११

अथैकादशः पटलः

ततो दुर्गामनुं वक्ष्ये दृष्टादृष्टफलप्रदम् ।
मायाऽत्रिः कर्णबिन्द्वाढ्यो भूयोऽसौ सर्गवान् भवेत् ॥ १ ॥
पञ्चान्तकः प्रतिष्ठावान् मारुतो भौतिकासनः ।
तारादिहृदयान्तोऽयं मन्त्रो वस्वक्षरात्मकः ॥ २ ॥
ऋषिश्च नारदश्छन्दो गायत्रं देवता मनोः ।
दुर्गा समीरिता सद्भर्दुरितापन्निवारिणी ॥ ३ ॥
एवं नित्यामन्त्रानुक्त्वा द्वादशगुणिते दुर्गाबीजस्योक्तत्वात् दुर्गामन्त्रान् वक्तुमुप- क्रमते तत इति ।
मन्त्रमुद्धरति मायेति ।
माया शक्तिबीजम् ।
अत्रिर्दकारः कर्ण उकारः बिन्दुरनुस्वार एतदाढ्य इत्यनेन दुम् ।
भूयोऽसौ दुकारः सर्गवान् विसर्गयुक्तः ।
अनेन एतादृशमपि बीजमिति सूचितम् ।
एतदर्थमेव सर्गवानित्युक्तिः ।
मन्त्रे तु रेफ एव ।
उपसर्गस्य तादृग्रूपत्वात् ।
पञ्चान्तको गकारः ।
प्रतिष्ठावानाकारयुक्तः ।
तेन गा इति ।
मारुतो यकारः ।
भौतिक एकारस्तदासनस्तेन यै ।
तदुक्तम्—- तारमायास्वबीजानि दुर्गायै हृदयान्तिकः ।
इति ।
साम्प्रदायिकाः मायाबीजानन्तरं कामबीजमाहुः ।
दुं बीजं माया शक्तिः ।
दुरितेत्यादिना विनियोगोक्तिः ॥ १-३ ॥
नमस्कारवियुक्तेन मूलमन्त्रेण साधकः ।
ह्रामाद्यैः सह कुर्वीत षडङ्गानि यथाविधि ॥ ४ ॥
नमस्कारेति ।
मूलमन्त्रेण नमस्कारवियुक्तेन ।
ह्रामाद्यैः ह्रांह्रीमित्याद्यैः सह षडङ्गानि कुर्वीतेति सम्बन्धः ।
प्रयोगस्तु—-ॐ ह्री� दुं दुर्गायै ह्रां हृदयाय नमः ।
ॐ ह्री� दुं दुर्गायै ह्री� शिरसे स्वाहा इत्यादि ।
तदुक्तम्—-
तारो माया च दुर्गायै ह्रामाद्यन्ताङ्गकल्पना ।
इति ।
अत्र चकारेण दुर्गाबीजस्य समुच्चय इति तट्टीकाकारैर्व्याख्यातम् ।
यथा—- विधीति ।
शक्तिषडङ्गमुद्रासूचनम् ॥ ४ ॥
सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुभीर्भुजैः
शङ्ख चक्रधनुःशरांश्च दधती नेत्रैस्त्रिभिः शोभिता ।
आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरा
दुर्गा दुर्गतिहारिणी भवतु वो रत्नोल्लसत्कुण्डला ॥ ५ ॥
सिंहस्थेति ।
आयुधध्यानं वामाद्यूर्द्धयोराद्ये अधस्थयोः परे ।
आमुक्ता धृता अङ्गदादयो ययेति विग्रहः ।
दुर्गतिः दुष्टा गतिर्दारिद्र्यं च ।
सर्वदुर्गामन्त्रेषु ध्यानानन्तर- मियं मुद्रा दर्शनीया—-
मुष्टिं बद्धा कराभ्यां तु वामस्योपरि दक्षिणम् ।
कृत्वा शिरसि सम्पूज्या दुर्गामुद्रेयमीरिता ॥ इति ।
आयुधमुद्रादर्शनं च ॥ ५ ॥
वसुलक्षं जपेन्मन्त्रं तिलैर्मधुरलोलितैः ।
पयोन्धसा वा जुहुयात्तत्सहस्रं जितेन्द्रियः ॥ ६ ॥
पीठमित्थं यजेत् सम्यक् नवशक्तिसमन्वितम् ।
प्रभा माया जया सूक्ष्मा विशुद्धा नन्दिनी पुनः ॥ ७ ॥
सुप्रभा विजया सर्वसिद्धिदा नव शक्तयः ।
अज्भिर्ह्रस्वत्रयक्लीबरहितैः पूजयेदिमाः ॥ ८ ॥
वसुलक्षमष्टलक्षम् ।
पयोन्धसा पायसेन ।
तत्सहस्रमष्टसहस्रम् ।
इत्थं वक्ष्य- माणप्रकारेण ।
सर्वसिद्धिदेति शक्तिनाम ।
आसां ध्यानमन्यत्रोक्तम्—-
आदिस्वरैबीन्दुयुतैरेकाराद्यैः षडक्षरैः ।
एताः सर्वा जवापुष्परक्तवर्णाः स्मिताननाः ॥
चापबाणाञ्जलिकराः शुक्लमाल्यानुलेपनाः ।
आत्मत्रयान्ते सम्पूज्या दलमध्येष्वनुक्रमाद् ॥ इति ।
अज्मिरिति ।
ह्रस्वत्रयम् अ इ उ क्लीबाश्च ।
तद्रहितैरज्भिः स्वरैः नव- भिरित्यर्थः ।
प्रयोगस्तु ।
आं प्रभायै नम इत्यादि ॥ ६-८ ॥
प्रणवानन्तरं वज्रनखदंष्ट्रायुधाय च ।
महासिंहाय वर्मास्त्रं नतिः सिंहमनुर्मतः ॥ ९ ॥
दद्यादासनमेतेन मूत्तीं मूलेन कल्पयेत् ।
तस्यां सम्पूजयेन्मूर्तौ देवीमावाह्य मन्त्रवित् ॥ १० ॥
सिंहमन्त्रमाह प्रणवेति ।
प्रणवानन्तरं प्रणवमुच्चार्य ।
वज्रनखदंष्ट्रायुधायेति सिंहाय इति च स्वरूपम् ।
वर्म हु� अस्रं फट् ।
नतिर्नमःपदम् ॥ ९-१० ॥
अङ्गावृतिं पुराऽभ्यर्च्य शक्तीः पत्रेषु पूजयेत् ।
जया च विजया कीत्तीः प्रीतिः पश्चात् प्रभा पुनः ॥ ११ ॥
श्रद्धा मेधा श्रुतिः प्रोक्ता स्वनामाद्यक्षरादिकाः ।
पत्रागेरष्वर्चयेदष्टावायुधानि यथाक्रमात् ॥ १२ ॥
चक्रशङ्खगदाखड्गपाशाङ्कुशशरान् धनुः ।
लोकेश्वरांस्ततो बाह्ये तेषामस्त्राण्यनन्तरम् ॥ १३ ॥
अभ्यर्च्येति तुर्येक्तरीत्या ।
जयेति ।
आसां ध्यानमुक्तमन्यत्र—-
भ्राजन्मरकतप्रख्याः सर्वाश्च शशिभूषणाः ।
दधत्यः सायकं हस्तैः शूलकार्मुकतर्जनीः ।
जयाद्याः पूजनीयाः स्युर्जमित्याद्यर्णसंयुताः ॥ इति ॥ ११-१३ ॥
इत्थं जपादिभिर्मन्त्री मन्त्रे सिद्धे विधानवित् ।
कुर्यात् प्रयोगानेतेन मनुना स्वमनीषितान् ॥ १४ ॥
विधानवित् प्रयोगान् कुर्वीतेति ।
अनेनैतदुक्तं भवति ।
श्रीबीजादिः श्रिये ।
मृत्युञ्जयादिः दीर्घायुषि ।
नृसिंहबीजादिः वैरिजये ।
सर्वपुटितत्वे सर्वकामावाप्तिः ।
कामादित्वे पुत्रावाप्तिरिति ।
एतद्बीजयोगः शक्त्यनन्तरं ज्ञेयः ॥ १४ ॥
प्रतिष्ठाप्य विधानेन कलशान् नव शोभनान् ।
रत्नहेमादिसंयुक्तान् पदेषु नवसु स्थितान् ॥ १५ ॥
मध्यस्थे पूजयेद् देवीमितरेषु जयादिकाः ।
सम्पूज्य गन्धपुष्पाद्यैरभिषिञ्चिन्नराधिपम् ॥ १६ ॥
राजा विजयते शत्रून् साधको विजयश्रियम् ।
प्राप्नोति रोगी दीर्घायुः सर्वव्याधिविवजीतः ॥ १७ ॥
बन्ध्याऽभिषिक्ता विधिना लभते तनयं वरम् ।
मन्त्रेणाऽनेन सञ्जप्तमाज्यं क्षुद्रज्वरापहम् ।
गभीणीनां विशेषेण जप्तं भस्मादिकं तथा ॥ १८ ॥
प्रतिष्ठाप्य विधानेनेति मातृकापटलोक्तविधिना ।
हेमादीत्यादिशब्देन शाक्तं गन्धाष्टकम् ।
पदेषु नवसु इति नवनाभमण्डलस्येति शेषः ।
गन्धपुष्पाद्यैरित्याद्यशब्देन धूपदीपनैवेद्यानि ।
सम्पूज्येत्युपलक्षणम् ।
तेन सम्पातयुक्ताः जप्ताश्चेति ज्ञेयम् ।
यदाहुः—- कषायसलिलैः कुम्भानभिपूर्य यथाविधि ।
त्रिसहस्रं जपेन्मन्त्रं घृतसम्पातसंयुतम् ॥
तैश्चाभिषिक्तः शुद्धात्मा पूर्वेद्युः समुपोषितः ।
जयेच्छत्रून् क्षणाद्राजा प्राप्नोति विजयं श्रियम् ॥
रोगी तु ग्रहपीडाभ्यां मुच्यते व्याधिभिस्तथा ।
इति ।
आज्यं भक्षितमिति शेषः ।
भस्मादिकं घृतमिति शेषः ।
आदिशब्दाद् गन्ध- पुष्पादि ।
तथेति क्षुद्रग्रहापहमित्यर्थः ॥ १५-१८ ॥
मध्ये तारे बीजमन्तःस्थसाध्यं
पत्रेष्वष्टौ मन्त्रवर्णान् विलिख्य ।
त्रिष्टुब्वीतं वेष्टितं मातृकार्णै-
र्यन्त्रं दौर्गं भूपुरस्थं विदध्यात् ॥ १९ ॥
क्षुद्रभूतमहारोगचौरसर्पनिवारणम् ।
विजयश्रीप्रदं पुंसां गभीणीनां सुखप्रदम् ॥ २० ॥
यन्त्रमाह मध्य इति ।
मध्ये तारे इति व्यधिकरणे सप्तम्यौ ।
मध्ये कणीकायाम्।
तारे प्रणवे ।
बीजं दौर्गम् ।
अन्तःस्थसाध्यं मध्यस्थितसाध्यसाधकनामकर्मसहितं विलिख्येति सम्बन्धः ।
त्रिष्टुप् जातवेदाः स द्वाविंशे वक्ष्यते ॥ १९-२० ॥
भान्तं वियत् सनयनं श्वेतो मदीनि ठद्वयम् ।
अष्टाक्षरीयमाख्याता विद्या महिषमदीनी ॥ २१ ॥
महिषहिंसिके हु�फठृदयं परिकीत्तीतम् ।
महिषशत्रो शार्ङ्गी हु�फट्शिरोऽङ्गं समुदाहृतम् ॥ २२ ॥
महिषं भीषयद्वन्द्वं हु�फडन्तः शिखामनुः ।
महिषं हनयुग्मान्ते देवि हु�फट्तनुछदम् ॥ २३ ॥
महिषान्ते सूदनि हु�फडन्तमस्त्रमीरितम् ।
मन्त्रैरेतैर्जातियुक्तैः पञ्चाङ्गानि प्रकल्पयेत् ॥ २४ ॥
महिषमदीनीमन्त्रमाह भान्तमिति ।
भान्तं मकारः वियत् हकारः सनयन- मिकारसहितस्तेन महि ।
श्वेतः ष ।
मदीनि स्वरूपम् ।
ठद्वयं स्वाहा ।
उक्तं हि नारायणीये—-विषं हि मज्जा कालोऽग्निरात्रिनिष्ठो नि ठद्वयम् ।
इति ।
मं बीजं स्वाहा शक्तिः ।
अस्य शाकवत्सो नाम ऋषिः ।
प्रकृति छन्दः ।
अन्ये मार्कण्डेयमृषिमाहुः ।
शिखावर्मणो मन्त्रेऽपि महिषशब्दो द्वितीयान्तो ज्ञेयः ॥२१-२४॥
गारुडोपलसन्निभां मणिमौलिकुण्डलमण्डितां
नौमि भालविलोचनां महिषोत्तमाङ्गनिषेदुषीम् ।
चक्रशङ्खकृपाणखेटकबाणकार्मुकशूलकान्
तर्जनीमपि बिभ्रतीं निजबाहुभिः शशिशेखराम् ॥ २५ ॥
ध्यानमाह गारुडेति ।
गारुडोपलः गरुडोद्गारमणिः ।
आयुधानि दक्षाद्यूर्द्धयोराद्ये तदधोधस्थयोः परे परे ।
तर्जनीमिति तर्जनीमुद्राम् ।
तल्लक्षणं यथा—-
तर्जन्येकाकिनी तूर्द्धा शेषाः सम्मिलितास्त्वधः ।
मुद्रेयं तर्जनी प्रोक्ता वक्तुः श्रोतुस्तु भीतिदा ॥ इति ॥
तदुक्तमीशानसंहितयाम्—-
ध्यायेच्छ्यामां महादुर्गां सर्वाभरणभूषिताम् ।
जटामुकुटशोभाढ्यां स्फुरच्चन्द्रकलान्विताम् ॥
पीताम्बरधरां देवीं पीनोन्नतकुचद्वयाम् ।
चक्रशङ्खलसद्धस्तां तदधः खड्गखेटकौ ॥
बाणचापौ च तदधः सशूलां तर्जनीमधः ।
इति ॥ २५ ॥
अष्टलक्षं जपेन्मन्त्रं तत्सहस्रं तिलैः शुभैः ।
हुत्वा प्रागीरिते पीठे यजेन्महिषमदीनीम् ॥ २६ ॥
प्रागीरिते अव्यवहिते दौर्गे पीठे ॥ २६ ॥
सम्पूज्याऽङ्गानि पत्रेषु दुर्गाख्यां वरवणीनीम् ।
आर्याह्वयां तृतीयां च चतुर्थीं कनकप्रभाम् ॥ २७ ॥
पञ्चमीं कृत्तिकासज्ञां षष्ठीमप्यभयप्रदाम् ।
कन्यां सुरूपां प्रभजेन्मन्त्री दीर्घस्वरैः क्रमात् ॥ २८ ॥
सम्पूज्याऽङ्गानीति केसरेष्विति शेषः ।
पत्रेष्वित्यग्रिमेण सम्बध्यते ।
दीर्घ- स्वरैरिति क्लीबद्वयान्त्यरहितैरिति शेषः ।
दीर्घशब्देन पारिभाषिकग्रहणम् ।
तेन आ ई ऊ ए ए ओ औ अः एभिरष्टभिरित्यर्थः ।
नारायणीये पूर्वपटले—-
अनन्तश्चाघीयोन्यादित्युक्त्वा उत्तरपटले आद्यैः स्वरैः क्रमादित्युक्तम् ।
एत- दभिप्रायेणैवापेक्षितार्थद्योतनिकायां व्याख्यातम् आद्यैः आ ई ऊ ए ए ओ औ अः इति स्वरैरिति ॥ २७-२८ ॥
यजेदग्रेष्वायुधानि चक्रशङ्खासिखेटकान् ।
बाणं बाणासनं शूलं कपालं यादिभिः क्रमात् ॥ २९ ॥
अग्रेषु पत्राग्रेषु ।
यादिभिरिति हान्तैरित्यर्थः ॥ २९ ॥
लोकपालाः पुनः पूज्यास्तदस्त्राणि ततः परम् ।
वशयेत्तिलहोमेन नरा नरपतीनपि ॥ ३० ॥
सिद्धार्थैर्जुहुयान्मन्त्री रोगान्मुच्यते तत्क्षणात् ।
पद्मैर्हुत्वा जयेच्छत्रून् दूर्वाभिः शान्तिमाप्नुयात् ॥ ३१ ॥
पलाशकुसुमैः पुष्टिं धान्यैर्धान्यश्रियं व्रजेत् ।
काकपक्षैः कृतो होमो द्वेषं वितनुते नृणाम् ॥ ३२ ॥
वशयेदिति कामबीजादित्वम् ।
मन्त्रीत्यनेन मृत्युञ्जयादित्वं सूचितम् ।
जयेदिति स्वबीजादित्वम् ।
शान्तिमिति नृसिंहादित्वम् ।
पुष्टिमिति तार्त्तीयादित्वम् ।
धान्यश्रिय- मिति श्रीबीजादित्वम् ॥ ३०-३२ ॥
मरीचहोमान् मरणं रिपुराप्नोति सर्वथा ।
क्षुद्रारिचोरभूताद्यान् ध्यात्वा देवीं विनाशयेत् ॥ ३३ ॥
मरीचेति ।
मरीचशब्दो दीर्घमध्योऽप्यस्ति ।
तथा च शब्दभेदप्रकाशे " मरीचं मरिचं तथा " इति ।
मरणमिति स्वबीजादित्वम् ॥ ३३ ॥
तारो दुर्गेयुगं रक्तमन्त्यं ढान्तं सलोचनम् ।
द्विठान्ता जयदुर्गेयं विद्या वेद्या दशाक्षरी ॥ ३४ ॥
जयदुर्गामन्त्रमाह तार इति ।
तारः प्रणवः ।
दुर्गेयुगं दुर्गे दुर्गे ।
रक्तं रेफः ।
अन्त्यं क्षः ढान्तं णः सलोचनम् इकारसहितमित्युभयविशेषणम् ।
तेन क्षिणि ।
द्विठान्ता स्वाहान्ता ।
तदुक्तं नारायणीये—-
तारो दुर्गेद्वयं वह्निरन्त्यं ढान्तं सदृक् शिरः ।
इति ।
अपेक्षितार्थद्योतनिकायां व्याख्यातम् ।
सदृगित्युभयविशेषणम् ।
तेन क्षिणीति ।
मार्कण्डेयो मुनिः बृहती छन्दः प्रणवो बीजं स्वाहा शक्तिः ॥ ३४ ॥
तारादि दुर्गे हृदयं दुर्गे शिर उदीरितम् ।
दुर्गायै स्याच्छिखा वर्म भूतरक्षिणि कीत्तीतम् ॥ ३५ ॥
तारादि दुर्गेद्वितयं रक्षिण्यक्षि समीरितम् ।
तारादि दुर्गेयुगलं रक्षिण्यस्त्रं समीरितम् ॥ ३६ ॥
तारादीति वर्मान्तं सम्बध्यते ॥ ३५-३६ ॥
कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥३७॥
कालेति ।
त्रिशिखं त्रिशूलम् ।
आयुधध्यानमष्टाक्षरीवत् ।
सिद्धिकामैरिति विनियोगोक्तिः ॥ ३७ ॥
बाणलक्षं जपेन्मन्त्रं घृतेन जुहुयात्ततः ।
दशांशं संस्कृते वह्नौ ब्राह्मणानपि भोजयेत् ॥ ३८ ॥
अष्टाक्षरोदिते पीठे पूजयेत् पूर्ववत् सुधीः ।
मन्त्रं जपन् विशेद् युद्धे शत्रून् हन्याद्विशेषतः ॥ ३९ ॥
प्रजपेद् व्यवहारादौ तत्रापि विजयी भवेत् ।
अर्चयेदस्त्रशस्त्राणि जयार्थी विद्ययाऽनया ॥ ४० ॥
बाणलक्षं पञ्चलक्षम् ।
ब्राह्मणानपि भोजयेदित्यनेन पुरश्चरणे ये दश प्रकारास्ते सूचिताः ।
तदुक्तम्—-
जपो होमस्तर्पणं च स्वाभिषेकोऽघमर्षणम् ।
सूर्यार्ध्यं जलपानं स्यात् प्रणामं देवपूजनम् ॥
ब्राह्मणानां भोजनं च पूर्वपूर्वदशांशतः ।
इति ।
इदं सर्वमन्त्रपुरश्चरणे ज्ञेयम् ।
केचन प्रकारपञ्चकमेवाहुः—-
जपो होमस्तर्पणं च पूजा ब्राह्मणभोजनम् ।
इति ।
सर्वत्र जपादिभिरित्यादिशब्दार्थेऽयमेव ज्ञेयः ।
अष्टाक्षरोदिते दुर्गाष्टाक्षरोदिते ।
सुधीरिति ।
अनेन अत्रापि प्रयोगे प्रणवानन्तरं स्वबीजादिप्रक्षेप इति ज्ञेयम् ।
अस्त्रं बाणादि ।
शस्त्रं खड्गादि ॥ ३८-४० ॥
ज्वलज्वलपदस्यान्ते शूलिनीति पदं वदेत् ।
दुष्टग्रहं हुमस्त्रान्ते वह्निजायावधिर्मनुः ॥ ४१ ॥
भूतेन्द्रियाक्षरैः प्रोक्तो ग्रहक्षुद्रादिनाशकः ।
ऋषिर्दीर्घतमाः प्रोक्तः ककुप् छन्द उदाहृतम् ॥ ४२ ॥
शूलिनी देवता प्रोक्ता समस्तसुरवन्दिता ।
दुर्गे हृद्वरदे शीर्षं विन्ध्यवासिनि तच्छिखा ॥ ४३ ॥
असुरान्ते मदीनि स्याद् युद्धपूर्वप्रिये पुनः ।
त्रासयद्वितयं वर्म देवसिद्धसुपूजिते ॥ ४४ ॥
नन्दिनि स्याद्रक्षयुगं महायोगेश्वरि क्रमात् ।
शूलिन्याद्या हम्फडन्ताः पञ्चाङ्गमनवः स्मृताः ॥ ४५ ॥
शूलिनीदुर्गामन्त्रमाह ज्वलेति ।
अत्र भूतानि पञ्च ।
इन्द्रियाणि ज्ञानकर्मेन्द्रियाणि दश ।
तेषां सङ्कलने पञ्चदशसङ्ख्या भवन्ति ।
न तु " अङ्कानां वामतो गतिः " इति क्रमेण मन्त्राक्षरगणना विधेया ।
तथा सति पञ्चोत्तरशताक्षरसङ्ख्या भवति ।
भूतेन्द्रियाक्षरैः पञ्चदशाक्षरैः।
हु� बीजं स्वाहा शक्तिः ।
ग्रहेत्यादि विनियोगोक्तिः ।
ग्रहाणामष्टा- दशानाम् ।
क्षुद्राणां स्तम्भविद्वेषोत्सादोच्चाटनभ्रममारणव्याधीनाम् ।
आदिशब्दात् भूत- प्रेतडाकिन्यादीनाम् ।
नाशक इत्यनेन विनियोगं वदता प्रणवशक्तिनृसिंहदुर्गाबीज- पुटितत्वं वषडन्तत्वमपि सूचितम् ।
दुर्गे हृदिति हृन्मन्त्रः ।
एवं शीर्षेऽपि ।
तच्छिखेति ।
तस्य मन्त्रस्य शिखामन्त्र इत्यर्थः ।
युद्धपूर्वप्रिये युद्धप्रिये ।
देवेत्यादि महायोगेश्वरि पर्यन्तम् ।
अस्त्रमिति शेषः ।
" वर्मासुरान्ते मदीनि युद्धपूर्वप्रिये पुनः ।
त्रासयद्वितयं चास्त्रम् " ।
इति वा पाठः ।
पञाङ्गमनवः क्रमात् प्रत्येकं शूलिन्याद्यां हु�फडन्ताः स्मृता इति सम्बन्धः ।
प्रयोगस्तु—-शूलिनि दुर्गे हु�फट् हृदयाय नम इत्यादि ।
साम्प्रदायिकास्तु पूर्वपूर्वानुविद्धत्वमङ्गानां वदन्ति ।
तेन शूलिनि दुर्गे वरदे हु� फट् शिरसे स्वाहा इत्यादि प्रयोगः ।
अन्ये तु कामनाविशेषेऽन्यथाऽङ्गान्याहुः ।
दुर्गे हृदयमाख्यातं वरदे तच्छिरः शिखा ।
विन्ध्यवासिनि वर्म स्यादसुरान्ते तु मदीनि ॥
युद्धप्रिये युतं चास्त्रं त्रासयद्वितयं भवेत् ।
एषामादौ शूलिनीति पदं तारादिकं वदेत् ॥
अवसाने तु सर्वेषां देवसिद्धसुपूजिते ।
नन्दिनि रक्षयुग्मं च महायोगेश्वरीत्यपि ॥
वर्मास्त्रबीजे चामूनि ग्रहरक्षाकराणि हि ।
पञ्चाशदावृत्तिन्यासाज्ज्वरस्तीव्रोऽपि नश्यति ॥ इति ।
तत्र प्रयोगः ।
ॐ शूलिनि दुर्गे देवसिद्धसुपूजिते नन्दिनि रक्षरक्ष महायोगेश्वरि हु� फडित्यादि ।
एतदभिप्रायेणैवाचार्यैः—-
वर्म चासुरमदीन्या युद्धपूर्वप्रिये तथा ।
त्रासद्वितयं चास्त्रम् ।
इति पठित्वा देवेत्यादि पठित्वा अङ्गकर्मैव रक्षाकृत् प्रोक्तं ग्रहनिवारणम् ।
इति पठितम् ।
अत्रापि मल्लिखितपाठे सर्वं समञ्जसम् ।
क्रमादित्यनेन साम्प्रदायिकानुसारिपूर्वपूर्वानुविद्धत्व- मपि सूचितमेव ॥ ४१-४५ ॥
अध्यारूढां मृगेन्द्रं सजलजलधरश्यामलां हस्तपद्मैः
शूलं वाणं कृपाणमरिजलजगदाचापपाशान् वहन्तीम् ।
चन्द्रोत्तंसां त्रिनेत्रां चतसृभिरभितः खेटकान् बिभ्रतीभिः
कन्याभिः सेव्यमानां प्रतिभटभयदां शूलिनीं भावयामि ॥४६॥
अध्यारूढामिति ।
मृगेन्द्रं सिंहम् ।
अराणि विद्यन्ते यत्र तत् ।
अरि चक्रम् ।
जलजं शङ्खः ।
आचार्याश्च—-
बिभ्राणा शूलबाणास्यरिसदरगदाचापपाशान् कराब्जैः ।
इति ॥
ग्रन्थकृञ्च पूजावसरे " दलाग्रेषु तदस्त्राणि चक्रं शङ्खमसिं पुनः " इति शङ्ख- पूजामेव वक्ष्यति ।
चतसृभिरिति ।
जया विजया भद्रा शूलकात्यायिन्याख्याभिरित्यर्थः।
असिनेति सहार्थे तृतीया ।
तद्योगाभावेऽपि वृद्धो यूनेतिवत् ।
दक्षिणाधस्ताद्वामाधः- पर्यन्तमायुधध्यानम् ॥ ४६ ॥
मनुमेनं जपेन्मन्त्री वर्णलक्षं विचक्षणः ।
सपीषाऽन्नेन होमस्तु तद्दशांशमितो भवेत् ॥ ४७ ॥
वर्णलक्षं मन्त्रवर्णपरिमितलक्षम् ।
विचक्षण इति ।
पुरश्चरणे ये नियमास्तज्ज्ञ इत्यर्थः ॥ ४७ ॥
प्रागुक्ते पूजयेत् पीठे वक्ष्यमाणेन वर्त्मना ।
विधाय पूजामङ्गानां पूज्याः पत्रेषु शक्तयः ॥ ४८ ॥
दुर्गाद्या वरदा विन्ध्यवासिन्यसुरमदीनी ।
युद्धप्रिया पञ्चमी स्यात् देवसिद्धसुपूजिता ॥ ४९ ॥
सप्तमी नन्दिनी प्रोक्ता महायोगेश्वरी परा ।
दलाग्रेषु तदस्त्राणि शङ्ख चक्रमसिं पुनः ॥ ५० ॥
गदेषुचापशूलानि पाशं पश्चाद् दिशाधिपान् ।
इत्थं जपादिभिः सिद्धः कुर्यात् कर्म निजेप्सितम् ॥ ५१ ॥
अष्टोत्तरसहस्रं यस्तिलैस्त्रिमधुराप्लुतैः ।
नित्यं प्रजुहुयात्तस्य शक्तिः स्यादतिमानुषी ॥ ५२ ॥
अष्टोत्तरशतं नित्यं सपीषा जुहुयान्नरः ।
वाञ्छितं वत्सरादर्वाक् प्राप्नुयान्महतीं श्रियम् ॥ ५३ ॥
प्रागुक्ते दुर्गाष्टाक्षरोक्ते ।
पूजां विधायेति केसरेष्विति शेषः ।
परेत्यष्टमी ।
आसां ध्यानमुक्तमन्यत्र—-अम्बुदाभा धनुर्बाणकरा दुर्गादिका यजेत् ।
इति ।
त्रिमधुराप्लुतैः पयोमधुघृतप्लुतैः ।
पयःस्थाने शर्करेति केचित् ।
शक्तिः स्यादतिमानुषीति वत्सरादर्वागिति ज्ञेयम् ।
तदुक्तम्—-अप्रतिहताऽस्य शक्तिर्भूयात् प्रागेव वत्सरतः ।
इति ॥ ४८-५३ ॥
दूर्वाहोमो भवेन्नृणां सर्ववाञ्छितसिद्धिदः ।
छुरिकाद्यानि शस्त्राणि जप्तानि मनुनाऽमुना ॥ ५४ ॥
सम्पाताज्यविलिप्तानि वितरन्ति जयश्रियम् ।
अश्वत्थार्कसमिद्भर्वा तिलैर्वा मधुरोक्षितैः ।
होमो वशयति क्षिप्रमीप्सितान् मन्त्रिणो नरान् ॥ ५५ ॥
दूर्वाहोम इति ।
अष्टोत्तरशतमिति ज्ञेयम् ।
तदुक्तम्—-
दूर्वया त्रिकयुजेप्सितं लभेत् सम्यगष्टशतसङ्ख्यया हुतात् ।
इति ।
छुरिकाद्यानीत्यादिशब्देन कृपाणनखराद्यानि ग्राह्याणि ।
सम्पाताज्यविलिप्तानि पश्चादमुना मनुना जप्तानीति सम्बन्धः ।
सम्पातार्थं होमः पञ्चसहस्रः ।
जप्तानीति ।
दशसाहस्रम् ।
तदुक्तम्—-खड्गे तीक्ष्णे समावाह्य गन्धाद्यैरभिपूज्य ताम् ।
आज्येन जुहुयात्पञ्चसहस्रं प्रोक्तमार्गतः ॥
सम्पाताज्यविलिप्तोऽसौ प्रजप्तो मनुनाऽमुना ।
पङ्क्तिसङ्ख्यासहस्रेण शक्तो मन्त्रविशेषवित् ॥
तत्खड्गहस्तो योद्धा स्याद्रिपुसेनाविमर्दकः ।
इति ।
अत्र खड्ग इत्यायुधोपलक्षणम् ।
" छुरिकाकृपाणनखराः " इत्याचार्येक्तेः ।
अश्वत्थेति ।
होमसङ्ख्या द्वादशसहस्रं ज्ञेया ।
तदुक्तम्—-
आर्कैर्मन्त्रीं त्रिमधुरयुतैरर्कसाहस्रमिध्मै-
राश्वत्थैर्वा त्वतिविशदचेतास्तिलैर्वा जुहोतु ।
इति ॥
क्षिप्रमित्यनेनैतदुक्तं भवति ।
रक्तवर्णां पाशाङ्कुशधनुर्बाणधरां देवीं ध्यात्वा पाशेन साध्यस्य बन्धः अङ्कुशेनाकर्षणमिति चिन्तयेत्
मन्त्रिण इति षष्ठी ।
नरानिति लिङ्गमविवक्षितम् ॥ ५४-५५ ॥
उद्यदायुधहस्तां तां देवीं कालधनप्रभाम् ।
ध्यात्वात्मानं जपेन्मन्त्रं स्पृष्ट्वार्त्तं मुञ्चति ग्रहः ॥ ५६ ॥
सर्पाखुवृश्चिकादीनां विषमाशु विनाशयेत् ।
मनुनाऽनेन विधिवन्मन्त्रविद्देवताधिया ॥ ५७ ॥
उद्यदिति ।
एवम्भूतदेवीरूपमात्मानं ध्यात्वा आर्त्तं स्पृष्ट्वा मन्त्रं जपेदिति सम्बन्धः ।
मुञ्चति ग्रह इति ।
आवेश्य सन्त्याजित इति शेषः ।
आवेश्य क्षणमिवेत्युक्तेः।
ग्रह इति वचनमविवक्षितम् ।
तेनाष्टादश ग्रहा इत्यर्थः ।
आवेशनप्रकारस्तु—-
सम्प्रोक्तलक्षणैः सम्यग्विज्ञायाऽष्टादश ग्रहान् ।
ग्रस्तमूध्नी विचिन्त्यैतान् द्विभुजान् स्रस्तलोचनान् ॥
ज्वालामयैर्मन्त्रजापी पातयेच्चुलुकोदकैः ।
आविष्टं क्षणमात्रेण त्याजयेदखिलान् ग्रहान् ।
इति ॥
सन्त्याजनप्रकारस्तु ।
आत्मरोगिणोर्मध्ये उक्तरूपां दुर्गां ध्यात्वा कनिष्ठादित्रयम् अङ्गुष्ठेनाऽवष्टभ्य दृढमुष्टिं कृत्वा तर्जनीं
दक्षिणकर्णपार्श्वें प्रसार्य अतिद्रुतं चक्रवद् भ्रामयेदित्यनया चक्रमुद्रया मोचयेदिति ।
तदुक्तम्—-
अन्तराथ पुनरात्मरोगिणोरम्बिकामपि निजायुधाकुलाम् ।
संविचिन्त्य जपतोऽरिमुद्रया विद्रवन्त्यवशविग्रहा ग्रहाः ॥ इति ।
सर्पेति ।
आदिशब्देन श्वादीनां ग्रहणम् ।
मन्त्रविद्विधिवद्देवताधिया आत्मन इति शेषः ।
विधिवदनेन मनुना विषं विनाशयेदिति सम्बन्धः ।
विधिवद्देवताबुद्धिस्तु ध्यानविशेषेण ।
तदुक्तम्—-
अहिमूषिकवृश्चिकादिजं वा बहुपात्कुक्कुरलूतिकोद्भवं वा ।
विषमाशु विनाशयेन्नराणां प्रतिपत्त्यैव च विन्ध्यवासिनी सा ॥ इति ।
ध्यानविशेषस्त्वन्यत्रोक्तः—-
शरच्छशाङ्कसङ्काशां स्मितवक्त्राम्बुजोज्ज्वलाम् ।
चक्रशङ्खसुधाकुम्भयुग्महस्ताम्बुजां शुभाम् ॥
मुग्धञ्च विषमेतेन सिञ्चन्तीं सितभूषणाम् ।
अमृतार्द्रामिमां दुर्गां ध्यायन् हन्याद्विषं नरः ॥ इति ॥ ५६-५७ ॥
मन्त्रेणानेन सञ्जप्तान् बाणानादाय साधकः ।
विमुञ्चेत् प्रतिसेनायां सा द्रुतं विद्रुता भवेत् ॥ ५८ ॥
सञ्जप्तान् बाणानिति ।
बाणाग्रे तां देवीं ध्यात्वेति ज्ञेयम् ।
तदुक्तम्—-
आधाय बाणे निशिते च देवीं क्षेमङ्करीं मन्त्रमिमं जपित्वा ।
इति ॥ ५८ ॥
शूलपाशधरां देवीं ध्यात्वात्मानमनाकुलः ।
प्रविशेद् युद्धदेशं यो जित्वा याति स निर्व्रणः ॥ ५९ ॥
प्रविशेदिति ।
मन्त्रं जपन्निति शेषः ।
तदुक्तम्—-
आत्मानमार्यां प्रतिपद्य शूलपाशान्वितां वैरिबलं प्रविश्य ।
मन्त्रं जपन्नाशु परायुधानि गृह्णाति मुष्णाति च बोधमेषाम् ॥ इति ।
निर्व्रणत्वं होमजननेनायुधग्रहणादिति ज्ञेयम् ।
तन्त्रान्तरे तु—-
श्यामवर्णा महाकाया ज्वलद्वह्निविलोचना ।
पाशं डमरुकं शूलं चूर्णं मोहनसञ्ज्ञितम् ॥
हस्तैश्चतुभीबीभ्राणा नागेन्द्रैः समलङ्कृता ।
अतिदीर्घैर्महाकेशैराकीर्णैः परितश्चमूम् ॥
आच्छादयन्ती कृष्णाभैरट्टहासपरायणा ।
ध्याता दुर्गाऽचिरेणैव मोहयेच्छत्रुवाहिनीम् ॥ इति ॥ ५९ ॥
जुहुयात्तिलसिद्धार्थैर्लक्षमेकं यथाविधि ।
नामयुक्तं जपन्मन्त्रं यस्याऽसौ मृत्युमेष्यति ॥ ६० ॥
यथाविधि नामयुक्तं मन्त्रं जपन् जुहुयादिति सम्बन्धः यथाविधीति ।
पल्लव- प्रकारेण जपे होमे स्वाहादावित्यर्थः ।
तदुक्तम्—-
पल्लवे साध्यनामादौ भवेन्मन्त्रपदक्रमः ।
मारणे चैतदुद्दिष्टम् ।
इति ।
इदन्तु जपकर्मणि ।
होमे तु स्वाहापदात् पूर्वं नामोच्चारणम् ।
उक्तञ्च गौतमेन—-
स सर्वजनमन्त्रेषु तत्र नामानि योजयेत् ।
होमे स्वाहापदात् पूर्वं मन्त्रान्ते जपकर्मणि ॥ इति ।
तदुक्तमाचार्यैः—-
तिलसिद्धार्थैर्जुहुयाल्लक्षं मन्त्री सपत्ननामयुतम् ।
स तु रोगाभिहतात्मा मृतिमेति न तत्र सन्देहः ॥ इति ॥ ६० ॥
गुटिकां गोमयोत्पन्नां हुत्वाऽष्टशतसङ्ख्यया ।
सप्ताहात् कुरुते मन्त्री विद्वेषं स्निग्धयोमीथः ॥ ६१ ॥
गृहीत्वा गोमयं व्याम्नि त्रिसहस्रं जपेत्ततः ।
गमिष्यतां द्वारदेशे निखातं स्तम्भनं भवेत् ॥ ६२ ॥
बहुनोक्तेन किं सर्वं साधयेन्मनुनाऽमुना ।
अष्टशतेत्यष्टोत्तरशतम् ।
विद्वेषमित्यत्र वियोगमित्यपि ।
द्विष्टौ मिथो वियोगितौ भवतः ।
इत्युक्तेः ।
ध्यानविशेषोऽन्यत्र—-
दधती मुशलं शूलं गरकुम्भद्वयं करैः ।
कृष्णा दिगम्बरा ध्येया मूत्तीवीद्वेषकारिणी ॥ इति ।
गोमयमित्यानडुहमित्युपदेशात् ।
व्योम्नि गोमयं गृहीत्वेति ।
भूमिस्पृग्गोमयं न ग्राह्यमित्यर्थः ।
तदुक्तम्—- " अस्पृष्टकुङ्गोमयन्त्वन्तरिक्षे " इति ॥ ६१-६२ ॥
उत्तिष्ठपदमाभाष्य पुरुषि स्यात्पदं ततः ॥ ६३ ॥
पितामहः सनेत्रेन्दुः स्वपिषि स्याद्भयं च मे ।
समुपस्थितमुच्चार्य यदि शक्यमनन्तरम् ॥ ६४ ॥
अशक्यं वा पुनस्तन्मे वदेद्भगवतिं ततः ।
शमयाऽग्निवधूः सप्तत्रिंशद्वर्णात्मको मनुः ॥ ६५ ॥
ऋषिरारण्यकश्छन्दोऽप्र(प्य)त्यनुष्टुबुदाहृतम् ।
देवता वनदुर्गा स्यात् सर्वदुर्गतिमोचनी ॥ ६६ ॥
वनदुर्गामन्त्रमाह उत्तिष्ठेति ।
ततः पुरुषि पदं स्यादित्यन्वयः ।
पितामहः ककारः सनेत्रेन्दुः इकारबिन्दुसहितः ।
तेन किमिति ।
भयं च मे इति चकारो न मन्त्रमध्ये ।
यदि शक्यमशक्यञ्चेति ।
अमन्तमेव स्वरूपम् ।
भगवतिमिति शब्दकर्मणि द्वितीया मन्त्रे तु सम्बुद्धिः ।
अत्र वा तन्मे अक्षराणि कीलकानि ।
हु� दुर्गे इत्यकील- कानि ।
तदुक्तमीशानसंहितायाम्—-
गुणबीजं समुद्धृत्य उत्तिष्ठेति पदं ततः ।
पुरुषीति समुद्धृत्य ब्रह्माणं सूक्ष्मसंयुतम् ॥
सबिन्दुकं समुच्चार्य स्वपिषीति पदं वदेत् ।
भयं मे च समाभाष्य तथा च समुपस्थितम् ॥
यदि शक्यमिति प्रोच्य अशक्यं समुदीर्य च ।
वर्मबीजं समुद्धृत्यदुर्गे भगवतीति च ॥
शमयेति समुद्धृत्य तथा स्वाहा पदं वदेत् ।
एवमेषा महादेवी निष्कीला सर्वसिद्धिदा ॥
गुणान्ते भुवनेशानीं दुर्गाबीजं नियोजयेत् ।
वर्मणोऽन्ते स्वकं बीजमुक्त्वा चान्ते विलोमतः ॥
पूर्वेक्तबीजत्रितयं योजयेत् क्रौञ्चदारणा ।
तदा प्रदीपिता विद्या निष्कीला सर्वसिद्धिदा ॥ इति ।
उकारो बीजं स्वाहा शक्तिः ।
दुरिति बीजमिति पद्मपादाचार्याः ।
सर्वेत्यादि विनियोगोक्तिः ॥ ६३-६६ ॥
पादाष्टसन्धिषु गुदलिङ्गाधारोदरेषु च ।
पार्श्वहृत्स्तनकण्ठेषु पुनर्बाह्वष्टसन्धिषु ॥ ६७ ॥
मुखनासाकपोलाक्षिकर्णभ्रूमध्यमूर्द्धसु ।
मन्त्राक्षराणि विन्यस्येद्देवताभावसिद्धये ॥ ६८ ॥
षड्भिश्चतुभीरष्टाभिरष्टाभिः षड्भिरिन्द्रियैः ।
मन्त्रार्णैरङ्गकॢप्तिः स्याज्जातियुक्तैर्यथाक्रमम् ॥ ६९ ॥
अक्षरन्यासमाह पादेति ।
पादभुजसन्धयः प्रत्येकं चत्वारः ।
अत्र पार्श्वस्तन- नासाकपोलाक्षिकर्णानां स्थानद्वन्द्वं ग्राह्यम् ।
इन्द्रियैः पञ्चभिः ।
यथाक्रममित्यनेनैतदुक्तं भवति ।
प्रत्येक दुर्गायै रक्षरक्षेत्येतदन्त्यैरङ्गमिति ।
तदुक्तमीशानसंहितायाम्—-
ऋतुवेदाहिवस्वङ्गभूतसङ्ख्याक्षरान्वितैः ।
दुर्गायै रक्षरक्षेति युक्तैरङ्गान्यथाचरेत् ॥ इति ॥ ६७-६९ ॥
सौवर्णाम्बुजमध्यगां त्रिनयनां सौदामिनीसन्निभां
चक्रं शङ्खवराभयानि दधतीमिन्दोः कलां बिभ्रतीम् ।
ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलाद्यैः स्तुतां
ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् ॥ ७०॥
आयुधध्यानं दक्षाद्यूर्ध्वयोराद्ये तदधस्तनयोरन्त्ये ।
अन्ये तु दक्षोर्द्धादि दक्षाधस्तनं यावत् ॥ ७० ॥
एवं ध्यात्वा जपेल्लक्षचतुष्कं तद्दशांशतः ।
जुहुयाद्धविषा मन्त्री शालिभिः सपीषा तिलैः ॥ ७१ ॥
तद्दशांशत इति अयुतचतुष्टयम् ।
तत्र चत्वारि द्रव्याणि एकैकेनैकैकेन युतमित्यर्थः ।
हविषा पायसेन ।
शालिभिर्हैमन्तिकैः ।
सपीषा घृतेन ।
तिलैश्चेति
चतुभीः ॥ ७१ ॥
प्रागीरिते यजेत् पीठे देवीमङ्गादिभिः सह ।
अङ्गपूजा यथापूर्वं दलमूलेष्विमा यजेत् ॥ ७२ ॥
आर्या दुर्गा च भद्राख्या भद्रकाली ततोऽम्बिका ।
क्षेमाऽन्या वेदगर्भाख्या क्षेमङ्कर्यष्टशक्तयः ॥ ७३ ॥
अस्त्राणि पत्रमध्येषु शङ्खचक्रासिखेटकान् ।
बाणकोदण्डशूलानि कपालान्तानि पूजयेत् ॥ ७४ ॥
ब्राह्म्याद्याः स्युर्दलाग्रेषु लोकपालास्ततः परम् ।
सिद्धमन्त्रः प्रयोगेषु देवीमित्थं विचिन्तयेत् ॥ ७५ ॥
यथापूर्वमिति ।
आग्नेयादिकोशेषु पुरतो दिक्षु चेति ।
एतच्च पूजनं कणीकान्तः केसरेषु अग्रे शक्तिपूजाया उपदिष्टत्वादिति ।
अष्ट शक्तय इति ।
आसां ध्यान- मन्यत्रोक्तम्—-
आर्यादिशक्तयः खेटखड्गचापधनुर्धराः ।
अहिभिर्भूषिताङ्ग्यस्ताः पूजनीया भयानकाः ॥ इति ।
ततः परमिति ।
वज्रादिपूजोक्ता प्रयोगेष्विति ।
बहुवचनाच्छान्त्यादौ नृसिंह- बीजादिपुटितत्वम् ।
युद्धमारणयोः षोडशभुजाध्यानम् ।
साम्बुमेघश्यामत्वं महिषो- त्तमाङ्गस्थत्वं च ।
रक्षायामष्टभुजत्वं दूर्वाश्यामलाङ्गत्वं महिषोत्तमाङ्गस्थत्वं च ध्येयमित्युक्तम् ।
तदुक्तमाचार्यैः—- चक्रदरखड्गखेटकशरकार्मुकशूलसञ्ज्ञककपालैः ।
ऋष्टिमुशलकुन्तनन्दकवलयगदाभिण्डिपालशक्त्याख्यैः ॥
उद्यद्विकृतिभुजाढ्या माहिषके सजलजलदसङ्काशा ।
अरिशङ्खकृपाणखेटबाणान् शरधनुः शूलकतर्जनीर्दधाना ॥
भवतां महिषोत्तमाङ्गसंस्था नवदूर्वासदृशी श्रियेऽस्तु दुर्गा ॥ इति ।
अन्यत्रापि—- ज्वलदग्निनिभां सिंहस्कन्धारूढां भयावहाम् ।
ध्यायेत् षोडशबाहुं तां सम्यक् वैरिविमर्दने ॥
श्यामलाङ्गीमष्टबाहुं महिषासुरसंस्थिताम् ।
आयुः सिद्ध्यै चिन्तयेत् ताम् ।
इति ॥ ७२-७५ ॥
कालपावकसन्निभां कलितार्द्धचन्द्रशिरोरुहां
भालनेत्रविभूषणं भयदायिसिंहनिषेदुषीम् ।
चक्रशङ्खकृपाणखेटकचापबाणकरोटिका-
शूलवाहिभुजां भजे विजिताखिलासुरसैनिकाम् ॥ ७६ ॥
प्रातःस्नानरतो नित्यमष्टोत्तरसहस्रकम् ।
जपेत्तस्याशु सिद्ध्यन्ति धनधान्यादिसम्पदः ॥ ७७ ॥
कालपावकः प्रलयाग्निः ।
करोटिका कपालम् ।
आयुधानि दक्षैरूर्द्धतः चक्रखड्गशरशूलानि ।
वामैरुर्ध्वतः शङ्खखेटकधनुःकपालानि ध्येयानि ।
इदं ध्यानं रक्षार्थमिति ज्ञेयम् ॥ ७६-७७ ॥
अनेनैव विधानेन ग्रहक्षुद्ररिपूञ्जयेत् ।
नाभिमात्रोदके स्थित्वा देवीमर्कगतां स्मरन् ।
जपेदष्टोत्तरशतं लभेत महतीं श्रियम् ॥ ७८ ॥
अनेनैवेति ।
तत्र विधानम् ।
प्रातःस्नानादिकम् ।
जपस्त्वयुतम् ।
तदुक्तम्—-
सौम्ये कर्मफलावाप्त्यै सहस्रं प्रजपेत् मनुम् ।
उच्चाटनादिक्षुद्रेषु विशेषात्तं तथाऽयुतम् ॥ इति ॥
अत्र मन्त्रे भयशब्दात् पूर्वं ग्रहपदादिदानं ज्ञेयम् ।
ग्रहभयं क्षुद्रभयं रिपुभयम् ।
एवमग्रेऽपि चौरभयमित्यादि ज्ञेयम् ।
क्षुद्रशब्दार्थ उक्तो नारायणीये—-
स्तम्भो विद्वेषणोच्चाटावुत्सादो भ्रममारणे ।
व्याधिश्चेति स्मृतं क्षुद्रम् ।
इति ।
नाभिमात्रोदक इति नद्यादौ ।
देवीं स्मरन्निति तन्त्रान्तरोक्तध्यानम् ।
यदाहुः—-
शङ्खारिनिधिपात्रेष्टकरां रक्तां स्वलङ्कृताम् ।
भानुबिम्बसरोजस्थां दुर्गामेतां स्फुरत्प्रभाम् ॥
अष्टोत्तरशतं नद्यां नाभिमात्रे जले स्थितः ।
संयतः प्रजपेन् मन्त्रमचिराच्छ्रीप्रसिद्धये ॥ इति ।
महतीं श्रियमिति ।
श्रीबीजादित्वमपि ज्ञेयम् ॥ ७८ ॥
अयुतं वटवृक्षोत्थैः सशृङ्गैरचीतेऽनले ।
होमं समिद्वरैः कुर्यान्नाशयेदापदां कुलम् ॥ ७९ ॥
घोराभिचारभूतादीन् शमयेद्विधिनाऽमुना ।
अपामार्गसमिद्भर्वा तिलैर्वा काननोद्भवैः ॥ ८० ॥
अचीते अनले सशृङ्गैः साग्रभागैर्वटवृक्षोत्थैः समिद्वरैरयुतं होमं कुर्यादिति सम्बन्धः ।
काननोद्भवैस्तिलैर्जत्तीलैः ॥ ७९-८० ॥
अभीष्टसिद्ध्यै जुहुयादार्कैर्मन्त्री समिद्वरैः ।
सहस्रमर्कवारादि दिवसान् दश संयतः ॥ ८१ ॥
मन्त्रीति—-अनेन सूर्य चतुरक्षरादित्वं सूचितम् ।
सहस्रमिति प्रत्यहम् ॥ ८१ ॥
सारान् शुद्धान् समादाय शकलान्मनुनाऽमुना ।
जुहुयादेधिते वह्नौ सप्तरात्रमतन्द्रितः ॥ ८२ ॥
साधयेदखिलं शश्वदभीष्टं मन्त्रवित्तमः ।
कुमुदैर्वशयेद्विप्रान् नृपतीन् पद्महोमतः ॥ ८३ ॥
तत्पत्नीरुत्पलैः फुल्लैर्वैश्यान् कल्हारहोमतः ।
शूद्रान् लवणहोमेन जातीपुष्पैः सभां पुनः ॥ ८४ ॥
व्रीहिभिर्जुहुयान्नित्यं वत्सरात् व्रीहिमान् भवेत् ।
दूर्वाहोमेन दीर्घायुर्मधुना रत्नवान् भवेत् ॥ ८५ ॥
अन्नैरन्नसमृद्धिः स्यादाज्येन लभते धनम् ।
गोदुग्धेन गवां वृद्धिमाप्नुयान्नाऽत्र संशयः ॥ ८६ ॥
सारानिति खादिरान् ।
अतन्द्रित इति ।
त्रिदिनमित्यप्युक्तं भवति ।
तदुक्तम्—-
शुद्धैः खदिरसारैस्त्रिदिनं वा सप्तरात्रकमपि ।
इति ।
अखिलमिति सौम्यं क्रूरं च ।
तत्र विशेषस्तन्त्रान्तरे—-
नवकुम्भनिभां देवीं शूलं डमरुकं भुजैः ।
शरं चापं सौधकुम्भयुगलं दधतीं पराम् ॥
ध्यात्वा दुर्गां महाकायां भीषणास्यां सुभूषिताम् ।
आज्येन जुहुयान् मध्ये सव्ये(मध्ये)पौष्टिककर्मणि ॥
यदि क्षुद्रविधौ क्ष्वेलरसपूर्णघटद्वयम् ।
दधतीं चिन्तयेद्देवीं षड्भुजां प्रोक्तलक्षणाम् ॥
विलोममनुना विद्वान् शकलैर्घृतसंयुतैः ।
सारैवीशुद्धैर्जुहुयात् पश्चिमाशामुखः सुधीः ॥ इति ।
मन्त्रवित्तम इत्यनेनाऽत्रापि सूर्यचतुरक्षरादित्वं सूचितम् ॥ ८२-८६ ॥
ज्वरे ग्रहे गरे सर्पे तर्जन्या संस्पृशञ्जपेत् ।
स्मृत्वा शूलकरां देवीं तत्क्षणादेव तान् हरेत् ॥ ८७ ॥
तर्जन्येति वामया ।
तान् ज्वरादीन् ॥ ८७ ॥
दभीतं साध्यनामार्णैः पत्रे मनुमिमं लिखेत् ।
कुलालमृत्कृतायां तत् प्रतिमायां हृदि न्यसेत् ॥ ८८ ॥
कृतप्राणप्रतिष्ठां तां पूजितां कुसुमादिभिः ।
निधायाऽग्रे जपेन्मन्त्रमष्टोत्तरसहस्रकम् ॥ ८९ ॥
सन्ध्यासु पक्षमात्रेण ध्रुवमाप्नोति वाञ्छितम् ।
अभ्यर्च्य देवीमनले तीक्ष्णतैलेन मन्त्रवित् ॥ ९० ॥
दभीतमिति ।
तत्प्रकारस्त्रयोविंशे वक्ष्यते ।
पत्र इति भूर्जे ।
कुलालमृदिति ।
कुम्भकारस्य पात्रघटनसमये करलग्नमृत्तिका तया कृतायां प्रतिमायां द्वादश्याङ्गुलायां हृदि तदिति
लिखितमन्त्रं पत्रं न्यसेत् ।
निधायाऽग्रे इति ।
पीठादेरुपरि स्वपादतलाधः ।
सन्ध्यास्विति ।
पञ्चदशदिनसायङ्कालसन्ध्यास्वित्यर्थः ।
वशमायाति वाञ्छित इति क्वचित् पाठः ॥ ८८-९० ॥
हुत्वाऽयुतं निधायाऽग्रे तीक्ष्णांस्त्रिंशच्छरान् पुनः।
तेषु सम्पातयेद् भूयः स्पृष्ट्वा तान्नियुतं जपेत् ॥ ९१ ॥
वेधयेत् परसेनायां क्षणान्नष्टा दिशो दश ।
अभ्यर्च्येति ।
वन्यकुसुमचन्दनैः ।
तीक्ष्णतैलेनेति कटुतैलेन राजिकातैलेनेति केचित् ।
हुत्वेति सम्बन्धः ।
मन्त्रविदित्यनेनैतदुक्तं भवति ।
स्वस्तिकादौ दुकूलावृतं पीठं संस्थाप्य तत्र शरान्निधाय तेषु देवीमावाह्य सम्पूज्य ततस्त्रिकोणकुण्डे
अग्निमाधाय तत्रापि देवीमभ्यर्च्य हुनेदिति ।
तदुक्तम्—-
पीठे स्वस्तिकमध्यस्थे मायाचक्रगतेऽपि वा ।
विधिवत् पूजयेत् सूक्ष्मदुकूलादिसमावृते ॥
निधाय निशितान् स्वर्णपुङ्खास्त्रिंशच्छिलीमुखान् ।
कात्यायनीं समावाह्य गन्धाद्यैः प्रवरैर्यजेत् ॥
त्रिकोणकुण्डे पूर्वेक्तक्रमोत्पन्नविभावसोः ।
आवाह्य षोडशभुजां तामिष्ट्वा चन्दनादिभिः ॥
सिद्धार्थतैलं जुहुयात् सहस्रमथवाऽयुतम् ।
नियुतं तत्र लम्बेन सम्पातेन विलेपयेत् ॥
उद्धवास्य देवीं तत्रैव हुतसङ्ख्यं जपेदिति ।
रक्तेन तन्तुना पुङ्खसविधे वेष्टयेद् घटम् ॥
तेषु विद्धेषु दक्षेण धन्विना वैरिवाहिनी ।
विनष्टसञ्ज्ञा शक्रेण पालिताऽप्यनुधावति ॥ इति ॥
नियुतं लक्षम् ॥
वेधयेदिति ।
एतादृशं क्रूरकर्म्भ प्रतिलोममन्त्रेणेति पद्मपादाचार्याः ।
स्वबीजा- द्येनाऽनुलोमेन वा ॥ ९०-९२ ॥
प्राप्नुयान्नष्टसञ्ज्ञा सा पलायनपरायणा ॥ ९२ ॥
जपित्वा सितगुञ्जानां कुडवं कुलिकोदये ।
विकिरेच्छत्रुसेनायां गूढः सन्नापणादिषु ॥ ९३ ॥
ज्वरमारी महारोगैः पीडिता सैन्यनायकैः ।
परस्परविरोधेन नश्येद् गच्छेन्मिरयेत सा ॥ ९४ ॥
कुडवमिति ।
पलचतुष्टयम् ।
कुडवं चतुःपलं स्यादित्युक्तेः ।
कुलिकोदये विकिरेदिति ।
कुलिकस्य कालविशेषस्योदये ।
तल्लक्षणं ज्योतिषरत्नमालायाम्—-
मन्वर्कदिग्वस्वृतुवेदपक्षैरर्कान्मुहूर्त्तैः कुलिका भवन्ति ।
दिवा निरेकैरथ यामिनीषु ते गहीताः कर्मसु शोभनेषु ॥ इति ।
मनु १४ अर्क १२ दिक् १० वसु ८ ऋतु ६ वेद ४ पक्ष २ ।
सैन्यनायकैः परस्परविरोधेन पीडितेत्येव ।
पूर्वहेतोर्नश्येत् भ्रश्येत् ।
द्वितीयहेतोर्गच्छेदिति निवृत्त्य गच्छेदित्यर्थः ।
समुच्चयेन तृतीयम् ॥ ९२-९४ ॥
सेनासंस्तम्भने मन्त्री कारस्करसमुद्भवैः ।
पुष्पैः सहस्रं जुहुयात्तत्पत्रैस्तां निवर्त्तयेत् ॥ ९५ ॥
मन्त्रीति पृथिवीबीजादित्वं सूचितम् ।
ध्यानविशेषश्च—-
पीतां पाशगदाशूलसायोमुष्टिलसद्भुजाम् ।
क्रूरास्यां देवतामूत्तीं ध्यायेत् स्तम्भनकर्मणि ॥ इति ॥
कारस्कर इति विषतिन्दुकः ।
कुचिला इति कान्यकुब्जभाषायाम् ।
तत्पत्रैस्तां निवर्त्तयेदिति ।
कारस्कारसहस्रपत्रहोमेन सेनानिवर्त्तनं कुर्यादित्यर्थः ॥ ९५ ॥
अङ्गारवारे कुलिके जप्त्वा भस्म चितोद्भवम् ।
विनिक्षिपेद्रिपोर्मूघ्नी विद्विष्टो देशतो व्रजेत् ॥ ९६ ॥
मरुन्निपातितैः पत्रैः कारस्करसमुद्भवैः ।
तस्य पादरजोयुक्तैर्हेमादुच्चाटयेदरीन् ॥ ९७ ॥
अङ्गारेति भौमे ।
तत्र च दशमो मुहूर्त्तः कुलिको भवति ।
तस्मिन् समये रिपोर्र्र्मूध्नि भस्म निक्षिपेदिति सम्बन्धः ।
जपत्वेत्यष्टोत्तरशतमित्यादि ।
अष्टोत्तरशतं जप्तं यच्छिरसि प्रक्षिपेच्चिताभस्म ।
इत्युक्तेः ।
विनिक्षिपेदिति ।
देवीं ध्यायन् ।
तत्र ध्यानविशेषस्तन्त्रान्तरे—-
कृष्णां करालवदनां भुजङ्गैरभिमण्डिताम् ।
मारीचूर्णादिदहनशूलराजद्भुजाकुलाम् ॥
दिगम्बरां महादुर्गां चिन्तयेद् द्वेषणादिषु ।
उत्सादभ्रमणोच्चाटकृत्येच्छाधावनोद्यताम् ॥ इति ॥
तस्य पादरजोयुक्तैरिति ।
तस्य वैरिणः पादरजो वामपादरज इति परमगुरवः ।
उच्चाटयेदिति ।
वायुबीजादित्वं ज्ञेयम् ॥ ९६-९७ ॥
कारस्करमयीं कृत्वा प्रतिमामतिशोभनाम् ।
जप्तां प्रतिष्ठितप्राणां छेदयेदङ्गशः पुनः ॥ ९८ ॥
काकोलूकवसायुक्तामष्टोत्तरसहस्रकम् ।
कृष्णे पक्षे चतुर्दश्यां श्मशाने हव्यवाहने ॥ ९९ ॥
जुहुयान्मिरयतेऽरातिरेवमेव दिनत्रयात् ।
उन्मत्तसमिधां होमान्मृताः स्युः शत्रवः क्षणात् ॥ १०० ॥
प्रतिमामिति षण्णवत्यङ्गुलायाम् ।
यदाहुः—-
मारणे दारुरूपां तां द्वादशाङ्गुलसम्मिताम् ।
षण्णवत्यङ्गुलां वापि कुर्यान्मात्राङ्गुलैः क्रमात् ।
होमार्थं कल्पितायास्तु तस्याः प्रोक्तो विधिः परः ।
वश्याकर्षणयोः प्रोक्तां तां कुर्याद् द्वादशाङ्गुलैः ॥ इति ॥
जप्तामष्टोत्तरशतावृत्त्या ।
छेदयेदिति अष्टोत्तरसहस्रम् ।
अङ्गुष्ठ इति ।
दक्षिणाङ्गुष्ठादि वामाङ्गुष्ठानम् ।
श्मशाने हव्यवाहन इति व्यधिकरणे सप्तम्यौ ।
एवमेवेति ।
तदुक्तम्—-
द्रुमकुड्यनिपातेन निर्वातेनाऽरिखड्गतः ।
सलिले पावके सर्पदंशान्मत्तद्विपाद् भटात् ॥
यक्षराक्षसगन्धर्वपिशाचब्रह्मराक्षसैः ।
अन्यैर्वा कारणैः क्षिप्रं नाशमेति रिपुर्ध्रुवम् ॥ इति ।
दिनत्रयादिति ।
चतुर्दशीत्रयादित्यर्थः ।
" त्रिचतुर्दशीप्रयोगादर्वाङ्मिरयते रिपुर्न सन्देहः " इत्युक्तेः ।
मारणे ध्यानविशेषोऽपि तत्रान्तरे—-
कालमेघनिभां दुर्गां दन्दशूकविभूषणाम् ।
निशितं दधतीं खड्गं निजदक्षिणपाणिना ॥
सव्येन पाणिना साध्यं केशे सङ्गृह्य कर्षतीम् ।
सिंहस्कन्धस्थितां ध्यायेन्मन्त्री मारणकर्मणि ॥ इति ।
अन्योऽपि विशेषः—-शान्तिके पौष्टिके चापि वश्ये स्तम्भनकर्मणि ।
जपेत् स्वमन्त्ररक्षायै मन्त्रमष्टोत्तरं शतम् ॥
उच्चाटनोत्सादने च द्वेषणे मोहने भ्रमे ।
मारणे च जपेन्मन्त्री मनुं तद्वत् सहस्रकम् ॥ इति ।
उन्मत्तेत्यत्र ध्यानविशेषः ।
शतभङ्गाह्वयं चूर्णं कपालं गरपूरितम् ।
दधाना शाबरी दुर्गा ध्येया मादनकर्मणि ॥ इति ।
उन्मत्त इति ।
धुस्तूरः ॥ ९८-१०० ॥
उलूककाकयोः पत्रैः स्ववसारक्तसंयुतैः ।
जुहुयान्निशि कान्तारे शत्रुः कालातिथिर्भवेत् ॥ १०१ ॥
पत्रैरिति पक्षैः ।
स्ववसारक्तम् उलूककाकवसारक्तम् ।
कान्तार इति वने ॥ १०१ ॥
शत्रोः प्रतिकृतिं मन्त्री प्रतिष्ठितसमीरणाम् ।
विषोषणविलिप्ताङ्गीमत्युष्णे निक्षिपेज्जले ॥ १०२ ॥
ज्वराक्रान्तो भवेच्छीघ्रं दुग्धसेकाच्छमं नयेत् ।
तर्जनीं त्रिशिखं दोर्भ्यां धारयन्तीं भयङ्करीम् ॥ १०३ ॥
रक्तां ध्यात्वा रवेबीम्बे प्रजपेदयुतं मनुम् ।
मारयेदचिरादेव रिपून् बन्धुसमन्वितान् ॥ १०४ ॥
खङ्गखेटकरां क्रुद्धां सन्नद्धां भानुमण्डले ।
ध्यात्वा मन्त्रं जपेन्मन्त्री नाशयेदचिरादरीन् ॥ १०५ ॥
शत्रोः प्रतिकृतिमिति ।
यदि शत्रोर्जन्मनक्षत्रं ज्ञायते तदा तन्नक्षत्रवृक्ष काष्ठमयीम् ।
तदज्ञाने कारस्करमयीं द्वादशाङ्गुलाम् ।
नक्षत्रवृक्षा द्वाविंशे वक्ष्यन्ते ।
प्रतिष्ठितसमीरणामिति कृतप्राणप्रतिष्ठाम् ।
उषणमिति मरिचम् ।
" मरिचं श्यामलं प्रोक्तं वल्लोजं चोषणं स्मृतम् " इति रुद्रः ।
प्रतीकारमाह दुग्धेति ।
तर्जनीमिति ।
तर्जनीमुद्रां प्रागुक्ताम् ।
त्रिशिखमिति त्रिशूलम् ।
सन्नद्धां कृतसन्नाहाम् ।
भानुमण्डले ध्यात्वा पूर्ववदयुतं मन्त्रं जपेदिति सम्बन्धः ।
मन्त्रीति ।
वेलाकालादिज्ञः ॥ १०२-१०५ ॥
चापबाणधरां भीमां सिंहस्थां ज्वलनोपमाम् ।
सृजन्तीं बाणनिवहान्धावन्तीं तादृशं रिपुम् ॥ १०६ ॥
ध्यात्वा जपेन्मनुमिममयुतं तोयमध्यगः ।
रिपुं च परसेनां च द्रुतमुच्चाटयेद् ध्रुवम् ॥ १०७ ॥
तादृशमिति ।
धावन्तम् ।
तोयमध्यग इति जान्वधोभागपर्यन्तम् ।
कारस्करमयीं कृत्वेति ।
उलूककाकयोः पत्रैरिति ।
तर्जनीं त्रिशिखं दोर्भ्यामिति ।
खड्गखेटकरां सन्नद्धामिति ।
द्रुतमुच्चाटयेद्ध्रुवमित्यादि क्रूरकर्म वेलाकालकलातिथिनक्षत्र- रिक्तास्तस्य ग्रहर्क्षाष्टवर्गप्रातिलोम्यं
पातालादियोगांश्च ज्ञात्वा तत्समये कृतं शीघ्रसिद्धिदं भवति ।
तत्र वेला नाम चन्द्रोदयमारभ्य पञ्चदशघटिकापर्यन्तं समुद्रस्य क्षोभो भवति सा चन्द्रवेला ।
तदा क्रूरकर्माणि न कुर्यात् ।
तदनन्तरं पुनः पञ्चदशघटिकापर्यन्तं वेला नास्ति तदा क्रूरकर्म कुर्यात् ।
पुनस्तदनन्तरं पञ्चदशघटिकापर्यन्तं वेला ।
पुनस्तावत्कालं सा नास्ति ।
कालस्तु—-
कुलिकः स्थविरो योगस्तारा वैनाशिकी कुजः ।
अष्टमो राशिरित्याद्यास्ताराः स्युः क्षुद्रकर्मणि ॥ इति ।
कला नाम चन्द्रकला सा शुक्ले वर्द्धते कृष्णे त्रुट्यति ।
तदष्टमी- मारभ्याऽमावास्यापर्यन्तं कुर्यात् ।
तिथिरिक्ताः प्रसिद्धाः ।
नक्षत्ररिक्ता विषनाड्यः ।
अन्यत्र तु—-
आयुर्दायं रिपोर्ज्ञात्वा लग्नोक्तर्क्षानुगुण्यतः ।
तदात्मिकग्रहाणां च स्थितिमष्टकवर्गकम् ॥
त्रयाणामानुकूल्येन कुर्यात्तदाभिचारकम् ।
अन्यथा क्रूरकर्माणि कुर्वाणं नाशयन्ति हि ॥
तान्येव कर्माणि ततस्तत्त्रयप्रातिकूल्यतः ।
विदध्यादन्यथा शक्त्या नैष्फल्यं चात्मनाशनम् ॥
रिपोरष्टमलग्ने च काले त्वष्टमराशिगे ।
स्थाने कुर्यादनिष्टानि तद्विनाशाय साधकः ॥
पातालयोगे नीचाख्ये विषयोगे च मृत्युजे ।
नाशयोगे च दिनजमृत्यौ क्रकचयोगके ॥
चण्डीशचण्डायुधके महाशूले च काणके ।
रक्तस्थूणे कण्टकाख्ये स्थूणे पञ्चार्कसञ्ज्ञके ॥
कुर्यात्प्रयोगान् प्रत्यथीभङ्गाय निधनाय च ।
निग्रहाय निरीक्ष्यैवं कुर्यात् सिद्धिमवाप्नुयात् ॥ इति ।
अष्टमो राशिश्चक्रमन्त्रे वक्ष्यते ।
अन्ये योगाः ज्योतिःशास्त्रतो ज्ञेयाः ॥ १०६-१०७ ॥
आनित्यकसमिद्धोमान्मुच्यते रोगशोकतः ।
पुष्पैस्तदीयैर्वशयेन्मधुराक्तैर्मतङ्गजान् ॥ १०८ ॥
रक्षायै पञ्चगव्येन लिम्पेज्जप्तेन दन्तिनः ।
गव्याज्यतिलसिद्धार्थैरानित्यकसमिद्वरैः ॥ १०९ ॥
दुग्धान्नपञ्चगव्याभ्यां तण्डुलेन घृतेन च ।
एतैः पृथक् पृथक् द्रव्यैरष्टोत्तरसहस्रकम् ॥ ११० ॥
जुहुयाद्दनशो विप्रान् भोजयेन्मधुरादिभिः ।
गुरवे दक्षिणां दद्याद्वस्त्राभरणसंयुताम् ॥ १११ ॥
मातङ्गाश्चतुरङ्गाश्च वर्द्धन्ते विधिनाऽमुना ।
सर्वव्याधिविनिर्मुक्ताः क्षुद्रपीडाविवजीताः ॥ ११२ ॥
अनित्यकमिति ।
कान्यकुब्जभाषायाम् एरच्छि इति ।
गव्याज्यमित्येकम् ।
एतैरित्यष्ट- भिर्द्रव्यैः ।
दिनशः प्रत्यहम् ।
पृथक् जुहुयादिति ।
क्रमेण प्रथमदिने प्रथमद्रव्येण द्वितीये द्वितीयेनेति ज्ञेयम् ।
दिनश इति विप्रान् भोजयेदित्यत्राप्यन्वेति ॥ १०८-११२ ॥
कारयेद् ब्रह्मवृक्षेण शिल्पिनायुधपञ्चकम् ।
शङ्खखड्गरथाङ्गानि शार्ङ्गं कौमोदकीं क्रमात् ॥ ११३ ॥
कारयेदिति ।
तालप्रमाणम् ।
ब्रह्मवृक्षेणेति पलाशेन ।
द्विजभूमिस्थेन सफलेनेति ज्ञेयम् ।
शिल्पिनेति ।
निपुणतरेणेतिशेषः ।
तदुक्तमाचार्यैः ।
साधुशिल्पविदेति ।
रथाङ्गं चक्रम् ।
शार्ङ्गं धनुः ।
कौमोदकीं गदाम् ।
क्रमादित्यस्यायमर्थः ।
महान्तं पलाशं दिक्षु अङ्कयित्वा छित्त्वा क्रकचेन पञ्चधा निभीद्य मध्यभागेन शङ्खं पूर्वादि
चतुदीग्भागैः खड्गादीनि कारयेदिति ।
तदुक्तमाचार्यैः—-
द्विजभूरुहं महान्तं छित्त्वा निभीद्य पञ्चधा भूयः ।
आशाक्रमेण पञ्चायुधा विधेयाश्च साधु शिल्पविदा ॥ इति ॥ ११३ ॥
पञ्चगव्येषु निःक्षिप्य तानि स्पृष्ट्वा मनुं जपेत् ।
सम्यक् पञ्चसहस्राणि तेषु सम्पातयन् पुनः ॥ ११४ ॥
तावदाज्येन जुहुयान्मन्त्रैः स्वैः पूजयेत् क्रमात् ।
उद्धृत्य पञ्चगव्येभ्यः पूर्ववत् प्रजपेन्मनुम् ॥ ११५ ॥
पञ्चगव्येषु निक्षिप्येति ।
पलाशस्यैव पात्रं कृत्वा तन्मध्ये पञ्चगव्यं विनिक्षिप्य तत्र तानि निक्षिप्येत्यर्थः ।
मनुं मूलमन्त्रम् ।
पञ्चसहस्राणीति समुदायेन ।
सम्यगिति प्रत्येकं सहस्रजपः ।
तेषु आयुधेषु सम्यक् सम्पातयन् तावत् पञ्चसहस्रेण जुहुयात् ।
सम्यगिति ।
प्रत्यायुधमेकैकसहस्ररीत्या ।
मन्त्रैः स्वैरिति सप्तदशे वक्ष्यमाणैः ।
पूजयेदिति ।
प्राणप्रतिष्ठापूर्वं पात्र एव ।
क्रमादिति ।
मध्यस्थशङ्ङ्खप्रभृतीत्यर्थः ।
पूर्ववदिति ।
पुनस्तानि स्पृशन् तावत्सङ्ख्यम् ।
ईशानसंहितायान्तु—-
द्विजभूभ्यां स्थितं छित्त्वा फलाद्यं विप्रभूरुहम् ।
मूलाग्रहीनं निभीद्य पञ्चधा सर्वतः समम् ॥
मध्याद्यंशैः क्रमाच्छङ्खं नन्दकं चक्रमेव च ।
शार्ङ्गं कौमोदकीं तालप्रमाणं परिकल्पयेत् ॥
सपञ्चगव्ये तत्पात्रे निक्षिपेत्तं निधाय च ।
स्वस्तिके सम्यगभ्यर्च्य जपेत्पञ्चसहस्रकम् ॥
घृतेन तावद्धुत्वाज्यसम्पातेन यथाविधि ।
आलिप्य तावद्भूयोऽपि जपेन्मन्त्रमिदं सुधीः ॥
खात्वाऽवटान् हस्तमानान् मध्ये पूर्वादि दिक्षु च ।
तत्र पीठं समभ्यर्च्य मूलमन्त्रेण विन्यसेत् ॥
तानि शङ्खे महादुर्गामावाह्याऽस्मिन् स्थितां यजेत् ।
तत्तदायुधमूर्त्तीश्च दिशासूदितलक्षणाः ॥
अस्त्रमन्त्रेण परितः प्राकारं परिकल्पयेत् ॥इति ॥११४-११५ ॥
अवटान् पञ्च निखनेद्दक्षु मध्यादिषु क्रमात् ।
अवटेष्वेषु पूर्णेषु पञ्चगव्येन साधकः ॥ ११६ ॥
आयुधानि प्रजप्तानि पञ्चघोषपुरःसरम् ।
विन्यसेत्तेषु मध्यादि पूजां कुर्याद्यथा पुरा ॥ ११७ ॥
वालुकाभिः समापूर्य मृद्भः कुर्यात्समस्थलम् ।
बलिञ्च विकिरेत्तत्र तेषां मन्त्रैर्यथाक्रमम् ॥ ११८ ॥
दिक्पतिभ्यो बलिं दत्त्वा ब्राह्मणान् भोजयेत्ततः ।
दीनान्धकृपणादींश्च तोषयेद्भोजनादिभिः ॥ ११९ ॥
अवटानिति ।
हस्तमानान् ।
साधक इत्यनेन मूलमुच्चरन् विन्यसेदित्युक्तम् ।
प्रजप्तानीत्यनुवादः ।
विन्यसेदिति मूलेन ।
यथापुरेति ।
स्वस्वमन्त्रैः ।
यथाक्रममिति मध्यादि ॥ ११६-११९ ॥
गुरवे दक्षिणां दद्यादात्मवित्तानुसारतः ।
यत्रैवं विहिता रक्षा देशे वा नगरे पुरे ॥ १२० ॥
ग्रामे गेहेऽथवा तत्र वर्द्धन्ते सम्पदः सदा ।
अश्मपातादयो दोषा भूतप्रेतादिसंयुताः ॥ १२१ ॥
अभिचारकृताः कृत्यारिपुचौराद्युपद्रवाः ।
नेक्ष्यन्ते तां दिशं भीतास्तजीता देवताज्ञया ॥ १२२ ॥
पद्मं भानुदलान्वितं प्रविलिखेत्तत्कणीकायां पुन-
स्तारं शक्तिगबीज साध्यसहितं तत्केसरेषु क्रमात् ।
मदीन्या मनुसम्भवान् युगलशो वर्णान् पुनः पत्रगान् -
मन्त्रार्णान् गुणशो विधाय विलिखेदन्त्यं तदन्त्ये दले ॥१२३॥
मातृकावर्णसंवीतं भूपुरद्वयमध्यगम् ।
यन्त्रं विन्ध्यनिवासिन्याः प्रोक्तं सर्वसमृद्धिदम् ॥ १२४ ॥
रक्षाकरं विशेषेण क्षुद्रभूतादिनाशनम् ।
राज्यदं भ्रष्टराज्यानां वश्यदं वश्यमिच्छताम् ॥ १२५ ॥
सुताथीनीनां सुतदं रोगिणां रोगशान्तिदम् ।
बहुना किमिहोक्तेन यन्त्रं तत् कामदो मणिः ॥ १२६ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
एकादशः पटलः समाप्तः ॥ ११ ॥
ब्थ् " बि

  यन्त्रमाह पद्ममिति ।  

भानुदलान्वितं द्वादशदलान्वितं पद्मं लिखेत् ।
तत्कणीकायां शक्तिगं मायाबीजगं यद्बीजं दौर्गं सविसर्गं तत्र यत् साध्यं तेन सहितं तारं लिखेत् ।
एतेन द्वादशदलपद्मकणीकायां प्रणवं विलिख्य तत्र मायाबीजं तत्र दौर्गं बीजं तत्र साध्यं
लिखेदित्युक्तं भवति ।
मदीन्या इति महिषमदीन्याः ।
युगलश इत्यनेन महिषमदीनीमन्त्रस्यावृत्तित्रयमुक्तम् ।
मन्त्रार्णान् मूलमन्त्रार्णान् ।
गुणशस्तिस्रः ।
अन्त्यमेकमक्षरमन्त्ये द्वादशे लिखेत् ॥ १२३-१२६ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायामेकादशः पटलः ॥ ११ ॥
ब्थ् " बि