१०

अथ दशमः पटलः
ततोऽभिधास्ये त्वरितां त्वरितं फलदायिनीम् ।
तारो मायावर्मबीजमृद्धिरीशस्वरान्विता ॥ १ ॥
कूर्मस्तदन्त्यो भगवान् क्षः स्त्री दीर्घतनुच्छदम् ।
संवर्ती भगवान्माया फडन्तो द्वादशाक्षरः ॥ २ ॥
मुनिरर्जुन आख्यातो विराट्छन्दः समीरितम् ।
त्वरिता देवता प्रोक्ता पुरुषार्थफलप्रदा ॥ ३ ॥
एवं भुवनेश्वरीमन्त्रानुक्त्वा अत्र पाशादिमन्त्रस्य नित्यामन्त्रत्वात् तत्- प्रसङ्गादन्यान्
त्वरितानित्यादिमन्त्रान् वक्तुमुपक्रमते तत इति ।
त्वरितफलदायिनीमिति त्वरिताशब्दव्युत्पत्तिर्दशीता ।
तदुक्तम्—-
भक्तियुतानां त्वरया सिद्धिकरी चेति मन्त्रिणं सततम् ।
देव्यास्त्वरिताख्या स्यात् त्वरितं क्ष्वेलग्रहादिहरणतया ॥ इति ।
मन्त्रमुद्धरति तार इति ।
तारः प्रणवः माया शक्तिबीजं वर्मबीजं हुम् ।
ऋद्धि कलान्यासे खः ईशस्वर एकादशस्वरः एतेनान्विता तेन खे ।
कूर्मश्चकारः तदन्तः छः भग एकारस्तद्वान् भगवान् एकारयुक्तस्तेन छे ।
क्षःस्त्री स्वरूपम् ।
अत्र क्षकारः सविसर्गे ज्ञेयः ।
सामन्तमालयमित्युक्तेः ।
दीर्घतनुच्छदं हूम् ।
संवर्त्तः क्षः भगवाने- कारयुक्तः ।
तेन क्षे ।
अस्याश्च देव्याः शापोऽस्तीति प्रसिद्धिः ।
तेन केचन क्षे इति वर्णं कीलकं मन्यन्ते ।
तदर्थं च क्षेकारं पूर्वमुच्चार्याऽन्ते हूङ्कारमुच्चारयति ।
दक्षिणामूत्तीसंहितायां तु—-कवचं स्त्रीमिमे बीजे कीलके तु प्रकीत्तीते ।
इति ।
केचन पूर्वं हूङ्कारं पश्चात् क्षेकारमिति महती आचार्याणां विप्रतिपत्तिः ।
तत्र यथा वृक्षादीनां क्वचिद् ग्रन्थयो भवन्ति तथैव मन्त्राणामपि स्वभावादेव कीलाख्या
ग्रन्थयो भवन्ति ।
तेन कालविलम्बासिध्यादयो दोषाः भवन्ति ।
स च अक्षरविशेषगत एव जायते ।
तत्र केषु चिन्मन्त्रेषु तदक्षरमुद्धृत्य शास्त्रीयेण केनचिदक्षरेण परिपूर्य जपं कुर्वन्ति ।
केषु चित्तदनुद्धृत्यैवाऽक्षरान्तरप्रक्षेपेण जपं कुर्वन्ति ।
केषुचित् कीलाख्यो विद्यमानोऽपि दोषावहो न ।
यथा वृक्षादिषु विद्यमाना अपि ग्रन्थयः केषुचिदेव दोषावहाः केषुचित्तु गुणायैव भवन्ति ।
यथा—-
चन्दनस्य त्रयः श्रेष्टा ग्रन्थिकर्पटकोटराः ।
इति ।
यदाहुः—- दुष्टोऽणुः कीलको ज्ञातः सिद्धेस्तु प्रतिबन्धकः ।
अदुष्टः कीलको ज्ञातः स्यात् सुसिद्धिप्रदायकः ॥ इति ।
तत्र तु तत्कीलकदोषापहाराय मायाद्वयसहितो मन्त्र उद्धृतः ।
तदुक्तमाचार्यैः—- तारान्तेऽस्त्रादावपि मायाबीजं प्रयोजयेत् मन्त्री ।
तेन हि काङ्क्षितसिद्धिः भूयादचिरेण मन्त्रविदाम् ॥ इति ।
नारायणीयेऽपि—- फट्ताराद्यं तयोर्देव्या युक्तं तत् सर्वसिद्धिदम् ।
इति ।
प्रणवो बीजं माया शक्तिः ।
हु� बीजमिति पद्मपादाचार्याः ।
पुरुषार्थेति विनियोगोक्तिः ॥ १-३ ॥
मायाविवजीतान् वर्णान्मूध्नी भाले गले हृदि ।
नाभिगुह्योरुयुग्मेषु जानुजङ्घापदेषु च ॥ ४ ॥
विन्यस्य व्यापकं कुर्यात्समस्तेनैव साधकः ।
कूर्माद्यैः सप्तभिर्वर्णैः पूर्वपूर्वविवजीतैः ॥ ५ ॥
द्वाभ्यां द्वाभ्यां षडङ्गानि कल्पयेत्साधकोत्तमः ॥ ६ ॥
अक्षरन्यासमाह मायेति ।
अनेन दशवर्णानामेव न्यासः ।
तत्र ऊरुयुग्मादि- स्थानद्वयेऽपि एकैकाक्षरन्यासः ।
पदेष्विति पादयोः ।
साधक इत्यनेन व्यापके माया- सहितोच्चारणमुक्तम् ।
षडङ्गमाह कूर्माद्यैरिति ।
कूर्मश्चकारस्तस्याद्यः खे ।
बहुवचनम् आद्यर्थं तेन खेप्रभृतिभिः सप्तभिर्वर्णैः अत्र कूर्माद्यैः सप्तभिर्वर्णैरिति ।
प्रधानेन पूर्वक्रियान्वये प्राकराकाङ्क्षायामरुणाधिक न्यायेन द्वाभ्यां द्वाभ्यामित्यस्य पाष्णीकोन्वयः ।
तेन खे च इति हृत् ।
च छे शिरः छे क्षः शिखेत्यादि ।
तदुक्तं नारायणीये दशाक्षरं मन्त्रमुद्धृत्य—-
नवमान्तं तृतीयादिपदस्यावर्णसप्तकम् ।
तेनाङ्गानि द्विवर्णानि कर्त्तव्याण्युपदेशतः ॥ इति ।
केचित्तु कूर्मश्चकारः स आद्यो येषां तैः सप्तभिर्वर्णैरिति व्याचक्षते ।
तन्मते मायाविवजीतानिति पदमनुवृत्य पश्चाद्विभक्तिविपरिणामेव विवजीतैरिति कृत्वा प्रकृते योजनीयं तेन
चकारादिफडन्तैः षडङ्गम् ।
तदुक्तं कादिमते दशाक्षरं मन्त्रमुद्धृत्य—-
विद्या चतुर्थवर्णादि सप्तभिरक्षरैस्तथा ।
कुर्यादङ्गानि युग्मार्णैः षट्क्रमेण कराङ्गयोः ॥ इति ।
संहितायां च—- च छे युग्मं हृछिरस्तत् छेक्षो युग्मं शिखा ततः ।
क्षः स्त्रीयुगं च कवचं स्त्री हुमात्मयुगं तथा ॥
हूं क्षे नेत्रे तु विन्यस्य क्षे फडस्त्रं प्रकीत्तीतम् ॥ इति ।
एतत्पक्षद्वयमपि स्वस्वगुरुसम्प्रदायानुसारेण बोद्धव्यम् ।
साधकोत्तम इत्यनेन ह्लीमिति कुण्डलिनीबीजस्य षड्दीर्घयुक्तमायाबीजस्य च अङ्गमन्त्रेषु योगः सूचितः ।
अतएव नारायणीये उपदेशत इत्युक्तिः ॥ ४-६ ॥
श्यामां बहीकलापशेखरयुतामाबद्धपर्णांशुकां
गुञ्जाहारलसत्पयोधरभरामष्टाहिपान् बिभ्रतीम् ।
ताटङ्काङ्गदमेखलागुणरणन्मञ्जीरतां प्रापितान्
कैरातीं वरदाभयोद्यतकरां देवीं त्रिनेत्रां भजे ॥ ७ ॥
ध्यानमाह श्यामामिति ।
कलापो बर्हः ।
इदं वलयादीनामुपलक्षकम् ।
तदुक्तं नारायणीये—-मायूरवलया पिच्छमौलिः किसलयांशुका ।
सिंहासनस्था मायूरछत्रा बहीध्वजान्विता ॥ इति ।
ताटङ्कादीन् प्रापितानष्टाहिपान् सर्पेन्द्रान् बिभ्रतीम् ।
तत्रानन्तकुलिकौ ताटङ्कतां गतौ वासुकीशङ्खपालौ अङ्गदतां गतौ तक्षकमहापद्मौ मेखलतां गतौ
कर्केटकपद्मनागौ नूपुरतां गतौ ध्येयौ ।
तदुक्तं नारायणीये—-
विप्राहिकुण्डला राजनागकेयूरसंयुता ।
वैश्यनागकटीबन्धा वृषलो नागनूपुरा ॥ इति ।
एषां ध्यानमुक्तम्—- अनन्तकुलिकौ विप्रौ वह्निवर्णावुदाहृतौ ।
प्रत्येकं तु सहस्रेण फणानां समलङ्कृतौ ॥
वासुकिः शङ्खपालश्च क्षत्रियौ पीतवर्णकौ ।
प्रत्येकं तु फणासप्तशतसङ्ख्याविराजितौ ॥
तक्षकश्च महापद्मो वैश्यावेतावही स्मृतौ ।
नीलवर्णौ फणापञ्चशततुङ्गोत्तमाङ्गकौ ॥
पद्मकर्केटकौ शूद्रौ फणात्रिशतकौ सितौ ॥ इति ।
आयुधध्यानं वामदक्षिणयोरिति सम्प्रदायविदः ॥ ७ ॥
लक्षं सञ्जप्य मन्त्रज्ञो मनुमेनं जितेन्द्रियः ।
दशांशं जुहुयाद्बिल्वैर्मधुराक्तैः समिद्वरैः ॥ ८ ॥
मन्त्रज्ञ इत्यनेन ॐ ह्रीं नमो नित्ये स्वाहेति मन्त्रस्य दशांशजपः ।
शिव- पञ्चाक्षरस्य किङ्करमन्त्रस्य ॐ ह्रीं नमो भगवते शवराय महाकिरातरूपाय कङ्काल- धराय हूं
फट् स्वाहेत्यस्य च शतांशजपः ॥ ८ ॥
हृल्लेखाकल्पिते पीठे नवशक्तिसमन्विते ।
पूजयेत् त्वरितां देवीं वक्ष्यमाणविधानतः ॥ ९ ॥
हृल्लेखाकल्पिते भुवनेशीप्रोक्ते ।
तत्पीठशक्तयोऽत्रापि पूज्या इत्यर्थः ।
नवशक्तिसमन्वित इत्यनेन पीठमन्त्रस्याऽन्यत्वं सूचयति ।
अत्र पीठमष्टदलमेव ।
षोडशदलपूज्यदेवतानामनुक्तत्वात् ।
तदुक्तं संहितायाम्—-
अष्टपत्रं लिखेत्पद्मं बहिर्भूबिम्बमालिखेत् ।
प्रत्येकं वसुपत्रेषु कवचं चाष्टधा लिखेत् ॥
मध्ये तु भुवनेशानीं वेष्टयेन्मातृकां बहिः ।
सर्वरक्षाकरं नाम चक्रमेतदुदाहृतम् ॥
अत्रावाह्य पुनर्देवीमुपचारैः समर्चयेत् ।
इति ।
आचार्याश्च—- अष्टहरिविधृतसिंहासने सामावाह्य सरसिजे देवीम् ।
इति ॥ ९ ॥
संवर्तको बिन्दुयुतः कवचं सकलं वियत् ।
वज्रदेह पुरुद्वन्द्वमाभाष्य हिङ्गुलुद्वयम् ॥ १० ॥
गर्जयुग्मं वियत्सेन्दु वर्मान्त्यो दीर्घबिन्दुमान् ।
पञ्चाननाय हृदयं पीठमन्त्रः प्रकीत्तीतः ॥ ११ ॥
दद्यादासनमेतेन मूत्तीं मूलेन कल्पयेत् ।
अङ्गैः प्रणीतां गायत्रीं केसरेष्वर्चयेत् क्रमात् ॥ १२ ॥
आसनमन्त्रमुद्धरति संवर्त्तक इति ।
बिन्दुयुतः संवर्त्तकः क्षं कवचं हुम् ।
सकलं सबिन्दु कलाशब्देनार्द्धेन्दुः तेन बिन्दुवाचकत्वम् ।
वियत् हं वज्रदेहपुरुपुरुस्वरूपम् ।
क्षिमाभाष्येति सम्बन्धः ।
सेन्दु सबिन्दु वियत् हम् ।
वर्म हुम् अन्त्यः क्षः दीर्घ आकारः बिन्दुः तद्वान् तेन क्षाम् ।
हृदयं नमः ॥
आवरणपूजामाह अङ्गैरिति ।
क्रमादित्यत्रादिषट्सु केसरेषु षडङ्गानि सम्पूज्य कौवेरेशानयोः प्रणीतां गायत्रीं च पूजयेत्
इति सम्प्रदायविदः ।
तदुक्तमाचार्यैः—-अङ्गैः सह प्रणीतां गायत्रीं पूजयेद्दिशां क्रमतः ।
इति ।
पद्मपादाचार्यैरप्येवमेव व्याख्यातम् ।
अन्यत्रापि—- अष्टसिंहासने पूज्या दले पूर्वादिके क्रमात् ।
अङ्गप्रणीतां गायत्रीम् ।
इति ।
त्रोतलामतेऽपि—- यजेत्तत्राष्टपत्रेषु पूर्वाशाद्यङ्गदेवताः ।
सौम्ये प्रणीतामैशे च गायत्रीमभिपूजयेत् ॥ इति ।
मन्त्रदेवप्रकाशिकाकारादीनामिदमेव सम्मतम् ॥ १०-१२ ॥
दलेषु पूजयेदेताः श्रीबीजाद्याः सुभूषिताः ।
हुङ्कारीं खेचरीं चण्डां छेदनीं क्षेपणीं स्त्रियम् ॥ १३ ॥
हूङ्कारी क्षेमकारीं च लोकेशायुधभूषणाः ।
फट्कारीमग्रतो बाह्ये कोदण्डशरधारिणीम् ॥ १४ ॥
द्वारस्य पार्श्वयोः पूज्ये हैमवेत्रकराम्बुजे ।
दलेष्विति ।
एता वक्ष्यमाणा मन्त्रार्णशक्तयः सुभुषिता इत्यस्य व्याख्यानम् ।
लोकेशेति ।
भूषणशब्दो वर्णवाहनोपलक्षणः ।
तेनेन्द्रादीनामिव तासां वर्णायुधभूषण- वाहनानीत्यर्थः ।
उक्तं च त्रोतलामते—-
इन्द्रादिलोकपालानां वर्णवाहायुधैः समाः ।
इति ।
अग्रत इति देव्याः ।
केचनात्र लोकपालतदायुधपूजां न कारयन्ति शक्तीनामेव तद्रूपत्वादिति ।
अन्ये योषिद्रूपान् पूजयन्ति ।
तदुक्तं त्रोतलामते—-
योषिद्भूतान् दिशां नाथान् तद्बाह्यावरणे यजेत् ।
इति ।
अन्ये तु दलाग्रेषु भैरवाङ्कस्था मातरः पूज्या इत्याहुः ।
उक्तं च त्रोतलामते—-
तद्बाह्ये भैरवानष्टौ पीठमातृसमन्वितान् इति ॥ १३-१४ ॥
जयाख्या विजयाख्या च किङ्कराय पदं ततः ॥ १५ ॥
रक्षरक्षपदस्याऽन्ते त्वरिताज्ञा स्थिरो भव ।
वर्न्मास्त्रान्तेन मनुना किङ्करं तद्बहिर्यजेत् ॥ १६ ॥
लगुडं बिभ्रतं कृष्णं कृष्णबर्बरमूर्द्धजम् ।
आरण्यैररुणैः पुष्पैरतिमुक्तैः सुगन्धिभिः ॥ १७ ॥
पूजयेद् धूपदीपाद्यैर्नृत्यगीतैर्मनोरमैः ।
एवं सिद्धमनुर्मन्त्री नारीनरनरेश्वरैः ॥ १८ ॥
मान्यते वत्सरादर्वाक् लक्ष्म्या जितधनेश्वरः ।
योनिकुण्डं प्रकल्प्यात्र कुर्याद्धोमं निजेच्छया ॥ १९ ॥
मल्लिकाकुसुमैर्हुत्वा वशयेदखिलं जगत् ।
कृत्याद्रोहादिशमनं पलाशकुसुमैर्हुतिम् ॥ २० ॥
इक्षुखण्डैः शुभैर्हुत्वा महतीमृद्धिमाप्नुयात् ।
दीर्घमायुरवाप्नोति दूर्वाहोमेन साधकः ॥ २१ ॥
द्वारस्य पार्श्वयोः द्वारबाह्यपार्श्वयोः ।
द्वारबाह्ये स्थिते इत्युक्तेः ।
एते अपि द्विभुजे देवतासमानवर्णे च ।
उक्तं च—-शक्तो तत्सदृशा इति ।
किङ्करमन्त्रमुद्धरति किङ्करायेति ।
वर्म हुम् ।
अस्त्रं फट् ।
किङ्करो नाम देव्याः प्रेष्यभूतो भूतविशेषः ।
सोऽपि द्विभुज एव ।
तद्बहिर्द्धारबहिर्भागे ।
बर्बरमूर्द्धज- मुद्धुषितकेशं कुटिलकेशमिति यावत् ।
त्रोतलातन्त्रे विशेषः—-प्रेतासनगतं द्वारबाह्यदेशेऽतिभीषणम् ।
इति ।
त्वरितामन्त्रजापी त्वरितागायत्रीं जपेत् ।
यदाहुः—-
त्वरितादेविशब्दान्ते विद्महे वर्णमुच्चरेत् ।
विद्यां धीमहि च प्रोक्त्वा तन्नो देवी प्रचोदयात् ॥
गायत्री त्वरितायास्तु जपात् सान्निध्यकारिणी ।
इति ।
निजेच्छयेति ।
अनेनैतदुक्तम् ।
वक्ष्यमाणप्रयोगेषु कार्यगौरवलाघवात् सहस्रं वक्ष्यमाणायुतसङ्ख्या त्रियुता वा होमस्य ।
जपस्यापि तावतीति ।
तदुक्तम्—- हुतसङ्ख्या साहस्री त्रियुता वाथाऽयुतान्तिकी भवति ।
यावत्सङ्ख्यो होमस्तावज्जप्यश्च मन्त्रिणा मन्त्रः ॥ इति ।
अन्यत्रापि—- हुतसङ्ख्या च साहस्री सहस्रत्रियुतावधि ।
लाघवं गौरवं कार्ये विचार्यं निपुणश्चरेत् ॥ इति ।
एतद्धोमदशांशेन पञ्चाक्षरकिङ्कराभ्यामपि होमः सर्वप्रयोगेष्विति ज्ञेयम् ॥
वशयेदित्यत्र कामादित्वम् ।
कृत्याद्रोहादीत्यत्र नृसिंहादित्वम् ।
महतीमृद्धिमिति शक्त्यादित्वम् ।
दीर्घमायुरवाप्नोतीति मृत्युञ्जयादित्वम् ।
साधक इत्यनेन त्रिःकृत- पुरश्चर्य इत्युक्तम् ॥ १५-२१ ॥
धान्यैः प्रक्षालितैर्हुत्वा श्रियमिष्टां समाप्नुयात् ।
यवैर्धान्यसमृद्धिः स्याद्गोधूमैरिष्टसिद्धयः ॥ २२ ॥
तण्डुलैरक्षया सिद्धिः स्याद् वृद्धिर्महती तिलैः ।
मन्त्री नीलोत्पलैर्हुत्वा नृपपत्नीं वशं नयेत् ॥ २३ ॥
प्रबुद्धैः पङ्कजैर्हुत्वा वशं नयति मेदिनीम् ।
अशोकैः पुत्रमाप्नोति मधूकैरिष्टमाप्नुयात् ॥ २४ ॥
फलैर्जम्बुभवैर्हुत्वा लभते धनमीप्सितम् ।
पुष्पैः पाटलिसम्भूतैरिष्टामाप्नोति सुन्दरीम् ॥ २५ ॥
प्रक्षालितैरिति तिलान्तानां विशेषणम् ।
श्रियमिष्टामिति श्रीयोगोऽपि ।
पुत्र- माप्नोतीति कामयोगः ।
मेदिनीमिति मेदिनीस्था लोका लक्ष्यन्ते ।
बहुत्वं व्यङ्ग्यम् ।
इष्टां सुन्दरीमिति बालायोगः ॥ २२-२५ ॥
पुष्पैर्बकुलसम्भूतैः कीत्तीः स्यादनपायिनी ।
दीर्घमायुर्लभेदाम्रैश्चम्पकैः काञ्चनं लभेत् ॥ २६ ॥
कुर्वीत सर्षपैर्हेमं शत्रोर्नाशकरं सुधीः ।
पत्रैर्बकुलजैर्हुत्वा शीघ्रमुत्सादयेदरीन् ॥ २७ ॥
शाल्मलीपत्रहोमेन सपत्नान् नाशयेद् ध्रुवम् ।
कोद्रवैः कण्डनैस्तद्वन्निम्बैवीद्वेषयेन्मिथः ॥ २८ ॥
कीत्तीः स्यादित्यजपायोगो ज्ञेयः ।
अनपायिनी अविनश्वरा ।
लभेरात्मनेपदित्वात् कथं लभेदिति ।
लभत इति लभः पचाद्यच् लभ इवाचरेदिति ।
आचारे नाम धातोः क्विप् ।
सनाद्यन्ता इति धातुत्वम् ।
ततः परस्मैपदं लिङीति समाधिः ।
क्वचिद्भवेदित्येव पाठः ।
आम्रैरिति ।
अत्र पुष्पैरित्यनुषज्यते ।
उत्सादयेदिति वायुबीजादित्वम् ।
सपत्नान् शत्रून् ।
कण्डनैस्तुषकणैः ।
तद्वन्नाशयेदित्यर्थः ।
निम्बैः निम्बफलैः ॥ २६-२८ ॥
माषहोमेन मूकः स्यादुन्मत्तोऽक्षैर्भवेदरिः ।
अयुतं होमसङ्ख्या स्याज्जपस्तावान् प्रकीत्तीतः ॥ २९ ॥
अक्षैबीभीतकफलैः ॥ २९ ॥
स्नानं तन्मन्त्रितैस्तोयैः सर्वव्याधिहरं स्मृतम् ।
तज्जप्तं चुलुकं तोयं मुखे क्षिप्तं विषापहम् ॥ ३० ॥
आर्त्ताय भेषजं दद्यान्मन्त्रेणाऽनेन मन्त्रवित् ।
स भवेद् व्याधिनिर्मुक्तो मन्त्रस्याऽस्य प्रभावतः ॥ ३१ ॥
विषापहमिति गरुडबीजयोगः ।
मन्त्रविदित्यनेन नृसिंहबीजयोगः ॥ ३०-३१ ॥
त्रिलोहीमुद्रिकाऽनेन मनुना साधु साधिता ।
कृत्याद्रोहादिशमनी सर्वव्याधिविनाशिनी ॥ ३२ ॥
त्रिलोहीति ।
साधुसाधिता एतन्मन्त्रजप्ता कृतसम्पाता च ।
अत्रापेक्षितार्थद्योत- निकाकारेण लोहानां प्रत्येकं समभागा उक्ताः ॥ ३२ ॥
सर्वसम्पत्प्रदा नित्यं सर्ववश्यकरी मता ।
यद्यद्वाञ्छति मन्त्रज्ञस्तत्तदेतेन साध्यते ॥ ३३ ॥
यद्यद्वाञ्छति मन्त्रज्ञ इत्यनेन प्रणवयोगे मुक्तिकरी ।
वाग्योगे धर्मज्ञानकरी ।
शक्तियोगे सर्वकरीति सूचितम् ॥ ३३ ॥
मध्ये सरोजे दशपत्रयुक्ते मायां लिखेद्वाञ्छितसाध्यगर्भाम् ।
तारादिवर्णान् दश मन्त्रसंस्थान् षट्कोणबीजं वसुधापुरस्थम् ॥३४॥
कृत्याद्रोहादिशमनं व्यालचौरभयापहम् ।
विधृतं त्वरितायन्त्रं विशेषाद्विजयप्रदम् ॥ ३५ ॥
यन्त्रमाह मध्य इति ।
मध्ये सरोजे इति व्यधिकरणे सप्तम्यौ ।
वाञ्छितं वश्यादि साध्यञ्च तद्गर्भाम् ।
तारादीनिति ।
मायाव्यतिरिक्तान् ।
विशेषाद्विजयप्रदमित्यनेन मायायां दुर्गाबीजे साध्यलेखनमिति सूचितम् ॥ ३४-३५ ॥
तारे हुं विलिखेत्सरोजकुहरे साध्याभिधानान्वितं
मन्त्रार्णान् वसुसङ्ख्यकान् वसुदलेष्वालिख्य तद्बाह्यतः ।
शक्त्या त्रिःपरिवेष्टितं घटगतं पद्मस्थमब्जाननं
यन्त्रं वश्यकरं ग्रहादिभयहृल्लक्ष्मीप्रदं कीत्तीदम् ॥ ३६ ॥
यन्त्रान्तरमाह तार इति ।
सरोजकुहरे अष्टदलकणीकायाम् ।
मन्त्रार्णानिति मायाद्वयतारवर्मरहितान् ।
तेषामन्यत्र विनियोगात् ।
अब्जाननमिति ।
घटमुखमेव तद्वत्त्वेन यन्त्रे उपचरितम् ।
कीत्तीदमिति ।
अजपायां साध्यनामेति ज्ञेयम् ॥ ३६ ॥
कोष्ठानां शतमेकविंशतियुतं कृत्वा ध्रुवं मध्यतः
साध्याढ्यं त्वरितां शिवादि विलिखेन्मायां विना मन्त्रवित् ।
रेखाग्रेषु लसत्त्रिशूलमसकृत् सञ्जप्य सम्पातितं
यन्त्रं क्ष्वेडमहाभिचारशमनं वश्यावहं श्रीप्रदम् ॥ ३७ ॥
यन्त्रान्तरमाह कोष्ठानामिति ।
दक्षिणोदक्पूर्वापरायतद्वादशद्वादशरेखाभिः शत- मेकविंशतियुतं कोष्ठानि जायन्ते ।
मध्यत इति सप्तम्यर्थे तसिः ।
तत्र शिवादि ईशानादि प्रदक्षिणक्रमेण द्वादशावृत्ति मन्त्रं लिखेत् ।
अत्र क्ष्वेडशमने गरुडबीजे साध्य- लिखनम् ।
महाभिचारशमने नृसिंहबीजे ।
वश्ये कामबीजे, श्रिये श्रीबीजे, सर्वार्थे शक्तावित्यादि ज्ञेयम् ।
साम्प्रदायिकास्त्वन्यथा व्याचक्षते ।
ध्रुवं मध्यतः शिवादि विलिखेत् ।
अत्र पञ्चम्यर्थे तसिः ।
आदिशब्देन आग्नेयनैरृतवायव्यानि ।
तेनायमर्थः ।
मध्ये प्रणवं विलिख्य तत ईशगतपञ्चसु कोणकोष्ठेषु पञ्चप्रणवान् लिखेत् ।
एवमाग्ने- यादिषु पञ्चसु कोणकोष्ठेष्वपि ।
मायां विना साध्याढ्यं यथा स्यात्तथा त्वरितां मन्त्र- विद्विलिखेदिति ।
अत्र मन्त्रविच्छब्देन लेखनक्रमः सूचितः ।
साध्याढ्यमित्यनेन ध्रुवे प्रति कोष्ठं चैकैकवर्णक्रमेण साध्यलिखनम् ।
मध्यध्रुवे च सर्वकर्मसाध्यलिखनमित्यर्थः ।
अत्राक्षरलेखनक्रमः—-तत्रेशानतारपञ्चके आद्यस्य प्रणवस्य पूर्वदिग्गतपद- चतुष्के
हुमादिछेऽन्तवर्णचतुष्कं विलिख्य तद्दक्षिणकोष्ठे क्षः आलिख्य तत्पश्चात् पदचतुष्के शेषं वर्णचतुष्कं
मध्यप्रणवान्तं लिखेदित्येकावृत्तिः ।
ततो द्वितीयतारस्य पूर्वपदत्रये हुं खे चेति विलिख्य पूर्वलिखितानुवाचनेन द्वितीया ।
एवं तृतीयतार- पूर्वपदद्वये हुं खे विलिख्य पूर्वलिखितोपजीवनेन तृतीया ।
एवं चतुर्थतारपूर्वपदे हुमालिख्य पूर्वलिखितोपन्यासेन चतुर्थी ।
पुनः पञ्चमं प्रणवमारभ्य पूर्वलिखितवाचने- नैव पञ्चम्यावृत्तिः ।
एवमेव प्रणवपञ्चकमारभ्य पूर्वपदावृत्तिपञ्चकम् ।
एवमेकस्मिन् कोणे दशावृत्तयः ।
एवमाग्नेयादिकोणत्रयेऽपि ।
तथाचाचार्यवचने " अनुविलिखेद्वा " इति छेदं कृत्वा वाशब्दः समुच्चये दशावृत्ति लिखेदिति व्याख्यातम् ।
नारायणीये च—- भूर्जे सकारकपुटे जवशूलदीप्ते
कोणेषु तारमुदरे निहितस्य नाम्नः ।
फट् स्याद्दिशासु च यथा लिखिता तथैषा
मालार्णयुक् प्रति पुटं हरति ग्रहात्तीम् ॥ इति ।
कारकेति १२१ जवेति ४८ ।
अन्यत् स्पष्टम् ।
तन्त्रान्तरोक्तं यन्त्रान्तरं—-
रेखाः पूर्वापरा द्वादशगिरिशमिता दक्षिणोदक् च कृत्वा
साध्यं मध्यस्थकोष्ठेष्वप्यसुरपतिदिक्कोष्ठकेषु ध्रुवः स्यात् ।
पश्चात्तेष्वस्त्रमन्या मनुभवलिपयः शेषकोष्ठेषु लेख्या
बाधन्ते यन्त्रयुक्तं न नरमथ सुराः किं पुनर्मानवौघाः ॥ इति ॥ ३७ ॥
एकाशीतिपदेषु टान्तविवरे साध्यं लिखेन्मध्यतः
पश्चात् पङ्क्तिषु दिग्गतासु लिपिशो जूंसः शिखान्तं लिखेत् ।
शिष्टेष्वीशनिशाचरादि विलिखेल्लक्ष्मीमनुं पङ्क्तिशः
शस्त्राविर्वषडन्तया त्वरितया वीतं चतुदीक्ष्वपि ॥ ३८ ॥
यन्त्रान्तरमाह एकेति ।
दश पूर्वापरायता दश दक्षिणोत्तरायता रेखा विलिखेत् ।
एवम् एकाशीतिकोष्ठानि जायन्ते ।
तत्र मध्यकोष्ठे ठान्तं ठं विलिख्य तन्मध्ये साध्यं विलिखेत् ।
साध्यमित्युपलक्षणं साधकादीनामपि ।
दिग्गतासु पङ्क्तिष्विति ।
मध्य- कोष्ठात्पूर्वापरदक्षिणोत्तरचतुःकोष्ठात्मकचतुःपङ्क्तिषु ।
जूंसः स्वरूपम् ।
शिखान्तं वषडन्तं तेन जूंसः वषट् इति लिपिशः एकैकाक्षरक्रमेण लिखेत् ।
लक्ष्मीमनुं वक्ष्यमाणं श्रीसेत्यादिकम् ।
शस्त्रं फट् तस्मिन्नाविर्भवत् यत् वषट् तदन्ते यस्याः सा तया त्वरितया त्वरितामन्त्रेण
चतुदीक्षु दिशि दिशि
एकैकावृत्या वेष्टयेत् ।
तदुक्तम्—- दिक्दिक्संस्थामस्त्रपदादिर्वषडन्ताम् ।
इति ।
अन्यत्रापि—- वषडन्ता बहिः शीघ्रा दिक्षु ठं कलशं वह्निः ।
इति ।
अत्र केचन अन्यथा व्याचक्षते ।
अस्त्रं च आविर्भवदधिकं वषट् यत्रेति ।
तेन फट्कारं समुच्चार्य वषट्कारमुच्चारयेदिति ।
तदयुक्तं तन्त्रान्तरविरोधात् ।
तदुक्तम्—- त्वरिता वषडन्ता स्यात् फट्कारपरिवजीता ।
इति ।
अत्र वेष्टने अग्रे च मायासहितो मन्त्रः ॥ ३८ ॥
लान्तैः प्रवीतं कमलासनेन घटेन वीतं कमलासनेन ।
संसाधितं चक्रमनुग्रहाख्यं दध्याद् यथावत्कनकादिबद्धम् ॥३९॥
लान्तैर्वकारैः ।
प्रकर्षेण वीतमिति मालाकारेणेत्यर्थः ।
तदुक्तमाचार्यैः—-मेदोमालावेष्टितबिम्बम् ।
इति ।
दध्यात् धारयेत् ।
यथावदित्युक्तप्रमाणेन ।
कनकादीत्यादिशब्देन रजतताम्रे ॥ ३९ ॥
कृत्यापमृत्युरोगादीन् क्ष्वेडभूतमहाग्रहान् ।
जीवेद्वर्षशतं पुत्रैः पौत्रैर्लक्ष्म्या च नन्दति ॥ ४० ॥
तत्रान्तरेऽस्य फलमुक्तम्—- यमेन तु धृतं यन्त्रं ब्रह्मणा विष्णुना पुरा ।
बुधेन भैरवेणापि हेरम्बेन गुहेन च ॥
सर्वे ते वशमायान्ति विद्यायाश्च प्रसादतः ।
त्रिलोके यानि दुःखानि कृत्रिमाकृत्रिमाण्यपि ॥
क्षीयन्ते तान्यसन्देहो विद्याराज्ञीप्रभावतः ।
कुड्ये समे स्वटिकया भवने लिखित्वा सम्पूजयेत् परमनुग्रहचक्रमेतत् ।
सर्वे नरो भवति तत्र कुटुम्बवर्गः सर्वात्मना वशयतीह मनुष्यलोकम् ॥
इति ॥ ४० ॥
श्री सा माया यामा सा श्री सानो याज्ञे ज्ञेया नोसा ।
माया लीला लाली यामा याज्ञे लाली लीला ज्ञेया ॥ ४१ ॥
लिखेच्चतुःषष्टिपदेषु विद्वानीशादि कन्यादि रमामनुं तम् ।
बाह्ये यथावत् त्वरिताभिवीतं लान्तैश्च वीतं वरकाञ्चनस्थम् ॥ ४२॥
देशे पुरे वा नगरे गृहे वा विनिःक्षिपेच्चक्रमिदं यथावत् ।
तत्र ध्रुवं गोमहिषाभिवृद्धिः सम्यक् प्रजाशस्यसमृद्धयः स्युः ॥४३॥
यन्त्रान्तरमाह लिखेदिति।
प्रागपरदक्षिणोत्तरायता नव रेखा विलिख्य चतुःषष्टि- पदं कुर्यात् ।
कन्यादि नैरृत्यादि ।
रमामनुं श्रीसेत्यादि ।
यथावदिति वषडन्तया चतु- दीक्ष्वपि।
अत्र मध्यगतचतुर्षु कोष्ठेषु ठकारमालिख्य तन्मध्ये साध्यसाधककर्मनामानि लिखेत् ।
यथावद्विनिक्षिपेदिति ।
हस्तमात्रप्रमाणे क्षिप्तं पूजितमित्युक्तम् ॥ ४१-४३ ॥
कवचं भगवांश्चण्डो मेरुः सर्गसमन्वितः ।
त्रिकण्टकी समाख्याता विद्या वर्णत्रयात्मिका ।
द्विरुक्तैर्मन्त्रवर्णैः स्यादङ्गकॢप्तिरितीरिता ॥ ४४ ॥
मन्त्रान्तरमाह कवचमिति ।
कवचं हुम् ।
चण्डः खः भगवानेकारयुक्तः तेन खे ।
मेरुः क्षः ।
अत्र अकारादिलान्तानां पञ्चाशद्वर्णानाम् अक्षमालात्वात् मेरुस्थानीयः क्षकारो मेरुशब्दवाच्यः ।
सर्गसमन्वितो विसर्गयुक्तः ।
इदमेव पूर्वमन्त्रेऽप्ययं सविसर्ग इति द्योतयति ।
तदुक्तं नारायणीये—-यत्तोतलायाश्च दशाक्षराया बीजं द्वितीयं सतृतीयषष्ठम् ।
त्रिकण्टकीनाम तदा सुसिध्येत् ।
इति ।
आद्यं बीजम् अन्त्यं शक्तिः ॥ ४४ ॥
नीला नाभेरधस्तादरुणरुचिरधः कण्ठदेशात्सिताऽऽस्याद्
वक्त्रैर्द्रंष्ट्राकरालैरुदरपरिगतैर्भीषणाङ्गीं चतुभीः ।
दीपौ कम्बुरथाङ्गं करसरसिरुहैर्धारयन्ती जटान्तः
स्फूर्जच्छीतांशुखण्डा भवतु भयहरा देवता वस्त्रिनेत्रा ॥४५॥
त्रिलक्षं प्रजपेदेनमाज्येनाऽन्ते दशांशतः ।
हुत्वा प्राक् प्रोक्तमार्गेण पूजयेत्तां त्रिकण्टकीम् ॥ ४६ ॥
नीलेति ।
आस्यात् सितेत्यन्वयः ।
दंष्ट्वाकरालैः उदरपरिगतैः चतुभीर्वक्त्त्रै- र्भीषणाङ्गीति सम्बन्धः ।
उदरपरिगतैरिति उदरचतुःपाश्यर्वे ।
कम्बुः शङ्खः ।
आयुध- ध्यानमूर्द्धयोर्दक्षाद्ययोराद्ये तदधस्तनयोरन्त्य इति ॥ ४५-४६ ॥
त्रिशूलमुद्रां पाणिम्यां बद्धात्मानं त्रिकण्टकीम् ।
ध्यायन् स्पृष्ट्वा जपेद् ग्रस्तं सद्यस्तं मुञ्चति ग्रहः ॥ ४७ ॥
त्रिशूलमुद्रामिति ।
सा तु " कनिष्ठाङ्गुष्ठसंयोगात् शेषाणां तु प्रसारणात् " इति ।
एतन्मन्त्रान्त्याक्षरद्वयं छे युक्तमन्ते विषहा त्रिकण्टकी ज्ञेया ।
तदुक्तं नारायणीये—-
तस्याः त्रिपञ्चमपुटो विषहा च षष्ठः ।
इति ।
ऋष्यादिसर्वं पूर्वेण समानं त्रितयस्य ॥ ४७ ॥
क्षेरुद्धा स्त्री त्रिवर्णेयं विद्या वश्या त्रिकण्टकी ।
मन्त्रार्णैर्वीप्सितैः कुर्यादङ्गषट्कं यथा पुरा ॥ ४८ ॥
पूर्वेक्तां देवता ध्यायन् मन्त्रं त्रिनियुतं जपेत् ।
दशांशं सपीषा हुत्वा वशयेद्वनितां नरान् ॥ ४९ ॥
मन्त्रान्तरमाह क्षे इति ।
वश्येति विनियोगोक्तिः ।
आद्यं बीजं मध्यं शक्तिः ।
वीप्सितैद्वीरुक्तैः ।
त्रिनियुतं त्रिलक्षम् ॥ ४८-४९ ॥
तारो माया वाग्भवान्ते नित्यक्लिन्ने मदद्रवे ।
वाङ्माया वह्निजायान्तो मन्त्रः पञ्चदशाक्षरः ॥ ५० ॥
द्वाभ्यां द्वाभ्यां पुनर्द्वाभ्यां द्वाभ्यां पञ्चभिरक्षरैः ।
वाचं विना समस्तेनाप्यङ्गषट्कमथाचरेत् ॥ ५१ ॥
नित्यामन्त्रमाह तार इति ।
वाग्भवम् एम् ।
अनन्तरवक्ष्यमाणनित्यामन्त्रोक्त- छन्दर्ष्यादिकमत्र ज्ञेयम् ।
प्रणवो बीजं स्वाहा शक्तिः ।
श्रिये श्रीबीजादित्वं रोगशमनादौ दुर्गाबीजादित्वम् ।
दुःखदौर्भाग्यशमने कामबीजादित्वम् ।
जरापमृत्युशमनादौ दुर्गा- बीजादित्वम् ।
दुःखदौर्भाग्यशमने कामबीजादित्वम् ।
जरापमृत्युशमने मृत्युञ्जयादि- त्वम् ।
मदद्रवे इत्यतः पूर्वं साध्यनामप्रयोगोऽपि ।
एवं वक्ष्यमाणमन्त्रयोरपि ज्ञेयम् ।
वाचं विनेत्युभयत्र सम्बध्यते ।
तेन त्रयोदशभिरक्षरैरुक्तरीत्या पञ्चाङ्गानि कृत्वा शिष्ट- समस्तेनास्त्रमित्यर्थः ।
अथानन्तरमित्यनेने वाग्भवेन पुनरङ्गानि कुर्यात् इति ।
तदुक्तं नारायणीये—-रात्रिक्रूरांशसङ्ख्यैः स्ववर्णैः स्वेन च वाग्विना ।
न्यस्याङ्गषट्कं वाचैव पुनश्चाङ्गानि विन्यसेत् ।
इति ॥ ५०-५१ ॥
द्वीपं त्रिकोणं विपुलं सुरद्रुममनोहरम् ।
कूजत्कोकिलनादाढ्यं मन्दं मारुतसेवितम् ॥ ५२ ॥
भृङ्गपुष्पलताकीर्णमुद्यच्चन्द्रदिवाकरम् ।
स्मृत्वा सुराब्धिमध्यस्थं तस्मिन्माणिक्यमण्डपे ॥ ५३ ॥
रत्नसिंहासने न्यस्ते त्रिकोणोज्ज्वलाणीके ।
पद्मे सञ्चिन्तयेद्देवीं साक्षात्त्रैलोक्यमोहिनीम् ॥ ५४ ॥
द्वीपमिति ।
सुराब्धिमध्यस्थं त्रिकोणं द्वीपं स्मृत्वा तस्मिन् द्वीपे माणिक्यमण्डपे रत्नसिंहासने पद्मे देवीं
चिन्तयेदित्यन्वयः ।
व्यधिकरणे सप्तम्यः उभयत्र ।
त्रिकोणमित्यधोमुखम् ।
सुराब्धीत्यनेनैतदुक्तं पृथिव्यनन्तरं सुराब्धिं त्रिकोणं द्वीपं माणिक्यमण्डपं रत्नसिंहासनं
पीठन्यासे न्यस्येदिति ।
शेषं समानम् ।
इदमग्रिममन्त्रेऽपि ज्ञेयम् ।
त्रैलोक्यमोहिनीमित्यनेन विनियोगोक्तिः ॥ ५२-५४ ॥
नित्यां भजेद् बालशशाङ्कचूडां पाशाङ्कुशौ कल्पलतां कपालम् ।
हस्तैर्वहन्तीमरुणां त्रिनेत्रामास्फालयन्तीं कलवल्लकीं ताम् ॥ ५५ ॥
कलवल्लकीमास्फालयन्तीमित्यनेन षट्करेत्युक्तं भवति ।
आयुधध्यानं तु पूर्ववत् ॥ ५५ ॥
त्रिलक्षं प्रजपेन्मन्त्रमाज्येन जुहुयात्ततः ।
दशांशं पूजयेत्पीठं चतुःशक्तिसमन्वितम् ॥ ५६ ॥
आम्पूर्वां द्राविणीं वामां शम्भुकोणे समर्चयेत् ।
आह्लादकारिणीं ज्येष्ठामीङ्काराद्यां हुताशने ॥ ५७ ॥
पूजयेत् क्षोभिणीं रौद्रीमूङ्काराद्यां निशाचरे ।
मध्ये(वायौ)यजेद् गुह्यशक्तिं वाग्भवाद्यां विचक्षणः ॥ ५८ ॥
चतुःशक्तिसमन्वितमिति पीठशक्तयश्चतस्रः ।
तत्र द्राविणीमित्यादीनि तु वामाज्येष्ठारौद्रीणां विशेषणानि ।
अत्र शक्तित्रयमीशादिकोणेषु विन्यस्य तुर्यां मध्ये न्यसेदित्यर्थः ।
तदुक्तं नारायणीये—-कोणेष्वीशादि मध्ये च तत्र शक्तीर्न्यसेदिमाः ।
इति ।
मध्ये यजेद् गुह्यशक्तिमिति पाठः ।
वायाविति पाठो ज्ञानेनोपस्कृतो मन्तव्यः ॥ ५६-५८ ॥
मायाद्यमासनं दत्त्वा मृत्तीं मूलेन कल्पयेत् ।
अत्र सम्पूजयेद्देवीं वक्ष्यमाणक्रमेण तु ॥ ५९ ॥
अङ्गार्चनं केसरेषु दलेष्वेताः समर्चयेत् ।
आद्या नित्या सुभद्राऽन्या मङ्गला नरवीरिणी ॥ ६० ॥
सुभगा दुर्भगा भूयः सप्तमी स्यान्मनोन्मनी ।
अष्टमी रुद्ररूपा च वीणावादनतत्पराः ॥ ६१ ॥
मायाद्यमिति ।
भुवनेशीबीजमुचार्य सर्वशक्तीत्यादिना पीठपूजेत्युक्तम् ॥५९-६०॥
आद्येति ।
नित्या आद्या प्रथमा ।
आदीति स्वराणामाद्यन्ते ये युग्मे क्लीबाश्च तद्रहिता अन्ये अष्टौ बिन्दुयुतास्तासां मन्त्राः ॥ ६०-६१ ॥
रक्ता मनोरमा दूत्यः सुवेषा मदमन्थराः ।
आद्यन्तयुग्मरहिताः स्वराः क्लीबविवजीताः ॥ ६२ ॥
बिन्दून्ता मनवस्तासामनङ्गस्मरमन्मथाः ।
कामो मारश्च पञ्चेषुपाशाङ्कुशधनुर्भृतः ॥ ६३ ॥
अनङ्गेत्यादीनां पञ्चानामष्टदलोपरि परितः पूजा ।
आयुधध्यानं दक्षाध- स्ताद्वामाधःपर्यन्तम् ॥ ६३ ॥
अपराङ्गनिषङ्गाढ्या रक्ताः पूज्याः सुभूषणाः ।
मान्मथं व्योमसर्गाढ्यं तेषां बीजमुदाहृतम् ॥ ६४ ॥
अपराङ्गनिषङ्गाढ्याः पृष्ठस्थतूणोराः ।
मान्मथं कामबीजम् ।
व्योमसर्गाढ्यं हकारविसर्गयुक्तम् ॥ ६४ ॥
रतिः स्याद्विरतिः प्रीतिवीप्रीतिर्मतिदुर्मती ।
धृतिश्च विधृतिस्तुष्टिवीतुष्टिश्च दश स्मृताः ॥ ६५ ॥
रक्ता वीणाकरा द्वे द्वे कामानां पार्श्वयोः स्थिताः।
सर्वाभरणसम्पन्नाः पूज्याः स्मेरमुखाम्बुजाः ॥ ६६ ॥
रतिरित्यादि दशशक्तिनामानि ॥ ६५-६६ ॥
क्लीबौष्ठद्वयनिर्मुक्तखराढ्यश्चतुराननः ।
बिन्दुमान् बीजमेतासां क्रमाल्लोकेश्वरान् बहिः॥ ६७ ॥
एवं सम्पूजयेद्देवीं देवानामपि दुर्लभाम् ।
परमैश्वर्यमाप्नोति प्रार्थ्यते वनिताजनैः ॥ ६८ ॥
क्लीबेति ।
क्लीबचतुष्टयम् ओष्ठद्वयम् एए ।
एतन्निर्मुक्ता ये दश स्वराः तदाढ्यः तद्युक्तश्चतुराननः जकारः तेन जं जां जिं जीं जुं जूं जों जौं
जं जः इति मन्त्राः ।
क्रमादिति पूर्वत्रान्वेति ।
लोकेशास्त्राण्यनुक्तानि अपि पूजनीयानि ।
चतुर्थ- पटले सामान्यत उक्तेः ॥ ६७-६८ ॥
वाग्भवं मान्मथं बीजं नित्यक्लिन्ने मदौ पुनः ।
द्रवे वह्निवधूमन्त्रो द्वादशार्णेऽयमीरितः ॥ ६९ ॥
ऋषिः सम्मोहनश्छन्दो निवृन्नित्या च देवता ।
वाचा कृत्वा षडङ्गानि नित्यां ध्यायेन्निजेष्टदाम् ॥ ७० ॥
मन्त्रान्तरमाह वागिति ।
मदौ मकारदकारौ ।
क्ली� बीजं स्वाहेति शक्तिः ।
वाचेति वाग्भवेन ।
षड्दीर्घकामबीजयुक्तेनेति परमगुरवः ।
निजेष्टदामिति विनियोगोक्तिः ॥ ६९-७० ॥
अर्द्धेन्दुमौलिमरुणाममराभिवन्द्या
मम्भोजपाशसृणिपूर्णकपालहस्ताम् ।
रक्ताङ्गरागवसनाभरणां त्रिनेत्रां
ध्यायेच्छिवस्य वनितां मदविह्वलाङ्गीम् ॥ ७१ ॥
चतुर्लक्षं जपित्वाऽन्ते मधुराक्तैर्मधूकजैः ।
कुसुमैरयुतं हुत्वा तोषयेद् गुरुमात्मनः ॥ ७२ ॥
अर्द्धेन्द्विति ।
सृणिः अङ्कुशः ।
पूर्णेति सुरापूर्णम् ।
आयुधध्यानं पूर्ववत् ॥ ७१-७२ ॥
शक्तिपीठे यजेद्देवीं वक्ष्यमाणेन वर्त्मना ।
अङ्गान्यर्चेद्यथापूर्वं ततः शक्तीरिमा यजेत् ॥ ७३ ॥
नित्या निरञ्जना क्लिन्ना क्लेदिनी मदनातुरा ।
मदद्रवा द्राविणी च द्रविणेत्यष्टशक्तयः ॥ ७४ ॥
नीलोत्पलकपालाढ्यकरा रक्ताम्बुजेक्षणाः ।
लोकपालान् यजेदन्त्ये वाहनायुधसंयुतान् ॥ ७५ ॥
सिद्धमन्त्रं जपेन्मन्त्री सहस्रं शयनस्थितः ।
यां विचिन्त्य स्त्रियं रात्रौ सा समायाति तत्क्षणात् ॥ ७६ ॥
शक्तिपीठ इति ।
शक्तिपीठोक्ता नव शक्त्योऽत्र पूज्या इत्यर्थः ।
यथापूर्वमिति तुर्येक्तरीत्या ।
रक्ताम्बुजेक्षणा इत्यत्र रक्ताम्बुजप्रभा इत्यपि ॥ ७३-७६ ॥
वाङ्मायाऽनन्तरं नित्ये भूयो क्लिन्ने मदद्रवे ।
द्विठान्तो रविसङ्ख्यार्णे मनुर्वश्यप्रदायकः ॥ ७७ ॥
अङ्गिराः स्यादृषिस्त्रिष्टुप् छन्दो मुनिभिरीरितम् ।
वज्रप्रस्तारिणी प्रोक्ता देवताऽभीष्टदायिनी ॥ ७८ ॥
वज्रप्रस्तारिणीमन्त्रमाह वागिति ।
वाक् वाग्भवम् ।
अन्ये एवं योजयन्ति ।
मायानन्तरं क्लिन्ने भूयः पश्चाद्वाक् ।
ततो नित्येति अविभक्तिकोऽयं निर्देशः ।
ततो मदद्रवे ।
ठः बिन्दु द्विठः बिन्दुद्वयं विसर्गः ।
सर्गः शक्तिरित्युक्तेः भुवनेशी-
बीजम् ।
रविसङ्ख्यार्णः द्वादशाक्षर इत्युक्तेर्वाग्भवान्तरमङ्कुशबीजम् ।
एतेनैतदुक्तं भवति ।
प्रथमतो माया ततः क्लिन्ने ततो वाग्भवाङ्कुशौ ततो नित्यमदद्रवे
ततो मायाबीजम् ।
तदुक्तमाचार्यैः—- स्मरदीर्घेऽधरार्काग्न्यों दीर्घेत्पक्षेमदद्रलान्तशिवाः ।
अभितः शक्तिनिरुद्धो द्वादशवर्णेऽयमीरितो मन्त्रः ॥ इति ।
नारायणीयेऽपि—- क्लिन्ने वागङ्कुशौ नित्यशब्दः कालश्च दद्रवे ।
वध्वेशीशक्तिरुद्धैषा ।
इति ।
अन्ये वाग्भवरहितं मायाद्यमेकादशाक्षरमाहुः ।
तदुक्तं नारायणीये—-नतौ साक्षित्वचौ क्लिन्ने कालोऽत्रिश्च द्रवे शिरः ।
इति ।
आचार्याश्च—- निद्रयोरन्तरा त्यक्लिन्ने मदाः स्युश्च वे शिरः ।
मायादिकस्तथा ।
इति ।
मन्त्रद्वयमपि साम्प्रदायिकमेव ।
वक्ष्यमाणविधिः सर्वेषां समान एव ।
प्रथममन्त्रे वाक् बीजं स्वाहा शक्तिः ।
द्वितीयमन्त्रे वाक् बीजं माया शक्तिः ।
तृतीये माया बीजं स्वाहा शक्तिः ।
वश्येति अभीष्टदेति च विनियोगोक्तिः ॥ ७७-७८ ॥
वाग्भवेन षडङ्गानि विदध्यान्मन्त्रवित्तमः ।
वज्रप्रस्तारिणीं ध्यायेत् समाहितमना ततः ॥ ७९ ॥
वाग्भवेनेति ।
षड्दीर्घमायायुक्तेनेति परमगुरवः ।
द्वितीयमन्त्रे तु ।
द्वाभ्यां वा चैकेन द्वाभ्यां द्वाभ्यां तथा पुनर्द्वाभ्याम् ।
मन्त्राक्षरैवीदध्यादङ्गविधिं जातिसंयुतैर्मन्त्री ॥ इति ।
अस्मिन् पक्षे वाग्भवेन शिर इति शेषः ।
एवं षडङ्गानीति श्लोकयोजना ।
मन्त्रवित्तम इत्यनेन तन्त्रान्तरोक्तान्यङ्गानि सूचितानि ।
आह्लादिनी हृत् क्लिन्ने शिरः क्लेदिनि शिखा नित्ये वर्म मद नेत्रं द्रवेऽस्त्रमिति तानि ॥ ७९ ॥
रक्ताब्धौ रक्तपोते रविदलकमलाभ्यन्तरे सन्निषण्णां
रक्ताङ्गी रक्तमौलिस्फुरितशशिकलां स्मेरवक्त्रां त्रिनेत्राम् ।
बीजापूरेषुपाशकुशमदनधनुः सत्कपालानि हस्तै-
बीभ्राणामानताङ्गी स्तनभरनमितामम्बिकामाश्रयामः ॥ ८०॥
मन्त्री मन्त्रं जपेल्लक्षं जपान्ते जुहुयात्ततः ।
अयुतं राजवृक्षोत्थैर्घृतसिक्तैः समिद्वरैः ॥ ८१ ॥
रक्ताब्धावित्यनेनैतदुक्तं भवति ।
पृथिव्यनन्तरं रक्तसमुद्रं रक्तपोतं भानुदलाब्जं पीठन्यासे न्यसेदिति ।
शेषं समानम् ।
इषुर्बाणः ।
मदनधनुरिक्षुचापम् ।
आयुधध्यानं वामोर्द्धतः पाशचापकपालानि दक्षोर्द्धतः अङ्कुशशरबीजपूराणि ।
केचन द्वितीयमन्त्रे बीजपूरस्थाने दाडिममाहुः ।
स्तनभरस्य भरणमाधिक्यं तस्मादानताङ्गी ।
आदिशब्देन रक्तगन्धः ।
स्वयमप्येतादृशवेष एव ।
तदुक्तम्—-
शक्तिपीठे पूज्या देवी कुसुमानुलेपनैररुणैः ।
स्वयमप्यलङ्कृताङ्गः ।
इति ।
तृतीयेऽङ्गानि ध्यानं च यथा—-
वर्णद्वन्द्वैश्चाङ्गविधिः स्मृतः ।
पूर्वेक्तरूपामभयपाशाङ्कुशकपालिनीमिति ।
समिद्वरैः श्रेष्ठसमिद्भिः ॥ ८०-८२ ॥
शक्तिपीठे यजेद्देवीमरुणैः कुसुमादिभिः ।
अङ्गानि केसरेषु स्युरर्चनीया दलेष्विमाः ॥ ८२ ॥
हृल्लेखा क्लेदिनी क्लिन्ना क्षोभिणी मदनातुरा ।
निरञ्जना रागवती सप्तमी मदनावती ॥ ८३ ॥
मेखला द्राविणी पश्चाद्वेगवत्यपरा स्मृता ।
कपालोत्पलधारिण्यः शक्तयो रक्तविग्रहाः ॥ ८४ ॥
आवरणपूजामाह अङ्गानीति ।
केसरेषु यान्यङ्गानि सामान्यत उक्तानि तानि स्युः।
त्रिकोणोपरि कणीकायामिति शेषः ।
ध्यानस्य नारायणीये तथोक्तेः ।
रक्तसिन्धु- चरत्पोतमासपत्राब्जयोनिगा ।
इति ।
तदुक्तं च—-अङ्गैः शक्तिभिराभिराशाधिपैः क्रमात् पूज्या ।
इति ।
तन्त्रान्तरेऽपि त्रिकोणषट्कोणद्वादशदलं पीठमुक्त्वा—-
अङ्गानि पूजयेदादौ त्रिकोणस्थास्तु पूजयेत् ।
इच्छाज्ञानक्रियासञ्ज्ञाः षट्कोणेष्वर्चयेत्ततः ॥
डाकिन्याद्याः द्वादशसु हृल्लेखाद्याः समर्चयेत् ।
इति ।
स्मरा द्वादश ।
पुस्तकेषु बिन्दुद्वयस्य रेखात्मकता लेखकदोषवशात् ।
उक्तं च नारायणीये-मेखला द्राविणी वेगवती कामश्च ताः स्मृताः ।
इति ।
आचार्या अपि—-सस्मरा द्वादश प्रोक्ताः ।
इति ।
अत एव शक्तय इत्युक्तिः ।
अन्यथा ध्यानमात्रमेव वदेत् ।
तेन शक्तीनामिदं ध्यानम् ।
स्मरस्तु प्रसिद्धध्यान इति भावः ।
रक्तविग्रहाः अरुणदेहाः ॥ ८२-८४ ॥
मातरो दिग्विदिक्ष्वर्च्याः पुनः पूज्या दिगीश्वराः ।
भजेन्मन्त्री मनुं नित्यमर्चनादिभिरादरात् ॥ ८५ ॥
दारिद्र्यरोगनिर्मुक्तः स जीवेच्छरदां शतम् ।
अस्मिन्मन्त्रे रतो मन्त्री वशयेदखिलं जगत् ॥ ८६ ॥
नित्यं मन्त्रैर्बुधः कुर्यान्मुखक्षालनमन्वहम् ।
अञ्जनं तिलकं पुण्यं धारयेन्मन्त्रितं सुधीः ॥ ८७ ॥
ताम्बूलं मन्त्रितं भक्ष्येन्मन्त्री स स्याज्जगत्प्रियः ।
मातरो दिग्विदिक्ष्विति ।
द्वादशदलाद्बहिः स्थानमात्रनिर्देशः ।
तेन पुरोभागादि- प्रादक्षिण्येन चतुरस्रान्तरष्टदिक्षु मातृपूजनम् ।
दिगीश्वरा इति तदस्त्रोपलक्षकम् ।
तृतीये तु आवरणपूजा अङ्गैः पूर्वमन्त्रोक्ताष्टशक्तिभिर्लेकपालैस्तदस्त्रैश्च ।
दीक्षितः प्रजपेल्लक्षं मनुमेनं हुनेत्ततः ।
मधूकपुष्पैः स्वाद्वक्तैरयुतं हविषाऽथवा ॥ इति ॥ ८५-८७ ॥
श्रीमायामदनैः प्रोक्तो मन्त्री बीजत्रयात्मकः ॥ ८८ ॥
ऋषिः सम्मोहनश्छन्दो गायत्री देवता मनोः ।
त्रिपुटाख्या द्विरुक्तैस्तैर्बीजैरङ्गानि षट् क्रमात् ॥ ८९ ॥
त्रैपुटमन्त्रमाह श्रीति ।
सम्मोहन इत्युपलक्षणम् ।
भृगुशक्तिसन्मोहना ऋषय इति ज्ञेयम् ।
आद्यं बीजं द्वितीयं शक्तिः ॥ ८८-८९ ॥
पारिजातवने रम्ये मण्डपे मणिकुट्टिमे ।
रत्नसिंहासने सौम्ये पद्मे षट्कोणशोभिते ।
अधस्तात् कल्पवृक्षस्य निषण्णां देवतां स्मरेत् ॥ ९० ॥
पारिजातेति ।
पारिजातवने मण्डपे कल्पवृक्षस्याऽधस्तान् मणिकुट्टिमे रत्न- सिंहासने पद्मे निषण्णां देवतां स्मरेदित्यन्वयः ।
व्यधिकरण्यः सप्तम्यः ।
पद्मे चतुःपत्रे अष्टपत्रे च ।
तत्र षट्कोणकणीकायां चतुःपत्रमन्यत् तत्कणीकायाम् ।
उक्तं च नारायणीये—-यजेदेनां चतुःपत्रे षट्कोणस्थाम्बुजे च ताम् ।
इति ।
अथ चैतदुक्तं भवति ।
अनन्तरं सुवर्णभूमिं पारिजातवनं रत्नमण्डपं मणिकुट्टिमं रत्नसिंहासनं पूजयेत् ।
शेषं समानम् ।
नवकनकभासुरोर्वीविरचितमणिकुट्टिमे सकल्पतरौ ।
इत्याचार्येक्तेः ॥ ९० ॥
चापं पाशाम्बुजसरसिजान्यङ्कुशं पुष्पबाणान्
बिभ्राणां तां करसरसिजै रत्नमौलिं त्रिनेत्राम् ।
हेमाब्जाभां कुचभरनतां रत्नमञ्जीरकाञ्ची-
ग्रैवेयाद्यैवीलसिततनुं भावयेच्छक्तिमाद्याम् ॥ ९१ ॥
चापमितीक्षुचापम् ।
आयुधध्यानं वामाधस्तात् दक्षाधःपर्यन्तम् ।
तदुक्तम् आचार्यैः—- ध्यायेद्धृताब्जयुगपाशवराङ्कुशेक्षु
चापां सपुष्पविशिखां नवहेमवर्णाम् ॥ इति ॥ ९१ ॥
चामरादर्शताम्बूलकरण्डकसमुद्गकान् ।
वहन्तीभिः कुचार्ताभिर्दूतीभिः परिवारिताम् ।
करुणामृतवषीण्या पश्यन्तीं साधकं दृशा ॥ ९२ ॥
ताम्बूलकरण्डकमित्येकम् ।
समुद्गकः सम्पुटकः गन्धादिस्थापनपात्रम् ।
दूतीभिरिति ।
घृणिनी सूर्या आदित्या प्रभावतीति चतस्रः ।
सौम्यादिचतुर्दलस्थाः ।
एता अपि द्विभुजाः ।
दक्षिणहस्ते चामरादि, वामहस्तेऽभयम् ।
तदुक्तम्—-
निरायुधे करे प्रोक्तो वरः साधारणः सदा ।
अभयञ्च ।
इति ।
नारायणीये तु कृताञ्जलित्वमुक्तम्—-तद्दूतीश्च कृताञ्जलीः ।
सौम्यादि घृणिनीं सूर्यामादित्यां च प्रभावतीम् ।
इति ॥ ९२ ॥
भानुलक्षं जपेदेनं मनुं तावत्सहस्रकम् ।
बिल्वारग्वधसम्भूतैर्मधुराक्तैः समिद्वरैः ॥ ९३ ॥
जवापुष्पैश्च जुहुयात्तोषयेद्वसुना गुरुम् ।
हृल्लेखाविहिते पीठे पूजयेत्तां विधानतः ॥ ९४ ॥
आग्नेयादिषट्कोणेषु लक्ष्म्याद्याः परिपूजयेत् ।
लक्ष्मीं हेमप्रभां तन्वीं सवराब्जयुगाभयाम् ॥ ९५ ॥
चक्रशङ्खगदाम्भोजधरं हेमनिभं हरिम् ।
पाशाङ्कुशाभयाभीष्टधरां गौरीं जवारुणाम् ॥ ९६ ॥
मृगटङ्काभयाभीष्टधरं स्वर्णनिभं हरम् ।
नीलोत्पलकरां सौम्यां रतिं काञ्चनसन्निभाम् ॥ ९७ ॥
धृतपाशाङ्कुशेष्वासपुष्पेषुमरुणं स्मरम् ।
पूर्ववन्निधियुग्मं तद्यजेदुभयपार्श्वयोः ॥ ९८ ॥
भानुलक्षं द्वादशलक्षम् ।
आरग्वधो राजवृक्षः ।
विधानत इत्यनेन तन्त्रान्तरोक्तं यन्त्रे बीजलिखनं सूचितम् ।
तदुक्तं संहितायाम्—-
षट्कोणं पूर्वमालिख्य मध्ये विद्यां लिखेत् सुधीः ।
वीप्सया तां तु षट्कोणकोणेषु क्रमतो लिखेत् ॥
बाह्ये वसुदलं कुर्याद्दीर्घस्वरविभूषितम् ।
चतुरस्रं चतुर्द्वारभूषितं मण्डलं लिखेत् ॥ इति ।
टङ्कः परशुः ।
इष्वासो धनुः ।
आयुधध्यानं स्वस्वप्रकारणेऽनुसन्धेयम् ॥ ९३-९८ ॥
बहिरङ्गानि सम्पूज्य पूज्याः पत्रेषु मातरः ।
लोकेशान् वनितारूपानर्चयेत् सौम्यविग्रहान् ॥ ९९ ॥
पूर्ववदिति सशक्तिकध्यानम् ।
उभयपार्श्वयोः षट्कोणपार्श्वयोः ।
एतदन्त- मावरणम् ।
बहिरिति ।
षट्कोणादष्टदलकेसरेषु ।
सौम्यविग्रहानित्यनेन " उत्तुङ्ग- यौवनोन्मत्तदेव्याराधनगवीतान् " इति तन्त्रान्तरोक्तमुक्तं भवति ॥ ९९ ॥
इत्थं यः पूजयेद्देवीं नित्यं भक्तिसमन्वितः ।
सम्प्राप्य कवितां दिव्यां प्राप्य लक्ष्मीमनन्तराम् ॥ १०० ॥
सौभाग्यमतुलं लब्ध्वा विहरेत् सुचिरं भुवि ।
कवितामित्यत्र वाग्भवादित्वम् ।
प्राप्य लक्ष्मीमिति श्रीबीजादित्वम् ।
तदुक्तं नारायणीये—-श्रीकामशक्तिबीजात्मा श्रीकरो वश्यकृन्मनुः ।
इति ।
सौभाग्यमिति कामादित्वं मायामध्यत्वम् ।
मायान्तत्वे तु त्रिपुरामन्त्रान्तर्भावः ।
एवमुभयशक्त्यादित्वे यशस्करं ज्ञेयम् ।
यद्बीजादिको मन्त्रस्तदादिकान्यङ्गान्यपि कुर्यात् ॥ १००-१०१ ॥
पाशाङ्कुशपुटा शक्तिझीण्टीशो गगनं सदृक् ॥ १०१ ॥
परमेश्वरिशब्दान्ते द्विठान्तः प्रणवादिकः ।
अश्वारूढामनुः प्रोक्तस्त्रयोदशभिरक्षरैः ॥ १०२ ॥
द्वाभ्यामेकेन चैकेन द्वाभ्यां पञ्चभिरक्षरैः ।
द्वाभ्यामङ्गानि षट् कुर्यात्ततो देवीं विचिन्तयेत् ॥ १०३ ॥
अश्वारूढामन्त्रमाह पाशेति ।
पाश अम् अङ्कुशः क्रों शक्तिर्मायाबीजं तेन पाशादित्र्यक्षरः ।
त्रयोदशभिरक्षरैरित्युक्तेराद्यन्तयोः पाशाभ्यां पुटितत्वं न गृह्यत इति ज्ञेयम् ।
झिण्टीशः ए गगनं हः सदृगिकारसहितं तेन हि ।
साम्प्रदायिका अस्य एहि पदस्य द्विरुक्तिं वागादित्वं च वदन्ति ।
अन्ये तु अब्धितः शरतो बाणतः ऋक्पादान् त्रीन् पठित्वा अन्ते द्विठाङ्कुशमायापाशप्रणवा इति ।
" यदद्य कच्चवृत्रहन्नुदगा� अभि सूर्यः ।
सर्वं तदिन्द्र ते वशे " इति ऋक् ।
अस्य ब्रह्मा ऋषिः विराट् छन्दः प्रणवो बीजं स्वाहा शक्तिः ।
अन्ये पूर्वेद्धृतामेव दशाक्षरीं मन्यन्ते—- मूर्द्धालिकाक्षिनासाग्रवक्त्रकण्ठेषु च क्रमात् ।
हृन्नाभिध्वजमूलाङ्घिरष्वक्षराणि प्रविन्यसेत् ॥ इति ।
त्रयोदशाक्षरन्यासो यथा—-मूर्द्धालिकाज्ञाकर्णाक्षिनासाग्रास्याङ्गुलेषु च ।
हृन्नाभिध्वजमूलाङ्घिरष्वक्षराणि प्रविन्यसेत् ॥ इति ।
षड्दीर्घमायया दशाक्षर्या षडङ्गम् ।
ग्रन्थोक्तषडङ्घ्रेष्वपि षड्दीर्घमायायोगमाहुः साम्प्रदायिकाः ।
दशाक्षर्या ध्यानम्—-अरुणामरुणाब्जस्थामरुणाम्बरभूषणाम् ।
चतुर्भुजा त्रिनेत्रां च प्रसन्नवदनां शिवाम् ॥
खड्गं चर्म च यष्टिं च दधानां दक्षवामयोः ।
अधस्ताद्धेमवेत्रं स्यात् पाशस्तस्योर्द्धतः स्थितः ॥
कण्ठे बद्धाऽथ पाशेन साध्यं वेत्रसमाहृतम् ।
बद्धाञ्जलिकरं व्योम्नि भ्रमन्तं पातितं पदे ॥
आकर्षयन्तीं ध्यायेत्ताम् ।
इति ॥ १०१-१०३ ॥
रक्तामश्वाधिरूढां शशधरशकलां बद्धमौलिं त्रिनेत्रां
पाशेनाबध्य साध्यां स्मरशरविवशां दक्षिणेनानयन्तीम् ।
हस्तेनाऽन्येन वेत्रं वरकनकमयं धारयन्तीं मनोज्ञां
देवीं ध्यायेदजस्रं कुचभरनमितां दिव्यहाराभिरामाम् ॥ १०४ ॥
त्रयोदशाक्षर्या ध्यानमाह रक्तामिति ।
अश्वेति रक्तोऽश्वः ।
स्मरशरविवशां साध्यां पाशेनाबध्य कण्ठ इति ज्ञेयम् ।
" कण्ठे बद्धाऽथ पाशेन " इति उक्तेः ।
अन्येन वामेन हस्तेनानयन्तीम् ।
पुनः किं विशिष्टाम् ।
दक्षिणेन वेत्रं धारयन्तीम् ।
तदुक्तम्—- अश्वारूढा कराग्रे नवकनकमयीं वेत्रयष्टिं दधाना ।
दक्षेऽन्येनानयन्ती ।
इति ॥ १०४ ॥
बाणलक्षं जपेन्मन्त्रमाज्येनाऽन्ते जितेन्द्रियः ।
दशांशं जुहुयाद्देवीं शक्तिपीठे समर्चयेत् ॥ १०५ ॥
पाशादित्र्यक्षरोक्तेन विधानेन समाहितः ।
आज्याढ्यान्नहुतान्मन्त्री लभते वाञ्छितं फलम् ॥१०६॥
लवणैर्मधुसंसिक्तैर्हेमेन वशयेन्नृपान् ।
तेनैव विधिना मन्त्री वशयेद्वनितामपि ॥ १०७ ॥
बाणलक्षं पञ्चलक्षम् ।
दशाक्षर्यास्तु—-
हविष्याशी जपेद्वर्णलक्षं होमं दशांशतः ।
विदध्यात्तु पलाशैर्वा जवापुष्पैश्च वा प्रिये ।
कुसुम्भकुसुमैर्वाज्यैरन्यैर्वा रक्तपुष्पकैः ॥ इति ।
पूजा तु—- पञ्चपत्राब्जयुगलं षट्कोणाष्टदलाब्जयुक् ।
चतुरस्रद्वयं द्वारद्वययुक्तमिति प्रिये ॥
चक्रं विधाय तं देवीमावाह्याऽत्र प्रपूजयेत् ।
अङ्गैर्बाणैश्च शब्दाद्यैराकर्षण्यन्तिकैः परम् ॥
श्रोत्रादिभिश्च बुद्ध्यन्तैराकर्षण्यन्तिमैः परम् ।
प्राणात्मशक्तिचैतन्यं मनोऽहङ्कारभावकान् ॥
शरीरं चाष्टपत्रेष्वाकर्षणीपदपश्चिमान् ।
ब्राह्म्याद्या लोकपालांश्च तदस्त्राणि च तद्बहिः ॥ इति ।
यन्त्रं च—- त्रिकोणषट्कोणवृत्तं यन्त्रं कृत्वा सवृत्तकम् ।
तन्मध्ये विलिखेत् पूर्वं विद्याद्यं च ततः परम् ॥
वर्णत्रयं त्रिकोणेषु षट्कोणेषु षडक्षरान् ।
तद्बाह्यवृत्तवीथ्यां तु मातृकां वेष्टयेत् क्रमात् ॥
एवं मध्ये प्रविन्यासाद्दश यन्त्राणि कल्पयेत् ।
जपपूजनसम्पातैर्वश्याकृष्टिवसुस्त्रियः ।
भूरत्नकीत्तीसौभाग्यनिधिकान्तीश्च साधयेत् ॥
इति ॥ १०५-१०७ ॥
आलिख्य कोष्ठानि विकारसङ्ख्यान्यन्तश्चतुष्के प्रणवं ससाध्यम् ।
अन्येष्वपि द्वादश मन्त्रवर्णान् लिखेदिदं यन्त्रमशेषवश्यम् ॥१०८॥
यन्त्रमाह आलिख्येति ।
विकारः षोडश ।
लिखेदिति अग्रादि प्रादक्षिण्येन ॥ १०८ ॥
मायाहृद्भगवत्यन्ते माहेश्वरिपदं वदेत् ।
अन्नपूर्णे ठयुगलं मनुः सप्तदशाक्षरः ।
अङ्गानि मायया कुर्यात्ततो देवीं विचिन्तयेत् ॥ १०९ ॥
अन्नपूर्णामन्त्रमाह मायेति ।
हृन्नमः ।
अत्र नमः शब्दसकारस्य रोरुत्वे गुणे च उकार इति ज्ञेयम् ।
ठयुगलं स्वाहा ।
अत्र सप्तदशाक्षर इत्युक्तेः रि अ इत्यत्र न यणादेशः ।
केचनास्य प्रणवादित्वमाहुः ।
ब्रह्मा ऋषिः अनुष्टुप् छन्दः माया बीजं स्वाहा शक्तिः ।
माययेति षड्दीर्घयुक्तया ॥ १०९ ॥
रक्तां विचित्रवसनां नवचन्द्रचूडा
मन्नप्रदाननिरतां स्तनभारनम्राम् ।
नृत्यन्तमिन्दुशकलाभरणं विलोक्य
हृष्टां भजेद्भगवतीं भवदुःखहन्त्रीम् ॥ ११० ॥
अन्नप्रदाननिरतामिति विनियोगोक्तिः इन्दुशकलाभरणं शिवम् ॥ ११० ॥
यथाविधि जपेन्मन्त्रं वसुयुग्मसहस्रकम् ।
साज्येनाऽन्नेन जुहुयात् तद्दशांशमनन्तरम् ॥ १११ ॥
शक्तिपीठे यजेद्देवीमङ्गलोकेश्वरायुधैः ।
प्रातरेनं जपेन्मन्त्रं नित्यमष्टोत्तरं शतम् ॥ ११२ ॥
एतस्याऽन्नसमृद्धिः स्याच्छिरया सह महीयसी ।
यथाविधीति पुरश्चरणोक्तमार्गेण ।
वसुयुग्मसहस्रं षोडशसहस्रम् ।
एतस्य साधकस्य ॥ १११-११३ ॥
माया पद्मावतिपदं ततः पावकवल्लभा ॥ ११३ ॥
सप्तार्णे मनुराख्यातः सर्ववश्यप्रदायकः ।
अङ्गानि मायया कुर्यात् ध्यायेत् त्रैलोक्यमोहिनीम् ॥११४॥
पद्मावतीमन्त्रमाह मायेति ।
सर्ववश्येति विनियोगोक्तिः ।
त्रैलोक्यमोहिनी- मित्यपि ।
ब्रह्मा ऋषिः गायत्री छन्दः माया बीजं स्वाहा शक्तिः ।
अत्रापि माययेति पूर्ववत् ॥ ११३-११४ ॥
पद्मासनस्थां करपङ्कजाभ्यां रक्तोत्पले सन्दधतीं त्रिनेत्राम् ।
आबिभ्रतीमाभरणानि रक्तां पद्मावतीं पद्ममुखीं भजामि ॥११५॥
पद्मावतीध्यानमाह पद्मेति ॥ ११५ ॥
पक्षलक्षं जपेन्मन्त्रं दशांशं जुहुयाद् घृतैः ।
शक्तिपीठे यजेद्देवीमङ्गाद्यावरणैः सह ॥ ११६ ॥
किञ्जल्केष्वङ्गपूजा स्यात् पूज्याः पत्रेषु मातरः ।
लोकपाला बहिः पूज्यास्तदस्त्राणि ततो बहिः ॥ ११७ ॥
इत्थं यो भजते मन्त्रं जपहोमार्चनादिभिः ।
सुभगः सर्वनारीणां भवेत् काम इवापरः ॥ ११८ ॥
पक्षलक्षं लक्षद्वयम् ॥ ११६-११८ ॥
षडस्रमध्ये प्रविलिख्य शक्तिं कोणेषु शिष्टानि षडक्षराणि ।
तद्बाह्यतो मातृकयाऽभिवीतं पद्मावतीयन्त्रमिदं प्रशस्तम् ॥११९॥
यन्त्रमाह षडस्रेति ॥ ११९ ॥
तारं शिरसि विन्यस्य देवीं सञ्चिन्त्य भारतीम् ।
शक्तिबीजं न्यसेद्भाले संस्मृत्य भुवनेश्वरीम् ॥ १२० ॥
अमसौ नेत्रयोर्न्यस्येत् ध्यात्वा सूर्यं हुताशनम् ।
मुखवृत्तेन विन्यस्येट्टान्तं चन्द्रमनुस्मरन् ॥ १२१ ॥
जिह्वायां विन्यसेद्बीजं रमायास्तां विचिन्तयन् ।
स्वाहार्णौ गण्डयोर्न्यस्येत् तद्गजेन्द्रधिया सुधीः ॥ १२२ ॥
अमठं न्यासमाख्यातं कुर्वन् प्रतिदिनं नरः ।
कीत्तीश्रीकान्तिमेधानां वल्लभो भवति ध्रुवम् ॥ १२३ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
दशमः पटलः समाप्तः ॥ १० ॥
ब्थ् " बि
अमठन्यासमाह तारमिति ।
अमसौ अं बिन्दुः अः विसर्गः ।
मुखवृत्तेन मुखवृत्त इत्यर्थः ।
क्वचिन्मुखे वृत्तेनेति पाठः ।
वृत्तेन वृत्तरूपेण मुखे न्यसेदिति ।
टान्तं ठकारम् तद्गजेन्द्रधिया लक्ष्मीगजेन्द्रबुद्ध्या ।
विचिन्त्येत्युक्तेः तत्तत्प्रकरणे तत्तद्- ध्यानमनुसन्धेयम् ।
तत्र तर्जन्यनामिकाकनिष्ठाः समाकुञ्च्य युक्ताभ्यां मध्यमा- ङ्गुष्ठाभ्यां गजशुण्डाकाराभ्यामयं न्यासः
कर्त्तव्य इत्युपदेशः साम्प्रदायिकानाम् ।
गजेन्द्रध्यानं यथा—- तारकुन्देन्दुधवलौ गलगण्डमदोत्कटौ ।
लसत्पुष्करशोभाढ्यौ स्फुरद्दन्तौ गजौ भजे ॥
इति ॥ १२०-१२२ ॥
कीत्तीश्रीत्यनेनास्य स्वातन्त्य्रमुक्तम् ।
तत्र प्रयोगः—-ॐ सरस्वत्यै नमः ।
ह्रीम् उमायै नमः ।
अं सूर्यमण्डलाय ।
अः वह्निमण्डलाय ।
वं सोममण्डलाय ।
श्रीं श्रिये स्वां दन्तिने ।
हां दन्तिने ।
अस्य छन्दऋष्यादिकं यथा ।
अमठश्रीमन्त्रस्य लक्ष्मीनारायण ऋषिः ।
बृहती छन्दः ।
अमठश्रीः देवता ।
ह्रीं बीजं श्रीं शक्तिः ।
सर्ववश्यार्थे विनियोगः ।
ॐ श्रीं हृत् ।
श्रीकरि शिरः ।
धनकरि शिखा ।
धान्यकरि वर्म ।
ऋद्धिकरि नेत्रम् ।
पुष्टिकरि अस्त्रम् ॥ १२०-१२३ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां दशमः पटलः ॥ १० ॥
ब्थ् " बि