सदण्डः सानुस्वारः ।
इदमाद्यं द्रामिति ।
तदेव त्रिमूत्तीना ईकारेण आक्रान्तमाननवृत्तमाकारो यस्येदृशं द्रीमिति द्वितीयम् ।
मुखान्तः कः देवराजो लः वामेक्षणम् ई ।
वक्त्रपूर्वम् अनुस्वारः तेन क्लीम् इति तृतीयम् ।
भपूर्व बः वृत्तारिणा लकारेण षष्ठस्वरः ऊकारः तेन युतम् तेन ब्लूमिति बीजं भवति ।
कं जलं तद्बीजं वकारः तत्तुरीयं सः ककारपूर्वे विसर्गः तेन सहितम् एतावता सः इति पञ्चमम् ।
हृदीत्युत्तरत्र सम्बन्धते ।
सर्गान्तो भृगुः सः ।
लम्बिकेति ।
मुखमध्ये स्थानविशेषः ।
क्वचित्कणीकेति पाठः ।
तदा " कणीका कर्णभूषणम् " इति त्रिकाण्डी ।
विधिनेति ।
चतुर्थीनमोऽन्तत्वम् ।
मन्त्रिणेत्यनेन समुच्चितपूर्वा इत्युक्तं भवति ॥ १९-२४ ॥
वाक्कामं ब्लूं पुनः स्त्रीं सस्ताराः पञ्चोदितास्त्वमी ।
न्यासं कुर्याद् भूषणाख्यं ततः साधकसत्तमः ॥ २५ ॥
तारानेवाह ।
वागिति वाग्भवम् ।
कामः कामबीजम् ।
अन्यत् स्वरूपम् ।
भूषणाख्यमिति ।
भूषणरूपैर्वर्णैर्न्यासो भूषणन्यासः ।
तमेवाह ।
ततः साधक- सत्तमो न्यसेदिति ।
मातृकावर्णानिति शेषः ।
साधकसत्तम इत्यनेन सबिन्दुत्वं तत्तत्- स्थाने भूषणरूपत्वेन ध्यानं चोक्तम् ॥ २५ ॥
न्यसेच्छिरिस भालभ्रूकर्णाक्षियुगले नसि ।
गण्डयोरोष्ठयोर्दन्तपङ्क्त्योरास्ये न्यसेत् स्वरान् ॥ २६ ॥
चिबुकेऽथ गले कण्ठे पार्श्वयोः स्तनयुग्मके ।
दोर्मूलयोः कूर्परयोः पाण्योस्तत्पृष्ठदेशतः ॥ २७ ॥
नाभौ गुह्ये पुनश्चोर्वेर्जानुनोर्जङ्घयोस्ततः ।
स्फिचोः पत्तलयोः पश्चाच्चरणाङ्गुष्ठयोर्द्वयोः ॥ २८ ॥
कादिरान्तान् न्यसेद्वर्णान् स्थानेष्वेषु समाहितः ।
काञ्च्यां ग्रैवेयके पश्चात् कटके हृदि गुह्यके ॥ २९ ॥
कर्णकुण्डलयोर्मौलौ वलशान् षक्षसान् लहौ ।
अष्टाविमान् प्रविन्यस्येदेवं देशिकसत्तमः ।
एवं न्यस्तशरीरोऽसौ ध्यायेत् त्रिपुरभैरवीम् ॥ ३० ॥
न्यासस्थानान्येवाह शिरसीति ।
कण्ठस्तन्मणिर्गलस्तदधोभागः ।
अत्र कर्णादिषु द्विद्वि वर्णन्यासः।
भ्रूस्थाने एकम् ।
पाण्योरेकम् ।
तत्पृष्ठदेशे एकमिति सम्प्रदायविदः।
स्फिक्शब्देनोच्चत्वसाम्याद् गुल्फौ लक्ष्येते ।
कटके मूर्द्धन्यो लः ।
हृदि तालव्यः शः कर्णकुण्डलयोर्मूर्द्धन्यदन्त्याविति विवेक इति देशिकसत्तम इत्येतेनोक्तम् ॥२६-३०॥
उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिनीं
रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमुकुटां वन्दे समन्दस्मिताम् ॥ ३१ ॥
उद्यदिति ।
शिरसां मुण्डानां माला यस्यां सा तामिति विग्रहः ।
रक्तेति रक्त- चन्दनम् ।
आयुधध्यानं दक्षाद्यूर्द्धयोराद्ये तदधःस्थयोरन्त्ये ।
दक्षोर्द्धतः दक्षाधःपर्यन्त- मिति केचित् ।
अत्र ध्यानान्तरं बाणबीजपूर्वकं पञ्चमुद्रा गुरुवक्त्रगम्या दर्शयेत् ॥३१॥
दीक्षां प्राप्य जपेन्मन्त्रं तत्त्वलक्षं जितेन्द्रियः ।
पुष्पैर्भानुसहस्राणि जुहुयाद् ब्रह्मवृक्षजैः ॥ ३२ ॥
त्रिमध्वक्तैः प्रसूनैर्वा करवीरसमुद्भवैः ।
दीक्षां प्राप्येति ।
शक्तिदीक्षां प्राप्येत्यर्थः ।
सा च तन्त्रान्तर सिद्धेश्वरीमतादितो ज्ञेया ।
तत्त्वभानुशब्दयोः सरूपाणामित्येकशेषः ।
तत्त्वलक्षं षट्त्रिंशल्लक्षम् ।
होमस्तु षट्त्रिंशत्सहस्रं पलाशकुसुमैः ।
इयं चतुःकूटस्य सङ्ख्या ।
त्रिमध्वक्तैः पयोमधु- घृतयुक्तैः ।
केचित् पयःस्थाने शर्करामाहुः ।
इदमुभयत्र सम्बध्यते ।
तत्त्वलक्षं चतु- वींशतिलक्षम् ।
होमस्तु चतुवींशतिसहस्रं करवीरैः ।
इयं सङ्ख्या पञ्चकूटस्य ।
तत्त्वलक्षं द्वादशलक्षम् ।
तन्त्रान्तरे द्वादशतत्त्वानामप्युपदिष्टत्वात् ।
तदुक्तं प्रयोगसारे—-
अतो द्वादशतत्त्वानि वदन्त्येके विपश्चितः ।
इति ।
तन्मते प्रसूनैर्वेति वाशब्दः समुच्चये मिलित्वोभयैर्द्वादशसहस्रं होमः ।
इयं च सङ्ख्या षट्कूटस्येति ज्ञेयम् ।
तदुक्तमाचार्यैः—-
दीक्षां प्राप्य विशिष्टलक्षणयुजः सत्सम्प्रदायाद् गुरो-
र्लब्ध्वा मन्त्रममुं जपेत् सुनियतस्तत्त्वार्द्धलक्षावधि ।
स्वाद्वक्तैश्च नवैः पलाशकुसुमैः सम्यक्समिद्धेऽनले
मन्त्री भानुसहस्रकं प्रतिहुनेदश्वारिसूनैरपि ॥ इति ॥
तत्र तत्त्वानि षट्त्रिंशच्चतुवींशतिः अर्द्धं द्वादश ।
भान्तीति भानवः षट्त्रिंश- त्तत्वानि चतुवींशतितत्वानि द्वादशादित्याश्चेति पद्मपादाचार्यैः व्याख्यातम् ।
अत्रापि भानुशब्दार्थेऽयमेव ज्ञेयः ॥ ३२-३३ ॥
पद्मं वसुदलोपेतं नवयोन्याढ्यकणीकम् ॥ ३३ ॥
इच्छादिशक्तिभिर्युक्तं भैरव्याः पीठमर्चयेत् ।
इच्छा ज्ञाना क्रिया पश्चात् कामिनी कामदायिनी ॥ ३४ ॥
रती रतिप्रिया नन्दा नवमी स्यान्मनोन्मनी ।
वरदाभयधारिण्यः सम्प्रोक्ता नव शक्तयः ॥ ३५ ॥
पूजायन्त्रमाह पद्ममिति ।
नवयोन्याद्यकणीकं पद्ममस्याः पूजायन्त्रमिति शेषः ।
तदुद्धारप्रकार उच्यते—-
द्वितीयादिद्विद्विभागे योनी सन्ध्यध्वनाग्निना ।
भित्त्वा ध्यंशगुणान् वृत्तान् बहिः पद्मं सभूगृहम् ॥
अस्थार्थः—-यथेच्छप्रमाणं वृत्तं कृत्वा तत्प्राक्सूत्रं चतुर्धा विभज्य तत्रैकं भागम्
उर्द्धतस्त्यक्त्वा द्वितीयं भागमारभ्य तृतीयभागान्तम् अधराग्रत्र्यस्रं कृत्वा ततो मध्यादारभ्य
चतुर्थान्यं द्वितीयमधराग्रं त्रयस्रं कृत्वा तदुभयसन्धिभेदिप्रथमभागमारभ्य ऊर्द्धाग्रं
तृतीयान्तपर्यन्तं त्र्यस्रं कृत्वा तदुभयसन्धिभेदिप्रथमभागमारभ्य ऊर्द्धाग्रं तृतीयान्तपर्यन्तं
त्र्यस्रं कुर्यादिति ।
तदुक्तम्—-
वह्नेः पुरद्वितयवासवयोनिमध्यसम्बद्धवह्निवरुणेशसमाश्रितास्रि ।
इति ।
वरदाभयधारिण्य इति स्मरणमात्रम् ।
चतुर्थपटल एवासां ध्यानस्योक्तत्वात् ॥ ३३-३५ ॥
वाग्भवं लोहितो रायै श्रीकण्ठः लोहितोऽनलः ।
दीर्घवान् यै परा पश्चादपरायै हसौः पुनः ॥ ३६ ॥
सदाशिवमहाप्रेतं ङेऽन्तं पद्मासनं नमः ।
अनेन मनुना दद्यादासनं श्रीगुरुक्रमम् ॥ ३७ ॥
पीठमन्त्रमुद्धरति वागिति ।
वाग्भवं बालाद्यबीजम् ।
लोहितः पः ।
रायै स्वरूपम् ।
श्रीकण्ठः अकारः ।
अनलो रः दीर्घवानाकारयुक्तः तेन रा इति ।
यै परा इति स्वरूपम् ।
अपरायै स्वरूपम् ।
परा अपरायै इत्यत्र तु सन्धिः ।
ह्सौः इति पिण्डम्।
सदाशिवमहाप्रेतान्तं स्वरूपम् ।
प्रेतमिति द्वितीया शब्दकर्मणि ।
ङेऽन्तं चतुर्थ्ये- कवचनान्तं पद्मासनं तेन पद्मासनाय ॥ ३६-३७ ॥
प्राङ्मध्ययोन्यन्तराले पूजयेत् कल्पयेत् पुनः ।
पञ्चभिः प्रणवैर्मूत्तीं तस्यामावाह्य देवताम् ॥ ३८ ॥
प्राङ्मध्ययोन्यन्तराले श्रीगुरुक्रमं पूजयेदिति सम्बन्धः ।
श्रीगुरुक्रमस्तु त्रिविधः।
दिव्यौधः सिद्धौघो मानवौघश्चेति ।
तत्र परप्रकाशानन्द परमेशानन्दपरमशिवानन्द- कामेश्वर्यानन्दमोक्षानन्दकामानन्दामृतानन्दा दिव्यौघः ।
ईशान तत्पुरुषाघोरवाम- सदानन्दाः सिद्धौघः ।
मानवौघस्तु स्वस्वगुरुसम्प्रदायात् ज्ञेयः ।
पीठस्योत्तरभागे गुरुपङ्क्तिं प्रपूजयेत् इति ।
सामान्यविधेः अपवादोऽयं प्राङ्मध्ययोन्यन्तराल इति ॥ ३८ ॥
पूजयेदागमोक्तेन विधानेन समाहितः ।
तारा वाक् शक्तिः कमला हसखफ्रेंहसौः स्मृताः ॥ ३९ ॥
वामकोणे यजेद्देव्या रतिमिन्दुसमप्रभाम् ।
रतिं पाशधरां सौम्यां मदविभ्रमविह्वलाम् ॥ ४० ॥
प्रीतिं दक्षिणकोणस्थां तप्तकाञ्चनसन्निभाम् ।
अङ्कुशं प्रणतिं दोर्भ्यां धारयन्तीं समर्चयेत् ॥ ४१ ॥
अग्रे मनोभवां रक्तां रक्तपुष्पाद्यलङ्कृताम् ।
इक्षुकार्मुकपुष्पेषून्धारयन्तीं शुचिस्मिताम् ॥ ४२ ॥
आगमोक्तेनेत्युत्तरषट्कप्रोक्तेन ।
आगमशब्दव्युत्पत्तिरुक्ता तन्त्रान्तरे—-
आगतं शिववक्त्रात्तु गतं तु गिरिजामुखे ।
मतं च वासुदेवस्य तस्मादागम उच्यते ॥ ईति ।
अत एव समाहितः सावधान इत्युक्तिः ।
पञ्चभिः प्रणवैरिति यदुक्तं तानेवाह तारा इति।
वाक् वाग्भवम् ।
शक्तिर्मायाबीजम् ।
कमला श्रीबीजम् ।
अन्यत्पिण्डद्वयम् ।
रतिप्रीत्योर्ध्याने एकहस्तेऽस्त्रं द्वितीये नमस्कारः ॥ ३९-४२ ॥
अङ्गान्यभ्यर्चयेत् पश्चाद्यथापूर्वं विधानवित् ।
दिक्ष्वग्रे च निजैर्मन्त्रैः पूजयेद्बाणदेवताः ॥ ४३ ॥
यथापूर्वमिति ।
आग्नेयादिषु केसरेषु मध्ययोन्यन्तरे चतुदीक्षु च ।
विधान- विदित्यनेन मध्ययोनिबाह्यदेश इत्युक्तम् ॥ ४३ ॥
हस्ताब्जैर्धृतपुष्पेषुप्रणामा भूतसप्रभाः ।
अष्टयोनिष्वष्ट शक्तीः पूजयेत् सुभगादिकाः ॥ ४४ ॥
हस्ताब्जैरिति ।
सव्यहस्ते बाणः अन्यहस्ते नमस्कारः ।
तदुक्तम्—-
द्राविण्याद्याः क्रमशः सर्वाः सर्वाभरणशोभिताः समदाः ।
सव्यकरकलितबाणाः शेषकरैः कृतनमस्काराः ॥ इति ।
भूतसप्रभा इति ।
पृथिव्यादिवर्णतुल्यवर्णा इत्यर्थः ।
सुभगादिका इति यथान्यस्ताः ॥ ४४ ॥
मातरौ भैरवाङ्कस्था मदविभ्रमविह्वलाः ।
अष्टपत्रेषु सम्पूज्या यथावत् कुसुमादिभिः ॥ ४५ ॥
लोकपालांस्ततो दिक्षु तेषामस्त्राणि तद्बहिः ।
पूर्वजन्मकृतैः पुण्यैर्ज्ञात्वैनां परदेवताम् ॥ ४६ ॥
यो भजेदुक्तमार्गेण स भवेत् सम्पदां पदम् ।
एवं सिद्धमनुर्मन्त्री साधयेदिष्टमात्मनः ॥ ४७ ॥
जुहुयादरुणाम्भोजैरदोषैर्मधुराप्लुतैः ।
लक्षसङ्ख्यं तदर्द्धं वा प्रत्यहं भोजयेत् द्विजान् ॥ ४८ ॥
वनिता युवती रम्याः पूजयेद् देवताधिया ।
होमान्ते धनधान्याद्यैस्तोषयेद् गुरुमात्मनः ॥ ४९ ॥
मातर इति ।
चण्डिकान्ताः ।
तदुक्तमाचार्यैः—-मातृगणं सचण्डिकान्तं दलेष्वपि यजेदसिताङ्गकाद्यैः ।
इति ।
यथावदित्यनेन दीर्घाद्या मातरो ह्रस्वाद्या भैरवा इत्युक्तम् ।
सम्पदां पदमित्यनेनास्याः सम्पत्प्रदेत्यपि नामेति सूचितं भवति ॥ ४५-४९ ॥
एवं कृते जगद्वश्यो रमाया भवनं भवेत् ।
रक्तोत्पलैस्त्रिमध्वक्तैररुणैर्वा हयारिजैः ॥ ५० ॥
पुष्पैः पयोऽन्नैः सघृतैर्हेमो विश्वं वशं नयेत् ।
वाक्सिद्धिं लभते मन्त्री पलाशकुसुमैर्हुतात् ॥ ५१ ॥
कर्पूरागुरुसंयुक्तं गुग्गुलुं जुहुयात् सुधीः ।
ज्ञानं दिव्यमवाप्नोति तेनैव स भवेत् कविः ॥ ५२ ॥
क्षीराक्तैरमृताखण्डैर्हेमः सर्वापमृत्युजित् ।
दूर्वाभिरायुषे होमः क्षीराक्ताभिदीनत्रयम् ॥ ५३ ॥
जगन्ति वश्यानि यस्येति बहुव्रीहिः ।
रमाया भवनं भवेदिति ।
तत्र ध्यानविशेषः—-
मातुलिङ्गलिपिपात्रपङ्कजैः शोभमानकरपङ्कजां शिवाम् ।
संविचिन्त्य खलु पौष्टिकक्रियां कुर्वतो भवति भूतिरञ्जसा ॥ इति ।
हयारिजैरिति करवीरजैः ।
सघृतैः ।
पयोन्नैर्वेति तृतीयः पक्षः ।
वशं नयेदिति ।
ध्यानविशेषो यथा—-
पाशाङ्कुशोद्यतकरामरुणां प्रसन्नां माणिक्यवज्रहरितैरपि भूषिताङ्गीम् ।
मूत्तीं विचिन्त्य विदधीत पुरोक्तमार्गादृश्यक्रियां च नयनाञ्जनकानि मन्त्री ॥ इति ।
भवेत्कविरिति ।
ध्यानविशेषः संविच्छास्त्रे—-
सारस्वतमयीं मूत्तीमादिमूत्तीसमन्विताम् ।
यः स्मरेत् द्वादशान्ते स्यात् सोऽचिराद्वाकपतिर्भवेत् ॥ इति ।
अमृता गुडूची ।
अपमृत्युजिदिति ।
ध्यानविशेषो गौतमेनोक्तः—-
कुर्याच्छान्तिककर्माणि शुक्लवस्त्रां विचिन्त्य ताम् ।
वराभयसुधाकुम्भपुस्तकायुधधारिणीम् ॥ इति ॥ ५०-५३ ॥
गिरिकर्णीभवैः पुष्पैर्ब्राह्मणान् वशयेद्धुतात् ।
कह्लारैः पाथीवान् पुष्पैस्तद्वधूः कणीकारजैः॥ ५४ ॥
मल्लिकाकुसुमैर्हुत्वा राजपुत्रान् वशं नयेत् ।
कोरण्टकुसुमैर्वैश्यान् वृषलान् पाटलोद्भवैः॥ ५५ ॥
अनुलोमविलोमान्तः स्थितसाध्याह्वयान्विताम् ।
मन्त्रमुच्चार्य जुहुयान्मन्त्री मधुरलोलितैः ॥ ५६ ॥
सर्षपैः पटुसम्मिश्रैर्वशयेत् पाथीवान् क्षणात् ।
अनेनैव विधानेन तत्पत्नीस्तत्सुतानपि ॥ ५७ ॥
जातीबिल्वफलैः पुष्पैर्मधुरत्रयलोलितैः ।
नरनारीनरपतीन् होमतो वशयेद् ध्रुवम् ॥ ५८ ॥
मालतीवकुलोद्भूतैः पुष्पैश्चन्दनलोलितैः ।
जुहुयात् कवितां मन्त्री लभते वत्सरान्तरे ॥ ५९ ॥
मधुरत्रयसंयुक्तैः फलैबील्वसमुद्भवैः ।
जुहुयाद्वशयेल्लोकं श्रियमाप्नोति वाञ्छिताम् ॥ ६० ॥
पाटलैः कुमुदैः कुन्दैरुत्पलैर्नागचम्पकैः ।
नन्द्यावर्त्तैवीकसितैः कृतमालैर्जुहोति यः ॥ ६१ ॥
जायते वत्सरादर्वाक् श्रिया विजितपाथीवः ।
साज्यमन्नं प्रजुहुयाद्भवेदन्नसमृद्धिभाक् ॥ ६२ ॥
गिरिकर्णी अपराजिता ।
पटु लवणम् ।
नन्द्यावर्त्तैर्गन्धतगरैः ।
कृतमालै राज- वृक्षजैः ।
पाटलैरित्यादिना विकसितैरिति विशेषणात् पुष्पैरिति लभ्यते ॥ ५४-६२ ॥
कस्तूरीकुङ्कुमोपेतं कर्पूरं जुहुयाद्वशी ।
कन्दर्पादधिकं सद्यः सौन्दर्यमधिगच्छति ॥ ६३ ॥
लाजान् प्रजुहुयान्मन्त्री दधिक्षीरमधुप्लुतान् ।
विजित्य रोगानखिलान् स जीवेच्छरदां शतम् ॥ ६४ ॥
पादद्वयं मलयज ं पादं कुङ्कुमकेसरम् ।
पादं गोरोचनायाश्च तानि पिष्ट्वा हिमाम्भसा ॥ ६५ ॥
विदध्यात्तिलकं भूयो यान् पश्येद् यैवीलोक्यते ।
यान् स्पृशेत् स्पृश्यते यैर्वा वश्याः स्युस्तस्य तेऽचिरात् ॥६६॥
हिमाम्भसा नीहारोदकेन ॥ ६६ ॥
कर्पूरकपिचोराणि समभागानि कल्पयेत् ।
चतुर्भागा जटामांसी तावती रोचना मता ॥ ६७ ॥
कुङ्कुमं सप्तभागं स्याद् दिग्भागं चन्दनं मतम् ।
अगुरुर्नवभागः स्यादिति भागक्रमेण च ॥ ६८ ॥
हिमाद्भः कन्यया पिष्टमेतत् सर्वं सुसाधितम् ।
आदाय तिलकं भाले कुर्याद् भूमिपतीन् नरान् ॥ ६९ ॥
वनितां मदगर्वाढ्यां मदोन्मत्तान् मतङ्गजान् ।
सिंहव्याघ्रान् महासर्पान् भूतवेतालराक्षसान् ।
दर्शनादेव वशयेत् तिलकं धारयन्नरः ॥ ७० ॥
कपि रक्तचन्दनम् ।
चोरं कचूरं शटीति यावत् ।
दिग्भागं दशभागम् ।
कन्यया पिष्टमिति ।
कृष्णचतुर्दशीरात्रौ श्मशाने सम्प्रदायेन पिष्टम् ।
सुसाधितमिति एतन्मन्त्र- जप्तम् ॥ ६७-७० ॥
मध्याद्यं नवयोनिषु प्रविलिखेद्बीजानि वर्णांस्त्रिशो
गायत्र्याः पुनरष्टपत्रविवरेष्वालिख्य लिप्या वृतम् ।
भूबिम्बद्वितयेन मन्मथयुजा कोणेषु संवेष्टितं
यन्त्रं त्रैपुरमीरितं त्रिभुवनप्रक्षोभकं श्रीप्रदम् ॥ ७१ ॥
यन्त्रमाह मध्येति ।
प्रविलिखेत् प्रादक्षिण्येन एवं त्रिरावृत्तिर्भवति ।
गायत्र्या- स्त्रिपुरागायत्र्याः ।
लिप्या मातृकया ।
भूबिम्बद्वितयेन परस्परव्यतिभिन्नेन ।
मन्मथबीजं भैरव्या एव ॥ ७१ ॥
अस्मिन् यन्त्रे समावाह्य सम्यक् सम्पूज्य देवताम् ।
होमेन कृतसम्पातं लाक्षालोहत्रयावृतम् ॥ ७२ ॥
विधृतां बाहुना यन्त्रं युद्धेषु विजयावहम् ।
वादे वाग्विजयं कुर्यात् कवित्वं पुष्कलं दिशेत् ।
आयुरारोग्यमित्राणि पुत्रान् पौत्रान् विवर्द्धयेत् ॥ ७३ ॥
कामं षट्कोणमध्ये लिखतु पुनरिमं षट्सु कोणेषु पश्चात्
पत्रेषु द्व्यष्टसङ्ख्येष्वमुमथ पुरतो व्योमबीजेन वीतम् ।
क्षौणीबिम्बान्तरस्थं भुजदललिखितं रोचनाकुङ्कुमाभ्यां
प्रोक्तं सौभाग्यसम्पन्निरुपमकविताकीत्तीदं यन्त्रमेतत् ॥ ७४ ॥
यन्त्रान्तरमाह काममिति ।
कामं भैरवीमध्यबीजम् ।
इमं कामम् ।
द्व्यष्टसङ्ख्येषु षोडशसङ्ख्येषु ।
अमुं कामम् ।
व्योमबीजं हम् ।
भुजदलं भूर्जपत्रम् ॥ ७४ ॥
वह्नेर्गेहयुगान्तरस्थमदने मायां लिखेद्वाग्भवं
षट्कोणेष्वथ सन्धिषु प्रविलिखेद्धुङ्कारमावेष्टयेत् ।
स्त्रीम्बीजेन समीरितं त्रिभुवनप्रक्षोभकं त्रैपुरं
यन्त्रं पञ्चमनोभवात्मकमिदं सौन्दर्यसम्पत्करम् ॥ ७५ ॥
यन्त्रान्तरमाह वह्नेरिति ।
मदने प्रसिद्धे ।
वाग्भवं प्रसिद्धम् ।
सन्धिष्विति ।
कोणानभितो वृत्तमध्ये ।
स्त्रीम्बीजेनेत्येकत्वं विवक्षितम् ।
सर्वं स्त्रीम्बीजमध्ये लिखेदित्यर्थः ।
तदुक्तम्—-मनोभवस्य सकले कुक्षौ तदेतत् क्षिपेत् ।
इति ।
पञ्चमनोभवात्मकमिति ।
पञ्चभिः कामबीजैर्यन्त्रस्योद्धृतत्त्वात् ।
पञ्चकाममन्त्रा यथा—-
कपञ्चमं शुचिनयनान्तसंयुतं सवामदृक्पंवनगुणान्वितः करः ।
रविस्वरो हरिहयविष्णुषष्ठवद्वनं ततस्तर उपरान्वितो भृगुः ॥
तेषां शिरःसु विदधीत बुधोऽर्धचन्द्रानेवं मया निगदिताः खलु पञ्च कामाः ॥ इति ।
कं जलं तद्बीजं वः तत्पञ्चमो हः ।
शुची रेफः नयनान्त ई तेन मायाबीजम् ।
वामदृगीकारः पवनात् यकाराद् गुणः तृतीयो लः ।
तदन्वितः करः ककारस्तेन कामबीजम् ।
रविस्वरः द्वादशस्वर ए ।
हरिहयो लः विष्णुरकारः तस्मात् षष्ट ऊकारः तद्युक्तं वनं बकारस्तेन ब्लू ।
तरस्वरूपम् ।
उः परो यस्मात्तेन ई तद्युक्तो भृगुः सकारस्तेन स्त्री ।
सर्वे सार्धचन्द्राः सानुस्वाराः ॥ ७५ ॥
अधरो बिन्दुमानाद्यो ब्रह्मेन्द्रस्थः शशीयुतः ।
द्वितीयं भृगुसर्गाढ्यो मनुस्तार्त्तीयमीरितम् ॥ ७६ ॥
एषा बालेति विख्याता त्रैलोक्यवशकारिणी ।
जपपूजादिकं सर्वमस्याः पूर्ववदाचरेत् ॥ ७७ ॥
बालाबीजैस्त्रिभिरित्युद्दिष्टं बालामन्त्रमुद्धरति अधर इति ।
अधरो बिन्दुमान् एम् ।
ब्रह्मा ककारः इन्द्रो लः शशी बिन्दुः ई स्वरूपम् ।
तेन क्लीम् ।
भृगुः सः सर्गे विसर्गः तेनाढ्यो मनुरौ तेन सौः इति ।
अन्यत्र सबिन्दुरुक्तः ।
तदुक्तं सनत्कुमारे—-
अष्टमस्य तृतीयं तु चतुर्दशसमन्वितम् ।
दण्डकुण्डलमेतद्धि सारस्वतमुदाहृतम् ॥ इति ॥
अस्या विद्यायाः शाप इति त्रिपुरासारे ।
तदुद्धारो यथा—-
देव्या शप्ता येन विद्येयमाद्या पूर्वं तेन प्राणहीनाऽभवत् सा ॥
शिवशक्तिबीजमतएव शम्भुना निहितं तयोरुपरि पूर्वबीजयोः ।
अकुलं कुलोपरि च मध्यमाधरे दहनं ततः प्रभृति सोजीताऽभवत् ॥ इति ।
पूर्ववदित्युक्तत्वात् ।
प्रथमबीजस्य वाग्भवमिति नाम ।
मध्यस्य कामबीजमिति ।
तृतीयस्य शक्तिरिति ।
एतत्प्रसिद्ध्यैव पूर्वमग्रेऽपि वाग्भवकामशब्देनोभयोर्व्यवहार इति ज्ञेयम् ।
अतएवांशतः अत्रोद्धारः ।
व्यस्ताव्यस्तजपध्यानादि पूर्वेक्तमत्राप्यनुसन्धेयम् ।
अन्त्यं सबिन्दु बीजं मध्यं शक्तिः ।
तदुक्तम्—-
अमुष्य मन्त्रस्य रदान्तयुक्तं बीजं सदण्डं लकुलीशपूर्वम् ।
शक्तिस्तु साखण्डलकर्णपूर्वं सहार्द्धजैर्वा तृकमाननान्तम् ॥ इति ॥
अन्यैस्त्वेन्मध्यबीजस्य नित्यामन्त्रत्वमप्युक्तम् ।
यदाहुः—- नित्या भूत्वा जपेत् कामबीजमिष्टार्थसिद्धये ।
पञ्चह्रस्वाद्यबीजेन विन्यसेन्मुखपञ्चके ॥
षड्दीर्घेण षडङ्गानि कृत्वा नित्यां निजेष्टदाम् ।
मदिराम्भोधिमध्यस्थरक्तपङ्कजमध्यगाम् ॥
सुरूपां कुङ्कुमप्रख्यामाकुञ्चितशिरोरुहाम् ।
चतुर्भुजां महादेवीं पाशाङ्कुशधरां शिवाम् ॥
वामेतरकरासक्तकपालापूरितासवाम् ।
वामहस्तसमासक्तकपालासवदायिनीम् ॥
आत्माभेदेन तां धात्वा मन्त्रं लक्षं शनैर्जपेत् ।
मधूकपुष्पैर्जुहुयाद्दशांशं मन्त्रसिद्धये ॥
नित्यत्किन्नोक्तमार्गेण पूजां कुर्यादतन्द्रितः ।
राजानं राजपत्नीं च वशीकर्त्तुं य इच्छति ॥
स तस्योरः समारुह्य मनसा तन्मयो जपेत् ।
यन्नामसहितं कृत्वा नित्यां विद्यां जपेन्नरः ॥
तामाकर्षयते नित्यं वशीकुर्याच्च भूपतिम् ।
अनया मातृकां देवीं ग्रथित्वा नियुतं जपेत् ॥
त्रैलोक्यमखिलं तस्य वशे तिष्ठति दासवत् ।
न्यस्तमत्राङ्गुली बद्धा क्षोभिणीं नाम पुष्कलाम् ॥
शयागतः स्मरेन्नित्यमिष्टामाकर्षकृज्जपेत् ॥ इति ।
क्षोभिणी मुष्टिः ॥ ७६-७७ ॥
मान्मथं त्रिपुरादेवि विद्महे पदमीरयेत् ।
उक्त्वा कामेश्वरि पदं प्रवदेद्धीमही ततः ॥ ७८ ॥
तदन्ते प्रवदेद् भूयस्तन्नः क्लिन्ने प्रचोदयात् ।
गायत्र्येषा समाख्याता त्रैपुरी सर्वसिद्धिदा ॥ ७९ ॥
गायत्रीमुद्धरति मान्मथमिति ।
प्रसिद्धं मान्मथम् ।
अन्यत् स्वरूपम् ॥७८-७९॥
स्तुत्याऽनया त्वां त्रिपुरे स्तोष्येऽभीष्टफलाप्तये ।
यया व्रजन्ति तां लक्ष्मीं मनुजाः सुरपूजिताम् ॥ ८० ॥
ब्रह्मादयः स्तुतिपदैरपि सूक्ष्मरूपां
जानन्ति नैव जगदादिमनादिमूत्तीम् ।
तस्माद्वयं कुचनतां नवकुङ्कुमाभां
स्थूलां स्तुमः सकलवाङ्मयमातृभूताम् ॥ ८१ ॥
त्रिपुरास्तुतिमारभते स्तुत्येति ।
यया स्तुत्या ॥ ८०-८१ ॥
सद्यः समुद्यतसहस्रदिवाकराभां
विद्याक्षसूत्रवरदाभयचिन्हहस्ताम् ।
नेत्रोत्पलैस्त्रिभिरलङ्कृतपद्मवक्त्रां
त्वां तारहाररुचिरां त्रिपुरे भजामः ॥ ८२ ॥
तार उज्ज्वलो यो हारस्तेन रुचिराम् ।
मुक्ता शुद्धौ च तारः स्यादित्यमरः ॥८२॥
सिन्दूरपुञ्जरुचिरं कुचभारनम्रं
जन्मान्तरेषु कृतपुण्यफलैकगम्यम् ।
अन्योन्यभेदकलहाकुलमानभेदै-
र्जानन्ति किं जडधियस्तव रूपमम्ब ॥ ८३ ॥
स्थूलां वदन्ति मुनयः श्रुतयो गृणन्ति
सूक्ष्मां वदन्ति वचसामधिवासमन्ये ।
त्वां मूलमाहुरपरे जगतां भवानि
मन्यामहे वयमपारकृपाम्बुराशिम् ॥ ८४ ॥
चन्द्रावतंसकलितां शरदिन्दुशुभ्रां
पञ्चाशदक्षरमयीं हृदि भावयन्ति ।
त्वां पुस्तकं जपवटीममृताढ्यकुम्भं
व्याख्यां च हस्तकमलैर्दधतीं त्रिनेत्राम् ॥ ८५ ॥
शम्भुस्त्वमद्रितनयाकलितार्द्धभागो
विष्णुस्त्वमम्ब कमलापरिबद्धदेहः ।
पद्मोद्भवस्त्वमसि वागधिवासभूमिस् -
तेषां क्रियाश्च जगति त्रिपुरे त्वमेव ॥ ८६ ॥
अन्योन्यं परस्परं यो भेदकलहस्तेनाकुलानि यानि मानानि प्रमाणानि तद्भेदैस्त- द्विशेषैः ॥ ८३ ॥
आश्रित्य वाग्भवभवांश्चतुरः परादीन्
भावान् पदेषु विहितार्थमुदीरयन्तीम् ।
कण्ठादिभिश्च करणैः परदेवतां त्वां
संविन्मयीं हृदि कदापि न विस्मरामि ॥ ८७ ॥
वाग्भवबीजेनाकारसाम्यात् त्रिकोणमाधारमण्डलमुच्यते ।
तत्र भवान् तदुत्पन्नान् ।
तत्र यद्यपि पराया एवोत्पत्तिस्तथापि अन्यासामपि तत्स्थूलरूपत्वा- त्तथोक्तिः ।
यद्वा वाग्भवं कुण्डलिनी तद्भवांस्तदुत्पन्नान् ।
" शक्तिः कुण्डलिनीति या निगदिता आईमसञ्ज्ञा " इत्युक्तेः ।
एवम्भूतांश्चतुरः परादीन् परापश्यन्तीमध्यमावैखरीरूपान् भावान् ।
पदेषु स्थानेषु आधारनाभिकण्ठमुखेषु क्रमादाश्रित्य कण्ठादिभिः करणैवीहितार्थमीप्सि- तार्थम्
उदीरयन्तीम् ॥ ८७ ॥
आकुञ्च्य वायुमवजित्य च वैरिषट्क-
मालोक्य निश्चलधिया निजनासिकाग्रम् ।
ध्यायन्ति मूध्नीकलितेन्दुकलावतंसं
त्वद्रूपमम्ब कृतिनस्तरुणार्कबिम्बम् ॥ ८८ ॥
वायुं प्राणापानरूपम् ।
वैरिषट्कं कामक्रोधलोभमोहमदमत्सररूपम् ॥ ८८ ॥
त्वं प्राप्य मन्मथरिपोर्वपुरर्द्धभागं
सृष्टिं करोषि जगतामिति वेदवादः ।
सत्यं तदद्रितनये जगदेकमात-
र्नेचेदशेषजगतः स्थितिरेव न स्यात् ॥ ८९ ॥
मन्मथरिपोः पुरुषस्य ब्रह्मणो वाऽर्द्धभागं सन्निधिम् ।
तत् सत्यं वेदवादत्वात् ।
विपक्षे प्रतिकूलं तर्कमाह नोचेदिति ।
त्वदधिष्ठानाभावादिति भावः ॥ ८९ ॥
पूजां विधाय कुसुमैः सुरपादपानां
पीठे तवाम्ब कनकाचलगह्वरेषु ।
गायन्ति सिद्धवनिताः सह किन्नरीभि-
रास्वादितासवरसारुणनेत्रपद्माः ॥ ९० ॥
विद्युद्विलासवपुषः श्रियमावहन्तीं
यान्तीं स्ववासभवनाच्छिवराजधानीम् ।
सौषुम्णमार्गकमलानि विकाशयन्तीं
देवीं भजे हृदि परामृतसिक्तगात्रीम् ॥ ९१ ॥
स्ववासभवनात् मूलाधारात् ।
शिवराजधानीं सहस्रदलकमलम् ।
सुषुम्णायां भवं सौषुम्णं तदेव मार्गं येषां तानि ।
क्वचित् सौषुम्णसद्मकमलानीति पाठः ।
कमलान्याधारादीनि सहस्रान्तानि ॥ ९०-९१ ॥
आनन्दजन्मभवनं भवनं श्रुतीनां
चैतन्यमात्रतनुमम्ब समाश्रयामि ।
ब्रह्मेशविष्णुभिरभिष्टुतपादपद्मां
सौभाग्यजन्मवसतिं त्रिपुरे यथावत् ॥ ९२ ॥
आनन्दजन्मभवनं श्रुतीनां भवनमिति व्यस्तं रूपकद्वयम् ॥ ९२ ॥
शब्दार्थभावि भुवनं सृजतीन्दुरूपा
या तद्विभत्ती पुनरर्कतनुः स्वशक्त्या ।
वह्नयात्मिकाहरति तत् सकलं युगान्ते
तां शारदां मनसि जातु न विस्मरामि ॥ ९३ ॥
नारायणीति नरकार्णवतारिणीति
गौरीति खेदशमनीति सरस्वतीति ।
ज्ञानप्रदेति नयनत्रयभूषितेति
त्वामद्रिराजतनये विबुधा वदन्ति ॥ ९४ ॥
शब्दार्थयोर्भावः सत्ता यत्र तत् ।
शारं कर्मफलं द्यति खण्डयतीति शारदा चिच्छक्तिः ॥ ९३-९४ ॥
ये स्तुवन्ति जगन्मातः श्लोकैर्द्वादशभिः क्रमात् ।
त्वामनुप्राप्य वाक्सिद्धिं प्राप्नुयुस्ते परां गतिम् ॥ ९५ ॥
द्वादशभिरिति सद्य इत्यादिभिः विस्मरामीत्यन्तैः ।
आद्यपद्यद्वयस्य मुखबन्ध- रूपत्वाच्छेषयोरपि स्वरूपफलनिर्देशात् ।
अथ च द्वादशभिरिति पदेन कोशभेदात् द्युमणिमालानामकः प्रबन्ध उक्तः ।
तल्लक्षणमुक्तं भामहेन—-
अथ द्युमणिमाला स्यात् पद्यैर्द्वादशभिः समैः ।
प्रत्येकं नायकोत्कर्षप्रकाशनपरायणैः ॥
मुखबन्धे श्लोकयुग्मं तथा शेषे द्वयं मतम् ।
कृता द्युमणिमालेयं कीत्तीवृद्धिकरी नृणाम् ॥ इति ॥ ९५ ॥
वाङ्मायाकमलास्तारं नमोऽन्ते भगवत्यथ ।
श्रीमातङ्गीश्वरि वदेत् सर्वजनमनोहरि ॥ ९६ ॥
सर्वादि सुखराज्यन्ते सर्वादिमुखरञ्जिनि ।
सर्वराजवशं पश्चात् करि सर्वपदं वदेत् ॥ ९७ ॥
स्त्रीपुरुषवशं ब्रह्मा नेत्रमग्न्यासनं पुनः ।
सर्वदुष्टमृगवशङ्करि सर्वभृगुस्त्वव ॥ ९८ ॥
शङ्करि स्यात् सर्वलोकममुकं शिवयुग्रविः ।
वशमानय जायाग्नेरष्टाशीत्यक्षरो मनुः ॥ ९९ ॥
राजमातङ्गिनीमन्त्रमुद्धरति वागिति ।
वाक् वाग्भवम् माया शक्तिबीजम् ।
कमला श्रीबीजम् तारः प्रणवः ।
नमोऽन्ते नम इत्यस्यान्ते ।
ब्रह्मा कः ।
नेत्रमिकारः अग्न्यासनं तेन रि ।
भृगुः सः त्त्व व स्वरूपम् ।
रविर्मकारः शिवयुगेकारयुक्तः तेन मे ।
दक्षिणमूत्तीः ऋषिः गायत्रीच्छन्दः माया बीजं स्वाहा शक्तिः ॥ ९६-९९ ॥
न्यासान्मन्त्री तनौ कुर्याद्वक्ष्यमाणान् यथाक्रमम् ।
शिरो ललाटभ्रूमध्ये तालुकण्ठगलोरसि ॥ १०० ॥
अनाहते भुजद्वन्द्वे जठरे नाभिमण्डले ।
स्वाधिष्ठाने गुह्यदेशे पादयोर्दक्षिणान्ययोः ॥ १०१ ॥
मूलाधारे गुदे न्यस्येत् पदान्यष्टादश क्रमात् ।
कण्ठस्तन्मणिर्गलस्तदधोभागः ।
अनाहते हृदये ।
गुह्यदेशे लिङ्गे ।
दक्षिणान्ययोरिति सार्वत्रिकोऽपि क्रमः क्वचिद्वक्तव्य इत्यत्रोक्तः ॥ १००-१०२ ॥
गुणैकद्विचतुः षड्भिर्वसुषट्पर्वताष्टभिः ॥ १०२ ॥
दशपङ्क्त्यष्ट वेदाग्निचन्द्रयुग्मगुणाक्षिभिः ।
पदकॢप्तिरियं प्रोक्ता मन्त्रवर्णैर्यथाक्रमम् ॥ १०३ ॥
पदविभागमाह गुणेति ।
गुणास्त्रयः पर्वताः सप्त पङ्क्तिर्दश वेदाश्चत्वारः अग्नयस्त्रयः चन्द्र एकः अक्षि द्वयम् ॥ १०२-१०३ ॥
रत्याद्या मूलहृदयभ्रूमध्येषु विचक्षणः ।
वाक्शक्तिलक्ष्मीबीजाद्या मातङ्ग्यन्ताः प्रविन्यसेत् ॥ १०४ ॥
रत्याद्या इत्यादिशब्देन प्रीतिमनोभवे ।
बीजाद्या इति समुचितबीजाद्या इत्युक्तम् ।
मातङ्ग्यन्ता इति प्रत्येकम् ।
एं ह्री� श्रीं रत्यै मातङ्ग्यै नम इत्यादि प्रयोगः ।
एवमग्रेऽपि ॥ १०४ ॥
शिरोवदनहृद्गुह्यपादेषु विधिवन् न्यसेत् ।
हृल्लेखां गगनां रक्तां भूयो मन्त्री करालिकाम् ॥ १०५ ॥
महोच्छुष्मां स्वनामादिवर्णबीजपुरःसराः ।
मातङ्ग्यन्ताः षडङ्गानि ततः कुर्वीत साधकः ॥ १०६ ॥
वर्णैश्चतुभीवींशत्या हृत् त्रयोदशभिः शिरः ।
शिखाऽष्टादशभिः प्रोक्ता वर्म तावद्भरक्षरैः॥ १०७ ॥
स्यात् त्रयोदशभिर्नेत्रं द्वाभ्यामस्त्रं समीरितम् ।
विभक्तैर्मूलमन्त्रार्णैर्वाणन्यासमथाचरेत् ॥ १०८ ॥
विधिवदिति ।
पञ्चमुखेष्वपि न्यसेदित्युक्तम् ।
स्वनाम्नां ये आदिवर्णाः ते एव बीजानि ।
तत् पुरःसराः तदाद्या इति पूर्वेक्तबीजापवादः ।
मातङ्ग्यन्ता इत्यस्य पश्चात्तनेन सम्बन्धः ।
ततः साधकः विभक्तैर्मूलमन्त्रार्णैः षडङ्गानि कुर्वीतेति सम्बन्धः ।
साधक इत्यनेन ज्ञानैश्वर्यादियोगः सूचितः ।
विभागमाह वर्णैरिति ॥ १०५-१०८ ॥
मूर्द्धपादास्यगुह्येषु हृदम्भोजे प्रविन्यसेत् ।
द्राविणीं क्षोभिणीं भूयो वर्द्धनीं मोहनीं पुनः ॥ १०९ ॥
आकर्षणीं स्वनामादिबीजाद्या शुभलक्षणाः ।
स्वनामेति ।
स्वनामादौ बीजाद्याः पूर्वेक्तद्रामादिबीजादिकाः मातङ्ग्यन्ता न्यसेदिति सम्बन्धः ।
शुभलक्षणा इत्यन्वर्थाभिधाना इत्यर्थः ॥ १०९-११० ॥
मातङ्ग्यन्तांस्ततो न्यस्येन्मन्मथान् वदनांसयोः॥ ११० ॥
पार्श्वकट्योर्नाभिदेशे कटिपार्श्वांसके पुनः ।
बीजत्रयादिकान्मन्त्री मन्मथं मकरध्वजम् ॥ १११ ॥
मदनं पुष्पधन्वानं पञ्चमं कुसुमायुधम् ।
षष्ठं कन्दर्पनामानं मनोभवरतिप्रियौ ॥ ११२ ॥
ततो मातङ्ग्यन्तान् मन्मथान् न्यसेदिति सम्बन्धः ।
वदनांसयोरिति वामां- सादारभ्य न्यासः ।
बीजत्रयादिकानिति मन्त्राद्यबीजत्रयाद्यान् ॥ ११०-११२ ॥
मातङ्ग्यन्तास्तनौ न्यस्येत् स्थानेष्वेतेषु मन्त्रवित् ।
प्रथमाऽनङ्गकुसुमा भूयोऽन्याऽनङ्गमेखला ॥ ११३ ॥
अनङ्गमदना तद्वदनङ्गमदनातुरा ।
अनङ्गमदनवेगा भूयश्चाऽनङ्गसम्भवा ॥ ११४ ॥
सप्तम्यनङ्गभुवनपालिनी स्यादथाऽष्टमी ।
अनङ्गशशिरेखाऽन्या मातङ्ग्यन्ताः समीरिताः ॥ ११५ ॥
समीरिता एता मातङ्ग्यन्ताः ।
तनौ एतेषु पूर्वेक्तस्थानेषु न्यसेदिति सम्बन्धः ॥ ११३-११५ ॥
विन्यस्तव्यास्तनौ मूलेऽधिष्ठाने मणिपूरके ।
हृत्कण्ठास्ये भ्रुवोर्मध्ये मस्तके मन्त्रिणा ततः ॥ ११६ ॥
आद्ये लक्ष्मीसरस्वत्यौ रतिः प्रीतिश्च कृत्तिका ।
शान्तिः पुष्टिस्तथा तुष्टिर्मातङ्गीपदशेखराः ॥ ११७ ॥
मूलमन्त्रं प्रविन्यस्येन्निजमूर्द्धनि मन्त्रवित् ।
आधारदेशेऽधिष्ठाने नाभौ पश्चादनाहते ॥ ११८ ॥
कण्ठे वक्त्रे भ्रुवोर्मध्ये मस्तके विन्यसेत् क्रमात् ।
ब्राह्म्याद्याः पूर्वमुद्दष्टा मातङ्गीपदपश्चिमाः ॥ ११९ ॥
मूले मूलाधारे ।
अधिष्ठाने लिङ्गमूले ।
मणिपूरके नाभौ ।
मातङ्गीपदशेखरा मातङ्ग्यन्ता एता मन्त्रिणा तनौ विन्यस्तव्या इति सम्बन्धः ।
पूर्वमिति षष्ठे ।
मातङ्गीपदं पश्चिममन्तिमं यासां ताः ॥ ११६-११९ ॥
एषु स्थानेषु विन्यस्येदसिताङ्गादिभैरवान् ।
मातङ्ग्यन्तान् न्यसेन्मन्त्री मूलमन्त्रं स्वमूर्द्धनि ॥ १२० ॥
एषु पूर्वेक्तस्थानेषु मातङ्ग्यन्तान् असिताङ्गादिभैरवान् नवमोक्तान् विन्यसेदिति सम्बन्धः ॥ १२० ॥
आधारदेशेऽधिष्ठाने नाभौ पश्चादनाहते ।
कण्ठदेशे भ्रुवोर्मध्ये बिन्दौ भूयः कलापदे ॥ १२१ ॥
निरोधिकायामर्द्धेन्दौ नादनादान्तयोः पुनः ।
उन्मन्यां विष्णुवक्त्रे च ध्रुवमण्डलके शिवे ॥ १२२ ॥
भ्रुवोर्मध्य इत्यारभ्य शिवान्तमूर्द्धेर्द्धादिस्थानानि ज्ञातव्यानि ॥ १२१-१२२ ॥
मातङ्ग्यन्ताः प्रविन्यस्येद्वामां ज्येष्ठामतः परम् ।
रौद्रीं प्रशान्तिं श्रद्धाख्यां पुनर्माहेश्वरीमथ ॥ १२३ ॥
क्रियाशक्तिं सुलक्ष्मीं च सृष्टिसञ्ज्ञां च मोहिनीम् ।
प्रमथां श्वासिनीं विद्युल्लतां चिच्छक्तिमप्यथ ॥ १२४ ॥
ततश्च सुन्दरानन्दां नन्दबुद्धिमिमाः क्रमात् ।
मातङ्ग्यन्ता इमाः प्रविन्यसेदिति सम्बन्धः ।
क्रियाशक्तिमित्येका सृष्टि- सञ्ज्ञामित्येका प्रमथामित्येका सुन्दरानन्दामित्येका ॥ १२३-१२५ ॥
शिरोभालहृदाधारेष्वेता बीजत्रयादिकाः ॥ १२५ ॥
मातङ्ग्यन्ताः प्रविन्यस्येद्यथावद्देशिकोत्तमः।
मातङ्गीं महदाद्यां तां महालक्ष्मीपदादिकाम् ॥ १२६ ॥
सिद्धलक्ष्मीपदाद्यां तां मूलमाधारमण्डले ।
न्यस्य तेनैव कुर्वीत व्यापकं देशिकोत्तमः ।
एवं न्यस्तशरीरोऽसौ चिन्तयेदात्मदेवताम् ॥ १२७ ॥
एता वक्ष्यमाणाः ।
यथावद्देशिकोत्तम इत्यनेन बीजत्रयादिकान् मन्त्रीत्यादौ एता बीजत्रयादिका इत्यन्ते मध्ये च मन्त्रविन्
मन्त्रिणा मन्त्रविन् मन्त्रीति चोक्तत्वात् मध्ये या देवतास्तासामपि बीजत्रयादित्वं ज्ञेयमित्युक्तम् ।
आदिशब्दार्थमाह मातङ्गीमिति ।
महदाद्यां तां महामातङ्गीम् ।
तेनैवेति मूलेन ॥ १२५-१२७ ॥
ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं
न्यस्तैकाङ्घिरं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कह्लाराबद्धमालां नियमितविलसच्चूलिकां रक्तवस्त्रां
मातङ्गीं शङ्खपत्रां मधुमदविवशां चित्रकोद्भासिभालाम् ॥१२८॥
अयुतं प्रजपेन्मन्त्री तद्दशांशं मधूकजैः ।
पुष्पैस्त्रिमधुरोपेतैर्जुहुयान्मन्त्रसिद्धये ॥ १२९ ॥
ध्यायेयमिति ।
चूलिका केशबन्धः ।
शङ्खपत्रं शङ्खगताटङ्कम् ।
चित्रकं तिलकम्।
तथा च त्रिकाण्ड्याम् ।
" तमालपत्रतिलकचित्रकाणि विशेषकम् " इति ।
अत्र ध्यानान्तरं वीणायोनिमुद्रे दर्शयेत् ॥ १२८-१२९ ॥
त्रिकोणकणीकं पद्ममाष्टपत्रं प्रकल्पयेत् ।
अष्टपत्रावृतं बाह्ये वृत्तं षोडशभिर्दलैः ॥ १३० ॥
चतुरस्रसमायुक्तं कान्त्या दृष्टिमनोहरम् ।
एतस्मिन् पूजयेत् पीठे नव शक्तीः क्रमादिमाः ॥ १३१ ॥
विभूतिरुन्नतिः कान्तिः सृष्टिः कीत्तीश्च सन्नतिः ।
व्युष्टिरुत्कृष्टिरृद्धिश्च मातङ्गीपदपश्चिमाः ॥ १३२ ॥
सर्वान्ते शक्तिकमलासनाय नम इत्यथ ।
वाक्शक्तिलक्ष्मीबीजाद्यो मनुरासनसञ्ज्ञकः ॥ १३३ ॥
मूलेन मूत्तीं सङ्कल्प्या तस्यामावाह्य देवताम् ।
अर्चयेद्विधिनाऽनेन वक्ष्यमाणेन मन्त्रवित् ॥ १३४ ॥
त्रिकोणकणीकमिति योनिकणीकम् ॥ १३० ॥
रत्याद्यास्त्रिषु कोणेषु पूजयेत् पूर्ववत् सुधीः ।
हृल्लेखाद्याः पञ्च पूज्या मध्ये दिक्षु च मन्त्रिणा ॥ १३५ ॥
पूर्ववदिति यथान्यस्ता वामकोणादि ।
एवमग्रेऽपि यथान्यासमेव पूजा ।
सा यथापूर्वमिति तुर्येक्त स्थानेषु ॥ १३५ ॥
पाशाङ्कुशाभयाभीष्टधारिण्यो भूतसप्रभाः ।
अङ्गानि पूजयेत्पश्चाद्यथापूर्वं विधानवित् ॥ १३६ ॥
बाणानभ्यर्चयेद्दक्षु पञ्चमं पुरतो यजेत् ।
दलमध्येषु सम्पूज्या अनङ्गकुसुमादयः ॥ १३७ ॥
पाशाङ्कुशाभयाभीष्टधारिण्योऽरुणविग्रहाः।
विधानविदिति कणीकायाम् ।
दिक्ष्विति दिक्केसरेषु ।
पुनरनन्तरम् ।
वल्लकी वीणा ॥ १३६-१३८ ॥
पत्राग्रेषु पुनः पूज्या लक्ष्म्याद्या वल्लकीकराः ॥ १३८ ॥
बहिरष्टदलेष्वर्च्या मन्मथाद्या मदोद्धताः ।
अपराङ्गनिषङ्गाढ्याः पुष्पास्त्रेक्षुधनुर्धराः ॥ १३९ ॥
पत्रस्थाः मातरः पूज्या ब्राह्म्याद्याः प्रोक्तलक्षणाः ।
तदग्रेष्वर्चयेद्विद्वानसिताङ्गादिभैरवान् ॥ १४० ॥
पुनः षोडशपत्रेषु पूज्याः षोडश शक्तयः ।
वामाद्याः कलवीणाभिर्गायन्त्यः श्यामविग्रहाः ॥ १४१ ॥
चतुरस्रचतुदीक्षु चतस्रः पूजयेत् पुनः ।
मातङ्ग्याद्या मदोन्मत्ता वीणाललितपाणयः ॥ १४२ ॥
बहिरष्टदलेषु दलमूलेषु ।
अपराङ्गे पृष्ठभागे ।
निषङ्गस्तणीरः तेनाढ्याः ।
पुष्पास्त्रं पुष्पबाणः ।
प्रोक्तलक्षणाः षष्ठपटलोक्तध्यानाः ॥ १३८-१४२ ॥
आग्नेयकोणे विघ्नेशं दुर्गां नैशाचरे यजेत् ।
वायव्ये वटुकं पश्चादैशान्ये क्षेत्रपं यजेत् ॥ १४३ ॥
लोकपाला बहिः पूज्या वज्राद्यैरायुधैः सह ।
मन्त्रेऽस्मिन् साधिते मन्त्री साधयेदिष्टमात्मनः ॥ १४४ ॥
आग्नेयकोण इति ।
इयं पूजा सर्वशक्तिमन्त्रसाधारणीति ज्ञेयम् ।
अतएव सर्वशक्तिमन्त्राणामन्ते उक्ता ॥ १४३-१४४ ॥
मल्लिकाजातिपुन्नागैर्हेमाद्भाग्यालयो भवेत् ।
फलैबील्वसमुद्भूतैस्तत्पत्रैर्वा हुताद्भवेत् ॥ १४५ ॥
राजपुत्रस्य राज्याप्तिः पङ्कजैः श्रियमाप्नुयात् ।
उत्पलैर्वशयेद्विश्वं लक्ष्मीपुष्पैस्तथा नरः ॥ १४६ ॥
मल्लिकेति त्रितयै पुष्पैरिति ज्ञेयम् ।
फलैरित्यग्रे वक्ष्यमाणत्वात् ॥ १४५-१४६ ॥
बन्धूकपुष्पैर्बकुलैर्जवोत्थैः किंशुकोद्भवैः ।
वश्याय जुहुयान्मन्त्री मधुना सर्वसिद्धये ॥ १४७ ॥
लवणैर्मधुरोपेतैर्हुत्वा कर्षति सुन्दरीम् ।
वञ्जुलस्य समिद्धोमो वृष्टिं वितनुतेऽचिरात् ॥ १४८ ॥
क्षीराक्तैरमृताखण्डैर्हेमो नाशयति ज्वरम् ।
दूर्वाभिरायुराप्नोति कदम्बैर्वश्यमाप्नुयात् ॥ १४९ ॥
अन्नवानन्नहोमेन तण्डुलैर्धनवान् भवेत् ।
सर्वं त्रिमधुरोपेतं होमद्रव्यमुदाहृतम् ॥ १५० ॥
नन्द्यावर्त्तभवैः पुष्पैर्हेमो वाक्सिद्धिदायकः।
निम्बप्रसूनैर्जुर्हुयादीप्सितां श्रियमश्नुते ।
पलाशकुसुमैर्हेमात्तेजस्वी जायते नरः ॥ १५१ ॥
बन्धूकपुष्पैरिति ।
पुष्पपदोपादानात् सान्निध्यात् बकुलादित्रयमपि पुष्पम् कदम्बैरित्यपि पुष्पैः ।
सर्वमिति ।
अन्यगुणानवरुद्धं पूर्वेक्तमग्रिमम् ॥ १४७-१५१ ॥
चन्दनागरुकर्पूररोचनाकुङ्कुमादिभिः ।
वश्याय जुहुयान्मन्त्री वशयेदखिलं जगत् ॥ १५२ ॥
एतानि जप्त्वा तिलकं कुर्याल्लोकप्रियो भवेत् ।
निर्गुण्डीमूलहोमेन निगडान्मुच्यते नरः ॥ १५३ ॥
चन्दनेति शक्तिगन्धाष्टकम् ।
तेन आदिशब्देन जटामांसीकचूररक्तचन्दनानि ।
वशयेदिति ।
अष्टद्रव्यहोमसमुदायफलम् ।
एतानीति कर्पूरकपिचौराणि समभागानीति पूर्वमन्त्रप्रयोगोक्तभागकॢप्तानीत्यर्थः ।
तिलकमिति ।
कन्यया हिमोदकेन कृष्ण- चतुर्दश्यां निशि पिष्टेन एतन्मन्त्रजप्तेन कृतम् ॥ १५२-१५३ ॥
निम्बतैलान्वितैर्लेणैर्हेमः शत्रुविनाशनः ।
हरिद्राचूर्णसम्मिश्रैर्लवणैः स्तम्भयेत्परान् ॥ १५४ ॥
रसवद्भः फलैः पक्वैः पुष्पैः परिमलान्वितैः ।
हुत्वा सम्यगवाप्नोति साधकः सर्वमीप्सितम् ॥ १५५ ॥
निम्बतैलान्वितैरिति ।
तत्तैलाकृष्टिप्रकारो यथा—-
बीजानि जलपिष्टानि कांस्यपात्रे खरातपे ।
स्थापयेत्तस्य तत्तैलं निःसरत्येव नाऽन्यथा ॥ इति ॥
परान् शत्रून् ॥ १५४-१५५ ॥
देवतां जगतामाद्यां मातङ्गीमिष्टदायिनीम् ।
अवाप्तुमिष्टतां वाचं भूषयेद्रत्नमालया ॥ १५६ ॥
मातङ्गीस्तुतिमारभते देवतामिति ।
रत्नमालेति प्रबन्धनाम ।
तद्योगात् स्तुतिनामापि ।
तल्लक्षणमुक्तं भामहेन—-
नेतृप्रसिद्धनामाङ्कं श्लोकयुग्मं शुभावहम् ।
कुर्यादाद्यन्तयोस्तस्य शिखाबन्धं समाधिना ॥
सुभङ्गिः शोभना सा स्यात् रत्नमाला नवाधिका ।
मालायां नवरत्नादौ रचितायामिति क्रमात् ॥
भवन्त्येकादशा श्लोकाः पण्डितप्रमुदाकराः ॥ इति ॥ १५६ ॥
आराध्य मातश्चरणाम्बुजं ते
ब्रह्मादयो विश्रुतकीत्तीमापुः ।
अन्ये परं वाग्विभवं मुनीन्द्राः
परां श्रियं भक्तिभरेण चान्ये ॥ १५७ ॥
नमामि देवीं नवचन्द्रमौले-
र्मातङ्गिनीं चन्द्रकलावतंसाम् ।
आम्नायवाग्भिः प्रतिपादितार्थं
प्रबोधयन्तीं शुकमादरेण ॥ १५८ ॥
विनम्रदेवासुरमौलिरत्नै-
र्नीराजितं ते चरणारविन्दम् ।
भजन्ति ये देवि महीपतीनां
व्रजन्ति ते सम्पदमादरेण ॥ १५९ ॥
नवचन्द्रमौलेर्देवीं पट्टराज्ञीमिति सम्बन्धः ॥ १५७-१५९ ॥
मातङ्गलीलागमने भवत्याः
शिञ्जानमञ्जीरमिषाद्भजन्ते ।
मातस्त्वदीयं चरणारविन्द-
मकृत्रिमाणां वचसां निगुम्फाः ॥ १६० ॥
अकृत्रिमाणां वचसां विगुम्फा वेदाः ॥ १६० ॥
पदात्पदं शिञ्जितनुपुराभ्यां
कृतार्थयन्ती पदवीं पदाभ्याम् ।
आस्फालयन्ती कलवल्लकीं तां
मातङ्गिनीं मद्धृदयं धिनोतु ॥ १६१ ॥
नीलांशुकाबद्ध नितम्बबिम्बां
तालीदलेनाऽपीतकर्णभूषाम् ।
माध्वीमदाघूणीतनेत्रपद्मां
घनस्तनीं शम्भुवधूं नमामि ॥ १६२ ॥
पदात्पदं पदेपदे इत्यर्थः ।
कृतार्थयन्ती स्वगमनेनेति शेषः ।
धिनोतु प्रीणयतु ॥ १६१-१६२ ॥
तडिल्लताकान्तमनर्घ्यभूषं
चिरेण लक्ष्यं नवरोमराज्या ।
स्मरामि भक्त्या जगतामधीशे
बलित्रयाङ्कं तव मध्यविम्बम् ॥ १६३ ॥
कदाचिल्लक्ष्यं कदाचिदलक्ष्यमिति तडिल्लताकान्तम् ।
अनर्घ्यभूषं (अलब्ध- भूषं) निश्चित्य वपुषोऽकरणात् खञ्चेत् शरीरस्थितिः कथमित्याह चिरेणानुमेयं न
प्रत्यक्षदृश्यमिति भावः ॥ १६३ ॥
नीलोत्पलानां श्रियमाहरन्तीं
कान्त्या कटाक्षैः कमलाकराणाम् ।
कदम्बमालाञ्चितकेशपाशां
मातङ्गकन्यां हृदि भावयामः ॥ १६४ ॥
कान्त्या देहकान्त्या नीलोत्पलानां श्रियमाहरन्तीं कटाक्षैः कमलाकराणां श्रियमाहरन्तीमिति सम्बन्धः ।
मातङ्गकन्यामिति ।
मातङ्गपुत्रीरूपामित्यर्थः ॥ १६४ ॥
ध्यायेयमारक्तकपोलकान्तं
विम्बाधरन्यस्तललामरम्यम् ।
आलोलनीलालकमायताक्षं
मन्दस्मितं ते वदनं महेशि ॥ १६५ ॥
स्तुत्याऽनया शङ्करधर्मपत्नीं
मातङ्गिनीं वागधिदेवतां ताम् ।
स्तुवन्ति ये भक्तियुता मनुष्याः
परां श्रियं नित्यमुपाश्रयन्ति ॥ १६६ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
द्वादशः पटलः समाप्तः ॥ १२ ॥
ब्थ् " बि

  विम्बाधर एव न्यस्तं ललामं भूषाविशेषः तेन रम्यम् ॥ १६५-१६६ ॥  

॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां द्वादशः पटलः ॥ १२ ॥
ब्थ् " बि