अथ नवमः पटलः
अथ वक्ष्ये जगद्धात्रीमधुना भुवनेश्वरीम् ।
ब्रह्मादयोऽपि यां ज्ञात्वा लेभिरे श्रियमूजीताम् ॥ १ ॥
एवं सरस्वतीश्रीमन्त्रानुक्त्वा तदन्तर्गतत्वात् एतदनन्तरं भुवनेशीमन्त्रान् वक्तुमारभते अथेति ।
यां ज्ञात्वा इत्यनेन अस्याः त्र्यक्षरा नानापि भेदाः सूचिताः ।
तत्र वाक्पुटितत्वं वाक्श्रीपुटितत्वं श्रीकामपुटितत्वं कामश्रीपुटितत्वं ग्रन्थकार एव वक्ष्यति ।
एवं कामपुटितत्वं श्रीवाक्पुटितत्वं वाक्कामपुटितत्वं कामवाक्पुटितत्वमिति चत्वारो भेदाः स्वयमूहनीयाः ।
तदुक्तम्—-
कामाद्यन्ता प्रभवति यदा सर्वकामेश्वरी सा ।
साद्यन्तश्रीः सुतधनफला वाक्प्रदा वाग्भवेन ॥
एवं व्यस्तैवीरचितपुटा कामधुक् सा हि शक्तिः ।
इति ।
अन्यत्रापि—- सम्पुटीकृत्य वा मन्त्री कामबीजेन सुन्दरि ।
अभ्यसन् नियताहारः त्रैलोक्यं वशमानयेत् ॥ इति ।
पद्मपादाचार्यैः प्रणवपुटितत्वं श्रीबीजचतुष्टयपुटितत्वमिति भेदद्वयमन्यदप्युक्तम्।
श्रियमूजीतामिति विनियोगसूचनम् ॥ १ ॥
नकुलीशोऽग्निमारूढो वामनेत्रार्द्धचन्द्रवान् ।
बीजं तस्या यथाख्यातं सेवितं सिद्धिकाङ्क्षिभिः ॥ २ ॥
ऋषिः शक्तिर्भवेच्छन्दो गायत्री देवता मनोः ।
कथिता स्वरसङ्घेन सेविता भुवनेश्वरी ॥ ३ ॥
मन्त्रमुद्धरति नकुलीश इति ।
नकुलीशो हकारः अग्नी रेफः वामनेत्रम् ईकारः अर्द्धचन्द्रो बिन्दुः ।
एवं मिलित्वा बीजमेकम् ।
सिद्धिकाङ्क्षिभिः सेवितामित्यनेन अस्य केवलस्यापि सकलपुरुषार्थ साधनता सूचिता ।
तथा च भुवनेश्वरीपारिजाते-
मत्समः पुरुषो नास्ति त्वत्समा नास्ति चाङ्गना ।
मायाबीजसमो मन्त्रो न भूतो न भविष्यति ॥ इति ॥
शक्तिरिति वशिष्ठपुत्रः ।
तदुक्तं संहितायाम् " ऋषिः शक्तिर्वशिष्ठस्य सुतः " इति ।
हं बीजम् ईं शक्तिः ।
तदुक्तं दशपटल्याम्—-
हं बीजम् ईं शक्तिः अस्य इष्टार्थे विनियोजनम् ।
इति ॥ २-३ ॥
षड्दीर्घयुक्तबीजेन कुर्यादङ्गानि षट् क्रमात् ।
संहारसृष्टिमार्गेण मातृकान्यस्तविग्रहः ॥ ४ ॥
मन्त्रन्यासं ततः कुर्याद् देवताभावसिद्धये ।
हृल्लेखां मूद्ध्र्न वदने गगनां हृदयाम्बुजे ॥ ५ ॥
रक्तां करालिकां गुह्ये महोच्छुष्मां पदद्वये ।
ऊद्ध्र्वप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु च ॥ ६ ॥
षड्दीर्घेति ।
अत्र तु षडङ्गमन्त्रोद्धारमात्रं कृतम् ।
न्यासं वक्ष्यति न्यासावसरे ।
संहारसृष्टिमार्गेणेति ।
अत्राल्पक्षरत्वात् सृष्टिशब्दस्य पूर्वनिपातः कर्त्तव्यः ।
स च न कृतः तेन संहारन्यासं कृत्वा सृष्टिन्यासं कुर्यात् ।
तदुक्तं संहितायाम्—-
अकाराद्यर्णपर्यन्तां विपरीतक्रमेण तु ।
गुरूपदेशविधिना मातृकां प्रथमं न्यसेत् ॥
संहारमातृकान्यासो ब्रह्मानन्दरसोज्ज्वलः ।
इति ।
आचार्या अपि-संहृत्य चोत्पाद्य शरीरमेवम् ।
इति ।
पदद्वये इति ।
एकदैव एकहस्तेनेति ज्ञेयम् अन्यथा मन्त्रावृत्तिप्रसङ्गात् ॥ ४-६ ॥
सद्यादिह्रस्वबीजाढ्या न्यस्तव्याः भूतसप्रभाः ।
अङ्गानि विन्यसेत् पश्चाज्जातियुक्तानि षट् क्रमात् ॥ ७ ॥
सद्यादीति ।
सद्य ओकारस्तदादयः ।
पञ्चह्रस्वाः अनेन विलोमप्रकारेण नपुंसकव्यतिरिक्ताः पञ्चह्रस्वा गृह्यन्ते ।
ओ ए उ इ अ सद्यादि ह्रस्वा यस्मिन् एवं भूतं यद्बीजं तदाढ्या इति सम्प्रदायविदः ।
तेन ह्रों ह्रें ह्रुं ह्रिं ह्रम् इति बीजानि भवन्ति ।
गूढार्थदीपिकाकारस्तु ओ ए ऌ ऋ उ इमान् पञ्चह्रस्वान् उक्तवान् ।
तन्न ।
सर्वत्राग्रेऽपि सम्प्रदायानुसारेण सद्यादिग्रहणे नपुंसकव्यतिरिक्तानामेव ग्रहणात् ।
यत् तु केचन स्वरमात्रं बीजत्वेनाहुः तदपि न ।
बीजशब्दोपादानवैयर्थ्यात् ।
उक्तञ्च दशपटल्याम्—-
सद्योष्ठश्रुतिनेत्राद्यैवीद्यां सम्भेद्यं मन्त्रवित् ।
हृल्लेखादीन् प्रविन्यस्येत् ॥ इति ।
भूतसप्रभा इति ।
पृथिव्यादिक्रमेणेत्यर्थः तेन हृल्लेखा पीता गगना विशदा रक्ता रक्ता महोच्छुष्मा कृष्णा करालिका स्वच्छेति ।
अङ्गानीति ।
पूर्वेक्तैः स्वजातिभि- रङ्गमन्त्रैरित्यर्थः ।
अतएव पश्चादिति ।
तदुक्तमाचार्यैः—-
हृल्लेखाख्यां गगनां रक्तां च करालिकां महोच्छुष्माम् ।
मूर्द्धनि वदने हृदये गुह्ये पादयोर्न्यस्येत्तदङ्गैश्च ॥ इति ॥ ७ ॥
ब्रह्माणं विन्यसेद् भाले गायत्र्या सह संयुतम् ।
सावित्र्या संयुतं विष्णुं कपोले दक्षिणे न्यसेत् ॥ ८ ॥
वागीश्वर्या समायुक्तं वामगण्डे महेश्वरम् ।
श्रिया धनपतिं न्यस्येद् वामकर्णाग्रके पुनः ॥ ९ ॥
रत्या स्मरं मुखे न्यस्य पुष्ट्या गणपतिं न्यसेत् ।
सव्यकर्णेपरि निधी कर्णगण्डान्तरालयोः ॥ १० ॥
न्यस्तव्यौ वदने मूलं भूयश्चैतांस्तनौ न्यसेत् ।
कण्ठमूले स्तनद्वन्द्वे वामांसे हृदयाम्बुजे ॥ ११ ॥
सव्यांसे पार्श्वयुगले नाभिदेशे च देशिकः ।
भालांसपार्श्वजठरे पार्श्वांसापरके हृदि ॥ १२ ॥
ब्रह्माण्याद्यास्ततो न्यस्या विधिना प्रोक्तलक्षणाः ।
मूलेन व्यापकं देहे न्यस्य देवीं विचिन्तयेत् ॥ १३ ॥
योनिन्यासमाह ब्रह्माणमिति ।
तत्र हां हीं हूम् इति गायत्र्यादीनां बीजानि ।
हं हिं हुम् इति ब्रह्मादीनाम् ।
अन्येषां स्वस्वबीजानि ।
निध्योराद्यक्षरं बीजमिति ज्ञेयम् ।
तत्र प्रयोगः ।
हां गायत्रीसहिताय हं ब्रह्मणे नम इत्यादि ।
शक्तिनामादित्वं पूजायां स्फुटी- भविष्यति ।
वामकर्णाग्रके वामकर्णेपरि ।
शास्त्रे वृक्षवत् व्यवहारात् ।
सव्यकर्णेपरि दक्षकर्णेपरि ।
वामस्य पूर्वमुक्तेः ।
निधी श्रीपटलोक्तस्वरूपौ सशक्तिकौ ।
कर्ण- गण्डान्तरालयोरिति दक्षवामयोः ।
मूलं मूलमन्त्रम् ।
वदन इति तदेकदेशचिबुकं लक्ष्यते ।
एतानिति ब्रह्मादीन् मूलान्तान् ।
अयमेव साम्प्रदायिकः पाठः ।
केचन एतां तनौ न्यसेदिति पठन्ति ।
तन्मते एतां भुवनेशीं कण्ठादिषु नवसु स्थानेषु न्यसेत् ।
स्तनद्वन्दे दक्षवामे ।
सव्यांसे दक्षिणांसे ।
यद्यपि " वामं शरीरे सव्यं स्यात् " इति कोषः ।
तथाप्यत्र सव्यशब्देन दक्षिण एव गृह्यते ।
वामस्य पूर्वं पृथगुक्तेः ।
तथा च शैवागमे " विन्यसेत् सव्यवामयोः " इति बहुषु स्थलेषु व्यवहारः ।
" सव्यं दक्षिणवामयोः " इति कोषान्तरं च ।
पार्श्वयुगले दक्षवामे ।
देशिक इत्यनेन सबीजत्वमुक्तम् ।
भालांसेति मातृकान्यासस्थानम् ।
अंसपार्श्वे वामगते ।
पार्श्वांसौ दक्षिणौ ।
अपरकं ककुत् ।
यद्यप्यपरगलशब्देन ककुदुच्यते तथाप्यत्र भीमो भीमसेन इतिवत् प्रयोगः ।
तदुक्तमाचार्यैः—-
अलिकांसपार्श्वकुक्षिषु पार्श्वांसापरगलहृत्सु च क्रमशः ।
ब्रह्माण्याद्या विधिवत् न्यस्तव्या मातरोऽष्ट मन्त्रितमैः ॥
विधिनेति स्वबीजाद्याः ।
प्रोक्तलक्षणा मातृकापटलोक्तध्यानाः ।
व्यापकमिति कराभ्यां मस्तकाद्यापादाङ्गुष्ठम् ॥ ८-१३ ॥
उद्यद्दिनद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् ।
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजेत् भुवनेशीम् ॥१४॥
ध्यानमाह उद्यदिति ।
इनः सूर्यः ।
रक्तपद्मस्थाम् इत्यपि ।
आयुधध्यानं वामाधो- हस्ते वरं दक्षिणोर्द्धे अङ्कुशम् ।
वामोर्द्धे पाशं दक्षाधोऽभयमिति सम्प्रदायविदः ।
तदुक्तं महासम्मोहने—-
दक्षिणे चाङ्कुशं दद्याद् वामे पाशं प्रदापयेत् ।
वरदं वामतो दद्यादभयं दक्षिणे करे ॥ इति ॥ १४ ॥
प्रजपेन्मन्त्रविन्मन्त्र द्वात्रिंशल्लक्षमानतः ।
त्रिस्वादुयुक्तैर्जुहुयादष्टद्रव्यैर्दशांशतः ॥ १५ ॥
प्रजपेदिति मन्त्रार्थानुसन्धानपूर्वकम् हरिहरात्मकप्रकृतिपुरुषाकारेण अवस्थि- ताया आद्यशक्तेः
प्रतिपादकोऽयं मन्त्रः ।
अतएव भुवनेशीति नाम ।
तदुक्तम्—- हरित्वाच्च हरत्वाच्च पुम्प्रकृत्योस्तु युक्तयोः ।
श्लिष्टोच्चारितमेवेदं शब्दं तद्रूपमीरितम् ॥ इति ।
संहितायान्तु—- व्योमबीजे महेशानि कैलासादि प्रतिष्ठितम् ।
वह्निबीजात् सुवर्णादि निष्पन्नं बहुधा प्रिये ॥
तेनायं वर्त्तते लोके भूमण्डल समास्थितः ।
तुर्यस्वरेण पाताले शेषरूपेण धार्यते ॥
महाभूमण्डलं तस्मात् पातालस्यापि नायिका ।
अतएव महेशानी भुवनाधीश्वरी प्रिये ॥
हकारे व्योम तुर्येण स्वरेणाऽनिलसम्भवः
विकारे सति रेफेण साक्षाद् वह्रिस्वरूपिणी ॥
वह्नेर्वीर्यं वसु ज्ञेयं तस्माद् रेफो वसुन्धरा ।
अतएव महेशानि रलयोः सम्मता भवेत् ॥
बिन्दुचक्रामृताद् देवी प्लावयन्ती जगत्त्रयम् ।
द्रवरूपा भवेत् तस्मात् द्रवन्ती चार्द्धमात्रया ॥
अतएव महेशानी भुवनेशीति कथ्यते ।
इति ।
मन्त्रविदित्यनेन हसकलयोगः ।
मोक्षार्थं प्रणवयोगोऽपि सूचितः ।
यद्वा तन्त्रान्तरोक्तं पुरश्चरणम् ।
यथा—-
एकलिङ्गे शिवागारे दक्षिणां मूत्तीमाश्रितः ।
बद्धपद्मासनो भस्मस्न्नायी च कुशविष्टरः ॥
कृष्णाष्टमीं समारभ्य यावत् स्यात् तच्चतुर्दशी ।
नित्यमिष्ट्वा शिवं शक्तिं जपेन्मन्त्रं सहस्रकम् ॥
दधिक्षौद्रघृताभ्यक्ता व्याघातसमिधो हुनेत् ।
ततः साग्रं सहस्रं च ध्यायेत् सर्वेश्वरीमुमाम् ॥ इति ।
त्रिःस्वादुयुक्तैः त्रिमधुरोपेतैः ।
तदुक्तं प्रयोगसारे—-
पयोमधुघृतं चेति समं त्रिमधुरं स्मृतम् ।
इति ।
अन्ये पयः स्थाने शर्करामाहुः—-
जपाद्दशांशं जुहुयादथाष्टद्रव्यैर्गुडक्षौद्रघृतावसिक्तैः ।
इति ।
तट्टीकाकारैः गुडः शर्करेति व्याख्यातम् ।
अष्टद्रव्यैरिति मातृकापटलोक्तैः ॥ १५ ॥
दद्यादर्घ्यं दिनेशाय तत्र सञ्चिन्त्य पार्वतीम् ।
पद्ममष्टदलं बाह्ये वृत्तं षोडशभिर्दलैः ॥ १६ ॥
विलिखेत् कणीकामध्ये षट्कोणमतिसुन्दरम् ।
ततः सम्पूजयेत् पीठं नवशक्तिसमन्वितम् ॥ १७ ॥
जयाख्या विजया पश्चादजिता चाऽपराजिता ।
नित्या विलासिनी दोग्ध्री अघोरा मङ्गला नव ॥ १८ ॥
दद्यादिति मूलेन ।
तत्रेति सूर्यमण्डले ।
इयं सौरी शक्तिरिति कृत्वा अत्रार्घ्यदान- प्राधान्यादत्रोक्तिः ।
परन्तु सर्वमन्त्रेषु तत्तन्मन्त्रदेवतां सूर्यमण्डले सञ्चिन्त्य सूर्यमण्डले सूर्यायार्घ्यः
कर्त्तव्य इति ज्ञेयम् ।
तन्मया सन्ध्याकथनावसरे उक्तम् ।
अत्र ध्यानानन्तरम् आयुधपुस्तकज्ञानयोनिबीजमुद्राः प्रदर्शयेत् ।
यदाहुः—-
एवं शक्तिं परां ध्यात्वा सम्यक् मुद्राः प्रदर्शयेत् ।
पाशाङ्कुशाभयाभीष्टपुस्तकज्ञानयोनयः ॥ इति ।
तत्र पाशमुद्रालक्षणं यथा—-
वाममुष्टिस्थतर्जन्या दक्षमुष्टिस्थतर्जनीम् ।
संयोज्याऽङ्गुष्ठकाग्राभ्यां तर्जन्यग्रे स्वके क्षिपेत् ।
एषा पाशस्य मुद्रेति विद्वद्भिः परिकीत्तीता ॥ इति ।
शेषमुद्रालक्षणानि मया पूर्वमुक्तानि ।
बीजमुद्रा गुरुमुखादवगन्तव्या ।
अत्र स्वपूजासाधनप्रोक्षणमन्त्रोऽयं ज्ञेयः ।
प्रणवो वाग्भवो माया श्रीबीजं परमामृतम् ।
रूपे भगवति प्रोक्त्वा चन्द्रमण्डलवासिनि ॥
चन्द्रामृतेन पुरयद्वितयं द्रव्यमित्यपि ।
इदं पवित्रयद्वन्द्वं श्रीमायावाक्द्विठस्ततः ॥
तेनामृतेन सम्प्रोक्ष्येदात्मानं साधनानि च ।
इति ।
पूजायन्त्रमाह पद्ममिति ।
षट्कोणमिति ऊर्द्धाधोऽग्रत्रिकोणे परस्परभेदिते ।
अतिसुन्दरमित्यनेन यथा समं भवति तथा कर्त्तव्यमित्युक्तं भवति ।
तत्र त्रिकोणादीनां समत्वे प्रकार उच्यते—-
हित्वा वृत्तप्राग्गुणाड्घिरं तिर्यगन्यौ तु पार्श्वयोः ।
त्र्यराः षट् त्वन्यतोऽप्येवं द्वादशारा उदीच्यपि ॥ इति ।
समं प्राचीसूत्रं कृत्वा तन्मध्यमालम्ब्य यथोप्सितं वृत्तं कृत्वा तत्र प्राचीसूत्रं चतुर्धा विभजेत् ।
एकस्मादग्रात् तुर्यांशं सन्तज्य एकं तिर्यक्सूत्रं पातयेत् ।
पार्श्वयोः सूत्रद्वयदानात् त्र्यस्रम् ।
एवमन्यतोऽपि कृते षडस्त्रम् ।
एवम् उदग्दक्षिणतः कृते द्वादशास्त्रमित्यर्थः ।
वृत्तप्रमाणमाचार्यैरुक्तम्—-
षडङ्गुलप्रमाणेन वर्त्तुलं कर्त्तुरालिखेत् ।
षडङ्गुलावकाशेन तद्बहिश्च प्रवर्त्तयेत् ॥
वर्त्तुलं तावता भूयस्तद्बहिश्च तृतीयकम् ।
मध्यवर्त्तुलमध्ये तु हृल्लेखाबीजमालिखेत् ॥
द्वितीयं वर्त्तुलाश्लिष्टमीषत्श्लिष्टषडस्रकम् ।
पुटितं मण्डलं वह्नेरस्पृशत् मध्यवर्त्तुलम् ॥
इन्द्राग्निरक्षोवरुण वाय्वीशान्तास्रकं लिखेत् ।
इति ।
अत्रोपरिवृत्तद्वयमपि षट्कोणसमत्वानयनायैव इति ज्ञेयम् ।
एतदुपरि चतुरस्रञ्च ज्ञेयम् ।
अन्त्यशक्तिमन्त्रपूजायन्त्रे तथोक्तेः ।
चतुर्द्वारमित्यपि ।
तस्य साधारणत्वात् अत्र नोक्तिः।
तत इति नित्यजपानन्तरमित्यर्थः।
अन्तर्यागानन्तरं तस्य कृतत्वात् ॥१६-१८॥
बीजाद्यमासनं दत्वा मूत्तीं तेनैव कल्पयेत् ।
तस्यां सम्पूजयेद्देवीमावाह्यावरणैः सह ॥ १९ ॥
मध्यप्राग्याम्यसौम्येषु पश्चिमेषु यथाक्रमम् ।
हृल्लेखाद्याः समभ्यर्च्याः पञ्चभूतसमप्रभाः ॥ २० ॥
वरपाशाङ्कुशाभीतिधारिण्योमितभूषणाः ।
स्थानेषु पूर्वमुक्तेषु पूजयेदङ्गदेवताः ॥ २१ ॥
पीठमन्त्रमुद्धरति बीजाद्यमिति ।
तत्र प्रयोगः ।
मूलबीजमुचार्य सर्वशक्ति- कमलासनाय नम इति ।
तदुक्तम्—-
सर्वशक्तिपदं प्रोच्य ङेऽन्तं च कमलासनम् ।
नम इत्यासनं पूज्य तत्तद्बीजादिकं शिवे ॥ इति ।
अयं पीठमन्त्रः सर्वभुवनेशीमन्त्रसाधारण इति ज्ञेयम् ।
अस्याः पद्मं रक्तं ध्येयम् ।
तदुक्तं प्रयोगसारे—-
रक्ताम्भोजं समाधाय रत्नसिंहासनोपरि ।
तत्रावाह्य हृदा देवीम् ।
इति ।
तेनैवेति ।
मध्यादि एता यथाक्रमं समभ्यर्च्या इत्यन्वयः ।
आदि- शब्दार्थमाह प्रागिति ।
हृल्लेखाद्या इति यथान्यस्ताः ।
आसामायुधध्यानं देवीवत् ।
पूर्वमुक्तेषु चतुर्थपटलोक्तेषु आग्नेयादिषु ।
तानि आग्नेयादीनि कणीकान्तः- स्थानि इति ज्ञेयम् ।
अङ्गानि केसरेषु इति यद्वक्ष्यमाणं ग्रन्थकृता सामान्योक्तस्य अनुवादः कृतः अयमाशयः ।
अङ्गानि केसरेष्विति अन्यत्र ।
इह तु कणीकायामेव पूजेति ।
हृल्लेखाद्यास्तदनु च पूर्ववदङ्गानि पूजनीयानि ।
इति ।
केचित्तु उभयत्र षडङ्गन्यासस्थलद्वयेऽप्यङ्गपूजनम् इत्याहुः ।
तच्च प्रपञ्च- सारादिविरुद्धम् ॥ १९-२१ ॥
षट्कोणेषु यजेन्मन्त्री पश्चान्मिथुनदेवताः ।
इन्द्रकोणे लसद्दण्डकुण्डिकाक्षगुणाभयाम् ॥ २२ ॥
गायत्रीं पूजयेन्मन्त्री ब्रह्माणमपि तादृशम् ।
रक्षःकोणे शङ्खचक्रगदापङ्कजधारिणीम् ॥ २३ ॥
सावित्रीं पीतवसनां यजेद्विष्णुञ्च तादृशम् ।
वायुकोणे परश्वक्षमालाभयवरान्विताम् ॥ २४ ॥
यजेत् सरस्वतीमित्थं रुद्रं तादृशलक्षणम् ।
वह्निकोणे यजेद्रत्नकुम्भं मणिकरण्डकम् ॥ २५ ॥
कराभ्यां बिभ्रतं पीतं तुन्दिलं धननायकम् ।
आलिङ्ग्य सव्यहस्तेन वामेनाम्बुजधारिणीम् ॥ २६ ॥
धनदाङ्कसमारूढां महालक्ष्मीं प्रपूजयेत् ।
वारुणे मदनं वाणपाशाङ्कुशशरासनम् ॥ २७ ॥
धारयन्तं जवारक्तं पूजयेद्रत्नभूषणाम् ।
सव्येन पतिमाश्लिष्य वामेनोत्पलधारिणीम् ॥ २८ ॥
पाणिना रमणाङ्कस्थां रतिं सम्यक् समर्चयेत् ।
एशाने पूजयेत् सम्यग्विघ्नराजं प्रियान्वितम् ॥ २९ ॥
सृणिपाशधरं कान्तावराङ्गस्पृक्कराङ्गुलिम् ।
माध्वीपूर्णकपालाढ्य विघ्नराज दिगम्बरम् ॥ ३० ॥
पुष्करे विगलद्रत्नस्फुरच्चषकधारिणम् ।
सिन्दूरसदृशाकारामुद्दाममदविभ्रमाम् ॥ ३१ ॥
धृतरक्तोत्पलामन्यपाणिना तु ध्वजस्पृशम् ।
आश्लिष्टकान्तामरुणां पुष्टिमर्चेद्दगम्बराम् ॥ ३२ ॥
अथ पूजाप्रकारः ।
प्रथममूर्द्धाग्रत्रिकोण कोणेषु प्रादक्षिण्येन पश्चादीशानान्तां पूजामभिदधदधराग्रत्रिकोणकोणेषु
प्रादक्षिण्येन पूजामाह षट्कोणेष्विति ।
अतएवेत्युक्तिः ।
वामोर्द्धादि आद्ये दक्षोर्द्धादि अपरे इत्यायुधध्यानम् ।
गायत्र्यां दक्षवामयोरूर्द्धयोः आद्ये अधस्थयोः परे इति ।
सावित्र्यां वामोर्द्धात् वामाधस्तनं यावत् ।
सरस्वत्यां रत्नकुम्भो वामेऽन्यो दक्षिणे ।
धननायके दक्षिणाधस्तात् वामाधः पर्यन्तम् ।
मदने वामदक्षयोः ऊर्द्धयोः अङ्कुशपाशौ ।
कान्तावराङ्गस्पृगिति अधोवामेन।
माध्वीत्यादि दक्षिणाध इति विघ्नराजे ।
पुष्करं करिहस्ताग्रे ।
उद्दामेत्यादि शक्तिध्यानम्।
धृतरक्तोत्पलमिति दक्षिणेन ।
अन्येनेति वामेन ॥ २२-३२ ॥
कणीकायां निधी पूज्यौ षट्कोणस्याऽथ पार्श्वयोः ।
अङ्गानि केसरेष्वेताः पश्चात् पत्रेषु पूजयेत् ॥ ३३ ॥
अनङ्गकुसुमा पश्चादनङ्गकुसुमातुरा ।
अनङ्गमदना तद्वदनङ्गमदनातुरा ॥ ३४ ॥
भुवनपाला गगनवेगा चैव ततः परम् ।
शशिरेखाऽथ गगनरेखा चेत्यष्ट शक्तयः ॥ ३५ ॥
पाशाङ्कुशवराभीतिधारिण्योऽरुणविग्रहाः ।
ततः षोडशपत्रेषु कराली विकराल्युमा ॥ ३६ ॥
सरस्वती श्रीर्दुर्गेषा लक्ष्मीश्रुत्यौ स्मृतिर्धृतिः ।
श्रद्धा मेधा मतिः कान्तिरार्या षोडश शक्तयः ॥ ३७ ॥
खड्गखेटकधारिण्यः श्यामाः पूज्याश्च मातरः ।
पद्माद् बहिः समभ्यर्च्याः शक्तयः परिचारिकाः ॥ ३८ ॥
प्रथमाऽनङ्गरूपा स्यादनङ्गमदना ततः ।
मदनातुरा भुवनवेगा भुवनपालिका ॥ ३९ ॥
स्यात् सर्वशिशिरानङ्गवेदनाऽनङ्गमेखला ।
चषकं तालवृन्तञ्च ताम्बूलं छत्रमुज्ज्वलम् ॥ ४० ॥
चामरे चांशुकं पुष्पं बिभ्राणा करपङ्कजैः ।
सर्वाभरणसन्दीप्तान् लोकपालान् बहिर्यजेत् ॥ ४१ ॥
वज्रादीन्यपि तद्बाह्य देवीमित्थं प्रपूजयेत् ।
पूज्यते सकलैर्देवैः किं पुनर्मनुजोत्तमैः ॥ ४२ ॥
मन्त्री त्रिमधुरोपेतैर्हुत्वाऽश्वत्थसमिद्वरैः ।
ब्राह्मणान् वशयेच्छीघ्रं पाथीवान् पद्महोमतः ॥ ४३ ॥
पलाशपुष्पैस्तत्पत्नीर्मन्त्रिणं कुमुदैरपि ।
पञ्चविंशतिसञ्जप्तैर्जलैः स्नानं दिने दिने ॥ ४४ ॥
आत्मानमभिषिञ्चिद् यः सर्वसौभाग्यवान् भवेत् ।
पञ्चविंशतिसञ्जप्तं जलं प्रातः पिबेन्नरः ॥ ४५ ॥
अवाप्य महतीं प्रज्ञां कवीनामग्रणीर्भवेत् ।
कर्पूरागुरुसंयुक्तं कुङ्कुमं साधु साधितम् ॥ ४६ ॥
गृहीत्वा तिलकं कुर्याद्राजवश्यमनुत्तमम् ।
शालिपिष्टमयीं कृत्वा पुत्तलीं मधुरान्विताम् ॥ ४७ ॥
जप्तां प्रतिष्ठितप्राणां भक्षयेद्रविवासरे ।
वशं नयति राजानं नारीं वा नरमेव वा ॥ ४८ ॥
कण्ठमात्रोदके स्थित्वा वीक्ष्य तोयगतं रविम् ।
त्रिसहस्रं जपेन्मन्त्रमिष्टां कन्यां लभेन्नरः ।
अन्नं तन्मन्त्रितं मन्त्री भुञ्जीत श्रीप्रसिद्धये ॥ ४९ ॥
लिखित्वा भस्मना मायां ससाध्यां फलकादिषु ।
तत्काले दर्शयेद्यन्त्रं सुखं सूयेत गभीणी ॥ ५० ॥
कणीकायामिति पद्मकणीकायाम् ।
निधी इति यथान्यस्तौ ।
एता इति अनन्तरं वक्ष्यमाणाः अनङ्गकुसुमाद्याः ।
आसां ध्यानं देवीवत् ज्ञेयम् ।
खेटकम् फरी इति कान्यकुब्जभाषायाम् ।
श्यामा इत्यन्तं पूर्वशक्तिध्यानम् ।
पूज्याश्चेति चकारो भिन्नक्रमः ।
मातर इत्येतदनन्तरं द्रष्टव्याः ।
मातरश्चेति चकारात् वक्ष्यमाणशक्तयश्च ।
तेन मातरो यथान्यस्ताः पद्माद्बहिः पूज्याः ।
पद्माद्बहिः परिचारिका अपि अष्टदिक्षु ।
एता द्विभुजा वामहस्ते रक्तोत्पलं परहस्ते चषकादि ।
तदुक्तं प्रयोगसारे—-
रक्ता रक्तोज्ज्वलाकल्पा रक्तान्तायतलोचनाः ।
रक्तोत्पलकरा ध्येयाः सुन्दराः परिचारिकाः ॥
अत्र सर्वत्र तर्पणादीनामन्येषामप्यङ्गनां सत्त्वात् यत् ध्यानपूजाजपहोमानेवाह तेनैषां
नित्यकर्त्तव्यत्वं सूचितम् ।
तदुक्तं पिङ्गलामते—-
नाध्यातो नाचीतो मन्त्रः सुसिद्धोऽपि प्रसीदति ।
नाजप्तः सिद्धिदाने च्छुर्नाहुतः फलदो भवेत् ॥
पूजां ध्यानं जपं होमं तस्मात् कर्मचतुष्टयम् ।
प्रत्यहं साधकः कुर्यात् स्वयञ्चेत् सिद्धिमिच्छति ॥
जपश्रान्तः शिवं ध्यायेत् ध्यानश्रान्तः पुनर्जपेत् ।
जपध्यानसमायुक्तः शीघ्रं सिध्यति मन्त्रवित् ॥ इति ।
षट्कोणेषु यजेत् मन्त्री इत्यत एतदन्तं मन्त्रीति कर्त्तृपदमनुवर्त्तते ।
तेन चैतन्मन्त्रं समयाचारज्ञत्वेनैव सूचितम् ।
यदाहुः—-
योगेशो सिद्धिमन्विच्छन् सद्व्रतानि समाचरेत् ।
नाऽद्यादनर्चयन् देवीं नैव स्यान्मलिनाकृतिः ॥
नाऽसत्यं प्रवदेत् किञ्चिन्नोपेयाद्विधवां क्वचित् ।
धारयेत् सर्वतो रम्यं रक्तालङ्कारमन्वहम् ॥
कन्यां रक्तदिने रक्तां यजेद्देवीमनुस्मरन् ।
अशुद्धो विचरेन्नैव विविक्ते शयने स्वपेत् ॥
न निन्दयेत् स्त्रियं जातु विशेषेण तु कन्यकाम् ॥ इति ।
देवीमित्यं प्रपूजयेत् इत्यनेन एतदुक्तं भवति ।
आवरणेषु षोडशशक्त्यनन्तरं द्वात्रिंशच्छक्तयस्तदनन्तरं चतुःषष्टिशक्तयोऽर्च्या इति ।
ताश्च भूतलिपिमन्त्रे उक्ता ज्ञेयाः ।
तत्फलमेवाह पूज्यते सकलैर्दैवैरिति ।
किं पुनः मनुजोत्तमैरित्यनेन एतदुक्तं भवति ।
स्वोक्तं मध्ये यदनङ्गकुसुमाद्यष्टशाक्त्यावरणं तदन्तस्य फलम् ।
मनुजेति ।
ततो यत् षोडशशक्त्यावरणं तदेतस्य फलम् तदुत्तमैरिति ।
तदुक्तं महासमोहने—-
चतुभीर्वा त्रिभिर्वापि द्वयेनैकेन वा पुनः ।
सर्वैरावरणैरेवं भोगार्थी विस्तरं यजेत् ॥ इति ।
तथा गर्भावरणं बाह्यानां मध्ये तेषां प्रपूजनमिति तत्रैव ।
तेनास्याः सप्तावरणा- दारभ्य एकादशावरणान्ता पूजेति सूचितम् ।
एवं पञ्चावरणा षडावरणापि इत्यपि मन्त्री इत्यनेनैतदुक्तं भवति—-
सिद्धः प्रसिद्धस्तेजस्वी त्यागी योगी जितेन्द्रियः ।
सर्वज्ञः सुभगः श्रीमान् निराधिः प्रियदर्शनः ॥
चौरादिव्यालवेताल गुह्यकासुरदानवैः ।
न भयं जायते तस्य सिद्धमन्त्रस्य देहिनः ॥
ग्रामे वा नगरे वाऽपि सभायां राजसन्निधौ ।
प्रसिद्धः पूज्यते सद्भिर्लभते वाञ्छितं हितम् ॥ इति ।
मन्त्री शीघ्रमित्यनेन अयुतहोम इत्युक्तम् ।
यत् प्रयोगसारे—-
वश्यायाऽश्वत्थराजीवतिलक्षीरैर्यथाक्रमात् ।
जुहुयाद् ब्राह्मणादीनां तथैवाऽयुतसङ्ख्यया ॥ इति ।
साधुसाधितमित्यष्टोत्तरसहस्रं जप्तम् ।
पुत्तलीमिति द्वादशाङ्गुलायामाम् ।
भक्षयेदिति दक्षिणपादाङ्गुष्ठादिवामपादाङ्गुष्ठान्तम् ।
स्त्रियान्तु वैपरीत्यम् ।
भस्मनेति गोमयभस्मना ।
चतुरस्र इति ज्ञेयम् ।
पुत्रसम्भावनायां पलाशभस्म इत्यपेक्षितार्थ- द्योतनिकायाम् ।
तदुक्तं नारायणीये—-
भस्मना लिखितां साध्यां हृल्लेखां शक्रवेश्मनि ।
इति ॥ ३३-५० ॥
शक्त्यन्तः स्थितसाध्यकर्म भवने वह्नेर्वृतं शक्तिभि-
र्बाह्ये कोणगते युतं हरिहरैर्वर्णैः कपोलापीतैः ।
पश्चात्तैः पुनरींयुतैलीपिभिरप्यावीतमिष्टार्थदं
यन्त्रं भूपुरमध्यगं त्रिगुणितं सौभाग्यसम्पत्प्रदम् ॥ ५१ ॥
त्रिगुणितं यन्त्रमाह शक्त्यन्तरिति ।
एवं भूतं त्रिगुणितं यन्त्रं सौभाग्यसम्पत्प्रद- मित्यन्वयः ।
कीट्टक् तत् ।
वर्ह्नेभवने ऊर्द्धाग्रे त्रिकोणे ।
शक्त्यन्तः शक्तिबीज- मध्यस्थितम् ।
साध्येति साधकोपलक्षकम् ।
साध्यसाधककर्मणि यत्र तत् ।
तत्र प्रयोगः ।
देवदत्तस्य यज्ञदत्तं वशं कुरु कुरु इति ।
तदुक्तं रामपूर्वतापनीये—-
लिखेत् साध्यं द्वितीयान्तं षष्ठ्यन्तं साधकं तथा ।
कुरुद्वयञ्च तत्पार्श्वे ।
इति ।
तत्र बीजरेफभागे साध्यनाम ।
चतुर्थस्वरभागे साधकनाम ।
तयोर्मध्ये साधकांशे कर्म लिखेत् ।
तदुक्तं संहितायाम्—-
तच्छक्तिरेफभागे तु साध्यनामाक्षरं लिखेत् ।
तुरीयस्वरभागे तु साधकस्य वशं कुरु ।
साध्यस्योपरि संस्पृष्टं विलिखेत् सर्वसिद्धये ॥ इति ।
आचार्याश्च—- मध्यवर्त्तुलसंस्थाया हृल्लेखायाः कपोलयोः ।
अधरे साध्यनामार्णं साधकस्योत्तरे लिखेत् ॥
अन्तराग्निश्रियोः कर्म साधकांशे समालिखेत् ।
इति ।
अनेनावश्यं वृत्तान्तः शक्तिं लिखेदित्यप्युक्तम् ।
अन्यत्रापि " ठकारवेष्टितां कृत्वा " इति ।
बाह्ये त्रिकोणाग्रभागेषु ।
शक्तिभिरिति बहुवचनं कपिञ्जलाधिकरण- न्यायेन त्रित्वे पर्यवस्यति ।
तेन त्रिभिः शक्तिबीजैः वृतम् ।
आवरणं च गण्डद्वयलिखित हरिहरवर्णबहिर्भागे ।
तदुक्तम्—- कोणाग्रेषु परां लिखेत् ।
इति ।
आचार्याश्च—- शक्त्या विःसाध्यमिन्द्रानिलनिरृतिगबीजानुबिद्धं पुरेऽग्नेः ।
इति ।
अत्रावरणमित्थम् ।
एकैकस्य रेफाग्रेण तत्तद्बीजं प्रदक्षिणीकृत्य अन्यस्याधो नीत्वा तदीकाराग्रं बध्नीयादिति ।
तदुक्तं संहितायाम्—-
स्थानत्रयेऽपि बन्धस्तु कथ्यते सिद्धिदायकः ।
तद्बीजत्रयरेफाग्रं प्रादक्षिण्येन वेष्टयेत् ॥
अधस्तत्त्रितयं चाऽस्य मायाग्रेण च वेष्टयेत् ।
अन्योन्यकलनारम्यः शक्तिबन्ध उदाहृत्ः ॥ इति ।
कोणगतेषु तत्त्रिकोणान्तःकोणेषु ईं लिखेत् ।
तदुक्तम्—- त्रिकोणस्यान्तरालेषु वामनेत्रं सबिन्दुकम् ।
इति ।
कपोलापीतैर्हरिहरैर्वर्णैरुपलक्षितम् ।
कपोलयोः त्रिकोणकोणपार्श्वयोः हरि- रित्येकत्र हर इत्यपरत्र च ।
केचन ह्रि ह्र इत्याहुः ।
तन्न ।
मानाभावात् ।
तथा च संहितायाम्—- प्रत्येककोणपार्श्वेषु हर्यर्णौ च हराक्षरौ ।
इति ।
पश्चात् तदनन्तरं तैः हरिहरैः ईंयुतैः ।
तेन हरि ईं हर ईम् इत्यक्षरैरावीतम् ।
तदुक्तं संहितायाम्—-पुनरेतद्वयोर्मध्ये तुर्यं चैव सबिन्दुकम् ।
इत्यर्णैर्वैष्टयेद्बाह्ये वृत्तं कुर्याद्वहिस्ततः ॥ इति ।
गौरीतन्त्रेऽपि—- हरिबीजं हरानादीन् क्षान्तवर्णांश्च बाह्यतः ।
इति ।
आचार्याश्च—- मध्ये समायैस्तैः ।
इति ।
पद्मपादाचार्यास्तु प्रत्येकमीं योगमाहुः ।
हरि ईं हर ईम् इति ।
लिपिभिः अकारादि क्षकारान्तैः ।
अपिशब्दः पूर्वसमुच्चये ।
आवीतं वेष्टितम् ।
भूपुरमध्यगं तद्- बहिः भूपुरं लिखेदित्यर्थः ।
आचार्यैस्तु इदमेवाष्टदलयुक्तं पूजायन्त्रमुक्तम् ॥ ५१ ॥
बीजान्तः स्थितसाध्यनाम शरशो मायारमामन्मथै-
र्वीतं वह्निपुरद्वये रसपुटेष्वाख्याढ्यबीजत्रयम् ।
सात्मानात्मकमींशिखं हरिहरैराबद्धगण्डं बहिः
षड्बीजैरनुबद्धसन्धिलिपिभिर्वीतं गृहाभ्यां भुवः ॥ ५२ ॥
चिन्तामणिनृसिंहाभ्यां लसत्कोणमिदं लिखेत् ।
यन्त्रं षड्गुणितं दिव्यं वहतां सर्वसिद्धिदम् ॥ ५३ ॥
षड्गुणितं यन्त्रमाह बीजान्तरिति ।
इदं षड्गुणितं यन्त्रं लिखेदिति सम्बन्धः ।
कीदृक् यन्त्रम् ।
वह्निपुरद्वये परस्परव्यतिभिन्ने त्रिकोणद्वये ।
तच्चैवम् उक्तपरिमाणं वृत्तं कृत्वा प्राक्प्रत्यक्सूत्रमास्फाल्य तदग्रयोः सूत्रमवष्टभ्य
वृत्तार्द्धपरिमाणेन सूत्रेण मत्स्य- द्वयं कुर्यात् ।
एवं कृते मत्स्यचतुष्कं निष्पद्यते ।
पूर्वमत्स्यद्वये पश्चिमत्स्यद्वये च दक्षिणोत्तरगं सूत्रद्वयमास्फाल्य प्राक्सूत्रस्य प्रागग्रे सूत्रादिं
निधाय पश्चिममत्स्य- द्वयोदरयोः तिर्यक्सूत्रद्वयमास्फालयेत् ।
पुनः प्राक्सूत्रस्य पश्चिमाग्रे सूत्रादिं निधाय पूर्वदिङ्मत्स्यद्वयोदरयोः तिर्यक्सूत्रद्वयमास्फालयेत् ।
प्राक्सूत्रं वृत्तं च मार्जयेत् ।
एवं कृते सम्पुटितं वह्निपुरद्वयं जायते ।
तत्र बीजं शक्तिबीजं तदन्तःस्थितं साध्यनाम यत्र तत् तथा ।
साध्यसाधककर्मनामलिखनं तु पूर्ववदेव ।
शरशः पञ्चधा ।
तत्र षट्कोणाभ्यन्तरे एवं पञ्चभिर्मायाबीजैः एकं वेष्टनम् ।
तदन्तराले एवं पञ्चभिः श्रीबीजैः द्वितीयं वेष्टनम् ।
तदन्तराले एवं पञ्चभिः कामबीजैः तृतीयं वेष्टनम् ।
एवं पञ्चदशबीजैरेकं वेष्टनं पर्यवसन्नं भवति ।
तदुक्तं पद्मपादाचार्यैः—-तत्र मायाबीजेन पञ्चधा वृत्तेनैकावृतिः ।
पुनस्तदन्तराले एव श्रीबीजेन ।
तथैव तदन्तराले मारबीजेन ।
इति ।
तदुक्तम्—-
पुटितं वह्निमालिख्य मध्ये शक्तिं नियोजयेत् ।
ठकारवेष्टितं कृत्वा बहिः शक्तिं तु पञ्चधा ॥
विलिख्य तद्बहिस्तद्वत् श्रीबीजं कामराजकम् ।
इति ।
आचार्या अपि—- हरमायाः पञ्चकृत्वः स्युर्बहिर्गर्भवर्त्तुलम् ।
तद्वहिः शरमायाश्च कलमायाश्च तद्बहिः ॥ इति ।
अतोऽत्र वृत्तान्तरे च शक्तिबीजं मायाबीजं विलिख्य पश्चाद् बीजत्रयवेष्टनम् ।
रसपुटेषु षट्षु कोणेषु ।
आख्याढ्यबीजत्रयम् ।
अत्र आख्याशब्देन साध्यसाधककर्म- नामानि उच्यन्ते ।
बीजत्रयं पूर्वप्रकृतं शक्तिश्रीमान्मथम् ।
तदुक्तम्—-
वह्नेः कोणत्रये श्रीमत्पक्षीये त्रितयं लिखेत् ।
शक्तिश्रीकामबीजानां सदण्डं साधकार्णवत् ॥ इति ।
लिखेदिति द्विरावृत्त्या ।
सा च सात्मानात्मकशब्दादेव लभ्यते ।
तत्र सात्मकं सबिन्दु अनात्मकं पर्युदासेन सविसर्गम् ।
तत्र एवं लेखनक्रमः ।
ईकारगते तु ऊर्द्धभागकोणत्रये साधकनामवन्ति सबिन्दूनि त्रीणि बीजानि लिखेत् ।
ततः प्रादक्षिण्येन रेफगते अधोभागकोणत्रये साध्यनामकर्मवन्ति सविसर्गाणि लिखेत् ।
तदुक्तम्—- वह्न्योः कोणेषु षट्सु च ।
ऊर्द्धभागे सबिन्दूनि त्रीणि बीजानि संलिखेत् ॥
साधकाख्यायुतान्येवमधोभागेषु तान्यपि ।
सविसर्गाणि साध्याख्या कर्मवन्ति च संलिखेत् ॥ इति ।
ईंशिखं कोणान्तरग्रप्रदेशे ईम् इति लिखेत् ।
हरिहरैराबद्धगण्डम् ।
गण्डशब्देन षट्कोणकोणपार्श्वद्वयमुच्यते ।
तेन पूर्ववत् हरिहरान् वर्णान् लिखेत् ।
बहिः षट्कोणाग्रेषु षड्भिः मायाबीजैरनुबद्धसन्धिः ।
तत्र बद्धसन्धीत्येतावताऽपि अर्थप्राप्तौ यदनुबद्धसन्धीति वदति ।
तेन एकान्तरितसन्धिबन्धो विवक्षितो ग्रन्थकृतः ।
तदाहुराचार्याः—- एकैकान्तरितास्तास्तु सम्बध्युरितरेतरम् ।
शिखाभिरान्तराभिस्तु बाह्याबाह्याभिरान्तराः ॥ इति ।
संहितायामपि—- पूर्ववच्छक्तिबन्धस्तु कार्येऽत्रैकान्तरत्वतः ।
इति ।
अन्यत्रापि मन्त्रमुक्तावल्यादौ एकैकान्तरितबद्धसन्धित्वमेव उक्तम् ।
युक्तिश्चात्र एकान्तरितबन्धे स्वस्वत्रिकोणगबीजबन्धो भवति ।
तत्र प्रकारः ।
स्वस्वरेफेण तत्तद्बीजं प्रदक्षिणीकृत्य अन्यस्याधो नीत्वा एकान्तरित बीजस्य ईकाराग्रेण वध्नीयात् ।
सम्प्रदायविदश्चैवं मन्यन्ते ।
अन्ये तु सन्धौ बीजलिखनमाहुः ।
तदुक्तम्—- षट्षु कोणान्तरालेषु हृल्लेखाषट्कमालिखेत् ।
इति ।
इदमुत्तरयन्त्रेऽपि ।
लिपिभिरिति सामान्योक्तेः ।
क्रमेण व्युत्क्रमेण च वेष्टनम् ।
यदाहुराचार्याः—-वर्णाः क्रमगताः शुभाः तद्वहिः प्रतिलोमाश्च ।
इति ।
संहितायामपि—- अनुलोमेन तद्वृत्तमध्ये पञ्चाशदक्षरा ।
तद्वृत्तबाह्यतस्तद्वत् विलोमेन च मातृका ॥ इति ।
भुवो गृहाभ्यां परस्परभेदित दिग्विदिक्कोणाभ्यां वेष्टयेत् ।
तदुक्तमाचार्यैः—- ततो विदभीतं भूमेर्मण्डलद्वयमालिखेत् ॥ इति ।
चिन्तामणिनृसिंहाभ्यामित ईशानादिलेखनक्रमः ।
तेन दिक्कोणे नृसिंहबीजं विदिक्कोणे चिन्तामणिबीजं शैवम् ।
तदुक्तम्—- महादिक्स्थनृसिंहार्णं चिन्तारत्नाश्रितात्मकम् ।
इति ।
विशेषश्चायमुक्तो दक्षिणामूत्तीसंहितायाम्—-
ततः कोणेषु सन्धिषु विलिख्य शूलान् ।
इति ।
आचार्याश्च—-बहिः षोडशशूलाङ्कम् ।
इति ॥ ५२-५३ ॥
बीजं व्याहृतिभिर्वृतं गृहयुगद्वन्द्वे वसोः कोणगं
दौर्गं बीजमनन्तरं लिपियुगैराबद्धगण्डं लिखेत् ।
गायत्र्या रविशक्तिबद्धविवरं त्रिष्टुब्वृतं तत्ततो
वीतं मातृकया धरापुरयुगे सत्सिंहचिन्तामणिम् ॥ ५४ ॥
यन्त्रं दिनेशगुणितं प्रोक्तं रक्षाप्रसिद्धिदम् ।
सर्वसौभाग्यजननं सर्वशत्रुनिवारणम् ॥ ५५ ॥
अथ द्वादशगुणितं यन्त्रमाह—-बीजमिति ।
वसोरग्नेः गृहयुगं षट्कोणम् ।
तद्वन्द्वे द्वादशकोणे ।
क्वचित् गुहमुखद्वन्द्व इति पाठः ।
तत्र गुहः स्कन्दः तस्य मुखानि षट् तद्वन्द्वे द्वादशकोणे ।
तत्र पूर्वेक्तप्रकारेण षट्कोणे कृते तत्रोत्पन्नयोः मत्स्ययोः दक्षिणोदग्गतं सूत्रमास्फाल्य तदग्रयोः
सूत्रमवष्टभ्य वृत्तार्द्धपरिमाणेन सूत्रेण मत्स्य- चतुष्टयं कुर्यात् ।
तत्र दक्षमत्स्यद्वये उत्तरेमत्स्यद्वये च पूर्वप्रत्यग्गतं सूत्रद्वयम् आस्फाल्य दक्षोत्तरसूत्रस्याग्रे
सूत्रादिं निधाय उत्तरमत्स्योदरयोः तिर्यक्सूत्रद्वयमास्फालयेत् ।
पुनर्द- क्षोत्तरसूत्रस्य द्वितीयाग्रे सूत्रादिं निधाय दक्षमत्स्यद्वयोदरयोः तिर्यक्सूत्रद्वयमास्फालयेत्।
दक्षोत्तरसूत्रं मार्जयेत् ।
एवं द्वादशकोणे कृते बीजं शक्तिबीजं साध्यसाधककर्मसहितं पूर्ववदालिख्य सप्तव्याहृतिभिवीलोमाभिरावीतं कुर्यात् ।
यत् संहितायाम्—-
वेष्टयेत् प्रतिलोमतः सप्तव्याहृतिभिर्मन्त्री ।
इति ।
आचार्याश्च—- शक्तिं प्रवेष्टयेच्च प्रतिलोमव्याहृतिभिरन्तःस्थाम् ।
इति ।
पद्मपादाचार्यैः व्याख्यातम्—-सप्तव्याहृतिभिरिति ।
कोणगमिति ।
द्वादशसु कोणेषु दुरिति दुर्गाबीजमालिख्य अन्तरे कोणाग्रभागे ईम् इति लिखेत् ।
तदुक्तं संहितायाम्—-दुरात्मकं द्वादशारे सबिन्दुं तुर्यमेव च ।
इति ।
तदुक्तमाचार्यैः—- कोणान्तर्दुम्बीजकम् ।
इति ।
तथा—- रविकोणेषु दुरन्तां मायां विलिखेदथात्र बिन्दुमतीम् ।
इति ।
नारायणीये च—- अद्रिस्तद्बीजं शिवशक्तिवान् ।
इति ।
अपेक्षितार्थद्योतनिकायाम् ऋष्यादिकमुक्तम् ।
काश्यपः ऋषिः गायत्री छन्दः दुर्गा देवता ।
अष्टपत्रे कमले दूर्वाश्यामां त्रिनेत्रां शूलवाणखङ्गचक्रशङ्खखेटकधनुः- कपालानि दक्षिणाधःक्रमेण
धारयन्तीं ध्यायेत् ।
लक्षं जपेत् ।
जपदशांशं तिलैर्हेमः ।
पूजादिकं वनदुर्गावत् ज्ञेयम् ।
गायत्र्याः प्रसिद्धायाः लिपियुगैरक्षरयुगैः आबद्धगण्डं प्रत्येकं कोणपार्श्वयोवीलोमतः गायत्र्यक्षरस्य
द्वितयं द्वितयं लिखेदित्यर्थः ।
णियमिति पृथक्करणेन चतुवींशतिरक्षराणि ।
" इत्यादि पुरणे " इति पिङ्गलसूत्रात् ।
यत् संहितायाम्—-द्वन्द्वशो विलिखेद्वर्णान् गायत्र्यास्तु विलोमतः ।
इति ।
आचार्या अपि—- गायत्रीं प्रतिलोभतः प्रविलिखेदग्नेः कपोलम् ।
इति ।
गायत्रीं द्वाविंशे वक्ष्यति ।
रविशक्तिभिः कोणाग्रबहिःस्थापित द्वादशशक्ति- बीजैः बद्धविवरम् ।
अत्रापि पूर्ववत् एकान्तरितत्वेन बन्धनम् ।
यत् संहितायाम्—-पूर्ववच्छक्तिबन्धन्तु कुर्याद् द्वादशधा प्रिये ।
एकैकान्तरितं रम्यम् ।
इति ।
आचार्याश्च—- एकैकान्तरितास्ताः परस्परं शक्तयश्च सम्बध्युः ।
इति ।
त्रिष्टुब्वृतं त्रिष्टुभा जातवेदस इति प्रतिलोमेन वेष्टितम् ।
तदुक्तम्—- तद्वहिःकोणपार्श्वेषु विलोमाग्नेय सन्मनुम् ।
इति ।
त्रिष्टुभं द्वाविंशे वक्ष्यति ।
मातृकया अकारादिक्षान्तया विलोमया च वीतम् ।
तदुक्तं संहितायाम्—-अनुलोमां विलोमाञ्च मातृकां वेष्टयेद्बहिः ।
इति ।
आचार्या अपि—- वर्णान् प्रानु (प्रति) गतांश्च ।
इति ।
पूर्ववत् परस्परव्यतिभेदिधरापुरयुग्मं लिखेत् ।
सत्सिंहचिन्तामणिमिति पूर्वादि तेन दिक्कोणे नृसिंहबीजं विदिक्कोणे शैवं चिन्तामणिबीजम् ।
इदं दिनेशगुणितं द्वादशगुणितम् ।
अस्य पूर्वयन्त्रापेक्षया फलादिद्वैगुण्यं ज्ञेयम् ॥ ५४-५५ ॥
लिखेत् सरोजं रसपत्रयुक्तं
मध्ये दलेष्वप्यभिलिख्य मायाम् ।
स्वरावृतं यन्त्रमिदं वधूनां
पुत्रप्रदं भूमिगृहान्तरस्थम् ॥ ५६ ॥
यन्त्रान्तरमाह—-लिखेदिति ।
रसपत्राणि षट्पत्राणि तद्युक्तम् ।
मायामिति ससाध्यां सप्तषु स्थानेषु ।
स्वरावृतम् अकारादिविसर्गपर्यन्तैः स्वरैरावृतम् ।
नारायणीये तु अत्र चतुरस्रं नोक्तम्—-
मध्ये षट्पत्रपद्मस्य लिखेद्देवीं दलेषु च ।
स्वरावृतमिदं यन्त्रं धारयेत् पुत्रकामिनी ॥ इति ॥ ५६ ॥
षट्कोणमध्ये प्रविलिख्य शक्तिं
कोणेषु तामेव विलिख्य भूयः ।
ससाध्यगर्भं वसुधापुरस्थं
यन्त्रं भवेद्वश्यकरं नराणाम् ॥ ५७ ॥
यन्त्रान्तरमाह षडिति ।
ससाध्यगर्भमिति सप्तसु स्थानेषु इति ॥ ५७ ॥
वाग्भवं शम्भुवनिता रमाबीजत्रयात्मकम् ।
मन्त्रं समुद्धरेन्मन्त्री त्रिवर्गफलसाधनम् ॥ ५८ ॥
मन्त्रान्तरमुद्धरति वाग्भवमिति ।
वाग्भवं द्वादशस्वरः सबिन्दुः ।
शम्भुवनिता शक्तिबीजम् ।
त्रिवर्गेति विनियोगोक्तिः आद्यं बीजं मध्यं शक्तिः ।
ऋषिच्छन्दसी पूर्वेक्ते ।
अतएव पाशादिमन्त्रे ऋष्याद्याः पूर्वमुक्ता इति ।
प्रत्याहारक्रमेणोक्तम् ॥ ५८॥
षड्दीर्घभाजा मध्येन वाग्भवाद्येन कल्पयेत् ।
षडङ्गानि मनोरस्य जातियुक्तानि मन्त्रवित् ।
कुर्यात् पूर्वेदितान्नयासान् तथैवात्रापि साधकः ॥ ५९ ॥
षड्दीर्घेति ।
ए� ह्रां ह्रत् ए� ह्रीं शिरः इत्यादि प्रयोगः ।
मन्त्रविदित्युत्तरेण सम्बध्यते ॥ ५९ ॥
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुर-
त्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यां मणिरत्नपूर्णचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थसव्यचरणां ध्यायेत् परामम्बिकाम् ॥ ६० ॥
ध्यानमाह—-सिन्दूरेति ।
मौलिर्मुकुटः ।
शेखरः शिरोभूषणम् ।
रत्नपूर्णे घटः रत्नघटः ।
रक्तपद्मस्थामित्यपि ॥ ६० ॥
रविलक्षं जपेन्मन्त्रं पायसैर्मधुरप्लुतैः ।
दशांशं जुहुयान्मन्त्रीं पीठे प्रागीरिते यजेत् ॥ ६१ ॥
देवीं प्रागुक्तमार्गेण गन्धाद्यैरतिशोभनैः ।
हुत्वा पलाशकुसुमैर्वाक्श्रियं महतीं लभेत् ॥ ६२ ॥
रविलक्षं द्वादशलक्षम् ।
प्रागीरिते भुवनेशीप्रोक्ते ।
गन्धाद्यैरिति चतुर्थेक्तैः ।
अतिशोभनैरिति ।
आवरणाङ्गदेवताभ्यो विविक्तीकृतैरित्यर्थः ॥ ६१-६२ ॥
ब्राह्मीघृतं पिबेज्जप्तं कवित्वं वत्सराद्भवेत् ।
सिद्धार्थान् लवणोपेतान् हुत्वा मन्त्री वशं नयेत् ॥ ६३ ॥
नरनारीनरपतीन्नात्र कार्या विचारणा ।
चतुरङ्गुलजैः पुष्पैश्चन्दनाम्भः समुक्षितैः ॥ ६४ ॥
हुत्वा वशीकरोत्याशु त्रैलोक्यमपि साधकः ।
जुहुयादरुणाम्भोजैरयुतं मधुराप्लुतैः ॥ ६५ ॥
राज्यश्रियमवाप्नोति सतिलैस्तण्डुलैस्तथा ।
प्रागुक्तान्यपि कर्माणि मन्त्रेणानेन साधयेत् ॥ ६६ ॥
ब्राह्मीघृतमिति ।
अत्र घृताच्चतुर्गुणे ब्राह्मीरसे घृतं पचेत् ।
उक्तं च—-स्वकल्कोऽपि भवेत् स्नेहो यः साध्यः केवले द्रवे ।
इति ।
अन्यन् मातृकापटलोक्तमनुसन्धेयम् ।
सिद्धार्था गौरसर्षपाः ।
चतुरङ्गुलो राजवृक्षः ॥ ६३-६६ ॥
वाग्बीजपुटिता माया विद्येयं त्र्यक्षरी मता ।
मध्येन दीर्घयुक्तेन वाक्पुटेन प्रकल्पयेत् ॥ ६७ ॥
अङ्गानि जातियुक्तानि क्रमेण मनुवित्तमः ।
यथा पुरा समुद्दष्टान्नयासान् कुर्वीत मन्त्रवित् ॥ ६८ ॥
मन्त्रान्तरमाह वागिति ।
बीजशक्ती ऋषिश्छन्दश्च पूर्ववत् ।
मध्येनेति माया- बीजेन ।
दीर्घयुक्तेन षड्दीर्घयुक्तेन ।
प्रयोगस्तु ।
ए� ह्राम् ए� हृत् ए� ह्रीम् ए�
शिरः इत्यादि ।
मन्त्रविदित्यनेन हृल्लेखादि बीजादौ वाक्पुटत्वम् उक्तम् ।
मूलमिति इमं मन्त्रम् ॥ ६७-६८ ॥
श्यामाङ्गीं शशिशेखरां निजकरैर्दानं च रक्तोत्पलं
रत्नाढ्यं चषकं परं भयहरं सम्बिभ्रतीं शाश्वतीम् ।
मुक्ताहारलसत् पयोधरनतां नेत्रत्रयोल्लासिनीं
वन्देऽहं सुरपूजितां हरवधूं रक्तारविन्दस्थिताम् ॥ ६९ ॥
ध्यानमाह श्यामाङ्गीमित्यादि ।
दानं वरः ।
भयहरम् अभयम् ।
परम् उत्कृष्टं चषकविशेषणम् ।
रक्तपद्मस्थामिति ।
आयुधध्यानं पूर्ववत् ॥ ६९ ॥
तत्त्वलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ।
पलाशपुष्पैः स्वाद्वक्तैः पुष्पैर्वा राजवृक्षजैः ॥ ७० ॥
तत्त्वलक्षं चतुवींशतिलक्षम् ।
स्वाद्वक्तैः त्रिमधुराप्लुतैः ॥ ७० ॥
हृल्लेखाविहिते पीठे पूजयेत् परमेश्वरीम् ।
मध्यादि पूजयेत् मन्त्री हृल्लेखाद्याः पुरोदिताः ॥ ७१ ॥
मिथुनानि यजेन्मन्त्री षट्कोणेषु यथा पुरा ।
अङ्गपूजा केसरेषु पूज्याः पत्रेषु मातरः ॥ ७२ ॥
हृल्लेखाविहिते भुवनेशीप्रोक्ते ।
तदुक्तं भुवनेशीपारिजाते—-
मायाबीजमिदं प्रोक्तं भुवनत्रयमक्षरम् ।
हृल्लेखेयञ्च योगेशी ।
इति ।
पुरोदिता इति स्वस्वबीजसंयुक्ताः ।
यथापुरेति स्वस्वशक्त्यादिकानि सध्यानामानि ॥ ७१-७२ ॥
भैरवाङ्कसमारूढाः स्मेरवक्त्रा मदालसाः ।
असिताङ्गी रुरुश्चण्डः क्रोध उन्मत्तसञ्ज्ञकः ॥ ७३ ॥
कपाली भीषणः पश्चात् संहारी चाऽष्टभैरवाः ।
शूलं कपालं प्रेतञ्च बिभ्राणाः क्षुद्रदुन्दुभिम् ॥ ७४ ॥
गजत्वगम्बरा भीमाः कुटिलालकशोभिताः ।
दीर्घाद्या मातरः प्रोक्ता ह्रस्वाद्या भैरवाः स्मृताः ॥ ७५ ॥
पूज्याः षोडशपत्रेषु कराल्याद्याः पुरोदिताः ।
तद्बाह्येऽनङ्गरूपाद्याः लोकेशास्त्राणि तद्बहिः ॥ ७६ ॥
एवमाराधयेद् देवीं शास्त्रोक्तेनैव वर्त्मना ।
वशं नयति राजानं वनिताश्च मदालसाः ॥ ७७ ॥
मनुनाज्येन जुहुयाल्लभते वसु वाञ्छितम् ।
सुगन्धैः कुसुमैर्हुत्वा श्रियमाप्नोति वाञ्छिताम् ॥ ७८ ॥
मन्त्रेणाऽनेन सञ्जप्तमश्नीयादन्नमन्वहम् ।
भवेदरोगी नियतं दीर्घमायुरवाप्नुयात् ॥ ७९ ॥
भैरवाङ्गेत्यादिना ध्यानविशेषः उक्तः ।
अन्यन् मातृकापटलोक्तमनुसन्धेयम् ।
क्षुद्रदुन्दुभिः डमरुः ।
भैरवायुधध्यानं तु दक्षोर्द्धादि दक्षाधः पर्यन्तम् ।
दीर्घा आकाराद्या अष्टौ तदाद्या मातरः अष्टौ यथाक्रमम् ।
अन्यत् क्षमादिकं पूर्वेक्तमुनसन्धेयम् ।
एवं ह्रस्वाद्या इत्यत्रापि ।
अत्र अ इ उ ऋ ऌ ए ओ अम् इति पारिभाषिकह्रस्वग्रहणम् ।
प्रयोगस्तु ।
अम् असिताङ्गभैरवाङ्कस्थायै आं क्षां ब्राह्म्यै नमः इत्यादि ॥ ७३-७९ ॥
अनन्तो बिन्दुसंयुक्तो माया ब्रह्माऽग्नितारवान् ।
पाशादित्र्यक्षरो मन्त्रः सर्ववश्यफलप्रदः ।
ऋष्याद्याः पूर्वमुक्ताः स्युर्बीजेनाङ्गक्रिया मता ॥ ८० ॥
मन्त्रान्तरमाह अनन्त इति ।
अनन्त आकारः ।
बिन्दुसंयुक्तस्तेन आम् ।
ब्रह्मा ककारः ।
अग्निः रेफः ।
तारः प्रणवः ।
ताभ्यां युक्तस्तेन क्रोम् ।
प्रथमबीजस्य पाश इति नाम ।
अन्तस्य अङ्कुश इति ।
यदाहुराचार्याः—-
बिन्द्वन्तिका प्रतिष्ठा सन्दिष्टा पाशबीजमिति मुनिभिः ।
निजभूर्दहनाप्यायिनिशशधरखण्डान्वितोऽङ्कुशो भवति ॥ इति ।
अतएव पाशादि त्र्यक्षरो मन्त्र इति ।
सर्ववश्येति विनियोगोक्तिः ।
बीजशक्ती पूर्ववत् ।
बीजनेति मायाबीजेन ।
षड्दीर्धयुक्तेन पाशाङ्कुशपुटितेनेति परमगुरवः ।
प्रयोगस्तु—-आं ह्रां क्रों हृदयाय नमः इत्यादि ।
पाशाङ्कुश पुटितबीजाद्यानां हृल्लेखाद्यानां न्यासोऽपि कर्त्तव्यः ॥ ८० ॥
वराङ्कुशौ पाशमभीतिविद्यां
करैर्वहन्तीं कमलासनस्थाम् ।
बालार्ककोटिप्रतिमां त्रिनेत्रां
भजेऽहमाद्यां भुवनेश्वरीं ताम् ॥ ८१ ॥
ध्यानमाह वरेति ।
अभीतिमुद्रामभयम् ।
कमलासनस्थां रक्तकमलासनस्थाम् ।
आयुधध्यानम् पूर्ववत् ॥ ८१ ॥
हविष्यभुग्जपेन्मन्त्रं तत्त्वलक्षं जितेन्द्रियः ।
तत्सहस्रं प्रजुहुयाज्जपान्ते मन्त्रवित्तमः ॥ ८२ ॥
दधिक्षौद्रघृताक्ताभिः समिद्भः क्षीरभूरुहाम् ।
तत्सङ्ख्यया तिलैः शुद्धैः जलाक्तैर्जुहुयात्ततः ॥ ८३ ॥
तत्त्वलक्षं चतुवींशतिलक्षम् ।
तदुक्तमाचार्यैः—-
जपेच्चतुवींशतिलक्षमेवं सुयन्त्रितो मन्त्रवरं यथावत् ।
इति ।
हविष्यभुक् जितेन्द्रिय इति पुरश्चरणधर्माणाम् उपलक्षणम् ।
तत्सहस्रं चतुवींशतिसहस्रम् ।
प्रत्येकं षट्सहस्रमित्याह ।
क्वचित् षट्सहस्रमित्येव पाठः ।
तदुक्तमाचार्यैः—-
पयोद्रुमाणाञ्च समित्सहस्रषट्कं दधिक्षौद्रघृतावसिक्तम् ॥ इति ।
जपान्ते इति जपाव्यवधानेन नियमस्य एवेत्यर्थः ।
मन्त्रवित्तम इत्यनेन होमे स्वाहान्तता सूचिता ।
क्षौद्रं मधु क्षीरभूरुहामिति ।
अश्वत्थोदुम्बर प्लक्षवटानां प्रत्येकं षटसहस्रं होम इति ।
तत्सङ्ख्यया चतुवींशति सङ्ख्यया ॥ ८२-८३ ॥
हृल्लेखाविहिते पीठे नवशक्तिसमन्विते ।
अर्चयेत् परमेशानीं वक्ष्यमाणक्रमेण ताम् ॥ ८४ ॥
हृल्लेखाद्या यजेदादौ कणीकायां यथाविधि ।
अङ्गानि केसरेषु स्युः पत्रस्था मातरः क्रमात् ॥ ८५ ॥
इन्द्रादयः पुनः पूज्यास्तेषामस्त्राणि तद्बहिः ।
एवं सम्पूजयेद् देवीं साक्षाद्वैश्रवणो भवेत् ॥ ८६ ॥
पूज्यते सकलैर्लेकैस्तेजसा भास्करोपमः ।
अनेनाऽधिष्ठितं गेहं निशि दीपशिखाकुलम् ॥ ८७ ॥
दृश्यते प्राणिभिः सर्वैर्मन्त्रस्याऽस्य प्रभावतः ।
सर्षपैर्लेणसम्मिश्रैराज्याक्तैर्जुहुयान्निशि ॥ ८८ ॥
राजानं वशयेत् सद्यस्तत्पत्नीमपि साधकः ।
अन्नवानन्नहोमेन श्रीमान् पद्महुताद्भवेत् ॥ ८९ ॥
राजवृक्षसमुद्भूतैः पुष्पैर्हुत्वा कविर्भवेत् ।
अरोगी तिलहोमेन घृतेनायुरवाप्नुयात् ।
प्राक्प्रोक्तान्यपि कर्माणि साधयेत् साधकोत्तमः ॥ ९० ॥
हृल्लेखाविहिते भुवनेशीप्रोक्ते ।
तत्पीठशक्तयोऽत्रापि पूज्या इत्यर्थः ।
नवशक्तिसमन्विते इत्यनेन पीठमन्त्रस्य अन्यत्वम् ।
तेन पीठमन्त्रे बीजत्रययोग इत्युक्तम्।
अत्र षट्कोणकणीकम् अष्टदलं पद्मं पीठम् ।
षोडशदलं नास्ति ।
तत्र पूजाया अनुक्तत्वात् ।
यथाविधीति बीजद्वयपुटित बीजाद्या इत्युक्तम् ।
मातर इति भैरवाङ्कस्थाः।
पूज्यत इति कर्मप्रत्ययेन देवानुग्रह उक्तः ।
साक्षात् वैश्रवणः कुबेरोपमः ।
वशयेदिति ।
तत्र जपप्रकार उक्तः तन्त्रान्तरे—-
ह्री�काराद्यां तयोर्नाम आं क्रों च विनियोजयेत् ।
इति ॥ ८४-९० ॥
आलिख्याऽष्ट दिगर्गलान्युदरगं पाशादिकं त्र्यक्षरं
कोष्ठेष्वङ्गमनून् परेषु विलिखेदष्टार्ण मन्त्रद्वयम् ।
अच्पूर्वापरषट्कयुग्लयवरान् व्योमासनानर्गले-
ष्वालिख्येन्द्रजलाधिपादिगुणशः पङ्क्तिद्वयं तत्परम् ॥ ९१ ॥
कोष्ठेष्वष्टयुगार्णमात्मसहितां युग्मस्वरान्तर्गतां
मायां केसरगां दलेषु विलिखेन्मूलं त्रिपङ्क्तिक्रमात् ।
त्रिः पाशाङ्कुशवेष्टितञ्च लिपिभिर्वीतं क्रमादुत्क्रमात्
पद्मस्थेन घटेन पङ्कजमुखेनावेष्टितं तद्बहिः ॥ ९२ ॥
घटार्गलमिदं यन्त्रं मन्त्रिणां प्राभृतं मतम् ।
घटार्गलं यन्त्रमाह आलिख्येति ।
अत्राष्टानाम् अर्गलानां साम्येन आनयन- प्रकार उच्यते—-
कर्णार्द्धमित्या मध्ये द्विसूत्राङ्कास्तत् द्वये द्वये ।
चतुरस्रान्तरे सूत्रैः परिध्येधनमिच्छया ॥
वास्तुमण्डलोक्तरीत्या एकं चतुरस्रं प्रागुत्तरसूत्रोपेतं कृत्वा तत्र कोणसूत्रार्द्ध- मानेन चतुदीक्षु
मध्यात् प्रागुदक्सूत्रे अङ्कयेत् ।
द्वयोर्द्वयोरङ्कयोः सूत्रदानात् दिग्गतकोणं पूर्वव्यतिभेदि चतुरस्रान्तरं जायते ।
ततः अष्टपरिधीनाम् इच्छया वर्द्धनं कृत्वा अर्गलाकारं कुर्यात् ।
सर्वत्र दिक्कर्णगुणाः मार्ज्याः ।
एवम् अष्टौ दिगर्गलानि आलिख्य मध्ये वृत्तं कृत्वा तत्र पाशादित्र्यक्षरमालिख्य चतुरस्रद्वयान्तः सन्धिषु
वृत्तं कृत्वा तदष्टकोष्ठेषु पूजाप्रकारेण आग्नेयादि विदिक्कोष्ठेषु हृच्छिरःशिखाकवचाणूनालिख्य मध्ये
अग्रभागे नेत्रं दिक्कोष्ठेषु अस्त्रमालिखेत् ।
तदुक्तम्—-
अष्टकोणेषु विलिखेत् षडङ्गानि यथाक्रमम् ।
अग्नीशासुरवायव्यकोणेषु मनुवित्तमः ॥
कवचान्तानि संलिख्य मध्ये नेत्रं लिखेद्बुधः ।
चतुदीगन्तकोणेषु चतुर्धास्त्रं लिखेत् प्रिये ॥ इति ।
तदुपर्यष्टकोष्ठेषु पाशाद्यष्टाक्षरम् अग्रादि लिखित्वा पुनश्च बाह्यसन्धिषु वृत्तं कृत्वा तदुत्पन्नेषु
अष्टसु कोष्ठेषु कामिन्यष्टाक्षरम् आलिख्य वद्धीताष्टपरिधिसन्धिषु वृत्तात् बहिः वृत्तं कृत्वा तदुत्पन्नेषु
षोडशकोष्ठेषु अष्टयुगार्णं शाक्तं षोडशाक्षरं विलिखेत् इत्यनेन पूर्वेणान्वय इत्यपि केचन ।
अन्ये चतुरस्रद्वयान्तर्बहिःसन्धिषु वृत्तद्वयम् कारयित्वा वद्धीताष्टपरिधिसन्धिवृत्ताद्बहिः वृत्तं कारयन्ति ।
तत्र कोष्ठेषु अष्टयुगार्णं विलिखेत् इत्याहुः ।
अन्ये तु चतुरस्रबाह्यसन्धीनामुपरि वृत्तमेकं वद्धीताष्टपरिधिसन्धिषु च द्वितीयं वृत्तं कारयन्ति ।
तत्पक्षत्रयमपि असम्बद्धम् ।
श्रौतस्य क्रमस्य बाधितत्वात् ।
कणीका- वृत्तलग्नाधोमुखत्रिकोणाकाराष्टकोष्ठानां शून्यत्वाच्च ।
किञ्च पूर्वपक्षे वृत्तत्रय- कल्पनमन्यपक्षयोर्वृत्तद्वयकल्पनं च अप्रामाणिकम् ।
यावता विना न निर्वाहस्तावदेव कल्पनमर्हति नाधिकम् ।
अत एकमेव वृत्तं कल्पनीयम् ।
उपरिवृत्तस्य तु पद्मकणीका- त्वेन सर्वैरेवाङ्गीकरणात् ।
अतो वक्ष्यमाणसाम्प्रदायिकार्थानुसरणमेव श्रेयः ।
तत्परम् अच्पूर्वेत्यालिख्य कोष्ठेषु अष्टयुगार्णमालिख्य केसरगां मायां विलिखेदिति सम्बन्धः ।
अचां स्वराणां नपुंसकस्वरव्यतिरिक्तानाम् ।
नपुंसकव्यति- रिक्तत्वं पूर्वापर षट्कशब्देन प्राप्यते ।
पूर्वषट्कम् अ आ इ ई उ ऊ अपरषट्कम् ए ए ओ औ अम् अः ।
एतद्युक्तान् लयवरान् व्योम्नः आसना स्थितिर्येषु ते व्योमासनास्तानिति वहुब्रीहिः कार्यः।
" स्यादास्या त्वासना स्थितिः " इति कोषः ।
अर्गलेषु इन्द्रजलाधिपादि पूर्वपश्चिमादि गुणशः अक्षरत्रितयक्रमेण पङ्क्तिद्वयं लिखेत् ।
इमानि सर्वाणि सबिन्दूनि ।
तत्र लेखनप्रकारः ।
पूर्वार्गलायां वद्धीतरेखासन्धिकृतवृत्तमारभ्योत्तरतः ह्लं ह्लां ह्लिम् इत्यर्गलान्तमालिख्य
पुनर्दक्षिणतोऽर्गलाग्रमारभ्य ह्लीं ह्लुं ह्लूम् इति वृत्तान्तमालिखेत् ।
एवं प्रादक्षिण्यं भवति ।
तदुक्तं संहितायाम्—-
शक्तेरजलवह्न्याख्यं बिन्दुव्योमान्वितं कुरु ।
तद्बीजं स्वरसंयुक्तम् ऋ ऋ ऌ ऌ विवजीतम् ।
एवं द्वादशधा तत्र चतुर्धा कुरु सुन्दरि ।
वृत्तादिवसुकोणान्तं लिखेद् वृत्तान्तकं प्रिये ॥
आद्यं त्रिकं पूर्वमुख्यं लिखेदुत्तरतः प्रिये ।
द्वितीयं पूर्वमुख्यं तु लिखेत् दक्षिणतः सुधीः ॥ इति ।
पश्चिमार्गलायां दक्षिणतो वृत्तमारभ्य ह्लें ह्लैं ह्लोम् इत्यर्गलान्तमालिख्य पुनरुत्तरो-
ऽर्गलाग्रमारभ्य ह्लौं ह्लं ह्लः इति वृत्तान्तमालिखेत् ।
तदुक्तम्—-
तृतीयं पश्चिमे भागे तथा दक्षिणतो लिखेत् ।
चतुर्थमार्गले तद्वत् पश्चिमे तूत्तरान्ततः ॥ इति ।
एवमाग्नेयार्गलायां पूर्वतः पूर्ववत् ह्यं ह्यां ह्यिम् इत्यालिख्य पश्चिमतः पूर्ववत् ह्यीं
ह्युं ह्यूम् इति लिखेत् ।
तदुक्तम्—-
भुवं हित्वाऽर्कबीजानां तत्र वायुं नियोजयेत् ।
अग्न्यर्गलायां त्रितयमाद्यं पूर्वत आलिखेत् ॥
तथा पश्चिमतोऽप्यन्यत् त्रिकं संविलिखेत् प्रिये ।
इति ।
एवं वाय्वर्गलायां पश्चिमतः पूर्ववत् ह्यें ह्यैं ह्योम् इत्यालिख्य पूर्वतः पूर्ववत् ह्यौं
ह्यं ह्यः इति लिखेत् ।
तदुक्तम्—-
मारुतार्गलके तद्वत् लिखेत् पश्चिमतस्त्रिकम् ।
पूर्वतोऽपि च देवेशि ।
इति ।
एवं याम्यार्गलायां पूर्वतः पूर्ववत् ह्वं ह्वां ह्विम् इत्यालिख्य पश्चिमतः पूर्ववत् ह्वीं
ह्वं ह्वूम् इति लिखेत् ।
तदुक्तम्—-
वायुं हित्वाऽर्कबीजानां वरुणं तत्र निक्षिपेत् ।
याम्ये त्रिकं पूर्वतस्तु द्वितीयं पश्चिमान्तगम् ॥ इति ।
एवमुत्तरार्गलायां पश्चिमतः पूर्ववत् ह्वें ह्वैं ह्वोम् इत्यालिख्य पूर्ववत् पूर्वतः ह्वौं
ह्व� ह्वः इति लिखेत् ।
तदुक्तम्—-
अथोत्तरार्गलायां तु त्रिकं पश्चिमतो लिखेत् ।
चतुर्थं पूर्वतो देवि ।
इति ।
एवं कन्या(नैरृत्या)र्गलायां दक्षिणतः पूर्ववत् ह्रं ह्रां ह्रिम् इत्यालिख्य उत्तरतः पूर्ववत् ह्रीं
ह्रुं ह्रूम् इति लिखेत् ।
तदुक्तम्—-
नीरं हित्वाऽर्कबीजानां रेफं तत्र विनिक्षिपेत् ।
लिखेद्रक्षोऽर्गलायां तु त्रिकमाद्यं त्रिकं परम् ॥ दक्षिणोत्तरतो मन्त्री ।
इति ।
एवं शैवार्गलायाम् उत्तरतः पूर्ववत् ह्रें ह्रैं ह्रोम् इत्यालिख्य दक्षिणतः पूर्ववत् ह्रौं
ह्रं ह्रः इति लिखेत् ।
तदुक्तम्—-
क्रमाच्छैवार्गले पुनः ।
आदावुत्तरतो देवि पश्चाद्दक्षिणमार्गतः ॥ इति ।
पद्मपादाचार्यास्तु—-चतुरस्रद्वयात्मकमष्टकोणं लिखित्वा कोणाष्टगतमृजुरेखा- द्वयम् ऋजु प्रसारयेत् ।
यथा रेखाद्वयं मध्ये परस्परलग्नं क्षुद्रदुन्दुभ्याकारं भवति तथा प्रसार्य दुन्दुभिमध्योभयभागयोः
वृत्तद्वयं विधाय बहिर्वृत्तस्य अष्टदुन्दुभ्यग्ररेखाद्वया- दारभ्य अर्गलसमाग्राण्यष्टदलानि विरच्य
वृत्तत्रयाद्बहिरम्बुजपुटितं घटं रचयेदिति यन्त्रशरीरस्य निर्माणप्रकारः ।
चतुरस्रसम्बन्धादष्टकोष्ठेषु अङ्गानि तदनन्तरकोष्ठेषु पाशाद्यष्टाक्षरं तदनन्तर- कोष्ठेषु
कामिन्याद्यष्टाक्षरम् अर्गलेषु अच्पूर्वेति तदन्तरालकोष्ठद्वन्द्वेषु दुन्दुभ्याकारेषु षोडशाक्षरं लिखेदिति ।
मन्त्रलेखनस्य एवं श्रौतक्रमोऽपि अनुगृहीतो भवति ।
अयञ्च पक्षः साम्प्रदायिकः ।
तदुक्तं दक्षिणामूत्तीसंहितायाम्—-
ततो भूबिम्बयुगलं सम्पुटीकृत्य योजयेत् ।
अष्टकोणं यथा देवि जायते दृङ्मनोहरम् ॥
अष्टदिक्षु तदग्राभ्यां रेखे आक्रम्य मान्त्रिकः ।
रेखाभ्यामर्गलाकारं विदध्याद्देवि सुन्दरम् ॥
एकेनैव तु मानेन रचयेदर्गलाष्टकम् ।
वृत्तं तदग्रे चन्द्रस्य बिम्बवद् चरयेद् बुधः ॥
पुनरन्तः समाकृष्य पूर्ववृत्तमा नुत्तमम् ।
विलिख्य साधकेन्द्रस्तु वसुकोष्ठयुगं क्रमात् ॥
व्यक्तं यथा भवेद्देवि कोणानां च वसुद्वयम् ।
अर्गलानि च रम्याणि यथा सम्यग् भवन्ति हि ॥ इति ।
ततस्तदुपरि अष्टदलपद्मपत्रेषु केसरगां मायाम् ।
चतुर्थस्वरो मायाशब्दवाच्यः ।
तथा च निघण्टुमातृकायाम्—-
ईस्त्रिमूत्तीर्वामनेत्रं शेखरः कौटिलस्तथा ।
वाग्मी शुद्धश्च जिह्वाख्यो मायाविष्णुः प्रकाशितः ॥ इति ।
आत्मा आत्ममन्त्रो हंसः इति ताभ्यां संहिताम् उभयपार्श्वे युताम् अकाराद्याकारद्यन्तगतां लिखेत् ।
तेनायमर्थः ।
प्रतिकेसरम् अं हंसः ईं हंसः आम् इति सप्ताक्षराणि लिखेत् ।
तदुक्तम्—-
हंसः पदं वामनेत्रं बिन्द्विन्दुपरिभूषितम् ।
पुनर्हंसः पदं चैतत् पञ्चार्णं मनुमालिखेत् ॥
स्वरद्वन्द्वोदरगतं सप्तार्णं चाष्टधा भवेत् ।
इति ।
आचार्याश्च—- पद्मस्य केसरेषु च युगस्वरान्वितां तथा मायाम् ।
इति ।
पद्मपादाचार्यास्तु अं हम् ईं सः आम् एवमादयः केसरेषु लेख्या इत्याहुः ।
दलेषु त्रिपङ्क्तिक्रमात् मूलं लिखेत् ।
तत्र पङ्क्तिद्वयं तिर्यक् विलिख्य तदुपरि एकां पङ्क्तिं लिखेदिति सम्प्रदायविदः ।
अन्ये तु अधोऽधः पङ्क्तित्रयलेखनं वदन्ति ।
त्रिरिति ।
तत्रैका पाशाङ्कुशाभ्यां द्वितीया क्रमलिपिभिः तृतीया व्युत्क्रमलिपिभिरित्यर्थः ।
तदुक्तम्—-
पाशाङ्कुशाभ्यां तद्बाह्ये वृत्ताकारेण वेष्टयेत् ।
अनुलोमप्रकारेण मातृकावेष्टनं प्रिये ॥
तथैव प्रतिलोमेन मातृकावेष्टनं लिखेत् ।
इति ।
आचार्याश्च—- पाशाङ्कुशबीजाभ्यां प्रवेष्टयेद् बाह्यतश्च नलिनस्य ।
अनुलोमविलोमगतैः प्रवेष्टयेदक्षरैश्च तद्बाह्ये ॥ इति ।
पद्मस्थेन तूर्द्धमुखाब्जकणीकास्थाने घटेन पङ्कजमुखेन अधोमुखपङ्कजवदनेन वीतम् ।
प्राभृतमुपपदारूपम् ॥ ९१-९३ ॥
पाशश्रीशक्तिकन्दर्पकामशक्तीन्दिराङ्कुशाः ॥ ९३ ॥
प्रथमोऽष्टाक्षरो मन्त्रस्ततः कामिनि रञ्जिनि ।
स्वाहान्तोऽष्टाक्षरः सद्भिरपरः कीत्तीतो मनुः ॥ ९४ ॥
अष्टार्णमन्त्रमाह पाशेति ।
पाशः आं कन्दर्पः कामबीजम् इन्दिरा श्रीबीजम् अङ्कुशः क्रोम् ।
अयमपि स्वतन्त्रो मन्त्रः ।
अस्य ऋष्यादिकं यथा—-
ऋष्याद्या अजगायत्रशक्तयः समुदीरिताः ।
षड्दीर्घमाययाऽङ्गानि सर्वैरष्टाङ्गमिष्यते ॥
आनन्दरूपिणीं देवीं पाशाङ्कुशधनुः शरान् ।
बिभ्रतीं दोभीररुणां कुचार्त्तां हृदि भावयेत् ॥
अष्टलक्षं जपेत् साज्यैर्दशांशं जुहुयात्तिलैः ।
शाक्ते पीठे यजेद्देवीं हृल्लेखाद्याभिरङ्गकैः ॥
मातृभिर्लेकनाथैश्च वज्राद्यैः पञ्चमावृतिः ।
स्त्रीवश्याकर्षणादौ तु विनियोग उदाहृतः ॥ इति ।
द्वितीयमष्टाक्षरमुद्धरति तत इति ।
अयमपि स्वतन्त्रो मन्त्रः ।
अस्यर्ष्यादिकं यथा—-
ऋषिः समोहनश्छन्दो निवृत् प्रोक्तोऽस्य देवता ।
सर्वसम्मोहिनी चाङ्गं द्विरावृत्तपदैर्भवेत् ॥
श्यामाङ्गी वल्लकीं दोर्भ्यां वादयन्तीं सुभूषणाम् ।
चन्द्रावतंसां विविधगानैर्मेहयन्तीं जगत् ॥
पूर्वमेवायुतद्वन्द्वं दशांशं जुहुयात्ततः ।
मधूकजैस्त्रिमध्वक्तैः सर्वं मोहयते जगत् ॥
पूजा मातङ्गिनीपीठे रत्याद्यास्तु त्रिकोणके ।
पञ्चकोणे पञ्चबाणाः केसरेष्वङ्गपूजनम् ॥
अनङ्गकुसुमाद्यास्तु पत्रेष्वग्रे च मातरः ।
लोकपालैश्च वज्राद्यैः सप्तावृत्तिरियं मता ॥
नारायणीये तु—- लाक्षया लिखितं वामहस्तेऽष्टदलपङ्कजे ।
वश्यं स्याद्दशीतं मन्त्रं पूर्ववत् क्रिययाऽपि च ॥
भूर्जे लिखित्वा चाष्टारे धारयेद् बाह्यवश्यकृत् ।
मन्त्रं विविक्तकुड्यादाविमं संलिख्य साधकः ।
पश्यन्नेव जपेन्मौनी तूर्णमायाति काङ्क्षिता ॥ इति ॥ ९३-९४ ॥
ह्री � गौरि रुद्रदयिते योगेश्वरि सवर्म फट् ।
द्विठान्तः षोडशार्णेऽयं मन्त्रः सद्भरुदीरितः ॥ ९५ ॥
षोडशाक्षरमन्त्रमुद्धरति ह्रीमिति ।
वर्म हुम् ।
अयमपि स्वतन्त्रो मन्त्रः ।
अस्य ऋष्यादिकं यथा—- ऋषिस्त्वजः समुद्दिष्टश्छन्दोऽनुष्टुप् च देवता ।
गौरीचण्डकात्यायनी वश्यसम्पत्प्रदायिका ॥
षड्दीर्घमायया कुर्यात् षडङ्गानि मनोरथ ।
हेमाभां बिभ्रतीं दोभीर्दर्पणाञ्जन साधने ॥
पाशाङ्कुशौ सर्वभूषां तां गौरीं सर्वदा भजे ।
एकलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत् घृतैः ॥
धर्मादिकल्पिते पीठे पीठशक्तीरिमा यजेत् ।
प्रभा ज्ञाना च वाग्वागीश्वरी स्यात् ज्वालिनी परा ॥
वामा ज्येष्ठा च रौद्री च गुह्यशक्तिश्च ता नव ।
ह्रस्वत्रय क्लीबवर्जस्वराढ्या भृगुणाऽन्विताः ॥
गौं गौरि मूर्त्तये हृच्च पीठमन्त्रश्च कल्पिते ।
एवं पीठे यजेद्देवीं चन्दनाद्यैर्मनोहरैः ॥
सुभगायै च विद्मान्ते हेऽन्ते स्यात् काममालि च ।
न्यै स्यात् धीमहि तन्नो गौरी स्यात्तत् प्रचोदयात् ॥
गायत्र्या त्वनया सर्वानुपचारान् प्रकल्पयेत् ।
अङ्गानि पूर्वमभ्यर्च्य सुभगाद्यास्ततो यजेत् ॥
भृगुः साम्बुः सद्वितुर्यषष्टाकेन्दुस्तदादिकाः ।
सुभगा ललिता चान्या कामिनी काममालिनी ॥
दिक्ष्वन्यत्राऽप्यायुधानि लोकपालैस्तदायुधैः ।
वामाक्ष्या नाम निशया वामोरौ विलिखेत् निशि ॥
आच्छादयन् वामदोष्णा तन्मनाः प्रजपेन्मनुम् ।
शतं सहस्रं लोलाक्षीमानयेत् काममोहिताम् ॥ इति ।
नारायणीये तु—- नृवश्ये दक्षिणं विदुरिति विशेषः ।
एतन्मन्त्रेण सञ्जप्तं गन्धपुष्पजलादि च ।
दत्तं संसेवितं सर्वजनतावश्यकारकम् ॥
चण्डकात्यायनी विद्या त्रिषु लोकेषु दुर्लभा ॥ इति ॥ ९५ ॥
लिखित्वा भूर्जपत्रादौ यन्त्रमेतद् यथाविधि ।
धारयन् वामबाहौ वा कण्ठे वा निजमूर्द्धनि ॥ ९६ ॥
वशयेत् सकलान् मर्त्यान् विशेषेण महीपतीन् ।
नीलपट्टे विलिख्यैतद् गुटिकां कृत्य तत् पुनः ॥ ९७ ॥
साध्यप्रतिकृतेः सिक्थनिमीताया हृदि न्यसेत् ।
पात्रे त्रिमधुरापूर्णे निःक्षिप्यैनां विधानतः ॥ ९८ ॥
सम्पूज्य गन्धपुष्पाद्यैर्बलिं निःक्षिप्य रात्रिषु ।
मूलमन्त्रं जपेन्मन्त्री नित्यमष्टसहस्रकम् ॥ ९९ ॥
सप्ताहाद्वाञ्छितां नारीमाकर्षेत् स्मरविह्वलाम् ।
भूर्जपत्रे विलिख्यैतद् गुटिकां कृत्य तत् पुनः ॥ १०० ॥
यथाविधि लिखित्वा इत्यनेन पुष्यार्कादौ कृतोपवासादिरित्युक्तम् ।
पुष्यार्कस्य अष्टमे भागे इत्युक्तेः नीलपट्टे विलिख्यैतदिति अनामारक्तादिभिः ।
तदुक्तम्—- लिखेदनामारक्तेन लाक्षेन्द्रियमलैः सह ।
इति ।
सिक्थं मधूच्छिष्टम् ।
विधानतः सम्पूज्येति हस्तमात्रखातां रक्तैर्गन्धा- दिभिरित्यर्थः ।
उक्तञ्च नारायणीये—- काञ्जिकाधो निधायैनां रक्तपुष्पैः समर्चयेत् ।
इति ।
बलिमिति पायसादिना ।
त्र्यक्षरेणैव निक्षिप्येति दत्त्वा ।
मूलमन्त्रं त्र्यर्णम् ।
आकर्षेदिति प्रकारान्तरेण वा ।
तदुक्तं नारायणीये—-
तापयेत् पुत्तलीं चाग्नी यथा सा न प्रलीयते इति ॥ ९६-१०० ॥
लाक्षया ताम्ररजतकाञ्चनैर्वेष्टयेत् क्रमात् ।
तत्कुम्भे न्यस्य सम्पूज्य यथावद्भुवनेश्वरीम् ॥ १०१ ॥
संस्पृश्य तं जपेन्मन्त्रं दिवाकरसहस्रकम् ।
अभिषिच्य प्रियं साध्यं बघ्नीयाद् यन्त्रमाशिखम् ॥ १०२ ॥
कान्तिपुष्टिधनारोग्ययशांसि लभते नरः ।
भित्तौ विलिख्य तन्मन्त्रं पूजयेन्नित्यमादरात् ॥ १०३ ॥
भूतप्रेतपिशाचास्तं न वीक्षितुमपि क्षमाः ।
तद्विलिख्य शिरस्त्राणे साधितं धारयन् भटः ।
युद्धे रिपून् बहून् हत्वा जयमाप्नोति पार्थवत् ॥ १०४ ॥
ताम्रेति पूर्वेक्तप्रमाणैः ।
यथावदिति त्र्यक्षर्यक्तमार्गेण ।
तं कुम्भम् ।
मन्त्रमिति कणीकास्थम् ।
दिवाकरेति द्वादश ।
भित्तौ विलिख्येति गैरिकया ।
तदुक्तम्—-
गैरिकया लिखेद् यन्त्रं गृहभित्ती वरानने ।
ग्रहाणां चैव सर्वेषां द्विषतां चैव नाशनम् ॥
विलिख्य पूज्यते तत्र सर्वे मूढाः सुमोहिताः ।
भवन्ति वशगास्तस्य न पुनर्यान्ति विक्रियाम् ॥
शत्रवो दुर्जया दुष्टाः सर्वे ते तस्य किङ्कराः ।
न तस्य जायते दुष्टो हिंसको न च बाधकः ॥
ग्रहयक्षपिशाचाश्च भूतवेतालदंष्टिरणः ।
इति ॥ १०१-१०४ ॥
वज्राङ्किते वह्निपुरद्वये तां
पशाङ्कुशाढ्यामुदरस्थसाध्याम् ।
मध्येऽथ कोणेषु च बाह्यवृत्ते
पुनः पुनस्तत् विलिखेत् समन्तात् ॥ १०५ ॥
भूर्जे लिखितमेतत् स्यात् सर्ववश्यकरं नृणाम् ।
आरोग्यैश्वर्यजननं युद्धेषु विजयप्रदम् ॥ १०६ ॥
यन्त्रान्तरमाह वजेरति ।
वह्निपुरद्वये परस्परव्यतिभिन्ने षट्कोणे ।
वज्राङ्किते स्वस्तिकस्थाने ।
वह्निपुरद्वये मध्ये इति व्यधिकरणे सप्तम्यौ ।
तां मायाम् ।
तदिति त्र्यक्षरम् ॥ १०५-१०६ ॥
भूर्जे सरोजे स्वरकेसाराढ्ये
वर्गाष्टपत्रे वसुधापुरस्थे ।
पाशाङ्कुशाभ्यां गुणशः प्रबद्धां
मायां लिखेन्मध्यगतां ससाध्याम् ॥ १०७ ॥
सर्वेत्तममिदं यन्त्रं धारितं कुरुते नृणाम् ।
आरोग्यैश्वर्यसौभाग्यविजयादीननारतम् ॥ १०८ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
नवमः पटलः समाप्तः ॥ ९ ॥
ब्थ् " बि
यन्त्रान्तरमाह भूर्ज इति ।
पाशाङ्कुशाभ्यां प्रबद्धां मायां गुणशः त्रिशो लिखेदिति सम्बन्धः ।
प्रबद्धां निबद्धाम् ।
यदा लिखेदित्येव पाठः तदा लिखेत् सरोजं स्वरकेसराढ्यं वर्गाष्टपत्रं वसुधापुरस्थम् इति पठनीयम् ।
अन्ये लिखेदित्येव पठित्वा लिखेत् यन्त्रम् इति शेषः ।
तत् कीदृक् इत्यपेक्षायां सरोजे मायां लिखेदिति वदन्ति ॥ १०७-१०८ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां नवमः पटलः ॥ ९ ॥
ब्थ् " बि