०५

अथ पञ्चमः पटलः

ततोऽग्निजननं वक्ष्ये सर्वतन्त्रानुसारतः ।
आचार्यकुण्डे विधिवत् संस्कृते शास्त्रवर्त्मना ॥ १ ॥
अधिवासदिवस एवास्त्रदेवतापूजानन्तरम् आचार्यकर्त्तव्यकुण्डसंस्कारादिकर्माह तत इति ॥
शास्त्रवर्त्मना विधिवत् ।
संस्कृते आचार्यकुण्डे सर्वतन्त्रानुसारतोऽग्निजननं वक्ष्य इति सम्बन्धः ॥ १ ॥
अष्टादश स्युः संस्काराः कुण्डानां तन्त्रचोदिताः ।
वीक्षणं मूलमन्त्रेण शरेण प्रोक्षणं मतम् ॥ २ ॥
तमेव विधिमाह अष्टादशेति ।
शरेणेत्यस्त्रमन्त्रेण ।
अत्र सर्वत्र अस्त्रादिमन्त्रा देयमन्त्रस्य ज्ञेयाः ।
वीक्षणं मूलमन्त्रेणेति प्रथमत उक्तेः केचन जातिमन्त्रमेवाहुः ।
तच्च साम्प्रदायिकम् ।
प्रोक्षणमित्युत्तानेन हस्ताग्रेण ।
" उत्तानेन हस्तेन प्रोक्षयेत् " इति सूत्रणात् ॥ २ ॥
तेनैव ताडनं दर्भैर्वर्मणाऽभ्युक्षणं स्मृतम् ।
अस्त्रेण खननोद्धारौ हृन्मन्त्रेण प्रपूरणम् ॥ ३ ॥
अभ्युक्षणमिति मुष्टिबन्धेन सर्वत्र सेचनम् ।
उद्धारः खातमृदः पूरणम् अन्यमृदा सेचनमभ्युक्षणमेव ।
अभेर्धात्वर्थानुवर्त्तनात् कश्चित्तमनुवर्त्तते इत्युक्तेः ॥ ३ ॥
समीकरणमस्त्रेण सेचनं वर्मणा मतम् ।
कुट्टनं हेतिमन्त्रेण वर्ममन्त्रेण मार्जनम् ॥ ४ ॥
विलेपनं कलारूपकल्पनं तदनन्तरम् ।
त्रिसूत्रीकरणं पश्चाद्धृदयेनाऽर्चनं मतम् ॥ ५ ॥
हेतिमन्त्रेणेत्यस्त्रमन्त्रेण ।
वर्ममन्त्रेणेत्यग्रिमेषु चतुर्षु सम्बध्यते ।
तदुक्तं सोमशम्भुना—-
सम्मार्जनं समालेपं कलारूपप्रकल्पनम् ।
त्रिसूत्रीपरिधानञ्च वर्मणाऽभ्यर्चनं हृदा ॥ इति ।
कलारूपकल्पनमिति चन्द्रसूर्याग्निकलारूपकल्पनम् ।
त्रिसूत्रीकरणमिति सूत्रत्रयवेष्टनम् ॥ ४-५ ॥
अस्त्रेण वज्रीकरणं हृन्मन्त्रेण कुशैः शुभैः ।
चतुष्पथं तनुत्रेण तनुयादक्षपाटनम् ॥ ६ ॥
यागे कुण्डानि संस्कुर्यात् संस्कारैरेभिरीरितैः।
अथवा तानि संस्कुर्याच्चतुभीर्वीक्षणादिभिः ॥ ७ ॥
वज्रीकरणमिति वज्रवद्दृढचिन्तनम् ।
चतुष्पथमिति मध्यात् कुशैश्चतुदीक्षु मार्गचतुष्टयकरणम् ।
तनुत्रेणेति कवचमन्त्रेण ।
अक्षपाटनमिन्द्रियोच्चाटनम् इत्येके ।
अन्ये तु क्षपाटना राक्षसाः न विद्यन्ते क्षपाटना यस्मिन् तत् ।
हुङ्कारेण राक्षसनिवारणं कुर्यादित्यर्थः ।
अन्ये तु साम्प्रदायिकाः अट पट गतौ गतिर्ज्ञानम् आदिक्षान्तानां पाटनं व्याप्तिः ।
अशक्तान् प्रत्याह अथवेति ॥ ६-७ ॥
तिस्रस्तिस्रो लिखेल्लेखा हृदा प्रागुदगग्रगाः ।
प्रागग्राणां स्मृता देवा मुकुन्देशपुरन्दराः ॥ ८ ॥
रेखाणामुदगग्राणां ब्रह्मवैवस्वतेन्दवः ।
अथवा षट्कोणावृतं त्रिकोणं तत्र संलिखेत् ॥ ९ ॥
तिस्र इति ।
तिस्रस्तिस्रो रेखा लिखेत् ।
गा इत्यनेनैतदुक्तं भवति ।
प्रागग्राणाम् उदक्संस्थत्वम् उदगग्राणां पूर्वसंस्थत्वमिति ।
सर्वाः प्रादेशमिताः इत्यपि सम्प्रदायात् ।
तदुक्तं सौत्रामणितन्त्रे—-
प्राचीपूर्वमुदक्संस्थं दक्षिणारम्भमालिखेत् ।
उदगग्रं पुरःसंस्थं पश्चिमारम्भमालिखेत् ।
तिस्रस्तिस्रो लिखित्वैवं प्रोक्षयेद् वाग्भवेन च ॥ इति ।
अथवा षट्कोणावृतं त्रिकोणं लिखेत् ।
अत्र केचित् षट्कोणवृत्तत्रिकोणम् इति पाठमपठन् ।
तदज्ञानविजृम्भितम् ।
तथा च आचार्याः—-
अथवा षट्कोणावृतत्रिकोणके गुरुजनोपदेशेन ।
इति ।
तथा च यामले—- षट्कोणेनावृतं देवि त्रिकोणञ्चात्र संलिखेत् ।
इति ।
अन्यत्रापि—- कृत्वा रेखाश्च मध्यतः ।
षट्कोणं त्रिकोणञ्च ।
इति ॥ ८-९ ॥
सर्वाण्यभ्युक्ष्य तारेण योगपीठमथार्चयेत् ।
वागीश्वरीमृतुस्नातां नीलेन्दीवरसन्निभाम् ॥ १० ॥
वागीश्वरेण संयुक्तामुपचारैः प्रपूजयेत् ।
सूर्यकान्तादिसम्भूतं यद्वा श्रोत्रियगेहजम् ॥ ११ ॥
आनीय चाग्निं पात्रेण क्रव्यादांशं परित्यजेत् ।
संस्कुर्यात् तं यथान्यायं देशिको वीक्षणादिभिः ॥ १२ ॥
सर्वाणीति ।
एतानि प्रणवेनाऽभ्युक्ष्य योगपीठं वागीशीयोगपीठं मण्डूकादि परतत्त्वान्तं सम्पूज्य नवमोक्ताः पीठशक्तीः
सम्पूज्य ह्री� वागीश्वरयोर्येगपीठाय नम इति योगपीठं पूजयेत् ।
अत्र तारशब्देन यथास्वं तत्तन्मन्त्रेषु पञ्चप्रणवानामपि ग्रहणं ज्ञेयम् ।
प्रपूजयेदिति ।
पीठे शक्तिबीजेन वागीशीं साध्यमन्त्रेण वागीशम् ।
तदुक्तं गणेश्वरविमशीन्याम्—-शक्तिबीजेन वागीशीं वागीशं साध्यमन्त्रतः ।
इति ।
अन्यत्रापि—- साध्यमन्त्रेण तं देवम् इत्यादिना ।
सूर्यकान्तादीत्यादिशब्देन अरणिजन्यः ।
तदुक्तम्—-
जातं मार्त्तण्डकान्ताद्धुतवहमरणेः श्रोत्रियागारजं वा ।
इति ।
श्रोत्रियगेहजमिति ।
श्रोत्रियत्वं वेदाध्ययनेन तत्कर्मानुष्ठातृत्वेन च ।
तेन साग्नित्वे तात्पर्यम् ।
तदुक्तं वशिष्ठसंहितायाम्—-
प्रमथ्य विधिनैवाग्निमाहिताग्नेर्गृहादपि ।
आनीय चादधीतात्र ।
इति ।
पात्रेणेति कांस्यादिपात्रेण ।
पात्रान्तरपिहितेन इत्याचार्याः ।
अन्यत्र तु—- श्रोत्रियागारजं वापि सूर्यकान्तोद्भवन्तु वा ।
अरणीसम्भवं वापि क्षिप्तं स्वर्णादिभाजने ॥ इति ।
अत्रिरपि—- पात्रान्तरेण पिहिते ताम्रपात्रादिके शुभे ।
अग्निप्रणयनं कुर्याच्छरावे तादृशेऽपि च ॥ इति ।
अन्यत्रापि—- क्षेत्रान्निक्षिप्य पात्रे वरकनकमये ताम्रपात्रेऽथ वापि
मृत्पात्रे वा पिधायाऽमलविपुलमतिः ।
इति ।
यत्तु स्मृतिसारे—- शरावे भिन्नपात्रे वा कपाले वोल्मुकेऽपि वा ।
नाग्निप्रणयनं कुर्याद् व्याधिहानिभयावहम् ॥
इति वचनं तस्य मुख्यपात्रसम्भवे शरावो न ग्राह्य इत्यत्र तात्पर्यम् ।
क्रव्यादांशं परित्यजेदिति ।
अस्त्रमन्त्रेण नैरृत्य इति ज्ञेयम् ।
तदुक्तम्—- अस्त्रेणाऽग्निं समादाय कवचेन पिधाय च ।
क्रव्यादांशन्तु चाऽस्त्रेण नैरृत्ये सन्त्यजेत् प्रिये ॥ इति ।
अन्यत्र वह्निबीजेन क्रव्यादांशत्यागः ।
तदुक्तम्—-वह्निबीजेन मन्त्री क्रव्यादांशं त्यजेत् तं तदनु च मनुना शोधयेदस्त्रकेन ।
इति ।
मन्त्रमुक्तावल्यान्तु विशेषः—-
आनीयाऽस्त्रेण नैरृत्ये क्रव्यादांशं परित्यजेत् ।
देवांशं मूलमन्त्रेण स्थापयेत् पुरतः सुधीः ॥ इति ।
यथान्यायमित्यनेन प्रोक्षणाभ्युक्षणे तथा कार्ये यथा आनीतोऽग्निस्तिष्ठती- त्युक्तम् ।
वीक्षणादिभिरित्यादिशब्देन संस्कारत्रयम् ॥ १०-१२ ॥
औदर्यबैन्दवाग्निभ्यां भौमस्यैक्यं स्मरन् वसोः ।
योजयेद् वह्निबीजेन चैतन्यं पावके तदा ॥ १३ ॥
औदर्येति ।
बिन्दुः प्रसिद्धः परमात्मस्वरूपः ।
तस्याग्नीषोमस्वरूपत्वात् ।
तद्भवो वह्निर्बैन्दवः ।
अन्ये बिन्दुः भ्रूमध्यमिति ।
भौमस्य पाथीवस्य ।
वसोरग्नेः ॥ १३ ॥
तारेण मन्त्रितं मन्त्री धेनुमुद्रामृतीकृतम् ।
अस्त्रेण रक्षितं पश्चात्तनुत्रेणाऽवगुण्ठितम् ॥ १४ ॥
अचीतं त्रिः परिभ्राम्य कुण्डस्योपरि देशिकः।
प्रदक्षिणं तदा तारमन्त्रोच्चारणपूर्वकम् ॥ १५ ॥
आत्मनोऽभिमुखं वह्निं जानुस्पृष्टमहीतलः ।
शिवबीजधिया देव्या योनावेव विनिक्षिपेत् ॥ १६ ॥
तारेणेति ।
पूर्ववत्तारशब्दार्थः ।
अमृतीकृतमित्यमृतबीजेनेत्याचार्याः ।
तदुक्तम्—-अमृतीकरणं ततो विदध्याज्जलबीजेन सबिन्दुना कृशानोः ।
इति ।
रक्षितमिति दिग्बन्धेन ।
प्रदक्षिणमिति पूर्वेण सम्बध्यते ।
तारमन्त्रोच्चारणेति तारस्य प्रणवस्य मन्त्रस्य मूलमन्त्रस्योच्चारणम् ।
तदुक्तम्—-
योनावेनं विन्यसेत् स्वाभिवक्त्रं पश्चादग्निं मूलमन्त्रेण मन्त्री ।
इति ।
अत्रापि तारशब्दार्थः पूर्ववत् ।
" रं वह्निचैतन्याय नमः " इति पद्मपादाचार्याः ।
अन्ये तु तारशब्देन हू�कारं मन्त्रशब्देन वह्निचैतन्याय नमः " इत्याहुः ।
तदुक्तम्—-
हू� वह्निपूर्वं चैतन्यं चतुर्थ्यन्तं नमोऽन्वितम् ।
मन्त्रमुचार्य पश्चात्तं वह्निमुत्थाप्य देशिकः ॥
भूमिष्ठजानुको भूत्वा कुण्डस्योर्द्धं प्रदक्षिणम् ।
भ्रामयित्वा त्रिधा तत्र वागीशीगर्भगोचरे ॥
शिवबीजमिति ध्यात्वा निक्षिपेदाशुशुक्षणिम् ॥ इति ।
शिवबीजधियेति ।
इदं शैवे ।
शैवतन्त्रे तथोक्तेः ।
स एव वक्ष्यति च—-नाम्नापि शिवाग्निरिति कल्पयेत् ।
इति ।
नारायणीयेऽपि—- शिवाग्निं जनयित्वा ।
इति ।
अत एव संहितायाम्—-लक्ष्मीमृतुमतीं तत्र प्रभोर्नारायणस्य च ।
ग्राम्यधर्मेण सञ्जातमग्निं तत्र विचिन्तयेत् ॥ इति ।
अत एव ग्रन्थकृदपि " वह्नेः पितरौ " इति सामान्यतो वक्ष्यति ।
अग्रे च—-जुहुयाद् वैष्णवे वह्नौ ।
इति ।
जानुभ्यां स्पृष्टं महीतलं येनेति विग्रहः ।
वायवीयसंहितायान्तु—-
वह्निबीजं समुच्चार्य त्वादधीताऽग्निमासने ।
योनिमार्गेण वा तद्वदात्मनः सम्मुखेन च ॥ इति ॥ १४-१६ ॥
पश्चाद्देवस्य देव्याश्च दद्यादाचमनादिकम् ।
ज्वालयेन्मनुनाऽनेन तमग्निमथ देशिकः ॥ १७ ॥
आचमनादिकमित्यादिशब्देन आचमनोत्तरोपचारग्रहणम् ।
" उपचारैः प्रपूजयेत् " इत्युक्तेः ।
ज्वालयेदिति ।
अनेन वक्ष्यमाणेन ।
तत्र विशेषः—- जुहुषुश्च हुताग्निश्च पाणिसूर्पस्रुवादिभिः ।
न कुर्यादग्निधमनं न कुर्याद् व्यजनादिना ॥
मुखेनैव धमेदग्निं मुखादेषो ह्यजायत ।
नाग्निं मुखेनेति तु यत् लौकिके योजयेत्तु तत् ॥ इति ॥ १७ ॥
चित्पिङ्गलं हनदहपचयुग्मान्युदीर्य च ।
सर्वज्ञाज्ञापय स्वाहा मन्त्रोऽयं प्रागुदीरितः ॥ १८ ॥
अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ॥ १९ ॥
चित्पिङ्गलमिति शब्दकर्मणि द्वितीया मन्त्रे तु सम्बद्ध्यन्तम् ।
हनेत्यादित्रयाणां युग्मानि ।
ज्वालयेन्मनुनाऽनेनेति यो मन्त्रः प्रागुदीरितः उद्दिष्टः स मन्त्रोऽयमीरित इत्यर्थः ।
क्वचित्तु समुदीरित इत्येव पाठः ।
अत्र अग्निज्वालने ज्वालिनीमुद्रां प्रदर्शयेत् ।
तल्लक्षणन्तु—-
मणिबन्धौ समौ कृत्वा करौ तु प्रसृताङ्गुली ।
मध्यमे मिलिते कृत्वा तन्मध्येऽङ्गुष्ठकौ क्षिपेत् ॥
इयं सा परमा मुद्रा ज्वालिनी होमकर्मणि ।
इति ॥ १८-१९ ॥
उपतिष्ठेत विधिवन्मनुनाऽनेन पावकम् ।
विन्यसेदात्मनो देहे मन्त्रैजीह्वा हविर्भुजः ॥ २० ॥
लिङ्गपायुशिरोवक्त्रघ्राणनेत्रेषु सर्वतः ।
वह्निरार्घीशसंयुक्ताः सादियान्ताः सबिन्दवः ॥ २१ ॥
वर्णा मन्त्राः समुद्दष्टा जिह्वानां सप्तदेशिकैः ।
जिह्वास्तास्त्रिविधाः प्रोक्ता गुणभेदेन कर्मसु ॥ २२ ॥
विधिवदित्यनेनैतदुक्तं भवति उत्थाय कृताञ्जलिपुटो भूत्वा मन्त्रं जपेदिति ।
अनेनाग्निमित्यादिना ।
सर्वत इति सप्तमं स्थानं सर्वाङ्गे इत्यर्थः ।
" सर्वाङ्गेषु जिह्वाश्च " इत्याचार्येक्तेः ।
इदञ्च न्यासस्थानम् ।
बहुरूपायाः पूजायास्तथारभ्य माणत्वात् ॥ उक्तञ्च—- सलिङ्गगुदमूर्द्धास्यनासानेत्रेषु च क्रमात् ।
विन्यसेदतिरक्तां ताः सर्वाङ्गे बहुरूपिणीम् ॥ इति ।
उद्देशक्रमस्तु बीजोद्धारसौकर्यायेत्यवधेयम् ॥
वह्नीति ।
वह्नो रेफः इरो यः अर्धीश ऊकारः एतद्युक्ताः ।
सादियान्ताः सकारादियकारान्ताः ।
वैपरीत्येन एते वर्णाः सबिन्दवो मन्त्रा भवन्ति ॥ २०-२१ ॥
जिह्वानामिति त्रिविधानामपि ।
तत्र प्रयोगः स्त्र्यू� हिरण्यायै नमः लिङ्गे इत्यादि ॥ २२ ॥
हिरण्या गगना रक्ता कृष्णाऽन्या सुप्रभा मता ।
बहुरूपाऽतिरक्ता च सात्त्विक्यो यागकर्मसु ॥ २३ ॥
पद्मरागा सुवर्णान्या तृतीया भद्रलोहिता ।
लोहिताऽनन्तरं श्वेता धूमिनी च करालिका ॥ २४ ॥
राजस्यो रसना वह्नेवीहिताः काम्यकर्मसु ।
विश्वमूत्तीस्फुलिङ्गिन्यौ धूम्रवर्णा मनोजवा ॥ २५ ॥
लोहितान्या करालाख्या काली तामस्य ईरिताः।
एताः सप्त नियुज्यन्ते क्रूरकर्मसु मन्त्रिभिः ॥ २६ ॥
स्वस्वनामसमाभाः स्युजीह्वाः कल्याणरेतसः ।
अमर्त्य-पितृ-गन्धर्व-यक्ष-नाग-पिशाचकाः ।
राक्षसाः सप्तजिह्वानामीरिता अधिदेवताः ॥ २७ ॥
कल्याणरेतसोऽग्नेः ।
अधिदेवता आह अमर्त्त्येति ।
अत्र जिह्वानामधिदेवता- कथनं तत्तत्स्थानेषु न्यासार्थम् ।
तेन सुरेभ्यो नम इत्यादि ।
अन्ये तु सुराधिपतयै हिरण्यायै नमः इत्यादि ।
किञ्च तत्तद्देवतां जिह्वामध्यस्थां बुद्ध्वा तस्यां तस्यां तत्तद्रव्यैः तत्तत्कर्मणि क्रियमाणे
फलसिद्धिरिति प्रदर्शनार्थम् ।
तथा च आचार्याः—-
जिह्वासु त्रिदशादीनां तत्तत्कार्यसमाप्तये ।
जुहुयाद्वाञ्छितां सिद्धिं दद्युस्ता देवतामयाः ॥ इति ।
गणेश्वरविमशीन्यां द्रव्यविशेषोऽप्युक्तः—-
एधांसि च हिरण्यायां गगनायां चरुं घृतम् ।
सिद्धार्थं बहुरूपायां रक्तायान्तु यवांस्तथा ॥
कृष्णायान्तु हुनेल्लाजैः सुप्रभायान्तु शक्तुभिः ।
तिलांश्चैवाऽतिरक्तायां कनकायान्तु सर्वदा ।
सर्वद्रव्याणि जुहुयात् साधकः सर्वकर्मसु ॥ इति ।
कर्माण्यपि तन्त्रान्तरे—-फलन्तु कामभेदेन क्रमादासामुदीर्यते ।
वश्याकर्षण्योराद्या गगना स्तम्भने मता ॥
विद्वेषमोहयो रक्ता कृष्णा मारणकर्मणि ।
सुप्रभा शान्तिके पुष्टौ सुरक्तोच्चाटने मता ।
एकैव बहुरूपा तु सर्वकामफलप्रदा ॥ इति ॥ २३-२७ ॥
वह्नेरङ्गमनून् न्यस्येत्तनावुक्तेन वर्त्मना ।
सहस्राचीः स्वस्तिपूर्ण उत्तिष्ठपुरुषः पुनः ॥ २८ ॥
धूमव्यापी सप्तजिह्वो धनुर्द्धर इति क्रमात् ।
षडङ्गमनवः प्रोक्ता जातिभिः सह संयुताः ॥ २९ ॥
वह्नेरिति ।
तनौ स्वशरीरे ।
आत्मन इत्यनुषज्यते ।
एवमग्रेऽपि ।
उक्तेन पूर्वपटलोक्तेन ।
सहस्राचीरादीनां चतुर्थ्यन्तत्वं सम्प्रदायात् ।
प्रयोगस्तु—-सहस्राचीषे हृदयाय नम इत्यादि ॥ २८-२९ ॥
मूर्त्तीरष्टौ तनौ न्यस्येद् देशिको जातवेदसः ।
मूर्द्धांसपार्श्वकट्यन्धु कटिपार्श्वांसके पुनः ॥ ३० ॥
प्रदक्षिणवशान् न्यस्येदुच्यन्ते ता यथाक्रमात् ।
जातवेदाः सप्तजिह्वो हव्यवाहनसञ्ज्ञकः ॥ ३१ ॥
अश्वोदरजसञ्ज्ञोऽन्यः पुनर्वैश्वानराह्वयः ।
कौमारतेजाः स्याद्विश्वमुखो देवमुखः स्मृताः ॥ ३२ ॥
ताराग्नयेपदाद्याः स्युर्नत्यन्ता वह्निमूर्त्तयः ।
मूर्त्तीरिति ।
अंसपार्श्वकटिषु वामेषु ।
अन्धु गुदन् ।
केचन लिङ्गमित्याहुः ।
पश्चात् कटिपार्श्वांसकेषु दक्षिणेषु ॥ ३०-३२ ॥
ताराग्नय इति ।
तारः प्रणवः अग्नये इति पदम् एते आदो यासां ता इति विग्रहः ।
नत्यन्ता इति न्यासे पूजायाञ्च ।
होमे तु स्वाहान्तत्वमित्युक्तम् ।
आसां नमसा योगाच्चतुर्थ्यन्तत्वम् ।
प्रयोगस्तु हु� अग्नये जातवेदसे नमो मूर्द्ध्नीत्यादि ॥ ३३ ॥
आसनं कल्पयित्वाऽग्नेर्मूत्तीं तस्य विचिन्तयेत् ॥ ३३ ॥
इष्टं शक्तिं स्वस्तिकाभीतिमुच्चै-
र्दीर्घैर्देभीर्धारयन्तं जवाभम् ।
हेमाकल्पं पद्मसंस्थं त्रिनेत्रं
ध्यायेद्वह्निं बद्धमौलिं जटाभिः ॥ ३४ ॥
परिषिञ्चेत्ततस्तोयैवीशुद्धैर्मेखलोपरि ।
दर्भैरगर्भैर्मध्यस्थमेखलायां परिस्तरेत् ॥ ३५ ॥
आसनं कल्पयित्वेति ।
तनावित्यनुषज्यते।
मण्डूकादिपरतत्त्वान्तं चतुर्दशपटलो- क्तपीठशक्तिपूर्वकम् रम् अग्न्यासनाय नम इति एषां देहे
न्यास आसनकल्पना ॥३३॥
ध्यानमाह इष्टमिति ।
इष्टं वरम् ।
दक्षाधःकराद्वामाधःकरपर्यन्तमिष्टादीनि ध्येयानि ।
स्वस्तिकयुक्ता अभीतिरिति मध्यपदलोपी समासः ।
आकल्पो भूषा ॥३४॥
तत इति ।
अन्तर्यागक्रमेण स्वहृदये वह्निं सम्पूज्येत्यर्थः ।
परिस्तरेदिति ।
प्रागुदगग्रतया ।
तदुक्तं गणेश्वरविमशीन्याम्—-
पूर्वाग्रैरुत्तराग्रैश्च दर्भैरग्निं परिस्तरेत् ।
इति ।
अन्यत्रापि—- अथ दर्भैर्हरिधनददिशाग्रैः परिस्तीर्य कुण्डम् ।
इति ॥ ३५ ॥
निक्षिपेद्दक्षु परिधीन् प्राचीवर्जं गुरूत्तमः ।
प्रादक्षिण्येन सम्पूज्यास्तेषु ब्रह्मादिमूर्त्तयः ॥ ३६ ॥
गुरूत्तम इत्यनेन एकमेखलादिकुण्डेऽपि परिस्तरणादि कार्यमित्युक्तम् ।
यदाहुः—-
एकमेखले कुण्डे निशितमतिर्मेखलाधस्तात् परिस्तरेद्द्वमेखले ।
द्वितीयमेखलोपरि त्रिमेखले तदन्तरालमेखलोपरि न्यसेत् ॥ इति ।
प्राचीवर्जं दिक्षु परिधीन् निक्षिपेदित्यन्वयः ।
परिधयस्तु कात्यायनोक्ताः ।
परिधीन् परिदधात्यार्द्रानेकवृक्षीयान् बाहुमात्रान् पालाशवैकङ्कतकाश्मर्यबैल्वान् ।
इति ।
स्थण्डिलेऽपि परिस्तरणपरिधिनिक्षेपोऽवश्यकर्त्तव्यः ।
मध्यस्थमेखलायामि- त्युक्तत्वात् ।
स्थण्डिले मेखलानामभावात् परिस्तरणाद्यपि न कार्यमिति न मन्तव्यम् ।
यतस्तदग्निस्थापनाङ्गं न कुण्डाङ्गम् ।
ग्रन्थकृता तु स्वोक्तत्रिमेखलकुण्डे परिस्तरणादि कर्त्तव्यमित्यपेक्षायां मध्यस्थमेखलायामित्युक्तम् ।
यदाहुः—-
बाह्येऽथ स्थण्डिलं च त्रिपरिधिसहितं प्रागुदग्रास्तदर्भम् ।
इति ।
अन्यत्रापि—- स्थण्डिलके सिकतानां बाह्येऽथ त्रिर्न्यसेत् परिधीन् ।
इति ॥३६॥
ध्यातं वह्निं यजेन्मध्ये गन्धाद्यैर्मनुनाऽमुना ।
वैश्वानरजातवेदपदे पश्चादिहावह ॥ ३७ ॥
लोहिताक्षपदस्यान्ते सर्वकर्माणि साधय ।
वह्निजायावधिः प्रोक्तो मन्त्रः पावकवल्लभः ॥ ३८ ॥
मध्ये इति मण्डूकादिपीठमन्त्रान्तमन्त्रैः पूजिते कुण्डमध्ये इत्यर्थः ।
तदुक्तं सौत्रामणितन्त्रे—- कुण्डमध्ये विधानवित् ।
पद्मासनान्तमाधारशक्त्यादिमनुभिः क्रमात् ॥
उपर्युपरि सम्पूज्य वह्नैरासनशक्तयः ।
पूर्वादिदलमूलेषु मध्ये पूज्याः क्रमेण तु ॥ इति ।
अग्निमन्त्रमाह वैश्वानर इति ।
वह्निजाया स्वाहा ॥ ३७-३८ ॥
मध्ये षट्स्वपि कोणेषु जिह्वा ज्वालारुचो यजेत् ।
केशरेषूक्तमार्गेण पूजयेदङ्गदेवताः ॥ ३९ ॥
अग्न्यावरणपूजामाह मध्य इति ।
अनेन षट्कोणकणीकमष्टदलमग्नि- पीठमुक्तम् ।
ज्वालारुच इति जिह्वाध्यानम् ।
तदुक्तं प्रयोगसारे—-
जिह्वाः सर्वाः परिज्ञेया ज्वालाभासाः स्वरूपतः ।
इति ।
अपिभीन्नक्रमः ।
तत्र षट्षु कोणेषु मध्येऽपि जिह्वा यजेदिति सम्बन्धः ।
तत्र षट्सु कोणेषु ईशादि वायुकोणान्तं यथान्यासं षड्जिह्वाः सम्पूज्य यथान्यस्तां बहुरूपां मध्ये
पूजयेदिति सम्प्रदायविदः ।
तदुक्तं सोमशम्भौ—-
रुद्रेन्द्रवह्निमांसाद वरुणानिलगोचरे ।
हिरण्याद्याः स्थिता वह्ने रसनाः षट् ह्यनुक्रमात् ॥
मध्यतो बहुरूपा तु ।
इति ।
गणेश्वरविमशीन्यामपि—-
मध्ये च कोणषट्के च जिह्वाः सम्पूजयेत्ततः ।
हिरण्या तप्तहेमाभा शूलपाणिदिशि स्थिता ॥
वैदूर्यवर्णा गगना प्राच्यां दिशि समाश्रिता ।
तरुणादित्यसङ्काशा रक्ता जिह्वाऽग्निदिक् स्थिता ॥
कृष्णा नीलाब्जसङ्काशा नैरृत्यां दिशि संस्थिता ।
सुप्रभा पद्मरागाभा वारुण्यां दिशि संस्थिता ॥
अतिरक्ता जवाभासा वायव्यां दिशि संस्थिता ।
बहुरूपा यथार्थाभा दक्षिणोत्तरसंस्थिता ॥
एता ज्वाला रुचा पीता वराभययुता अपि ।
इति ।
अन्यत्रापि—- कोणषट्के च मध्ये च जिह्वा अङ्गानि केशरे ।
इति ।
वायवीयसंहितायामपि—-हिरण्या प्रागुदग्जिह्वा कनका पूर्वतः स्थिता ।
रक्ताग्नेयी नैरृती च कृष्णाऽन्या सुप्रभा मता ॥
अतिरक्ता मरुज्जिह्वा स्वनामानुगुणप्रभा ।
त्रिशिखा मध्यमा जिह्वा बहुरूपा समाह्वया ॥
तच्छिखैका दक्षिणतो ज्वलन्ती वामतः परा ।
स्वबीजानन्तरं वाच्या ।
इति ।
यथाश्रुतपाठक्रमादरिणः केचन प्रथमां मध्ये ततः शिवकोणादि प्रादक्षिण्येन वायुकोणान्तं
यथान्यस्तास्ताः षट् जिह्वाः पूजयेदित्याहुः ।
तेषामयमभिप्रायः ।
तत्तत्कर्मणि तां तां मध्यस्थामिष्ट्वा ईशादिषु अन्या यजेदिति ।
तदुक्तम्—-
कुण्डस्य मध्ये त्वथ या प्रशस्ता जिह्वा हिरण्या भुवि कर्मणादौ ।
स्तम्भनादिषु मता कनकाख्या द्वेषणादिषु मता खलु रक्ता ॥
मारणे निगदिता भुवि कृष्णा सुप्रभा बुधवरैरथ शान्त्याम् ।
उच्चाटनेऽतिरक्ता ।
इति ।
सम्प्रदायविदुक्तं तु दीक्षायामेव बहुरूपायाः सर्वकामफलप्रदत्वात् ।
उक्तञ्च—- सा तनुते मध्ये शुभानि सदा ।
इति ।
तन्त्रान्तरे तु—- अन्ये त्वागमपारगामलधियः प्राहुर्बुधाः सुप्रभां
वृत्रारेः ककुभि स्थितां पितृपतेः कृष्णां हिरण्यां पुनः ।
वारुण्यां बहुरूपिकां पुरभिदो रक्तामुदीच्यां स्थिता-
माग्नेयामतिरक्तिकाञ्च कनकां कुण्डस्य मध्ये स्थिताम् ॥ इति ।
एतदनन्तरमधिदेवतापूजाऽप्येषु स्थानेषु ज्ञेया ।
उक्तमार्गेणेति पूर्वपटलोक्तेन ।
तत्र पूजाप्रकारः ।
सहस्राचीषे हृदयाय नमः स्वस्तिपूर्णाय शिरसे स्वाहा नमः
इत्यादि ॥ ३९ ॥
दलेषु पूजयेन्मूर्त्तीः शक्तिस्वस्तिकधारिणीः ।
लोकपालांस्ततो दिक्षु पूजयेदुक्तलक्षणान् ॥ ४० ॥
मूर्त्तीः पूजयेदिति यथान्यस्ताः ।
" एतदनन्तरं मातृभैरवावृतिमपीच्छन्ति पद्मपादाचार्याः ।
क्वचित् " दलाग्रे मातरः पूज्याः सासिताङ्गादिभैरवाः " इत्यधिकः पाठोऽपि ।
दिक्ष्विति मेखलाश्रितदर्भेष्विति प्रसिद्धपूर्वादिदिक्ष्वित्यपि ज्ञेयम् ।
यदाहुः—- मध्ये च कोणषट्के च जिह्वाभिः केशरेष्वपि ।
अङ्गमन्त्रैस्ततो बाह्ये अष्टाभिर्मूत्तिभिः क्रमात् ॥
मेखलाश्रितदर्भेषु दिक्पतीन् पूर्वतः क्रमात् ।
इति ।
उक्तलक्षणान् प्राक्पटलोक्तस्वरूपान् ॥ ४० ॥
पश्चादादाय पाणिभ्यां स्रुक्स्रुवौ तावधोमुखौ ।
त्रिः सम्प्रतापयेद्वह्नौ दर्भानादाय देशिकः ॥ ४१ ॥
तदग्रमध्यमूलानि शोधयेत्तैर्यथाक्रमात् ।
गृहीत्वा वामहस्तेन प्रोक्षयेद् दक्षिणेन तौ ॥ ४२ ॥
पश्चादित्यनेन सूचितः तन्त्रान्तरोक्तोऽवश्यकर्त्तव्यो विशेषो लिख्यते ।
स्ववाम- भागे प्रागग्रान् कुशानास्तीर्य तेषामुपरि प्रणीताप्रोक्षणीपात्रे आज्यस्थालीचरुस्थाल्यौ स्रुक्स्रुवौ
विस्त्रंसितौ कुशमूलकौ पञ्चपलाशसमिधः एवमुक्तान्यन्यान्यपि पात्राणि द्वन्द्वशोऽधोमुखानि निधाय मूलेन
पवित्रेण प्रोक्षितानि पात्राणि उत्तानीकृत्य प्रणीतापात्रं जलेनापूर्य तत्र तीर्थान्यावाह्य पवित्रमक्षतादि च
निक्षिप्योत्पूय उत्तरस्यां दिशि संस्थाप्य तज्जलं किञ्चित् प्रोक्षणीपात्रे निधाय तेन जलेन नमोमन्त्रेण
मूलमन्त्रेण वा सर्वं हवनीयद्रव्यजातं प्रोक्ष्य " अत्र कर्मणि कृताकतावेक्षकत्वेन त्वं ब्रह्मा भवेति "
ब्रह्माणमावाह्याऽभ्यर्च्यासने उपवेशयेदिति ।
तदुक्तं संहितायाम्—-
पात्राण्यासाद्य विधिवद् द्वन्द्वशश्चापि मन्त्रवित् ।
तान्यवोक्ष्य पवित्रेण चोत्तानानि विधाय च ॥
पुनः प्रक्षालयेत् पात्रं परिपूर्य शुभाम्बुना ।
दत्त्वाऽक्षतान् पवित्रञ्च तदूत्पूय निधाय तत् ॥
दिश्युत्तरस्यां तत्पात्रं प्रणीतेत्युच्यते बुधैः ।
ततः किञ्चित् प्रणीताम्बु प्रोक्षण्यादाय तज्जलैः ॥
यज्ञसाधनसम्भारं प्रोक्षयेन्मूलमन्त्रतः ।
ततो ब्रह्माणमावाह्यऽप्यर्चयेन्मूलमन्त्रतः ॥ इति ।
तत्राधोमुखेन हस्तेन सेचनमवोक्षणम् ।
" अवाङ्मुखेन हस्तेनावोक्षयेत् " इति सूत्रणात् ।
अन्यत्रापि—- वामे चास्तीर्य दर्भान् बलरिपुहरिदग्रान् तदूर्द्धं निधाय
पात्राणि द्वन्द्वशोऽधोवदनमथ तथोत्तानवक्त्राणि कृत्वा ।
हृमन्त्रेणाऽभिपूर्यान्यतममथ जलैर्मन्त्रपूतैरथैभिः
अभ्युक्ष्योपेतकूर्चैः सकलमपि हृदा सव्यगं हव्यजातम् ॥
अन्यत्रापि—- स्ववामभागे प्रागग्रान् दर्भानास्तीर्य चोपरि ।
यथावित्तानुसारेण सौवर्णादीनि कर्मणि ।
अधोमुखानि पात्राणि द्वन्द्वरूपेण विन्यसेत् ।
उत्तानीकृत्य पात्राणि जलाद्यैः सम्प्रपूरयेत् ॥ इति ।
अन्यत्रापि—-ततो वामभागे परिस्तीर्य दर्भान् पुलोमात्मजावल्लभाशागताग्रान् ।
तदूर्द्धं न्यसेद् द्वन्द्वरूपेण पात्राण्यथाऽधोगतास्यानि सर्वाणि धीमान् ॥
अथोत्तानितेष्वेषु पात्रेषु विद्वान् जलैरेकमापूर्य तीर्थानि तत्र ।
सुसञ्चिन्त्य तैः प्रोक्षयेत् कूर्चदर्भः हृदा सव्यभागे स्थितं द्रव्यजातम् ॥ इति।
स्रुक्स्रुवसंस्कारमाह आदायेति ।
आदानम् ऊर्द्धमुखयोरेवेति ज्ञेयम् ।
तावधोमुखौ तापयेदित्युक्तेः ।
पाणिभ्यां दक्षिणवामाभ्याम् ।
शोधयेदिति प्रत्येकम् ।
यथाक्रमादित्यस्यायमर्थः ।
दर्भमूलैस्तन्मूलं दर्भमध्यैस्तन्मध्यं दर्भाग्रैस्तदग्रमिति ।
दक्षिणेन दक्षिणहस्तेन ।
प्रोक्षयेदिति प्रोक्षण्युदकेन ॥ ४१-४२ ॥
पुनः प्रताप्य तौ मन्त्री दर्भानग्नौ विनिक्षिपेत् ।
आत्मनो दक्षिणे भागे स्थापयेत्तौ कुशास्तरे ॥ ४३ ॥
पुनरित्यनेन पाणिद्वयस्थावधोमुखौ त्रिश इत्युक्तम् ।
एवं दर्भानग्नौ विनिक्षिपे- दिति प्रतिपत्तिकर्म ।
मन्त्रीत्यनेन मूलमध्याग्रेषु क्रमेण इच्छाज्ञानक्रियाशक्तीनां न्यासः ।
नमोमन्त्रेण स्रुचि शक्तिं स्रुवे शम्भुं विन्यसेदिति ज्ञेयम् ।
शैवे तु आत्मादितत्त्वत्रयम् ।
यदाहुः—- गृहीत्वा स्रुक्स्रुवावूर्द्धवदनाधोमुखौ क्रमात् ।
प्रताप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्पृशेत् ॥
पुनस्त्रिंशः प्रताप्याऽधोमुखावग्नौ कुशान् क्षिपेत् ।
मूलमध्याग्रके न्यस्येच्छक्तीरिच्छादिकाः क्रमात् ॥
स्रुचि शक्तिं स्रुवे शम्भुं विन्यसेद्धृदयाणुना ।
इति ।
शैवागमे तु—- गृहीत्वा स्रुक्स्रुवावूर्द्धवदनाधोमुखौ क्रमात् ।
प्रताप्याऽग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्पृशेत् ॥
कुशभागप्रदेशेषु आत्मविद्याशिवात्मकम् ।
क्रमात्तत्वत्रयं न्यस्य हां हीं हूं शंवरैः क्रमात् ॥
स्रुचि शक्तिं स्रुवे शम्भुं विन्यस्य हृदयाणुना ।
त्रिसूत्रवेष्टितग्रीवौ पूजितौ कुसुमादिभिः ॥
कुशानामुपरिष्टात्तौ स्थापयित्वा स्वदक्षिणे ।
इति ।
एवं स्रुक्स्रुवयोरष्टौ संस्कारा उक्ताः ।
ताविति स्रुक्स्रुवौ सर्वत्र पुंस्त्वेन पाठक्रम एवानुसन्धेयः ॥ ४३ ॥
आज्यस्थालीमथादाय प्रोक्षयेदस्त्रवारिणा ।
तस्यामाज्यं विनिक्षिप्यं संस्कृतं वीक्षणादिभिः ॥ ४४ ॥
आज्यसंस्कारमाह आज्येति ।
अस्त्रवारिणेति अस्त्रमन्त्रजप्तेन प्रोक्षणीजलेन ।
वीक्षणादिभिः संस्कृतमाज्यं तस्याम् आज्यस्थाल्यां विनिक्षिप्येत्यन्वयः ।
अत्राज्यं गव्यादि ज्ञेयम् ।
तदुक्तं पिङ्गलामते—-
उत्तमं गोघृतं ज्ञेयं मध्यमं महिषीघृतम् ।
अधमं छागलीजातं तस्माद् गव्यं प्रशस्यते ॥ इति ।
अत एव ग्रन्थकृत्तत्र तत्र वक्ष्यति गव्येन सपीषा इति महिषीघृतसम्प्लुता इति मेषीघृताक्ता इति च ॥ ४४ ॥
निरुह्य वायव्येऽङ्गारान् हृदा तेषु निवेशयेत् ।
इदं तापनमुद्दष्टं देशिकैस्तन्त्रवेदिभिः ॥ ४५ ॥
निरुह्येति ।
कुण्डाग्नितः पृथक्कृत्वा हृदा निवेशयेत् इत्याज्यस्थालीमिति शेषः ।
तन्त्रवेदिभिर्देशिकैरिदं तापनमुद्र्द्धं पश्चाद् दिष्टमुक्तमित्यर्थः ।
तेन पूर्वं मूल- मन्त्रेणाऽभिमन्त्रणं स्वीयब्रह्यमूत्तीभावनमिति संस्कारद्वयं सूचितम् ।
यदाहुः—- गव्यमाज्यं समादाय मूलेनैवाऽभिमन्त्रितम् ।
स्वकां ब्रह्ममयीं मूत्तीं सञ्चिन्त्याग्नौ प्रतापयेत् ॥ इति ।
शैवागमेऽपि—- गव्यमाज्यं समादाय मूलमन्त्राभिमन्त्रितम् ।
स्वकां ब्रह्ममयीं मूत्ती सञ्चिन्त्य च ।
इति ।
वायवीयसंहितायामपि—-न्यस्य मन्त्रं घृते मुद्रां दर्शयेद् धेनुसञ्ज्ञिताम् ।
इति ।
एवं संस्कारद्वयं वक्ष्यमाणाश्च षट्संस्काराः ।
एवं घृतेऽप्यष्टसंस्काराः ।
यदुक्तं पिङ्गलामते—-कुण्डे चाष्टादश ज्ञेयाः संस्काराः शिवशास्त्रतः ।
घृते स्रुचि स्रुवे चाष्टौ ।
इति ॥ ४५ ॥
सन्दीप्य दर्भयुगलमाज्ये क्षिप्त्वाऽनले क्षिपेत् ।
गुरुर्हृदयमन्त्रेण पवित्रीकरणन्त्विदम् ॥ ४६ ॥
दीप्तेन दर्भयुग्मेन नीराज्याज्यं स वर्मणा ।
अग्नौ विसर्जयेद् दर्भमभिद्योतनमीरितम् ॥ ४७ ॥
घृते प्रज्वलितान् दर्भान् प्रदर्श्याऽस्त्राणुना गुरुः ।
जातवेदसि ता न्यस्येदुद्योतनमिदं मतम् ॥ ४८ ॥
सन्दीप्येति ।
दर्भयुगलं सन्दीप्य हृदयमन्त्रेणाज्ये क्षिप्त्वा अनले क्षिपेदित्यन्वयः।
नीराज्य इत्यभितः परिभ्राम्य ।
स इति गुरुः ।
वर्मणेति कवचमन्त्रेण ।
वर्मणा आज्यं स नीराज्य इति सम्बन्धः।
दर्भमिति दर्भयुग्मम् ।
अत्र संस्कारत्रये वक्ष्यमाण संस्कार- द्वयेऽपि दर्भाणामग्नौ प्रक्षेपः प्रतिपत्तिकर्म ।
अतएव मन्त्राभावोपि तत्र ततश्च केनापि कारणेन तद्दर्भनाशे जाते सति अग्निप्रक्षेपरूपं कर्म
दर्भाणां न प्रयोजकम् ।
एतच्चतु- र्थाध्याये प्रतिपादितम् ।
अग्नौ तानिति ।
एवं स्रुक्स्रुवसंस्कारेऽपि ॥ ४६-४८ ॥
गृहीत्वा घृतमङ्गारान् प्रत्यूह्याऽग्नौ जलं स्पृशेत् ।
अङ्गगुष्ठोपकनिष्ठाभ्यां दर्भौ प्रादेशसम्मितौ ॥ ४९ ॥
घृत्वोत्पुनीयादस्त्रेण घृतमुत्पवनन्त्विदम् ।
तद्वद्धृदयमन्त्रेण कुशाभ्यामात्मसम्मुखम् ॥ ५० ॥
घृते सम्प्लवनं कुर्यात् संस्काराः षडुदीरिताः ।
प्रादेशमात्रं सग्रन्थि दर्भयुग्मं घृतान्तरे ॥ ५१ ॥
निक्षिप्य भागौ द्वौ कृत्वा पक्षौ शुक्लेतरौ स्मरेत् ।
वामे नाडीमिडां भागे दक्षिणे पिङ्गलां पुनः ।
सुषुम्णां मध्यतो ध्यात्वा कुर्याद्धोमं यथाविधि ॥ ५२ ॥
घृतं गृहीत्वेत्याज्यस्थालीम् उद्वास्येत्यर्थः ।
प्रत्यूह्य संयोज्येत्यर्थः ।
स एतदनन्तरं जलस्पर्शं कुर्यात् ।
अङ्गुष्ठेति ।
उपकनिष्ठाऽनामा ।
अङ्गुष्ठोप- कनिष्ठाभ्यां हस्तद्वयस्येति शेषः ।
उत्पुनीयादित्यग्निसमुखमिति ज्ञेयम् ।
उक्तञ्च शैवागमे—- प्रादेशमात्रदर्भाभ्यामङ्गुष्ठानामिकाग्रकैः ।
घृताभ्यां समुखं वह्नेरस्त्रेणोत्पवनञ्चरेत् ॥ इति ।
तद्वदिति ।
हस्तद्वयस्य अङ्गुष्ठानामिकाग्राभ्यां घृत्वेत्यर्थः ।
अत्रापि संस्कार- द्वये कुशयोर्वह्निप्रक्षेपलक्षणं प्रतिपत्तिकर्म ज्ञेयम् ।
होमविधिमाह प्रादेशेति ।
घृतान्तरे घृतमध्ये ।
शुक्लेतरौ वामे शुक्लपक्षः, दक्षे कृष्णपक्षः ।
ध्यात्वेति तिस्रोऽपि घृत एव ॥ ४९-५२ ॥
स्रुवेण दक्षिणाद्भागादादायाऽऽज्यं हृदा गुरुः ॥ ५३ ॥
जुहुयादग्नये स्वाहेत्यग्नेर्दक्षिणलोचने ।
वामतस्तद्वदादाय वामे वह्निविलोचने ॥ ५४ ॥
जुहुयादथ सोमाय स्वाहेति हृदयाणुना ।
मध्यादाज्यं समादाय वह्नेर्भालविलोचने ॥ ५५ ॥
जुहुयादग्नीषोमाभ्यां स्वाहेति हृदयाणुना ।
हृन्मन्त्रेण स्रुवेणाज्यं भागादादाय दक्षिणात् ॥ ५६ ॥
जुहुयादग्नये स्विष्टिकृते स्वाहेति तन्मुखे ।
इति सम्पातयेद् भागे स्वाज्यस्याऽन्वाहुतिक्रमात्१ ॥ ५७ ॥
यथाविधीत्युक्तं विधिमाह स्रुवेणेति ।
तद्वदिति स्रुवेण हृदयाणुना वामत आदायेति सम्बन्धः ।
हृदयाणुना मध्यादाज्यं समादायेति सम्बन्धः ।
हेति सम्पातयेद् भाग इति केचन पठन्ति ।
तत्र हेतिराहुतिशेषः ।
ये तु इति सम्पादयेदिति पठन्ति तन्मते " इति समाप्तौ " ।
स्वाहान्तहोमं विधाय अग्निनेत्रवक्त्त्राणां कुर्यादुद्घाटनं गुरुः।
ये तु हेति सम्पातयेदिति पठन्ति तन्मते स्वान्तं होमं विधाय हा इत्यस्यान्ते यस्माद् भागाद् या
आज्याहुतिर्गृहीता तस्मिन्नेव भागे तस्य सम्पातं कुर्यादिति सम्बन्धः ।
साम्प्रदायि- कास्त्विममेव पाठमिच्छन्ति ।
अन्वाहुति आहुतिमनु प्रत्याहुति इत्यर्थः ।
तदुक्तं शैवागमे—- स्रुवेणादाय होमयेत् ।
स्वेत्यग्नौ हेति तद्भागशेषमाज्यं क्षिपेत् क्रमात् ॥ इति ॥ ५३-५७ ॥
इत्यग्निनेत्रवक्त्राणां कुर्यादुद्घाटनं१ गुरुः ।
सताराभिर्व्याहृतिभिराज्येन जुहुयात् पुनः ॥ ५८ ॥
जुहुयादग्निमन्त्रेण त्रिवारं देशिकोत्तमः ।
गर्भाधानादिका वह्नेः क्रिया निर्वर्त्तयेत् क्रमात् ॥ ५९ ॥
इत्यग्नीति ।
तेनाहुतिचतुष्टयेन नेत्रत्रयवक्त्राणामुद्घाटनम् ।
क्रमेणेत्यर्थः ।
सताराभिर्व्याहृतिभिरिति व्यस्तसमस्ताभिः ।
अतएव नारायणीये " पञ्चभिर्मनुभिर्हुनेत् " इति ।
पुनरनन्तरमिति उत्तरेण सम्बध्यते ।
अग्निमन्त्रेणेति वैश्वानरेति पूर्वेक्तेन ।
प्रणवेनेति पञ्चापि प्रणवा गृहीताः ।
देशिकोत्तम इत्यनेन तत्तन्मन्त्रेषु यथास्वं विनियोगो विज्ञेय इत्युक्तम् ॥ ५८-५९ ॥
अष्टाभिराज्याहुतिभिः प्रणवेन पृथक् पृथक् ।
गर्भाधानं पुंसवनं सीमन्तोन्नयनं पुनः ॥ ६० ॥
अनन्तरं जातकर्म स्यान्नामकरणं तथा ।
उपनिष्क्रमणं पश्चादन्नप्राशनमीरितम् ॥ ६१ ॥
चौलोपनयने भूयो महानाम्न्यं महाव्रतम् ।
अथोपनिषदं पश्चाद् गोदानोद्वाहकौ मृतिः ॥ ६२ ॥
शुभेषु स्युवीवाहान्ताः क्रियास्ताः क्रूरकर्मसु ।
मरणान्ताः समुद्दष्टा वह्नेरागमवेदिभिः ॥ ६३ ॥
गर्भाधानादिका इत्यादिशब्दसङ्गृहीतमेवाह गर्भाधानमिति ।
पुनरनन्तरं जातकर्म अनन्तरं तथा नामकरणं स्यादिति सम्बन्धः ।
अनन्तरमित्यस्यायमर्थः ।
वक्ष्यमाणं पञ्चसमिद्धोमलक्षणं नालापनयनं कर्म कृत्वा सूतकं विशोध्य तथा तत्तद्देवतानाम्नाऽ-
ग्नेर्नामकरणं कुर्यात् ।
यथा कृष्णाग्निर्नारायणाग्निर्दुर्गाग्निरिति ।
ततोऽग्नेः पितरावात्मनि संयोज्योपनिष्क्रमणादि संस्कारान् कुर्यात् ।
आदिशब्दकथनार्थमेक- प्रक्रमेणोक्तिः ।
तदुक्तं वायवीयसंहितायाम्—-
जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् ।
नालापनयनं कृत्वा ततः संशोध्य सूतकम् ॥
शिवाग्निरिति नामाऽस्य कृत्वाहुतिपुरःसरम् ।
पित्रोवीसर्जनं कृत्वा चौलोपनयनादिकम् ॥
अथोद्वाहावसानञ्च कृत्वा संस्कारमस्य तु ।
इति ।
सौत्रामणितन्त्रेऽपि—- गर्भाधानादिकाः क्रियाः ।
जातकर्मान्तिका वह्नेर्वाग्भवेन पृथक् पृथक् ॥
आज्याहुत्यष्टकैः कृत्वा वाराह्यग्निर्भवेति च ।
नाम कृत्वा ततो वह्नेरन्नप्राशनपूर्वकम् ॥
विवाहान्तं वाग्भवेन पूर्वेक्ताष्टाहुतिक्रमात् ।
इति ।
अत्र गोदानानन्तरं समावर्त्तनमनुक्तमपि कर्त्तव्यमित्याचार्याः ।
तदुक्तं गणेश्वरविमशीन्याम्—-समावर्त्तनमुद्वाहमाधानञ्च ततः परम् ।
इति ।
अन्यत्रापि—- तेनैव समावर्त्तनविवाहयोराहुतीर्जुहुयात् ।
इति ।
अन्यत्रापि—- कुर्वीत समावर्त्तनमुद्वाहं तेनैव विधिना ।
इति ।
केचित्तु तथोपनिषदं स्नानम् इति पठित्वा स्नानं समावर्त्तनमिति व्याख्यायन्ति ।
तन्मते समावर्त्तनानन्तरं गोदानम् ।
प्रयोगस्तु ॐ अस्याग्नेर्गर्भाधानसंस्कारं करोमि स्वाहा इत्यादि ॥ ६०-६३ ॥
ततश्च पितरौ तस्य सम्पूज्यात्मनि योजयेत् ।
समिधः पञ्च जुहुयान्मूलाग्रघृतसम्प्लुताः ॥ ६४ ॥
तत इति ।
नामकरणानन्तरं तस्य वह्नेः पितरौ पूर्वेक्तौ ।
समिधः पञ्च जुहुयादिति ।
नालापनोदाय जातकर्मानन्तरमित्यर्थः ।
तदुक्तं शैवागमे—-
वक्त्त्राणामस्त्रमन्त्रेण ततो नालापनुत्तये ।
समिधः पञ्च होतव्याः प्रान्ते मूले घृतप्लुताः ॥ इति ।
वायवीयसंहितायान्तु—-ताः पालाश्यः परा वापि यज्ञीया द्वादशाङ्गुलाः ।
अवक्रा न स्वयं शुष्काः सत्वचो निर्व्रणाः समाः ॥
दशाङ्गुला वा विहिताः कनिष्ठाङ्गुलिसन्निभाः ।
प्रादेशमात्रा वाऽलाभे होतव्याः सकला अपि ॥ इति ॥ ६४ ॥
मन्त्रैजीह्वाङ्गमूर्त्तीनां क्रमाद्वह्नेर्यथाविधि ।
प्रत्येकं जुहुयादेकामाहुतिं म(त)न्त्रवित्तमः ॥ ६५ ॥
मन्त्रैरिति न्यासप्रस्तावोक्तैः क्रमादिति न्यासक्रमात् ।
यथाविधीत्यनेन होमे स्वाहान्ततेत्युक्तं स्मारयति ।
प्रयोगस्तु—-स्त्यूं हिरण्यायै स्वाहेत्यादि ।
एतदनन्तरं ॐ सुरेभ्यः स्वाहेत्याद्यधिदेवताहोमेऽपि ।
सहस्राचीषे हृदयाय नमः स्वाहेत्यादि ।
ॐ अग्नये जातवेदसे स्वाहेत्यादि ।
म(त)न्त्रवित्तम इत्यनेन लोकपालतदस्त्रावृतिग्रहणं ज्ञेयम् ।
तदुक्तं गणेश्वरविमशीन्याम्—-
जुहुयादङ्गमन्त्राद्यैस्ताराद्यैश्च सकृत् सकृत् ।
तत्तत्स्थानेषु शितधीः स्वाहान्तैश्च यथाक्रमम् ॥ इति ।
प्रयोगसारेऽपि—-सर्वे मन्त्राः प्रयोक्तव्याः स्वाहान्ता होमकर्म्मसु ।
इति ॥ ६५ ॥
अवदाय स्रुवेणाज्यं चतुः स्रुचि पिधाय ताम् ।
स्रुवेण तिष्ठन्नेवाऽग्नौ देशिको यतमानसः ॥ ६६ ॥
जुहुयाद्वह्निमन्त्रेण वौषडन्तेन सम्पदे ।
विघ्नेश्वरस्य मन्त्रेण जुहुयादाहुतीर्दश ॥ ६७ ॥
अवदायेति ।
यतमानसो देशिकः स्रुवेणाज्यं चतुर्वारं स्रुचि निधाय तां स्रुचं स्रुवेण पिधाय तिष्ठन्नेव वौषडन्तेन
वह्निमन्त्रेणाऽग्नौ जुहुयादित्यन्वयः ।
यतमानसो देशिक इत्यनेन समपादत्वं शृङ्गाग्रव्यग्रलोचनादिकत्वमुक्तम् ।
वौषडन्तेनेति स्वाहापदस्थाने वौषट्पदप्रक्षेप इति ।
शैवागमे तु विशेषः—-
घृतेन स्रुचि पूर्णायां निधायाऽधोमुखं स्रुवम् ।
शृङ्गाग्रे पुष्पमारोप्य पश्चाद्वामेन पाणिना ॥
पुनः सव्येन तौ धृत्वा शङ्खसन्निभमुद्रया ।
समुद्गतोर्द्धकायश्च समपादः समुत्थितः ॥
नाभौ तन्मूलमाधाय शृङ्गाग्रे व्यग्रलोचनः ।
वामस्तनान्तमानीय तयोर्मूलमतन्द्रितः ॥ इति ।
विघ्नेश्वरस्येति ।
महागणपतेर्दशधा विभक्तेन पूर्वपूर्वानुविद्धेनेति ज्ञेयम् ।
समस्तेनाहुतिचतुष्टयं दद्यादित्यपि ।
तदुक्तं गणेश्वरविमशीन्याम्—-
महागणेशमन्त्रेण पूर्वपूर्वयुतेन च ।
तारादिबीजषट्केषु करणेष्वद्रिवर्णकैः ॥
भिन्नेषु दशधा हुत्वा समस्तेन सुरेश्वरि ।
इति ।
तथा चाचार्याः—-
ताराद्यैर्दशभिर्भेदैः पूर्वपूर्वसमन्वितैः ।
मनुना गाणपत्येन जुहुयाच्च दशाहुतीः ॥
जुहुयाच्च चतुर्वारं समस्तेनैव तेन तु ॥ इति ।
अन्यत्रापि—- महागणेशमन्त्रेण पूर्वपूर्वयुतेन च ।
भिन्नेन दशधा हुत्वा सामान्येन सुरेश्वरि ॥ इति ॥ ६६-६७ ॥
सामान्यं सर्वतन्त्राणामेतदग्निम(मु)खं मतम् ।
ततः पीठं समभ्यर्च्च देवताया हुताशने ॥ ६८ ॥
अर्चयेद्वह्निरूपां तां देवतामिष्टदायिनीम् ।
तन्मुखे जुहुयान्मन्त्री पञ्चविंशतिसङ्ख्यया ॥ ६९ ॥
आज्येन मूलमन्त्रेण वक्त्रैकीकरणन्त्विदम् ।
वह्निदेवतयोरैक्यमात्मना सह भावयन् ॥ ७० ॥
देवताया इति ।
प्रकृतदेयमन्त्रदेवताया इत्यर्थः ।
देवतामिति सावरणाम् ।
वक्त्रैकीकरणमिति ।
तदुक्तं शैवागमे—-
इतीष्टवक्त्रे वक्त्राणामन्तर्भावस्तु चैकता ।
अथवा कुण्डमानत्वं यदीष्टवदने स्मरेत् ॥
अन्तर्भाव्यानि वक्त्राणि तदेकीकरणं मतम् ॥ इति ॥ ६८-७० ॥
मूलमन्त्रेण जुहुयादाज्येनैकादशाहुतीः ।
नाडीसन्धानमुद्दष्टमेतदागमवेदिभिः ॥ ७१ ॥
जुहुयादङ्गमुख्यानामावृतीनामनुक्रमात् ।
एकैकामाहुतिं सम्यक् सपीषा देशिकोत्तमः ॥ ७२ ॥
नाडीसन्धानमिति ।
अग्निदेवतात्मनां त्रयाणां नाड्येकीकरणम् ।
अङ्गमुख्या- नामावृतीनामिति प्रकृतदेयमन्त्रदेवताया इत्यर्थः ।
अत्राप्यङ्गेत्यादि सम्भवाभिप्रायम् ।
सम्यगित्यनेन यत्राङ्गवृतेराद्यत्वं नास्ति तत्र यथावृत्तिस्तदादीनामावृतीनामित्युक्तम् ।
देशिकोत्तम इत्यनेन मूलमन्त्रेण दशाहुतयो होतव्या इत्युक्तम् ।
यदाहुः—-
परिवारस्यैकैकां देव्यास्तु दशाहुतीर्जुहुयात् ।
इति ॥ ७१-७२ ॥
ततोऽन्येष्वपि कुण्डेषु संस्कृतेषु यथाविधि ।
आचार्ये विहरेदग्निं पूर्वादिषु समाहितः ॥ ७३ ॥
संस्कृतेष्विति ।
ऋत्विग्भिरिति शेषः ।
तेन ऋत्विजः स्वे स्वे कुण्डे अष्टादशसंस्कारान् यथाविधि कुर्युः ।
आचार्येऽग्निविहरणं कुर्यात् सर्वत्रैवेत्यर्थः ।
पूर्वादिषु ईशान्ते ।
समाहित इत्यनेनाविच्छेदेनाग्निविहरणमुक्तम् ॥ ७३ ॥
ऋत्विजो गन्धपुष्पाद्यैरङ्गाद्यावरणान्विताम् ।
तन्त्रोक्तदेवतामिष्ट्वा पञ्चविंशतिसङ्ख्यया ।
मूलेनाज्येन जुहुयुः साज्येन चरुणा तथा ॥ ७४ ॥
देवतामिष्ट्वेति ।
अत्र पूजानन्तरं तत्तद्देवताङ्गावृत्यादीनां पूर्ववदेकैकामाहुतिं हुत्वा मूलदेवताया दशाहुतीर्जुहुयुरिति ज्ञेयम् ।
साज्येन चरुणा तथेति ।
पूर्वपटले यश्चरू कारितस्तस्य भागत्रयं कृतम् ।
एको भागो देवतायै निवेदितः ।
अन्यमग्नौ प्रजुहुयादित्युक्तम् ।
तस्यैवायं होमः ।
तथेति मूलेन पञ्चविंशतिवारम् ॥ ७४ ॥
प्रातरुत्थाय जुहुयुः पुनराज्यान्वितैस्तिलैः ।
द्रव्यैर्वा कल्पविहितैः सहस्रं साष्टकं पृथक् ॥ ७५ ॥
द्वितीयदिनकृत्यमाह प्रातरिति ।
जुहुयुरित्याचार्याः प्रत्येकमृत्विजश्च ।
तत्र विशेषो वायवीयसंहितायाम्—-
स्रुवेणाज्यं समित् पाण्या स्रुचा शेषं करेण वा ।
तत्र दिव्येन होतव्यं तीर्थेनार्षेण वा तथा ॥ इति ।
पृथक् प्रत्येकमष्टोत्तरसहस्रं तत्र समिद्धेऽग्नौ होतव्यम् ।
अन्यथा दोषदर्शनात् ।
तदुक्तं बह्वृचपरिशिष्टे—-अन्धो बुधः सधूमे च जुहुयाद् यो हुताशने ।
यजमानो भवेदन्धः सपुत्र इति च श्रुतिः ॥ इति ।
छन्दोगपरिशिष्टेऽपि—-योऽनचीषि जुहोत्यग्नौ व्यङ्गारिणि च मानवः ।
मन्दाग्निरामयावी च दरिद्रश्चोपजायते ॥
तस्मात् समिद्धे होतव्यं नासमिद्धे कथञ्चन ।
आरोग्यमिच्छतायुश्च श्रियमात्यन्तिकीं तथा ॥ इति ।
महाकपिलपञ्चरात्रेऽपि—-अप्रदीप्ते न होतव्यं मध्यमे नाप्यनिन्दिते ।
प्रदीप्ते लेलिहानेऽग्नौ होतव्यं कर्मसिद्धये ॥ इति ॥ ७५ ॥
ततः सुधौतदन्तास्यं स्नातं शिष्यं समाहितम् ।
पाययित्वा पञ्चगव्यं कुण्डस्याऽन्तिकमानयेत् ॥ ७६ ॥
विलोक्य दिव्यदृष्ट्या तं तच्चैतन्यं हृदम्बुजात् ।
गुरुरात्मनि संयोज्य कुर्यादध्वविशोधनम् ॥ ७७ ॥
होमानन्तरं गुरुकृत्यमाह तत इति ।
पञ्चगव्यं पाययित्वेति मण्डपबाह्य एव ।
पञ्चगव्यप्रकारं तु एकविंशे वक्ष्यति ।
तदुक्तं प्रयोगसारे—-
पञ्चगव्यं यथा प्रोक्तं पीत्वाऽऽचान्तं यथाविधि ।
द्वारेण दक्षिणेनाथ यागस्थानं प्रवेशयेत् ॥ इति ।
तच्चैतन्यमिति ।
तद्धृदो वहन्नाड्या अङ्कुशमुद्रया चैतन्यमाकृष्य स्ववहन्नाडी- मार्गेण स्वहृदि संयोजयेदित्यर्थः ।
तदुक्तम्—-
हृदि स्थितं तच्चैतन्यं प्रस्फुरत्तारकाकृति ।
आदाय स्थापयेत् स्वीये हृदयेऽङ्कुशमुद्रया ॥ इति ।
अध्वविशोधनमिति ।
तदुक्तं षडन्वयमहारत्ने—-
शोधनं नाम तत्त्वानां कारणैकत्वचिन्तनम् ।
वर्णादीनां कलानाञ्च तस्यां बिन्द्वैक्यचिन्तनम् ॥ इति ॥ ७६-७७ ॥
उक्तं कलाध्वा तत्त्वाध्वा भुवनाध्वेति च त्रयम् ।
वर्णाध्वा च पदाध्वा च मन्त्राध्वेत्यपरं त्रयम् ॥ ७८ ॥
उक्तमिति ।
इति च त्रयम् इति च ।
अपरं त्रयम् उक्तं तन्त्रविद्भिरिति शेषः ।
आद्यास्त्रयोऽर्थरूपाः, परे त्रयः शब्दरूपाः ।
तदुक्तं वायवीयसंहितायाम्—-
तत्र शब्दास्त्रयो धातुस्त्रयस्त्वर्थाः समीरिताः ।
इति ।
अन्यत्रापि—- मन्त्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः ।
भुवनाध्वा च तत्त्वाध्वा कलाध्वा चाऽर्थतः क्रमात् ॥ इति ।
अत्र तु संहारक्रमेणोक्तिः मूले तु सृष्टिक्रमेणेति ज्ञेयम् ॥ ७८ ॥
निवृत्याद्याः कलाः पञ्च कलाध्वेति प्रकीत्तीतः ।
तत्त्वाध्वा बहुधा भिन्नः शिवाद्यागमभेदतः ॥ ७९ ॥
षट्त्रिंशच्छिवतत्त्वानि द्वात्रिंशद्वैष्णवानि तु ।
चतुवींशतितत्त्वानि मैत्राणि प्रकृतेः पुनः ॥ ८० ॥
उक्तानि दश तत्त्वानि सप्त च त्रिपदात्मनः ।
बहुधेति पञ्चधा ।
मैत्राणि साङ्ख्यानि ।
तदुक्तं वायवीयसंहितायाम्—-
पौराणानि च तत्त्वानि त्रिपुरायाश्च कानि चित् ।
साङ्ख्ययोगप्रसिद्धानि तत्त्वान्यपि च कानि चित् ।
शिवशास्त्रप्रसिद्धानि ततोऽन्यान्यपि कृतस्नशः ॥ इति ।
त्रिपदात्मनस्त्रिपुरायाः ॥ ७९-८१ ॥
तत्त्वानि शैवान्युच्यन्ते शिवः शक्तिः सदाशिवः ॥ ८१ ॥
ईश्वरो विद्यया सार्द्धं पञ्च शुद्धान्यमूनि हि ।
माया कालश्च नियतिः कला विद्या पुनः स्मृता ॥ ८२ ॥
शुद्धानीति ।
आणवकार्ममायीयमलत्रयरहितत्वात् शुद्धत्वम् ।
तत्राणवो नाम सदाशिवस्य स्वस्यानवमर्शः ।
कार्मे नाम पुण्यपापवानहमिति प्रतीतिः ।
मायीयो नाम अहङ्कारादावात्मबुद्धिः ।
उक्तञ्च वायवीयसंहितायाम्—-
शिवः शक्तिस्ततो नादस्तस्माद्बिन्दुः सदाशिवः ।
तस्मान्महेश्वरो जातः शुद्धा विद्या महेश्वरात् ॥ इति ॥ ८२ ॥
रागः पुरुष एतानि शुद्धाशुद्धानि सप्त च ।
प्रकृतिर्बुद्ध्यहङ्कारो मनो ज्ञानेन्द्रियाण्यथ ॥ ८३ ॥
कर्मेन्द्रियाणि तन्मात्राः पञ्चभूतानि देशिकाः ।
एतान्याहुरशुद्धानि चतुवींशतिरागमे ॥ ८४ ॥
शैवानामिति तत्त्वानां विभागोऽत्र प्रदशीतः ।
शुद्धाशुद्धानीति ।
कारणत्वेन मलत्रयराहित्याच्छुद्धत्वम् कार्यरूपत्वेन तद्युक्त- त्वादशुत्वम् ।
तदुक्तं वायवीयसंहितायाम्—-
सा वाचामीश्वरी शक्ति र्वागीशाख्यस्य शूलिनः ।
या सा वर्णस्वरूपेण मातृकेति विजृम्भते ॥
अथानन्तसमायोगान्मायां कालमवासृजत् ।
नियतिञ्च कलां विद्यां कलातो रागपूरुषौ ॥ इत्यादि ।
षट्त्रिंशत् सङ्ख्ययोपेतः शुद्धाशुद्धोभयात्मकः ।
इत्यन्तेन ॥ ८३-८४ ॥
जीवप्राणधियश्चित्तं ज्ञानकर्मेन्द्रियाण्यथ ॥ ८५ ॥
तन्मात्राः पञ्चभूतानि हृत्पद्मं तेजसां त्रयम् ।
वासुदेवादयश्चेति तत्त्वान्येतानि शाङ्गीणः ॥ ८६ ॥
पञ्चभूतानि तन्मात्रा इन्द्रियाणि मनस्तथा ।
गर्वे बुद्धिः प्रधानञ्च मैत्राणीति विदुर्बुधाः ॥ ८७ ॥
निवृत्याद्याः कलाः पञ्च ततो बिन्दुः कला पुनः ।
नादः शक्तिः सदापूर्वः शिवश्च प्रकृतेवीदुः ॥ ८८ ॥
आत्मविद्या शिवः पश्चाच्छिवो विद्या स्वयं पुनः ।
सर्वतत्त्वञ्च तत्त्वानि प्रोक्तानि त्रिपदात्मनः ॥ ८९ ॥
ज्ञानकर्मेन्द्रियाणीति दश ।
पञ्चेत्युभयत्र सम्बध्यते ।
तेजसां त्रयमग्नीन्दुसूर्याः ।
वासुदेवादयश्चत्वारोऽष्टमे वक्ष्यन्ते ॥ ८५-८६ ॥
इन्द्रियाणि दश ।
गर्वेऽहङ्कारः ।
बुद्धिर्महत्तत्त्वम् ।
प्रधानं प्रकृतिः ।
स्वयमात्मा ।
स्वकपोलकल्पितत्त्वशङ्कां वारयति तत्तदागमवेदिभिरिति ॥ ८७-९० ॥
तत्त्वाध्वा कथितो ह्येष तत्तदागमवेदिभिः ।
ईरितो भुवनाध्वेति भुवनानि मनीषिभिः ॥ ९० ॥
वर्णाध्वेति वदन्त्यर्णानादिक्षान्तान् मनीषिणः ।
वर्णसङ्घः पदाध्वा स्यान्मन्त्राध्वा मन्त्रराशयः ॥ ९१ ॥
भुवनानि आकाशवायुतैजसाप्यपाथीवभुवनानि पञ्च ।
वायवीयसंहितायान्तु—-
आधाराद्युन्मन्यन्तञ्च भुवनाध्वा प्रकीत्तीतः ।
इति ।
वर्णसङ्घः सबिन्दुवर्णाः ।
वायवीयसंहितायान्तु—-
अनेकभेदसम्भिन्नः पदाध्वा पदसंहतिः ।
महामन्त्रोपमन्त्राणां वर्त्ततेऽवयवात्मना ॥
प्रधानावयवत्वेन सोऽध्वा पञ्चपदात्मकः ।
इति ।
मन्त्रराशयः अकचटतपयाः सप्त मन्त्राः ॥ ९०-९१ ॥
क्रमादेतानध्वनः षट् शोधयेद् गुरुसत्तमः ।
पादान्धुनाभिहृद्भालमूर्द्धस्वपि शिशोः स्मरेत् ॥ ९२ ॥
मूर्द्धनि ब्रह्मरन्ध्रे ।
तत्रायं शोधनप्रकारः ।
पादे कलाध्वानं स्मरत्वा पदगुह्यहृद्वक्त्रशिरःसु स्वबीजादिकाः कला विन्यस्य पश्चात् कलाध्वविशोधनम् ।
एवं तत्त्वाध्वानम् अन्धौ स्मृत्वा विलोमेषु पूर्व्वस्थानेषु तान् विन्यस्य पश्चात् तेत्त्वाध्वशोधनम् ।
एवं भुवनाध्वानं नाभौ स्मृत्वा अनन्तरस्थानेषु स्वबीजाद्यान् विन्यस्य पश्चात् तच्छोधनम् ।
एवं हृदि वर्णाध्वानं संस्मृत्य शुद्धान् वर्णान् तद्देहे विन्यस्य पश्चाद्वर्णाध्वशोधनम् ।
एवं भाले पदाध्वानं संस्मृत्य सबिन्दुवर्णान् विन्यस्य तच्छोधनम् ।
एवं मूर्द्धनि मन्त्राध्वानं संस्मृत्य सप्त मन्त्रान् तत्तत्स्थानेषु व्याप्य पश्चात्तदध्वविशोधनमिति
गुरुसत्तम इत्यनेनोक्तम् ॥ ९२ ॥
ततः कूर्च्चेन विधिवत्तं स्पृशेत् जुहुयाद् गुरुः ।
आचार्यकुण्डे संशुद्धैस्तिलैराज्यपरिप्लुतैः ॥ ९३ ॥
शोधयाम्यमुमध्वानं स्वाहेति पृथगध्वना ।
ताराद्यमाहुतीरष्टौ क्रमात्तान् विलयं नयेत् ॥ ९४ ॥
विधिवदित्यनेन शिष्य इति ज्ञेयम् ।
तं गुरुं स्पृशेदिति भिन्नं वाक्यम् ।
तदुक्तं नारायणीये—-
ध्यानेनात्मनि तं शिष्यं संहृत्य प्रलयक्रमात् ।
पुनरुत्पाद्य तत्पाणौ दद्याद्दर्भांश्च मन्त्रितान् ॥ इति ।
केचन तं स्पृशन्निति पठन्ति ।
तदा विधिवदित्यनेन वामकरस्थेनेति ज्ञेयम् ।
गुरुरष्टावाहुतीः अध्वना ताराद्यं पृथक् जुहुयादिति सम्बन्धः ।
शोधयामीति अमुष्येत्यर्थः ।
संशुद्धैरिति ।
अवकरं दूरीकृत्य प्रक्षाल्य संशोषितैरित्यर्थः ।
प्रयोगस्तु —-ॐ अमुष्य कलाध्वानं शोधयामि स्वाहा इत्यादि ॥ ९३-९४ ॥
शिवे शिवात्तान् संलीनान् जनयेत् सृष्टिमार्गतः ॥ ९५ ॥
विलोकयन् दिव्यदृष्ट्या तं शिशुं देशिकोत्तमः ।
आत्मस्थितं तच्चैतन्यं पुनः शिष्ये नियोजयेत् ॥ ९६ ॥
शिवे सहस्रारस्थिते इति पूर्वेण सम्बध्यते ।
क्रमादित्यग्रिमम् ।
पूर्वस्मिन्निति शिवपर्यन्तम् ।
शिवात् सृष्टिमार्गतस्तान् जनयेदिति सम्बन्धः ।
सृष्टिमार्गतः पूर्वस्माद- ग्रिमं नियोजयेदिति ।
यथा आनीतं तथैवेत्यर्थः ।
अनेन अध्वविशोधनेन शरीरशुद्धिः कृता भवति ।
यतः षडध्वमयमेव शरीरम् ।
यदाहुः—-
शान्त्यतीतकलामूर्द्धा शान्तिवक्त्रशिरोरुहा ।
निवृत्तिजानुजङ्घाङ्घिरर्भुवनाध्वशिरोरुहा ॥
मन्त्राध्वमांसरुधिरा पदवर्णशिरायुता ।
तत्त्वाध्वमज्जमेदोऽस्थिधातुरेतोयुता शिवे ॥ इति ॥ ९५-९६ ॥
स्रुचा पूर्णाहुतिं दत्त्वा मूलमन्त्रेण मन्त्रवित् ।
उद्वास्य देवतां कुम्भे साङ्गां सावरणां गुरुः ॥ ९७ ॥
पुनर्व्याहृतिभिर्हुत्वा जिह्वादीनां विभावसोः ।
एकैकामाहुतिं हुत्वा परिषिच्याऽद्भरात्मनि ॥ ९८ ॥
पावकं योजयित्वा स्वे परिधीन् सपरिस्तरान् ।
नैमित्तिके दहेन्मन्त्री नित्ये तु न दहेदिमान् ॥ ९९ ॥
मूलमन्त्रेणेति ।
देशिक इत्यनेन वौषडन्तेनेत्युक्तम् ।
तदुक्तं वायवीय- संहितायाम्—- ततो होमावशिष्टेन घृतेनापूर्य वै स्रुचम् ।
निधाय पुष्पं तस्याग्रे स्रुवेणाऽधोमुखेन ताम् ॥
सदर्भेण समाच्छाद्य मूलेनाऽञ्जलिनोत्थितः ।
वौषडन्तेन जुहुयाद्धारान्तु यवसम्मिताम् ॥
इत्थं पूर्णाहुतिं कृत्वा ।
इति ।
उद्वास्य अग्नित उद्वासनं कृत्वा कुम्भे आनीय इत्यर्थः ।
देशिको गुरुरित्यनेन देवतायाः अङ्गावृत्यादीनाम् एकैकामाहुतिं हुत्वा उद्वासनमित्युक्तं भवति ।
व्याहृतिभिर्व्यस्तसमस्ताभिः ।
साम्प्रदायिकास्तु व्याहृतिशब्देनात्र महाव्याहृतय उच्यन्ते इत्याहुः ।
ताश्च ।
ॐ भूरग्नये च पृथिव्यै च महते च स्वाहा ।
ॐ भूवो वायवे चान्तरीक्षाय च महते च स्वाहा ।
ॐ स्वरादित्याय च दिवे च महते च स्वाहा ।
ॐ भूर्भुवः स्वश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा इति ।
उक्तञ्च—-पुनः समापयेद्धोम् महाव्याहृतिपूर्वकम् ।
इति ।
विभावसोजीह्वादीनाम् इत्यादिशब्देन अधिदेवताङ्गमूत्तीलोकपालतदायुधानि ।
परिषिच्येति पावकमिति सम्बध्यते ।
अद्भिः प्रोक्षण्युदकैरित्यर्थः ॥
स्वे आत्मनि पावकं योजयित्वेति ।
तत्र प्रार्थनमन्त्रेण सम्प्रार्थ्य पश्चादुद्वासनम् ।
तदुक्तं गणेश्वरविमशीन्याम्—-
भो भो वह्ने महाशक्ते सर्वकर्मप्रसाधक ।
कर्मान्तरेऽपि सम्प्राप्ते सान्निध्यं कुरु सादरम् ।
इतिमन्त्रेण सम्प्रार्थ्य वह्निमुद्वासयेदपि ॥ इति ॥ ९७-९९ ॥
नेत्रे शिष्यस्य बघ्नीयान्नेत्रमन्त्रेण वाससा ।
करे गृहीत्वा तं शिष्यं कुण्डतो मण्डलं नयेत् ॥ १०० ॥
तस्याञ्जलिं पुनः पुष्पैः पूरयित्वा यथाविधि ।
कलशे देवताप्रीत्यै क्षेपयेन्मूलमुच्चरन् ॥ १०१ ॥
वाससेति नवेन शुक्लेन ।
तदुक्तं महाकपिलपञ्चरात्रे—-नवेन शुक्लवस्त्रेण नेत्रे बद्ध्वा ।
इति ।
पिङ्गलामते तु विशेषः—-नेत्रवस्त्रेण तन्नेत्रे नेत्रमन्त्रेण बन्धयेत् ।
इति ।
मन्त्रतन्त्रप्रकाशेऽपि—-अथ नेत्रेण तन्नेत्रे बद्ध्वा नेत्रेण देशिकः ।
इति ।
नारायणीये तु—-नेत्राद्यैर्नेत्रं नेत्रेण बन्धयेत् ।
इति ।
मण्डलं नयेदिति ।
प्रादक्षिण्येन पश्चिमद्वारमिति शेषः ।
तदुक्तं नारायणीये—-
न्यासं शिष्यतनौ कृत्वा तं प्रदक्षिणमानयेत् ।
पश्चिमद्वारमानीय क्षेपयेत् कुसुमाञ्जलिम् ॥ इति ।
यथाविधि क्षेपयेदित्यनेन विशेषः पिङ्गलामतोक्तः सङ्गृहीतः—-
पुष्पैरञ्जलिमापूर्य योगपीठे प्रदापयेत् ।
पश्चिमोत्तररुद्रैन्द्रे पुष्पपातः शुभोऽशुभे ॥
अष्टोत्तरशतं शान्त्यै जुहुयादस्त्रमन्त्रतः ॥ इति ॥ १००-१०१ ॥
व्यपोह्य तं नेत्रबन्धमासीनं दर्भसंस्तरे ।
आत्मयागक्रमाद् भूयः संहृत्योत्पाद्य देशिकः ॥ १०२ ॥
तत्तन्मन्त्रोदितान् न्यासान् कुर्याद् देहे शिशोस्तदा ।
पञ्चोपचारैः कुम्भस्थां पूजयित्वेष्टदेवताम् ॥ १०३ ॥
आत्मयागक्रमादिति ।
वक्ष्यमाणप्रपञ्चयागक्रमेणेति केचित् ।
साम्प्रदायिका- स्तुआत्मयागः अन्तर्यागः ।
तत्क्रमात् तत्रोक्तभूतशुद्धिक्रमेणेत्यर्थः ।
तत्र भूतसंहारस्य भूतसृष्टेश्चोक्तत्वात् ।
देहं संहृत्य भूयोऽनन्तरमुत्पाद्येत्यन्वयः ।
तदुक्तं प्रयोगसारे—-
गुणांशेन पृथिव्यादिभूतानि विलयं नयेत् ।
यथावत् पिण्डसंस्थानि संहारक्रमयोगतः ।
ततः सृष्टिक्रमेणैव पिण्डं सम्भावयेत्तदा ॥ इति ।
मन्त्रतन्त्रप्रकाशेऽपि—-उपविश्यासने दिव्ये संहरेत्तस्य विग्रहम् ।
गन्धादिघ्राणसंयुक्तां पृथिवीमप्सु संहरेत् ॥
इत्यादिना " उत्पन्नं भावयेत्ततः " ।
इत्यन्तेन ।
अन्यत्रापि—- अथाभिषेकमण्डपे सुखोपविष्टमासने ।
गुरुवीशोधयेदमुं पुरेव शोषणादिभिः ॥ इति ।
नारायणीयेऽपि—- शोषादिना सुखासीनं तत्र सम्बोधयेद् गुरुः ।
इति ।
अत्र देवताप्रार्थनमाहुराचार्याः—-
कारुण्यनिलये ! देवि ! सर्वसम्पत्तिसंश्रये ! ।
शरण्यवत्सले मातः ! कृपामस्मिन् शिशौ कुरु ॥
आणवप्रमुखैः पाशैः पाशितस्य सुरेश्वरि ।
दीनस्याऽस्य दयाधारे ! कुरु कारुण्यमीश्वरि ॥
एहिकामुष्मिकैर्भेगैरपि सम्बर्ध्यतामयम् ।
स्व(सद्)भक्तिः सकला चास्मै दीयतां निष्कलाश्रये ॥ इति ॥ १०२-१०३ ॥
तस्याः तन्त्रोक्तमार्गेण विदध्यात् सकलीकृतिम् ।
मण्डलेऽलङ्कृते शिष्यमन्यस्मिन्नुपवेशयेत् ॥ १०४ ॥
अन्यस्मिन् मण्डल इति ।
मण्डलाद्बहिरैशान्याम् ।
तदुक्तं सोमशम्भुना—-
यागालयाद्दिशीशस्य रचिते स्नानमण्डपे ।
कुर्यात् करद्वयायामां वेदिमष्टाङ्गुलोच्छिरताम् ॥
श्रीपर्ण्याद्यासने तत्र विन्यस्यानन्तमासनम् ।
शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत् ॥ इति ।
प्रयोगसारे—- अथैशान्यां दिशि यथा मन्त्रविन्यस्तविग्रहम् ।
पीठस्थं चतुरस्रायां वेद्यां दर्भाग्रपाणिना ॥
अभिषिञ्चेत् स्वयं शिष्यमात्मतत्त्वानुवत्तीनम् ॥ इति ।
उपवेशयेदिति भुक्तौ प्राङ्मुखं मुक्तांवुदङ्मुखमिति ज्ञेयम् ।
तदुक्तं सोम- शम्भौ—-स्नाने तूदङ्मुखं मुक्तौ पूर्ववक्त्रञ्च भुक्तये ।
ऊद्र्ध्वकायं समारोप्य ।
इति ।
अन्यत्रापि—- मण्डले त्वीशदिक्कृत्वा मुमुक्षूनुत्तराननान् ।
भुक्तये पूर्ववक्त्रांश्च शिष्यांस्तत्र निवेशयेत् ॥ इति ॥ १०४ ॥
नदत्सु पञ्चवाद्येषु सार्द्धं विप्राशिषा गुरुः ।
विधिवत् कुम्भमुद्धृत्य तन्मुखस्थान् सुरद्रुमान् ॥ १०५ ॥
शिशोः शिरसि विन्यस्य मातृकां मनसा जपन् ।
मूलेन साधितैस्तोयैरभिषिञ्चेत् तमात्मवित् ॥ १०६ ॥
पूजितां पुनरादाय वर्द्धनीमस्त्ररूपिणीम् ।
तस्यां सुसाधितैस्तोयैः सिञ्चेद्रक्षार्थमञ्जसा ॥ १०७ ॥
विधिवन्मातृकां मनसा जपन् मूलेनाऽभिषिञ्चेदिति सम्बन्धः ।
तत्र विधिवदिति विलोमपठितां मूलञ्च तादृग्रूपमिति ।
तदुक्तमाचार्यैः—-
यथा पुरा पूरितमक्षरैर्घटं सुधामयैः शिष्यतनौ तथैव तैः ।
प्रपूरयन्मन्त्रिवरोऽभिषेचयेदवाप्तये मङ्क्षु यथेष्टसम्पदाम् ॥ इति ।
अन्यत्रापि—- सुमतिरभिषिञ्चेन्नरो मन्त्रजापी ।
इति ।
अन्यत्रापि—- अभिषेचयता यथावत् ।
क्षाद्यैरान्तैर्वर्णैरपि पूर्णतुनस्त्रिरुक्तमन्त्रार्णैः ॥ इति ।
सुसाधितैरित्यनुवादमात्रम् उभयत्रापि ।
पूजितामित्यप्यनुवादः ।
अञ्जसा
तत्त्वेन ॥ १०५-१०७ ॥
अवशिष्टेन तोयेन शिष्यमाचामयेद् गुरुः ।
ततस्तं सकलीकुर्याद्देवतात्मानमात्मवित् ॥ १०८ ॥
उत्थाय शिष्यो विमले वाससी परिधाय च ।
आचम्य वाग्यतो भूत्वा निषीदेत् सन्निधौ गुरोः ॥ १०९ ॥
देवतामात्मनः शिष्ये सङ्क्रान्तां देशिकोत्तमः ।
पूजयेद् गन्धपुष्पाद्यैरैक्यं सम्भावयस्तयोः ॥ ११० ॥
अवशिष्टेनेति अभिषेकावशिष्टकलशस्थेन ।
देवतात्मानमभिषेकेन ।
सन्निधौ समीपे ।
सङ्क्रान्तामित्यभिषेकेन ।
देशिकोत्तम इत्यनेनाद्यशब्देन धूपदीपे एव ग्राह्ये इत्युक्तम् ।
तयोरिति शिष्यदेवतयोः ।
तत इत्यनेन शिष्यमूर्द्धनि हस्तं दत्त्वाऽष्टोत्तरशतं मन्त्रं जपेदिति सूचितम् ।
तदुक्तं वशिष्ठसंहितायाम्—-
ततस्तच्छिरसि स्वस्य हस्तं दत्त्वा शतं जपेत् ।
अष्टोत्तरं ततो मन्त्रं दद्यादुदकपूर्वकम् ॥ इति ।
अन्यत्रापि—- अथ सम्पादयेन्मन्त्रं हस्तं शिरसि धारयन् ।
समोऽस्त्वित्यक्षतं दद्यात् ।
इति ।
मन्त्रतन्त्रप्रकाशेऽपि—-
विश्वात्मा स्वयमाचार्यस्तन्मूद्ध्नी स्वकरं न्यसेत् ।
इति ॥ १०८-११० ॥
दद्याद्विद्यां ततस्तस्मै विनीतायाऽम्बुपूर्वकम् ।
गुरोर्लब्धां पुनवीद्यामष्टकृत्वो जपेत् सुधीः ॥ १११ ॥
दद्यादिति दक्षिणकर्णे त्रिवारं यावत् पाठं वा ।
तदुक्तम्—-
ऋष्यादियुक्तमथ मन्त्रवरं यथावद्
ब्रूयात् त्रिशो गुरुरनर्ध्यमवामकर्णे ।
इति ।
अम्बुपूर्वकमिति ब्राह्मणविषयम् ।
एतदन्तरम्—-
आवयोस्तुल्यफलदो भवत्वेवमुदीरयेत् ।
प्रसन्नवदनस्तस्मै शिष्याय मुनिपुङ्गवः ॥
स्वतो ज्योतिर्मयीं विद्यां गच्छन्तीं भावयेद् गुरुः ।
आगतां भावयेच्छिष्यः ।
इति ॥
वायवीयसंहितायान्तु—-अथ गुर्वाज्ञया शिष्यः शिवाग्निगुरुसन्निधौ ।
भक्त्यैवमभिसन्धाय दीक्षावाक्यमुदीरयेत् ॥
वरं प्राणपरित्यागश्छेदनं शिरसोऽपि वा ।
न त्वनभ्यर्च्य भुञ्जीयं भगवन्तं त्रिलोचनम् ॥ इति ।
विद्यादानान्तरं गुरुरष्टोत्तरसहस्रं मन्त्रं जपेत् ।
तदुक्तम् " अष्टोत्तरं सहस्रं स्वशक्तिहानानवाप्तये जप्यात् " इति ।
नारायणीयमहाकपिलपञ्चरात्रयोरपि—-
मन्त्रं दत्त्वा सहस्रं वै स्वसिद्ध्यै देशिको जपेत् ।
इति ॥ १११ ॥
गुरुविद्यादेवतानामैक्यं सम्भावयन् धिया ।
प्रणमेद्दण्डवद्भूमौ गुरुं तं देवतात्मकम् ॥ ११२ ॥
तस्य पादाम्बुजद्वन्द्वं निजमूर्द्धनि योजयेत् ।
शरीरमर्थं प्राणञ्च सर्वं तस्मै निवेदयेत् ॥ ११३ ॥
प्रणमेदिति ।
त्वत्प्रसादादहं देव कृतकृत्योऽस्मि सर्वतः ।
मायामृत्युमहापाशाद् विमुक्तोऽस्मि शिवोऽस्मि च ॥
इति मन्त्रं पठन्निति ज्ञेयम् ।
तत्र अष्टाङ्गः पञ्चाङ्गो वा प्रणामः कार्य इत्यर्थः ।
यदाहुः—- दोर्भ्यां पद्भ्याञ्च जानुभ्यामुरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥
बाहुभ्याञ्च सजानुभ्यां शिरसा वचसा धिया ।
पञ्चाङ्गकः प्रणामः स्यात् सर्वत्र प्रवराविमौ ॥ इति ।
अर्थं निवेदयेदित्यनेन गुरवे दक्षिणां कुम्भादिकञ्च दद्यादित्युक्तम् ।
यदाहुः—-
द्रव्यार्द्धं गुरवे दद्याद् दक्षिणां वा तदर्द्धकम् ।
इति ।
मन्त्रतन्त्रप्रकाशेऽपि—-आचार्यादनभिप्राप्तः प्राप्तश्चादत्तदक्षिणः ।
सततं जप्यमानोऽपि मन्त्रः सिद्धिं न गच्छति ॥
सर्वस्वं वा तदर्द्धं वा वित्तशाठ्यविवजीतः ।
गुरवे दक्षिणां दत्त्वा ततो मन्त्रग्रहो मतः ॥ इति ।
वायवीयसंहितायाम्—-मण्डपं गुरवे दद्याद् यागोपकरणैः सह ।
इति ।
अन्यत्रापि—- तां वित्तशाठ्यं परिहृत्य दक्षिणां
दत्त्वा तनुं स्वाञ्च समर्पयेत् सुधीः ।
इति ।
अन्यत्रापि—- कृतकृत्यस्तथा शिष्यः सर्वं तस्मै निवेदयेत् ।
यच्च यावच्च तद्भक्त्या गुरोराकृष्टचेतनः ॥
गोभूहिरण्यं विपुलं गृहक्षेत्रादिकं बहु ।
न चेदर्द्धं तदर्द्धं वा तद्दशांशमथापि वा ॥
अक्लेशादन्नवस्त्रादि दद्याद् वित्तानुसारतः ॥ इति ।
तथा—- कुम्भादिकञ्च सकलं गुरवे तु समर्प्य च ।
इति ।
अन्यत्रापि—- विभवानुरूपतोऽसौ दातव्या दक्षिणा च निजगुरवे ।
प्राणप्रदानकर्त्रे न च कार्यं वित्तशाठ्यममलधिया ॥ इति ।
ततो गुरोः कृत्यं तन्त्रान्तरोक्तं लिख्यते ।
स्नानसन्ध्ये सदाचारं नित्यं काम्यं तथैव च ।
मन्त्रसिद्धिप्रकारांश्च शिष्यायाऽभिवदेद् गुरुः ॥
इति मन्त्रतन्त्रप्रकाशे ।
अन्यत्रापि—-अभिवन्द्य ततः शृणोतु सम्यक् समयान् भक्तिभरावनम्रमूत्तीः ।
इति ।
तत्र सदाचार उक्तः प्रयोगसारे—-
देवस्थाने गुरुस्थाने श्मशाने वा चतुष्पथे ।
पादुकासनविण्मूत्रमैथुनानि परित्यजेत् ॥
देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताः ।
सिद्धं सिद्धाधिकारांश्च श्रीपूर्वं समुदीरयेत् ॥
प्रमत्तामन्त्यजां कन्यां पुष्पितां पतितस्तनीम् ।
विरूपां मुक्तकेशीञ्च कामार्त्ताञ्च न निन्दयेत् ॥
कन्यायोनिं पशुक्रीडां दिग्वस्त्रां प्रकटस्तनीम् ।
नालोकयेत् परद्रव्यं परदारांश्च वर्जयेत् ॥
धान्यगोगुरुदेवाग्नि विद्याकोशनरान् प्रति ।
नैव प्रसारयेत् पादौ नैतानपि च लङ्घयेत् ॥
आलस्यमदसम्मोहशाठ्यपैशून्यविग्रहान् ।
असूयामात्मसम्मानं परनिन्दाञ्च वर्जयेत् ॥
लिङ्गिनं व्रतिनं विप्रं वेदवेदाङ्गसंहिताः ।
पुराणागमशास्त्राणि कल्पांश्चापि न दूषयेत् ॥
युगं मुषलमश्मानं दाम चुल्लीमुदूखलम् ।
शूर्पसमार्जनीदण्डध्वजवैदूर्यमायुधम् ॥
कलशं चामरं छत्रं दर्पणं भूषणन्तथा ।
भोगयोग्यानि चान्यानि यागद्रव्याणि यानि च ॥
महास्थानेषु वस्तूनि यानि वा देवतालये ।
दिव्योक्तानि पदार्थानि भूताविष्टानि यानि वै ॥
लङ्घ्येज्जातु नैतानि नैतानि च पदा स्पृशेत् ।
या गोष्ठी लोकविद्विष्टा या च स्वैरविसपीणी ॥
परहिंसात्मिका या च न तामवतरेत् सदा ।
प्रतिग्रहं न गृह्णीयादात्मभोगविधित्सया ॥
देवतातिथिपूजार्थं यत्नतोऽप्यर्जयेद्धनम् ।
धारयेदार्जवं सत्यं सौशील्यं समतां धृतिम् ॥
क्षान्तिं दयामनास्थाञ्च दिव्यां शक्तिञ्च सर्वदा ।
अत्रोक्तान् यः सदा ह्येतानैहिकामुष्मिकोचितान् ॥
आचारानाचरेत् शान्तिं दीक्षितः सोऽधिगच्छति ।
इति ।
तथा—- विभीतकार्ककारञ्जनुहीच्छायां न चाश्रयेत् ।
स्तम्भदीपमनुष्याणामन्येषां प्राणिनां तथा ॥
नखाग्रकेशनिष्ठ्यूतं स्नानवस्त्रघटोदकम् ।
एतत्स्पर्शं त्यजेद् दूरं खरश्वाजरजस्तथा ॥ इति ।
मन्त्रतन्त्रप्रकाशे सोमशम्भौ तु—-न निन्देत् कारणं देवं न शास्त्रं तेन निमीतम् ।
न गुरुं साधकञ्चैव लिङ्गच्छायां न लङ्घयेत् ॥
नाद्याल्लङ्घेन्न निर्माल्यं न दद्याच्छिवदीक्षिते ॥ इति ।
षडन्वयमहारात्रेऽपि—-न लङ्घयेद् गुरोराज्ञामुत्तरं न वदेत्तथा ।
रात्रौ दिवा च तस्याज्ञां दासवत् परिपालयेत् ॥
असत्यमशुभं तद्वद्बाहुवादं परित्यजेत् ।
अप्रियञ्च तथालस्यं कामक्रोधौ विशेषतः ॥
अप्रच्छन्नमुखो ब्रूयाद् गुरोरग्रे कदापि न ।
अभिमानं न कुर्वीत धनजात्याश्रमादिभिः ॥
गुरुद्रव्यं न भोक्तव्यं तेनाऽदत्तं कदाचन ।
दत्तं प्रसादवद् ग्राह्यं लोभतो न कदाचन ॥
अद्वैतं देवपूजाञ्च गुरोरग्रे परित्यजेत् ।
पादुकायोगपट्टादि गुरुचिह्नानि साधनम् ॥
न लङ्घयेत् स्पृशेन्नैव पादाभ्यां प्रणमेत् सदा ।
पर्यङ्कशयनं तद्वत्तथा पादप्रसारणम् ॥
अङ्गभङ्गञ्च लीलाञ्च न कुर्याद् गुरुसन्निधौ ।
गमनागमने कुर्यात् प्रणम्य गुरुपादुकाम् ॥
विचार्य कार्यं कुर्वीत गुरुकार्यं प्रसादवान् ।
छायां न लङ्घयेत्तद्वन्न गच्छेत् पुरतो गुरोः ॥
पश्चात्पादेन निर्गच्छेत् प्रणम्य च गुरोर्गृहात् ।
गुरोरग्रे न कुर्वीत प्रभावं शिष्यसङ्ग्रहम् ॥
अहङ्कारं न कुर्वीत नोल्वणं धारयेद्वपुः ।
प्रगुरोः सन्निधौ नैव स्वगुरुं प्रणमेद्बुधः ॥
नमस्काराय चोद्युक्तं गुरुर्दृष्ट्वा निवारयेत् ।
इति ।
तथा—-न नियोगं गुरोर्दद्याद् युष्मदा नैव भाषयेत् ।
इति ॥ ११२-११३ ॥
ततः प्रभृति कुर्वीत गुरोः प्रियमनन्यधीः ।
ऋत्विग्भ्यो दक्षिणां दत्त्वा समग्रां प्रीतमानसः ॥ ११४ ॥
ब्राह्मणांस्तर्पयेत् पश्चाद् भक्ष्यभोज्यैः सदक्षिणैः ।
एषा क्रियावती दीक्षा प्रोक्ता सर्वसमृद्धिदा ॥ ११५ ॥
गुरोः प्रियं कुर्वीतेत्यनेन गुरुसन्तोषस्य मुख्यत्वमुक्तं भवति ।
तदुक्तं दशपटल्याम्—- शिष्येणापि प्रकर्त्तव्या शुश्रूषा च गुरोः सदा ।
शुश्रूषया विना विद्या न भवेत् सा फलप्रदा ॥
गुरौ तुष्टे शिवस्तुष्टः शिवे तुष्टे जगत्त्रयम् ।
गुरौ रुष्टे महेशानि नाहं त्राता त्वया सह ।
तस्मात् सर्वप्रयत्नेन गुरोः कोपं न कारयेत् ॥ इति ।
ऋत्विग्भ्य इति ब्रह्मादिभ्यः ।
तत्र प्रणीतामार्जनं कृत्वा ब्रह्मणे दक्षिणां दत्त्वा ब्रह्माण- मुद्वास्य हुतचरुशेषम् प्राशयेदिति ज्ञेयम् ।
तदुक्तं संहितायाम्—-
प्रणीतामार्जनं कृत्वा दद्याच्च ब्रह्मदक्षिणाम् ।
स्वस्ववित्तानुसारेण लोभमोहविवजीतः ॥
ततो ब्रह्माणमुद्वास्य ब्राह्मणान् भोजयेदथ ।
आशीर्वचोभिवीदुषामेधमानः सुखी भवेत् ॥
हुतशेषं ततः प्राश्य कुक्कुटाण्डप्रमाणकम् ।
मन्त्रितं मन्त्रगायत्र्या ।
इति ।
अन्यच्च " त्र्यायुषं यमदग्ने " इति मन्त्रेण भस्म धारयेत् ।
पूर्णपात्रं पूर्यतोयैः सप्तकृत्वोऽभिमन्त्रितैः ।
आत्मानमभिषिञ्चेत्तैः सदूर्वैस्तुलसीदलैः ॥ इति ॥ ११४-११५॥
अथ वर्णात्मिकां वक्ष्ये दीक्षामागमवेदिताम् ।
पुम्प्रकृत्यात्मका वर्णाः शरीरमपि तादृशम् ॥ ११६ ॥
यतस्तस्मात्तनौ न्यस्येद् वर्णान् शिष्यस्य देशिकः ।
तत्तत्स्थानयुतान् वर्णान् प्रतिलोमेन संहरेत् ॥ ११७ ॥
स्वाज्ञया देवताभावाद् विधिना देशिकोत्तमः ।
तदा विलीनतत्त्वोऽयं शिष्यो दिव्यतनुर्भवेत् ॥ ११८ ॥
परमात्मनि संयोज्य तच्चैतन्यं गुरूत्तमः ।
तस्मादुत्पाद्य तान् वर्णान् न्यस्येच्छिष्यतनौ पुनः ॥ ११९ ॥
सृष्टिक्रमेण विधिवच्चैतन्यञ्च नियोजयेत् ।
जायते देवताभावः परानन्दमयः शिशोः ॥ १२० ॥
क्रमप्राप्तां वर्णात्मिकां दीक्षामाह अथेति ।
तत्तदिति ।
देशिकोत्तमः तच्चैतन्यं शिष्यच्चैतन्यं परमात्मनि संयोज्य देवताभावात् स्वस्य देवतात्वात्
अतएव आज्ञासिद्धत्वात् ।
स्वस्याज्ञया विधिना प्रतिलोमेन वर्णस्थानोभयप्रातिलोम्येन तत्तत्स्थानयुतान् वर्णान् संहरेत् ।
अग्रिमं स्थानं वर्णं पूर्वस्मिन् स्थाने वर्णे च संहरेदित्यर्थः ।
गुरूत्तम इत्युत्तरेण सम्बध्यते ।
तस्मात् परमात्मनः ।
विधिवदिति पूर्वस्मात् स्थानाद् वर्णादग्रिमं स्थानं वर्णञ्च ।
चैतन्यञ्चेति चकारेण शिष्यतनावित्यनुषज्यते ।
तदुक्तमाचार्यैः—-
अग्नीन्दुयोगविकृता लिपयो हि सृष्टा-
स्ताभिवीलोमपठिताभिरिदं शरीरम् ।
भूतात्मकं त्वगसृगादियुतं समस्तं
संव्यापयेन्निशितधीवीधिना यथावत् ॥
अन्त्यावूष्मस्वमून् वादिषु लिपिषु तांस्तांश्चतुर्वर्गवर्णे-
ष्वेतान्नस्यम्पदस्तदृति तदपि परेषु स्वरेषु क्रमेण ।
संहृत्य स्थानयुक्तं क्षपितसकलदेहो ललाटस्थितान्तः
प्राप्तिव्याप्तद्विसप्ताधिकभुवनतलो यातु मद्भावमेव ॥
मूलाधारात् स्फुरिततडिदाभाप्रभा सूक्ष्मरूपो-
द्गच्छन्त्यामस्तकमणुतरा तेजसां मूलभूता ।
सौषुम्नाध्वा चरणनिपुणा सा सवित्रानुविद्धा
ध्याता सद्योऽमृतमथ रवेः स्रावयेत् सार्द्धसोमात् ॥
शिरसि निपतिता या बिन्दुधारा सुधाया
भवति लिपिमयी सा ताभिरङ्गं मुखाद्यम् ।
विरचयतु समस्तं पातितान्तश्च तेज-
स्यनल इव घृतस्योद्दीपयेदात्मतेजः ॥
संहृत्य चोत्पाद्य शरीरमेवं
तेजोमयं व्याप्तसमस्तलोकम् ।
सङ्कल्प्य शक्त्यात्मकमात्मरूपं
तच्चिन्हमात्मन्यपि सन्दधीत ॥ इति ॥ ११६-१२० ॥
एषा वर्णमयी दीक्षा प्रोक्ता सम्वित्प्रदायिनी ।
ततः कलावती दीक्षा यथावदभिधीयते ॥ १२१ ॥
निवृत्त्याद्याः कलाः पञ्च भूतानां शक्तयो यतः ।
तस्माद् भूतमये देहे ध्यात्वा ता वेधयेच्छिशोः ॥ १२२ ॥
निवृत्तिर्जानुपर्यन्तं तलादारभ्य संस्थिता ।
जानुनोर्नाभिपर्यन्तं प्रतिष्ठा व्याप्य तिष्ठति ॥ १२३ ॥
नाभेः कण्ठावधि व्याप्ता विद्या शान्तिस्ततः परम् ।
कण्ठाल्ललाटपर्यन्तं व्याप्ता तस्माच्छिखावधि ॥ १२४ ॥
शान्त्यतीता कला ज्ञेया कलाव्याप्तिरितीरिता ।
संहारक्रमयोगेन स्थानात् स्थानान्तरे गुरुः ॥ १२५ ॥
संयोज्य वेधयेद् विद्वानाज्ञया ताः शिवा(रो)ऽवधि ।
इयं प्रोक्ता कला दीक्षा दिव्यभावप्रदायिनी ॥ १२६ ॥
कलावतीदीक्षाक्रममाह तत इति ।
ध्यात्वेत्यत्र यद् ध्यानमुद्दिष्टं तन्निवृत्ति- रित्यादि ईरितेत्यन्तेनोक्तम् ।
तलात् पादतलात् ।
जानुनोर्नाभेः कण्ठात् तस्माल्ललाटा- दारभ्येति सम्बन्धः ।
स्थानात् स्थानान्तरे ताः संयोज्य संहारक्रमयोगेन शिशोर्देहे वेधयेदिति सम्बन्धः ।
संहारः पूर्ववदेव स्वस्वकारणे ।
शिवावधि शिवपर्यन्तम् ।
शिवात् सृष्टिमार्गेणोत्पत्तिरनुक्तापि पूर्ववदेवाऽनुसन्धेया ॥ १२१-१२६ ॥
ततो वेधमयीं वक्ष्ये दीक्षां संसारमोचनीम् ।
ध्यायेच्छिष्यतनोर्मध्ये मूलाधारे चतुर्दले ॥ १२७ ॥
त्रिकोणमध्ये विमले तेजस्त्रयविजृम्भिते ।
वलयत्रयसंयुक्तां तडित्कोटिसमप्रभाम् ॥ १२८ ॥
शिवशक्तिमयीं देवीं चेतनामात्रविग्रहाम् ।
सूक्ष्मां सूक्ष्मतरां शक्तिं भित्वा षट्चक्रमञ्जसा ॥ १२९ ॥
गच्छन्तीं मध्यमार्गेण दिव्यां परशिवावधि ।
वादिसान्तदलस्थार्णान् संहरेत् कमलासने ॥ १३० ॥
तं षट्पत्रमये पद्मे बादिलान्ताक्षरान्विते ।
स्वाधिष्ठाने समायोज्य वेधयेदाज्ञया गुरुः ॥ १३१ ॥
तान् वर्णान् संहरेद् विष्णौ तं पुनर्नाभिपङ्कजे ।
दशपत्रे डादिफान्त-वर्णाढ्ये योजयेद् गुरुः ॥ १३२ ॥
तान् वर्णान् संहरेद् रुद्रे तं पुनर्हृदयाम्बुजे ।
कादिठान्तार्कवर्णाढ्ये योजयित्वेश्वरे गुरुः ॥ १३३ ॥
तान् वर्णान् सहरेदस्मिंस्तं भूयः कण्ठपङ्कजे ।
स्वराढ्यषोडशदले योजयित्वा स्वरान् पुनः ॥ १३४ ॥
सदाशिवे तान् संहृत्य तं पुनर्भ्रूसरोरुहे ।
द्विपत्रे हक्षलसिते योजयित्वा ततो गुरुः ॥ १३५ ॥
तदर्णौ संहरेद् बिन्दौ कलायां तं नियोजयेत् ।
तां नादेऽनन्तर नादं नादान्ते योजयेद् गुरुः ॥ १३६ ॥
तमुन्मन्यां समायोज्य विष्णुवक्त्रान्तरे च ताम् ।
तां पुनर्गुरुवक्त्रे तु योजयेद् देशिकोत्तमः ॥ १३७ ॥
सहैवमात्मना शक्तिं वेधयेत् परमेश्वरे ।
गुर्वाज्ञया छिन्नपाशस्तदा शिष्यः पतेद्भुवि ॥ १३८ ॥
सञ्जातदिव्यबोधोऽसौ सर्वं विन्दति तत्क्षणात् ।
साक्षात् शिवो भवत्येष नात्र कार्या विचारणा ॥ १३९ ॥
एषा वेधमयी दीक्षा सर्वसम्वित्प्रदायिनी ।
क्रमाच्चतुवीधा दीक्षा तन्त्रेऽस्मिन् सम्यगीरिता ॥ १४० ॥
वेधमयीं दीक्षामाह तत इति ।
तनोर्मध्ये मूलाधारे त्रिकोणमध्ये व्यधिकरण्यः सप्तम्यः ।
शिष्यतनोर्मध्ये चतुर्दले मूलाधारे त्रिकोणमध्ये एवम्भूतां शक्तिं ध्यायेदिति सम्बन्धः ।
कीदृशीं शक्तिं वलयत्रयसंयुक्ताम् ।
अत्र यद्यपि शक्तेरपरिमितानि वलयानि तथापि वेदत्रयादेः प्रधानतमसृष्टेर्वलयत्रयादुत्पत्तेस्तदुक्तिः ।
पुनः कीदृशीम् ।
षट्चक्रं भित्त्वा मध्यमार्गेण सुषुम्नामार्गेण परशिवावधि गच्छन्तीम् ।
षट्चक्राणि तु मूलाधार- स्वाधिष्ठान-मणिपूरकानाहत-विशुद्धाज्ञाख्यानि ।
कमलासने ब्रह्मणि आधाराधिष्ठातृ- देवतायाम् ।
एवं विष्णवादयः स्वाधिष्ठानाद्यधिष्ठातृदेवाः ज्ञेयाः ।
तं ब्रह्माणम् तान् वर्णान् बादिलान्तान् ।
तं विष्णुं नाभिपङ्कजे मणिपूरके योजयेत् ।
ततो वेधयेदित्य- नुषङ्गः ।
तान् वर्णान् डादिफान्तान् ।
तं रुद्रम् ।
अर्कपत्राढ्ये द्वादशपत्राढ्ये ।
हृदयाम्बुजे अनाहते योजयित्वा वेधयेदित्यनुषङ्गः ।
गुरुस्तान् वर्णान् कादिठान्तान् ईश्वरे संहरेदित्यन्वयः ।
भूयोऽनन्तरमीश्वरमस्मिन् कण्ठपङ्कजे विशुद्धौ योजयित्वा वेधयेदित्यनुषङ्गः ।
तान् स्वरान् सदाशिवे संहृत्येत्यन्वयः ।
तं सदाशिवं भ्रूसरोरुहे आज्ञायां योजयित्वा वेधयेदित्यनुषङ्गः ।
अग्रे नियोजयेदित्यादेर्वेधयेदित्यर्थः ।
तदर्णौ हक्षौ ।
बिन्दौ शिवे ।
बिन्दुः शिवात्मकः इत्युक्तेः ।
तं शिवम् ।
कलादीनि भ्रूमध्यादुपर्युपरि एतानि षट्चक्राणि ।
अत एव सहस्रारस्य द्वादशान्तता ।
एवं पूर्वेक्तक्रमेण आत्मना शिष्यजीवात्मना शक्तिं कुण्डलिनीं परमेश्वरे शिवे वेधयेदिति सम्बन्धः ।
शक्तिं विना वेधस्य कर्त्तुमशक्यत्वात् ।
अत एवादौ मूलाधारे शक्तिं ध्यायेदित्युक्तिः ।
ततश्च स्वाधिष्ठानादावपि शक्त्या एव वेध इति ज्ञेयम् ।
छिन्नपाशः पाशत्रयविमुक्त इत्यर्थः ।
यत् प्रयोगसारे—-
पाशस्तु सत्सु चासत्सु कर्मस्वास्था समीरिता ।
त्रिविधः स तु विज्ञेयः पाशो बन्धैकसाधनः ॥
प्रथमः सहजः पाशस्तथा चागन्तुकः परः ।
प्रासङ्गि (संसगी) कस्ततीयः स्यादिति पाशत्रयं स्मृतम् ॥ इति ।
यथा ग्रन्थकृत्परमगुरुसोमानन्दाचार्यकृतवेधेन ग्रन्थकृद्गुरव उत्पलाचार्या शिवात्मानो जाताः ।
ग्रन्थकृद्गुरुपङ्क्तिस्तु तृतीयश्लोकव्याख्याने दशीता ।
तथा चण्डेश्वराचार्यकृतवेधेन शिवस्वामी शिवात्मा जातः ।
तथा श्रीकण्ठाचार्या ऊचुः—-
कालज्ञानं तथा कालवञ्चनान्यतनौ तथा ।
प्रवेशो वेध इत्यादि प्रसन्ने लभ्यते शिवे ॥ इति ।
उपसंहरति क्रमादिति ।
षडन्वयमहारत्ने इयमाणवी दीक्षा दशविधा इत्युक्तम् ।
तद्यथा—- आणवी बहुधा दीक्षा शाक्तेयी शाम्भवी पुनः ।
एकधैवेति विद्वद्भिः पठ्यते शास्त्रकोविदैः ॥
आणवी बहुधेत्युक्ता तद्भेदमधुनोच्यते ।
स्मार्त्ती मानसिकी यौगी चाक्षुषी स्पार्शनी तथा ॥
वाचिकी मान्त्रिकी हौत्री शास्त्री चेत्याभिषेचिकी ।
विदेशस्थं गुरुः स्मृत्वा शिष्यं पाशत्रयं क्रमात् ॥
विश्लिष्य लयभोगाङ्गविधानेन परे शिवे ।
सम्यग् योजनरूपैषा स्मार्त्ती दीक्षेति कथ्यते ॥
स्वसन्निधौ समासीनमालोक्य मनसा शुचिम् ।
मलत्रयादुपायैर्या मोचिका सा तु मानसी ॥
योगोक्तक्रमतो योगी शिष्यदेहं प्रविश्य तु ।
गृहीत्वा तस्य चात्मानं स्वात्मना योजनात्मिका ॥
योगदीक्षेति सा प्रोक्ता मलत्रयविनाशिनी ।
शिवोऽहमिति निश्चित्य वीक्षणं करुणार्द्रया ॥
दृशा सा चाक्षुषी दीक्षा सर्वपापप्रणाशिनी ।
स्वयं परशिवो भूत्वा निःसन्दिग्धमना गुरुः ॥
शिवहस्तेन शिष्यस्य समन्त्रं मूर्द्ध्न संस्पृशेत् ।
स्पर्शदीक्षेति सा प्रोक्ता शिवाभिव्यक्तिकारिणी ॥
( शिवहस्तलक्षणं सोमशम्भौ—-
गन्धैर्मण्डलकं स्वीये विदध्याद् दक्षिणे करे ।
विधिनात्राऽर्चयेद् देवमित्थं स्याच्छिवहस्तकम् ॥ इति ।
)
गुरुवक्त्रं निजवक्त्रं विभाव्य गुरुरादरात् ।
गुरुवक्त्रप्रयोगेन दिव्यमन्त्रादिकं शिशौ ॥
मुद्रान्यासादिभिः सार्द्धं दद्यात् सेयं हि वाचिकी ।
दीक्षा परा तथा मन्त्रन्याससंयुक्तविग्रहः ॥
स्वयं मन्त्रतनुर्भूत्वा सक्रमं मन्त्रमादरात् ।
दद्याच्छिष्याय सा दीक्षा मान्त्री मलविघातिनी ॥
कुण्डे वा स्थाण्डिले वापि निक्षिप्याऽग्निं विधानतः ।
लयभोगक्रमेणैव प्रत्यध्वानं यथाक्रमम् ॥
मन्त्रवर्णकलातत्त्वपदविष्टपमेव च ।
शुद्ध्यर्थं होमरूपैषा हौत्री दीक्षा समीरिता ॥
योग्यशिष्याय भक्ताय शुश्रूषार्चापराय च ।
सार्द्धं शास्त्रपदा त्रय्या शास्त्री दीक्षेति सोच्यते ॥
शिवञ्च शिवपत्नीञ्च कुम्भे सम्पूज्य सादरम् ।
शिवकुम्भाभिषेकात् सा दीक्षा स्यादाभिषेचिकी ॥१२७-१४०॥
अथाऽत्र होमद्रव्याणां प्रमाणमभिधीयते ।
कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतम् ॥ १४१ ॥
उक्तानि पञ्च गव्यानि तत्समानि मनीषिभिः ।
तत्समं मधु-दुग्धान्नमक्षमात्रमुदाहृतम् ॥ १४२ ॥
दधि प्रसृतिमात्रं स्याल्लाजाः स्युर्मुष्टिसम्मिताः ।
पृथुकास्तत्प्रमाणाः स्युः शक्त्वोऽपि तथोदिताः ॥ १४३ ॥
गुडं पलार्द्धमानं स्याच्छर्कराऽपि तथा मता ।
ग्रासार्द्धं चरुमानं स्यादिक्षुः पर्वावधिर्मतः ॥ १४४ ॥
एकैकं पत्रपुष्पाणि तथाऽपूपानि कल्पयेत् ।
कदलीफलनारङ्गफलान्येकैकशो विदुः ॥ १४५ ॥
मातुलुङ्ग चतुःखण्डं पनसं दशधा कृतम् ।
अष्टधा नारिकेलानि खण्डितानि विदुबुधाः ॥ १४६ ॥
त्रिधा कृतं फलं बिल्वं कपित्थं खण्डितं त्रिधा ।
उर्वारुकफलं होमे चोदितं खण्डितं त्रिधा ॥ १४७ ॥
फलान्यन्यानि खण्डानि समिधः स्युर्दशाङ्गुलाः ।
दूर्वात्रयं समुद्दष्टं गुडूची चतुरङ्गुला ॥ १४८ ॥
ब्रीहयो मुष्टिमात्राः स्युर्मुद्गमाषा यवा अपि ।
तण्डुलाः स्युस्तदर्द्धांशाः कोद्रवा मुष्टिसम्मिताः ॥ १४९ ॥
गोधूमरक्तकलमा विहिता मुष्टिमानतः ।
तिलाश्चुलुकमात्राः स्युः सर्षपास्तत्प्रमाणकाः ॥ १५० ॥
शुक्तिप्रमाणं लवणं मरीचान्येकविंशतिः ।
पुरं वदरमानं स्याद्रामठं तत्समं स्मृतम् ॥ १५१ ॥
चन्दनागुरुकर्पूर-कस्तूरी-कुङ्कुमानि च ।
तिन्तिडीबीजमानानि समुद्दष्टानि देशिकैः ॥ १५२ ॥
कर्षमात्रमिति ।
कर्षलक्षणं प्रागुक्तम् ।
तैलस्याप्येतदेव प्रमाणमिति ज्ञेयम् ।
शुक्तिमात्रमिति ।
कर्षद्वयं शुक्तिः ।
अक्षमात्रं कर्षमात्रम् ।
प्रसृतिमात्रं पलद्वयमात्रम् ।
मुष्टिसम्मिताः पलसम्मिताः ।
पृथुकाश्चिपिटकाः ।
पलार्द्धमानं कर्षद्वयम् ।
ग्रासार्द्धम् अशीतिरक्तिकामानम् ।
तदुक्तम्—-
गुञ्जाभिर्दशभिर्माषः शाणो माषचतुष्टयम् ।
द्वौ शाणौ घटकः कालो बदरं द्रक्षणश्च यः ॥
तौ द्वौ पाणितलं कर्षः सुवर्णं कवलग्रहः ।
पिचुवीडालपदकं तिन्दुकोऽक्षश्च तद्द्वयम् ॥
शुक्तिरष्टमिका ते द्वे पलं बिल्वं चतुथीका ।
मुष्टिराम्रं प्रकुञ्चोऽथ द्वे पले प्रसृतिस्तथा ।
इति ।
मातुलुङ्गं बीजपूरम् ।
उर्वारुकं कर्कटी ।
समिध इति ।
तत्र विशेषः—-
विशीर्णा द्विदला ह्रस्वा वक्रा स्थूला कृशा द्विधा ।
कृमिदष्टाश्च दीर्घाश्च निस्त्वचः परिवजीताः ॥
विशीर्णाऽऽयुःक्षयं कुर्याद् द्विदला व्याधिसम्भवम् ।
ह्रस्वायां मृत्युमाप्नोति वक्रा विघ्नकरी तथा ॥
स्थूलाभिर्हरते लक्ष्मीं कृशायां याजकक्षयः ।
द्विधायां नेत्ररोगाः स्युः कीटदष्टाऽर्थनाशिनी ॥
द्वेषं प्रकुर्वते दीर्घा प्राणघ्न्यो निस्त्वचः स्मृताः ।
सक्षीरा नाधिकान्यूनाः समिधः सर्वकामदाः ।
आर्द्रत्वचं समच्छेदां तर्जन्यङ्गुलिवर्त्तुलाम् ॥
ईदृशीं होमयेत् प्राज्ञः प्राप्नोति विपुलां श्रियम् ।
श्रौते स्मार्त्ते च तन्त्रोक्ते समिधः परिकीत्तीताः ॥ इति ।
विशेषान्तरं प्रयोगसारे—-
श्लेष्मातकपिशाचतरुं त्यक्त्वाऽन्येभ्यः समाहरेत् समिधः ।
इति ।
मुष्टिमात्राः पलसमिताः।
तदर्द्धांशाः कर्षद्वयमिताः ।
चुलुकमात्राः कर्षमात्राः ।
पाणितलशब्देन चुलुकग्रहणात् ।
शुक्तिः कर्षद्वयम् ।
पुरं गुग्गुलुः ।
बदरमानमशीति- गुञ्जामितम् ।
रामठं हिङ्गुः ।
शैवागमे तु—-
खण्डत्रयन्तु मूलानां सूक्ष्माणि पञ्च होमयेत् ।
कन्दानामष्टमं भागं लतानामङ्गुलद्वयम् ॥ इति ॥१४१-१५२॥
वैश्वानरं स्थितं ध्यायेत् समिद्धोमेषु देशिकः ।
शयानमाज्यहोमेषु निषण्णं शेषवस्तुषु ॥ १५३ ॥
आस्यान्तर्जुहुयादग्नेवीपश्चित् सर्वकर्मसु ।
सधूमोऽग्निः शिरो ज्ञेयं निर्धूमश्चक्षुरेव हि ॥ १५४ ॥
ज्वलत्कृष्णो भवेत् कर्णः काष्ठमग्नेर्नसस्तथा ।
प्रज्वलोऽग्निस्तथा जिह्वा एतदेवाऽग्निलक्षणम् ॥ १५५ ॥
कर्णहोमे भवेद् व्याधिर्नेत्रेऽन्धत्वमुदीरितम् ।
नासिकायां मनःपीडा मस्तके धनसङ्क्षयः ॥ १५६ ॥
स्थितमुत्थितम् ।
आस्यान्तरिति ।
आस्यादीनां लक्षणमुक्तमन्यत्र—-
सधूमोऽग्निः शिरो ज्ञेयो निर्धूमश्चक्षुरेव च ।
ज्वलत्कृशो भवेत् कर्णः काष्ठमग्नेश्च नासिका ॥
अग्निर्लालायते यत्र शुद्धस्फटिकसन्निभः ।
तन्मुखं तत्र विज्ञेयं चतुरङ्गुलमानतः ॥ इति ।
गुरुप्रोक्ते वनदुर्गाकल्पे तु—-सर्वकार्यप्रसिद्ध्यर्थे जिह्वायां तत्र होमयेत् ।
चक्षुः कर्णादिकं ज्ञात्वा होमयेद् देशिकोत्तमः ॥
अग्निकर्णे हुतं यत्तु कुर्याच्चेद् व्याधितो भयम् ।
नासिकायां महद्दुःखं चक्षुषोर्नाशनं भवेत् ॥
केशे दारिद्य्रदं प्रोक्तं तस्माज्जिह्वासु होमयेत् ।
यत्र काष्ठं तत्र श्रोत्रे यत्र धूमस्तु नासिके ॥
यत्राऽल्पज्वलनं नेत्रे यत्र भस्म तु तच्छिरः ।
यत्रैव ज्वलितो वह्निस्तत्र जिह्वा प्रकीत्तीता ॥ इति ।
विपश्चिदित्यनेनैतदुक्तम् ।
शत्रुनाशकहोमे एतदङ्गेषु हवनात् तत्तदङ्गक्षयो भवति ।
यदाहुः—- वह्नेः शिरसि नासायां श्रोत्रे चक्षुषि वा तथा ।
जुहुयाच्चेत् तदा क्षिप्रं तदङ्गानि विनाशयेत् ॥ इति ॥ १५३-१५६ ॥
स्वर्णसिन्दूरबालार्क कुङ्कुमक्षौद्रसन्निभः ।
सुवर्णरेतसो वर्णः शोभनः परिकीतीतः ॥ १५७ ॥
क्षौद्रं मधु ।
स्वर्णकुङ्कुमक्षौद्रसन्निभो वर्णः शोभन इति ।
आकृष्टाविति ज्ञेयम् ।
यदाहुः श्रीमतङ्गपारमेश्वरे—-
दिव्यानामप्यदिव्यानामाकृष्टाविष्यते सदा ।
ध्मातचामीकरप्रख्यो हरितालनिभश्च यः ॥
हरिद्राकुनटीवर्णे रोचनाभश्च शस्यते ॥ इति ।
सिन्दूरबालार्क इति जयार्थ इति ज्ञेयम् ।
पद्मरागद्युतिः श्रेष्ठो लाक्षारससमोऽपि वा ।
बालार्कवर्णे हुतभुग् जयार्थं शस्यते बुधैः ॥
इति तत्रोक्तेः ।
अन्यकर्मणि तु तत्रैव—-
इन्द्रगोपकसङ्काशः शोणिताभोऽथ पावकः ।
शक्रचापनिभः शस्तः कुङ्कुमाम्बुनिभस्तथा ॥
रक्तानां पुष्पजातीनां तुल्यो वर्णः प्रशस्यते ॥ इति ॥ १५७ ॥
भेरीवारिदहस्तीन्द्रध्वनिर्वह्नेः शुभावहः ।
नागचम्पकपुन्नागपाटलायूथिकानिभः ॥ १५८ ॥
पद्मेन्दीवरकह्लारसपीर्गुग्गुलुसन्निभः ।
पावकस्य शुभो गन्ध इत्युक्तं तन्त्रवेदिभिः ॥ १५९ ॥
भेरीत्याद्युपलक्षणम् ।
जीमूतवल्लकीशङ्खमृदङ्गध्वनितुल्यकः ।
शब्दोऽग्नेः सिद्धये होतुरतोऽन्यो सिद्धिदः स्मृतः ॥ इति ।
नागेत्याद्युपलक्षकम् ।
" सुगन्धद्रव्यगन्धोऽग्निर्घृतगन्धश्च शोभनः " इत्युक्तेः ।
पद्मगन्ध आयुषे इन्दीवरादिगन्धः सौभाग्ये ।
तदुक्तम्—- नीलोत्पलसमो गन्धः सौभाग्ये शस्यतेऽञ्जसा ।
आयुषे पद्मगन्धः स्याद् बिल्वगन्धश्च सुव्रते ॥ इति ।
विशेषोऽपि—-उग्रगन्धोऽभिचारेऽत्र प्रशस्तः सर्वदाऽनलः इति ॥ १५८-१५९ ॥
प्रदक्षिणास्त्यक्तकम्पाश्छत्राभाः शिखिनः शिखाः।
शुभदा यजमानस्य राज्यस्यापि विशेषतः ॥ १६० ॥
कुन्देन्दुधवलो धूमो वह्नेः प्रोक्तः शुभावहः ।
कृष्णः कृष्णगतेर्वर्णे यजमानं विनाशयेत् ॥ १६१ ॥
श्वेतो राष्ट्रं निहन्त्याशु वायसस्वरसन्निभः ।
खरस्वरसमो वह्नेः ध्वनिः सर्वविनाशकृत् ॥ १६२ ॥
छत्राभा इत्युपलक्षणम् ।
" छत्राकारभुजः श्रेष्ठो ध्वजचामरसन्निभः " इत्युक्तेः
कृष्णो यजमानं श्वेतो राष्ट्रं निहन्तीति ।
यत्र कर्मणि रक्तपीतादिवर्णे विहितस्तत्रेति ज्ञेयम् ।
न तु सामान्यतः ।
यदाहुः—- ज्ञात्वा कर्मानुरूपां तां तस्य तस्याऽनुकूलताम् ।
कर्मणः सततं ग्राह्यस्त्याज्यो वा तद्विलोमतः ॥ इति ।
विशेषस्तत्रैव—- मारणोच्चाटनोत्सादकर्मण्यस्मिन् सुशोभनः ।
कृष्णानां पुष्पजातीनां वर्णे वह्नेरिहेष्यते ॥
शङ्खस्फटिककुन्देन्दुवर्णेभ्योऽपि सितः शुभः ।
शान्तिके पौष्टिके वापि विहितः सर्वदाऽनलः ॥ इति ।
त्याज्यं कृष्णत्वमपि तेनैवोक्तम्—-
षट्पदाञ्जननिस्त्रिंशतुल्यो वर्णे न सिद्धिदः ।
इति ।
अन्योऽपि विशेषः—-मार्जाराक्षिनिभोऽग्राह्यः शुकपिच्छाभ एव च ।
मयूरकण्ठसदृशश्चित्रपारावतप्रभः ॥ इति ॥ १६०-१६२ ॥
पूतिगन्धो हुतभुजो होतुर्दुःखप्रदो भवेत् ।
छिन्नावर्त्ता शिखा कुर्यान्मृत्युं धनपरिक्षयम् ॥ १६३ ॥
शुकपक्षनिभो धूमः पारावतसमप्रभः ।
हानिं तुरगजातीनां गवाञ्च कुरुतेऽचिरात् ॥ १६४ ॥
एवंविधेषु दोषेषु प्रायश्चित्ताय देशिकः ।
मूलेनाज्येन जुहुयात् पञ्चविंशतिमाहुतीः ॥ १६५ ॥

॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
पञ्चमः पटलः समाप्तः ॥ ५ ॥

  पूतिगन्धो दुर्गन्धः ।  

मृत्युमित्यादि यथाक्रमम् ।
एवंविध इत्यनेनैतदुक्तं भवति ।
वृषकुञ्जरयानेन तुल्योऽग्निः पुष्टिदः सदा ।
विमानानां वितानानां प्रासादानाञ्च यो भवेत् ॥
आकारेणाऽथ हंसानां मयूराणाञ्च शस्यते ।
सिंहाकृतिः सदा वह्निः सद्यः सिद्धिकरः स्मृतः ॥
शेषाणां दंष्टिरणां रूपं न शस्तं होमकर्मणि ।
खरोष्ट्रमहिषादीनां रूपमत्र न सिद्धये ॥
स्निग्धः प्रदक्षिणावर्त्तः सुशब्दश्चापि यो भवेत् ।
वेद्यः सोऽर्थप्रसिद्ध्यर्थमन्यथा विघ्नकारकः ॥
रूक्षश्चटचटाशब्द अपसव्यगतिः सदा ।
उल्लिखेद् वसुधां यश्च यश्चधः शिख एव च ।
नेष्यतेऽसौ मुनिश्रेष्ठ शास्त्रेऽस्मिन् परमेश्वरे ॥ इति ।
पञ्चविंशतिमिति ।
दोषद्वयदर्शने दोषत्रयदर्शने वा प्रतिनिमित्तं नैमित्तिकमावर्त्तते इति न्यायात् तावत्कृत्वः
पञ्चविंशतिराहुतयो होतव्या इति ॥ १६३-१६५ ॥

॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां पञ्चमः पटलः ॥ ५ ॥