०८

अथाष्टमः पटलः
अथ वक्ष्ये श्रियो मन्त्रान् श्रीसौभाग्यफलप्रदान् ।
यस्याः कटाक्षमात्रेण त्रैलोक्यमभिवर्द्धते ॥ १ ॥
अथ प्रकारपञ्चके केनचित् प्रकारेण मन्त्राणां वक्तव्यत्वे प्राप्तेऽत्र शक्ति- मन्त्राणां प्रकृतत्वात्
शक्तिमन्त्रादित्वेन वक्तुमिच्छन् ब्रह्मशक्तिवाचकान् सरस्वतीमन्त्रान् उक्त्वा विष्णुशक्तिवाचकान् लक्ष्मीमन्त्रान्
वक्तुमुपक्रमते अथेति ।
श्रीसौभाग्येति विनियोगोक्तिः ।
त्रैलोक्यमिति लक्षणया त्रैलोक्यनिवासिजना उच्यन्ते ।
यद् विष्णु- पुराणम्—- स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।
स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥ इति ॥ १ ॥
वान्तं वह्निसमारूढं वामेनेत्रेन्दुसंयुतम् ।
बीजमेतच्छिरयः प्रोक्तं चिन्तामणिरिवापरः ॥ २ ॥
ऋषिर्भृगुर्निवृच्छन्दो देवता श्रीः समीरिता ।
षङ्दीर्घयुक्तबीजेन कुर्यादङ्गानि षट् क्रमात् ॥ ३ ॥
मन्त्रमुद्धरति वान्तमिति ।
वान्तं शः वह्नी रेफ वामनेत्रम् ईकारः इन्दुबीन्दुः ।
चिन्तारत्नमित्यनेनैतदुक्तं भवति प्रणवादित्वं शक्त्यादित्वं वा वागादित्वं वा कामादित्वं वा तत्तद्योगे
तत्तद्देवतानामुपसर्जनत्वञ्च ।
यथा प्रणवादित्वे परमात्मस्वरूपिणी श्रीर्देवता एवं शक्त्यादित्वे शक्तिस्वरूपिणी श्रीर्देवता इत्यादि ।
शकारो बीजम् ईकारः शक्तिः ।
षड्दीर्धेति क्लीबरहितैः ।
नेत्राभ्यां वौषडिति पञ्चमाङ्गे प्रयोगः ।
तेन यत्र यत्र नेत्रद्वयं तत्र तत्रायं प्रयोगो ज्ञेयः ।
यन्त्रान्तरे पञ्चाङ्गान्युक्तानि ।
महाश्रिये महाविद्युत्प्रभे स्वाहा हृत् ।
श्रिये विजये स्वाहा शिरः ।
गौरि महाबले बन्ध बन्ध स्वाहा शिखा ।
धृतिः स्वाहा वर्म ।
महाकाये पद्महस्ते हु� फट् अस्त्रम् इति ।
कल्पान्तरे तु श्रिये स्वाहा हृत् ।
श्री� फट् शिरः ।
श्री� नमः शिखा ।
श्रिये प्रसीद नमः वर्म ।
श्री� फट् अस्त्रम् ।
इति पञ्चाङ्गम् ।
उक्तञ्च नारायणीये—-अस्याङ्गानि द्विधोक्तानि तयोरेकं समाश्रयेत् ।
इति ।
क्रमादित्यनेन शक्त्यादियोगे दीर्घप्रयोगः प्रणवादित्वे तद्योग इति सूचितम् ॥ २-३ ॥
कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यैश्चतुभीर्गजै-
र्हस्तोत्क्षिप्तहिरण्मयामृतघटैरासिच्यमानां श्रियम् ।
बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलां
क्षौमाबद्धनितम्बबिम्बलसितां वन्देऽरविन्दस्थिताम् ॥ ४ ॥
कान्त्येति ।
हिमगिरीति उच्चत्वं श्वैत्यञ्च ।
अरविन्देति श्वेतम् ।
इदं सर्वं श्रीमन्त्रे ज्ञेयम् ।
वामाधस्तात् दक्षाधस्तनपर्यन्तम् आयुधध्यानम् ।
तदुक्तं नारायणीये—-
चतुर्भुजां सुवर्णाभां सपद्मोर्द्धभुजद्वयाम् ।
दक्षिणाभयहस्तां तां वामहस्तवरप्रदाम् ॥ इति ।
अत्र ध्यानानन्तरं लक्ष्मीमुद्रा दर्शनीया ।
चक्रमुद्रां तथा बद्धा मध्यमे द्वे प्रसार्य च ।
कनिष्ठिके तथानीय तदग्रेऽङ्गुष्ठकौ क्षिपेत् ।
लक्ष्मीमुद्रा परा ह्येषा सर्वसम्पत्प्रदायिका ॥ इति ।
इयञ्च सर्वलक्ष्मीमन्त्रसाधारणीति ज्ञेयम् ॥ ४ ॥
भानुलक्षं जपेन्मन्त्रं दीक्षितो विजितेन्द्रियः ।
श्रियमप्यर्चयेन्नित्यं सुगन्धिकुसुमादिभिः ॥ ५ ॥
तत्सहस्रं प्रजुहुयात् कमलैर्मधुरोक्षितैः ।
जपान्ते जुहुयान्मन्त्री तिलैर्वा मधुराप्लुतैः ॥ ६ ॥
बिल्वैः फलैर्वा जुहुयात् त्रिभिर्वा साधकोत्तमः ।
अत्र सम्यग् यजेत् पीठं नवशक्तिसमन्वितम् ॥ ७ ॥
विभूतिरुन्नतिः कान्तिः सृष्टिः कीत्तीश्च सन्नतिः ।
पुष्टिरुत्कृष्टिरृद्धिश्च सम्प्रोक्ता नव शक्तयः ॥ ८ ॥
भानुलक्षं द्वादशलक्षम् ।
मन्त्रीत्यनेन नारायणाष्टाक्षरस्य शेषतया दशांशजप उक्तः ।
अतएव वक्ष्यति विष्णुभक्तो दृढव्रतः इति ।
जपान्त इत्यनेन जपाव्यवधाने तन्नियमस्थेन होमः कार्य इत्युक्तं भवति ।
त्रिभिर्वेति समुच्चितश्चतुर्थः पक्षः ।
तत्राप्ये- कैकेन द्रव्येण सहस्रचतुष्कं होतव्यम् ।
अथवा त्रिभिः साधकोत्तमो जुहुयात् इत्यनेन कमलवासिनीमहालक्ष्मीश्रीसूक्तैः सकृत् सकृत् हुत्वा पश्चान्मूलेन
होतव्यमित्युक्तम् भवति ।
साधकोत्तम इति काकाक्षिगोलकन्यायेन उभयत्र सम्बध्यते ।
साधकोत्तमोऽत्र सम्यगित्यनेनैतत् सूचितं भवति ।
श्रीपूजायां मण्डूकादि परतत्त्वान्तं चतुर्थपटलोक्तरीत्या अभ्यर्च्य श्रीबीजाद्या नवपीठशक्तयः
प्रागादिदिक्षु मध्ये च पूज्याः ॥ ५-८ ॥
अत्रावाह्य यजेद्देवीं परिवारैः समन्विताम् ।
बीजाद्यमासनं दत्त्वा मूत्तीं मूलेन कल्पयेत् ॥ ९ ॥
अत्रेत्यष्टपत्रे श्रीबीजकणीके ।
तदुक्तमाचार्यैः—-रुचिराष्टपत्रमथ वारिरुहम् ।
इति ।
पद्मपादाचार्यैर्व्याख्यातं श्रीबीजयोगः कणीकायां रुचिरत्वम् इति ।
संहितायामपि—- अष्टपत्रं लिखेद् यन्त्रं बहिर्भूबिम्बभूषितम् ।
मध्ये बीजं विनिक्षिप्य ।
इति ।
पीठमन्त्रमुद्धरति बीजाद्यमिति ।
श्री� सर्वशक्तिकमलासनाय नमः इति
पीठमन्त्रः सर्वश्रीमन्त्रसाधारण इति ज्ञेयम् ।
पद्मपादाचार्यैस्तु श्री� श्रीदेव्यासनाय नमः श्री� श्रीदेवीमूर्त्तये नमः इति पीठमूत्तीमन्त्रावुक्तौ ।
अत्र पद्मं श्वेतं ध्येयम् ।
तदुक्तं प्रयोगसारे—-
सङ्कल्प्याम्भोरुहं शुभ्रं कणीकायां यजेच्छिरयम् ।
इति ॥ ९ ॥
यजेत् पूर्ववदङ्गानि दिग्दलेष्वर्चयेत्ततः ।
वासुदेवं सङ्कर्षणं प्रद्युम्नमनिरुद्धकम् ॥ १० ॥
हिमपीततमालेन्द्रनीलाभान् पीतवाससः ।
शङ्खचक्रगदापद्मधारिणस्तान् चतुर्भुजान् ॥ ११ ॥
पूर्ववदिति चतुर्थपटलोक्तरीत्या केसरेषु ।
वासुदेवादीनामायुधध्यानं नारायण- मन्त्रे मदुक्तमनुसन्धेयम् ॥ १०-११ ॥
विदिग्गतेषु पत्रेषु दमकादीन् यजेद् गजान् ।
दमकं सलिलञ्चैव गुग्गुलुञ्च कुरुण्टकम् ॥ १२ ॥
विदिग्गतेष्विति कल्प्यदिगपेक्षया ।
यत्तु नारायणीये—-
आग्नेयादिषु पत्रेषु गुग्गुलुश्च कुरुण्टकः ।
दमकः सलिलश्चेति हस्तिनो रजतप्रभाः ॥
हेमकुम्भधरा ध्येयाः ।
इति तत्र प्रसिद्धाग्नेयदिशमङ्गीकृत्येत्यवधेयम् ॥ १२ ॥
यजेच्छङ्खनिधिं देव्या दक्षिणे दयितान्विताम् ।
मुक्तामाणिक्यसङ्काशौ किञ्चित्स्मितमुखाम्बुजौ ॥ १३ ॥
अन्योन्यालिङ्गनपरौ शङ्खपङ्कजधारिणौ ।
विगलद्रत्नवर्षाभ्यां शङ्खाभ्यां मूद्ध्र्न लाञ्छितौ ॥ १४ ॥
तुन्दिलं कम्बुकनिधिं वसुधारां घनस्तनीम् ।
वामतः पङ्कजनिधिं प्रियया सहितं यजेत् ॥ १५ ॥
सिन्दूराभौ भुजाश्लिष्टौ रक्तपद्मोत्पलान्वितौ ।
निःसरद्रत्नधाराभ्यां पद्माभ्यां मूद्ध्नलाञ्छितौ ॥ १६ ॥
तुन्दिलं पङ्कजनिधिं तन्वीं वसुमतीमपि ।
दलाग्रेषु यजेदेता बलाक्याद्याः समन्ततः ॥ १७ ॥
देव्या दक्षिणे वामत इति कणीकायाः ।
मुक्तामाणिक्येति क्रमेण शङ्खनिधि- वसुधारयोः वर्णौ ।
शङ्खपङ्कजधारिणावित्युभयमुभयत्र ।
एवमग्रेऽपि ।
आयुधध्यान- मेषां दक्षादि ।
कम्बुकनिधिं शङ्खनिधिम् ।
वसुधारामिति शङ्खनिधिशक्तिनाम ।
घनस्तनीमित्यन्तं पूर्वं ध्यानम् ।
पङ्कजनिधिं पद्मनिधिम् ।
वसुमतीमिति पङ्कज- निधिशक्तिनाम ।
अपिशब्दाद्यं घनस्तनीमित्यपि ।
एतदन्तं द्वितीयावरणमूर्त्तीः चतुष्क- निधियुगैरपरेत्युक्तेः ॥ १३-१७ ॥
बलाकी विमला चैव कमला वनमालिका ।
विभीषिका मालिका च शाङ्करी वसुमालिका ॥ १८ ॥
पङ्कजद्वयधारिण्यो मुक्ताहार समप्रभाः ।
लोकेशानर्चयेदन्ते वज्राद्यस्त्राणि तद्बहिः ॥ १९ ॥
बलाकीति ।
आसां ध्यानं नारायणीये—-
बलाकीं वामनां श्यामां श्वेतपङ्कजधारिणीम् ।
ऊर्द्धबाहुद्वयां ध्यायेत् श्रीदूतीं द्वारि पूर्वतः ॥
ऊर्द्धीकृतेन हस्तेन रक्तपङ्कजधारिणीम् ।
श्वेताङ्गीं दक्षिणे द्वारि चिन्तयेद्वनमालिकाम् ॥
हरितां दोर्द्वयेनोर्द्धमुद्वहन्तीं सिताम्बुजम् ।
ध्यायेद् विभीषिकां भक्त्या श्रीदूतीं द्वारि पश्चिमे ॥
तथाऽब्जमालाधृग् ध्येया क्षौद्राभाऽन्यत्र शाङ्करी ।
इति ।
प्रयोगसारे—-
विमला कमला चाथ मालिका वसुमालिका ।
बाह्ये विदिक्षु सम्पूज्या दूतीरेताः ।
इति ।
अत्र तु कमलावनमालिकयोर्व्यत्यासः कल्पान्तरत्वेन समाधेयः ॥ १८-१९ ॥
इत्थं यो भजते देवीं विधिना साधकोत्तमः ।
धनधान्यसमृद्धिः स्याच्छिरयमाप्नोत्यनिन्दिताम् ॥ २० ॥
विधिना साधकोत्तम इत्यनेनावाहनादि श्लोकेषु स्त्रीलिङ्गयोग उक्तः ॥ २० ॥
वक्षः प्रमाणे सलिले स्थित्वा मन्त्रमिमं जपेत् ।
त्रिलक्षं संयतो मन्त्री देवीं ध्यात्वाऽर्कमण्डले ॥ २१ ॥
स भवेदल्पकालेन रमाया वसतिः स्थिरा ।
विष्णुगेहस्थबिल्वस्य मूलमास्थाय मन्त्रवित् ॥ २२ ॥
त्रिलक्षं प्रजपेन्मन्त्रं वाञ्छितं लभते धनम् ।
संयतो मन्त्रीत्यनेन श्री� रत्नगर्भायै नम इति मन्त्रस्य शतांशेन जपः सूचितः ।
ध्यात्वाऽर्कमण्डलेत्यत्राऽभयवरदाभ्यां निधिपात्ररत्नकुम्भधाराभ्यां रक्ता ध्येयेति
ज्ञेयम् ।
तदुक्तम्—- स्तनमात्रे जले तिष्ठन् रविमण्डलपीठगाम् ।
नवयावकसङ्काशां श्रियं माणिक्यभूषणाम् ॥
निधिपात्रमहारत्नपूर्णकुम्भकरद्वयाम् ।
त्रिलक्षजापी मनुजो न चिरात् स्याद्धनेश्वरः ॥ इति ॥ २१-२३ ॥
अशोकवह्नौ जुहुयात्तण्डुलैराज्यलोडितैः ॥ २३ ॥
वशयत्यचिरादेव त्रैलोक्यमपि मन्त्रवित् ।
जुहुयात्तण्डुलैः शुद्धैरर्काग्नौ नियुतं वशौ ॥ २४ ॥
राज्यश्रियमवाप्नोति राजपुत्रो महीयसीम् ।
जुहुयात् खादिरे वह्नौ तण्डुलैर्मधुरोक्षितैः ॥ २५ ॥
राजा वश्यो भवेच्छीघ्रं महालक्ष्मीश्च वर्द्धते ।
बिल्वच्छायामधिवसन् बिल्वमिश्रहविष्यभुक् ॥ २६ ॥
संवत्सरद्वयं हुत्वा तत्फलैरथवाऽम्बुजैः ।
साधकेन्द्रो महालक्ष्मीं चक्षुषा पश्यति ध्रुवम् ॥ २७ ॥
हविषा घृतसिक्तेन पायसेन ससपीषा ।
हुत्वा श्रियमवाप्नोति नियुतं मन्त्रवित्तमः ॥ २८ ॥
अशोकवह्नाविति अशोककाष्ठसमिद्धेऽग्नावित्यर्थः ।
जुहुयादिति नियुतमिति सम्बध्यते ।
मन्त्रविदित्यनेनात्र प्रयोगे कामादित्वं सूचितम् ।
शुद्धैरित्यवकरं दूरीकृत्य प्रक्षाल्य शोषितैरित्यर्थः ।
आज्यलोडितैरित्यत्रापि योज्यम् ।
अर्काग्नावर्ककाष्ठ- समिद्धेऽग्नावित्यर्थः ।
नियुतं लक्षम् ।
तथा च श्रुतिः—-एका दश च शतञ्च सहस्रञ्चायुतञ्च नियुतञ्च प्रयुतञ्चार्बुदञ्च न्यर्बुदञ्च
समुद्रश्च मध्यश्चान्तश्च परार्द्धश्च ।
इति ।
त्रिकाण्डेऽपि—-कोट्याः शतादिसङ्ख्यान्या वा लक्षानियुतञ्च तत् ।
इति ।
जुहुयाल्लक्षमिति सम्बध्यते ।
खादिर इति तत्काष्ठाग्नावित्यर्थः ।
शीघ्रमित्यनेनात्रापि कामयोगः सूचितः ।
हुत्वेत्यष्टोत्तरसहस्रम् ।
तत्फलैः बैल्वैः ।
अम्बुजैरिति तदभावे ।
हविषेति चरुणा ॥ २३-२८ ॥
मधुराक्तारुणाम्भोजैर्जुहुयाल्लक्षमादरात् ।
न मुञ्चति रमा तस्य वंशमाभूतसम्प्लवम् ॥ २९ ॥
मधुरेति ।
तत्र ध्यानविशेषस्तन्त्रान्तरे—-
दधतीं मातुलिङ्गञ्च निधिपात्रं सरोरुहे ।
रक्तां सुरतरोर्मूले संस्थितां शोभनां श्रियम् ॥
अलङ्कृतां महारत्नैर्ध्यात्वा रक्ताम्बरान्विताम् ।
जुहोति लक्षं स्वाद्वक्तैः सरोजैरिन्दिराप्तये ॥ इति ।
आभूतसम्प्लवमाकल्पम् ॥ २९ ॥
वाग्भवं वनिता विष्णोर्माया मकरकेतनः ।
चतुर्बीजात्मको मन्त्रश्चतुर्वर्गफलप्रदः ।
अङ्गानि कुर्याद् दीर्घाढ्यरमाबीजेन मन्त्रवित् ॥ ३० ॥
मन्त्रान्तरमुद्धरति वाग्भवमिति ।
विष्णोर्वनिता श्रीबीजम् ।
मकरकेतनः काम- बीजम् ।
चतुर्वर्गफलावह इत्यनेन विनियोगं वदतैतदुक्तं भवति ।
धर्मार्थं वाग्भवादित्वम् अर्थार्थं लक्ष्मीबीजादित्वं कामार्थं कामबीजादित्वं मोक्षार्थं मायाबीजादित्वमिति ।
पूर्वेक्ता ऋष्याद्याः ।
द्वितीयं बीजं तृतीयं शक्तिः ।
अङ्गानीति ।
दीर्घाढ्यं षड्दीर्घयुक्तं यद्रमाबीजं तेनेत्यर्थः ॥ ३० ॥
माणिक्यप्रतिमप्रभां हिमनिभैस्तुङ्गैश्चतुभीर्गजै-
र्हस्ताग्राहितरत्नकुम्भसलिलैरासिच्यमानां सदा ।
हस्ताब्जैर्वरदानमम्बुजयुगाभीतीर्दधानां हरेः
कान्तां काङ्क्षितपारिजातलतिकां वन्दे सरोजासनाम् ॥ ३१ ॥
हस्ताब्जैरिति उपमितसमासः ।
वरदानमित्येकम् ।
आयुधध्यानं पूर्ववत् ॥३१॥
भानुलक्षं हविष्याशी जपेदन्ते सरोरुहैः ।
जुहुयादरुणैः फुल्लैस्तत्सहस्रं जितेन्द्रियः ॥ ३२ ॥
रमायाः कल्पिते पीठे तद्विधानेन पूजयेत् ।
कुर्यात् प्रयोगांस्तत्रस्थान् मनुना तेन साधकः ॥ ३३ ॥
निधिभिः सेव्यते नित्यं मूत्तीमद्भरुपस्थितैः ।
दीर्घा यादिवीसर्गान्तो ब्रह्मा भानुर्वसुन्धरा ॥ ३४ ॥
वान्ते सिन्यै प्रिया वह्नेर्मनुः प्रोक्तो दशाक्षरः ।
ऋषिर्दक्षो विराट् छन्दो देवता श्रीः समीरिता ॥ ३५ ॥
मन्त्रान्तरमाह दीर्घेति ।
प्रणवोत्थकलासु दीर्घा नकारः ।
यादिः मः ।
विसर्गान्तः सविसर्ग इति मकारविशेषणम् ।
ब्रह्मा कः ।
भानुः मङ्कारः ।
अत आत्मा रविः स्मृतः इत्युक्तेः ।
यद्वा महाकालो मकारमूत्तीः महाकालशब्दवाच्यं विषं च ।
तद्दक्षिणनासा- पुटगतम् ।
तेनादित्यो मः ।
तदुक्तम्—-
रविः पिङ्गलायां चरत्येष तस्माद्विषं दक्षिणो भाग उक्तं मुनीन्द्रैः ।
इति ।
तेन यत् क्वचिदपि विषशब्देन मकारो गृह्यते तदपि व्याख्यातम् ।
वसुन्धरा लः ।
वा स्वरूपम् ।
सिन्यै स्वरूपम् ।
वह्नेः प्रिया स्वाहा ।
अस्मिन्नपि मन्त्रे प्रणव- शक्तिवाक्कामादित्वमिति पद्मपादाचार्याः ।
पूर्ववत्तत्तद्देवतानामुपसर्जनत्वञ्च ।
श्री� बीजं स्वाहा शक्तिः ॥ ३२-३५ ॥
देव्यै हृदयमाख्यातं पद्मिन्यै शिर ईरितम् ।
विष्णुपत्न्यै शिखा प्रोक्ता वरदायै तनुच्छदम् ॥ ३६ ॥
अस्त्रं कमलरूपायै नमोऽन्ताः प्रणवादिकाः ।
अङ्गमन्त्राः समुद्दष्टा ध्यायेद्देवीमनन्यधीः ॥ ३७ ॥
पञ्चाङ्गमन्त्रानाह देव्यै इति ।
ॐ देव्यै नमः हृदयाय नमः इत्यादि प्रयोगः ।
पञ्चाङ्गत्वान्नेत्राभावः ॥ ३६-३७ ॥
आसीना सरसीरुहे स्मितमुखी हस्ताम्बुजैबीभ्रती
दानं पद्मयुगाभये च वपुषा सौदामिनीसन्निभा ।
मुक्तादामविराजमानपृथुलोत्तुङ्गस्तनोद्भासिनी
पायाद्वः कमला कटाक्षविभवैरानन्दयन्ती हरिम् ॥ ३८ ॥
आसीनेति ।
दानं वरम् ।
आयुधध्यानं तु पूर्ववत् ॥ ३८ ॥
दशलक्षं जपेन्मन्त्रं मन्त्रविद्विजितेन्द्रियः ।
दशांशं जुहुयान्मन्त्री मधुराक्तैः सरोरुहैः ॥ ३९ ॥
श्रीपीठे पूजयेद्देवीमङ्गानि प्रथमं यजेत् ।
बलाकाद्यास्ततः पूज्या लोकेशास्त्रावृती अपि ॥ ४० ॥
इति सम्पूजयेद्देवीं सम्पदामालयो भवेत् ।
समुद्रगायां सरिति कण्ठमात्रजले स्थितः ॥ ४१ ॥
त्रिलक्षं प्रजपेन्मन्त्री साक्षाद् वैश्रवणो भवेत् ।
मन्त्रविदित्यनेन नारायणाष्टाक्षरस्य शेषतया दशांशं जपः ।
शतांशेन रत्नगर्भा- मन्त्रजपोऽपि सूचितः ।
मधुरं त्रिमधुरम् ।
सम्पदामित्यनेन विनियोगोक्तिः ।
समुद्रगायां साक्षादिति शेषः ।
वैश्रवणः कुवेरः ॥ ३९-४२ ॥
आराध्योत्तरनक्षत्रे देवीं स्रक्चन्दनादिभिः ॥ ४२ ॥
नन्द्यावर्त्तभवैः पुष्पैः सहस्रं जुहुयात्ततः ।
पौर्णमास्यां फलैबील्वैर्जुहुयान्मधुराप्लुतैः ॥ ४३ ॥
पञ्चम्यां विशदाम्भोजैः शुक्रवारे सुगन्धिभिः ।
अन्यैर्वा विशदैः पुष्पैः प्रतिमासं विशालधीः ।
स भवेदब्दमात्रेण सर्वदा सम्पदां निधिः ॥ ४४ ॥
आराध्येत्यादि सम्पदां निधिरित्येकः प्रयोगः ।
उत्तरानक्षत्र इति उत्तरात्रयमपि ज्ञेयम् ।
आराध्येति सहस्रमिति च सर्वत्र सम्बध्यते ।
मधुराप्लुतैस्त्रिमधुरार्द्रैरिति ।
अन्यैर्वेति वाशब्दः समुच्चये ।
एकत्रोभयसन्निपाते पृथगुभयहोमो न तन्त्रं भिन्नद्रव्यत्वात् भिन्ननिमित्तत्वाच्च ॥ ४२-४४ ॥
वाग्भवं शम्भुवनिता रमा मकरकेतनः ।
तार्त्तीयञ्च जगत् पार्श्वे वह्निबीजसमुज्ज्वलः ॥ ४५ ॥
अर्घीशाढ्यो भृगुस्त्यै हृन्मन्त्रोऽयं द्वादशाक्षरः ।
महालक्ष्म्याः समुद्दष्टस्ताराद्यः सर्वसिद्धिदः ॥ ४६ ॥
ऋषिर्ब्रह्मा समुद्दष्टश्छन्दो गायत्रमीरितम् ।
देवता जगतामादिर्महालक्ष्मीः समीरिता ॥ ४७ ॥
मन्त्रान्तरमुद्धरति वाग्भवमिति ।
शम्भुवनिता मायाबीजम् ।
तार्त्तीयं वालाया भैरव्या वा ।
केचिद्रेफहीनं भैरव्या इति वदन्ति ।
अयमेव साम्प्रदायिकः पक्षः ।
जगत् स्वरूपम् ।
पार्श्वः पकारः ।
वह्निबीजसमुज्ज्वलः रेफयुक्तः तेन प्र ।
अर्घीश ऊ तेनाढ्यो भृगुः सकारः तेन सू ।
त्यै स्वरूपम् ।
हृन्नमः ।
ताराद्यः प्रणवाद्यः त्रयोदशाक्षर इति शेषः ।
सर्वसिद्धिद इत्यनेन विनियोग उक्तः ।
प्रणवो बीजं तार्त्तीयं शक्तिः ॥ ४५-४७ ॥
हस्तौ संशोध्य मन्त्रेण तारादिहृदयान्तिकम् ।
बीजानां पञ्चकं न्यस्येदङ्गुलीषु यथाक्रमम् ॥ ४८ ॥
मन्त्रशेषं न्यसेन्मन्त्री तलयोरुभयोरपि ।
मूर्द्धादि चरणं यावन्मन्त्रेण व्यापकं न्यसेत् ॥ ४९ ॥
मूर्द्धास्यवक्षोगुह्याङ्घ्रौ पञ्च बीजानि विन्यसेत् ।
शेषान् न्यसेत् सप्त वर्णान् हृदये सप्तधातुषु ॥ ५० ॥
अङ्गानि पञ्चभिर्बीजैरस्त्रं शिष्टाक्षरैर्भवेत् ।
ज्ञानैश्वर्यादिभिर्युक्तैश्चतुर्थ्यन्तैः सजातिभिः ॥ ५१ ॥
ज्ञानमैश्वर्यशक्ती च बलवीर्ये सतेजसी ।
ज्ञानैश्वर्यादयः प्रोक्ताः षट् क्रमादङ्गदेवताः ॥ ५२ ॥
हस्तभावनामाह हस्तौ संशोध्येति ।
हस्तयोर्मूलमन्त्रं व्यापकत्वेन विन्यसे- दित्यर्थः ।
मन्त्रेणेति मूलमन्त्रेण ।
तारादिहृदयान्तिकमिति मन्त्रशेषस्यापि विशेषणम् ।
यथाक्रममङ्गुलीष्विति अङ्गुष्ठाद्यासु ।
मूर्द्धादीत्यत्रापि न्यासे तारादिहृदयान्तिकमिति सम्बध्यते ।
अङ्गानीत्यत्रापि ।
ज्ञानैश्वर्यादिभिर्युक्तैरिति व्यधिकरणे तृतीये ।
चतुर्थ्यन्तैः ज्ञानैश्वर्यादिभिर्युक्तैरिति बीजैः ।
शिष्टाक्षरैरित्युभयविशेषणम् ।
अङ्गानीति नेत्रान्तानि ।
ए� ज्ञानाय हृदयाय नमः ।
श्री� एश्वर्याय शिरसे स्वाहा ।
इत्यादि
प्रयोगः ।
केचन सम्प्रदायादात्मनेशब्दमप्याहुः ।
तन्मते ए� ज्ञानात्मने हृदयाय नम इत्यादि प्रयोगः ॥ ४८-५२ ॥
एवं न्यस्तशरीरोऽसौ स्मरेदुद्यानमुत्तमम् ।
चम्पकाशोकपुन्नागपाटलैरुपशोभितम् ॥ ५३ ॥
लवङ्गमाधवीबिल्वदेवदारुनमेरुभिः ।
मन्दारपारिजाताद्यैः कल्पवृक्षैः सुपुष्पितैः ॥ ५४ ॥
चन्दनैः कणीकारैश्च मातुलिङ्गैश्च वञ्जुलैः ।
दाडिमीलकुचाङ्कोलैः पूगैः कुरवकैरपि ॥ ५५ ॥
कदलीकुन्दमन्दारनारिकेलैरलङ्कृतम् ।
अन्यैः सुगन्धिपुष्पाढ्यैर्वृक्षसङ्घैश्च मण्डितम् ॥ ५६ ॥
मालतीमल्लिकाजाती केतकीशतपत्रकैः ।
पारन्तीतुलसीनन्द्यावर्त्तैदमनकैरपि ॥ ५७ ॥
सर्वर्त्तुकुसुमोपेतैर्नमद्भरुपशोभितम् ।
मन्दमारुतसम्भिन्नकुसुमामोदिदिङ्मुखम् ॥ ५८ ॥
तस्य मध्ये सदोत्फुल्लैः कुमुदोत्पलपङ्कजैः ।
सौगन्धिकैश्च कह्लारैर्नवैः कुवलयैरपि ॥ ५९ ॥
हंससारसकारण्डभ्रमरैश्चक्रनामभिः ।
अन्यैः कलकलारावैवीहगैरुपशोभिते ॥ ६० ॥
महासरसि तन्मध्ये पुलिनेऽतिमनोहरे ।
परितः पारिजाताढ्यं मण्डपं मणिकुट्टिमम् ॥ ६१ ॥
नमेरु रुद्राक्षः ।
तस्य मध्ये महासरसि ।
तन्मध्ये पुलिने मनसा मण्डपं सञ्चिन्त्य तन्मध्ये पारिजातं भावयेदित्युत्तरेण सम्बन्धः ॥ ५३-६१ ॥
उद्यदादित्यसकाशं भास्वरं शशिशीतलम् ।
चतुर्द्वारसमायुक्तं हेमप्राकारशोभितम् ॥ ६२ ॥
रत्नोपकॢप्तिसंशोभिकपाटाष्टकसंयुतम् ।
नवरत्नसमाकॢप्ततुङ्गगोपुरतोरणम् ॥ ६३ ॥
हेमदण्डसमालम्बिध्वजावलिपरिष्कृतम् ।
नवरत्नसमाबद्धस्तम्भराजिविराजितम् ॥ ६४ ॥
सहस्रदीपसंयुक्तदीपदण्डविराजितम् ।
तप्तहाटकसङ्कॢप्तवातायनमनोहरम् ॥ ६५ ॥
नानावर्णांशुकोद्बद्धसुवर्णशतकोटिभिः ।
किङ्किणीमालिकायुक्तपताकाभिरलङ्कृतम् ॥ ६६ ॥
जातरूपमयैरत्नविचित्रैरतिविस्तृतैः ।
माणिक्यवज्रवैदूर्यस्वर्णमालावलीयुतैः ॥ ६७ ॥
अन्तरान्तरसम्बद्धरत्नैर्दृष्टिमनोहरैः ।
विचित्रैश्चित्रवर्णैश्च वितानैरुपशोभितम् ॥ ६८ ॥
सर्वरत्नसमायुक्तं हेमकुट्टिममुज्ज्वलम् ।
केतकीमालतीजातीचम्पकोत्पलकेसरैः ॥ ६९ ॥
मल्लिकातुलसीजातीनन्द्यावर्त्तकदम्बकैः ।
एतैरन्यैश्च कुसुमैरलङ्कृतमहीतलम् ॥ ७० ॥
अम्बुकाश्मीरकस्तूरीमृगनाभितमालकैः ।
चन्दनागुरुकर्पूरैरामोदितदिगन्तरम् ॥ ७१ ॥
एवं सञ्चिन्त्य मनसा मण्डपं सुमनोहरम् ।
तन्मध्ये भावयेन्मन्त्री पारिजात मनोहरम् ॥ ७२ ॥
तस्याधस्तात् स्मरेन्मन्त्री रत्नसिंहासनं महत् ।
तस्मिन् सञ्चिन्तयेद्देवीं महालक्ष्मीं मनोरमाम् ॥ ७३ ॥
नानावर्णांशुकेनेति पताकाविशेषणम् ।
जातरूपमयैरित्यादि वितानैरित्यस्य विशेषणम् ।
तथा च पृथिव्यनन्तरं क्षीरसिन्धुं द्वीपम् उद्यानं महासरः पुलिनं मण्डपं पारिजातं
रत्नसिंहासनं सम्पूजयेत् ।
शेषं समानम् ॥ ६२-६८ ॥
कुट्टिममिति ।
" कुट्टिमोऽस्त्री निबद्धा भूः " इति कोषः ।
अम्बु सुगन्धिद्रव्यम् ।
कुङ्कुमा इति कान्यकुब्जभाषायाम् ।
कस्तूरीमृगस्य नाभिरिति विग्रहः ।
एवं सञ्चिन्त्य मनसा मण्डपमिति पूर्वं मण्डपमित्युक्तं तस्यैवानुवादः ।
तन्मध्ये इत्यस्य विशेषणै- र्व्यवहितत्वेन सम्बन्धस्य बुद्धिस्थत्वात् ॥ ६९-७३ ॥
बालार्कद्युतिमिन्दुखण्डविलसत्कोटीरहारोज्ज्वलां
रत्नाकल्पविभूषितां कुचनतां शालेः करैर्मञ्जरीम् ।
पद्मे कौस्तुभरत्नमप्यविरतं सम्बिभ्रतीं सुस्मितां
फुल्लाम्भोजविलोचनत्रययुतां ध्यायेत् परां देवताम् ॥ ७४ ॥
कोटीरो मुकुटः ।
आयुधध्यानन्तु पूर्ववत् ॥ ७४ ॥
शिञ्जन्मञ्जीरसंशोभिपदाम्भोजविराजिताम् ।
नवरत्नगणाकीर्णकाञ्चीदामविभूषिताम् ॥ ७५ ॥
मुक्तामाणिक्य वैदूर्यसम्बद्धोदरबन्धनाम् ।
विभ्राजमानां मध्येन वलित्रितयशोभिना ॥ ७६ ॥
जाह्नवीसरिदावर्त्तशोभिनाभिविभूषिताम् ।
पाटीरपङ्ककर्पूर कुङ्कुमालङ्कृतस्तनीम् ॥ ७७ ॥
वारिवाहविनिर्मुक्तमुक्तादामगरीयसीम् ।
वहन्तीमुत्तरासङ्ग दुकूलपरिकल्पितम् ॥ ७८ ॥
तप्तकाञ्चनसन्नद्धवैदूर्याङ्गदभूषणाम् ।
पद्मरागस्फुरत्स्वर्णकङ्कणाढ्यकराम्बुजाम् ॥ ७९ ॥
माणिक्यशकलाबद्धमुद्रिकाभिरलङ्कृताम् ।
तप्तहाटकसङ्कॢप्तमालाग्रैवेयशोभिताम् ॥ ८० ॥
विचित्रविविधाकल्पकम्बुसङ्काशकन्धराम् ।
उद्यद्दनकराकारमणिताटङ्कमण्डिताम् ॥ ८१ ॥
पाटीरं चन्दनम् ।
ग्रैवेयं कण्ठभूषा ।
कम्बः शङ्खः ॥ ७७-८१ ॥
रत्नाङ्किन्तलसत्स्वर्णकर्णपूरोपशोभिताम् ।
जवाविद्रुमलावण्यललिताधरपल्लवाम् ॥ ८२ ॥
दाडिमीफलबीजाभदन्तपङ्क्तिविराजिताम् ।
कलङ्ककार्श्यनिर्मुक्तशरच्चन्द्रनिभाननाम् ॥ ८३ ॥
पुण्डरीकदलाकारनयनत्रयसुन्दरीम् ।
भ्रूलताजितकन्दर्पकरकार्मुकविभ्रमाम् ॥ ८४ ॥
विकसत्तिलपुष्पश्रीविजयोद्यतनासिकाम् ।
ललाटकान्तिविभवविजितार्द्धसुधाकराम् ॥ ८५ ॥
सान्द्रसौरभसम्पन्नकस्तूरीतिलकाङ्किताम् ।
मत्तालिमालाविलसदलकाढ्यमुखाम्बुजाम् ॥ ८६ ॥
पारिजातप्रसूनश्रीवाहिधम्मिल्लबन्धनाम् ।
अनर्घ्यरत्नघटितमुकुटाङ्कितमस्तकाम् ॥ ८७ ॥
सर्वलावण्यवसतिं भवनं विभ्रमश्रियः ।
तेजसां जन्मभूमिं तां महालक्ष्मीं मनोहराम् ॥ ८८ ॥
मत्तालिमालेव विलसन्तः ये अलका इति विग्रहः ॥ ८२-८८ ॥
एवं सञ्चिन्तयन् देवीं हविष्याशी जितेन्द्रियः ।
भानुलक्षं जपेन्मन्त्रं दशांशं जुहुयाद् घृतैः ॥ ८९ ॥
जुहुयाच्छ्रीफलैः पद्मैः प्रत्येकमयुतं ततः ।
तर्पयेत् सलिलैः शुद्धैः सुगन्धैरयुतद्वयम् ॥ ९० ॥
श्रीबीजस्योदिते पीठे महालक्ष्मीं प्रपूजयेत् ।
श्रीबीजेनासनं दद्यान्मूत्तीं मूलेन कल्पयेत् ॥ ९१ ॥
पूजयेद्दक्षिणे पार्श्वे देव्याः शङ्करनन्दनम् ।
अन्यतः पुष्पधन्वानं पुष्पाञ्जलिकरं यजेत् ॥ ९२ ॥
घृतैरेव दशांशं होमः ।
अयुतद्वयहोमस्त्वधिकः ।
पीठे अष्टदलद्वादशदल- चतुरस्रचतुर्द्वाररूपे ।
शङ्करनन्दनं गणेशं स्कन्दमित्यपरे ।
पुष्पाञ्जलिकरमित्युभय- ध्यानम् ॥ ८९-९२ ॥
अङ्गानि पूर्वमुक्तेषु स्थानेषु विधिवद् यजेत् ।
उमाद्याः पत्रमध्यस्थाः शक्तीरष्टौ यजेत् क्रमात् ॥ ९३ ॥
अथोमा श्रीसरस्वत्यौ दुर्गा धरणिसंयुता ।
गायत्री देव्युषा चैव पद्महस्ताः सुभूषणाः ॥ ९४ ॥
जह्नुसूर्यसुते पूज्ये पादप्रक्षालनोद्यते ।
शङ्खपद्मनिधी पूज्यौ पार्श्वयोर्धृतचामरौ ॥ ९५ ॥
धृतातपत्रं वरुणं पूजयेत् पश्चिमे ततः ।
सम्पूज्य राशीन् परितो यजेदथ नव ग्रहान् ॥ ९६ ॥
पूजयेद् दिग्गजान् दिक्षु चतुर्दन्तविभूषितान् ।
एरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ९७ ॥
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च ते क्रमात् ।
अभ्यर्चयेदथेन्द्रादीन् तदस्त्राण्यपि तद्बहिः ॥ ९८ ॥
आगमोक्तेन विधिना सुगन्धैः सुमनोहरैः ।
पूजयेद् गन्धपुष्पाद्यैर्देवीमन्वहमादरात् ॥ ९९ ॥
दूर्वाभिराज्यसिक्ताभिर्जुहुयादायुषे नरः ।
दशरात्रं समिद्धेऽग्नावष्टोत्तरसहस्रकम् ॥ १०० ॥
गुडूचीराज्यसंसिक्ता जुहुयात् सप्तवासरम् ।
अष्टोत्तरसहस्रं यः स जीवेच्छरदां शतम् ॥ १०१ ॥
पूर्वमुक्तेषु तुर्येक्तेषु ।
विधिवदिति शिरआद्यङ्गेषु नमोयोग उक्तः ।
अथवा यथान्यासमात्मनेपदसहितानीत्युक्तम् ।
पद्मे हस्तयोर्यस्याः सा पद्महस्ता ।
पश्चादष्टानां पद्महस्ताशब्दानामेकशेषे बहुवचनं ज्ञेयम् ।
जह्नु इत्यारभ्य पश्चिम इत्यन्तं तृतीयावरणम् ।
सम्पूज्येति द्वादशदले ।
राशीनिति ।
तद्वर्णा आचार्यैरुक्ताः—-
चापनीरजयुक्कन्याः पीताः स्युरुभयास्त्वमी ।
वणिङ्मकरमेषाह्वकुलीरा रक्तरोचिषः ॥
चरावशिष्टाश्चत्वारः स्थिताः श्वेताः पृथङ्मताः ।
इति ।
तत्तन्नामानुरूपं स्वरूपं ज्ञेयम् ।
इदं चतुर्थावरणम् ।
अथ परितो यजेत् नव ग्रहानिति ।
तद्वर्णास्तत्स्वरूपञ्च चन्द्रमन्त्रे वक्ष्यति ।
दिग्गजानिति श्वेतान् ।
दिक्ष्विति स्वस्वदिक्षु ।
अष्टोत्तरसहस्रकमिति द्वयमपि प्रत्यहम् ॥ ९३-१०१ ॥
हुत्वा तिलान् घृताभ्यक्तान् दीर्घमायुरवाप्नुयात् ।
आरभ्याऽर्कदिनं मन्त्री दशरात्रं दिने दिने ॥ १०२ ॥
आज्याक्तार्कसमिद्धोमादारोग्यं लभते ध्रुवम् ।
कण्ठमात्रोदके स्थित्वा ध्यात्वा देवीं दिवाकरे ॥ १०३ ॥
ऊद्ध्र्वबाहुर्दशशतमष्टोत्तरमिमं जपेत् ।
आरोग्यं लभते सद्यो(मर्त्ये)वाञ्छितान्यपि मन्त्रवित् ॥१०४
शालिभिर्जुह्वतो नित्यमष्टोत्तरसहस्रकम् ।
अचिरादेव महती लक्ष्मीः सञ्जायते ध्रुवम् ॥ १०५ ॥
प्रसूनैर्जुहुयान्मन्त्री लक्ष्मीवल्लीसमुद्भवैः ।
नन्द्यावर्त्तसमुत्थैर्वा सिद्धार्थैश्च घृतप्लुतैः ॥ १०६ ॥
महतीं श्रियमाप्नोति मान्यते सर्वजन्तुभिः ।
हुत्वेत्यष्टोत्तरसहस्रम् ।
इदमुत्तरप्रयोगोऽपि ।
अर्कदिनमादित्यवासरः ।
जुहु- यादित्यष्टोत्तरं सहस्रम् ।
लक्ष्मीवल्ली तु ताम्बूलाकारपत्रा रक्तमध्यबिन्दुः श्वेतपुष्पा ।
वाशब्दः समुच्चये ॥ १०२-१०७ ॥
मरीचजीरकोन्मिश्रैर्नारिकेलरजोयुतैः ॥ १०७ ॥
सगुडैराज्यसम्पक्वैरपूपैराज्यलोलितैः ।
जुहुयात् पायसाहारो मन्त्रविद्विजितेन्द्रियः ॥ १०८ ॥
अष्टोत्तरशतं नित्यं मण्डलाद्धनदो भवेत् ।
हविषा गुडमिश्रेण जुहुयादन्नवान् भवेत् ॥ १०९ ॥
जवापुष्पाणि जुहुयादष्टोत्तरसहस्रकम् ।
गृहीत्वा प्रजपेद्भस्म नागवल्लीरसान्वितम् ॥ ११० ॥
तिलकं तनुयात्तेन सर्ववश्यकरं भवेत् ।
ब्रह्मवृक्षसमित्पुष्पैर्ब्राह्मणान् वशयेद्वशी ॥ १११ ॥
जातीपुष्पैश्च राजानं वैश्यान् रक्तोत्पलैः सुधीः ।
शूद्रान्नीलोत्पलैर्हुत्वा वशयेन्मन्त्रवित्तमः ॥ ११२ ॥
पुष्पैर्मधूकजैर्हुत्वा वशमानयति स्त्रियः ।
मण्डलादेकोनपञ्चाशद्दिनैः ।
धनदः कुबेरः ।
प्रजपेदित्यष्टोत्तरशतमित्यादि ।
भस्मेति हुतजवाभस्म ।
ब्रह्मवृक्षः पलाशः ।
" ब्रह्म वै पलाशः " इति श्रुतेः ॥ १०७-११३ ॥
कृत्वा नवपदात्मानं मण्डलं यन्त्रभूषितम् ॥ ११३ ॥
अभिषेकं प्रकुर्वीत विधिना सर्वसिद्धये ।
कलशान् स्थापयेत्तेषु पदेषु शुभलक्षणान् ॥ ११४ ॥
चन्दनालिप्तसर्वाङ्गान् दूर्वाक्षतसमन्वितान् ।
दुकूलवेष्टितानेतान् पूरयेत्तीर्थवारिणा ॥ ११५ ॥
नवरत्नसमाबद्धं कर्षकाञ्चनकल्पितम् ।
मध्यकुम्भे क्षिपेत् पद्मं यन्त्राढ्यं देशिकोत्तमः ॥ ११६ ॥
चन्दनोशीरकर्पूरजातीकङ्कोलकुङ्कुमम् ।
कुष्ठागुरुतमालैलायुतं सम्पिष्य भागतः ॥ ११७ ॥
विलोड्य सर्वकुम्भेषु रत्नान्यपि विनिःक्षिपेत् ।
अभिषेकमाह कृत्वेति ।
नवपदात्मानं तृतीयोक्तं नवनाभम् ।
यन्त्रभूषितं वक्ष्यमाणं यन्त्रं तन्मध्यकणीकायां लिखेदित्यर्थः ।
विधिनेति उद्दिष्टं विधिमाह कलशानित्यादिना ।
कर्षकाञ्चननिमीतं षष्ठ्यधिकशतरत्तिकापरिमितसुवर्णनिमीतम् ।
यन्त्राढ्यं वक्ष्यमाणयन्त्रयुक्तम् ।
तेन यन्त्रपद्ममित्यर्थः ।
जाती जातीफलम् ।
भागत इति समविभागतः ।
रत्नानि मातृकापटलोक्तानि नव ।
सर्वकुम्भेषु इति ।
अत्रापिना सम्बध्यते ॥ ११३-११८ ॥
लक्ष्मीर्दूर्वा सदाभद्रा सहदेवी मधुव्रता ॥ ११८ ॥
मुशली शक्रवल्ली च क्रान्तापामार्गपत्रकान् ।
प्रियङ्गुमुद्गगोधूमव्रीहींश्च सतिलान् यवान् ॥ ११९ ॥
शालितण्डुलमाषांश्च प्रक्षाल्यैतेषु निक्षिपेत् ।
धात्रीलकुचबिल्वानां कदलीनारिकेलयोः ॥ १२० ॥
फलान्यपि विनिक्षिप्य पुष्पाण्येतानि निक्षिपेत् ।
पद्मं सौगन्धिकं जातिं मल्लिकां बकुलन्तथा ॥ १२१ ॥
चम्पकाशोकपुन्नागतुलसीकेतकोद्भवम् ।
पल्लवानि वटाश्वत्थप्लक्षोडुम्बरशाखिनाम् ॥ १२२ ॥
लक्ष्मीः पूर्वेक्तलक्षणा १ दूर्वा २ सदाभद्रा भद्रमुस्ता ३ सहदेवी ४ मधुव्रता भृङ्गराजः ५ मुषली
मुषलीकन्दः ६ शक्रवल्ली इन्द्रवारुणी ७ क्रान्ता विष्णुक्रान्ता ८ अपामार्गपत्रं ९ एतानि प्रक्षाल्य एतेषु
नवकुम्भेषु प्रत्येकं निक्षिपेदित्यग्रिमेणान्वयः ।
प्रियङ्गुः कङ्गुः ।
निक्षिपेदिति प्रत्येकम् ॥ ११८-१२० ॥
फलान्यपीति पल्लवानीति च सर्वकुम्भेषु ॥ १२१ ॥
ब्रह्मकूर्च्चं विनिक्षिप्य चषकैः सफलाक्षतैः ।
पिधाय कुम्भवक्त्राणि क्षौमैराच्छादयेत्ततः ॥ १२३ ॥
आवाह्य मध्यकलशे महालक्ष्मीं प्रपूजयेत् ।
यजेदुमाद्याः शिष्टेषु कलशेष्वष्टसु क्रमात् ॥ १२४ ॥
गन्धैर्मनोहरैः पुष्पैर्धूपदीपसमन्वितैः ।
निवेद्य भक्ष्यभोज्यानि तान् स्पृष्ट्वा प्रजपेन्मनुम् ॥ १२५ ॥
त्रिसहस्रं जपस्यान्ते साध्यमानीय संयतम् ।
संस्थाप्य स्थण्डिले पीठं तस्मिंस्तं विनिवेशयेत् ॥ १२६ ॥
रम्यैराभरणैर्वस्त्रैरलङ्कृत्य तमादरात् ।
सुमङ्गलाभिर्नारीभिः क्षिप्तपुष्पाक्षतान्वितम् ॥ १२७ ॥
अचीतानां द्विजातीनामाशीर्वादपुरःसरम् ।
नदत्सु पञ्चवाद्येषु मुहूर्त्ते शोभने सुधीः ॥ १२८ ॥
मध्यस्थं कुम्भमुद्धृत्य महालक्ष्मीमनुं स्मरन् ।
अभिषिञ्चेत् क्रमादन्यैः कलशैरपि देशिकः ॥ १२९ ॥
करेणाऽस्य शिरः स्पृष्ट्वा प्रयुञ्जीताशिषं गुरुः ।
भद्रमस्तु शिवञ्चाऽस्तु महालक्ष्मीः प्रसीदतु ॥ १३० ॥
ब्रह्मकूर्चं दीक्षापटलोक्तम् ।
तान् स्पृष्ट्वेति कुशादिना युगपत् ।
सुमङ्गलाभिः चिरण्टीभिरित्यर्थः ।
आशिषमेवाह भद्रमस्त्विति ॥ १२३-१३० ॥
रक्षन्तु त्वां सदा देवाः सम्पदः सन्तु सर्वदा ।
अथोत्थायाऽभिषिक्तः सन् वाससी परिधाय च ॥ १३१ ॥
यथाविधि समाचम्य दण्डवत् प्रणमेद् गुरुम् ।
वस्त्रैराभरणैर्धान्यैर्धनै(र्गन्धै)र्गेमहिषादिभिः ॥ १३२ ॥
दासीदासैश्च विधिवत्तोषयेद्देवताधिया ।
ब्राह्मणान् भोजयेत् पश्चाद्दीनान्धकृपणैः सह ॥ १३३ ॥
महान्तमुत्सवं कुर्याद्भवने बन्धुभिः सह ।
तदा कृतार्थमात्मानं मन्यते मनुजोत्तमः ॥ १३४ ॥
अभिषिक्तो नरपतिः परान् विजयतेऽचिरात् ।
पट्टेच्छुः पट्टमाप्नोति राजपुत्रो न संशयः ॥ १३५ ॥
अभिषिक्ता सती बन्ध्या सूते पुत्रं महामतिम् ।
महारोगेषु जातेषु कृत्याद्रोहेषु देशिकः ॥ १३६ ॥
भूतेषु दुर्निमित्तादौ विदध्यादभिषेचनम् ।
सर्वसम्पत्करं पुंसां सर्वसौभाग्यसिद्धिदम् ॥ १३७ ॥
सर्वरोगप्रशमनं सर्वापद्विनिवारकम् ।
गर्भरक्षाकरं स्त्रीणां दीर्घायुर्जनकं परम् ॥ १३८ ॥
प्रसूतानामपि स्त्रीणां सूतिकागाररक्षकम् ।
प्रणष्टपुष्पगर्भाणां पुष्पगर्भाभिरक्षण ॥ १३९ ॥
आसन्नशत्रुभीतानां नाशनञ्च महीभृताम् ।
अभिषेकमिमं प्राहुरागमार्थविशारदाः ॥ १४० ॥
वेदादिस्थितसाध्यनाम युगशः श्रीशक्तिमारान्वितं
किञ्जल्केषु दिनेशपत्रविलसन्मन्त्राक्षरं तद्बहिः ।
पद्मं व्यञ्जनकेसरं स्वरलसत्पत्राष्टयुग्मं धरा-
बिम्बाभ्यां वषडन्तया त्वरितया यन्त्रं लिखेद् वेष्टितम् ॥१४१॥
भूपुरद्वयकोणेषु हक्षौ लेख्यौ पुनः पुनः ।
महालक्ष्मीयन्त्रमिदं सर्वैश्वर्यफलप्रदम् ॥ १४२ ॥
सर्वदुःखप्रशमनं सर्वापद्विनिवारणम् ।
बहुना किमिहोक्तेन परमस्मान्न विद्यते ॥ १४३ ॥
यन्त्रमाह वेदादीति ।
पद्मं पद्मरूपं यन्त्रं लिखेदिति सम्बन्धः ।
किं विशिष्टम् ।
वेदादिः प्रणवः तत्रस्थं साध्यनाम साध्यसाधककर्मनाम यत्र तत् कणीकायामिति ज्ञेयम् ।
किञ्जल्केष्विति वक्ष्यमाणत्वात् ।
पुनः कीदृक् ।
किञ्जल्केषु केसरस्थानेषु युगशो द्विशः श्रीशक्तिमारान्वितम् ।
आद्ये किञ्जल्के श्रीशक्तीपरे मारश्रियौ तत्परे शक्तिमारौ इति क्रमेणेति सम्प्रदायविदः ।
तेन बीजत्रयस्याष्टावृत्तयः ।
पुनः कीदृक् ।
दिनेशपत्रेषु द्वादशपत्रेषु विलसन्ति मन्त्राक्षराणि यत्र ।
पुनः किं विशिष्टम् ।
तद्बहिः व्यञ्जनकेसरम्, व्यञ्जनानि ककारादीनि केसरेषु यत्र तत् ।
केसराणां द्वित्वात् व्यञ्जनद्वयमेकैकस्मिन् केसरस्थाने लेखनीयमित्यर्थः ।
पुनः कीदृक् स्वरैर्लसद् युक्तं पत्राष्टयुग्मं षोडशपत्रं यस्मिन् तत् ।
धराबिम्बाभ्यां परस्परव्यतिभिन्नाभ्यां वेष्टितम् ।
त्वरितया सहेति सम्बन्धः ।
इदञ्चोपरिष्टात् प्रभृति ।
तेन त्वरितया संवेष्ट्य पश्चाद् भूगृहाभ्यां वेष्टयेत् ।
अत्र परस्परव्यतिभिन्नत्वम् अर्थलभ्यम् ।
यदुपर्युपरि चतुरस्रकरणे एकेनैव चतुरस्रेण साक्षाद् यन्त्रवेष्टनम् ।
अन्येन तु चतुरस्रयैव वेष्टनं न मन्त्रस्य ।
परम्परया यन्त्रवेष्टनत्वमिति चेन्न ।
व्यतिभिन्नत्वे तु उभयोरपि साक्षादेव यन्त्रवेष्टितत्वसम्भवात् ।
कीदृश्या त्वरितया ।
वषडन्तया तत्र फट्कारस्थाने वषट्कार इति साम्प्रदायिकाः ।
अन्ये तु वषट्कारमधिकमाहुः ।
हक्षावित्यष्टधावृत्तौ ॥ १४१-१४३ ॥
शम्भुपत्नी श्रिया रुद्धा कमौ भगवती मही ।
ब्रह्मादित्यौ धरा दीर्घा लः क्षादिर्भगवान् मरुत् ॥ १४४ ॥
प्रसीदयुगलं भूयः श्रीरुद्धा भुवनेश्वरी ।
महालक्ष्मि नमोऽन्तः स्यात् प्रणवादिरयं मनुः ॥ १४५ ॥
सप्तविंशत्यक्षराढ्यः प्रोक्तः सर्वसमृद्धिदः ।
कमले हृदयं प्रोक्तं शिरः स्यात् कमलालये ॥ १४६ ॥
शिखा प्रसीद तेनैव कवचं चतुरक्षरैः ।
अस्त्रमेतैः पदैः कुर्यात् त्रिबीजपुटितैः पृथक् ॥ १४७ ॥
मन्त्रान्तरमाह शम्भ्विति ।
शम्भुपत्नी मायाबीजम् ।
श्रिया रुद्धा श्रीबीजपुटिता ।
एकाक्षरत्वाद्रोधः सम्पुटे पर्यवस्यति ।
कमौ ककारमकारौ ।
भग एकारस्तद्युक्ता मही लः तेन ले ।
नागरलिपौ एकारस्य भगरूपत्वात् भगशब्दवाच्यता ।
ब्रह्मादित्यौ ककारमकारौ ।
धरा लकारः ।
दीर्घा दीर्घयुक्ता तत्र प्रथमातिक्रमे कारणाभावादा- कारयुक्ता तेन ला ।
क्षादिर्लः मूर्द्धन्य इत्यर्थः ।
मरुत् यकारः ।
भगवानेकारयुक्तः तेन येति ।
महालक्ष्मीति स्वरूपम् ।
इदं पदं के चन चतुर्थ्यन्तमपीच्छन्ति ।
एभिस्तु यकारस्य कीलकत्वात् न तथोद्धृतम् ।
अन्ये तु द्विरुक्त्यादौ भेदमुद्धृत्याष्टाविंशतिवर्णमाहुः ।
सर्वसमृद्धि इति विनियोगोक्तिः ।
श्री� बीजं माया शक्तिः ।
कमलवासिनी चास्या ऋष्यादयः ।
तेनैवेति प्रसीदेत्यनेन ।
चतुरक्षरैरिति महालक्ष्मिपदेन ।
त्रिबीजपुटितैरिति मन्त्रादिस्थप्रणवव्यति- रिक्तत्रिबीजैः ।
पृथक् प्रत्येकं कुर्यादङ्गानीति शेषः ।
तत्र प्रयोगो यथा—- " श्री� ह्री� श्री� कमले श्री� ह्री� श्री� हृदयाय नमः " इत्यादि ॥ १४४-१४७ ॥
सिन्दूरारुणकान्तिमब्जवसतिं सौन्दर्यवारां निधिं
कोटीराङ्गदहारकुण्डलकटीसूत्रादिभिर्भूषिताम् ।
हस्ताब्जैर्वसुपत्रमब्जयुगलादर्शौ वहन्तीं परा-
मावीतां परिचारिकाभिरनिशं ध्यायेत् प्रियां शाङ्गीणः ॥ १४८॥
आयुधध्यानं दक्षाधस्ताद्वामाधः पर्यन्तम् ॥ १४८ ॥
लक्षं जपेत् फलैबील्वैर्जुहुयान्मधुरोक्षितैः ।
दशांशं संस्कृते वह्नौ प्राक्प्रोक्तेनैव वर्त्मना ॥ १४९ ॥
श्रीबीजोक्ते यजेत् पीठे वक्ष्यमाणक्रमेण ताम् ।
अङ्गावृत्तेर्बहिः पूज्या मूर्त्तयः श्रीधरादयः ॥ १५० ॥
श्रीधराख्यं हृषीकेशं वैकुण्ठं विश्वरूपकम् ।
वासुदेवं सङ्कर्षणं प्रद्युम्नमनिरुद्धकम् ॥ १५१ ॥
दलमूलेषु सम्पूज्य पत्रमध्येषु संयजेत् ।
भारतीं पार्वतीं चान्द्रीं शचीञ्च दमकादिकान् ॥ १५२ ॥
दलाग्रेष्वर्चयेद् बाणान् महालक्ष्म्याः क्रमादमून् ।
अनुरागञ्च संवादं विजयं वल्लभं मदम् ॥ १५३ ॥
हर्षं बलञ्च तेजश्च लोकनाथाननन्तरम् ।
तदायुधानि तद्बाह्ये पूजयेत् साधकोत्तमाः ॥ १५४ ॥
अनेन विधिना देवीं महालक्ष्मीमुपासते ।
ये तेषु निवसेल्लक्ष्मीरस्मरन्ती निजालयम् ॥ १५५ ॥
उत्पलैर्जुहुयाल्लक्षं चन्दनाम्भसि लोलितैः ।
शत्रूणां लभते राज्यं विना युद्धेन पाथीवः ॥ १५६ ॥
अङ्गावृत्तेर्बहिः केसरेषु ।
तेन कणीकायामङ्गपूजा ।
अत एव दलमूलेषु सम्पूज्ये- त्युक्तिः ।
पत्रमध्येष्विति दिक्पत्रमध्येषु ।
दमकादिकान् इति विदिक् पत्रमध्येषु ।
तदग्रेषु पत्राग्रेषु ।
ये साधकोत्तमा उपासते इति सम्बन्धः ।
साधकोत्तमा इत्यनेनैतदुक्तं भवति सत्यवादित्वादिलक्ष्म्युपासकसमयनिष्ठा इति ॥ १४९-१५६ ॥
जपन् राजसभां गच्छेत् सम्भाव्येत तया नरः ।
दूर्वा देवी महालक्ष्मीवीष्णुक्रान्ता मधुव्रता ॥ १५७ ॥
मुशली शक्रवल्ली च सदाभद्राऽञ्जलिप्रिया ।
हरिचन्दनकर्पूरचन्दनाङ्कोलरोचनाः ॥ १५८ ॥
मालूरकेसरौ कुष्ठं सर्वं पिष्ट्वा निशारसैः ।
अष्टोत्तरसहस्रन्तु जपित्वा तिलकक्रियाम् ॥ १५९ ॥
कुर्वतो मन्त्रिणः सर्वे वशे तिष्ठन्त्यहर्निशम् ।
श्रियो मन्त्रं भजेन्मन्त्री श्रीसूक्तान्यपि सञ्जपेत् ॥ १६० ॥
तयेति सभया ।
देवी सहदेवी ।
मधुव्रता भृङ्गराजः ।
सदाभद्रा भद्रमुस्ता ।
अञ्जलिप्रिया अञ्जलिनी ।
हाताजोडीति कान्यकुब्जभाषायाम् ।
हरिचन्दनं पीतचन्दनम् ।
मालूरं बिल्वम् ।
केसरो नागकेसरः ।
निशा हरिद्रा ।
श्री सूक्तं पञ्चदशर्चं बह्वृचानां प्रसिद्धतरम् ।
तद्विधानं यथा—-
आद्यायाः श्रीरृषिः प्रोक्तस्तत आनन्दकर्द्दमौ ।
चिल्कीतश्चेन्दिरापुत्रो मुनयः सम्प्रकीत्तीताः ॥
चतुर्दशानां छन्दः स्यादनुष्टुप् तिसृणां पुनः ।
चतुर्थ्या बृहती पञ्चषष्ठयोस्त्रिष्टुबीरिता ॥
सप्तमादिषु चाष्टानामनुष्टुप् परिकीत्तीतम् ।
प्रस्तारापङ्क्तिरन्त्याया अग्नी देवौ प्रकीत्तीतौ ॥
आद्यन्ते बीजशक्ती स्तो विनियोगो धनाप्तये ।
मूर्द्धाक्षिकर्णघ्राणेषु मुखग्रीवाकरद्वये ॥
हृन्नाभिलिङ्गपायूरुजानुजङ्घापदे न्यसेत् ।
हिरण्मयी च चन्द्रा च रजताद्या स्रजा तथा ॥
सुवर्णाद्या स्रजा चैव हिरण्या चैव पञ्चमी ।
हिरण्यवर्णा एताभिर्नमोऽन्ताभिरथाङ्गकम् ॥
रक्ताब्जसंस्थां पद्माक्षीं विचित्रानेकभूषणाम् ।
अरुणाब्जरजःपुञ्जवर्णां सद्रत्नशेखराम् ॥
अब्जयुग्मं वराभीती धारयन्तीं निजैर्भुजैः ।
देवीं त्रिलोकजननीमेवं ध्यायेत्तु देशिकः ॥
शुक्लप्रतिपदाद्येकादश्यन्तं प्रजपेन्मनुम् ।
अर्कसाहस्रमिध्मैस्तु बिल्वैः पद्मैर्घृतेन च ॥
पायसेन त्रिमध्वक्तैर्दशांशं जुहुयात्ततः ।
पुरोदितेन विधिना श्रीपीठे पूजयेच्छिरयम् ॥
मूत्तीं मूलेन सङ्कल्प्य उपचारांस्तु षोडश ।
मन्त्रैस्तु पञ्चदशभिर्व्यस्तैः कुर्यात् समस्तकैः ॥
तत आवरणार्चायां केसरेष्वङ्गपूजनम् ।
पद्मा च पद्मवर्णा च पद्मस्थार्द्रा तुरीयका ॥
तर्पयन्ती च तृप्ता च ज्वलन्ती सप्तमी तथा ।
स्वर्णप्राकाराष्टमो स्यादेताः पत्रेषु संयजेत् ॥
लोकेशानायुधैः सार्द्धमेवं पूजा समीरिता ।
इति ।
अथ सर्वश्रीमन्त्रान्ते तन्त्रान्तरोक्तं श्रीयन्त्रं लिख्यते—-
अथातः सम्प्रवक्ष्यामि श्रियो यन्त्रं शृणु प्रिये ।
सर्वसिद्धिप्रदं यन्त्रं सर्वसम्मोहनं परम् ॥
तेजस्करं पुष्टिकरं श्रीकरञ्च यशस्करम् ।
अमृतत्वप्रदं नॄणां सर्वाभीष्टफलप्रदम् ॥
शत्रूणां नाशनञ्चैव मित्राणां वर्द्धनं परम् ।
स्वसेनाहरणञ्चैव परसेनापसारणम् ॥
आथर्वणादिभिर्मन्त्रैः शत्रुभिः पीडिते सदा ।
रक्षणं परमन्त्राणां छेदनञ्च महेश्वरि ॥
धारणाचायुरारोग्यं श्रीसौभाग्यधनप्रदम् ।
अष्टपत्रं महापद्मं कणीकाकेसरैर्युतम् ॥
श्रीबीजं नामसंयुक्तं कणीकायां समालिखेत् ।
अयुतं वारुणं बिन्दुभूषितं प्राग्दले लिखेत् ॥
अकारयुतं सबिन्दुकं हल्मात्रं वकारमित्यर्थः ।
एवञ्च वम् इति भवति ।
वैष्णवं बिन्दुमद्बीजं तस्य दक्षिणदिग्दले ।
अम् इति भवति ।
नान्तं यान्तसमायुक्तं सबिन्दुं वारुणे दले ।
नान्तः पकारः ।
यान्तो रेफः ।
एवञ्च प्रम् इति भवति ।
विष्णुं बिन्दुसमायुक्तं सौम्ये वै दिग्दले लिखेत् ।
अम् इत्यर्थः ।
जान्तं वह्निसमायुक्तं बिन्दुमद्वह्निदिग्दले ।
जान्तो झकारः ।
वह्निः रेफः ।
एवं झ्रम् इति भवति ।
वान्तं विष्णुसमायुक्तं बिन्दुमन्नैरृते दले ।
वान्तः शकारः ।
विष्णुः अकारः ।
एवं शम् इति भवति ।
ब्रह्मणो द्वादशं बीजं पञ्चमस्वरसंयुतम् ।
बिन्दुनादसमायुक्तं विलिखेत् पावने दले ॥
ब्रह्मा कः, तस्मात् द्वादशो वर्णः ठकारः ।
पञ्चम स्वरः उकारः ।
एवं ठुम् इति भवति ।
वर्गाद्यं शान्तसंयुक्तम् एकादशसमन्वितम् ।
बिन्दुनादसमायुक्तं न्यसेदीशानदिग्दले ॥
वर्गाद्यः ककारः ।
शान्तः षः ।
एकादश एकारः ।
क्षेम् इति भवति ।
तद्बाह्ये परितो मन्त्री श्रीबीजं प्रथमावृत्तौ ।
द्वितीयं कामबीजेन शक्तिबीजं तृतीयके ॥
ततो भूगृहमालिख्य प्राङ्मुखः सुप्रसन्नधीः ।
गुरुं सम्पूज्य यत्नेन वस्त्रधान्यधनादिभिः ॥
गन्धपुष्पाक्षताद्यैश्च यन्त्रं सम्पूजयेत् प्रिये ।
सहस्रं च जपं कृत्वा सर्वसिद्धिकरं प्रिये ॥
रौप्ये पत्रेऽथ लौहे वा भूर्जे वा लिख्य धारयेत् ॥
श्रीबीजे नाम संलिख्य ठान्तं तद्बाह्यतो लिखेत् ।
बिन्दुयुक्तेन लान्तेन वेष्टयित्वा निरन्तरम् ॥
पुनरष्टदलं पद्मं श्री� ह्नी� प्रतिदलं लिखेत् ।
महामायां त्रिकोणाभ्यां वेष्टयित्वा बहिस्ततः ।
इदं धारयतो नित्यं वर्द्धते श्रीर्न संशयः ॥ इति ॥ १५७-१६० ॥
भूयसीं श्रियमाकाङ्क्षन् सत्यवादी भवेत् सदा ।
प्रत्यगाशामुखोऽश्नीयात् स्मितपूर्वं प्रियं वदेत् ॥ १६१ ॥
भूषयेद् गन्धपुष्पाद्यैर्वात्मानं नियतः शुचिः ।
शयीत शुद्धशय्यायां तरुण्या सह नान्यया ॥ १६२ ॥
नग्नो नाऽवतरेदम्भस्तैलाभ्यक्तो न भक्षयेत् ।
हरिद्रां न मुखे लिप्येन्न स्वपेदशुचिः क्वचित् ॥ १६३ ॥
न वृथा विलिखेद्भूमिं न बिल्वं द्रोणमम्बुजम् ।
धारयेन्मूद्ध्र्न नैवाऽद्यात् लोणं तैलञ्च केवलम् ॥ १६४ ॥
मलिनो न भवेज्जातु कुत्सितान्नं न भक्षयेत् ।
द्रोणपङ्कजबिल्वानि पद्भ्यां जातु न लङ्घयेत् ॥ १६५ ॥
सहदेवीमिन्द्रवल्लीं श्रीवल्लीं विष्णुवल्लभाम् ।
कन्यां जम्बुं प्रवालञ्च धारयेन्मूद्ध्र्न सर्वदा ॥ १६६ ॥
कमलोपासकस्य धर्मानाह भूयसीमिति ।
प्रत्यगाशामुखः पश्चिमास्यः ।
तरुण्येति ।
न च वृद्धया ।
उक्तं च " वृद्धा तु कुरुते ज्वरम् " ।
पञ्चपञ्चाशद्वर्षेपरि स्त्रीणां वृद्धता ।
नान्ययेत्यनेन एतदुक्तं भवति ।
यदाहुः—-
दुष्टां कष्टान्ववायां कलहकलुषितां मार्गदुष्टामनिष्टा-
मन्यासक्तामसक्तामतिविपुलकृशाङ्गीमतिह्रस्वदीर्घाम् ।
रोगार्त्तां भोगलीलां प्रतिपुरुषचलां राजकान्तामकान्तां
काकाक्षीभेकचारां गृहकुसुमयुतां न स्पृशेदिन्दिरार्थी ॥ इति ॥
द्रोणं गूमा इति कान्यकुब्जभाषायाम् ।
श्रीदेवी श्रीलता ।
विष्णुवल्लभा विष्णुक्रान्ता ।
कन्या घृतकुमारी ॥ १६१-१६६ ॥
इत्याचारपरो नित्यं विष्णुभक्तो दृढव्रतः ।
श्रियमाप्नोति महतीं देवानामपि दुर्लभाम् ॥ १६७ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
अष्टमः पटलः समाप्तः ॥ ८ ॥
ब्थ् " बि

        इत्याचारेति ।  

तन्त्रान्तरोक्ताचारग्रहणम् ।
तदुक्तं नारायणीये—-
न जिध्रेन्नाक्रमेचाब्जं तद्बीजं न च भक्षयेत् ।
न स्यान्मलिष्ठो न छिन्द्यात् बिल्वं भूमौ शयीत न ॥
लवणामलकं वर्ज्यं नागादित्यतिथौ क्रमात् ।
पञ्चम्यामुत्तरे च स्त्री वर्ज्या प्रत्यङ्मुखोऽशने ॥
बिल्वैर्न मार्जयेत् दन्तान् त्रिसन्ध्यं प्रणमेच्च तान् ।
प्रातर्भक्ष्यास्तिलास्तेन (सेव्या) धार्या लक्ष्मीं च भक्षयेत् ॥
धारयेन्मूर्द्ध्न तत्पुष्पमुत्तरे मधुरान्नभुक् ।
पायसं बिल्वबीजं च भक्षयेच्छुक्लपर्वणि ॥ इति ।
प्रयोगसारेऽपि—-
धान्य यो गुरु हुताशनराणां न स्वपेदुपरि नाप्यनुवंशं नोत्तरापरशिरा
न च नग्नो नार्द्रपाणिचरणः श्रियमिच्छन् ।
नाभ्यञ्ज्यादपि तैलमेव रजनीं नैवानुलिम्पेन्मुखे ॥ इति ॥ १६७ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायाम् अष्टमः पटलः ॥ ८ ॥
ब्थ् " बि