अथ षष्ठः पटलः
अथ वर्णतनुं वक्ष्ये विश्वबोधविधायिनीम् ।
यस्यामनुपलब्धायां सर्वमेतज्जगज्जडम् ॥ १ ॥
दीक्षाकथनानन्तरं मन्त्रा वक्तव्या अतस्तेषां प्रकृतिभूतां मातृकां वक्तुं प्रतिजानीते अथेति ।
वर्णतनुं मातृकाम् ।
विश्वेषां सर्वेषां बोधानां ज्ञानशक्ति प्रसरात्मकानां तदुत्पादकानां वैखरीमध्यमापश्यन्तीपरारूपाणां
विधायिनी उन्मीलिनी शक्तिस्तामित्यर्थः ॥ १ ॥
ऋषिर्ब्रह्मा समुद्दष्टो गायत्री छन्द ईरितम् ।
सरस्वती समाख्याता देवता देशिकोत्तमैः ॥ २ ॥
समुद्दिष्ट इत्यनेन विधिपदयोगः ।
ईरितमित्यनेन देवीपदयोगः ।
समाख्याते- त्यनेन मातृकापदयोगः ।
पद्मपादाचार्यसम्मतमेतत् ।
देशिकोत्तमैरित्यनेन बीजशक्ती अपि वक्तव्ये इति सूचितम् ।
तत्र केचित् हलो बीजानि स्वराः शक्तयः ।
तदुक्तं दक्षिणामूत्तीसंहितायाम्—-
हलो बीजानि शक्तयः स्वराश्च परमेशानि ।
इति ।
एतएव बीजशक्ती प्रपञ्चयागव्यतिरिक्तभूतलिप्यन्तसर्वमातृकामन्त्राणामिति ज्ञेयम् ।
अन्यत्रान्ये बीजशक्ती उक्ते ।
यदाहुः—-
अकारं बिन्दुसहितं बीजमस्य प्रकीत्तीतम् ।
द्विबिन्दुसहितोऽकारः शक्तिरित्यभिधीयते ॥ इति ।
विनियोगस्तु मातृकामन्त्रजपकाले जपे विनियोग इति ।
अन्यत्र मन्त्राङ्गत्वेन न्यासेऽनुष्ठीयमानामुकमन्त्राङ्गत्वेन न्यासे विनियोग इति ज्ञेयम् ॥ २ ॥
अक्लीवह्रस्वदीर्घान्तर्गतैः षड्वर्गकैः क्रमात् ।
षडङ्गानि विधेयानि जातियुक्तानि देशिकैः ॥ ३ ॥
अक्लीबेति ।
क्लीबा नपुंसकाः ऋ ॠ ऌ ऌ तद्रहिताः अक्लीबा ये ह्रस्वदीर्घाः अ इ उ ए ओ अम् एते ह्रस्वाः परे षट् दीर्घाः
तदन्तर्गतैस्तन्मध्यस्थैः ।
षट् च ते वर्गाश्च काश्च ते ।
बहुवचनमाद्यर्थम् ।
कादयः क च ट त प यास्तैः, क्रमाद्धृदयादि ।
जातियुक्तानि हृदयाय नम इत्यादियुक्तानि ।
प्रयोगस्तु—-
अं कं खं गं घं ङम् आं हृदयाय नमः इत्यादि ।
देशिकैरित्यनेनैतदुक्तं भवति ।
अत्र नपुंसकचतुष्टयेन करशुद्धिं विधाय " अङ्गुष्ठादिष्वङ्गुलीषु न्यसेदङ्गैः सजातिभिः " इत्युक्तेः अं कं
खं गं घं ङम् आम् अङ्गुष्ठाभ्यां नम इत्यादि करतलकरपृष्ठान्तं षडङ्गानि विन्यस्य ततो
दक्षवामकरतलयोः तत्पृष्ठयोः करयोः दक्षिणकनिष्ठादिवामाङ्गुष्ठा- न्तमङ्गुलीषु षोडश स्वरान् विन्यस्य
वामतर्जनीमारभ्य दक्षिणतर्जन्यन्तमेकैकस्यां पर्वस्वग्रे चतुरश्चतुरो वर्णान् इति क्रमेण कादिसान्तान्
विन्यस्य अङ्गुष्ठयोः हलौ सर्वाङ्गेषु क्षकारं न्यसेदिति करस्य मातृकान्यासो ज्ञेयः ।
एवं सर्वत्र बोद्धव्यम् ।
यत् प्रयोगसारे—-तलतत्पृष्ठतद्व्याप्त्या षडादौ विन्यसेत्ततः ।
कनिष्ठाङ्गुलिमारभ्य दक्षिणास्वङ्गुलीषु च ॥
वामाङ्गुष्ठान्तकं न्यस्य ततश्च व्यञ्जनान्यपि ।
वामतर्जनीमारभ्य चतुष्टयचतुष्टयम् ॥
यथाङ्गुलिक्रमेणैव यावद्दक्षिणतर्जनीम् ।
न्यसेदङ्गुष्ठयोः शेषे करन्यासः समीरितः ॥ इति ॥ ३ ॥
पञ्चाशल्लिपिभिवीभक्तमुखदोःपन्मध्यवक्षःस्थलां
भास्वन्मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् ।
मुद्रामक्षगुणं सुधाढ्यकलशं विद्याञ्च हस्ताम्बुजै-
वीभ्राणां विशदप्रभां त्रिनयनां वाग्देवतामाश्रये ॥ ४ ॥
पञ्चाशदिति ।
विभक्तत्वं वक्ष्यमाणन्यासस्थानकथनेनैव स्फुटीभविष्यति ।
मुद्रा ज्ञानमुद्रा अङ्गुष्ठतर्जनीयोगरूपा पार्श्वाभिमुखी ।
यदाहुः—-
श्लिष्टाग्रेऽङ्गुष्ठतर्जन्यौ प्रसार्याऽन्याः प्रयोजयेत् ।
पार्श्वस्याभिमुखी सेयं ज्ञानमुद्रा प्रकीत्तीता ॥ इति ।
विद्यां पुस्तकं तन्मुद्रेत्यर्थः ।
वाममुष्टिः स्वाभिमुखी बद्धा पुस्तकमुद्रिका ॥ इति ।
विशदप्रभां शुभ्रवर्णाम् ।
इदं वस्त्राङ्गरागमाल्यानामुपलक्षकम् ।
एवमग्रेऽपि सर्वत्र वर्णवाचकेषु द्रष्टव्यम् ।
ऊर्द्धादि आद्ये दक्षिणे परे वामे इत्यायुधध्यानम् ।
अत्र ध्यानानन्तरमायुधमुद्राः प्रदर्शयेत् ।
एवमग्रेऽपि सरस्वतीमन्त्रान्तं ज्ञेयम् ।
प्रत्यक्षरध्यानं तन्त्रान्तरोक्तं यथा—-
(अ) चामीकरनिभः शूलगदाराजद्भुजाष्टकः ।
चतुरास्योऽतिकायः स्यादकारः कूर्मवाहनः ॥
(आ) पाशाङ्कुशकरा श्वेता पद्मसंस्थेभवाहना ।
षष्ट्यूर्द्धयोजनमिता स्यादा मौक्तिकभूषणा ॥
(इ) पीतं कराब्जकुलिशपरशुं वैरिनाशनम् ।
द्व्येकयोजनमानं स्यादिकारं कच्छपस्थितम् ॥
(ई) दशयोजनदीर्घार्द्धनाहाऽसौ हंसवाहना ।
ईः स्यात् पुष्टिप्रदा श्वेता मौक्तिकाढ्या सितानना ॥
(उ,ऊ) गदाङ्कुशकरं काकवाहनं कृष्णभूषणम् ।
योजनद्विसहस्राणां मानमुद्वयमक्षरम् ॥
(ऋ,ॠ) पाशशक्तिभुजं रक्तं वह्निबिम्बस्थितोष्ट्रगम् ।
उक्तप्रमाणं कालघ्नमॄवर्णद्वयं भवेत् ॥
(ऌ,ॡ) चतुरस्राब्जहंसस्थं पुष्परागसमप्रभम् ।
पाशवज्रकरं रौद्रम् ऌयुग्मं स्यान्निरोधनम् ॥
(ए) गदाफलारिपद्माढ्यकरं हारविभूषणम् ।
चक्रवाकस्थितं श्याममेकारं तु महद्भवेत् ॥
(ए) नवकुन्दनिभा शूलवज्रबाहा द्विपस्थिता ।
कोटियोजनमाना स्यादैमूत्तीः कविताकरी ॥
(ओ) चिन्मयं सर्वगं शान्तं द्विसहस्रकरोज्ज्वलम् ।
पीतं गोवृषसंस्थं स्यादोरूपं श्रीकरात्मकम् ॥
(औ) तप्तहेमनिभा पाशचक्रबाहुवीभूतिदा ।
योजनानां सहस्रेण स्यादौवर्णामितौजसा ॥
(अं) नवकुङ्कुमसञ्च्छायः पद्मस्थो रक्तभूषणः ।
चतुर्भुजः स्यादंवर्णः श्रीकरो रिपुनाशकः ॥
(अः) वज्रशूलकरं क्षुद्रं (युद्ध) फलदं खरवाहनम् ।
सहस्रयोजनमितं स्वरान्तं द्विभूजं स्मरेत् ॥
(क) भूबिम्बगजसंस्थः स्यान्नवकुङ्कुमसन्निभः।
शूलवज्रकरः कार्णः सहस्रद्वययोजनः ॥
(ख) पाशतोमरहस्तः खो मेषसंस्थो निरोधनः ।
योजनानां सहस्रेण मितः कृष्णो विभीषणः ॥
(ग) पाशाङ्कुशकरः पद्मे फणिसंस्थोऽरुणप्रभः ।
गकारः सर्पभूषः स्याच्छतयोजनसंस्थितः ॥
(घ) उष्ट्रोलूखनसंस्थः स्याद् गदावज्रकरोऽमितः ।
योजनानां सहस्रेण द्विमुखो घः सितेतरः ॥
(ङ) कोटियोजनदीर्घार्द्धनाहं कृष्णं ज्वलत्प्रभम् ।
द्विभुजं काकवाहं स्यात् ङार्णं क्षुद्रफलप्रदम् ॥
(च) युगाग्रपद्मसंस्थः स्याच्चतुर्बाहुः सितप्रभः ।
चः कपर्द्दी सुगन्धाढ्यः कोटियोजनसंस्थितः ॥
(छ) सितस्तावन्मितः पद्मे चतुर्बाहुश्छवर्णकः ।
(ज,झ) जझौ च कोटिमानौ स्तश्चतुर्बाहू सितप्रभौ ॥
(ञ) योजनानां सहस्रैः स्यात् सम्मितं काकवाहनम् ।
विद्वेषकरणं ञार्णं कृष्णवर्णं भुजद्वयम् ॥
(ट,ठ) क्रौञ्चस्थो द्विभुजष्टः स्यान्नागबद्धो महाध्वनिः ।
धरापद्मगजेन्द्रस्थष्ठवर्णे द्विकरोज्ज्वलः ॥
(ड) लक्षयोजनमानः स्याद् गरनाशकरो विभुः ।
डवर्णेऽप्यष्टबाहुः स्याच्चतुर्वक्त्रः स्वलङ्कृतः ॥
(ढ) योजनानां सहस्रेण मितः कुवलये स्थितः ।
अग्निबिम्बाजगो ढार्णे दशबाहुर्ज्वलत्प्रभः ॥
(ण) सहस्रमानं व्याघ्रस्थं योजनानां हि णं भवेत् ।
षष्टिहायनसंस्थः स्याच्चतुर्बाहुः स्वलङ्कृतः ॥
(त) सहस्रमानो गन्धाढ्यः कुङ्कुमाभश्च ताक्षरः ।
कोटियोजनमानः स्यादष्टबाहुश्चतुर्मुखः ॥
(थ) पीतवर्णा वृषारूढस्थवर्णेऽपि भयङ्करः ।
(द) द्विमुखं षड्भुजं कोटिमानं दं महिषस्थितम् ॥
(ध) सिंहवाहश्चतुर्बाहुर्धश्चतुर्लक्षसम्मितः ।
(न) द्विभुजं काकवाहं नं तत्सहस्रैमीतं भवेत् ॥
(प) विंशभुजो दशास्यः पः कोटिमानो वकस्थितः ।
(फ) दशकोटिमितः फार्णे योजनानां भुजद्वयः ॥
(ब) कण्ठीरवसिताम्भोजे निषणश्चञ्चलः सितः ।
षडास्यो द्विभुजो बः स्याद्दशकोटिमितोऽरुणः ॥
(भ) नीलोत्पललसद्धंसवाहनः पुष्टिदायकः ।
त्रिहस्तं त्रिमुखं व्याघ्रवाहनं भीषणाकृतिम् ॥
(म) दशलक्षमितं भार्णं धूम्राभं स्यान्महाबलम् ।
चतुर्भुजो मकारः स्यात् सविषोरगसन्निभः ॥
(य) मण्डितो मुण्डमालाभिः शशिखण्डविराजितः ।
व्याप्तश्चतुर्मुखो(र्भुजो)धूम्रो यार्णः स्यान्मृगसंस्थितः ॥
(र) त्रिकोणाम्बुजमेषस्थो रार्णे बाहुचतुष्टयः ।
चतुरस्राब्जदन्तीन्द्र पृष्ठेनोपरि राजिता ॥
(ल) चतुर्भुजा लकारस्य मूत्तीः स्याद् घुसृणप्रभा ।
(व) अब्धिस्थपद्मनक्रस्थो द्विभुजो वः सितः स्मृतः ॥
(श) करद्वयाब्जगा हेमवर्णा शार्णाकृतिस्तथा ।
(ष) सहस्रमानः कृष्णाभो द्विभुजः कार्मणेऽथ षः ॥
(ह) कोटिमानः सितः सः स्याद्धंसगो(द्धयाङ्गो)द्विभुजान्वितः ।
हार्णः श्वेतस्त्रिबाहुः स्याद् व्याप्तशीतांशुशेखरः ॥
(ऌह) पाशाभयकरा ऌहार्णमूत्तीः श्वेता गजस्थिता ।
भूबिम्बशैलसंस्थः क्षो दशबाहुर्मणिप्रभः ॥
(क्ष) मूत्तीभेदा यथाऽर्णानां मयाऽत्र प्रतिपादिताः ॥ इति ॥ ४ ॥
ललाटमुखवृत्ताक्षिश्रुतिघ्राणेषु गण्डयोः ।
ओष्ठदन्तोत्तमाङ्गास्यदोःपत्सन्ध्यग्रकेषु च ॥ ५ ॥
पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयेऽंसवो ।
ककुद्यंसे च हृत्पूर्वं पाणिपादयुगे तथा ॥ ६ ॥
जठराननयोर्न्यस्येन्मातृकार्णान् यथाक्रमात् ।
त्वगसृङ्मांसमेदोऽस्थिमज्जा शुक्रात्मकान् विदुः ॥ ७ ॥
वा(या)दिहा(सा)न्तान् न्यसेदात्मपरमज्ञानपूर्वकान् ।
दीक्षितः प्रोक्तमार्गेण न्यसेल्लक्षं समाहितः ॥ ८ ॥
जपेत् तत्सङ्ख्यया विद्वानयुतं मधुराप्लुतैः ।
विदधीत तिलैर्हेमं मातृकामन्वहं जपेत् ॥ ९ ॥
अक्षरन्यासस्थानान्याह ।
ललाटे केशान्ते ।
केशान्ताननवृत्त इत्युक्तेः ।
मुख- वृत्तेत्येकं स्थानम् ।
दक्षिणावर्त्तेन अक्ष्यादि गण्डान्तं दक्षादि ।
ओष्ठदन्तयोरूर्द्धादि ।
आस्ये तदन्तः जिह्वायामित्यर्थः ।
दोःपदोर्दक्षादि ।
दोःपत्सन्ध्यग्राणि च पञ्च शेषयो- रङ्गुलिसन्धित्वात् ।
पार्श्वयोर्दक्षादि ।
अंसक इति दक्षांसे ।
ककुदि ग्रीवायाम् ।
अंस इति वामे ।
हृतपूर्वं पाणिपादयुग इति स्थानचतुष्टयम् ।
जठराननयोरित्यत्रापि हृतपूर्वमिति सम्बध्यते ।
तदुक्तं मन्त्रमुक्तावल्याम्—-
हृदंसककुदंसेषु हृदादि करयोर्युगे ।
त्वगसृङ्मांसमेदोऽस्थिमज्जाभिर्यादिषान्तगान् ॥
हृदादिपादयुग्मे च तदाद्युदरके तथा ।
तदादि मूर्द्धनि प्राज्ञो न्यसेत् सादीन् कषान्तगान् ॥ इति ।
केचनोत्तरांसशब्देन कक्षाद्वयं व्याचक्षते ।
तेषां मते अंसद्वये वर्णद्वयं ककुद्येकं कक्षाद्वये वर्णद्वयं पाण्योर्युगे एकं पादयोर्युगे एकमिति न्यासः ।
अयं साम्प्रदायिकः ।
तदुक्तं दक्षिणामूत्तिसंहितायाम्—-
हृद्दोर्मूलेषु सन्न्यस्य तथापरगले न्यसेत् ।
कक्षाद्वये हृदारभ्य पाणिपादयुगे तथा ।
जठराननयोर्व्याप्त्या न्यसेदित्यर्णरूपिणीम् ॥ इति ।
आचार्या अपि—-हृद्दोर्मूलापरगलकक्षेषु ।
इति ।
तत्र प्रयोगः—-
अं नमः केशान्ते, आं नमः मुखवृत्ते इत्यादि ।
उक्तञ्च—- ओमाद्यन्तो नमोऽन्तो वा सबिन्दुबीन्दुवजीतः ।
पञ्चाशदक्षरन्यासः क्रमेणैव विधीयते ॥ इति ।
यथाक्रमादित्यनेनैतदुक्तं भवति ।
सौस्थानिकौत्थानिकस्नानभोजनानुष्ठानेषु लिपिवीन्यस्तव्येति ।
तत्र सौस्थानिके उक्तप्रकारेण एकपञ्चाशद्वर्णन्यासः ।
औत्थानिके सप्तवर्गाणां मुखबाहुपादद्वयनाभिहृत्सु व्यापकत्वेन न्यासः ।
तद्देवताः ब्रह्मसरस्वती- विष्णुश्रीरुद्रोमासर्वेश्वराः ।
स्नाने अकथादिवर्गत्रयस्य मुखमध्यपादेषु न्यासः ।
एत- द्देवताः चन्द्रसूर्याग्नयः ।
भोजनकाले समस्तस्य मस्तकादिपादान्तो न्यासः ।
देशकालाद्यपेक्षया सर्वत्र प्रयोक्तव्या इति ।
(त्वगसृगित्यादि पूर्वकानित्यन्तं श्लोकार्द्ध- द्वयं केषुचित् पुस्तकेषु नास्ति) ।
तत्सङ्ख्यया लक्षसङ्ख्यया ।
एकवारं न्यासं कृत्वा एकवारं जपेदित्यर्थः ।
समाहित इत्यनेन कृतपुरश्चरणधर्म इत्युक्तम् ।
तदुक्तम्—-पञ्चाशद्वर्णमूत्तीं तामेवं ध्यात्वा सुविग्रहे ।
स्थानेषु क्रमतो न्यस्य पूर्वेक्तेषु जपेल्लिपिम् ॥
पञ्चाशत्सङ्ख्यया नित्यं यावल्लक्षं प्रपूर्यते ।
इति ।
मधुराप्लुतैरिति पयोघृतमधुयुक्तैः ।
तदुक्तं प्रयोगसारे—-
पयोमधुघृतञ्चेति समं त्रिमधुरं स्मृतम् ।
इति ॥ ५-९ ॥
व्योमेन्द्वौरसनार्णकणीकमचां द्वन्द्वैः स्फुरत्केशरं
पत्रान्तर्गतपञ्चवर्गयशलार्णादित्रिवर्गं क्रमात् ।
आशास्वस्त्रिषु लान्तलाङ्गलियुजा क्षौणीपुरेणावृतं
पद्मं कल्पितमत्र पूजयतु तां वर्णात्मिकां देवताम् ॥ १० ॥
व्योमेति ।
व्योम हः इन्दुः सः औ स्वरूपं रसनार्णे विसर्गः ।
" व्योमाविः स चतुर्दशस्वरविसर्गान्तस्फुरत्कणीकम् " इत्युक्तेः ।
अचां स्वराणाम् ।
अत्र केशरेषु स्वरलिखनं पत्रेषु वर्गलिखनञ्च ।
अग्रपत्रादिकणीकाभिमुखत्वेन चेति ज्ञेयम् ।
आशासु दिक्षु ।
अस्त्रिषु कोणेषु ।
लान्तो वः ।
लाङ्गली ठः ।
अनयोः रेखासंलग्नतया लिखनं ज्ञेयम् ।
तदुक्तं दक्षिणामूत्तीसंहितायाम्—-
चतुरस्रं ततः कुर्यात् सिद्धिदं दिक्षु संलिखेत् ।
ठकाराणां चतुष्कञ्च रेखान्तं बाह्यतस्ततः ॥
वारुणञ्च समालिख्य देवीमावाहयेत् सुधीः ।
इति ।
अत्र पूजायन्त्रेऽपि अक्षरादिलिखनस्योक्तेः ।
केषाञ्चिन्मते इदमेव धारण- यन्त्रमिति सूचयति ।
पद्ममिति श्वेतम् ।
" स्मरेत् पद्मं तथा श्वेतम् " इत्युक्तेः ।
तेन श्वेतकमलासना ध्येयेत्यर्थः ॥ १० ॥
आधारशक्तिमारभ्य पीठशक्त्यन्तमर्चयेत् ।
मेधा प्रज्ञा प्रभा विद्या धीर्धृतिस्मृतिबुद्धयः ॥ ११ ॥
विद्येश्वरीति सम्प्रोक्ता भारत्या नव शक्तयः ।
वर्णाब्जेनासनं दद्यान्मूत्तीं मूलेन कल्पयेत् ॥ १२ ॥
अर्चयेदिति चतुर्थेक्तप्रकारेण ।
तत्र मण्डूककालाग्निरुद्रकूर्मशिलाः सम्पूज्य पश्चादाधारशक्त्यादिपूजने पृथिव्यनन्तरं विद्याब्धिं सम्पूज्य
अन्ते मायाकलाविद्यापर- तत्त्वानि सम्पूज्य पीठशक्तिपूजनमिति सर्वत्र क्रमोऽनुसन्धेयः ।
पीठशक्तीराह मेधेति ।
आसां ध्यानं यथा—-
कृताञ्जलिद्वयकरास्तत्तदूर्द्धकरद्वये ।
दधत्यः पुस्तकं कुम्भं श्वेताः सुन्दरमूर्त्तयः ॥ इति ।
पीठमन्त्रमुद्धरति वर्णाब्जेनेति ।
ह्सौः मातृकायोगपीठाय नम इति मन्त्रेणासन- पूजा ।
अयं पीठमन्त्रः सर्वमातृकामन्त्रसाधारण इति ज्ञेयम् ।
अन्ये त्वन्यथा व्याचक्षते ।
वर्णाब्जेन वर्णाब्जकणीकाबीजादिना आसनमन्त्रेणेति ।
तत्र प्रयोगः—-
ह्सौः सर्वशक्तिकमलासनाय नमः।
एवमग्रे सरस्वतीमन्त्रेऽपि ।
पद्मपादाचार्यैस्तु ॐ ह्रीं वर्णाब्जाय सरस्वत्यासनाय नमः इति पीठमन्त्रः सूचित इत्युक्तम् ॥ ११-१२॥
आवाह्य पूजयेत् तस्यां देवीमावरणैः सह ।
अङ्गैरावरणं पूर्वं द्वितीयं युग्मशः स्वरैः ॥ १३ ॥
अष्टवर्गैस्तृतीयं स्यात् तच्छक्तिभिरनन्तरम् ।
पञ्चमं मातृभिः प्रोक्तं षष्ठं लोकेश्वरैः स्मृतम् ॥ १४ ॥
लोकपालायुधैः प्रोक्तं वज्राद्यैः सप्तमं ततः ।
विधिनाऽनेन वर्णेशीमुपचारैः प्रपूजयेत् ॥ १५ ॥
व्यापिनी पालिनी पश्चात् पावनी क्लेदिनी तथा ।
धारिणी मालिनी भूयो हंसिनी शान्तिनी स्मृता ॥ १६ ॥
शुभ्राः पत्रेषु सम्पूज्या धृताक्षगुणपुस्तकाः ।
ब्राह्मी माहेश्वरी भूयः कौमारी वैष्णवी मता ॥ १७ ॥
वाराह्यनन्तरेन्द्राणी चामुण्डा सप्तमी मता ।
अष्टमी स्यान्महालक्ष्मीः प्रोक्ताः स्युवीश्वमातरः॥ १८ ॥
आवाह्येति ।
चतुर्थेक्तप्रकारेण ।
अङ्गैरावरणं कणीकामध्ये इति ज्ञेयम् ।
युग्मशः स्वरैरिति ।
तत्र प्रयोगः ।
अम् आं नमः ।
" बीजैः पूजा स्याद् विभक्त्या वियुक्तैः " इत्याचार्येक्तेः ।
एवमष्टवर्गेष्वपि ।
उक्तञ्च संहितायाम्—-
नियोज्य स्वरयुग्मान्ते नमस्कारं पृथक् पृथक् ।
तथैव कादिवर्गेषु नमस्कारं पृथक् क्षिपेत् ॥ इति ।
तच्छक्तिभिरिति वर्गशक्तिभिः पत्रमध्योपरि ।
अत्र तच्छक्तीनां वर्गरूपमन्त्रादित्वं ज्ञेयम् ।
तथा स्वयमेव वक्ष्यति—-वर्णमन्त्रयुताः प्रोक्तलक्षणाः ।
सर्वसिद्धिदाः ।
इति ।
अनन्तरमिति चतुर्थम् ।
मातृभिरिति पत्राग्रे ।
लोकेश्वरैरायुधैश्चेति पद्माद् बहिर्भूपुरे ।
(शान्तिनीत्यत्र शङ्खिनीति पाठोऽपि दृश्यते) ॥ १३-१८ ॥
१। दण्डं कमण्डलुं पश्चादक्षसूत्रमथाऽभयम् ।
बिभ्रती कनकच्छाया ब्राह्मी कृष्णाजिनोज्ज्वला ॥ १९ ॥
२। शूलं परश्वधं क्षुद्रदुन्दुभिं नृकरोटिकाम् ।
वहन्ती हिमसङ्काशा ध्येया माहेश्वरी शुभा ॥ २० ॥
३। अङ्कुशं दण्डखट्वाङ्गौ पाशञ्च दधती करैः ।
बन्धूकपुष्पसङ्काशा कौमारी कामदायिनी ॥ २१ ॥
४। चक्रं घण्टां कपालञ्च शङ्खञ्च दधती करैः ।
तमालश्यामला ध्येया वैष्णवी विभ्रमोज्ज्वला ॥ २२ ॥
५। मुषलं करवालञ्च खेटकं दधती हलम् ।
करैश्चतुभीर्वाराही ध्येया कालघनच्छविः ॥ २३ ॥
६। अङ्कुशं तोमरं विद्युत् कुलिशं बिभ्रती करैः ।
इन्द्रनीलनिभेन्द्राणी ध्येया सर्वसमृद्धिदा ॥ २४ ॥
७। शूलं कृपाणं नृशिरः कपालं दधती करैः ।
मुण्डस्रङ्मण्डिता ध्येया चामुण्डा रक्तविग्रहा ॥ २५ ॥
८। अक्षस्रजं बीजपूरं कपालं पङ्कजं करैः ।
वहन्ती हेमसङ्काशा महालक्ष्मीः समीरिता ॥ २६ ॥
पूजयेन्मातृकामित्थं नित्यं साधकसत्तमः ॥ २७ ॥
ब्रह्म्यादीनामायुधध्यानम् ।
ब्राह्म्याम् आयुधध्यानं वामोर्द्धादि वामाधस्तनं यावत् ।
माहेश्वर्याञ्च दक्षाद्यूर्द्धयोराद्ये अधस्तनयोरन्त्ये।
कौमार्यां वामोर्द्धादि दक्षिणोर्द्ध- पर्यन्तम् ।
वैष्णव्यां दक्षोर्द्धतो वामोर्द्धं यावत् ।
वाराह्यां दक्षाधस्तनाद् वामाधः पर्यन्तम् ।
इन्द्राण्यां चामुण्डायाञ्च दक्षवामयोरूर्द्धादि ।
महालक्ष्म्यां दक्षोर्द्धहस्तमारभ्य वामोर्द्ध- पर्यन्तम् ।
आसां वाहनान्यपि ध्येयानि ।
तानि तत्तदेवतानामिति ज्ञेयम् ।
ब्राह्म्यां हंस इति ।
तत्र वराह्यां महिषः ।
तदुक्तम् —-वाराहीञ्च प्रवक्ष्यामि महिषोपरि संस्थिताम् ।
इति ।
चामुण्डायां प्रेत इति ज्ञेयम् ।
वाराही वराहवक्त्रा ।
चामुण्डा निर्मांसा ध्येया ।
आसु च कौमारी-वैष्णवी-इन्द्राणी-महालक्ष्म्यो द्विनेत्राः अन्यास्त्रिनेत्राः ।
आसां बीजानि तन्त्रान्तरोक्तानि ।
यथा—-
अष्टौ दीर्घाः क्षादयोऽष्टौ सानन्ता बिन्दुयोगतः ।
इन्द्र आकाशसंयुक्तो बीजान्यासां क्रमाद् विदुः ॥ इति ।
साधकसत्तम इत्यनेन एवम्प्रकारेण साधितां मातृकामन्यमन्त्राङ्गत्वेन
विनि- युञ्ज्यादित्युक्तं भवति ॥ १९-२७ ॥
न्यसेत् सर्गान्वितान् सृष्ट्या ध्यात्वा देवीं यथाविधि ।
सर्गबिन्द्वन्तिकान् न्यस्य डार्णाद्यान् स्थितिवर्त्मना ॥ २८ ॥
विद्यात् पूर्वेदितान् विद्वानृष्यादीनङ्गसंयुतान् ।
ध्यायेद् वर्णेश्वरीमत्र वल्लभेन समन्विताम् ॥ २९ ॥
सृष्टिन्यासमाह न्यसेदिति ।
यदा सृष्ट्या सृष्टिमार्गेण न्यसेत् तदा सर्गान्वितानिति।
यत्तदोरध्याहारेणाऽन्वयः ।
एवमग्रेऽपि ।
यथाविधीत्यनेनैतदुक्तं भवति ।
अत्र सृष्टि- मातृका देवता ।
पूर्ववद् विसर्गान्तैर्वर्णैः षडङ्गन्यासः ।
ऋषिच्छन्दसी ध्यानं पूजादिक- मपि सर्वं पूर्ववदेव ।
न्यासस्थानान्यपि पूर्वेक्तान्येवेति ।
प्रयोगस्तु ।
अः नमः केशान्ते ।
आः नमः मुखवृत्ते इत्यादि ।
स्थितिन्यासमाह सर्गेति ।
डार्णाद्यानिति ठपर्यन्तानित्यर्थः ।
सर्गबिन्द्वन्तिकानिति।
बिन्दुसर्गान्वितत्त्वं प्रत्यक्षरमिति ज्ञेयम् ।
विद्वानित्यनेनैतदुक्तं भवति स्थितिमातृका- देवताषडङ्गान्यपि पूर्ववदेव सर्गबिन्द्वन्तिकवर्णैः कार्याणीति ।
तत्र प्रयोगः ।
डंः नमः दक्षिणगुल्फे ।
ढंः नमः दक्षिणपादाङ्गुलिमूले ।
इत्यादि क्षान्तं विन्यस्य अं नमः केशान्ते इत्यादि ठंः नमः दक्षिणजानुनीत्यन्तं न्यसेत् ।
तदुक्तं शैवे—-डकारादि ठकारान्तां योजयेत् परदेवताम् ।
इति ।
अत्र केचित् सृष्टौ अकारादि ठकारपर्यन्तं न्यासं कारयन्ति ।
स्थितौ डकारादि क्षकार पर्यन्तम् ।
तदविचारितरमणीयम् ।
समस्तमातृकावृत्तेर्न्यासत्वात् ।
अत्रेति स्थितिन्यासे ॥ २८-२९ ॥
सिन्दूरकान्तिममिताभरणां त्रिनेत्रां
विद्याक्षसूत्रमृगपोतवरं दधानाम् ।
पार्श्वस्थितां भगवतीमपि काञ्चनाङ्गीं
ध्यायेत् कराब्जधृतपुस्तकवर्णमालाम् ॥ ३० ॥
पार्श्वं वामम् ।
आयुधध्यानम् ऊर्द्धादि ।
दक्षे अक्षमालावरौ वामे मृगपोतविद्ये इति ।
उक्तञ्च पद्मपादाचार्यैः—-वराक्षसूत्रमृगपुस्तकधरैतदेवम् ।
वर्णमालामक्ष- मालामिमं दक्षे विद्या वामे ।
कराब्जेति उपमासमासः ।
इति ॥ ३० ॥
अभ्यर्चनादिकं सर्वं विदध्यात् पूर्ववर्त्मना ।
बिन्दुयुक्तामिमां न्यस्येत् संहृत्या प्रतिलोमतः ॥ ३१ ॥
विद्यात् पूर्वेदितान् विद्वान् ऋष्यादीनङ्गसंयुतान् ।
संहारन्यासमाह बिन्दुयुक्तामिति ।
प्रतिलोमतः क्षकारादि अकारान्तम् ।
स्थानानि तु तान्येव ।
विद्वानित्यनेनैतदुक्तं भवति ।
संहारमातृकादेवताषडङ्गान्यपि पूर्ववदेव बिन्द्वन्तैर्वर्णैः कार्याणीति ।
तदुक्तम्—-
ततः सबिन्दुके न्यासे ऋषिच्छन्दस्तु पूर्ववत् ।
संहारशारदादेवी सबिन्द्वर्णैः षडङ्गकम् ॥ इति ।
प्रयोगस्तु—-क्षं नमः हृदादि मुखे लं नमः हृदादि जठरे इत्यादि ॥ ३१-३२ ॥
ध्येया वर्णमये पीठे देवी वाग्वल्लभा शिवा ॥ ३२ ॥
अक्षस्रजं हरिणपोतमुदग्रटङ्कं
विद्यां करैरविरतं दधतीं त्रिनेत्राम् ।
अर्द्धेन्दुमौलिमरुणामरविन्दवासां
वर्णेश्वरीं प्रणमत स्तनभारनम्राम् ॥ ३३ ॥
अक्षेति ।
उदग्रस्तीक्ष्णः ऊर्द्धाग्रो वा टङ्कः परशुः ।
आयुधध्यानं दक्षोर्द्धादि परशुवर्णमाले ।
परे वामे ।
उक्तञ्च पद्मपादाचार्यैः—-अक्षमालाटङ्कमृगपुस्तकधरां ध्यायेत् इति ।
अरविन्दवासां श्वेताब्जस्थाम् ।
का नाम सृष्टिः स्थितिः संहृतिर्वेति ।
अन्तर्गतस्य बहिरवभासः सृष्टिः ।
शिवेऽवभासः स्थितिः ।
संस्कारमात्रशेषतया अन्तरवस्थानं विनाशः ।
यदाहुः—-
चिद्रूपस्यात्मनः सर्वजगतामीशितुः प्रभोः ।
ग्राह्यग्राहकवैचित्र्यप्रकाशः सृष्टिरीश्वरि ॥
अत्र स्थितिः स्याज्जगतामवभासः समीरितः ।
संस्कारमात्रशेषोऽयं विनाशः संहृतिः शिवे ॥ इति ।
एवं ध्यानेन न्यासत्रयं कर्त्तव्यमित्यर्थः ॥ ३३ ॥
न्यासार्चनादिकं सर्वं कुर्यात् पूर्वेक्तवर्त्मना ।
तारोत्थाभिः कलाभिस्तां न्यसेत् साधकसत्तमः ॥ ३४ ॥
वर्णाद्यास्तारसंयुक्ता न्यस्तव्यास्ता नमोऽन्विताः ।
ऋषिः प्रजापतिश्छन्दो गायत्रं समुदाहृतम् ॥ ३५ ॥
कलात्मा वर्णजननी देवता शारदा स्मृता ।
ह्रस्वदीर्घान्तरगतैः षडङ्गं प्रणवैः स्मृतम् ॥ ३६ ॥
कलान्यासमाह तारोत्थाभिरिति ।
प्रणवपञ्चभेदसमुत्पन्नाभिः सृष्ट्यादिभिः कलाभिः सह तां मातृकां न्यसेदित्युक्तस्थानेषु ।
साधकसत्तम इत्यनेन प्रणवत्रयादित्व- मप्युक्तं भवति ।
वर्णाद्या इति अकारादिवर्णाद्याः ।
एवम्भूतास्तारसंयुक्ताः ।
अनेनायं क्रमः ।
प्रथमतः प्रणवः पश्चादकाराक्षरं पश्चात् कलानाम ।
अत एवाद्यसंयुक्ता शब्दा नमोऽन्विता इति सम्प्रदायात् अन्ते नमसा योगात् चतुर्थ्यन्तत्वम् ।
न्यसेदित्यनेन नैराकाङ्क्ष्येऽपि पञ्चभेदकलानामादौ न्यासख्यापनायाह न्यस्तव्यास्ता इति ।
तत्र तु—-
" न्यासे तु योजयेदादौ षोडश स्वरजाः कलाः " इत्युक्तत्वात् प्रथमं नादकलानां निवृत्त्यादीनां न्यासः
पश्चादकारोकारबिन्दुजानां सृष्ट्यादीनाम् ।
प्रयोगस्तु—-ॐ अं निवृत्त्यै नमः केशान्ते इत्यादि ।
कलात्मा वर्णजननी शारदा देवतेति ।
कलात्म मातृका देवतेत्यर्थः ।
ह्रस्वदीर्घान्तरगतैरिति ।
अक्लीबह्रस्वदीर्घस्वरमध्यगतैरित्यर्थः ।
अम् ओम्म् आं हृदयाय नमः इत्यादि प्रयोगः ॥ ३४-३६ ॥
हस्तैः पद्मं रथाङ्गं गुणमथ हरिणं पुस्तकं वर्णमालां
टङ्कं शुभ्रं कपालं दरममृतलसद्धेमकुम्भं वहन्तीम् ।
मुक्ताविद्युत्पयोदस्फटिकनवजवाबन्धुरैः पञ्चवक्त्रै-
स्त्र्यक्षैर्वक्षोजनम्रां सकलशशिनिभां शारदां तां नमामि ॥ ३७ ॥
हस्तैरिति ।
रथाङ्गं चक्रम् ।
गुणस्त्रिशूलम् ।
वर्णमालामक्षमालाम् ।
टङ्कः परशुः ।
शुभ्रमिति कपालविशेषणम् ।
दरः शङ्खः ।
आयुधध्यानं दक्षाधस्तनतो वामाधस्तनपर्यन्तं पुस्तकाक्षमालयोवीपर्ययः ।
तदुक्तं पद्मपादाचार्यैः—-पद्मचक्रशूल- मृगाक्षसूत्रपुस्तकटङ्ककपालशङ्खकलशधरा ध्येया इति,
मुक्तेति ऊर्द्धादि मुखानां वर्णाः ।
सकलशशिनिभां शुभ्रवर्णाम् ।
सर्वकामदामिति विनियोगोक्तिः ।
अतएव पद्मपादाचार्याः " सर्वत्र सर्वं च " इति ॥ ३७ ॥
अर्चयेदुक्तमार्गेण शारदां सर्वकामदाम् ।
तार्त्तीयपूर्वां तां न्यस्येन्नमोऽन्तां रुद्रसंयुताम् ॥ ३८ ॥
श्रीकण्ठमातृकामाह तार्त्तीयेति ।
तार्त्तीयं भैरव्याः द्वादशे वक्ष्यमाणम् ।
केचन रेफवजीतं तद्वदन्ति ।
अयमेव साम्प्रदायिकः पक्षः ।
यतो मातृकाब्जकणीकाबीजमेवं सङ्गृहीतं भवति ।
भैरवीत्रिंशद्भेदमध्ये एकस्य भेदस्य तार्त्तीयं रेफवजीतं भवत्येव ।
ग्रन्थकृदत एव षडङ्गावसरे हसा षड्दीर्घयुक्तेन इति वक्ष्यति ।
न्यसेदित्युक्तस्थानेषु ।
साम्प्रदायिकास्तु प्रणवशक्तिप्रासादपञ्चाक्षरीयोगमाहुः ।
रुद्रसंयुतामिति सशक्तिक- श्रीकण्ठादिसहिताम् ।
नमोऽन्तामित्यनेन चतुर्थीयोगोऽप्युक्तः ।
ह्सौ अं श्रीकण्ठेश- पूर्णेदरीभ्यां नमः केशान्ते इत्यादि प्रयोगः ।
अयं साम्प्रदायिकः पक्षः ।
अत्र ग्रन्थकृता छन्दोऽनुरोधादीशशब्दः क्वचिन्न दत्तः ।
न्यासावसरे सोऽवश्यं देय इति ।
केचित्तु पूर्णेदरीसहिताय श्रीकण्ठाय नमः इति वदन्ति ।
अन्ये तु पूर्णेदर्यै श्रीकण्ठाय नमः इत्याहुः ।
तदुभयमतेऽपि रुद्राणां प्राधान्यमिति ते वदन्ति ।
पूर्णेदरीश्रीकण्ठाभ्यां नमः इत्यपि केचिदिच्छन्ति ।
तत्पक्षत्रयमप्यसाम्प्रदायिकम् ।
सहितशब्दस्याऽनुक्तस्याऽ- धिकस्य प्रथमपक्षे प्रयोगः ।
द्वितीयपक्षे उभयत्र चतुर्थ्यनुपपन्ना ।
एकत्र नमोयोगात् प्राप्यते अन्यत्र प्रापकाभावात् ।
पक्षत्रये च रुद्रसंयुताम् इत्युक्तत्वात् मातृकाया रुद्रैः सहाऽव्यवधानेन संयोगो न भवति ।
अतः साम्प्रदायिकः पक्ष एव ज्यायान् ।
अपेक्षितार्थद्योतनिकाकारस्तु श्रीकण्ठेशाय पूर्णेदर्यै नमः इति प्रयोगमाह स्म ।
तदप्ययुक्तम् ।
यतो ध्याने अग्नीषोमादिवत् समुच्चितयोरेव देवतात्वं प्रतीयते ।
अस्मिंश्च प्रयोगे देवतयोः समुच्चितत्वम् ।
पृथक्चतुर्थीनिर्देशेनेतरेतरनिरपेक्षयोरेव तत्प्रतीतेः ।
किञ्च ।
यदग्नये च प्रजापतये च सायं जुहोतीत्यत्र शब्दद्वयकृत परस्परापेक्षयोः प्रत्येकं क्रियान्वयाभावेऽपि
देवतासमुच्चयस्येष्टत्वात् ।
अत्र तु तदभावेन प्रत्येकं नमोऽन्वयात् सुतरां तत्समुच्चया प्रतीतिः ।
तेन होमादावपि श्रीकण्ठेशपूर्णेदरीभ्यां स्वाहेत्येकै- वाहुतिः ।
एवं केशवादिकामगणेशन्यासेष्वपि द्रष्टव्यम् ।
यत्तु क्वचित् केशवाय च कीर्त्तै चेत्युद्धारः स छन्दोऽनुरोधेनेति ज्ञेयम् ॥ ३८ ॥
सधातुप्राणशक्त्यात्मयुक्ता यादिषु ते क्रमात् ।
ऋषिः स्याद्दक्षिणामूत्तीर्गायत्रं छन्द ईरितम् ॥ ३९ ॥
अर्द्धनारीश्वरः प्रोक्तो देवता तन्त्रवेदिभिः ।
हसा षड्दीर्घयुक्तेन कुर्यादङ्गानि देशिकः ॥ ४० ॥
सधात्विति ।
ते रुद्रा यादिषु यकारादिषु दशसु व्यापकेषु ।
धातवः त्वगसृग्भ्यां समेदोऽस्थिमज्जाशुक्राणि प्राणः शक्तिरात्मा च एतद्युक्ताः क्रमात् ज्ञेयाः ।
अत्र यद्यपि रुद्रपदं समासगभीतं तथापि सर्वनाम्ना परामृश्यते ।
" सर्वनाम्नानु वृत्तिर्वृत्तिच्छन्नस्य " इति वामनसूत्रात् ।
प्रयोगस्तु ।
ह्सौः यं त्वगात्मभ्यां वालीश- सुमुखीश्वरीभ्यां नमः हृदये इत्यादि ।
अत्र आत्मशब्दः सम्प्रदायात् प्रयुज्यते ।
ग्रन्थान्तरे आत्मशब्दस्थाने क्रोधशब्दमुक्त्वा आत्मशब्दः सर्वत्र प्रयोक्तव्य इत्युक्तम् ।
तथा —- यादीन् धातुप्राणशक्तिक्रोधाद्यानात्मने युतान् ।
इति ।
अन्यत्रापि —- जीवं शक्तिं क्रोधमप्यात्मने तान् ।
इति ।
आचार्यास्तु—-तावपि धातवो याद्याः सप्तसमीरणश्च सपरःक्षः क्रोध इत्यम्बिके ।
इति।
अत्र क्षकारस्य नरसिंहबीजत्वात् क्रोधशब्दोक्तिः ।
पद्मपादाचार्यैः प्रथमपद्यव्याख्याने विरचितेत्यादिना मातृकास्थानोक्तिराख्यायते ।
आख्यायन्ते एभिरिति सप्तधातवः हृच्छब्देन प्राणः शक्तिश्चाभिहिता ।
कशब्देन सुखार्थेन परमात्मोक्त इति यादिन्यास- स्थानानीत्युक्तम् ।
तन्मतानुसारेणेह मूलकारेण आत्मग्रहणं कृतम् ।
ननु त्वगादिपरमात्मान्तस्य देवतात्मनो यादिन्यासेनैव साधकशरीरे सन्निधाने सति किमवशिष्टाक्षरन्यासेनेति ।
देवतावयवविशेषरचनाकल्पनेति ब्रूमः ।
न च प्रथमं सामान्यकल्पना पुनवीशेषकल्पनेति नियमोऽस्ति ।
येन लिपिन्यासस्य क्षकारादित्वं स्यात् ।
सर्वत्र नित्यमेव सामान्यविशेषरूपं हि देवताशरीरम् ।
तस्य साधकशरीरे सन्निधिर्न्यासेनोत्पाद्यते ।
अतः प्रथममकारादिन्यासेन अवयवविशेषसन्निधिस्मरणे न कश्चिद्दोषः ।
न च संहारक्रमेण मातृकान्यासे प्रथमं सामान्यसंहारः पश्चाद्विशेषसंहार इति क्रमलोपः ।
उभयोरप्यात्मन्येव संहारात् ।
न च सामान्यसंहारेणैव संहृतत्वात् विशेषाणां पृथक्संहरणमनर्थकम् ।
विशेषसंहारक्रमचिन्तायाः कर्त्तव्यत्वात् ।
षड्दीर्घाः आ ई ऊ ए औ अः ।
तद्युक्तेन हसा हकारसकारेण देशिक इत्यनेन मिलितेन इत्युक्तम् ।
प्रयोगस्तु—-हसां हृदयाय नम इत्यादि ।
अन्ये तु हसामादिकानि मातृकाङ्गानि एवमिच्छन्ति ।
साम्प्रदायिकास्तु प्रणवमायालक्ष्मीपञ्चाक्षरीब्रह्माणिमाहेश्वरिकौमारिवैष्णवि- वाराहीन्द्राणीः स्वबीजाद्याः
रक्षयुग्मान्ता अमुकवाहनेप्रमुखरक्षयुग्मान्ता अमुकहस्ते प्रमुख मां रक्षयुग्मान्ता दीर्घत्रयाक्रान्तमायापुटितमातृकाङ्गानि तार्त्तीयञ्च सञ्जीवनि ऊर्द्धकेशिनि जटिलकेशिनि विस्वरूपिणि ताराक्षिणि द्विः मारय शब्दानुच्चार्य हृदयादीन्युच्चारयेत् इति ।
प्रयोगस्तु—-ॐ ह्रीं� श्री� नमः शिवाय नमः ह� ब्रह्माणि रक्ष रक्ष हंसवाहने रक्ष रक्ष पद्महस्ते मां
रक्ष रक्ष ह्रा� ह्री� ह्रू� अं कं खं गं घं ङम् आ� ह्रा� ह्रू� ह्सौः सञ्जीवनि हृदयाय नमः इत्यादि ।
बीजानि तु मा� क� क्रो� हु� ह� ।
आयुधानि पद्मशूलशक्तिचक्रगदावज्राणि ।
व्यापकमन्त्रस्तु—-ॐ ह्रीं श्रीं नमः शिवाय हूं चामुण्डे रक्ष रक्ष वेतालवाहने रक्ष रक्ष पाशहस्ते मम
सर्वाङ्गं रक्ष रक्ष ह्रा� ह्री� ह्रू� ह्रस्वषट्कम् आदिक्षान्तं दीर्घषट्कमुच्चार्य ह्रा� ह्री� ह्रू� ह्सौः
सर्वाङ्गव्यापिनी स्वाहा इति व्यापकं कृत्वा श्रीकण्ठमातृकां न्यसेदिति ।
अत्रान्ये मुखादौ अष्टव्यापकमन्त्राः सम्प्रदायतो ज्ञेयाः ।
यत् प्रयोगसारे—-
मातरोऽष्टौ समुत्पन्ना वर्गाणां नायिकाश्च ताः ।
व्यापिनी पालिनी देवी पावनी क्लेदिनी पुनः ॥
धारिणी मालिनी भूयो हंसिनी शान्तिनी तथा ।
वर्गाणां नायकाश्चाष्टौ भैरवाः समुदाहृताः ॥ इति ।
अष्टमो व्यापकन्यासस्तु आदिक्षान्तमुच्चार्य संहारभैरवशान्तिनीभ्यां नमः सर्वाङ्गे ॥ ३९-४० ॥
बन्धूककाञ्चननिभं रुचिराक्षमालां
पाशाङ्कुशौ च वरदं निजबाहुदण्डैः ।
बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र-
मर्द्धाम्बिकेशमनिशं वपुराश्रयामः ॥ ४१ ॥
बन्धूकेति ।
आयुधध्यानं दक्षे ऊर्द्धादि अङ्कुशाक्षमालेऽपरे वामे ॥ ४१ ॥
पूर्वेक्तेनैव मार्गेण पूजयेत् तं यथाविधि ।
स्मराद्यां मातृकां न्यस्येत् केशवादिनमोऽन्विताम् ॥ ४२ ॥
यथाविधीत्यनेनैतदुक्तं भवति ।
स्मराद्यां वालाद्यां वा काममातृकां न्यसेत् ।
क्ली� अं कामरतिभ्यां नमः इति केशान्ते इत्यादिप्रयोगः ।
एतद्ध्यानं यथा—-
रक्ताङ्गारागकुसुमाम्बरमात्तभूषं
नीलोत्पलाढ्यकरशक्तिसुभूषिताङ्कम् ।
ध्यायेत् प्रसूनशरमिक्षुधनुर्धरञ्च
सद्दाडिमीकुसुमभासमनङ्गमूत्तीम् ॥ इति ।
एवं गणपतिबीजाद्यां षड्बीजाद्यां वा गणपतिमातृकां न्यसेत् ।
तत्र प्रयोगः—- गम् अं विघ्नेशश्रीभ्यां नमः केशान्ते इत्यादि ।
ध्यानञ्च—-
तारुण्योन्मदचारुलोहितलसत्कान्त्यङ्गरागाम्बरं
सद्रक्तोत्पलहस्तया वनितया वामाङ्कमारूढया ।
हस्ताब्जैर्वरमङ्कुशं गुणमभीतिं धारयन्तं शुभं
ध्यायेयं गणपं गजेन्द्रवदनं नेत्रत्रयोद्भासितम् ॥ इति ।
अत्रोभयोरपि व्यापकेषु त्वगादियोगोऽप्यनुसन्धेयः ।
केशवादिमातृकान्यासमाह स्मराद्यामिति कामबीजाद्याम् ।
साम्प्रदायिकास्तु त्रिपुटानारायणाष्टाक्षरयोगमिच्छन्ति ।
अन्ये प्रणवत्रययोगं परे प्रणवत्रयपुटितत्वम् ।
केचन श्रीबीजयोगमिति ।
यथासम्प्रदायं व्यवहारः ।
प्रयोगस्तु—-क्ली� अं केशवकीत्तीभ्यां नमः केशान्ते इत्यादि ।
केचन केशवाय कीर्त्त्यै नमः इत्यपीच्छन्ति ॥ ४२ ॥
सधातुप्राणशक्त्यात्मयुक्ता यादिषु विष्णवः ।
ऋषिः प्रजापतिः प्रोक्तो गायत्रं छन्द ईरितम् ॥ ४३ ॥
अर्द्धलक्ष्मीर्हरिः साक्षाद् देवताऽत्र समीरिता ।
दीर्घयुक्तेन बीजेन षडङ्गानि समाचरेत् ॥ ४४ ॥
सधात्विति ।
यं त्वगात्मने पुरुषोत्तमाय वसुधायै नमः हृदय इत्यादि ।
दीर्घयुक्तेनेति ।
दीर्घाः षट् पूर्वेक्ताः तद्युक्तेनादिबीजेन कामबीजेन तेन क्लां क्लीम् इत्यादि हृदयादिषु ज्ञेयम् ।
अन्ये तु क्लामादिकानि मातृकाङ्गान्येवेच्छन्ति ।
साम्प्रदायिकास्तु मायानारायणाष्टाक्षराजपापरमात्ममन्त्रस्वरपुटितैः कादिवर्णैः देवी- पद्मिनीविष्णुपत्नीवरदाकमलरूपाशूलिनीयुक्तैः हृदयादीन्यङ्गानि इति मन्यते ।
प्रयोगस्तु—-ॐ नमो नारायणाय हंसः सोहम् अं कं खं गं घं ङम् आं ॐ नमो नारायणाय हंसः सोहं
देव्यै हृदयाय नमः इत्यादि ॥ ४३-४४ ॥
हस्तैबीभ्रत् सरसिजगदाशङ्खचक्राणि विद्यां
पद्मादर्शौ कनककलशं मेघविद्युद्विलासम् ।
वामो तुङ्गंस्तनमविरलाकल्पमाश्लेषलोभा-
देकीभूतं वपुरवतु वः पुण्डरीकाक्षलक्ष्म्योः ॥ ४५ ॥
हस्तैरिति ।
मेघेत्यादि वपुवीशेषणम् ।
आकल्पो भूषा ।
आयुधध्यानं दक्षिणाधोहस्तमारभ्य वामाधस्तनं यावत् ।
तेन पुरुषायुधानि दक्षिणतः स्त्र्यायुधानि वामत इति सिध्यति ।
पद्मपादाचार्याणां सम्मतमेतत् ।
उक्तञ्च—-
विद्यारविन्दमुकुरामृतकुम्भपद्म कौमोदकीदरसुदर्शनशोभिहस्तम् ।
इति ।
अत्र वामोर्द्धादि दक्षोर्द्धान्तं क्रमो ज्ञेयः ।
अन्यत्र यदस्मिन् न्यासे चतुर्भुजध्यानं तत् केवलविष्णोः न लक्ष्मीसहितस्येति ज्ञेयम् ।
अयमप्यावश्यकः ।
यदाहुः—-
केशवादिरयं न्यासो न्यासमात्रेण देहिनाम् ।
अच्युतत्वं ददात्येव सत्यं सत्यं न चान्यथा ॥ इति ॥ ४५ ॥
अत्राऽर्चनादिकं सर्वं प्राग्वन्मन्त्री समाचरेत् ।
शक्तिपूर्वां तनौ न्यस्येन्मातृकां मन्त्रवित्तमः ॥ ४६ ॥
ऋषिः शक्तिः स्मृतं छन्दो गायत्रं देवता बुधैः ।
सम्प्रोक्ता विश्वजननी सर्वसौभाग्यदायिनी ॥ ४७ ॥
दीर्घार्द्धेन्दुयुजाऽङ्गानि कुर्यान्मायात्मना बुधः ॥ ४८ ॥
ऋषिः शक्तिरिति वशिष्ठपुत्रः ।
सर्वसौभाग्यदायिनीति विनियोग उक्तः ।
दीर्घेति ।
दीर्घाः षड्दीर्घाः अर्द्धेन्दुबीन्दुः ।
एतद्युक्तेन मायात्मना बीजेनेति शेषः ।
प्रयोगस्तु ह्रां हृदयाय नमः इत्यादि ।
केचन ह्रामादिकानि मातृकाङ्गान्येवेच्छन्ति ।
एवमग्रेऽपि ॥ ४६-४८ ॥
उद्यत्कोटिदिवाकर १प्रतिभटोत्तुङ्गोरुपीनस्तनी
बह्वार्द्धेन्दुकिरीटहार रसनामञ्जीर संशोभिता ।
बिभ्राणा करपङ्कजैर्जपवटीं पाशाङ्कुशौ पुस्तकं
दिश्याद् वो२ जगदीश्वरी त्रिनयना पद्मे निषण्णा मुखम् ॥४९॥
उद्यदिति ।
मञ्जीरो नूपुरः ।
जपवटीमक्षमालाम् ।
आयुधध्यानं दक्षे ऊर्द्धादि अङ्कुशाक्षमाले परे वामे ।
उक्तञ्च पद्मपादाचार्यैः—-अक्षसूत्राङ्कुशपाशपुस्तककरा ध्येया इति ॥ ४९ ॥
पुरोदितेन विधिना देवीमन्वहमर्चयेत् ।
न्यसेच्छ्रीबीजसम्पन्नां मातृकां विधिना तनौ ॥ ५० ॥
ऋषिर्भृगुः स्मृतं छन्दो गायत्रं देवता स्मृता ।
समस्तसम्पदामादिर्जगतां नायिका बुधैः ॥ ५१ ॥
प्राक्प्रस्तुतेन बीजेन कुर्यादङ्गानि साधकः ॥ ५२ ॥
समस्तसम्पदामादिरिति विनियोगोक्तिः ।
प्राक्प्रस्तुतेनेति पूर्वेक्तेन मार्गेण षड्दीर्घयुक्तेनेत्यर्थः ।
बीजेन श्रीबीजेनेत्यर्थः ।
तेन श्रां श्रीमित्यादि षडङ्गम् ।
एतदादीनि मातृकाङ्गानि वा ॥ ५०-५२ ॥
विद्युद्दामसमप्रभां हिमगिरि प्रख्यैश्चतुभीर्गजैः
शुण्डादण्डसमुद्धृतामृतघटैरासिञ्च्यमानामिमाम् ।
बिभ्राणां करपङ्कजैर्जपवटीं पद्मद्वयं पुस्तकं
भास्वद्रत्नसमुज्ज्वलां कुचनतां ध्यायेज्जगत्स्वामिनीम् ॥५३॥
विद्युदिति ।
आयुधध्यानं दक्षाधस्ताद् वामाधःपर्यन्तम् ॥ ५३ ॥
आराधयेदिमां प्रोक्तवर्त्मना कुसुमादिभिः ।
न्यसेत् स्मराद्यां वपुषि मातृकां मङ्गलप्रदाम् ॥ ५४ ॥
ऋषिः सम्मोहनः प्रोक्तश्छन्दो गायत्रमुच्यते ।
देवता मन्त्रिभिः प्रोक्ता समस्तजननी परा ॥ ५५ ॥
स्मरेण दीर्घयुक्तेन विदध्यादङ्गकल्पनाम् ॥ ५६ ॥
स्मराद्यामित्यनेन कामश्रीशक्त्यादिकामपि न्यसेदित्युक्तम् ।
तस्य त एव ऋष्याद्याः ।
द्विरुक्तैर्बीजैरङ्गानि ।
पञ्चबाणपद्माङ्कुशाक्षमालापुस्तकपाशपद्मधनुर्धराऽरुणा ध्येया ।
आयुधध्यानं दक्षाधस्तनमारभ्य वामाधस्तन पर्यन्तम् ।
न्यासपूजादिकं पूर्ववदेव ।
सौकर्याय ध्यान- श्लोकोऽपि—-
सा पञ्चबाणकमलाङ्कुशकाक्षमाला
विद्यागुणाब्जधनुरष्टकरा त्रिनेत्रा ।
रक्ताऽरुणाम्बर विलेपनभूषणाढ्या
पायात्तु वर्णजननी शशिशेखरा वः ॥
मङ्गलप्रदामिति विनियोगोक्तिः ।
दीर्घयुक्तेन षड्दीर्घयुक्तेन ॥ ५४-५६ ॥
बालार्ककोटिरुचिरां स्फटिकाक्षमालां
कोदण्डमिक्षुजनितं स्मरपञ्चबाणान् ।
विद्याञ्च हस्तकमलैर्दधतीं त्रिनेत्रां
ध्यायेत् समस्तजननीं नवचन्द्रचूडाम् ॥ ५७ ॥
अर्चनादिक्रियाः सर्वाः प्रोक्ताः पूर्वविधानतः ।
शक्तिश्रीकामबीजाद्यां देवीं वर्णतनुं भजेत् ॥ ५८ ॥
बालेति ।
विद्यां पुस्तकम् ।
अक्षमालां पञ्चबाणान् दक्षे अधस्तनादि ।
वामे पुस्तकचापौ ।
इत्यायुधध्यानम् ।
तदुक्तं पद्मपादाचार्यैः—-
अक्षस्रक्शरचापपुस्तकधरा ध्येया इति ॥ ५७-५८ ॥
ऋषिः पूर्वेदितश्छन्दो गायत्रं देवता बुधैः ।
सम्मोहनी समुद्दष्टा सर्वलोकवशङ्करी ॥ ५९ ॥
पूर्वेदित इति ।
समोहनी सर्वलोकवशङ्करीति विनियोगोक्तिः ॥ ५९ ॥
आवत्तीतैस्त्रिभिर्बीजैः षडङ्गानि प्रकल्पयेत् ॥ ६० ॥
अवत्तीतैरिति द्विवारम् ।
प्रथमातिक्रमे कारणाभावात् ।
एवं षड्बीजानि भवन्ति, ह्री� हृदयाय नमः इत्यादि प्रयोगः ॥ ६० ॥
ध्यायेयमक्षवलयेक्षुशरासपाशान्
पद्मद्वयाङ्कुशशरान् वरपुस्तकञ्च ।
आबिभ्रतीं निजकरैररुणां कुचार्त्तां
सम्मोहनीं त्रिनयनां तरुणेन्दुचूडाम् ॥ ६१ ॥
ध्यायेयमिति ।
इक्षुशरासः इक्षुधनुः ।
आयुधध्यानं दक्षे ऊर्द्धादि अङ्कुश- पद्मशराक्षमालाः ।
वामे पाशपद्मधनुः पुस्तकानि ।
तदुक्तं पद्मपादाचार्यैः—-अक्षस्रक्- पञ्चशरपद्माङ्कुशपाशपद्मेक्षुधनुः पुस्तकधराऽरुणा ध्येया इति ॥ ६१ ॥
यजेदावरणैः सार्द्धमुपचारैः सुशोभनाम् ।
प्रपञ्चयागं वक्ष्यामि सच्चिदानन्दसिद्धिदम् ॥ ६२ ॥
वेदादिः शक्तिरजपा परमात्ममहामनुः ।
वह्नेर्जाया च कथिता पञ्चमन्त्राः शुभावहाः ॥ ६३ ॥
प्रपञ्चेति ।
सच्चिदानन्दसिद्धिदमिति विनियोगोक्तिः ।
वेदादिः प्रणवः ।
अजपा हंसः ।
आत्ममहामनुः सोऽहम् ।
वह्नेर्जाया स्वाहा ।
प्रणवो बीजं हृल्लेखा शक्तिः ।
शुभावहा इत्यनेनास्य स्वातन्त्र्यमप्युक्तम् ।
यदाहुः—-
स्वतन्त्रोऽपि यदा सिद्धिं कुर्यादष्टाक्षरो मनुः ।
तस्माद् यथावत् प्रजपेद्धीमान् मोक्षपरः पुमान् ॥ इति ।
साम्प्रदायिका वाग्भवहृल्लेखासम्पुटमाहुः ॥ ६२-६३ ॥
तारशक्त्यादिकां न्यस्येदजपात्मद्विठान्तिकाम् ।
मातृकामुक्तमार्गेण सृष्ट्या देहे विधानवित् ॥ ६४ ॥
ऋषिर्ब्रह्मा समुद्दष्टश्छन्दो गायत्रमीरितम् ।
समस्तवर्णसंव्याप्त परं तेजोऽस्य देवता ॥ ६५ ॥
तारशक्त्यादिकामिति ।
आत्मा परमात्ममन्त्रः ।
अजपायाः पूर्वमुक्तत्वात् ।
द्विठः स्वाहा ।
प्रतिवर्णमादौ तारमाये अन्ते त्वजपादयः ।
ॐ ह्रीम् अं हंसः सोऽहं स्वाहा केशान्ते इत्यादि प्रयोगः ।
संहारस्य वक्ष्यमाणत्वात् अत्र सृष्ट्येत्युक्तिः ।
विधानविदित्यनेनैतदुक्तं भवति ।
षडङ्गन्यासपूर्वकं सावरणं महागणपतिं ध्यात्वा चतुश्चत्वारिंशद्वारं गणेशबीजं सकृद् गणानां त्वा
इत्येवं चतुरावृत्तिमहागणपतिमन्त्रं प्रजप्य यथोक्तां शुद्धमातृकां त्रिवीन्यस्य अ क च ट त प
यादिकानपि सप्तमुखदोः- पदुदरहृत्सु न्यसेदिति ॥ ६४-६५ ॥
स्वाहाद्यैः पञ्चमनुभिः पञ्चाङ्गानि प्रकल्पयेत् ।
अस्त्रं दिक्षु बुधः कुर्याद् भूयो हरिहराक्षरैः ॥ ६६ ॥
स्वाहाद्यैरिति विपरीतैः ।
स्वाहा हृदयाय नमः सोहं शिरसे स्वाहा इत्यादि प्रयोगः ।
दिक्ष्विति छोटिकाभिः ।
भूयोऽनन्तरं षष्ठाङ्गादित्यर्थः ।
हरिहराक्षरैरिति यथा श्रुतैः ।
तदुक्तम्—-
जायाग्नेर्हृदयमथो शिरश्च सोहं हंसात्मा त्वथ च शिखा स्व(मा) यञ्च वर्म ।
ताराख्यं समुदितमीक्षणं तथास्त्रं प्रोक्तं स्याद्धरिहरवर्णमङ्गमेव ॥ इति ।
ह्रि ह्र इति केचित् ॥ ६६ ॥
तारादिपञ्चमनुभिः परिचीयमानं
मानैरगम्यमनिशं जगदेकमूलम् ।
सच्चित्समस्तगमनश्वरमच्युतं तत्
तेजः परं भजत सान्द्रसुधांशु(धाम्बु)राशिम् ॥ ६७ ॥
तारादीति ।
तत् प्रसिद्धं परं तेजः ब्रह्म अनिशं सर्वदा भजत ।
अन्येषां तेजसामेतद्व्याप्यत्वादस्य परत्वम् ।
सान्द्रसुधांशु (धाम्बु) राशिमिति व्यस्तरूपकम् ।
तेन पुलिङ्गत्वदोषोऽपि न ।
अङ्गुल्यः पल्लवान्यासन् इतिवत् ।
एतेनानन्दमयत्वं ध्वनितम् ।
अच्युतम् अविकारि ।
अविनश्वरमविध्वंसि ।
समस्तगं व्यापकम् ।
चित् स्वप्रकाशज्ञानरूपम् ।
सत् सत्तात्मकम् ।
" सद्धीदं सर्वं सत्सत् " इति " चिद्धीदं सर्वं काशते " इति श्रुतेः ।
जगदेकमूलं तत्परिणामरूपत्वाद् जगतः ।
मानैरगम्यम् ।
" यतो वाचो निवर्त्तन्ते " इति श्रुतेः ।
अत एवाह एतैः परिचीयमानम् एतेषां जपेन लभ्यमित्यर्थः ।
तत्र तारस्य पञ्चावयवस्य प्रलीनाशेषविकृतित्वात् देवीतारावयवानामपि तदवयवैः अभेदानन्दप्रत्ययार्थे पर्यवसायित्वात् ।
अजपात्ममन्वोरपि जीवपरमात्मतादा- र्थ्यत्वात् पञ्चद्विठावयवानामपि सर्वत्रानुगतचिदर्थत्वात् ।
संहितायान्तु—-
प्रणवश्चित्कला ज्ञेया मायाव्याप्तिस्वरूपिणी ।
हंसः पदेन देवेशि साक्षादात्मस्वरूपिणी ॥
तत्रत्यबिन्दुत्रितयात् सृष्टिस्थितिलयात्मिका ।
प्रसूता बिन्दुनाद्येन वामेयं ब्रह्मरूपिणी ॥
बिन्दुनाऽथ द्वितीयेन पालयन्ती जगत्त्रयम् ।
ज्येष्ठेयं वैष्णवी माया चाद्या सत्त्वगुणा प्रिये ॥
अन्तेन बिन्दुना सर्वं रसन्ता तमसावृता ।
रौद्री बिन्दुत्रयं देवि प्रसूते चाम्बिका तदा ॥
आत्मानं दर्शयत्येषा हंसाख्या संहृतिर्यदा ।
तदेयं दर्पणाकारा ततो ज्योतिर्मयी भवेत् ॥
वर्णाभ्यां वह्निजायायाः परं ज्योतिरिति प्रिये ।
एवं विचारयन् मन्त्री साक्षाद् ब्रह्म भवेत्तु सः ॥ इति ।
अत्र प्रपञ्चयागमूर्त्तेः पूजा नोक्ता सा तन्त्रान्तरोक्ता यथा—-
मातृकामन्त्रसम्प्रोक्ते पीठे सल्लिपिपङ्कजे ।
प्रपञ्चयागमूत्तीन्तु समावाह्य प्रपूजयेत् ॥
स्वरैराद्यावृतिः प्रोक्ता द्वितीया कादिमूत्तीभिः ।
तृतीया तु समुद्दिष्टा भारत्या द्व्यष्टशक्तिभिः ॥
चतुर्थी मातृभिः सार्द्धमसिताङ्गादिभैरवैः ।
वासवादिदिशां नाथैः पञ्चमी त्वायुधैः परा ॥ इति ॥ ६७ ॥
पञ्चभूतमया वर्णा वर्गशः प्रागुदीरिताः ।
तस्माज्ज्ञानेन्द्रियात्मानः प्रपञ्चं तन्मयं विदुः ॥ ६८ ॥
प्रपञ्चयागं वक्ष्यामीत्युक्तम् ।
तत्र प्रपञ्च इज्यते हूयते यत्रेति प्रपञ्चयागः ।
तमेव होमप्रकारं वदन् न्यासान्तरमपि सूचयति पञ्चभूतेति ।
प्रागिति द्वितीये ।
ज्ञानेन्द्रियात्मान इत्युपलक्षणम् ।
तेनाकाशवर्णाः ।
ज्ञानकर्मेन्द्रियात्मानः वायुवर्णाः तदर्थरूपाः अग्निवर्णाः प्राणादिदशवायुरूपा इत्याद्यूह्यम् ।
तन्मयं पञ्चभूतमयम् ॥ ६८ ॥
देहोऽपि तादृशस्तस्मिन् न्यस्येद् वर्णान् विलोमतः ।
तत्तत्स्थानयुतान् मन्त्री जुहुयात् परतेजसि ॥ ६९ ॥
तादृश इति पञ्चभूतमयः ।
तत्र वर्णान् न्यस्येदिति ।
तत्र प्रकारः पृथिव्या दशवर्णान् प्रपञ्चयागवदुच्चार्य पादतलादिजानुपर्यन्तं विन्यसेत् ।
एवमाकाशान्तं विन्यसेत् ।
विलोमत इति ।
पुनराकाशादिवर्णान् तत्तत्स्थानेषु भूमिपर्यन्तं विन्यसेत् ।
तत्तदिति विपरीतन्यासे ध्यानम् ।
एवं ध्यानं कृत्वा विपरीतं न्यसेत् ॥ ६९ ॥
एवं वर्णमयं होमं कृत्वा दिव्यतनुर्भवेत् ।
न्यस्य मन्त्री यथान्यायं देहे विश्वस्य मातरम् ॥ ७० ॥
जपेन्मन्त्रान् भजेद्देवान् यजेदग्निमनन्यधीः ।
द्रव्यैश्च जुहुयादग्नौ मन्त्रवित् तन्त्रचोदितैः ॥ ७१ ॥
पूर्वेक्तं प्रपञ्चयागेऽप्यतिदिशति एवमिति ।
तत्र प्रकारः ॐ ह्री� क्षं हंसः
सोऽहं स्वाहा इति आन्तं विन्यसेत् ।
तत्र क्षकारं तदधिष्ठातृदेवतां तत्तत्स्थानञ्च तदवच्छिन्नैः चैतन्ये जुहोमीति ध्यायन्नेव
संहारन्यासं कुर्यादिति तात्पर्यार्थः ।
अयं साम्प्रदायिकः पक्षः ।
तदुक्तम्—- आधारोद्यच्छक्तिबिन्दूत्थिताया
वक्त्रे मूर्द्धेन्दु ग्रसन्त्याः प्रियायाः ।
क्षाद्यान्तार्णान् पातयेत् वह्निसोम-
प्रोतान् मन्त्री मुच्यते रोगजातैः ॥ इति ।
एवमुक्तसर्वविधमातृकान्यासस्य मन्त्रान्तरादौ कर्त्तव्यतामाह न्यस्येति ।
मन्त्री यथान्यायमित्यनेनैतदुक्तं भवति ।
सर्वान् मातृकान्यासान् कर्त्तृमशक्तः शाक्ते कला- मातृकादीन् शैवे श्रीकण्ठमातृकादीन् वैष्णवे केशवमातृकादीन्
शुद्धप्रपञ्चयाग- मातृके सर्वत्र न्यसेदिति ।
तदुक्तम्—-
जपादौ सर्वमन्त्राणां विन्यासेन लिपेवीना ।
कृतं तन्निष्फलं विद्यात् तस्मात् पूर्वं लिपिं न्यसेत् ॥ इति ।
कादिमतेऽपि—- मातृकायाः षडङ्गञ्च मातृकान्यासमेव च ।
सर्वासां प्रथमं कृत्वा पश्चात्तन्त्रोदितं न्यसेत् ॥इति।
आचार्याश्च—-लिपिन्यासादिकान् साङ्गान् ।
इति ।
नारायणीये च—- अङ्गानि च न्यसेत् सर्वे मन्त्राः साङ्गास्तु सिद्धिदाः ।
इति ।
अन्यत्रापि—- रुद्रैर्युक्तां केवलां वा मनूनां कर्मारम्भे मातृकां विन्यसेद् यः ।
मन्त्रान् सद्यः कुर्वते तस्य सिद्धिं पापैः सार्द्धं याति नाशं जरा च ॥
इति ।
अनन्यधीरित्यनेन मातृकापुटितजपेन मन्त्रसिद्धिरुक्ता ।
तदुक्तम् —-
कुलप्रकाशतन्त्रे—- मन्त्री तु प्रजपेन्मन्त्रं मातृकाक्षरसम्पुटम् ।
क्रमोत्क्रमाच्छतावृत्त्या मासात् सिद्धो भवेन्नरः ॥
मातृकाजपमात्रेण मन्त्राणां कोटिकोटयः ।
सुसिद्धाः स्युर्न सन्देहो यस्मात् सर्वं तदुद्भवम् ॥ इति ।
प्रयोगसारेऽपि—- मातृकायां तु सिद्धायां सिद्धाः स्युर्मन्त्रजातयः ।
सर्वे मन्त्रा यतो मग्ना मातृकायामितस्ततः ॥ इति ॥ ७०-७१ ॥
अश्वत्थोडुम्बरप्लक्षन्यग्रोधसमिधस्तिलाः ।
सिद्धार्थपायसाज्यानि द्रव्याण्यष्टौ विदुर्बुधाः ॥ ७२ ॥
अमीभिर्जुहुयाल्लक्षं तदर्द्धं वा समाहितः ।
सर्वान् कामानवाप्नोति परां सिद्धिञ्च विन्दति ॥ ७३ ॥
सर्वमातृकामन्त्राणां काम्यकर्माण्याह द्रव्यैरिति ।
द्रव्याण्याह अश्वत्थेति ।
जुहुयाल्लक्षमिति द्वादशसहस्राणि पञ्चशती एकैकेन द्रव्येण ।
तदर्द्धं वेति ।
षट्- सहस्राणि पञ्चाशदधिका द्विशती एकैकेन द्रव्येण ।
समाहित इत्यनेन तस्याप्यर्द्धमिति सूचितम् ।
" मन्त्री तदर्द्धमथवापि तदर्द्धकं यः " इत्युक्तेः ।
तदा त्रिसहस्री सपाद- शतमेकैकेन द्रव्येण ॥ ७१-७३ ॥
एभिरर्कसहस्राणि हुत्वा मन्त्री विनाशयेत् ।
रिपून् क्षुद्रग्रहान् भूतान् ज्वराञ्छापांश्च पन्नगान् ॥ ७४ ॥
अर्कसहस्राणीति ।
तदा सार्द्धसहस्रमेकैकेन ।
मन्त्रीत्यनेनैतदुक्तम् ।
विद्यादीना- मल्पत्वमहत्वे विचार्य द्विगुणं चतुर्गुणं वा होमः कार्य इति ।
उक्तञ्च—-
द्वादशसहस्रमथवा तद्द्विगुणं तच्चतुर्गुणं वाथ जुहुयात् ।
इति ।
तदा सहस्रत्रयं सहस्रषट्कं वैकैकेन ।
एवमुत्तरत्रापि ।
अत्यल्पत्वे एकादिशतावृत्त्येत्यपि ज्ञेयम् ।
तदुक्तम्—-
एकद्विकत्रिकचतुष्कशताभिवृत्त्या तां तां समीक्ष्य विकृतिं प्रजुहोतु मन्त्री ।
इति।
क्षुद्रं नारायणीयोक्तम्—-स्तम्भद्वेषौ तथोत्साद उच्चाटो भ्रममारणे ।
व्याधिश्चेति स्मृतं क्षुद्रम् ।
इति ॥ ७४ ॥
मन्त्राणामयथावृत्तिप्रतिपत्तिसमुद्भवान् ।
विकारान् नाशयेदाशु होमोऽयं समुदीरितः ॥ ७५ ॥
प्रयोगान्तरमाह मन्त्राणामिति।
अयथावृत्तिर्वर्णानामन्यथोच्चारणम् ।
अप्रतिपत्तिः अयं मन्त्रः कलदो नेति ज्ञानम् ।
तदुद्भवान् विकारान् ।
तत्र अयथावृत्तेवीकारो वातकुष्ठादिः अप्रतिपत्तेवीकार उन्माद इति नारसिंहे प्रपञ्चितम् ।
तेन यथावृत्तिश्च प्रतिपत्तिश्च यथावृत्तिप्रतिपत्ती पश्चान्नञा सम्बन्धः ।
होमः समुदीरित इति सहस्रावृत्त्येति ज्ञेयम् ।
" शमयेदचिरात् सहस्रवृत्त्या " इत्युक्तेः ॥ ७५ ॥
एभिस्त्रिमधुरोपेतैर्जुहुयाल्लक्षमानतः ।
अचिरादेव स भवेत् साक्षाद् भूमिपुरन्दरः ॥ ७६ ॥
त्रिमधुरोपेतैरिति ।
एभिरष्टभिः ।
पयोमधुघृतं त्रिमधुरम् ।
तदुक्तम्—-आज्यं क्षीरं मधु तथा मधुरत्रयमुच्यते ।
इति ।
पयः स्थाने शर्करा वा ॥ ७६ ॥
अमीभिः साधको हुत्वा वश्यादीनपि साधयेत् ।
हुत्वा लक्षं तिलैः शुद्धैर्मुच्यते सर्वपातकैः ॥ ७७ ॥
पायसान्नेन जुहुयान्मन्त्री सर्वसमृद्धये ।
पद्मानां लक्षहोमेन महतीं श्रियमाप्नुयात् ॥ ७८ ॥
घृतेन जुहुयाल्लक्षं प्राप्नुयात् कीत्तीमुत्तमाम् ।
जातीकुसुमहोमेन सर्वलोकवशं नयेत् ॥ ७९ ॥
संशोधितैस्त्रिमध्वक्तैर्लवणैर्लक्षमानतः ।
जुहुयाद् गुलिकाः कृत्वा वशयेत् सर्वमञ्जसा ॥ ८० ॥
अमीभिरष्टभिः ।
साधक इत्यनेन लक्षार्द्धमब्दत्रयादर्वागित्युक्तम् ।
यदाहुः—- लक्षं तदर्द्धकं वा मधुरत्रयसंयुतैर्हुनेदेतैः ।
अब्दत्रयादथाऽर्वाक् त्रिभुवनमखिलं वशी- कुरुते ।
शुद्धैरिति अवकरं दूरीकृत्य प्रक्षाल्य संशोषितैरित्यर्थः ।
जुहुयाल्लक्षमिति सम्बध्यते ।
होमेनेति लक्षमानत इति सम्बध्यते ।
संशोधितैस्त्यक्तावकरैः लवणैः गुलिकाः कृत्वा इति सम्बन्धः ।
हुत्वा लक्षमित्यादिका सङ्ख्या महति कार्ये ।
जुहुयाच्च कार्यगुरुतालाघवमभिवीक्ष्य योग्यपरिमाणम् ।
इत्युक्तेः ॥७७-८०॥
लिखित्वा पत्रखण्डेषु मातृकार्णान् पृथक् पृथक् ।
अभ्यर्च्य जुहुयाद् वह्नौ तत्पत्राक्षरमुच्चरन् ॥ ८१ ॥
अभिचारहरो होमः सर्वरक्षाप्रसिद्धिदः ।
सहस्रहोमे वितरेद् दक्षिणां निष्कमानतः ॥ ८२ ॥
लिखित्वेति ।
पत्रखण्डेषु तालपत्रादिखण्डेषु मातृकार्णान् पृथक् प्रत्येकं लिखित्वा पृथक् प्रत्येकमभ्यर्च्य अग्नौ
मातृकापीठमिष्ट्वा तन्मन्त्राक्षरमुच्चरन् जुहुयादिति सम्बन्धः ।
तत्र प्रत्यक्षरमृषिच्छन्दोदेवताशक्तिबीजान्युच्चार्य ध्यानं कृत्वा तेनैवाक्षरेण गन्धादि
दद्यादित्यर्चनाक्रमः ।
तत्र ऋष्यादि यथा—-अर्जुन्यायनमध्ये द्वौ भार्गवस्तौ प्रतिष्ठिका ।
अग्निवेश्यः सुप्रतिष्ठा त्रिषु चाब्धिषु गौतमः ॥
गायत्री च भरद्वाज उष्णिगेकारके परे ।
लोहित्यायनकोऽनुष्टुप् वशिष्ठो बृहती द्वयोः ॥
माण्डव्यो दण्डकश्चापि स्वराणां मुनिछन्दसी ।
मौहायनश्च पङ्क्तिः केऽजस्त्रिष्टुप् द्वितये घङोः ॥
योग्यायनश्च जगती गोपाल्यायनको मुनिः ।
छन्दोऽतिजगती चे छेन्नषकः शर्करी ह्यजः ॥
शर्करी काश्यपश्चातिशर्करी झञयोष्टठोः ।
शुनकोष्टिः सौमनस्योत्यष्टिर्डे कारणो धृतिः ॥
ढणोर्माण्डव्यातिधृति साङ्कृत्यायनकः कृतिः ।
त्रिषु कात्यायनस्तु स्यात् प्रकृतिर्नपकेषु बे ॥
दाक्षायनाकृति व्याघ्रायणौ भे विकृतिर्मता ।
शाण्डिल्यसङ्कृती मेऽथ काण्डल्यातिकृती यरोः ॥
दाण्ड्यायनोत्कृती लेऽथ वे जातायनदण्डकौ ।
लाट्यायनो दण्डकः शे षसहे जयदण्डकौ ॥
माण्डव्यदण्डकौ लक्षे कादीनामृषिछन्दसी ।
एवमुक्ते देवताश्च श्रीकण्ठादय ईरिताः ॥
बीजमस्याः शक्तयस्तु पूर्णेदर्यादयो मताः ॥ इति ।
ध्यानं पूर्वेक्तम् ।
तदुक्तमनुसन्धेयम् ।
निष्केति सुवर्णचतुष्कम् ॥ ८१-८२ ॥
अर्द्धं वा शक्तितो दद्याद् यथोक्तं फलमाप्नुयात् ।
अनया सप्त सञ्जप्तं पिबेत् प्रातदीने दिने ॥ ८३ ॥
अनयेति ।
अयमत्र प्रयोगक्रमः ।
स्वयं देवताविग्रहो भूत्वा लिपिपद्मे जलमादाय बालादशाक्षरी ताः विपरीतदशाक्षरी बाला च एवं क्षान्तं
जप्त्वाक्षाद्यन्तमेवं सबिन्दुकञ्च पुनः सबिन्दुविसर्गम आदिक्षान्तञ्च जप्त्वा भ्रूमध्ये अक्षराणां
दीपशिखावद्व्याप्तिं ध्यायन् पिबेदिति ।
वर्णानामास्यान्तरुद्गमनम् आस्यात् शास्त्राद्याकारेण निर्गमनञ्च ध्यायन् पुनद्वीवारं पिबेदिति ॥ ८३ ॥
सलिलं स भवेद् वाग्मी लभते कवितां पराम् ।
ब्राह्मीरसे वचाकल्के पयसा विपचेद् घृतम् ॥ ८४ ॥
सलिलमिति पूर्वेण सम्बध्यते ।
भवेदित्यर्कमासत इति ज्ञेयम् ।
अनेडमूकोऽपि कवित्वगवीतः पराञ्च सिद्धिं लभतेऽर्कमासतः ।
इत्युक्तेः ।
ब्राह्मीरस इति ।
अत्र घृतं जीवद्वत्सैकवर्णगोरेव ग्राह्यम् ।
दुग्धमपि तादृश्या एव ।
आयुर्वेदोक्तप्रकारेण च घृतपाकः ।
तत्र " कल्काच्चतुर्गुणः स्नेहः " इति सामान्यतः स्नेहस्य चतुर्थभागः कल्क उक्तः ।
अत्र त्वयं स्वरसपाक इति कृत्वा स्नेहाष्टमांशः कल्को ग्राह्यः ।
तदुक्तम्—- स्नेहः सिध्यति शुद्धाम्बुनिः क्वाथस्वरसैः क्रमात् ।
कल्कस्य योजयेदंशं चतुर्थं षष्ठमष्टमम् ॥ इति ।
अत्र ब्राह्मीरसः स्वरसः ।
तदुक्तम्—-सम्पिष्यार्द्रं वस्तु वस्त्रगालितं स्वरसं विदुः।
इति ।
कल्क इति ।
" कल्को दृषदि पेषितः " इति ।
तत्रायं क्रमः ।
प्रस्थद्वयमितं घृतं पलद्वयमितः श्वेतवचाकल्कः ।
घृताच्चतुर्गुणो ब्राह्मीरसः चतुर्गुणं क्षीरम् ।
पञ्चप्रभृति यत्र स्युर्द्रवाणि स्नेहसंविधौ ।
तत्र स्नेहसमान्याहुरर्वाक् च स्याच्चतुर्गुणम् ॥
इत्युक्तत्वात् ।
चतुर्गुणं जलं देयम् ।
तदुक्तम्—- क्षीरदध्यारनालैस्तु पाको यत्रेरितः क्वचित् ।
चतुर्गुणं जलं तत्र वीर्याधानार्थमाचरेत् ॥ इति ।
पाकज्ञानञ्च—- नाङ्गुलिग्राहिता कल्के न स्नेहेऽग्नौ सशब्दता ।
वर्णादिसम्पच्च यदा तदैनं शीघ्रमाहरेत् ॥
तथान्यत्र—- स्नेहस्य पाके कल्कस्तु वत्तीतो वत्तीवद्भवेत् ।
तथा—- घृतस्य फेणोपरमस्तैलस्य च तदुद्भवः ।
लेहस्य तन्तुमत्ताप्सु मज्जनं सरणं न च ॥ इति ।
इदं घृतं पानार्थमिति ।
अत्र सम एव पाकः ।
तदुक्तम्—-स्नेहः पक्वो भवेत् सिद्ध्यै पाकः पाने भवेत् समः ।
खरोऽभ्यङ्गे मृदुर्नस्ये सामान्येयं प्रकल्पना ॥ इति ॥ ८४ ॥
अयुतं मातृकाजप्तमचीतञ्च विधानतः ।
पिबेत् प्रातः स मेधावी भवेद् वाक्पतिसन्निभः ॥ ८५ ॥
ब्राह्मीं सहस्रसञ्जप्तां वचां वा पयसा पिबेत् ।
स लभेन्महतीं मेधामचिरान्नाऽत्र संशयः ॥ ८६ ॥
विधानत इति ।
ततो घृतं समुत्तार्य शीतलमयुतजप्तं मातृकापीठं घृते विभाव्य मातृकोक्तविधानेन पूजितं पिबेदिति ।
भवेदिति संवत्सरादिति ज्ञेयम् ।
" कविर्भवति वत्सरतः " इत्युक्तेः ।
तन्त्रान्तरे तु विशेषः—-
पलं श्वेतवचाचूर्णं कर्षं तुरगगन्धि च ।
कृष्णा हरिद्रा सिन्धूत्थं धात्री रुग्विश्वभेषजम् ॥
प्रतिनिष्कन्तु सञ्चूर्ण्य घृतप्रस्थे विनिक्षिपेत् ।
ब्राह्मीरसे चतुःप्रस्थे पचेन्मृद्वग्निपाकवित् ॥
ब्राह्मीघृतमिदं प्रोक्तमनयाऽयुतमन्त्रितम् ।
पिबेत् सूर्येपरागे तु सर्वज्ञत्वमवाप्नुयात् ॥
दिनादौ वा लिहेन्नित्यं पञ्चाशदभिमन्त्रितम् ।
वाग्विलासमसौ विन्देत् कविवृन्देषु सम्मतम् ॥ इति ॥ ८५-८६॥
पूर्वेक्तं पङ्कजं कृत्वा कुम्भं संस्थाप्य पूर्ववत् ।
क्वाथेन पूरयेन्मन्त्री यथावत् क्षीरशाखिनाम् ॥ ८७ ॥
अष्टगन्धं विलोड्याऽस्मिन्नवरत्नसमन्विते ।
आवाह्य पूजयेद् देवीं मातृकामुक्तमार्गतः ॥ ८८ ॥
सहस्रसाधितैस्तोयैरभिषिञ्चेत् प्रियं नरम् ।
भानुवारे शुभे लग्ने ब्राह्मणानपि भोजयेत् ॥ ८६ ॥
गुरवे दक्षिणां दद्याद् भक्तियुक्तः स्वशक्तितः ।
रक्षाकरं विशेषेण कृत्याद्रोहोपशान्तिदम् ॥ ९० ॥
एश्वर्यजननं पुंसां सर्वसौभाग्यसिद्धिदम् ।
अभिषेकमिमं प्राहुवीश्वसम्मोहनप्रदम् ॥ ९१ ॥
पूर्वेक्तमिति ।
मातृकापूजावसरोक्तम् ।
पूर्ववदिति तुर्येक्तरीत्या ।
क्वाथेन कषायेण ।
यथावदिति चतुर्थांशावशिष्टेन सबिन्दुकां मातृकां जपन् पूरयेदिति च ।
क्षीरशाखिनामिति तत् त्वचामित्यर्थः ।
अष्टगन्धमिति शाक्तम् ।
नवरत्नानि वक्ष्यन्ते ।
सहस्रसाधितैः सहस्रसञ्जप्तैरित्यर्थः ।
भानुवारे शुभे लग्ने तोयैरभिषिञ्चेदिति सम्बन्धः ।
मासमिति ज्ञेयम् ।
" तञ्चापि मासम् " इत्युक्तेः ।
नरमिति लिङ्गमविवक्षितम् ।
" नारी बन्ध्याऽपि नानाविधगुणनिलयं पुत्रवर्यं प्रसूते " इत्युक्तेः ।
सम्बलनं (सम्मोहनं ?) इति वश्यम् ॥ ८७-९१ ॥
पूर्वेक्तमण्डलं कृत्वा मन्त्री नवपदान्वितम् ।
मध्यादि स्थापयेत् तेषु पदेषु कलशान् नव ॥ ९२ ॥
तन्तुभिर्वेष्टितान् शुद्धान् बहिश्चन्दनचचीतान् ।
सुधूपवासितान् मन्त्री दूर्वाक्षतसमन्वितान् ॥ ९३ ॥
आपूर्य शुद्धतोयैस्तान् वेष्टयेदंशुकैस्तु तान् ।
मुक्तामाणिक्यवैदूर्यगोमेदान् वज्रविद्रुमौ ॥ ९४ ॥
पद्मरागं मरकतं नीलञ्चेति यथाक्रमात् ।
उक्तानि नवरत्नानि तेषु कुम्भेषु निक्षिपेत् ॥ ९५ ॥
विष्णुक्रान्तामिन्द्रवल्लीं देवीं दूर्वाञ्च निक्षिपेत् ।
स्थापयेत् कुम्भवक्त्रेषु कोमलांश्चूतपल्लवान् ॥ ९६ ॥
विन्यसेदक्षतोपेतांश्चषकांश्च फलान्वितान् ।
मध्ये कुम्भे समाराध्य देवीं मन्त्री वृषादितः ॥ ९७ ॥
अर्चयेद् दिक्षु कुम्भेषु व्यापिन्याद्याः पुरोदिताः ।
वर्गमन्त्रयुताः प्रोक्तलक्षणाः सर्वसिद्धिदाः ॥ ९८ ॥
शर्कराघृतसंयुक्तं पायसञ्च निवेदयेत् ।
स्पृष्टवा कुम्भान् कुशैवीद्यां जपेत् साग्रं शतं शतम् ॥ ९९ ॥
नवपदान्वितमिति नवनाभम् ।
शुद्धान् व्रणकालिमादिरहितान् ।
सुधूपवासि- तानित्यन्तः यथाक्रमात् निक्षिपेदिति मध्यादितः सर्वत्र सर्वाणि ।
देवीमिति सहदेवीम् ।
निक्षिपेदिति सर्वत्र सर्वाः ।
वृषा इन्द्रः तदादित इति पूर्वादितः ।
वासवो वृत्रहा वृषा इति कोशः ।
दिक्षु कुम्भेषु इति व्यधिकरणे सप्तम्यौ ।
वर्गा अकाराद्याः व्यस्तसमस्ताः त एव मन्त्रास्तद्युतास्तदाद्याः ।
विद्यां मातृकाम् ।
साग्रमष्टोत्तरम् ।
शतं शतमित्यनेन प्रतिकुम्भम् ॥ ९२-९९ ॥
अभिषिञ्चेद् विलोमेन साध्यं तं दत्तदक्षिणम् ।
सर्वपापक्षयकरं शुभदं शान्तिसिद्धिदम् ॥ १०० ॥
कृत्याद्रोहादिशमनं सौभाग्यश्रीजयप्रदम् ।
पुत्रप्रदं च बन्ध्यानामभिषेकमिमं विदुः ॥ १०१ ॥
ज्वरार्त्तस्य पुरः स्थित्वा जपेत् साग्रं सहस्रकम् ।
ज्वरो नश्यति तस्याशु क्षुद्रभूतग्रहा अपि ॥ १०२ ॥
विलोमेनेति ईशानादि स्थितैर्घटैरित्यर्थः ।
तदुक्तं प्रयोगसारे—-
पुनरन्तादिमध्यान्तमभिषिञ्चेत् प्रियां स्त्रियम् ।
इति ।
क्षुद्ररोगग्रहा अपि नश्यन्तीत्यनुषज्यते ॥ १००-१०२ ॥
परतेजसि सञ्चिन्त्य शुभ्रं स्रुतसुधामयम् ।
विधुं विद्यां जपेद् योगो विषरोगविनाशकृत् ॥ १०३ ॥
वलीपलितरोगघ्नः क्षुत्पिपासाप्रणाशनः ।
पुष्टिदः सर्वसौभाग्यदायी लक्ष्मीशुभप्रदः ॥ १०४ ॥
परतेजसि सहस्रारकमलकणीकास्थित परमशिवे ।
विधुं तत्रत्यमेव ॥ १०३-१०४ ॥
सोमसूर्याग्निरूपाः स्युर्वर्णा लोहत्रयं तथा ।
रौप्यमिन्दुः स्मृतो हेम सूर्यस्ताम्रं हुताशनः ॥ १०५ ॥
लोहभागाः समुद्दष्टाः स्वराद्यक्षरसङ्ख्यया ।
तैर्लेहैः कारयेन्मुद्रामसङ्कलितसङ्गताम् ॥ १०६ ॥
साग्रं सहस्रं सञ्जप्य स्पृष्ट्वा तां जुहुयात् ततः ।
तस्यां सम्पातयेन्मन्त्री सपीषा पूर्वसङ्ख्यया ॥ १०७ ॥
त्रिशक्तिमुद्रिकामाह सोमेति ।
लोहत्रयमिति ।
" सर्वञ्च तैजसं लोहम् " इत्युक्तत्वात् रूप्यहेमताम्राणां लोहशब्देनाभिधानम् ।
तथेति सोमसूर्याग्निरूपमित्यर्थः ।
तदेवाह रौप्यमिन्दुरिति ।
स्वरादीति ।
रौप्यं १६ सुवर्ण २५ ताम्रं १० ।
केचित्तु वर्णानां द्वादशकलात्मकत्वात् सुवर्णभागा द्वादशेति वदन्ति ।
अयमेव पक्षः साम्प्रदायिकः ।
शैवागमेऽपि—-
ताम्रतारसुवर्णानामर्कषोडशखेन्दुभिः ।
इति ।
अत्र व्युत्क्रमेण सङ्ख्येति व्याख्यातम् ।
असङ्कलितेति ।
असङ्कलिताममिलितां पश्चात् सङ्गतां मिलिताम् ।
तत्र प्रकारः ।
तत्तद्भागमितस्य लोहत्रयस्य मुद्रिकात्रयं कृत्वा पश्चात् संयोजयेदिति ।
साग्रमिति अष्टाधिकम् ।
सञ्जप्य मातृकामिति शेषः ।
ततो मन्त्री पूर्वसङ्ख्यया अष्टोत्तरसहस्रमिति ।
सपीषा जुहुयादिति सम्बन्धः ।
तस्यां सम्पातयेदिति ।
सम्पातो नाम स्रुवस्थाहुतिशेषाज्यस्य प्रत्याहुति मुद्रिकायां पातः ॥ १०५-१०७ ॥
निक्षिप्य कुम्भे तां मुद्रामभिषेकोक्तवर्त्मना ।
आवाह्य पूजयेद् देवीमुपचारैः समाहितः ॥ १०८ ॥
अभिषिच्य विनीताय दद्यात् तां मुद्रिकां गुरुः ।
इयं रक्षः क्षुद्ररोगविषज्वरविनाशिनी ॥ १०९ ॥
व्यालचौरमृगादिभ्यो रक्षां कुर्याद् विशेषतः ।
युद्धे विजयमाप्नोति धारयन्मनुजेश्वरः ॥ ११० ॥
अभिषेकोक्तेति ।
एककलशप्रोक्तेन ।
आवाह्येति कुम्भे ।
अभिषिच्येति साध्यम् ।
व्यालः सर्पः ।
मृगो व्याघ्रः ॥ १०८-११० ॥
विभजेन्मातृकां मन्त्री नव वर्गान् यथाक्रमात् ।
अष्टावष्टौ स्वराः स्पर्शाः पञ्चशो व्यापका अपि ॥ १११ ॥
नववर्गाः समुत्पन्ना नववर्गेश्वरा ग्रहाः ।
अर्केन्दुरक्तज्ञगुरुभृगुमन्दाहिकेतवः ॥ ११२ ॥
नवरत्नमुद्रिकामाह विभजेदिति ।
मन्त्रीत्यनेन नवग्रहन्यासोऽपि सूचितः ।
तत्र प्रकारः ।
स्वरानुक्त्वा सोममण्डलाय नम इति मूर्द्धादिगलपर्यन्तम्, कादिमान्तमुच्चार्य सूर्यमण्डलाय नम इति गलादि
हृदयान्तम्, याद्यानुक्त्वा वह्निमण्डलाय नम इति हृदयादिपादान्तं व्यापकं न्यसेदिति मण्डलत्रयन्यासः ।
आदिठान्तमुक्त्वा सोमण्डलाय नम इति मूर्द्धादिहृदयान्तं, आदिक्षान्तमुक्त्वा अग्निमण्डलाय नम इति
हृदादिपादान्तं न्यसेदित्यग्नीषोमन्यासः ।
आदिक्षान्तमुक्त्वा हंसः पुरुषात्मने नम इति व्यापकत्वेन न्यसेदिति हंसन्यासः ।
एते न्यासा यथाक्रमादितिपदेन सूचिताः ।
ततः अम् आम् इम् ईम् उम् ऊम् ऋं ॠं सूर्याय भगवते नमः इत्यादिक्रमेण केत्वन्तं विन्यस्य पुनः
प्रथमोक्तन्यासत्रयं वैपरीत्येन कुर्यादिति ग्रहन्यासः ।
तत्र शेषाष्टस्वरैः सोमः कवर्गेणाऽङ्गारकः चवर्गेण बुधः टवर्गेण बृहस्पतिः तवर्गेण शुक्रः
पवर्गेण शनैश्चरः यवर्गेण राहुः षवर्गेण केतुः ।
अयमत्र न्यासक्रमः ।
स्थानानि तु मूलाधार- लिङ्गनाभिहृदयगललम्बिकाभ्रूमध्यललाटब्रह्मरन्ध्राणीति ।
व्यापका यकाराद्याः ।
अपीत्यपिशब्दात् पञ्चशः इत्यत्राप्यन्वेति ।
ग्रहक्रममाह अर्केति ।
रक्तो मङ्गलः ।
ज्ञो बुधः ।
मन्दः शनैश्चरः ।
अहिः राहुः ॥ १११-११२ ॥
माणिक्यं मौक्तिकं चारु विद्रुमं गारुडं पुनः ।
पुष्परागं लसद्वज्रं नीलं गोमेदकं शुभम् ॥ ११३ ॥
वैदूर्यं नव रत्नानि मुद्रां तैः कल्पयेच्छुभाम् ।
जपहोमादिकं सर्वं कुर्यात् पूर्वेक्तवर्त्मना ॥ ११४ ॥
यो मुद्रां धारयेदेनां तस्य स्युर्वशगा ग्रहाः ।
वर्द्धते तस्य सौभाग्यं लक्ष्मीरव्याहता भवेत् ॥ ११५ ॥
कृत्या द्रोहा विनश्यन्ति नश्यन्ति सकलापदः।
रक्षोभूतपिशाचाद्यां नेक्षन्ते तं भयाकुलाः ॥ ११६ ॥
उपर्युपरि वर्द्धन्ते धनरत्नादिसम्पदः ।
मुद्रिकायाः प्रसादेन राजलक्ष्मीः स्थिरा सदा ॥ ११७ ॥
चावीत्यनेनातिलोहितप्रवालस्य ग्रहणमुक्तम् ।
लसदित्यनेन षट्कोणवज्रस्यैव ग्रहणमुक्तम् ।
पूर्वेक्तवर्त्मनेति पूर्वमुद्रोक्तप्रकारेण ॥ ११३-११७ ॥
तार्त्तीयोज्ज्वलकणीकं स्वरयुगैराविर्भवत् केसरं
वर्गेल्लासिवसुच्छदं वसुमतीगेहेन संवेष्टितम् ।
ताराधीश्वरवारिवर्णविलसद्दक्कोणसंशोभितं
यन्त्रं वर्णतनोः परं निगदितं सर्वामयघ्नं परम् ॥ ११८ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
षष्ठः पटलः समाप्तः ॥ ६ ॥
ब्थ् " बि
धारणयन्त्रमाह तार्त्तीयेति ।
तार्त्तीयं पूर्वेक्तं कणीकाबीजम् ।
ताराधीश्वरः ठकारः ।
आकारसाम्यात् ।
गौडलिपौ तादृक्स्वरूपस्य लिखितत्वात् ।
वारिवर्णे वकारः ।
ताभ्यां विलसन्तौ यौ दिक्कोणौ ताभ्यां संशोभितम् ।
तेनात्र पूर्वयन्त्रादयमेव विशेषः ।
उक्तं कादिमते " ठं वं भूदिग्विदिक्षु च " इति ।
आचार्यैः पूर्वेक्तं पूजायन्त्रमेव धारणयन्त्रमुक्तम् ।
इदमपि पद्यं कैश्चित् तदनुसारेण व्याख्यायते ।
विलसन्तौ यौ दिक्कोणौ ताभ्यां संशोभितम् ।
तेन विदिक् विकोण इति जातम् ।
ततो विदिक्षु ठकारः ।
विकोणशब्देन दिश उच्यन्ते ।
ततो दिक्षु वकार इत्यर्थः ।
तदुक्तमाचार्यैः—-
क्ष्माबिम्बेन च सप्तमार्णवयुजास्राशासु संवेष्टितं
वर्णाब्जं शिरसि स्मृतं विषगदप्रध्वंसि मृत्युञ्जयम् ।
इति ॥ ११८॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां षष्ठः पटलः ॥ ६ ॥
ब्थ् " बि