अथ सप्तमः पटलः
अथ भूतलिपिं वक्ष्ये सुगोप्यामतिदुर्लभाम् ।
यां प्राप्य शम्भोर्मुनयः सर्वान् कामान् प्रपेदिरे ॥ १ ॥
अथ मातृकाविशेषं भूतलिपिमन्त्रमाह अथेति ।
शम्भोः सकाशाद् यां प्राप्येत्यन्वयः ।
सर्वान् कामानित्यनेन विनियोग उक्तः ॥ १ ॥
पञ्च ह्रस्वाः सन्धिवर्णा व्योमेराग्निजलं धरा ।
अन्त्यमाद्यं द्वितीयञ्च चतुर्थं मध्यमं क्रमात् ॥ २ ॥
पञ्चवर्गाक्षराणि स्युर्वान्तं श्वेतेन्दुभिः सह ।
एषा भूतलिपिः प्रोक्ता द्विचत्वारिंशदक्षरैः ॥ ३ ॥
मन्त्रमुद्धरति पञ्चेति ।
पञ्च ह्रस्वाः अ इ उ ऋ ऌ प्रथमो वर्गः ।
सन्धिवर्णाः ए ए ओ औ द्वितीयो वर्गः ।
व्योम हः ।
ईरो यः ।
अग्नी रः ।
जलं वः ।
धरा लः ।
अयं तृतीयः ।
पञ्चवर्गाक्षराणां क्रममाह अन्त्यमिति ।
अन्त्यं डः आद्यं कः द्वितीयं खः चतुर्थं घः मध्यमं गः ।
अयं क्रमोऽग्रेऽपि चतुर्षु ।
एवं वर्गाष्टकम् ।
वान्तं शः ।
श्वेतः षः ।
श्रीकण्ठादिपाठात् इन्दुः सः ।
अयं नवमः ॥ २-३ ॥
आयम्बरार्णा वर्गाणां पञ्चमाः शार्णसंयुताः ।
वर्गाद्या इति विज्ञेया नव वर्गाः स्मृता अमी ॥ ४ ॥
नववर्गाद्यक्षराण्याह आयम्बरार्णा इति ।
अश्च ए च अम्बरार्णश्चेति द्वन्द्वः ।
तत्र अ ए इत्यनयोः वृद्धिरेचीति वृद्धौ कृतायाम् ए ।
ततो अमित्यस्मिन् परतः एचोऽयवायवः इति आयिकृते आयम्बरार्ण इति सिध्यति ।
अम्बरार्णे हः ।
वर्गाणाम् अकचटतपानाम् ॥ ४ ॥
व्योमेराग्निजलक्षोणीवर्गवर्णान् पृथग् विदुः ।
द्वितीयवर्गे भूर्न स्यान्नवमे न जलं धरा ॥ ५ ॥
वर्गवर्णानां भूतात्मकतामाह व्योमेति ।
पृथक् प्रत्येकं नववर्गाणां प्रथमादयो वर्णा व्योमादिरूपा इत्यर्थः ।
क्वचिन्नव वर्णान् पृथग्विदुरिति पाठः ।
तत्र नवेति वीप्सा ज्ञेया ।
पृथक् प्रत्येकं व्योमवाय्वादिरूपान् नव वर्णान् विदुरिति योजना ।
तत्रान्त्योपान्त्ययोः सप्ताष्टाक्षरात्मकत्वात् कथं नववर्णत्वमित्याह प्रथमपाठे प्रत्येक- वर्गवर्णानां
पञ्चभूतात्मकत्वमुक्तं तद्द्वितीयनवमयोर्न घटत इत्यत आह द्वितीयेति ।
उभयत्रोभयसम्भवाभिप्रायमिति भावः ।
द्वितीयवर्गस्य चतुरक्षरात्मकत्वात् भ्वात्मक- मक्षरं नास्ति ।
नवमस्य त्रिवर्णात्मकत्वादुभयोरभावः ॥ ५ ॥
विरिञ्चिविष्णुरुद्राश्विप्रजापतिदिगीश्वराः ।
क्रियादिशक्तिसहिताः क्रमात् स्युर्वर्गदेवताः ॥ ६ ॥
ऋषिः स्याद्दक्षिणामूत्तीर्गायत्रं छन्द ईरितम् ।
देवता कथिता सद्भिः साक्षाद् वर्णेश्वरी परा ॥ ७ ॥
नववर्गदेवता आह विरिञ्चीति।
दिगीश्वरा इन्द्रयमवरुणसोमाः ।
सर्वे कीदृशाः।
क्रियादिशक्तिसहिताः त्रिरावृत्तक्रियाज्ञानेच्छाशक्तिभिरुपेताः ।
केचित्तु दिगीश्वर इत्येकः क्रियाशक्त्यादयस्तिस्त्र इति नव देवता इच्छन्ति ॥ ६-७ ॥
हादिषड्वर्गकैः कुर्यात् षडङ्गानि सजातिभिः ।
ध्यायेल्लिपितरोर्मूले देवीं तन्मयपङ्कजे ॥ ८ ॥
हादीति ।
तृतीयवर्गेण हृदयम् ।
एवमन्यैरष्टमान्त्यैरन्यानि ।
हं यं रं वं लं हृदयाय नम इत्यादि प्रयोगः ।
ध्यायेदिति ।
तन्मयपङ्कजे वर्णाब्जे ॥ ८ ॥
वदन्ति सुधियो वृक्षं नित्यं वर्णमयं शुभम् ।
परसम्विन्महाबीजं बिन्दुनादमहाशिफम् ॥ ९ ॥
पृथिव्यक्षरशाखाभिः सर्वाशासु विजृम्भितम् ।
सलिलाक्षरपत्रैः स्वैः सञ्छादितजगत्त्रयम् ॥ १० ॥
वह्निवर्णाङ्कुरेर्दीप्तं रत्नैरिव सुरद्रुमम् ।
मरुद्वर्णलसत्पुष्पैर्द्येतयन्तं वपुःश्रियम् ॥ ११ ॥
आकाशार्ण फलैर्नम्रं सर्वभूताश्रयं परम् ।
परामृताख्यमधुभिः सिञ्चन्तं परमेश्वरीम् ॥ १२ ॥
वेदागमादिभिः कॢप्तं समुन्नतिमनोहरम् ।
शिवशक्तिमयं साक्षाच्छायाश्रितजगत्त्रयम् ॥ १३ ॥
एनमाश्रित्य मुनयः सर्वान् कामानवाप्नुयुः ॥ १४ ॥
लिपितरोरित्युक्तं तत्स्वरूपमाह नित्यमिति ।
वैयाकरणभाट्टमते वर्णानां नित्यत्वात् ।
परसम्वित् कुण्डलिनी ।
परब्रह्मेति कश्चित् ।
शिफा मूलम् ।
नित्यमित्युक्तं चेत् तस्य कथं बीजादुत्पत्तिः ।
अभिव्यञ्जकत्वेन बीजवदुपचर्यते ।
स्वैरित्यनेन द्वितीयोक्तभूतवर्णनिरासः ।
इदं पृथिव्यादिष्वपि योज्यम् ।
वेदागमेति ।
एतद्रूपेण वृक्षस्योच्चत्वमित्यर्थः ॥ ९-१४ ॥
अङ्कोन्मुक्तशशाङ्ककोटिसदृशीमापीनतुङ्गस्तनीं
चन्द्रार्द्धाकिन्तमस्तकां मधुमदादालोलनेत्रत्रयाम् ।
बिभ्राणामनिशं वरं जपवटीं विद्यां कपालं करै-
राद्यां यौवनगवीतां लिपितनुं वागीश्वरीमाश्रये ॥ १५ ॥
ध्यायेदित्युक्तं तत् ध्यानमाह अङ्क इति ।
अङ्कः कलङ्कः तेन उन्मुक्तस्त्यक्तः ।
आयुधध्यानं वामाद्यधस्तनयोराद्ये तदूर्द्धयोरन्ये ।
अन्ये तूर्द्धादि दक्षे आद्ये परे वामे इत्याहुः ॥ १५ ॥
आधारदेशेऽधिष्ठाने नाभौ हृदि गले पुनः ।
बिन्दौ नादे ततः शक्त्यां शिवे देशिकसत्तमः ॥ १६ ॥
नवाधारेषु विन्यस्य स्वरान् नव यथाविधि ।
हादिवर्णांस्तनौ न्यस्येन्मुखे ऊद्ध्र्वादितः सुधीः ॥ १७ ॥
आधारेति ।
आधारदेशे गुदमेढ्रान्तराले ।
अधिष्ठाने लिङ्गे ।
बिन्दौ भ्रूमध्ये ।
नादे केशान्ते ।
शक्त्यां तदूर्द्धदेशे ।
शिवे द्वादशान्ते ।
नवाधारेषु आधाराद्युक्तनवचक्रेषु ।
यथाविधीत्यनेन तत्तदाधारभावनां कृत्वेत्युक्तं भवति ।
अत एव आधारेत्याद्युक्त्वापि पुनर्नवाधारेष्वित्युक्तिः ।
आधारभावना अन्त्यपटले वक्ष्यते ।
देशिकसत्तम इत्यनेन वर्णानां सबिन्दुकत्वमुक्तम् ॥ १६-१७ ॥
ऊद्ध्र्वमाहेन्द्रयाम्योदक्पश्चिमेषु समाहितः ।
दोःपत्सु पञ्चवर्गाणां वर्णान् देशिकसत्तमः ॥ १८॥ क्ष
अग्रमूलोपमूलाग्रमध्यदेशक्रमेण तु ।
जठरे पार्श्वयुगले नाभौ पृष्ठे समाहितः ॥ १९ ॥
गुह्यहृद्भ्रूविले न्यस्येत् शादिवर्णत्रयं क्रमात् ।
सृष्ट्यां सर्गावसाना स्यात् स्थितौ वह्निमरुत्पयः ॥ २० ॥
वियद्भूमिक्रमान्न्यस्येद् बिन्दुसर्गावसानिकाम् ।
संहृतौ प्रतिलोमेन विन्यसेद्बिन्दुभूषिताम् ॥ २१ ॥
आगमोक्तेन मार्गेण दीक्षितः साधकोत्तमः ।
लक्षं न्यस्येज्जपेत्तावदयुतं जुहुयात् तिलैः ॥ २२ ॥
ऊर्द्धादित इति यदुक्तं तदेव विवृणोति ऊर्द्धेति ।
स्वस्यैव पञ्चमुखकल्पनया न्यास इति सुधीरित्यनेनोक्तम् ।
समाहित इत्यनेन वर्णानां सबिन्दुत्वमुक्तम् ।
दोःपदिति।
देशिकसत्तमः अग्रमूलोपमूलाग्रमध्यदेशक्रमेण दोःपत्सु जठरादिपृष्ठान्तेषु पञ्चवर्गाणां वर्णान्
न्यसेदित्युत्तरेण सम्बन्धः ।
मूलञ्च अग्रञ्च मूलाग्रे तयोः समीपमुपमूलाग्रम् ।
अग्रञ्च मूलञ्च उपमूलाग्रञ्च मध्यदेशश्चेति विग्रहः ।
अग्रमङ्गुल्यन्तः ।
मूलमंसोरुमूलम् ।
उपमूलं कूर्परजानुनी ।
उपाग्रं करपादाङ्गुलिप्रथमसन्धिः ।
मध्यदेशो मध्यसन्धिः मणिबन्धगुल्फे ।
समाहित इत्यनेन समाधानपरतया स्थानविपर्ययाभावद्रष्टेत्युक्तम् ।
देशिकसत्तम इत्यनेन वर्णानां सबिन्दुकत्वमुक्तम् ।
भ्रूविले भ्रूमध्ये ।
क्रमादिति स्वरादिषु सर्वत्र सम्बध्यते ।
अत्र एतन्मन्त्रोक्तक्रमादित्यर्थः ।
सृष्टाविति ।
सर्गावसाना भूतलिपिरिति शेषः ।
स्थितौ बिन्दुसर्गावसानिकां तां क्रमान्न्यसेदिति सम्बन्धः ।
कः क्रम इत्यपेक्षायामाह वह्नीति ।
तत्र वह्न्यादीनामेकैकं वर्णं विन्यस्य पुनस्तेनैव क्रमेण न्यसेत् ।
तत्रायं क्रमः ।
उंः इंः ऋंः अंः ऌंः ओंः एंः औंः एंः औंः एंः इत्यादि ।
आगमोक्तेन कुलप्रकाशतन्त्रप्रोक्तेन ।
दीक्षितस्तावदिति लक्षम् ।
तत्र एको न्यासः एका आवृत्तिश्चेति क्रम इति साधकोत्तम इत्यनेनोक्तम् ॥ १८-२२ ॥
पूजयेदन्वहं देवीं पीठे प्रागीरिते सुधीः ।
वर्णाब्जेनासनं दद्यान्मूत्तीं मूलेन कल्पयेत् ॥ २३ ॥
देवीं सम्पूजयेत् तस्यामङ्गाद्यावरणैः सह ।
आदावङ्गावृतिः पश्चादम्बिकाद्याभिरीरिता ॥ २४ ॥
द्वितीया मातृभिः प्रोक्ता तृतीया द्व्यष्टशक्तिभिः ।
चतुर्थी पञ्चमी प्रोक्ता द्वाविंशच्छक्तिभिः पुनः ॥ २५ ॥
चतुःषष्ट्या स्मृता षष्ठी शक्तिभिर्लेकनायकैः ।
सप्तमी पुनरेतेषामस्त्रैः स्यादष्टमावृतिः ॥ २६ ॥
एवं पूज्या जगद्धात्री श्रीभूतलिपिदेवता ।
स्थानेषूक्तेषु विधिवदभ्यर्च्याऽङ्गानि पूजयेत् ॥ २७ ॥
अम्बिकावाग्भवी दुर्गा श्रीशक्तिश्चोक्तलक्षणाः ।
ब्राह्म्याद्याः पूर्ववत् पूज्याः कराली विकराल्युमा ॥ २८ ॥
पूजयेदिति ।
अत्र कश्चित् प्रागीरिते पीठे इत्युक्तेरष्टपत्र एव षोडशशक्तीनां द्विरावृत्त्या द्वात्रिंशन्मितानां चतुरावृत्त्या
चतुःषष्टिमितानामष्टावृत्त्या पूजनम्, अन्यथा पीठे प्रागीरिते इति व्याहन्येतेत्युवाच ।
तदसाम्प्रदायिकम् ।
तेषां मते अष्टावृतित्वं व्याहन्येत ।
आवृत्तिर्नाम सर्वत आवरणत्वेन पूजनम् ।
तदेकधा अष्टशक्तिपूजनेनैव जातम् ।
तदतिरिक्तद्वितीयावृत्तिश्चेत् पूज्यते आवृत्त्यन्तरमेव भवति ।
नतु तस्यास्तत्रान्तर्भावः ।
मन्त्रान्तरेषु न च दृष्टपूर्वम् ।
साम्प्रदायिकपक्षे तु पीठे प्रागीरिते इत्यस्यायमर्थः ।
प्रागुक्तपीठशक्तिपीठमन्त्रानत्रापि पूजयेदिति ।
इदं सर्वत्रानुसन्धेयम् ।
तथा च ग्रन्थकृन्महागणपतिपूजावसरे वक्ष्यति प्रागुक्ते पूजयेत् पीठे इति ।
तत्र यदि पूर्वेक्तमेकाक्षरगणपति निदीष्टम् अष्टदलमात्रपीठं गृह्यते तदा या षट्कोणादिषु पूजा
वक्ष्यते साऽनुपपन्ना स्यात् ।
ध्याने च त्रिकोणषट्कोणमातृकाम्बुजं यत् पीठमुक्तं तदप्यसङ्गतं स्यात् ।
यद्युच्येत प्रागुक्ते पीठे इति ध्यानोक्त इत्यर्थ इति तदा पीठशक्ति- पीठमन्त्रपूजाप्रापकवचनाभावात्
तत्पूजा न स्यादेवेत्यलम् ।
तेनात्राऽष्टदलं षोडशदलं भूपुरं चतुर्द्वारञ्च कृत्वा तत्र प्रागुक्ताः पीठशक्तीः सम्पूज्य
वर्णाब्जेनासनं दत्त्वा मूत्तीं मूलेन सङ्कल्प्य तत्र देवीमभ्यर्च्य केसरेषु यथापूर्वमङ्गानि चाभ्यर्च्य
तदुपरि दिग्दलेषु चतस्रोऽम्बिकाद्याः तदग्रे ब्राह्म्याद्याः षोडशदलादिषु कराल्याद्याः पूजयेदिति ।
वर्णाब्जेनेति ।
ह्सौः वर्णाब्जाय भूतलिपियोगपीठाय नमः इति प्रयोगः ।
तस्यां मूर्त्तौ ।
अङ्गादीत्यादिशब्दं विवृणोति आदावित्यादि ।
अङ्गावृतेः पूजास्थानमाह स्थानेष्विति ।
उक्तेषु तुर्येक्तेषु ।
विधिवदित्युक्त्या ध्यानानि ।
अम्बिकाद्येत्यादि शब्दं विवृणोति पूजयेदिति ।
आसां ध्यानं स्वस्वप्रकरणेऽनुसन्धेयम् ।
मातृपूजाध्यानमाह उक्तेति ।
उक्तलक्षणाः प्राक्पटलोक्तध्यानाः ।
पूर्ववदिति पूर्वेक्तस्थानेषु ॥ २३-२८ ॥
सरस्वतीश्रीदुर्गेषा लक्ष्मीश्रुत्यौ स्मृतिर्धृतिः ।
श्रद्धा मेधा मतिः कान्तिरार्या षोडश शक्तयः ॥ २९ ॥
खड्गखेटकधारिण्यः श्यामाः पूज्याः स्वलङ्कृताः।
विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली कुहूः पुनः ॥ ३० ॥
रुद्रा वीर्या प्रभा नन्दा स्यात् पोषा ऋद्धिदा शुभा ।
कालरात्रिर्महारात्रिर्भद्रकाली कपदीनी ॥ ३१ ॥
विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी ।
निशुम्भशुम्भमथिनी महिषासुरमदीनी ॥ ३२ ॥
इन्द्राणी चैव रुद्राणी शङ्करार्द्धशरीरिणी ।
नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ ३३ ॥
अम्बिका ह्लादिनी चैव द्वात्रिंशच्छक्तयः स्मृताः ।
चक्रहस्ताः पिशाचास्याः सम्पूज्याश्चारुभूषणाः ॥ ३४ ॥
द्व्यष्टशक्त्यादिशब्दान् विवृणोति करालीति ।
पूज्या इति षोडश दलेषु ।
रुद्रा वीर्येति पाठः ।
तेन रुद्रा सप्तमी वीर्या अष्टमी ।
प्रभा नवमी ।
नन्दा दशमी ।
शुभेति विशेषणं न शक्तिनाम ।
तदुक्तं संहितायाम्—-रुद्रा वीर्या प्रभा नन्दा पोषिणी ऋद्धिदा तथा ।
इति ।
दण्डिमुण्डिन्याविति ।
दण्डिनी मुण्डिनी इति शक्तिद्वयम् ।
" विकृतिर्दण्डिनी चैव " इत्युक्तेः ।
निशुम्भशुम्भमथनीत्येका ।
सम्पूज्या इति षोडशपत्राग्रतत्सन्धिषु ।
तदुक्तं संहितायाम्—-
पूर्वादिक्रमतः पूज्या दलाग्रेषु च सन्धिषु ।
इति ॥ २९-३४ ॥
पिङ्गलाक्षी विडालाक्षी समृद्धिर्वृद्धिरेव च ।
श्रद्धा स्वाहा स्वधाभिख्या मायासञ्ज्ञा वसुन्धरा ॥ ३५ ॥
त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी ।
सुरूपा बहुरूपा च स्कन्दमाताऽच्युतप्रिया ॥ ३६ ॥
विमला चामला पश्चादरुणी पुनरारुणी ।
प्रकृतिवीकृतिः सृष्टिः स्थितिः संहृतिरेव च ॥ ३७ ॥
सन्ध्या माता सती हंसी मदीका रञ्जिका परा ।
देवमाता भगवती देवकी कमलासना ॥ ३८ ॥
त्रिमुखी सप्तमुख्यन्या सुराऽसुरविमदीनी ।
लम्बोष्ठी चोद्ध्र्वकेशी च बहुशीर्षा वृकोदरी ॥ ३९ ॥
रथरेखाह्वया पश्चाच्छशिरेखा तथाऽपरा ।
गगनवेगा पवनवेगा च तदनन्तरम् ॥ ४० ॥
ततो भुवनपालाख्या ततः स्यान्मदनातुरा ।
अनङ्गाऽनङ्गमदना तथैवाऽनङ्गमेखला ॥ ४१ ॥
अनङ्गकुसुमा विश्वरूपाऽसुरभयङ्करी ।
अक्षोभ्यासत्यवादिन्यौ वज्ररूपा शुचिव्रता ॥ ४२ ॥
वरदाख्या च वागीशा चतुःषष्टिः समीरिताः ।
चापबाणधराः सर्वा ज्वालाजिह्वा महाप्रभाः ॥ ४३ ॥
दंष्टिरण्यश्चोर्द्ध्वकेश्यस्ता युद्धोपक्रान्तमानसाः ।
सर्वाभरणसन्दीप्ताः पूजनीयाः प्रयत्नतः ॥ ४४ ॥
स्वधेति अभिख्या यस्याः मायेति सञ्ज्ञा यस्याः सा इति विग्रहः ।
तथा चाचार्याः—-मायाभिख्या वसुन्धरा ।
इति ।
अन्यत्रापि—-श्रद्धा स्वाहा स्वधाख्या च मातृका च वसुन्धरा ।
इति ।
स्थितिः संहृतिरेव च इत्यत्र संस्थितिः स्थितिरेव च इति क्वचित् पाठः ।
अयमेव साम्प्रदायिकः ।
परेति शक्तिनाम ।
सुरेत्येका असुरविमदीनीत्यपरा ।
तदुक्तम् ।
ससप्तमुख्यथ सुरा तथाऽसुरविमदीनी ।
इति ।
तथा अपरेति शक्तिनाम ।
तदनन्तरं पवनवेगेति सम्बन्धः ।
असुरभयङ्करीति पदच्छेदः ।
अक्षोभ्या च सत्यवादिनी च इति विग्रहः ।
पूजनीयाः प्रयत्नत इति चतुरस्रान्तरग्रादि प्रादक्षिण्येन ।
तदुक्तं संहितायाम्—-एताः शक्तीश्च पूजयेत् ।
प्रादक्षिण्यक्रमेणैव ।
इति ॥ ३५-४४ ॥
लोकेशाः पूर्ववत् पूज्यास्तद्वद्वज्रादिकान्यपि ।
इत्थं यः पूजयेन्मन्त्री श्रीभूतलिपिदेवताम् ॥ ४५ ॥
श्रीवाण्योः स भवेद् भूमिर्देवैरप्यभिवन्द्यते ।
कमलैरयुतं हुत्वा राजानं वशमानयेत् ॥ ४६ ॥
उत्पलैर्जुहुयात् तद्वन्महालक्ष्मीः प्रजायते ।
पलाशकुसुमैर्हुत्वा वत्सरेण कविर्भवेत् ॥ ४७ ॥
राजीलवणहोमेन वनितां वशमानयेत् ।
मातृकोक्तानि कर्माणि कुर्यादत्रापि साधकः ॥ ४८ ॥
पूर्ववदिति तुर्येक्तवत् ।
तदुक्तं संहितायाम्—-
तद्बहिर्लेकपालांश्च भूबिम्बे पूजयेत् प्रिये ।
इति ।
तद्वदिति चतुर्थेक्तवत् ॥ ४५ ॥
तद्वदित्ययुतम् ।
उत्तरप्रयोगद्वयेऽपीयमेव सङ्ख्या ॥ ४६-४८ ॥
भूतलिप्या पुटीकृत्य यो मन्त्रं भजते नरः ।
क्रमोत्क्रमाच्छतावृत्या तस्य सिद्धो भवेन्मनुः ॥ ४९ ॥
मन्त्रान्तरस्यापि अनयैव सिद्धिमाह भूतेति ।
क्रमोत्क्रमात् पुटीकृत्येत्यन्वयः ।
सिद्धो भवेन्मनुरिति ।
स मन्त्रस्तस्य सिद्ध्यतीत्यर्थः ।
मासमात्रेणेति ज्ञेयम् ।
तदुक्तं कुलप्रकाशतन्त्रे—-मासमात्रं जपेन्मन्त्रं भूतलिप्यर्णसम्पुटम् ।
क्रमोत्क्रमात् सहस्रं तु तस्य सिद्धो भवेन्मनुः ॥ इति ।
यद्वा साध्यरिस्थानपतितः सिद्धस्थानगतमन्त्रफलं ददातीत्यर्थः ॥ ४९ ॥
सुषुप्तभुजगाकारां कुण्डलीं मध्यवर्त्मना ।
सङ्गमय परं स्थानं प्राणवित् तां परामृतैः ॥ ५० ॥
प्लावयेन्मूद्ध्र्न मूलान्तं योगोऽयं सर्वसिद्धिदः ।
अनया न्यस्तदेहस्तु तेजसा भास्करो भवेत् ॥ ५१ ॥
यन्त्रक्रिया विशेषांस्तु ज्ञात्वा कर्म्माणि साधयेत् ॥ ५२ ॥
मध्यवर्त्मनेति सुषुम्णामध्यमार्गेणेत्यर्थः मूद्ध्र्न परं स्थानं सङ्गमयेति ।
षट्चक्रभेदक्रमेण परं स्थानं द्वादशान्तं शिवगृहं प्रापय ।
प्राणविदित्यनेन योगीत्यूक्तम् ।
मूलान्तं मूलाधारपर्यन्तम् ।
परामृतैः प्लावयेदिति सम्बन्धः ।
अस्यान्यमन्त्राङ्गत्वमाह अनयेति ॥ ५०-५२ ॥
बिन्द्वाढ्यं गगनं तदेव शिवयुक् ज्ञानी चतुर्थ्या युतो
नत्यन्तो मनुरेष मध्यविहितः साध्यस्य बन्ध्वक्षरैः ।
पत्रेष्वक्षरशो हकारपुटितांस्तद्भूतवर्णान् लिखे-
च्छिष्टञ्चान्त्यदले विलिख्य मतिमान् वृत्तेन संवेष्टयेत् ॥ ५३ ॥
वियद्यन्त्रमाह बिन्द्विति ।
गगनं हः बिन्द्वाढ्यं हम् ।
तदेव सबिन्दुकं गगनम् ।
शिव एकारस्तद्युक् तेन हेम् ।
अत्रैकादश रुद्रा इति शिवशब्देन एकादशसङ्ख्या लक्षिता ।
तया चैकादशस्वरस्तेन एकारः शिवशब्दवाच्यः ।
ज्ञानीशब्दश्चतुर्थ्या युतः चतुर्थ्येक- वचनेन युतस्तेन ज्ञानिने ।
नत्यन्तो नमोऽन्त एष मनुर्मन्त्रः मध्यविहितः कणीकायां लेख्य इत्यर्थः ।
साध्यस्य विषादिग्रस्तदेवदत्तादेः बन्ध्वक्षरैः " सिद्धार्णा बान्धवा प्रोक्ताः " (२।१३१) इत्युक्तेः
सिद्धकोष्ठाक्षरैः सह पत्रेषु तद्भूतवर्णान् एतत्पटलोक्त—-व्योमभूतवर्णान् अक्षरशः प्रत्यक्षरं
हकारपुटितान् लिखेत् ।
अन्त्यं नवमम् अन्त्यदले तेन अष्टमदले व्योमभूतवर्णद्वयं प्रत्येकं हकारपुटितं लिखेत् ।
मतिमानित्यनेन सर्वाण्यक्षराणि सबिन्दुकानीत्युक्तम् ।
सर्वाक्षराणि सबिन्दुकानि इति सम्प्रदायविदः ।
देवदत्तस्य विषं हर हरेति क्रिया मध्ये लेख्या ॥ ५३ ॥
वियद्यन्त्रमिदं प्रोक्तं लाक्षाचन्दननिमीतम् ।
रोहिण्यामुदये राहोवीषघ्नं सर्वशान्तिदम् ॥ ५४ ॥
लाक्षा अलक्तकः ।
रोहिण्यामुदये राहोरिति ।
अत्र तात्कालिक नक्षत्रमुहूर्त्ते तत्तद्भूतग्रहोदये तत्तद्यन्त्रं लेखनीयम् ।
तत्र दिवसे नवमं रोहिणीमुहूर्त्तं रात्रावप्यष्टमं रोहिणीमुहूर्त्तम् ।
तत्र राहोरुदये ।
वायुभूतोदये राहोरुदयो भवति ।
यतः प्रतिराशौ पञ्चभूतोदयस्य नियतत्वात् नवग्रहोदयोऽप्यस्त्येव ।
यदुक्तम्—- प्राणाग्नीलाम्बुखात्मानः पवनाः स्युर्यथाक्रमम् ।
गुरुराहू भृगुकुजौ बुधार्कौ चन्द्रसूर्यजौ ॥
क्रमाच्चतुर्षु भूतेषु व्योम सर्वात्मकं भवेत् ।
इति ।
अन्यत्रापि—- गुरुराहू च वायव्ये चरतोऽग्नौ भृगुः कुजः ।
भूम्यां बुधरवी ज्ञेयौ जले चन्द्रशनैश्चरौ ॥
आकाशं सग्रहं विद्यादेवं सर्वेषु राशिषु ।
षष्ट्युत्तरैस्तु त्रिशतैः श्वासैरेका तु नाडिका ॥
पञ्चभिर्नाडिकाभिस्तु राशिरेकः प्रकीत्तीतः ।
दिनं मेषादिमीनान्तैरेकं द्वादशराशिभिः ॥
राशिष्वेतेषु भूतेषु विज्ञातव्या ग्रहोदयाः ।
एकैकस्मिन् भवन्त्यत्र राशौ भूतानि पञ्च च ॥
वायुर्वह्निस्तथा भूमिरापः खमिति पञ्चमम् ।
एकैकस्मिन् पञ्चसूक्ष्माण्युदयन्ति हि तेषु च ॥
सर्वेषामेव राशीनां वायव्याद्या तु नाडिका ।
द्वितीया नाडिकाऽऽग्नेयी तृतीया पाथीवी मता ॥
चतुर्थी वारुणी ज्ञेया व्योमाख्या पञ्चमी स्मृता ।
पूर्वेदयास्तु सर्वत्र सौम्याः पापास्त्वनन्तराः ॥
राहुः कुजो रविः सौरिरेते दक्षिणतः शुभाः ।
गुरुर्भृगुर्बुधश्चन्द्रः सव्ये सौम्याः शुभावहाः ॥
एवं राशिषु भूतेषु ग्रहोदय उदीरितः ।
इति ।
भूतोदयमन्त्यपटले वक्ष्यति ।
नक्षत्रमुहूर्त्तान्युक्तानि ज्योतिःशास्त्रे—-
आर्द्राऽश्लेषाऽनुराधा च मघा चैव धनिष्ठिका ।
पूर्वाषाढोत्तराषाढे अभिजिद्रोहिणी तथा ॥
ज्येष्ठा विशाखा मूलञ्च नक्षत्रं शततारका ।
उत्तरा पूर्वफल्गुण्यौ दिने पञ्चदश क्षणाः ॥
रात्रावार्द्रा तथा चाष्टौ पूर्वभाद्रपदादयः ।
पुनर्वसुक्षणः पुष्यः श्रुतिस्तिस्रः करादिकाः ॥
श्रुतिः श्रवणा ।
करादिका हस्तादिकाः तिस्रः हस्ताचित्रास्वात्यः एवमग्रेऽपि ज्ञेयम् ।
अन्ये तु यदा रोहिणीनक्षत्रे राहुर्भवति तदा कर्त्तव्यमित्याहुः ॥ ५४ ॥
यौ द्वौ साक्ष्यधरेन्दुखण्ड शिरसौ स्यातां क्रमात् ङेयुतं
कोपेशं नमसाऽन्वितं विरचयेन्मध्ये दलेष्वष्टसु ।
वायव्यान् यपुटान् विलिख्य विधिना शिष्टार्णमन्त्ये दले
यन्त्रं वायुगृहेण वेष्टितमिदं स्यात्तालपत्रे स्थितम् ॥ ५५ ॥
वायव्यं यन्त्रमाह यौ द्वाविति ।
अक्षि इकारः ।
" असव्यमविशेषोक्तौ " इति परिभाषणात् ।
अधर एकारः ।
इन्दुखण्डो बिन्दुः ।
अक्षि च अधरश्च अक्ष्यधरौ एताभ्यां सह वर्त्तमानौ साक्ष्यधरौ तौ च ताविन्दुखण्डशिरसौ चेति विग्रहः ।
क्रमादित्यस्ति तेन यिं येम् इति ।
कोपेशं ङेयुतं कोपेशाय ।
नमसान्वितं नमोयुक्तमिमं मन्त्रं मध्ये कणीकायां रचयेल्लिखेत् ।
वायब्यान् एतत्पटलोक्तवायुभूतवर्णान् विधिना यपुटान् अक्षरश इत्यर्थः ।
बिन्द्वन्तानित्यपि ।
वायुगृहेण " वृत्तं दिवस्तत् षड्बिन्दुलाञ्छितं मातरिश्वनः " इत्युक्तेः षड्बिन्दुलाञ्छितेन वृत्तेन वेष्टयेत् ।
अत्रापि पूर्ववत् कर्म लिखनीयम् ॥ ५५ ॥
स्वात्यां मन्दोदये यन्त्रं वायव्ये निखनेद् रिपोः ।
द्वार्युच्चाटनकृत् तस्य मृतिर्वा भवति ध्रुवम् ॥ ५६ ॥
स्वात्यां मन्दोदये इति ।
स्वातीनक्षत्रमुहूर्त्ते यदा मन्दस्य शनैश्चरस्य उदयः जलभूतोदय इत्यर्थः ।
रिपोर्द्वारि वायव्यं यन्त्रं निखनेदित्यन्वयः ॥ ५६ ॥
वह्नेर्बीजयुगं क्रमाच्छ्रवणसद्यार्द्धेन्दुयुक् स्यात् स्वरौ
रीः फठृन्मनुरेष मध्यविहितः पत्रेषु वह्न्युद्भवान् ।
वर्णान् वह्निनिरोधितान् प्रविलिखेत् साध्याक्षरैः पोषकै-
रन्त्यञ्चाऽन्त्यदले कृशानुपुरगं भूर्जेदरे कल्पितम् ॥ ५७ ॥
आग्नेयमाह वह्नेरिति ।
श्रवण उ सद्य ओ अर्द्धेन्दुबीन्दुः ।
क्रमादेतद्युक्तं वह्नेर्बीजयुगं रेफद्वयं तेन रुं रोम् इति ।
अन्यत् स्वरूपं हृन्नमःपदम् ।
एष मनुर्मन्त्रः मध्यविहितः काणीकास्थः ।
वह्निनिरोधितान् रेफपुटितान् प्रत्यक्षरमिति ज्ञेयम् ।
अत्र रोध एकाक्षरत्वात् सम्पुटे पर्यवस्यति ।
साध्याक्षरैः पोषकैः साध्यस्य पोषकाक्षरैः " सुसिद्धाः पोषका ज्ञेयाः " इत्युक्तेः सुसिद्धकोष्ठाक्षरैरित्यर्थः ।
कृशानुपुरगं सस्वस्तिकत्रिकोणमध्यगं घातकाक्षरमिश्रं पोषकाक्षरस्थानमित्यर्थः ॥ ५७ ॥
शुभवारर्क्षसंयोगे लाक्षाकुङ्कुमनिमीतम् ।
रक्षाकृत् सर्वभूतानां यन्त्रमाग्नेयमीरितम् ॥ ५८ ॥
घातकाक्षरमिश्रं तत् कृत्तिकायां कुजोदये ।
चिताङ्गारेण तद्वस्त्रे लिखितं नाशयेद् रिपुम् ॥ ५९ ॥
" वैरिणो घातका मताः " इत्युक्तेः अरिकोष्ठाक्षराणि घातकाक्षराणि ।
कृत्तिकायां कृत्तिकानक्षत्रमुहूर्त्ते कुजोदये मङ्गलोदये वह्निभूतोदये इत्यर्थः ।
तद्वस्त्रे चितावस्त्रे ।
नाशयेदिति गृहादिनिखातम् ॥ ५८-५९ ॥
नासार्द्धेन्दुमदम्बु तन्मनुयुतं सार्द्धेन्दुर्ङेन्तो विधु-
वीध्वन्ते तु भुवे नमो निगदितो मध्ये मनुर्वारुणान् ।
वर्णान् पत्रपुटेषु वाक्षरपुटान् साध्यस्य बन्ध्वक्षरै-
रालिख्याप्यपुरेण वेष्टितमिदं यन्त्रं भवेद् वारुणम् ॥ ६० ॥
वारुणयन्त्रमाह नासेति ।
नासा ऋः अर्द्धेन्दुबीन्दुस्तद्युक्तम् अम्बु वः तेन वृ� ।
तदम्बु वः मनुरौ तद्युतं सार्द्धेन्दुः सबिन्दुः तेन वौम् ।
अत्र मनुशब्देन चतुर्दश मनव इति चतुर्दशसङ्ख्या लक्षिता ।
तया चतुर्दशस्वरः तेन औकारो मनुशब्दवाच्यः ।
ङेन्तो विधुवीधवे ।
विध्वन्ते विधुशब्दान्ते भुवे तेन विधुभुवे नम इति ।
अयं मनुर्मन्त्रः मध्ये कणीकायां निगदित उक्तः लेख्यत्वेनोक्त इत्यर्थः ।
वाक्षरपुटान् वकाराक्षरपुटितान् प्रत्यक्षरं सबिन्दुकान् ।
आप्यपुरेण पार्श्वद्वयपङ्कजद्वयसहितार्द्धेन्दुना ॥ ६० ॥
भूर्जपत्रे लिखेदेतत् रक्तचन्दनवारिणा ।
वरुणर्क्षेदये काव्ये यन्त्रं वश्यादिकृद्भवेत् ॥ ६१ ॥
वारुणर्क्षं शतभिषा तन्मूहूर्ते काव्ये शुक्रे उदिते वह्निभूतोदये इत्यर्थः ।
वश्यादीत्यादिशब्दात् आकर्षणमोहनादि ॥ ६१ ॥
गण्डो बिन्दुविभूषितो वसुमती स्यात्तादृशी गण्डयो-
र्मध्यस्थौ तु जगौ लुके नतिरिमं मन्त्रं लिखेन्मध्यतः ।
लान्तान् लार्णपुटीकृतान् वसुमतीवर्णान् दलेष्वालिखेत्
सेवावर्णयुतान् यथाविधि भुवो गेहेन संवेष्टयेत् ॥ ६२ ॥
पाथीवयन्त्रमाह गण्ड इति ।
बिन्दुभूषितो गण्डः ऌम् ।
वसुमती लकारः तादृशी बिन्दुमती तेन लम् ।
गण्डयोः वर्णयोः मध्यस्थौ जगौ वर्णौ ।
तत्र गण्डयोरिति ।
अत्र प्रथमं गकारमात्रम् उत्तरत्र परसवर्णयुक् ण्डकारः तेन गजगण्ड इति सिद्धम् ।
लुके स्वरूपम् ।
नतिर्नमः ।
इमं मन्त्रं मध्यतः कणीकायां लिखेत् ।
अत्रैकाक्षरन्यून- त्वाल्लान्तानीत्युक्तम् ।
तेनाष्टमे दले सबिन्दुलकारत्रयं लेख्यमित्यर्थः ।
लार्णपुटीकृतान् प्रत्यक्षरम् ।
सेवावर्णयुतान् " साध्यास्ते सेवकाः स्मृताः " (शा० २।१३१) इत्युक्तेः साध्यस्य साध्यकोष्ठाक्षरैरित्यर्थः ।
यथाविधीति सबिन्दुकानित्यर्थः ॥ ६२ ॥
ज्येष्ठायामुदिते सौम्ये मृदि गैरिकनिमीतम् ।
पाथीवयन्त्रमचिरात् सर्वत्र स्तम्भकृद्भवेत् ॥ ६३ ॥
गुह्याद् गुह्यतरां नित्यां श्रीभूतलिपिदेवताम् ।
यः सेवते शुभैः पुत्रैर्धनधान्यैश्च पूर्यते ॥ ६४ ॥
ज्येष्ठायां ज्येष्ठानक्षत्रमुहूर्त्ते सौम्ये बुधे उदिते भूमेरुदये इत्यर्थः ।
मृदि मृत्पात्रे ।
सर्वत्र स्तम्भकृदिति वाय्वग्निजलशुक्रखड्गधारासेनादिस्तम्भनं ज्ञेयम् ।
तत्र शुक्रादौ धारणं सेनादौ निखननमिति यथायथं सुधीभिर्बेध्यम् ॥ ६३-६४ ॥
अद्रिर्वरुणसंरुद्धो दवाग्वादिनि ठद्वयम् ।
वागीश्वर्या दशार्णेऽयं मन्त्रो वाग्विभवप्रदः ॥ ६५ ॥
एवं मातृकामन्त्रानुक्त्वा तद्भेदभूतान् सरस्वतीमन्त्रान् वक्तुकामो दशाक्षरं वाग्वादिनीमन्त्रमुद्धरति अद्रिरिति ।
अद्रिर्दकारः वरुणेन वकारेण संरुद्धः सम्पुटितः तेन वदव इति जातम् ।
दवाग्वादिनि स्वरूपम् ।
ठद्वयं स्वाहा ।
वाग्विभवौ प्रकर्षेण ददातीति वाग्विभवप्रद इति ।
अनेनास्य विनियोगं दर्शयता बहवो भेदाः सूचिताः ।
तदुक्तं सारस्वतमते—-
तारमायासम्पुटोऽयं महासारस्वतप्रदः ।
इति ।
वाग्बीजमायाद्य आचार्यस्तुतावुद्धृतः ।
वाग्बीजं भुवनेश्वरीं वदवदेत्युचार्य वाग्वादिनि
स्वाहा वर्णविशीर्णपातकभरां ध्यायामि नित्यां गिरम् ।
इति ।
वाग्बीजमायापुटित इति केचित् ।
मायाद्य इत्यन्ये ।
तन्त्रान्तरे केवल- वाग्भवाद्योऽप्युद्धृतः ।
अत्रैव शिवशक्तियोग इति केचित् ।
अपरे वैपरीत्यमपीच्छन्ति ।
प्रयोगसारे बालादिरप्युद्धृतः ।
पञ्चप्रणवपुटित एक आदौ मध्ये स्वाहादौ च बालाबीज- युतोऽपरः ।
वाग्भवपुटितसम्बोधनः परः ।
बालातार्त्तीयपुटितसम्बोधनोऽन्यः।
काम- बीजपुटितसम्बोधनः पञ्चमः ।
स्वाहादौ बलायुतः षष्ठः ।
एवमस्या अन्येऽपि भूयांसो भेदास्ते ग्रन्थगौरवभयान्नोक्ताः ।
स्वस्वगुरुसम्प्रदायात् ज्ञेयाः ।
तदुक्तमाचार्यैः स्तवे—-
आद्यन्त पञ्चप्रणवप्रभिन्नविद्येश्वरि प्रोज्ज्वलशूलहस्ते ।
भक्तद्विषां कार्मणयन्त्रविद्याः प्रत्यङ्गिरे त्वं जय संहरन्ति ॥
वीप्सावसाने समसायकेन युक्तां तदादावपि वाग्भवेन ।
सम्बोधनान्ते समनुद्विचन्द्रैवीद्योत्तमां देवि तवानतोऽस्मि ॥
मध्ये स्थितं वाग्भवबीजयोर्वा त्वन्नामसारस्वतसम्पुटं वा ।
जात्यापि मूकस्य हठात् कवित्वं वागीशि तन्नौमि यदातनोति ॥
कामेश्वरीसम्पुटिताय नित्यं नारीनराणामपि मोहकाय ।
कस्मैचिदस्मै सततं नमोऽस्तु त्वन्नामदेवाय गिरामधीशे ॥
यद्वालया पल्लवितं जडानां त्वन्नामरत्नं रसनाविराजि ।
उद्दामकाव्यप्रकरप्रभाभिरुद्भासतेऽस्मै नतिमातनोमि ॥ इति ।
अन्ये सम्बोधनान्ते वागीश्वरीति सम्बुद्धिमधिकामाहुः ।
एषां ध्यानविशेषा गुरुमुखात् ज्ञेयाः ॥ ६५ ॥
ऋषिः कण्वो विराट् छन्दो देवता वाक् समीरिता ।
शिरः श्रवणदृङ्नासावदनान्धुगुदेष्विमान् ।
न्यस्याऽर्णान् प्राग्वदङ्गानि मातृकोक्तानि कल्पयेत् ॥ ६६ ॥
ऋषिरिति ।
धिषणो वा ऋषिः ज्ञेयः ।
तदुक्तमीशानशिवेन—-
ऋषिस्तु धिषणो मतस्त्वथ परे च कण्वं विदुः ।
इति ।
वागिति बीजं स्वाहेति शक्तिः ।
ब्रह्म बीजं माया शक्तिः ।
जीवो बीजं बुद्धिः शक्तिः ।
उदानो बीजं कुण्डलिनी शक्तिः ।
इदं सूक्ष्मं बीजादित्रयं सर्वमन्त्रेषु ज्ञेयम् ।
तदुक्तं प्रयोगसारे—-
ईश्वरो जगतां बीजं शक्तिर्गुणमयी त्वजा ।
परमात्मा तथा बुद्धिर्वायुः कुण्डलिनीति च ॥
चतुवीधे बीजशक्ती सामान्यं त्रितयं त्विदम् ।
इति ।
मन्त्रतन्त्रप्रकाशेऽपि—-चतुवीधे बीजशक्ती सर्वमन्त्रेषु चिन्तयेत् ।
त्रितयं तत्र सामान्यं तदिदानीं निरूप्यते ॥
ईश्वरो जगतां बीजमाद्यं ब्रह्म तदुच्यते ।
तस्य माया समाख्याता शक्तिर्गुणमयी तु या ॥
स एव भगवान् देवो बुद्धिसाक्षी द्वितीयकम् ।
बीजमत्र समाख्यातं बुद्धिः शक्तिरुदाहृता ।
उदानश्चित्समायुक्तस्तृतीयं बीजमुच्यते ।
शक्तिः कुण्डलिनी तत्र सामान्यं त्रितयन्त्विदम् ॥
ज्ञातव्यं सर्वमन्त्रेषु बीजशक्ती ततो निजे ॥ इति ।
अन्धिति लिङ्गम् ।
प्राग्वदिति चतुर्थेक्तप्रकारेण ।
जातियुक्तानि ।
अं कं खं गं घं ङम् आं हृदयाय नम इत्यादि ।
सम्प्रदायविदस्तु अन्यथाऽङ्गानि मन्यन्ते ।
ॐ ह्रां वद ऋग्वेद हृत् ।
ॐ ह्रीं वद यजुर्वेद शिरः ।
ॐ ह्रूं वाक् सामवेद शिखा ।
ॐ ह्रैं वादिनि अथर्ववेद वर्म ।
ॐ ह्रौं स्वाहा षडङ्गं नेत्रम् ।
ॐ ह्रः समस्त मन्त्रमुच्चार्य पुराण- न्यायमीमांसाधर्मशास्त्रेतिहासकल्पगाथानाराशंसीरिति अस्त्रम् ।
तदुक्तं सारस्वतमते—-
यमनेत्रधरा वह्नियुगलार्णैर्मनोः क्रमात् ।
ह्नामाद्यैश्चैव वेदाद्यैरङ्गैरङ्गानि कल्पयेत् ॥ इति ।
पद्मपादाचार्यास्तु मातृकाङ्गास्ते वदहृदयाय नम इत्याद्यूचुः ॥ ६६ ॥
तरुणशकलमिन्दोबीभ्रती शुभ्रकान्तिः
कुचभरनमिताङ्गी सन्निषणा सिताब्जे ।
निजकरकमलोद्यल्लेखनीपुस्तकश्रीः
सकलविभवसिद्ध्यै पातु वाग्देवता नः ॥ ६७ ॥
तरुणेति ।
तरुणशकलं बालखण्डम् ।
करकमलेत्युपमितसमासः ।
दक्षे लेखनी वामे पुस्तकमित्यायुधध्यानम् ॥ ६७ ॥
दशलक्षं जपेन्मन्त्रं दशांशं जुहुयात्ततः ।
पुण्डरीकैः पयोभ्यक्तैस्तिलैर्वा मधुराप्लुतैः ॥ ६८ ॥
मातृकोदीरिते पीठे वागीशीमर्चयेत् सुधीः ।
वर्णाब्जेनासनं दद्यान्मूत्तीं मूलेन कल्पयेत् ॥ ६९ ॥
सुधीरित्यनेनावाहनादिश्लोकेषु स्त्रीलिङ्गयोग उक्तः ।
पीठमन्त्रमुद्धरति वर्णाब्जे नेति ।
ह्सौः वाग्वादिनीयोगपीठाय नम इति प्रयोगः ॥ ६८-६९ ॥
आदावङ्गानि सम्पूज्य पश्चाच्छक्तीरिमा यजेत् ।
योगा सत्या च विमला ज्ञाना बुद्धिः स्मृतिः पुनः ॥ ७० ॥
मेधा प्रज्ञा च पत्रेषु मुद्रापुस्तकधारिणीः ।
दलाग्रेषु समभ्यर्च्या ब्राह्म्याद्यास्ता यथाविधि ॥ ७१ ॥
लोकपाला बहिः पूज्यास्तेषामस्त्राणि तद्बहिः ।
एवं सम्पूजयेन्मन्त्री जपहोमादितत्परः ॥ ७२ ॥
ब्रह्मचर्यरतः शुद्धः शुद्धदन्तनखादिकः ।
संस्मरन् सर्ववनिताः सततं देवताधिया ॥ ७३ ॥
पश्चाच्छक्तीरिति ।
पश्चादिति चतुर्थावरणे ।
तेनादावङ्गावृतिः कणीकायाम् ।
द्वितीया स्वरद्वन्द्वाष्टकेन ।
तृतीयाऽष्टवर्गैः ।
चतुर्थी योगादिशक्तिभिः दक्षिणादित इति यावत् ।
तासां ध्यानमुक्तमीशानशिवेन—-
सपुस्तकजपस्रजो विमलहारमत्युज्ज्वलाः
शशाङ्कसदृशप्रभाः प्रतिदलस्थिताः शक्तयः ।
चतुर्थवृतिगा यजेत् कथितदक्षिणाशादिकाः ॥ इति ।
आचार्यास्तु—- मातृकोक्तविधिनाऽक्षराम्बुजे ।
इति ।
यथाविधीति पूर्वपटलोक्तध्यानाः ।
बहिश्चतुरस्रे ॥ ७०-७३ ॥
कवित्वं लभते धीमान् मासैर्द्वादशभिर्ध्रुवम् ।
पीत्वा तन्मन्त्रितं तोयं सहस्रं प्रत्यहं जपेत् ॥ ७४ ॥
महाकविर्भवेन्मन्त्री वत्सरेण न संशयः ।
उरोमात्रे जले स्थित्वा ध्यायन्मार्त्तण्डमण्डले ॥ ७५ ॥
स्थितां देवीं प्रतिदिनं त्रिसहस्रं जपेन्मनुम् ।
लभते मण्डलात् सिद्धिं वाचामप्रतिमां भुवि ॥ ७६ ॥
पलाशबिल्वकुसुमैर्जुहुयान्मधुरोक्षितैः ।
समिद्भर्वा तदुत्थाभिर्यशः प्राप्नोति वाक्पतेः ॥ ७७ ॥
होमोऽयं सर्वसौभाग्यलक्ष्मीवश्यप्रदो भवेत् ।
राजवृक्षसमुद्भूतैः प्रसूनैर्मधुराप्लुतैः ॥ ७८ ॥
तत्समिद्भश्च जुहुयात् कवित्वमतुलं लभेत् ।
एवं दशाक्षरी प्रोक्ता सिद्धये वाचमिच्छताम् ॥ ७९ ॥
धीमान् तन्मन्त्रितं तोयं पीत्वा द्वादशभिर्मासैः ध्रुवं कवित्वं लभते इत्यन्वयः ।
धीमानित्यनेन सप्तवाराभिमन्त्रणं हस्तेन पिधानं सप्तवारं पानञ्च सूचितम् ।
पाने पूर्वेक्तध्यानमनुसन्धेयम् ।
मण्डलादित्येकोनपञ्चाशद्दिवसैरित्यर्थः ।
सर्वसौभाग्यलक्ष्मीवश्यप्रद इति ।
अत्र सौभाग्यवश्ययोर्बालादित्वं लक्ष्म्यै श्रीबीजादित्वम् एवं पापविमुक्तौ नृसिंहबीजादि- त्वमपि ज्ञेयम्
इति पद्मपादाचार्याः ।
राजवृक्षः श्योनाकः ।
कल्पाद् यन्त्रमुच्यते—-
वाग्बीजगर्भनरमालिख पङ्क्तियन्त्र-
पत्रेषु मन्त्रलिपयो लिपिभिः परीतम् ।
आदिक्षकावधिभिरिष्टफलप्रदं तद्-
यन्त्रं भवेत् करधृतं कविताकरञ्च ॥ इति ॥ ७४-७९ ॥
हृदयान्ते भगवति वदशब्दयुगं ततः ।
वाग्देवि वह्निजायान्तं वाग्भवाद्यं समुद्धरेत् ॥ ८० ॥
मनुं षोडशवर्णाढ्यं वागैश्वर्यफलप्रदम् ।
मनोः षड्भिः पदैः कुर्यात् षडङ्गानि सजातिभिः ॥ ८१ ॥
मन्त्रान्तरमुद्धरति हृदयेति हृदयान्ते नमोऽन्ते ।
भगवति स्वरूपम् ।
अत्र नमः शब्दविसर्गस्य रोरुत्वे गुणे च ओकार इति ज्ञेयम् ।
वदशब्दयुगं वद वद ।
वाग्देवि स्वरूपम् इति ।
वदेति शेषः ।
कीदृक् मनुः ।
वह्निजाया स्वाहा अन्ते यस्य वाग्भवं वाग्बीजम् एतदाद्यं यस्य ।
अत्र हसयोगोऽपीति केचित् ।
वैपरीत्यमित्यन्ये ।
वागैश्वर्य फलप्रदमित्यनेन विनियोगं वदता श्रीबीजादित्वमपि सूचितम् ।
अत्र बीजशक्ती पूर्वेक्ते ज्ञेये ।
ऋष्यादिकमपि पूर्वेक्तमेव ।
षड्भिः पदैरिति बीजमाद्यं पदं वदवदेति तुर्यम् ।
अन्ये तु वदवदेति पदद्वयं प्रतिपदमादौ वाग्बीज योगमाहुः ॥ ८०-८१ ॥
शुभ्रां स्वच्छविलेपमाल्यवसनां शीतांशुखण्डोज्ज्वलां
व्याख्यामक्षगुणं सुधाढ्यकलशं विद्याञ्च हस्ताम्बुजैः ।
बिभ्राणां कमलासनां कुचनतां वाग्देवतां सुस्मितां
वन्दे वाग्विभवप्रदां त्रिनयनां सौभाग्यसम्पत्करीम् ॥ ८२ ॥
शुभ्रामिति ।
व्याख्या व्याख्यानमुद्रा ।
तल्लक्षणं यथा—-
श्लिष्टाग्रेऽङ्गुष्ठतर्जन्यौ प्रासार्यान्याः प्रदर्शयेत् ।
प्रयोज्याऽभिमुखं सैषा मुद्रा व्याख्यानसञ्ज्ञिता ॥ इति ।
अक्षगुणम् अक्षमालाम् ।
विद्यां पुस्तकम् ।
दक्षोर्द्धतो वामोर्द्धपर्यन्तम् आयुधध्यानम् ।
कमलासनामिति श्वेतकमलस्थानम् ॥ ८२ ॥
हृविष्याशी जपेत् सम्यक् वसुलक्षमनन्यधीः ।
दशांशं जुहुयादन्ते तिलैराज्यपरिप्लुतैः ॥ ८३ ॥
मातृकोक्ते यजेत् पीठे देवीं प्रागीरितक्रमात् ।
पिबेत्तन्मन्त्रितं तोयं प्रातःकाले दिने दिने ॥ ८४ ॥
विद्वान् वत्सरतो मन्त्री भवेन्नास्ति विचारणा ।
अभिषिञ्चेज्जलैर्जप्तैरात्मानं स्नानकर्मणि ॥ ८५ ॥
तर्पयेत्तां जलैः शुद्धैरतिमेधामवाप्नुयात् ।
पुष्पगन्धादिकं सर्वं तज्जप्तं धारयेत् सुधीः ।
सभायां पूज्यते सद्भर्वादे च विजयी भवेत् ॥ ८६ ॥
सम्यगिति वक्ष्यमाणः पुरश्चरणनियम उक्तः ।
वसुलक्षमष्टलक्षम् ।
अनन्यधीर्मन्त्रार्थदत्तमनाः ।
तदुक्तम्—-
जपतु मन्त्रमनन्यसंस्मृतिर्यथाविधिः ।
इति ।
प्रागीरितेति दशाक्षर्युक्तमार्गेण ।
पिबेदिति पूर्वेक्तमनुसन्धेयम् ।
पुष्पगन्धादिक- मित्यत्र कामादित्वं ज्ञेयम् ।
तज्जप्तमिति सप्तवारम् ।
अभिषिञ्चेदित्यादि अवाप्नुयादि- त्यन्तमेकः प्रयोगः ॥ ८३-८६ ॥
तारो मायाऽधरो बिन्दुः शक्तिस्तारं सरस्वती ।
ङेऽन्ता नत्यन्तिको मन्त्रः प्रोक्त एकादशाक्षरः ॥ ८७ ॥
ब्रह्मरन्ध्रे भ्रुवोर्मध्ये नवरन्ध्रेषु च क्रमात् ।
मन्त्रवर्णान् न्यसेन्मन्त्री वाग्भवेनाऽङ्गकल्पना ॥ ८८ ॥
हंसवागीश्वरीमन्त्रमुद्धरति तार इति ।
तारः प्रणवः ।
माया भुवनेशीबीजम् ।
अधर ए बिन्दुश्च तेन वाग्भवम् ।
सरस्वती ङेन्ता सरस्वत्यै ।
नत्यन्तिको नमोऽन्तः ।
अत्र वाग्भवे ह्सयोगमाहुः ।
केचित् परे सह योगमिच्छन्ति ।
वाग्भवं बीजं माया शक्तिः ।
अन्ये प्रणवं बीजमाहुः ।
ऋषिः पूर्वेक्तः ।
त्रिष्टुप् छन्दः ।
हंसवागीश्वरी देवता ।
नवरन्धेरषु कर्णनेत्रनासाद्वयमुखलिङ्गगुदेषु ।
मन्त्री क्रमादित्यनेनोक्तम् ।
वाग्भवेनेति तारमायासम्पुटेनेति परमगुरवः ।
अन्ये तु वाग्भवाद्येन षड्दीर्घयुक्त मायाबीजेनेत्याहुः ॥ ८७-८८ ॥
वाणीं पूर्णनिशाकरोज्ज्वलमुखीं कर्पूरकुन्दप्रभां
चन्द्रार्द्धाङ्कितमस्तकां निजकरैः सम्बिभ्रतीमादरात् ।
वीणामक्षगुणं सुधाढ्यकलशं विद्याञ्च तुङ्गस्तनीं
दिव्यैराभरणैवीभूषिततनुं हंसाधिरूढां भजे ॥ ८९ ॥
वाणीमिति ।
क्वचिन्मुद्रामिति पाठः ।
यदा विद्यामिति पाठः तदा आयुधध्यानं पूर्ववत् ।
द्वितीयपाठे दक्षोर्द्धादि अक्षस्रक्-मुद्रे अन्यत्रान्ये ॥ ८९ ॥
जपेद् द्वादशलक्षाणि तत्सहस्रं सिताम्बुजैः ।
नागचम्पकपुष्पैर्वा जुहुयात् साधकोत्तमः ॥ ९० ॥
साधकोत्तम इत्यनेन जपाव्यवधानेन नियमस्थ एव होमं कुर्यादित्युक्तम् ।
वर्णाब्जेनेति ह्सौः हंसवागीश्वरीयोगपीठाय नम इति प्रयोगः ॥ ९० ॥
मातृकोक्ते यजेत् पीठे वक्ष्यमाणक्रमेण ताम् ।
वर्णाब्जेनासनं कुर्यान्मूत्तीं मूलेन कल्पयेत् ॥ ९१ ॥
देव्या दक्षिणतः पूज्या संस्कृता वाङ्मयी ततः ।
प्राकृता वामतः पूज्या वाङ्मयी सर्वसिद्धिदा ॥ ९२ ॥
पूज्या संस्कृतेति ।
एतयोर्ध्यानमुक्तं सारस्वतमते—-
दक्षिणे संस्कृता पूज्या योगमुद्राकरद्वया ।
सततं निःसरच्छब्दवदनाऽन्या च वामतः ॥ इति ॥ ९१-९२ ॥
इष्ट्वा पूर्ववदङ्गानि प्रज्ञाद्याः पूजयेत्ततः ।
प्रज्ञा मेधा श्रुतिः शक्तिः स्मृतिर्वागीश्वरी मतिः ॥ ९३ ॥
स्वस्तिश्चेति समाख्याता ब्रह्म्याद्यास्तदनन्तरम् ।
लोकेशानर्चयेद् भूयस्तदस्त्राणि च तद्बहिः ॥ ९४ ॥
इति सम्पूजयेद्देवीं साक्षाद्वाग्वल्लभो भवेत् ।
दशाक्षरीसमुक्तानि कर्माण्यत्रापि साधयेत् ।
पूजनं पूर्ववत् कुर्यादत्रापि साधकोत्तमः ॥ ९५ ॥
पूर्ववदिति तुर्येक्तरीत्या केसरेषु ।
वाग्वल्लभ इत्यनेन विनियोग उक्तः ॥ ९३-९५ ॥
वाचस्पतेऽमृते भूयः प्लुवः प्लुरिति कीर्त्तयेत् ।
वागाद्यो मुनिभिः प्रोक्तो रुद्रसङ्ख्याक्षरो मनुः ॥ ९६ ॥
कुर्यादङ्गानि विधिवद्वागाद्यैः पञ्चभिः पदैः ।
मातृकां विन्यसेत् पूर्वं पूर्ववत्तां यथाविधि ॥ ९७ ॥
मन्त्रान्तरमुद्धरति वाचेति ।
वागाद्यो वाग्भवाद्यः ।
एकादशाक्षर इत्युक्तेः अमृते परे पूर्वेण सन्धिः न मन्त्रे ।
तदुक्तं नारायणीये—-
वाक्कूर्मः पार्श्वयुक् शुक्रं ते केशान्ते मृते प्लुवः ।
प्लुरन्ता दशवर्णेयं विद्या मुख्या सरस्वती ॥ इति ।
एं बीजं प्लुः शक्तिः ।
पूर्वेक्तमृष्यादिकं कुर्यादिति ।
अत्र वाग्भवेन हृत् अन्यैश्चतुभीः पदैश्चत्वार्यङ्गानि ।
विधिवदिति ।
अनेन समस्तेनास्त्रमित्युक्तं भवति ।
ननु पञ्चभिः पदैः कुर्यादङ्गानि इत्युक्तेरत्र पञ्चाङ्गमेवास्तीति केचित् ।
नैतत् सारम् ।
यतः कुर्यादङ्गानीति विधिना षडङ्गमेव प्राप्तम् ।
तत्कथनाकाङ्क्षायां पञ्चभिः पदैरित्युक्तिः ।
वागाद्यैरिति क्रमार्थम् ।
पदैरित्येतावत्युच्यमानेऽत्र षट् तानि कथमिति सन्देह एव स्यात् ।
तत्र गोपनेन व्यस्तसमस्तं बोधयितुं विधिवदित्युक्तिः पञ्चभिरित्यनेन प्रधानबाधायोगाच्च ।
किञ्च यत्र तथैवेष्टं तत्र तथैव विधास्यति ।
मन्त्रस्य पञ्चाङ्गमिति कल्पयेदित्यादिना ॥ ९६-९७ ॥
आसीना कमले करैर्जपवटीं पद्मद्वयं पुस्तकं
बिभ्राणा तरुणेन्दुबद्धमुकुटा मुक्तेन्दुकुन्दप्रभा ।
भालोन्मीलितलोचना कुचभराक्रान्ता भवद्भूतये
भूयाद् वागधिदेवता मुनिगणैरसेव्यमानाऽनिशम् ॥ ९८ ॥
कमले इति सिते ।
दक्षाधस्ताद्वामाधः पर्यन्तमायुधध्यानम् ॥ ९८ ॥
रुद्रलक्षं जपेन्मन्त्रं दशांशं जुहुयाद् घृतैः ।
मातृकाकल्पिते पीठे पूजयेत्तां यथा पुरा ॥ ९९ ॥
पलाशकुसुमैर्हुत्वा परां सिद्धिमवाप्नुयात् ।
कदम्बकुसुमैस्तद्वत् फलैः श्रीवृक्षसम्भवैः ॥ १०० ॥
अचिराच्छिरयमाप्नोति वाचां कुन्दसमुद्भवैः।
नन्द्यावर्त्तप्रसूनैर्वा हुत्वा वाग्वल्लभो भवेत् ॥ १०१ ॥
रुद्रलक्षमेकादशलक्षम् ।
यथा पुरेत्येकादशाक्षर्युक्तमार्गेण ।
तद्वदिति वाक्- सिद्धिमाप्नुयादित्यर्थः ।
अचिराद् वाचां श्रियं वाक्सम्पदं प्राप्नोतीति सम्बन्धः ।
नन्द्यावर्त्ते गन्धतगरः ।
वेति कुन्दसमुद्भवैरित्यनेन विकल्पः ॥ ९९-१०१ ॥
ब्राह्मीरसे वचाकल्के कपिलाज्यं पचेज्जपन् ।
पिबेद्दनादौ तन्नित्यं सर्वशास्त्रार्थविद्भवेत् ॥ १०२ ॥
अनया विद्यया जप्तं ब्राह्मीपत्रं प्रभक्षयेत् ।
न विस्मरति मेधावी श्रुतान् वेदागमान् पुनः ।
बहुना किमियं विद्या जपतां कामदो मणिः ॥ १०३ ॥
ब्राह्मीरस इति ।
अत्रापि स्वरसपाक इति कृत्वा घृतस्याष्टमांशः स्वकल्कः घृत चतुर्गुणो ब्राह्मीरसः ।
अन्यत् पूर्ववत् ।
वचाकल्प इति क्वचित् पाठः ।
जपन् पचेदिति सम्बन्धः ।
अनया विद्यया जप्तं सप्तवासरमिति शेषः ।
नित्यं दिनादौ पिबेदिति त्रिवर्षं पञ्चवर्षं वा ।
अनया विद्ययेत्यादि सर्वं ब्राह्मीपत्रेऽपि योजनीयम् ।
सर्वेत्यादि मेधावीत्यादि उभयमुभयस्य फलं समयप्रमाणभेदेन ।
तदुक्तं नारायणीये—-
ब्राह्मीरसस्य कपिलाज्ययुतं प्रभाते जप्तं तया पिबति यश्चुलुकं त्रिवर्षम् ।
एकोदितं स खलु धारयति त्रिरुक्तं पञ्चाब्दतो मुखधृतं न तु विस्मरेत्तत् ॥
तत्पल्लवादनमपि स्मृतमेवम् ।
इति ।
कामदो मणिरिति ।
अनेनैतत् सूचितम् ।
एतत्जप्तं सुवीरजमपास्यति नेत्ररोगम् ।
इति ।
मूत्राशी तिथिलक्षं जप्त्वा योङ्कोल्लसपीषा जुहुयात् ।
अष्टसहस्रं वेति स भूतं भव्यं भविष्यच्च ।
इत्यादिकम् ॥ १०२-१०३ ॥
तोयस्थं शयनं विष्णोः सकेवलचतुर्मुखः ।
बिन्द्वार्घीशयुतो वह्निबीन्दुसद्योऽम्बुमान् भृगुः ॥ १०४ ॥
उक्तानि त्रीणि बीजानि सद्भः सारस्वताथीनाम् ।
अङ्गानि कल्पयेद् बीजैद्वीरुक्तैर्जातिसंयुतैः ॥ १०५ ॥
मन्त्रान्तरमुद्धरति तोयस्थमिति ।
विष्णोः शयनमनन्त आकारः ।
तोयस्थं वकारस्थं तेन वा ।
चतुर्मुखः ककारः सकेवलः स्वररहितः तेन वाक् ।
अयमेव मन्त्रांश इति केचित् ।
तदुक्तं नारायणीये—-
खड्गीशो यः प्रांशुकः सान्तवेधाः कर्णान्तस्थो यः सदण्डौ भुजङ्गः ।
साम्भो दन्तो बिन्दुमान् यो भृगुः स्युर्वागीश्वर्यास्त्रीणि बीजान्यमूनि ॥ इति ॥
तट्टीकाकारेण वागिति मन्त्रांश उक्तः ।
अन्ये तु चतुर्मुखः कः सकेवलः बिन्दुमान् तेन काम् ।
एवं सबिन्दुकस्य बीजत्वमुपपद्यत इति ते वदन्ति ।
सम्प्रदायविदस्तु पूर्वेद्धृतं यत् वाक्पदं तल्लक्षितं वाग्भवबीजमित्याहुः ।
एवं बीजत्वमप्युपपन्नं सारस्वतञ्च भवति ।
अन्ये तु प्रकारान्तरेण वाग्भवबीजोद्धारं कुर्वन्ति।
विष्णोस्तोयस्थं शयनम् आकारः कशब्देन शिरस्तेन अकारः इ इति स्वरूपम् ।
कश्च इश्चेति समासे के इति पदम् ।
कीदृक् शयनं सके केसहितं वलनं वलः सम्मेलनं तस्मिन् जाते चतुर्मुखः कः तेन शिरः ।
ततो बिन्दुरिति ।
अर्घीश ऊ वह्नी रेफः सद्य ओकारः अम्बु वकारः भृगुः सकारः ।
सारस्वताथीनामित्यनेन विनियोग उक्तः ।
आद्यं बीजम् अन्त्यं शक्तिः पूर्वेक्तमृष्यादिकम् ॥ १०५ ॥
मुक्ताहारावदातां शिरसि शशिकलालङ्कृतां बाहुभिः स्वै-
र्व्याख्यां वर्णाक्षमालां मणिमयकलशं पुस्तकञ्चोद्वहन्तीम् ।
आपीनोत्तुङ्गवक्षोरुहभरविनमन्मध्यदेशामधीशां
वाचामीडे चिराय त्रिभुवननमितां पुण्डरीके निषण्णाम् ॥१०६॥
मुक्तेति ।
व्याख्या व्याख्यानमुद्रा पूर्वेक्ता ।
दक्षोर्द्धतो वामोर्द्धपर्यन्तमायुध- ध्यानम् ॥ १०६ ॥
त्रिलक्षं प्रजपेन्मन्त्रं जुहुयात्तद्दशांशतः ।
पायसेनाज्यसिक्तेन संस्कृते हव्यवाहने ॥ १०७ ॥
वागीशीं पूजयेत् पीठे विधिना मातृकोदिते ।
प्राक्प्रस्तुतेन मार्गेण प्रत्यहं साधकोत्तमः ॥ १०८ ॥
व्याघातकुसुमैर्हुत्वा वाक्सिद्धिमतुलां लभेत् ।
जातिपुष्पैः सिताम्भोजैः सिक्तैश्चन्दनवारिणा ॥ १०९ ॥
नन्द्यावर्त्तैः शुभैः कुन्दैर्हुत्वा वाक्सिद्धिमाप्नुयात् ।
जपन् बीजत्रयं मन्त्री सभायां जयमाप्नुयात् ॥ ११० ॥
सितां वचां वा ब्राह्मीं वा जप्तां खादेद्दने दिने ।
मेधां काममवाप्नोति साधको नात्र संशयः ॥ १११ ॥
एवमुक्तेषु मन्त्रेषु दीक्षितो यतमानसः ।
एवं यो भजते भक्त्या स भवेद्भुक्तिमुक्तिभाक् ॥ ११२ ॥
विधिनेति वक्ष्यमाण श्वेतगन्धपुष्पादिना ।
प्राक्प्रस्तुतेनेति एकादशाक्षर्युक्त- मार्गेणेत्यर्थः ।
साधकोत्तमः सरस्वत्युपासकसमयस्थ इत्यर्थः ।
व्याघातो राजवृक्षः " आरग्वधो दीर्घफलो व्याघातश्चतुरङ्गुलः " इति कोषः ।
नन्द्यावर्त्तैर्गन्धतगरैः ।
शुभैः सुगन्धिभिरिति कुन्दविशेषणम् ।
काममत्यर्थम् ।
दीक्षित इति ग्रन्थकृदुक्त- प्रकारेणेत्यर्थः ॥ १०७-११२ ॥
सुसितैर्गन्धकुसुमैः पूजा सारस्वते विधौ ।
दूर्वा बीजाङ्कुरं पुष्पं राजवृक्षसमुद्भवम् ॥ ११३ ॥
उत्पलानि प्रशस्तानि सिन्धुवाराङ्कुराणि च ।
भजन् सरस्वतीं नित्यमेतानि परिवर्जयेत् ॥ ११४ ॥
आम्रातं गृञ्जनं बिल्वं करञ्जं लशुनन्तथा ।
तैलं पलाण्डं पिण्याकं शार्गाष्टमपि भोजने ॥ ११५ ॥
सर्वं पर्युषितं त्याज्यं सदा सारस्वताथीना ।
नाचरेन्निशि ताम्बूलं स्त्रियं गच्छेद्दवा न च ॥ ११६ ॥
न सन्ध्ययोः स्वपेज्जातु नाशुचिः किञ्चिदुच्चरेत् ।
प्रदोषेषु भवेन्मौनी दिग्वस्त्रां न विलोकयेत् ॥ ११७ ॥
न पुष्पितां स्त्रियं गच्छेन्न निन्देद्वामलोचनाम् ।
न मृषा वचनं ब्रूयान्नाक्रामेत् पुस्तकं सुधीः ॥ ११८ ॥
अक्षराढ्यानि पत्राणि नोपेक्षेत न लङ्घयेत् ।
चतुर्दश्यष्टमीपर्व प्रतिपद्ग्रहणेषु च ॥ ११९ ॥
सङ्क्रमेषु च सर्वेषु विद्यां नैव पठेद् बुधः ।
व्याख्याने सन्त्यजेन्निद्रामालस्यं जृम्भनं पुनः ॥ १२० ॥
सारस्वतसमयानाह सुसितैरिति ।
बीजाङ्कुरं यवाङ्कुरम् ।
सिन्धुवारो निर्गुण्डी ।
एतानि वक्ष्यमाणानि भोजने परिवर्जयेदिति सम्बन्धः ।
आम्रातम् अवार इति कान्यकुब्जभाषायाम् ।
गुञ्जनं गाजर इति प्रसिद्धम् ।
कलञ्जं कृष्णबीजः फलविशेषः कलिङ्गड। इति गुर्जरभाषायां खर्बुजा इति गौड।भाषायाम् ।
रोड इति कान्यकुब्ज- भाषायाम् ।
तैलं प्रत्यक्षं व्यञ्जनाद्यसम्पृक्तम् ।
शार्ङ्गाष्टं सिङ्घाड इति कान्यकुब्ज- भाषायाम् ।
साङ्गुष्ठमित्यपपाठः साङ्गुष्ठभोजनस्य विहितत्वात् ।
यदाहुः—-
दानं प्रतिग्रहो होमो भोजनं बलिरेव च ।
साङ्गुष्ठेन सदा कार्यमसुरेभ्योऽन्यथा भवेत् ॥ इति ।
सर्वं पर्युषितं घृतपक्वमपि ।
नाचरेन्निशि ताम्बूलमित्यस्यायमर्थः ।
रात्रौ मुखे ताम्बूलं कृत्वा न शयनं कार्यमित्यर्थः ।
स्मृतिरपि—- " ताम्बूलं वदनात् त्यजेत् " इति ।
दिग्वस्त्रां नग्नां स्वीयामपि ॥ ११३-१२० ॥
क्रोधं निष्ठीवनं तद्वन्नीचाङ्गस्पर्शनन्तथा ।
मनुष्यसर्पमार्जारमण्डूकनकुलादयः ॥ १२१ ॥
अन्तरा यदि गच्छेयुस्तदा व्याख्यां परित्यजेत् ।
निशासु दीपभ्रंशे च सद्यः पाठं परित्यजेत् ॥ १२२ ॥
ज्ञात्वा दोषानिमान् सम्यक् भक्त्या यो भारतीं भजेत् ।
वाचां सिद्धिमवाप्नोति वाचस्पतिरिवापरः ॥ १२३ ॥
॥ श्रीं ह्रीम् ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
सप्तमः पटलः समाप्तः ॥ ७ ॥
ब्थ् " बि
नीचाङ्गानि नाभ्यधोवर्त्तीनि ।
आदिशब्दात् पश्वादयः ॥ १२१-१२३ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां सप्तमः पटलः ॥ ७ ॥
ब्थ् " बि