०४

अथ चतुर्थः पटलः

अथ दीक्षां प्रवक्ष्यामि मन्त्रिणां हितकाम्यया ।
विना यया न लभ्येत सर्वमन्त्रफलं यतः ॥ १ ॥
मन्त्री यः साधयेदेकं जपहोमार्चनादिभिः ।
क्रियाभिर्भूरिभिस्तस्य सिद्ध्यन्त्यन्येऽल्पसाधनात् ॥
सम्यक्सिद्धैकमन्त्रस्य नाऽसाध्यमिह किञ्चन ।
बहुमन्त्रवतः पुंसः का कथा हरिरेव सः ॥
इत्यादिना महाकपिलपञ्चरात्रनारायणीययोः ।
अन्यत्रापि—- पुस्तकाल्लिखितो मन्त्रो येन सुन्दरि जप्यते ।
न तस्य जायते सिद्धिर्हानिरेव पदे पदे ॥ इति ।
तथाऽन्यत्रापि—- द्विजानामनुपेतानां स्वकर्माध्ययनादिषु ।
यथाऽधिकारो नास्तीह स्याच्चोपनयनादनु ॥
तथाऽत्राऽदीक्षितानाञ्च मन्त्रदेवार्चनादिषु ।
नाधिकारोऽस्त्यतः कुर्यादात्मानं शिवसंस्कृतम् ॥ इति ।
नारायणीये च—- यदृच्छया श्रुतं मन्त्रं छलेनाप्यछलेन वा ।
पत्रेक्षितं वा गाथावत् तज्जपेद् यद्यनर्थकृत् ॥ इति ।
तत्रैव—- प्रविश्य विधिवद्दीक्षामभिषेकावसानिकाम् ।
श्रुत्वा तन्त्रं गुरोर्लब्धं साधयेदीप्सितं मनुम् ॥ इति ।
अन्यत्रापि—- गुरुमुख्याः क्रियाः सर्वा भुक्तिमुक्तिफलप्रदाः ।
तस्मात् सेव्यो गुरुर्नित्यं मुक्त्यर्थं सुसमाहितैः ।
गुर्वनुक्ताः क्रियाः सर्वा निष्फलाः स्युर्यतो ध्रुवम् ॥ इति ।
अन्यत्रापि—- जपो देवार्चनविधिः कार्ये दीक्षान्वितैर्नरैः ।
नास्ति पापं यतस्तेषां सूतकं वा यतात्मनाम् ॥
इत्यादिना दीक्षागृहीतमन्त्रफलस्योक्तत्वात् तां विना अविधिप्राप्तेभ्यस्तेभ्यः फलं न सिद्ध्यतीति
अवश्यवक्तव्यदीक्षां वक्तुं प्रतिजानीते अथेति ।
अथ मण्डल- कथनानन्तरं मन्त्राणां दीक्षां प्रवक्ष्यामि ।
हितकाम्यया पूर्वप्रकृतशिष्याणामिति शेषः ।
यद्वा वैदिकजनानामिति शेषः ।
अयमेव साम्प्रदायिकः पाठः ।
एतेन सर्वसामान्यरूपा मन्त्रदीक्षोच्यते इत्युक्तम् ।
तदुक्तमीशानशिवेन—-
सा तु मन्त्र-शिव-शक्ति-विष्णुभेदाच्चतुवीधा ।
सामान्यभूता खलु मान्त्रिकी स्याद् दीक्षा स्मृता मन्त्रगणेषु तद्वत् ।
वर्णेषु चापि द्विज पूर्वकेषु स्याच्छैवशाक्तेष्वपि वैष्णवेषु ॥ इति ।
प्रयोगसारेऽपि—- मन्त्रमार्गानुसारेण साक्षात्कृत्वेष्टदेवताम् ।
गुरुश्चोब्दोधयेच्छिष्यं मन्त्रदीक्षेति सोच्यते ॥ इति ।
षडन्वयमहारत्नेऽपि—-त्रिविधा सा भवेद् दीक्षा प्रथमा त्वाणवी परा ।
शाक्तेयी शाम्भवी चान्या सद्योमुक्तिविधायिनी ॥
मन्त्रार्चनासनस्थान ध्यानोपायादिभिः कृता ।
दीक्षा सा त्वाणवी प्रोक्ता यथाशास्त्रोक्तरूपिणी ॥
सिद्धौ स्वशक्तिमालोक्य तया केवलया शिशोः ।
निरुपायं कृता दीक्षा शाक्तेयी परिकीत्तीता ॥
अभिसन्धिं विना चार्यशिष्ययोरुभयोरपि ।
देशिकानुग्रहेणैव शिवताव्यक्तिकारिणी ॥
सेयन्तु शाम्भवी दीक्षा शिवावेशनकारिणी ॥ इति ।
अतएव ग्रन्थकृद् भैरवीपटले वक्ष्यति " दीक्षां प्राप्य " (१२।२६) इति ।
तत्र शक्तिदीक्षां प्राप्येत्यर्थः।
तथा द्वादशाक्षरे " दीक्षितो विजितेन्द्रियः " इति ।
तत्र वैष्णव- मार्गेण दीक्षित इत्यर्थः ।
तथा शैवपञ्चाक्षरेऽपि " दीक्षितः शैववर्त्मना " इति ।
तत्र शक्तिविष्णुशिवदीक्षास्तत्तत्तन्त्रे ज्ञेयाः ।
मन्त्रिणामिति पाठे मन्त्रिणां हितकाम्यया दीक्षां प्रवक्ष्यामि ।
उत्तरार्द्धे सर्वमन्त्रफलमिति मन्त्रशब्दस्योच्चारितत्वात् अत्र मन्त्राणामिति सम्बद्ध्यते इति वदन्ति।
परन्तु मुख्यमन्त्रपदस्यैव सम्बन्धाभावात् यदपि मन्त्रपदं तदपि वृत्तिगभीतमिति
न समञ्जसः पाठः ।
आचार्या अपि—-
अथ प्रवक्ष्ये विधिवन्मनूनां दीक्षाविधानं जगतो हिताय ।
इति ।
वायवीयसंहितायाम्—-
शाम्भवी चैव शाक्ती च मान्त्री चैव शिवागमे ।
दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना ॥
गुरोरालोकमात्रेण स्पर्शात् सम्भाषणादपि ।
सद्यः सञ्ज्ञा भवेज्जन्तोर्दीक्षा सा शाम्भवी मता ॥
शाक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु ।
गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा ॥
मान्त्री क्रियावती दीक्षा कुण्ड(म्भ) मण्डलपूवीका ।
इति ।
यतो यस्मात् कारणात् ।
यया दीक्षया विना ।
सर्वे च ते मन्त्राश्च येषां यत् फलं तन्न लभ्यते न प्राप्यते ।
एतेनैतदुक्तम् ।
यः कश्चन मन्त्रो दीक्षयैव शिष्येण गुरुभ्यो ग्राह्यः ।
अन्यस्य फलदायकत्वनियमाभावात् ।
किञ्च शिवादिदीक्षया तत्त- न्मन्त्राणामेव फलदायकत्वम् अनया तु सर्वमन्त्राणाम् ।
अयञ्च सर्वञ्च तन्मन्त्रफलमिति फलविशेषणत्वेनापि व्याख्येयम् ।
तेनोपदेशादिमात्रेण सकलं फलं न प्राप्यते ।
अनया तु सर्वमपीत्यर्थः ।
उपदेशस्यापि तन्त्रान्तरे विहितत्वादिति ।
मन्त्रशब्दव्युत्पत्तिरुक्ता पिङ्गलामते—- मननं विश्वविज्ञानं त्राणं संसारबन्धनात् ।
यतः करोति संसिद्धो मन्त्र इत्युच्यते ततः ॥ इति ।
रुद्रयामले च—- मननात् त्राणनाच्चैव मद्रूपस्यावबोधनात् ।
मन्त्र इत्युच्यते सम्यक् मदधिष्ठानतः प्रिये ॥ इति ।
अन्यत्रापि—- गुप्तोपदेशतो मन्त्रो मननात् त्राणनादपि ।
इति ॥ १ ॥
दिव्यं ज्ञानं यतो दद्यात् कुर्यात् पापस्य सङ्क्षयः ।
तस्माद् दीक्षेति सम्प्रोक्ता देशिकैस्तन्त्रवेदिभिः ॥ २ ॥
चतुवीधा सा सन्दिष्टा क्रियावत्यादिभेदतः ।
क्रियावती वर्णमयी कलात्मा वेधमय्यपि ॥ ३ ॥
ताः क्रमेणैव कथ्यन्ते तन्त्रेऽस्मिन् सम्पदावहाः ॥ ४ ॥
देशिको विधिवत् स्नात्वा कृत्वा पौर्वाह्णिकीः क्रियाः ।
यायादलङ्कृतो मौनी यागार्थं यागमण्डपम् ॥ ५ ॥
दीक्षाशब्दव्युत्पत्तिमाह ज्ञानमिति ।
दद्यात्—-क्षयमित्यनयोराद्यर्णमादायेयं निरुक्तिः ।
" अप्यक्षरसाम्यान्निर्ब्रूयात् " इति यास्कोक्तेः ।
तदुक्तं—-
ददाति यस्मादिह दिव्यभावं मायामले कर्म च सङ्क्षिणोति ।
फलं चतुर्वर्गभवञ्च यस्मात्तस्मात्तु दीक्षेत्यभिधानमस्याः ॥ इति ।
प्रयोगसारेऽपि—- दीयते ज्ञानसद्भावः क्षीयते पापसञ्चयः ।
तेन दीक्षेति सा ज्ञेया पाशच्छेदाह्वया क्रिया ॥ इति ।
अत्र दीक्षायामेव तन्त्रेण नित्यपूजाया अपि वक्ष्यमाणत्वात् देशिकैरित्यनेन सूचितम् ।
स्नानात् पूर्वं नित्यकृत्यं किञ्चिदुच्यते ।
ब्राह्मे मुहूर्त्ते उत्थाय स्मृत्युक्तविधानेन शौचादिकं देहशुद्धिञ्च विधाय रात्रिवासः परित्यज्य वासोऽन्तरं
परिधाय मन्त्रस्नानं कृत्वा देवगृहमागत्य सम्मार्जनोपलेपनादिकं कृत्वा देवस्य निर्माल्यमपसार्य
पूर्वदिना- वशिष्टपत्रादिनाऽभ्यर्च्य नमस्कुर्यात् ।
अन्यथा दोषदर्शनात् ।
यदाहुः—- तृषाक्रान्तः पशुर्बद्धः कन्यका च रजस्वला ।
देवता च सनिर्माल्या हन्ति पुण्यं पुराकृतम् ॥ इति ।
तदुक्तं मन्त्रतन्त्रप्रकाशे—-स्मृत्युक्तेन विधानेन सम्यक् शौचं विधाय च ।
प्रक्षाल्य पादावाचम्य कृत्वा न्यासं यतात्मवान् ॥
प्रविश्य देवतास्थानं निर्माल्यमपकृष्य च ।
दद्यात् पुष्पाञ्जलिं विद्वानर्घ्यपाद्ये तथैव च ॥
मुखप्रक्षालनं दद्याद् दद्याद्वै दन्तधावनम् ।
दद्यादाचमनीयञ्च दद्याद्वासोऽमलं शुभम् ॥ इति ।
ततो यथोक्तासने उपविश्य गुरुन् मूर्द्धनि ध्यायेत् ।
प्रातः शिरसि शुक्लेऽब्जे द्विनेत्रं द्विभुजं गुरुम् ।
प्रसन्नवदनं शान्तं स्मरेत्तन्नामपूर्वकम्म्
अहं देवो न चान्योऽस्मि ब्रह्मैवाऽहं न शोकभाक् ।
सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् ॥
इति गुरुदेवतात्मनामैक्यं भावयित्वा प्रार्थयेत्—-
त्रैलोक्यचैतन्यमयादिदेव श्रीनाथ विष्णो भवदाज्ञयैव ।
प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्त्तयिष्ये ॥
जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे निवृत्तिः ।
केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥ इति ।
अत्र श्रीनाथ विष्णो इति शिवादावूहः कार्यः ।
चण्डीश शम्भो इत्यादि ततो देवतागुणनामादि कीर्त्तयन् स्नानार्थं नद्यादौ गच्छेत् ।
स्नात्वेति स्नानादिकोपदेशोऽ- नुक्रमकथनाय ।
यतश्च—-अशुचिवस्त्रमस्नातमनलङ्कारं पुरुषं देवता नाऽधितिष्ठन्ति ।
इति ।
अनेन मज्जनस्नानाशक्तः स्नानान्तरमपि कुर्यादित्युक्तं भवति ।
यदाहुः—-
भूत्या वा गोरजोभिर्भवति विपदि तत् केवलैर्वाऽपि मन्त्रैः ।
इति ।
अथच विधिवत् स्नात्वा पूर्वाह्णिकीः क्रियाः कृत्वा इति मन्त्रस्नानं मन्त्रसन्ध्यां मन्त्रतर्पणञ्च
कर्त्तव्यमिति सूचितम् ।
अथ स्नानं प्रवक्ष्यामि सर्वपापहरं शुभम् ।
यत् कृत्वा साधकः सम्यक् सर्वकर्मार्हको भवेत् ॥
इत्यादिना महाकपिलपञ्चरात्रे ।
वशिष्ठसंहितायामपि—-कृत्वादौ वैदिकं स्नानं ततस्तान्त्रिकमाचरेत् ।
इत्यादिना च मन्त्रस्नानादिविधिरुक्तः ।
तत्र मन्त्रस्नानं द्विविधम्—-आन्तरं बाह्यञ्च ।
तत्र वैष्णवस्नानमान्तरमुक्तं वशिष्ठसंहितायाम्—-
अनन्तादित्यसङ्काशां वासुदेवं चतुर्भुजम् ।
शङ्खचक्रगदापद्ममुकुटं वनमालिनम् ॥
तत्पादोदकजां धारां निपतन्तीं स्वमूर्द्धनि ।
चिन्तयेद् ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ॥
तया सङ्क्षालयेत् सर्वमन्तर्द्देह(मेतद्देह)गतं मलम् ।
तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः ॥
इदं स्नानं वरं मन्त्रात् सहस्रम(स्त्राद)धिकं स्मृतम् ।
इति ।
शाक्तमाभ्यन्तरं स्नानमुक्तं श्रीपञ्चमीमते—-
स्नानप्रकारो द्विविधो बाह्याभ्यन्तरभेदतः ।
आन्तरं स्नानमत्यन्तरहस्यमपि सादरात् ॥
कथयामि भवध्वस्त्यै चतुर्वर्गाप्तयेऽपि च ।
संवित्त्रयमनुस्मृत्य चरणत्रयमध्यतः ॥
स्रवन्तं सच्चिदानन्दप्रवाहं भावगोचरम् ।
विमुक्तिसाधनं पुंसां स्मरणादेव योगिनाम् ॥
तेनाप्लावितमात्मानं भावयेद्भवशान्तये ।
एवमाभ्यन्तरं स्नानम् ।
इति ।
शैवागमे आभ्यन्तरं स्नानमुक्तं—-
मनसा मूलमन्त्रेण प्राणायामपुरःसरम् ।
कुर्वीत मानसं स्नानं सर्वत्र विहितञ्च तत् ॥ इति ।
बाह्यप्रकारस्तूच्यते ।
स्वशाखोक्तविधिना स्नात्वा प्राणायामपुरःसरमङ्गे षडङ्गानि विन्यस्य—- ब्रह्माण्डोदरतीर्थानि
करैः स्पृष्टानि ते रवे ।
तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
आवाहयामि त्वां देवि स्नानार्थमिह सुन्दरि ।
एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥
इति मन्त्रैरङ्कुशमुद्रयाऽऽदित्यमण्डलात्तीर्थमाकृष्य आवाह्य वमिति अम्भसि नियोज्य
सोमसूर्याग्निमण्डलानि तत्र सञ्चिन्त्य वम् इत्यमृतबीजेन द्वादशधाऽभिमन्त्र्य
कवचेनावगुण्ठ्य अस्त्रेण संरक्ष्य मूलमन्त्रेणैकादशवारमभिमन्त्र्य—-
ॐ आधारः सर्वरूप(भूत)स्य विष्णोरतुलतेजसः ।
तद्रूपाश्च ततो जाता आपस्ताः प्रणमाम्यहम् ॥
इत्युपस्थाय निमज्जेत् ।
अनेनोपस्थाय तीर्थं निमज्जेच्चिन्तयन् हरिम् ।
इति मन्त्रतन्त्रप्रकाशोक्तेः ।
तत्र मूलमन्त्रं देवताकृतिञ्च सञ्चिन्त्य उन्मज्य मूल- मन्त्रेण
सप्तकृत्वो द्वादशकृत्वो वा शङ्खमुद्रया
कलशमुद्रया वा आत्मानमभिषिच्य—-
सिसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजायते ।
मातरः सर्वभूतानामापो देव्यः पुनन्तु माम् ॥
तारवारुणबीजेन पुटितत्वेनमुच्चरेत् ।
अलक्ष्मीं मलरूपां याः सर्वभूतेषु संस्थिताम् ।
क्षालयन्ति निजस्पर्शादापो नित्यं पुनन्तु माम् ॥
इति मन्त्राभ्याञ्चाभिषिच्य—-
यन्मे केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्तदघ्नन्तु वो नमः ॥
आयुरारोग्यमैश्वर्यमरिपक्षक्षयं सुखम् ।
सन्तोषः क्षान्तिरास्तिक्यं विद्या भवतु वो नमः ॥
इत्यभिषिञ्चेत् ।
इति बाह्यं मन्त्रस्नानम् ।
अभिषिञ्चेदथात्मानं वारुणैर्मूलविद्यया ।
इति मन्त्रतन्त्रप्रकाशे उक्तेः ।
तदुक्तम्—-
विहितावश्यकः शौचमाचामं दन्तधावनम् ।
मुखप्रक्षालनादीनि कृत्वा स्नानं समाचरेत् ॥
हृन्मुद्रा(न्मन्त्रा)ङ्कुशमुद्राभ्यां तीर्थमाकृष्य मण्डलात् ।
आवाह्याऽम्भसि संयोज्य सोमसूर्याग्निमण्डलम् ॥
सञ्चिन्त्य मन्त्री तन्मध्ये निमज्जेत् सुसमाहितः ।
मूलमन्त्रं समावर्त्त्य मनसोल्लिख्य चाकृतिम् ॥
उत्थायाऽऽचम्य तत्पश्चात् षडङ्गन्याससंयुतः ।
आत्मानं मूलमन्त्रेण मुद्रया कलशाख्यया ॥
सप्तकृत्वोऽभिषिच्याऽथ मनुना मन्त्रितैर्जलैः ।
इति ।
वशिष्ठसंहितायामपि—-
विन्यस्याङ्गे षडङ्गानि प्राणायामपुरःसरम् ।
श्रीसूर्यमण्डलात्तीर्थमाकृष्याऽङ्कुशमुद्रया ॥
वमित्यनेन चाप्लाव्य कवचेनावगुण्ठयेत् ।
संरक्ष्यास्त्रेण मूलेन मन्त्रयेद्रुद्र(द्रस) सङ्ख्यया ॥
निमज्य तस्मिन् श्रीदेवं ध्यायेच्छक्त्या जपन्मनुम् ।
उन्मज्य कुम्भमुद्राञ्च बद्धा स्नायाद् द्विषट् ततः ॥
शालग्रामशिलातोयं तुलसीगन्धमिश्रितम् ।
कृत्वा शङ्खे भ्रामयंस्त्रिः प्रक्षिपेन्निजमूर्द्धनि ॥
शालग्रामशिलातोयमपीत्वा यस्तु मस्तके ।
प्रक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते ॥
विष्णुपादोदकात् पूर्वं विप्रपादोदकं पिबेत् ।
विरुद्धमाचरन्मोहादात्महा स निगद्यते ॥
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे ।
ससागराणि तीर्थानि पादे विप्रस्य दक्षिणे ॥
ततः सङ्क्षेपतो देवान् मनुष्यांस्तर्पयेत् पितृन्
पीडयित्वाम्बरं चोरू प्रक्षाल्याचम्य यत्नतः ॥
धारयेद्वाससी शुद्धे परिधानोत्तरीयके ।
अच्छिन्ने सुदृशे शुक्ले आचमेत् पीठसंस्थितः ॥
ऊर्द्धपुण्ड्रं त्रिपुण्ड्रं वा कृत्वा सन्ध्यां समाचरेत् ॥ इति ।
अङ्कुश-कुम्भ-शङ्खमुद्रालक्षणानि यथा—-
दक्षमुष्टिगृहीतस्य वाममुष्टेस्तु मध्यमाम् ।
प्रसार्य तर्ज्जन्याकुञ्चेत् सेयमङ्कुशमुद्रिका ॥
दक्षाङ्गुष्ठे पराङ्गुष्ठं क्षिप्त्वा हस्तद्वयेन तु ।
सावकाशात्मकं मुष्टिं कुर्यात् कुम्भस्य मुद्रिका ॥
वामाङ्गुष्ठन्तु सङ्गृह्य दक्षिणेन तु मुष्टिना ।
कृत्वोत्तानं तथा मुष्टिमङ्गुष्ठन्तु प्रसारयेत् ॥
वामाङ्गुल्यस्तथा शिष्टाः संयुक्ताः सुप्रसारिताः ।
दक्षिणाङ्गुष्ठसंस्पृष्टा मुद्रा शङ्खस्य चोदिता ॥
तत्र वैष्णवतिलके विशेषः—-
ललाटे तु गदा कार्या मूर्द्ध्न चापं शरन्तथा ।
नन्दकञ्चैव हृन्मध्ये शङ्खं चक्रं भुजद्वये ॥
शङ्खचक्राङ्कितो विप्रः श्मशाने मिरयते यदि ।
प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य नारद ॥ इति ।
शैवैस्तूर्द्धपुण्ड्रधारणानन्तरमेव भस्मना त्रिपुण्ड्रधारणमपि कार्यम् ।
यतो द्विजानामूर्द्धपुण्ड्रस्यावश्यकत्वम् ।
तदुक्तं ब्रह्माण्डपुराणे—-
ऊर्द्धपुण्ड्रमृजुं सौम्यं ललाटे यस्य दृश्यते ।
स चाण्डालोऽपि शुद्धात्मा पूज्य एव न संशयः ॥
अशुचिश्चाप्यनाचारो मनसा पापमाचरन् ।
शुचिरेव भवेन्नित्यमूर्द्धपुण्ड्राङ्कितो नरः ॥
मत्प्रियार्थं शुभार्थं वा रक्षार्थं चतुरानन ।
मद्भक्तो धारयेन्नित्यमूर्द्धपुण्ड्रमतन्द्रितः ॥ इति ।
तत्र त्रिपुण्ड्रधारणविधानं यथा—-
भस्माग्निहोत्रसम्भूतमानयेच्छोधितं बुधः ।
यद्वा धरामसंस्पृष्टं सद्येनानीय गोमयम् ॥
वामेन पात्रे संशोष्य (योज्य) अघोरेण विनिर्द्दहेत् ।
तत्पुरुषेण समुद्धृत्येशानेन विशोधयेत् ॥
इत्थन्तु संस्कृतं भस्म अग्निरित्यादिमन्त्रतः ।
विमृज्याङ्गानि संस्पृश्य पुनरादाय मन्त्रतः ॥
तद्रुद्राये(स्माद्ब्रह्मे)ति यजुषा मन्त्रयेद् रुद्रसङ्ख्यया ।
प्रणवाद्यैश्चतुर्थीहृदन्तैर्नामभिरंशकैः ॥
पञ्चवर्णाक्षराद्यैश्च भालांसोदरहृत्सु च ।
त्रिपुण्ड्रधारणं कुर्यान्मूद्ध्र्न पञ्चाक्षरेण च ॥
त्रिपुण्ड्रं धारयन्मन्त्री साक्षाच्छिव इवापरः ॥ इति ।
मन्त्रस्तु ।
" अग्निरिति भस्म, वायुरिति भस्म, जलमिति भस्म, स्थलमिति भस्म, व्योमेति भस्म सर्वं ह वा इदं
भस्म मन एतानि चक्षूंषि भस्मानि तस्माद्वद् व्रतमेतत् पाशुपतं यद्भस्मनाङ्गानि संस्पृशेत् ।
तस्मात् ब्रह्म तदेतत् पाशुपतं पशुपाशविमोक्षाय " ।
यजुषा पञ्चाक्षरेणेत्यर्थः ।
प्रकारान्तरेण वा—- ललाटे ब्रह्मा(ह्म) विज्ञेयो(यं) हृदये हव्यवाहनः ।
नाभौ स्कन्दो गले पूषा रुद्रो दक्षिणबाहुके ॥
आदित्यो बाहुमध्ये च शशी च मणिबन्धके ।
वामदेवो वामबाहौ बाहुमध्ये प्रभञ्जनः ॥
मणिबन्धे च वसवः पृष्ठदेशे हरः स्मृतः ।
शम्भुः ककुदि सम्प्रोक्तः परमात्मा शिरः स्मृतः ॥ इति ।
वायवीयसंहितायाममन्त्रकमेव त्रिपुण्ड्रधारणमुक्तम् ।
पुनर्न्यस्तकरो मन्त्री त्रिपुण्ड्रं भस्मना लिखेत् ।
इति ।
भस्मग्रहणमपि तत्रैवोक्तम् ।
शिवाग्नेर्भस्म सङ्ग्राह्यमग्निहोत्रोद्भवन्तु वा ।
वैवाह्याग्न्युद्भवं वापि पक्वं शुचि सुगन्धि च ॥
कपिलायाः शकृच्छस्तं गृहीतं गगने पतत् ।
न क्लिन्नं नाति कठिनं न दुर्गन्धि न चोषितम् ॥
उपर्यधः परित्यज्य गृह्णीयात् पतितं यदि ।
पिण्डीकृत्य शिवाग्नौ तु तत् क्षिपेन्मूलमन्त्रतः ॥
अपक्वमतिपक्वञ्च सन्त्यज्य भसितं सितम् ।
आदाय वाससाऽऽलोड्य भस्माधारे विनिक्षिपेत् ॥
भस्मसङ्ग्रहणं कुर्याद् देवेऽनुद्वासिते सति ।
उद्वासने कृते यस्माच्चण्डभस्म प्रजायते ॥ इति ।
ततः स्वशाखोक्तसन्ध्यां कृत्वा मन्त्रसन्ध्यां कुर्यात् ।
तद्यथा ।
प्राणायामत्रयं कृत्वा तीर्थजलं दक्षहस्ते गृहीत्वा मूलमन्त्रेण त्रिः सञ्जप्य तेन मूलेन त्रिराचम्य
पुनस्तीर्थजलं दक्षहस्तेन सव्यहस्ते निधाय मूलेन त्रिधाऽभिमन्त्र्य तद्गलितोदक- बिन्दुभिः सप्तधा
मूलेनात्मानं सम्मार्ज्य अवशिष्टं जलं दक्षहस्ते गृहीत्वा नासिकासमीपं नीत्वा इडया देहान्तराकृष्य क्षालितैः
पापसञ्चयैः कृष्णवर्णं तदुदकं दक्षनाड्या विरेचितं ध्यात्वा पुरःकल्पितवज्रशिलायामन्त्रमन्त्रेण प्रक्षिपेत् ।
इदमघमर्षणम् ।
पुन- रञ्जलिना जलमादाय सूर्यमण्डलस्थाय देवायाऽर्घ्यं कल्पयामीति तत्तद्गायत्र्या मूलेन वा त्रिरर्घ्यं
दत्त्वा सूर्यमण्डलस्थं देवं ध्यायन् मूलमन्त्रेणोपस्थाय तत्तन्मन्त्रगायत्रीं मूल- मन्त्रं
वाऽष्टाविंशतिवारं जपेत् ।
ततो मूलमन्त्रमुच्चार्य देवं तर्पयामीति अष्टाविंशतिवारं तर्पयित्वा सूर्यमण्डले देवतां सञ्चिन्त्य
सूर्यायार्ध्यं दत्त्वा संहारमुद्रया तीर्थं विसृज्य सूर्यादिकं नमस्कृत्य देवतास्तुतिं पठन्
यागमण्डपं गच्छेदिति ।
दतुक्तं मन्त्रतन्त्रप्रकाशे—- कृत्वा सन्ध्यां जपन् स्तोत्रं यायाद्वै यागमन्दिरम् ।
इति ।
तथा—- उक्तेनैव विधानेन कृत्वा स्नानन्तु तान्त्रिकम् ।
वैदिकीं तान्त्रिकीं सन्ध्यां कृत्वा तर्पणमेव च ॥
जपन् स्तोत्राणि नामानि यायाद्देवनिकेतनम् ।
इति ।
मौनीत्यनेनान्यजनसम्भाषानिषेधः ।
संहारमुद्रालक्षणं यथा—-
अधोमुखे वामहस्ते ऊर्द्धास्यं दक्षहस्तकम् ।
क्षिप्त्वाऽङ्गुलीरङ्गुलिभिः संयोज्य परिवर्त्तयेत् ॥
प्रोक्ता संहारमुद्रेयमर्पणे तु प्रशस्यते ।
इति ।
तदुक्तं महाकपिलपञ्चरात्रे—-
उपविश्य शुचौ देशे प्राणायामत्रयं क्रमात् ।
परतत्त्वेन कृत्वा वै देहे कुर्वीत मार्जनम् ॥
नासामाश्लिष्य तोयेन ततस्तेनाऽघमर्षणम् ।
समस्तेन समुद्दिष्टम् अर्घ्यं पापहरं शुभम् ॥
उपस्थानं ततः कुर्यात् पश्चात्तत्त्वेन मन्त्रवित् ।
स्मृत्वा ज्योतिर्मयं विष्णुं मण्डलस्थं महात्मकम् ॥
जपं पश्चात् प्रकुर्वीत मूलमन्त्रेण साधकः ।
गायत्र्या वाऽथ वैष्णव्या प्रणवाद्यन्तकद्वयम् ॥
उपविश्य शुचौ देशे ततस्तर्पणमाचरेत् ।
विष्ण्वाद्या देवतास्तत्र पितृंश्च मनुजानथ ॥
तर्पयेत्तान् प्रयत्नेन ततस्तीर्थं क्षमापयेत् ।
मूलमन्त्रं जपन् गच्छेद् यावत् प्राप्नोति वै गृहम् ॥
प्राप्य हस्तौ च पादौ च प्रक्षाल्याचम्य यत्नतः ॥
यागमण्डपमासाद्य विशेत् कृत्वा प्रदक्षिणम् ॥ इति ।
अन्यत्रापि—- पुनराचम्य विन्यस्य षडङ्गमपि पूर्ववत् ।
वामहस्ते जलं गृह्य गलितोदकबिन्दुभिः ॥
सप्तधा प्रोक्षणं कृत्वा मूद्ध्र्न मन्त्रं समुच्चरन् ।
अवशिष्टोदकं दक्षहस्ते सङ्गृह्य बुद्धिमान् ॥
इडयाऽऽकृष्य देहान्तः क्षालितैः पापसञ्चयैः ।
कृष्णवर्णं तदुदकं दक्षनाड्या विरेचितम् ॥
दक्षहस्तेऽथ तन्मन्त्री पापरूपं विचिन्त्य च ।
पुरतो वज्रपाषाणे प्रक्षिपेदस्त्रमन्त्रतः ॥
दिनेशायोत्क्षिपेत् तिष्ठन् वारिणा चाऽञ्जलित्रयम् ।
अष्टोत्तरशतावृत्त्या गायत्रीं प्रजपेत् सुधीः ॥
रविमण्डलगं देवं प्रणिपत्य क्षमापयेत् ।
संहारमुद्रया तीर्थमुद्वास्याचम्य वाग्यतः ॥
एवं सन्ध्यां समाप्याथ न्यासकर्म समारभेत् ॥ इति ।
शैवागमे तु—- ततः शिवात्मकैर्मन्त्रैः कृत्वा तीर्थं शिवात्मकम् ।
मार्जनं संहितामन्त्रैस्तत्तोयेन समाचरेत् ॥
वामपाणिपतत्तोययोजनं सव्यपाणिना ।
उत्तमाङ्गे क्रमान्मन्त्रैर्मार्जनं समुदाहृतम् ॥
नीत्वा तदुपनासाग्रं दक्षपाणिपुटे स्थितम् ।
बोधरूपं सितं तोयं वामयाकृष्य कुम्भयेत् ॥
तत्पापं कज्जलाभासं पिङ्गया रेच्य वर्त्मना (विष्टिना) ।
क्षिपेद् वज्रशिलायां यत्तद्भवेदघमर्षणम् ॥
स्वाहान्तशिवमन्त्रेण कुशपुष्पाक्षतान्वितम् ।
शिवायाऽर्घ्याञ्जलिं दत्त्वा गायत्रीं शक्तितो जपेत् ॥
समाचम्य विधानेन त्र्यञ्जलेनाऽर्घ्यमुद्धरेत् ।
रक्तपुष्पादितोयेन मूलमन्त्रेण भानवे ॥ इति ।
वायवीयसंहितायामपि—-आचरेद् ब्रह्मयज्ञान्तं कृत्वा देवादितर्पणम् ।
मण्डलस्थं महादेवं ध्यात्वाऽभ्यर्च्य यथाविधि ।
दद्यादर्घ्यं ततस्तस्मै शिवायादित्यरूपिणे ॥ इति ।
शिवसंहितायान्तु—- व्योमव्यापीति यो मन्त्रः पञ्चब्रह्माणि यानि च ।
ये मन्त्राः शिवगायत्र्या रुद्रञ्चेति यथाक्रमम् ॥
सर्वपापापहा प्रोक्ता विद्येयं शिवसंहिता ।
इति ।
आमीमूमाद्यतो व्योमव्यापिने च प्रकीर्त्तयेत् ।
प्रणवाद्यन्तरुद्धोऽयं व्योमव्यापी प्रकीत्तीतः ॥ इति ।
अयं सामान्यविधिः ।
मन्त्रविशेषे आचमनादौ मन्त्रविशेषास्तत्तत्कल्पोक्ता अनुसन्धेयाः ।
इयञ्च सन्ध्या त्रिकालं कार्या ।
यदगस्त्यसंहितायाम्—-
रामात्मानं गुरुं ध्यात्वा रामसन्ध्यामथाचरेत् ।
सायं प्रातश्च मध्याह्ने ।
इति ।
शैवागमेऽपि—-प्रातर्मध्याह्नसायाह्ने सन्ध्यां कुर्याच्च मन्त्रवित् ।
इति ॥ २-५ ॥
आचम्य विधिना तत्र सामान्यार्ध्यं विधायच ।
द्वारमस्त्राम्बुभिः प्रोक्ष्य द्वारपूजां समाचरेत् ॥ ६ ॥
आचम्येति ।
तत्र यागमण्डपबाह्यदेशे ।
महाकपिलपञ्चरात्रे तथोक्तेः ।
विधिनेति स्मृत्युक्तविधिना वैष्णवादिविधिना च ।
यदाहुः—-
प्राङ्मुखो वोदङ्मुखः सूपवीतो बद्ध्वा चूडां जानुमध्यस्थबाहुः ।
तोयं चेक्षन् सूपविष्टोऽथ मौनी स्यादप्रह्वस्त्वेकधीराचमिष्यन् ॥
अदुष्टरसगन्धाद्यैरकीटाफेणवुद्वुदैः ।
अनुष्णैरम्बुभिः शुद्धैराचामेदपि वीक्षितैः ॥
हृत्कण्ठास्यगताः पुनन्ति विबु(वि)धानापो द्विजातीन् क्रमात्
त्रिः पीता वृषल-स्त्रियावपि सकृत् कुण्डानुलोमादिकान् ।
आचम्य त्रिरपस्त्रिवेदपुरुषाः प्रीणन्ति निर्माष्टी यत्
द्विः साथर्व षडङ्गयज्ञपुरुषाः प्रीताः स्युरङ्गुष्ठतः ॥
प्रीणात्यर्कमनामिकानयनयोः स्पर्शात् तथाऽङ्गुष्ठयुक्
साङ्गुष्ठा त्वथ तर्जनी सममिता घ्राणद्वये मारुतम् ।
अङ्गुष्ठेन कनिष्ठिका श्रवणयोराशाश्च नाभेर्वसून्
आत्मानन्तु हृदंसयोगीरमृषीन् मूर्द्धनः समस्ताङ्गुलैः ॥ इति ।
यद्वा वैष्णवाचमनं यथा—-केशवाद्यैस्त्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत् करौ ।
द्वाभ्यामोष्ठौ तु सम्मृज्येत् द्वाभ्यां मृज्यान्मुखन्तथा ॥
एकेन हस्तं प्रक्षाल्य पादावपि तथैकतः ।
सम्प्रोक्ष्यैकेन मूद्र्ध्नः ततः सङ्कर्षणादिभिः ॥
आस्यनासाक्षिकर्णांश्च नाभ्युरः कं भुजौ स्पृशेत् ।
एवमाचमनं कृत्वा साक्षान्नारायणो भवेत् ॥
केशवाद्याः पुरा प्रोक्ता वक्ष्ये सङ्कर्षणादिकान् ।
सङ्कर्षणो वासुदेवः प्रद्युम्नश्चानिरुद्धकः ॥
पुरुषोत्तमाधोक्षजनृसिंहाश्च तथाऽच्युतः ।
जनार्दनोपेन्द्रहरिविष्णवो द्वादशैव ते ॥ इति ।
शाक्तमाचमनं पिङ्गलामते—-आचम्य चात्मतत्त्वाद्यैः प्रणवाद्यैः स्वधान्तिमैः ।
मन्त्रैस्त्रेधा ततो वक्त्रं नासाक्षिश्रोत्रनाभिहृत् ॥
मस्तकांसान् स्पृशेदुक्तं हृदा श्रोत्राभिवन्दनम् ।
आत्मविद्याशिवास्तत्त्वाः प्रणवो वाग्भवं मतम् ॥ इति ।
शैवागमे तु—- संवीक्ष्य त्रिः पिबेदम्बु ब्रह्मतीर्थेन शम्बरैः ।
स्वधान्तैरात्मतत्त्वाद्यैरात्मविद्याशिवात्मकम् ।
क्रमात् तत्त्वत्रयं विद्यात् ह्रां ह्री� ह्रूं शम्बराः क्रमात् ॥ इति ।
सामान्यार्घ्यं विधाय चेति बहिरेव ।
सामान्यार्घ उक्तो मन्त्रमुक्तावल्याम्—-
पात्रमस्त्रेण संशोध्य हृन्मन्त्रेणाभिपूरयेत् ।
तीर्थमावाह्य गन्धादीन् निःक्षिपेत् प्रणवेन तु ।
धेनुमुद्रां दर्शयेच्च सामान्यार्घ उदाहृतः ॥ इति ।
अत्र प्रणवशब्देन यथायथं पञ्चप्रणवानामपि ग्रहणं ज्ञेयम् ।
तत्र प्रकारः ।
साधारं पात्रं द्वाराभिमुखं संस्थाप्य ॐ ह्रः द्वारार्घ्यं साधयामीति कृत्वा ।
पात्रमस्त्रेणेति श्लोकोक्तक्रमोऽनुसन्धेयः ।
द्वारमिति ।
अस्त्रमन्त्रमुच्चार्य सामान्यार्घ्यजलेन द्वारं प्रोक्षयेत् ।
सामान्यास्त्रा(र्घ्या)द्यग्रे वक्ष्यति ।
अत्र सर्वत्राग्रेऽपि अस्त्रादिप्रस्तुतदेय- मन्त्रास्त्रान्ते अस्त्राय फट् इति सामान्यास्त्रं योजयेत् ।
एवं सर्वाङ्गमन्त्रेषु ।
केचनास्त्रादिषु फट्काराद्याः केवलजातीरेवाहुः ॥ ६ ॥
ऊर्द्धेडुम्बरके विघ्नं महालक्ष्मीं सरस्वतीम् ।
ततो दक्षिणशाखायां विघ्नं क्षेत्रेशमन्यतः ॥ ७ ॥
तयोः पार्श्वगते गङ्गायमुने पुष्पवारिभिः ।
देहल्यामर्चयेदस्त्रं प्रतिद्वारमिति क्रमात् ॥ ८ ॥
द्वारपूजामेवाह ऊद्र्ध्वेति ।
द्वारशाखोपरितनतिर्यक्काष्ठमूर्द्धेडुम्बरकं देहल्या- मुडुम्बरशाखाभिधेया प्रवर्त्तते ।
साऽप्यूर्द्धस्थदेहली चेति साम्यात्तत्र लक्षणयोडुम्बर- शब्दप्रयोगः ।
तत्र मध्ये महालक्ष्मीमिति द्वारश्रियम् ।
पुष्पवारिभिः अर्घ्यजलपुष्पैः प्रपूजयेदिति सम्बन्धः ।
तदुक्तं—- " ऊर्द्धं द्वारश्रियं चेष्ट्वा " इति ।
अन्यत्रापि—- " द्वारोपरि नमो द्वारश्रियै तद्दक्षवामयोः ।
विघ्नं सरस्वतीञ्च " इति ।
तत ऊर्द्धस्थकोणद्वये दक्षिणादि विघ्नं सरस्वतीं च पूजयेत् ।
दक्षिणशाखाया- मिति दक्षिणशाखाधः ।
अत्र केचन दुर्गापूजामाहुः ।
अन्यत इति वामशाखाधः ।
क्षेत्रेशमिति सम्बन्धः ।
तदुक्तं—-
कोणेषु विघ्नं दुर्गाञ्च वाणीं क्षेत्रेशमर्चयेत् ।
इति ।
तयोरिति विघ्नक्षेत्रेशयोः ।
पार्श्वगते गङ्गायमुने इत्यनेन पूर्ववत् द्वारादिपूजा सूचिता ।
सैव क्रमादित्यनेनाग्रे उक्ता ।
वारि सामान्यार्घ्यजलम् ।
तारसबिन्दुस्वना- माद्यक्षरादि ङेऽन्त-स्वनामनमोऽन्विता एतेषां मन्त्राः ।
ॐ द्वां द्वारश्रियै नमः इत्यादिप्रयोगः ।
तदुक्तं डामरे—- ओङ्कारबिन्दुमध्यस्थं नामधेयाद्यमक्षरम् ।
देवतानां स्वबीजं तत् पूजायामृद्धिसिद्धिदम् ॥ इति ।
ग्रन्थकृदपि वक्ष्यति " स्वनामाद्यक्षरादिकाः " इति ।
एतच्च यत्र बीजं नोक्तं तद्विषयं ज्ञेयम् ।
देहल्यामिति ॐ ह्नः अस्त्राय फट् नमः इत्यस्त्रपूजा ।
पुष्पवारिभिरित्येव ।
तदुक्तं—- हकाररेफौ च विसर्गवन्तावस्त्राय फट्कारवचस्तदन्ते ।
उक्त्वान्तरे सर्षपमक्षतान् वा पुष्पाणि मुञ्चेदथ चात्र विद्वान् ॥ इति ।
अन्ये तु वास्तुपुरुषपूजामत्रेच्छन्ति ।
तदुक्तं—-
पूज्यो वास्तुपुमांस्तत्र तत्र द्वाः पीठमध्यतः ।
इति ।
एषां ध्यानं तत्तत्प्रकरणे ज्ञेयम् ।
अतएवात्र महालक्ष्मीपदप्रयोगः ।
प्रतिद्वारमित्यनेनैतदुक्तम्भवति ।
यदाहुः—-
द्वारस्य शोभनस्याथ शाखयोर्दक्षवामयोः ।
धात्रे विधात्रे गङ्गायै यमुनायै च पूर्वतः ॥
ॐ भद्राय सुभद्राय गोदां कृष्णाञ्च दक्षिणे ।
चण्डाय च प्रचण्डाय रेवां तापीञ्च पश्चिमे ॥
ॐ शङ्खपद्मनिधये वाणीं वेणीं तथोत्तरे ॥ इति ।
सोमशम्भुरपि—- स्वनामभिश्चतुर्थ्यन्तैः स्रवन्तीनां द्वयं द्वयम् ।
इति ।
अन्यत्र तु—- भद्रं सुभद्रं गङ्गाञ्च यमुनां द्वारशाखयोः ।
चतुर्थ्यन्तं नमोऽन्तञ्च प्राग्द्वारे सम्प्रपूजयेत् ॥
बलप्रबलचिच्छक्तिमायाशक्तिस्तथैव च ।
चतुर्थ्यन्तं नमोऽन्तञ्च दक्षिणद्वारि पूजयेत् ॥
चण्डं प्रचण्डं गौरीञ्च श्रियञ्च द्वारशाखयोः ।
चतुर्थ्यन्तं नमोऽन्तञ्च पश्चिमे सम्प्रपूजयेत् ॥
जयञ्च विजयञ्चैव शङ्खपद्मनिधी तथा ।
चतुर्थ्यन्तं नमोऽन्तञ्च उत्तरे सम्प्रपूजयेत् ॥ इति ।
केचन वक्ष्यमाणद्वारपालपूजामपि नित्यमाहुः ।
एतत्सर्वं नित्यपूजायामपि समानं ज्ञेयम् ।
यदाहुः—-विधेयमेतत् सर्वत्र स्थापितेषु विशेषतः ।
इति ।
दीक्षायान्तु विशेषस्तन्त्रान्तरोक्तः ।
वैष्णवादिप्रभेदेन द्वारपालान् समर्चयेत् ।
प्रतिद्वारं पार्श्वयोस्तु द्वौ द्वावष्टाविति क्रमात् ॥
नन्दः सुनन्दश्चण्डाख्यः प्रचण्डो बलनामकः ।
प्रबलो भद्रनामा च सुभद्रो वैष्णवा मताः ॥
अथ नन्दिमहाकालौ गणेशवृषभौ पुनः ।
ततो भृङ्गिरिटिः स्कन्दः पार्वतीशश्च सप्तमः ॥
चण्डेश्वरोऽष्टमः शैवा द्वारपालाः क्रमादमी ।
वक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ ॥
लम्बोदराख्यविकटौ विघ्नराजश्च सप्तमः ।
धूम्रराजोऽष्टमो ज्ञेयो गाणपत्या इति क्रमात् ॥
ब्राह्म्याद्या मातरः प्रोक्ताः शाक्तेया द्वारपालकाः ॥ इति ।
अन्ये तु गोपालरामचन्द्रद्वारपालानन्यानाहुः—-
चण्डप्रचण्डौ प्राग् धातृविधातारौ च दक्षिणे ।
जयश्च विजयः पश्चाद् बलः प्रबल उत्तरे ।
इति ॥ ७-८ ॥
अनन्तरं देशिकेन्द्रो दिव्यदृष्ट्यवलोकनात् ।
दिव्यानुत्सारयेद् विघ्नानस्त्राद्भिश्चान्तरीक्षगान् ॥ ९ ॥
अयञ्चानन्तरमित्यनेन सूचितः ।
देशिकेन्द्र इत्यनेन सदाशिवमात्मानं विचिन्त्येत्युक्तम् ।
सदाशिवरूपस्वदृष्ट्यवलोकनमेव दिव्यदृष्ट्यवलोकनम् ।
अद्भिरिति सामान्यार्घ्य जलैः ॥ ९ ॥
पाष्णीघातैस्त्रिभिर्भौमानिति विघ्नान्निवारयेत् ॥ १० ॥
पाष्णीघातैरिति ।
तत्रायं मन्त्रः—-
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्त्तारस्ते नश्यन्तु शिवाज्ञया ॥
अपक्रमन्तु भूतानि पिशाचाः सर्वतो दिशम् ।
सर्वेषामविरोधेन ब्रह्मकर्म समारभे ॥ इति ।
वशिष्ठसंहितायामपसर्पन्त्वित्यादि पठित्वोक्तम्—-
पाष्णीघातत्रयं कृत्वा मन्त्रेणानेन मन्त्रवित् ।
भूतसङ्घान् समुत्सार्यं संविशेदासने बुधः ॥ इति ।
सोमशम्भौ तु—- दक्ष पार्ष्णेस्त्रिभिर्घातैर्भूमिष्ठांस्त्रिविधानपि ।
इति ।
इत्येवं प्रकारेण विघ्नान् त्रिविधानपीति ॥ १० ॥
किञ्चित् स्पृशन् वामशाखां देहलीं लङ्घयेद् गुरुः ।
अङ्गं सङ्कोचयन्नन्तः प्रविशेद्दक्षिणाङ्घ्रणा ॥ ११ ॥
अङ्गमिति वामाङ्गम् ।
सङ्कोचयन्निति निःसरद्विघ्नावकाशदानाय ।
तदुक्तं—- उत्सारितानां विघ्नानां ददद्वर्त्म तु वामतः ।
इति ।
अन्यत्रापि—- निर्गच्छतां विघ्नकृतामथैषां वामाङ्गसङ्कोचनचेष्टितेन ।
प्रदाय मार्गम् ।
इति ।
तथान्यत्रापि—- वामतः निःसार्य विघ्नसङ्घञ्च ।
इति ।
अन्तः स्पृशन्नित्यादित्रयं दृष्टार्थं देहल्यामपि देवस्य पूजितत्वात् ॥ ११ ॥
नैरृत्यां दिशि वास्त्वीशान् ब्रह्माणञ्च समर्चयेत् ।
पञ्चगव्यार्घ्यतोयाभ्यां प्रोक्षयेद् यागमण्डपम् ॥ १२ ॥
वास्त्वीशमिति तत्तत्क्षेत्रस्य क्षेत्रपालम् ।
ते च मया क्षेत्रपालमन्त्रे वक्ष्यन्ते ।
दिव्यदृष्टीत्यादिब्रह्मार्चनान्तं नित्यपूजायामपि समानम् ।
पञ्चगव्येति ।
पञ्चगव्यप्रकार- मेकविंशे वक्ष्यति ।
अर्घ्यतोयं सामान्यार्घ्यजलम् ।
प्रोक्षयेदिति देयमन्त्रेण ।
तदुक्तम् नारायणीये—-गव्येन प्रोक्षयेद्दीक्षास्थानं मन्त्रेण शोधितम् ।
इति ॥ १२ ॥
चतुष्पथान्तं तच्छुद्धिं विदध्याद् वीक्षणादिना ।
वीक्षणं मूलमन्त्रेण शरेण प्रोक्षणं मतम् ॥ १३ ॥
तेनैव ताडनं दर्भैर्वर्मणाऽभ्युक्षणं मतम् ।
चन्दनागुरुकर्पूरैर्धूपयेदन्तरं सुधीः ॥ १४ ॥
विकिरान् विकिरेत् तत्र सप्तजप्तांश्छराणुना ।
लाजाचन्दनसिद्धार्थभस्मदूर्वाङ्कुशाक्षताः ॥ १५ ॥
विकिरा इति सन्दिष्टाः सर्वविघ्नौघनाशनाः ।
अस्त्रजप्तेन दर्भाणां मुष्टिना मार्जयेच्च तान् ॥ १६ ॥
चतुष्पथान्तमिति पूर्वेण सम्बध्यते ।
तत्र मण्डपाद्बहिः आतोरणस्तम्भहस्तमात्रा व्यवहारभूश्चतुष्पथशब्दवाच्या ।
वीक्षणादिभिश्चतुभीस्तच्छुद्धिं मण्डपशुद्विं कुर्यात् ।
अत्रापि चतुष्पथान्तमित्यन्वेति ।
वीक्षणादीनेवाह वीक्षणमिति ।
मूलमन्त्रेणेति देय- मन्त्रेण ।
शरेणेत्यस्त्रमन्त्रेण ।
वर्मणेति कवचमन्त्रेण ।
प्रोक्षणाभ्युक्षणस्वरूपमग्रे वक्तव्यम् ।
ते च सामान्यार्घ्यजलेनैव ।
अन्तरमिति मण्डपमध्यम् ।
सुधीरित्यग्रिमेण सम्बध्यते ।
अनेन च सोमशम्भूक्तो विशेषः सूचितः ।
तत्रेति मण्डपमध्ये ।
शराणुनेत्यस्त्रमन्त्रेण ।
अणुशब्दो मन्त्रपर्याय आगमशास्त्रे।
सिद्धार्था गौरसर्षपाः ।
भस्म गोमयभस्म ।
सर्वविघ्नौघनाशना इति ध्यानम् ।
अस्त्रजप्तेनेति सप्तेत्यनुषज्यते ।
मार्जयेच्चेति चकारेण विकिरानित्यनुषज्यते ।
तानित्युत्तरेण सम्बध्यते ।
सोमशम्भौ तु विशेषः—-
विकिरान् शुद्धलाजान् वा सप्तशस्त्राभिमन्त्रितान् ।
अस्त्राम्बुप्रोक्षितानेतान् कवचेनावगुण्ठितान् ॥
नाना प्रहरणाकारान् विघ्नौघविनिवारकान् ।
दर्भाणां तालमानेन कृतान् षट्त्रिंशता दलैः ।
सप्तजप्तान् शिवास्त्रेण मुष्टिं तेन तु मार्जयेत् (बोधासिमुत्तमम्) ॥
इति ।
विकिरणमार्जने देयमन्त्रेण ॥ १३-१६ ॥
ईशस्य दिशि वर्द्धन्या आसनाय प्रकल्पयेत् ।
पुण्याहं वाचयित्वा तु ब्राह्मणान् परितोष्य च ॥ १७ ॥
उक्तेषु मण्डलेष्वेकं वेदिकायां समालिखेत् ।
विशेन्मृद्वासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः ॥ १८ ॥
ईशस्येति ।
सनालं पात्रं वर्द्धनी तस्या आसनाय ।
ईशस्य दिशीति एशान्याम् ।
तान् विकिरान् प्रकल्पयेत् स्थापयेदिति सम्बन्धः ।
पुण्याहमिति ।
पुण्याहवाचनं तृतीयपटलोक्तम् ॥ १७ ॥
एकमिति मण्डलम् ।
एतावद्दीक्षायामेव ।
विशेदित्युपविशेत् ।
मृद्वासन इति अनुद्वेगाय इति दृष्टार्थम् ।
उद्वेगे सति तत्रैव मनोयाति न तु जपपूजादौ ।
मन्त्रीत्यनेनैतदुक्तम् ।
अनन्तासनाय नमः ।
विमलासनाय नमः ।
पद्मासनाय नमः इति जप्तान् कुशानासने दत्त्वा आसनं सम्पूज्य ।
आसनमन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मे देवता आसनोपवेशने विनियोगः ।
ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वञ्च धारय मां नित्यं (देवि) पवित्रं कुरु चासनम् ॥
इति आसनमन्त्रेणोपविशेदिति ।
तदुक्तम्—-
तदासनस्यषी मुशन्ति कूर्मं छन्दस्तथा स्यात् सुतलं सुधीशः ।
प्रोक्ता तु पृथ्वी किल देवताऽस्य जपादिकर्मण्युपयोग उक्तः ॥ इति ।
तत्रासनानि तन्त्रान्तरोक्तानि—-
कौशेयं वाऽथ चैलं वा चार्मं तौलमथापि वा ।
वेत्रजं तालपत्रं वा काम्बलं दार्भमासनम् ॥
वंशाश्म-दारु-धरणी-तृण-पल्लवनिमीतम् ।
वर्जयेदासनं मन्त्री दारिद्र्य-व्याधि-दुःखदम् ॥
धर्मार्थकाममोक्षाप्तिश्चैलाजिनकुशोत्तरे ॥ इति ।
दार्वासनेऽन्यत्र विशेष उक्तः—-
यतीनामासनं श्लक्ष्णं कूर्माकारन्तु कारयेत् ।
अन्येषान्तु चतुष्पादं चतुरस्रन्तु कारयेत् ॥
गोशकृण्मृण्मयं भिन्नं तथा पालाशपिप्पलम् ।
लोहविद्धं सदैवार्कं वर्जयेदासनं बुधः ॥
दानमाचमनं होमं भोजनं देवतार्चनम् ।
प्रौढपादो न कुर्वीत स्वाध्यायञ्चैव तर्पणम् ॥
आसनारुढपादस्तु जानुनोर्वाऽथ जङ्घयोः ।
कृतावसक्थिको यस्तु प्रौढपादः स उच्यते ॥ इति ॥ १८ ॥
बद्ध पद्मासनो मौनी समाहितजितेन्द्रियः ।
स्थापयेद्दक्षिणे भागे पूजाद्रव्याणि देशिकः ॥ १९ ॥
बद्धपद्मासन इति ।
पद्मासनमन्त्ये वक्ष्यति ।
" अङ्गुष्ठौ च निबघ्नीयाद्ध- स्ताभ्याम् " इत्ययं भागो योग एवोपयुक्तः सोऽत्र नास्ति ।
तन्त्रान्तरे पद्मासनलक्षणस्य तथैवोक्तत्वात्—- सव्यं पादमुपादाय दक्षिणोपरि विन्यसेत् ।
तथैव दक्षिणं सव्यस्योपरिष्टान्निधापयेत् ॥
विष्टभ्य कट्योः पार्ष्णी तु नासाग्रन्यस्तलोचनः ।
पद्मासनं भवेदेतत् सर्वेषामपि पूजितम् ॥
पद्मासन इत्युपलक्षणम् ।
यदाहुः—-
पद्म-स्वस्तिक-वीरादिष्वेकासनसमास्थितः ।
जपार्चनादिकं कुर्यादन्यथा निष्फलं भवेत् ॥ इति ।
मौनमित्यनेन रागप्राप्तसम्भाषणनिषेधः ।
तदुक्तम्—-
सभ्यैरपि न भाषेत जपहोमार्चनादिषु ।
इति ।
समाहितः सावधानश्चासौ जितेन्द्रियश्चेति विशेषणसमासः ।
पूजाद्रव्याणि पुष्पादीनि ।
देशिक इत्युत्तरेण सम्बध्यते ।
अनेनार्घ्यपाद्याचमनमधुपर्काचमनपात्राण्यपि सव्ये स्थापयेदित्युक्तम् ॥ १९ ॥
सुवासिताम्बुसम्पूर्णं सव्ये कुम्भं सुशोभनम् ।
प्रक्षालनाय करयोः पश्चात् पात्रं निवेशयेत् ॥ २० ॥
घृतप्रज्ज्वालितान् दीपान् स्थापयेत् परितः शुभान् ।
दर्पणं चामरं छत्रं तालवृन्तं मनोहर ॥ २१ ॥
मङ्गलाङ्कुर पात्राणि स्थापयेद्दक्षु देशिकः।
कृताञ्जलिपुटो भूत्वा वामदक्षिणपार्श्वयोः ॥ २२ ॥
नत्वा गुरून् गणेशानं भूतशुद्धिं समाचरेत् ।
करशुद्धिं समासाद्य पश्चात्तालत्रयं ततः ॥ २३ ॥
उर्द्धेर्द्धमस्त्रमन्त्रेण दिग्बन्धमपि देशिकः ।
तेन सञ्जनितं तेजो रक्षां कुर्यात् समन्ततः ॥ २४ ॥
सुवासितमिति कर्पूरादिना ॥ २० ॥
मनोहरमिति दर्पणादीनां चतुर्णामपि विशेषणम् ।
दर्पणं स्थापयेदित्यादि- रन्वयः ।
विशेदित्यादि ।
एतदन्तं नित्यपूजायामपि समानम् ॥ २१ ॥
मङ्गलेति ।
मङ्गलानि मङ्गलरूपाणि यानि अङ्कुरपात्राणि उक्तरीत्या उप्त- बीजानि तानि दिक्षु स्थापयेत् ।
देशिक इत्यनेनैतदुक्तं भवति ।
उक्तक्रमेण पूर्वादिदिशि एवं त्रिरावृत्त्येति ।
तेषामिदमेव प्रतिपत्तिकर्म इदं दीक्षायामेव ।
कृताञ्जलिपुटो भूत्वा वामदक्षिणपार्श्वयोः ।
गुरुं गणेशानं नत्वेति सम्बन्धः ।
तत्र प्रयोगः ।
ॐ गुं गुरुभ्यो नमः ।
ॐ गं गणपतये नमः ।
तदुक्तमाचार्यैः—-गुर्वाद्यास्तारादिका याग(येऽङ्ग) मन्त्रा लोकेशान्तास्ते चतुर्थी- नमोऽन्ताः ।
पूजायां स्युर्वह्निकार्ये द्विठान्ताः ।
इति ।
अत्र वह्निकार्ये द्विठान्ता इत्युक्तेः वक्ष्यमाणाग्निजिह्वादीनामपि सङ्ग्रहः ।
तदनन्तरं लोकेशमन्त्रैर्हेमविधानात् ॥ २२ ॥
गुरूनिति बहूक्त्या गुरुपरमगुरुपरापरगुरुपरमेष्टिगुरवो गृह्यन्ते ।
यदाहुः—-
तत आदित आरभ्य नमेद् गुरुपरम्पराम् ।
इति ।
तत इमाम् ऋचं पठेत्—-
" ओन्नमो महद्भ्यो नमोऽर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः ।
यजाम देवान् यदि शक्नुवाम मा ज्यायसः शं समावृक्षि(चक्ष्व) देवाः ।
" इति।
करशुद्धिमिति ।
अत्र करशुद्ध्यादिषु त्रिषु अस्त्रमन्त्रेणेति सम्बद्ध्यते ।
तत्र करशुद्धिर्नामाऽङ्गुष्ठादिष्वङ्गुलिषु उभयकरान्तः उभयकरबाह्ययोरुभयकरपार्श्वद्वये
अस्त्रमन्त्रस्य व्यापकत्वेन न्यासः ।
तदुक्तम्—-
व्याप्यव्यापकयोर्हस्तयोर्मन्त्रमन्तर्बाह्ये पार्श्वे ।
इति ॥ २३ ॥
दिग्बन्धमिति ।
नाराचमुष्ट्युद्धृततर्ज्जन्या दशदिशि अस्त्रमन्त्रन्यासः ।
तदुक्तं प्रयोगसारे—-आच्छाद्य दिक्षु तर्ज्जन्या ज्येष्ठाग्रस्खलिताग्रया ।
इति ।
अन्यत्रापि—- अङ्गुष्ठमग्रं यदि मध्यमाग्रं स्पृशेत् स्युरन्याङ्गुलयस्त्वलग्नाः ।
तदा भवेत् भूतनिषूदनस्य नाराचनाम्नोऽस्त्रवरस्य मुद्रा ॥ इति ।
अन्यत्र विशेषः—- प्रणवहृदोरवसाने सचतुथी सुदर्शनं तथाऽस्त्रपदम् ।
उक्त्वा फडन्तमनुना कल्पयेच्च दशहरितः ॥ इति ।
देशिक इत्यनेन सुदर्शनमन्त्रेण वक्ष्यमाणाग्निप्राकारमन्त्रेणापि अग्निप्राकारं कुर्यादिति सूचितम् ।
अग्निप्राकारमुद्रोक्ता प्रयोगसारे—-
त्रिशूलाग्रौ करौ कृत्वा व्यत्यस्तावभितो नयेत् ।
अस्त्रमुद्रेयमाख्याता वह्निप्राकारलक्षणा ।
परद्रोहोपशमनी नागाशनिभयापहा ॥ इति ।
तदुक्तं—-ततोऽस्त्रमन्त्रेण विशोध्य पाणित्रितालदिग्बन्धहुताशशालाम् ।
इति ।
एषां फलमाह तेनेति ॥ २४ ॥
सुषुम्णावर्त्मनात्मानं परमात्मनि योजयेत् ।
योगयुक्तेन विधिना चिन्मन्त्रेण समाहितः ॥ २५ ॥
कारणे सर्वभूतानां तत्त्वान्यपि च चिन्तयेत् ।
बीजभावेन लीनानि व्युत्क्रमात् परमात्मनि ॥ २६ ॥
सुषुम्णेति ।
समाहितः सुषुम्णावर्त्मना कुण्डलिन्या आत्मानं योगयुक्तेन विधिना चिन्मन्त्रेण परमात्मनि योजयेदिति सम्बन्धः ।
तत्रात्मानं जीवात्मानं हृदयकमलस्थित- मित्यर्थः ।
यदाहुः—- हृदम्बुजे ब्रह्मकन्दसम्भूते ज्ञाननालके ।
आराग्रमात्रो जीवस्तु चिन्तनीयो मनीषिभिः ॥ इति ।
योगयुक्तेन विधिना इत्यस्यायमर्थः ।
गुरूपदिष्टमार्गेण हू�कारेण कुण्डलिनी- मुत्थाप्य तां हृदयकमलगतां विभाव्य ततो जीवं मुखे गृहीत्वा
सहस्रारगतां विभावयेत् ।
अत एव समाहित इत्युक्तिः ।
चिन्मन्त्रेण वक्ष्यमाणात्ममन्त्रेण ।
यदाहुः—- नेतव्यो हंसमन्त्रेण द्वादशान्ते सितः परः ।
इति ।
अन्यत्रापि—- जीवं स्वाब्जे स्वनाड्या स्वनिलयत उदनीय तं हंसेन ।
इति ।
अन्यत्रापि—-संयोज्य जीवमथ दुर्गममध्यनाडीमार्गेण पुष्करनिविष्टशिवे सूसूक्ष्मे ।
हंसेन ।
इति ।
परमात्मनि सहस्रारकणीकागते इत्यर्थः ॥ २५ ॥
कारण इति ।
सर्वभूतानां कारणे परमात्मनि बीजभावेन व्युत्क्रमात् लीनानि तत्त्वानि पृथिव्यादीनि चिन्तयेदित्यन्वयः ।
तत्र सृष्ट्यपेक्षया व्युत्क्रमः ।
सर्वत्र कार्यस्य कारणे लयो दृष्टः ।
अत एव प्रथमपटले सृष्ट्युक्तिः ।
विना सृष्टिं कार्यकारणाज्ञानात्।
अतएव सर्वभूतानां कारण इति विशेषणोक्तिः ।
अपिशब्दाद्वर्णानपि ।
यदुक्तम्—-सङ्कल्प्यैवं ततो न्यासस्थानाद् वर्णांश्च संहरेत् ।
तत्क्रमश्च तन्त्रे—-
प्रतिलोमेन क्षलयो लकारेऽस्य हकारके ।
हकारस्य सकारेऽथ सकारस्य षकारके ॥
क्रमेणाऽकारपर्यन्तं लयमुत्पाद्य यत्नतः ।
अकारं ब्रह्मरन्ध्रे च सहस्रारे नियोजयेत् ॥ इति ।
चकारः पूर्वसमुच्चये ॥ २६ ॥
ततः संशोषयेद् देहं वायुबीजेन वायुना ।
वह्निबीजेन तेनैव संहरेत् सकलां तनुम् ॥ २७ ॥
विश्लेषयेत् तदा दोषानमृतेनामृताम्भसा ।
आप्लाव्याप्लावयेद् देहमापादतलमस्तकम् ॥ २८ ॥
तत इति ।
वायुबीजेन यकारेण ।
वायुना तदुत्थेनेत्यर्थः ।
अनेन पूरक उक्तः।
वह्निबीजेन रेफेण ।
तेनैवेत्यग्निबीजोत्थाग्निना सकलां स्वकलुषरूपपापपुरुषसहितां तनुं निर्दहेत् ।
पापपुरुषध्यानं यथा—-
ब्रह्महत्याशिरस्कञ्च स्वर्णस्तेयभुजद्वयम् ।
सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ॥
तत्संयोगिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ।
उपपातकरोमाणं रक्तश्मश्रुविलोचनम् ॥
खड्गचर्मधरं पापमङ्गुष्ठपरिमाणकम् ।
अधोमुखं कृष्णवर्णं दक्षकुक्षौ विचिन्तयेत् ॥ इति ।
अनेन कुम्भक उक्तः ॥ २७ ॥
तदा दाहे जाते दोषान् दोषस्वरूपपापपुरुषभस्म विश्लेषयेदित्यनेन रेचक उक्तः ।
तत्र भस्मविश्लेषोऽपि वायुबीजेनेति ज्ञेयम् ।
यदाहुराचार्याः—-पूर्वविधिना मुञ्चेत् ।
इति ।
नागभट्टोऽपि—- सास्यादिनाथमरुताऽपनयन्नशेषं तद्भस्मराशिम् ।
इति ।
गणेश्वरविमशीन्यामपि—-तद्भस्मकूटमखिलं वायुबीजोत्थवायुना ।
विकीर्य ।
इति ।
अन्यत्रापि—- तदुद्यद्वसुवपुरनलप्लुष्टदेहोऽनिलेन तद्भस्मोत्क्षिप्य ।
इति ।
अत्र स्थानत्रये षोडशचतुःषष्टिद्वात्रिंशत्सङ्ख्याक्रमेणेति केचित् ।
अन्ये द्वादश पञ्चाशत् पञ्चविंशतिसङ्ख्येत्यूचुः ।
तदुक्तं संहितायाम्—-
मरुदग्निसुधाबीजैः पञ्चाशन्मात्रमात्रकम् ।
इति ।
आचार्याश्च—- अथवा शोषणदहनप्लावनभेदेन शोधिते देहे ।
पञ्चाशद्भिर्मात्राभेदैवीधिवत् समानये(यमे)त् प्राणान् ॥
पञ्चाशदात्मकोऽपि च कलाप्रभेदेन तार उद्दिष्टः ।
तावन्मात्रायमनात् कलाश्च विधृता भवन्ति तत्त्वविदा ॥ इति ।
केचित्तु स्थानत्रयेऽपि प्रत्येकं त्रिविधं प्राणायाममपीच्छन्ति ।
अमृतेनामृतबीजेन वम् इत्यनेन ।
अमृताम्भसा तदुत्थेनामृतेन आपादतलमस्तकं देहमाप्लाव्याप्लावयेदिति सम्बन्धः ॥ २८ ॥
आत्मलीनानि तत्त्वानि स्वस्थानं प्रापयेत्तदा ।
आत्मानं हृदयाम्भोजमानयेत् परमात्मनः ॥ २९ ॥
स्वस्थानमिति सृष्टिक्रमेण प्रथमपटलोक्तरीत्या ।
तदेत्यनेन अकारादिक्षान्तान् वर्णान् अपि सृष्टिक्रमेण स्वस्थानं प्रापयेदित्युक्तम् ।
तदुक्तं—-
अमुतः सकलार्णमयीं लपरजपान्निपात्य रचयेच्च तया ।
सकलं वपुरमृतौघवृष्टिमिति ।
इत्यारचय्य वपुरर्णशतार्द्धकेनेति ।
परमात्मनः सकाशात् हंसदेवस्य मनुना आत्मानं हृदयाम्भोजमानयेदिति सम्बन्धः ।
हंसस्य जीवस्य देवः परमात्मा उपास्यत्वात् ।
तेन मन्त्रेण सोऽहम् इत्यनेन।
यद्वा परमात्मनः मनुना इति सम्बध्यते इति पूर्वं परमात्मनि योजयेदित्युक्तम् ।
तत इत्यर्थाल्लभ्यते ।
हंसदेवस्य इत्यग्रिमेण सह सम्बध्यते ।
तदुक्तं वशिष्ठसंहितायाम्—-
सोहं मन्त्रेण तामाद्यां(मण्वी) नादान्ते सिद्धभाविताम् ।
ध्वात्वैवं ब्रह्मरन्ध्राच्च हृदि जीवकलां न्यसेत् ॥ इति ।
गणेश्वरविमशीन्यामपि—-सोऽहन्धियाऽऽत्मचैतन्यं समानीय चिदम्बरात् ।
इति ।
तत्र गुरूपदेशतः प्रकारो लिख्यते—-श्रीदेवपूजाद्यधिकारसिद्धये भूत- शुद्ध्यादिकं करिष्ये इति
सङ्कल्प्य मूलाधारादुत्थितां विद्युत्सहस्रप्रभाभासुरां बिस- तन्तुरूपां सुषुम्णामार्गेण हृदयकमलमागतां
कुण्डलिनीं विभाव्य हृदयकमलाज्जीवं प्रदीपकलिकाकारं गृहीत्वा द्वादशान्ताम्बुजात् सहस्रदलं गतां विभाव्य
तत्र जीवात्मानं हंसमन्त्रेण परमात्मनि योजयेत् ।
ततः पादादिजानुपर्यन्तं चतुरस्रं पीतं पृथिवीमण्डलं तत्र
पादगमनक्रियागन्तव्यगन्धघ्राणपृथिवीब्रह्मनिवृत्तिसमानवायून्
संस्मृत्य ॐ ह्रां ब्रह्मणे पृथिव्यधिपतये निवृत्तिकलात्मने हुं फट् स्वाहा इत्यमुं
मन्त्रमुच्चार्य तान् सर्वान् कुण्डलिनीद्वारा अप्सु प्रविलापयामीत्यपां स्थाने संहरेत् ।
जान्वादिनाभिपर्यन्तं शुक्लमर्द्धचन्द्राकारं जलमण्डलं तत्र
हस्तादानादातव्यरसरसनाजलविष्णुप्रतिष्ठोदानान् स्मृत्वा ॐ ह्री� विष्णवे जलाधिपतये प्रतिष्ठाकलात्मने हं
फट् स्वाहा इत्यमुं मन्त्रमुच्चार्य तान् सर्वान् कुण्डलिनीद्वारा अग्नौ प्रविलापयामीत्यग्निस्थाने संहरेत् ।
नाभ्यादिहृदयपर्यन्तं त्रिकोणं वह्निमण्डलं रक्तवर्णं तत्र पायुविसर्गविसर्जनीयरूप-
चक्षुस्तेजोरुद्रविद्याव्यानान् संस्मृत्य ॐ ह्रूं रुद्राय तेजोऽधिपतये विद्याकलात्मने हुं फट् स्वाहा इत्यमुं
मन्त्रमुच्चार्य तान् सर्वान् कुण्डलिनीद्वारा वायौ प्रविलापयामीति वायुस्थाने संहरेत् ।
ततो हृदयादिभ्रूपर्यन्तं कृष्णं वर्त्तुलं षड्बिन्दुलाञ्छितं वायुमण्डलं
तत्रोपस्थानन्दतद्विषयस्पर्शस्पृष्टव्यवाय्वीश्वरशान्त्यपानान् संस्मृत्य ॐ ह्नैम् ईशानाय
वाय्वधिपतये शान्तिकलात्मने हुं फट् स्वाहा इत्यमुं मन्त्रमुच्चार्य तान् सर्वान्
कुण्डलिनीद्वारा आकाशे प्रविलापयामीत्याकाशस्थाने संहरेत् ।
ततो भ्रूमध्याद् ब्रह्मरन्ध्रपर्यन्तं स्वच्छं वर्त्तुलम् आकाशमण्डलं तत्र
वाग्वदनवक्तव्यशब्दश्रोत्राकाश सदाशिवशान्त्यतीताप्राणान् संस्मृत्य ॐ ह्नौं
सदाशिवाकाशाधिपतये शान्त्यतीता- कलात्मने हुं फट् स्वाहा इत्यमुं मन्त्रमुच्चार्य
तान् सर्वान् अहङ्कारे प्रविलाप- यामीत्यहङ्कारे प्रविलाप्य तमहङ्कारं महत्तत्त्वे
प्रविलाप्य महत्तत्त्वं मातृकासञ्ज्ञक- शब्दब्रह्मस्वरूपायां
हृल्लेखार्थभूतायां प्रकृतौ प्रविलापयामीति प्रविलाप्य तां तथाविधां
नित्यबुद्धशुद्धस्वभावे स्वप्रकाशे सत्यज्ञानानन्तानन्दलक्षणे
परमकारणे परब्रह्मणि प्रविलापयामीति प्रविलापयेत् ।
तुदक्तं मन्त्रतन्त्रप्रकाशे—-
गन्धादि घ्राणसंयुक्तां पृथिवीमप्सु संहरेत् ।
रसादि जिह्वया सार्द्धं जलमग्नौ विलापयेत् ॥
रूपादि चक्षुषा सार्द्धमग्निं वायौ विलापयेत् ।
समीरमम्बरे विद्वान् स्पर्शादि त्वक्समन्वितम् ॥
अहङ्कारे हरेद् व्योम सशब्दं तं महत्यपि ।
महच्च सर्वशक्तीनामव्यक्ते कारणे परे ॥
सच्चिदानन्दरूपं यत् वैष्णवं परमं पदम् ।
पृथिव्यादिक्रमात् सर्वं तत्र लीनं विचिन्तयेत् ॥ इति ।
ततः शरीरस्याऽन्तर्यामी ऋषिः, सत्यं देवता, प्रकृतिपुरुषं छन्दः, सशरीर- पापपुरुषस्य शोधने
विनियोगः इत्युक्त्वा दक्षकुक्षिस्थं शुक्लरूपं पापपुरुषं विचिन्त्य यमिति वायुबीजस्य किष्किन्ध ऋषिः,
वायुर्देवता, जगती छन्दः सशरीरपापपुरुष- शोधने विनियोगः इत्युक्त्वा
नाभिमूले च षड्बिन्दुमण्डले यं विचिन्तयेत् ।
तद्वायुबीजं धूम्रञ्च चञ्चलध्वजसंयुतम् ।
धू� धू� शब्दयुतं सर्वशोधनन्त्वीशदैवतम् ॥
इति ध्यात्वा पूरकप्रयोगेन षोडशवारं द्वादशवारं वा बीजमावर्त्त्य बीजोत्थवायुना सशरीरं
पापपुरुषं शोषितं विभावयेत् ।
ततो रमित्यग्निबीजस्य कश्यपऋषिरग्निर्देवता त्रिष्टुप् छन्दः तद्दाहे विनियोगः इत्युक्त्वा—-
चिन्तयेद्धृदये रक्तं त्रिकोणं वह्निमण्डलम् ।
विद्याकलायुतं रुद्रदैवतञ्च समीरितम् ॥
इति ध्यात्वा कुम्भकप्रयोगेन चतुःषष्टिवारं पञ्चाशद्वारं वा बीजमावर्त्तयेत् ।
तद्बीजोत्थाग्निना तद् भस्मीभूतं विभावयेत् ।
ततो रेचकेन द्वात्रिंशन्मात्रया पञ्चविंशतिमात्रया वा पूर्वेक्तरूपं वायुबीजमावर्त्त्य पापपुरुषभस्म रेचयेत् ।
ततो वमिति वरुणबीजस्य हिरण्यगर्भ ऋषिर्हंसो देवता त्रिष्टुप् छन्दः प्लावने विनियोगः इत्युक्त्वा—-
वारुणं मण्डलं मूर्द्ध्न शुभ्रं चन्द्रार्द्धसन्निभम् ।
सितपङ्कजयुग्मस्थं वं स्याद् वरुणदैवतम् ॥
इति ध्यात्वा तद्बीजस्रुतामृतेन तच्छरीरभस्म पिण्डीभूतं विभावयेत् ।
ततो लमिति पृथिवीबीजस्य ब्रह्मा ऋषिरिन्द्रो देवता गायत्री छन्दः कठिनीकरणे विनियोगः इत्युक्त्वा—-
आधारमण्डले पृथ्वीमण्डलं वज्रलाञ्छितम् ।
चतुष्कोणञ्च कठिनं पीतवर्णेन्द्रदैवतम् ।
लं बीजेन समायुक्तं ध्यायेन्मनसि पूर्ववत् ॥
इति ध्यात्वा तद्बीजोत्थकाठिन्येन तनुं दृढा भावयेत् ।
ततो हमित्याकाश- बीजस्य ब्रह्मा ऋषिराकाशं देवता पङ्क्तिश्छन्दः व्यूहने विनियोगः इत्युक्त्वा—-
आकाशमण्डलं वृत्तं द्वादशान्ते हमुज्ज्वलम् ।
शान्त्यतीताकलायुक्तं चिन्त्यमाकाशदैवतम् ॥
इति ध्यात्वा तदुत्थेनाकाशेनावकाशं भावयेत् ।
तदुक्तम्—-
ग्लौमिति पृथ्वीबीजेन तञ्च सहनतां नयेत् ।
ॐ हं वमिति बीजेनाऽवयवीकरणं भवेत् ॥ इति ।
एवं स्वशरीरं विचिन्त्य परमात्मनः सकाशात् सृष्टिक्रमेण तत्त्वानि स्वस्वस्थानं प्रापयेदिति ।
ततः परमात्मनः सकाशाज्जीवं सोऽहं मन्त्रेण हृत्पद्ममानयेदिति सङ्क्षेपः ।
इयञ्च भूतशुद्धिरावश्यकीया ।
भूत(पञ्च) शुद्धिविहीनेन कृता पूजाऽभिचारवत् (जपादिकम्) ।
विपरीतं फलं दद्यादभक्त्या चार्चनं तथा ॥
निऋर्रतिवीधिहीनानां फलं हन्ति हि कर्मणाम् ।
निशाचराधिपत्यञ्च कुरुते शङ्कराज्ञया ॥
इति शैवागम उक्तेः ।
अन्यत्रापि—- शरीराकारभूतानां भूतानां यद् विशोधनम् ।
अव्ययब्रह्मसम्पर्काद् भूतशुद्धिरियं मता ॥
भूतशुद्धिं विना कर्म जपहोमार्चनादिकम् ।
भवेत्तन्निष्फलं सर्वं प्रकारेणाप्यनुष्ठितम् ॥ इति ।
वक्ष्यमाणप्राणप्रतिष्ठामन्त्रेण एतदनन्तरं स्वप्राणप्रतिष्ठाऽवश्यं कर्त्तव्या ।
सम्प्रदायाद् गुरूपदेशाच्च ।
अत्र विशेषो वशिष्ठसंहितायाम्—-
हृदि हस्तं सन्निधाय प्राणस्थापनमाचरेत् ।
ततो जन्मादिकद्व्यष्टक्रिया संस्कारसिद्धये ।
षोडशप्रणवावृत्तीः कृत्वा शक्तिं परां स्मरेत् ॥ इति ॥ २९ ॥
मनुना हंसदेवस्य कुर्यान्न्यासादिकं ततः ।
ऋषिच्छन्दोदैवतानि न्यसेत् मन्त्रस्य मन्त्रवित् ॥ ३० ॥
आत्मनो मूद्ध्न वदने हृदये च यथाक्रमात् ।
विधाय मूलमन्त्रेण प्राणायामं यथाविधि ॥ ३१ ॥
अनन्तरकर्त्तव्यमाह हंसदेवस्येति ।
ततो मूलमन्त्रेण यथाविधि प्राणायामत्रयं विधाय हंसदेवस्य न्यासादिकं कुर्यादिति सम्बन्धः ।
तत्र यथाविधीत्यस्यायमर्थः ।
यदा अजपान्यासस्तदा अजपया यदा प्रणवन्यासस्तदा प्रणवेन यदा बहिर्मातृका- न्यासस्तदा मातृकया ।
एवं यदा भुवनेशीन्यासस्तदा तया यदा मूलमन्त्रस्य न्यासस्तदा जप्यमानमन्त्रेणेति ।
तत्र मातृकाप्राणायामे विशेषः ।
यदाहुः—-
इडया पूरयेत् प्राणं स्वरैः स्पर्शैश्च कुम्भयेत् ।
रेचयेद् यादिकैरूष्मैस्ततः पिङ्गलया पुनः ॥
तथैव पूरणं वायोः कुम्भनं रेचनं पुनः ।
इडया स्यात्ततो द्वाभ्यां पूरणादित्रयं पुनः ॥
प्राणायामत्रयं कृत्वा पश्चाद् व्यापकमाचरेत् ।
अकाराद्यैः क्षान्तवर्णैरापादतलमस्तकम् ॥ इति ।
जप्यमानमन्त्रे तु मन्त्रमुख्यैकेन बीजेन प्राणायामः कार्यः ।
सर्वेण वा ।
तत्रैकेन चेत् कुम्भके चतुःषष्ट्यावृत्तिः अष्टाक्षरैश्चेद् द्वात्रिंशद्वारम् इत्यादि ज्ञेयम् ।
यदाहुः—- अष्टाविंशतिवारमिष्टफलदं मन्त्रं दशार्णं जप-
न्नायच्छेत् पवनं सुशंसितमिति त्वष्टादशार्णेन चेत् ।
अभ्यस्यन्मुनिवार(न्नविचार) मन्यमनुभिर्वर्णानुरूपं जपन्
कुर्याद्रेचकपूर्वकर्मनिपुणः प्राणप्रयोगं नरः ॥ इति ।
न्यासो यथा ।
अजपाया आद्यं मूले परं शिरसि ।
तथा दक्षवामभागयोः ।
तत्रायं प्रयोगः—-हं पुरुषात्मने नमः, सः प्रकृत्यात्मने नमः ।
हंसः प्रकृतिपुरुषात्मने नमः ।
इति व्यापकम् ।
तद्रूपेणान्तर्मातृकान्यासोऽपि ।
आदिशब्दात् पूजापूर्वदिन- जपनिवेदनं तद्दिनजपसङ्कल्पश्च ।
एतदनन्तरं हंसमन्त्रोत्पन्नत्वात् प्रणवस्य न्यासः ।
सोऽपि ॐ अं ब्रह्मणे नमः, ॐ आं विष्णवे नमः इत्यादि मातृकास्थानेषु न्यसेत् ।
नामानि तु अन्त्यपटले प्रणवोत्पत्तौ मया वक्ष्यन्ते ।
तज्जन्यचतुर्नवतिकला न्यासोऽपि सूचितः ।
तन्न्यासस्थानं यथा—-
मूलाधारत्रिकोणेषु विन्यसेदग्निजाः कलाः ।
हृत्पङ्कजदलेष्वर्ककला द्वादशसङ्ख्यकाः ॥
मूद्ध्र्नषोडशपत्राणां मध्ये सोमभवाः कलाः ।
नादजास्तु स्वरस्थाने बिन्दुजाः पञ्चवक्त्रके ॥
पूर्वदक्षिणसौम्येषु पश्चिमोर्द्धमुखेषु च ।
हृद्गलांसेषु नाभौ च सोदरे पृष्ठवक्षसोः ॥
उरोजयोर्न्यसेच्चापि कला माक्षरसम्भवाः ।
पादे गुह्ये सोरुजानुजङ्घास्फिक्षु उकारजाः ॥
पादहस्ततलघ्राणकेषु बाह्वोश्च पाद(र्श्व)योः ।
न्यसेदकारजा गुप्तकलाः पञ्च प्रविन्यसेत् ॥
कास्यहृद्गुह्यपादेषु ।
इति ।
उक्तवक्ष्यमाणानां सामान्यतः ऋष्यादिन्यासमाह ऋषीति ।
अत एव मन्त्रस्येति सामान्यग्रहणम् ।
अत्र देवताया अपि प्राप्तत्वादात्मन इत्युक्तिः ।
तेनाऽजपान्यासे अजपायाः प्रणवन्यासे प्रणवस्य बहिर्मातृकान्यासे मातृकाया भुवनेशीन्यासे तस्या
मूलमन्त्रन्यासे जप्यमानस्य मन्त्रस्येति ।
मन्त्रविद् यथाक्रमाद् इत्यनेन बीजशक्तीनामपि न्यास उक्तः ।
सदक्षिणवामकोश(कोण)योरित्येके ।
गुह्यपादयोरित्यन्ये ।
स्तनयोरित्यपरे ।
ऋष्यादिन्यासस्यावश्यकतोक्ताऽन्यत्र—-
ऋषिच्छन्दोदेवतानां विन्यासेन विना यदा ।
जप्यते साधितोऽप्येष तस्य तुच्छफलं भवेत् ।
इति ॥ ३०-३१ ॥
विदध्यान्मातृकान्यासं मन्त्रन्यासमनन्तरम् ।
अङ्गुष्ठादिष्वङ्गुलीषु न्यसेदङ्गैः सजातिभिः ॥ ३२ ॥
अस्त्रं तत्तलयोर्न्यस्य कुर्यात्तालत्रयादिकम् ।
दिशस्तेनैव बध्नीयाच्छोटिकाभिः समाहितः ॥ ३३ ॥
बहिर्मातृकान्यासमाह विदध्यादिति ।
मातृकान्यासं वक्ष्यमाणं प्रपञ्चयागान्त- मित्यर्थः ।
अनन्तरं मन्त्रन्यासं भुवनेशीन्यासं विदध्यादिति सम्बन्धः ।
यदाहुः—- प्रणवो मातृकादेवी हृल्लेखेत्यमृतत्रयम् ।
दीपनं सर्वमन्त्राणामित्याह भगवान् शिवः ॥ इति ।
वायवीयसंहितायाम्—-हंसन्यासस्तु तत्राद्यः प्रणवन्यास एव च ।
तृतीयो मातृकान्यासो ब्रह्मन्यासस्ततः परम् ॥
पञ्चमः कथ्यते सद्भिर्न्यासः पञ्चाक्षरात्मकः ।
एतेष्वेकमनेकं वा कुर्यात् पूजादिकर्मसु ॥ इति ।
उक्तवक्ष्यमाणानां करन्यासमाह अनन्तरम् अङ्गुष्ठेति ।
अनन्तरमित्यनेन मूलमन्त्रेण करशुद्धिः कर्त्तव्येत्युक्तम् ।
अतएव लक्ष्मीपटले वक्ष्यति " हस्तौ संशोध्य मन्त्रेण " इति ।
तदुक्तम्—-
व्याप्यव्याप्योर्हस्तयोर्मन्त्रमन्तर्बाह्ये पार्श्वे ताररुद्रं बुधेन ।
इति ।
अङ्गैस्तत्तत्कल्पोक्ताङ्गमन्त्रैः ।
तत्र हृन्मन्त्रमुच्चार्य अङ्गुष्ठाभ्यां नम इत्यादि प्रयोगः ।
तदुक्तमाचार्यैः—- अङ्गुलीषु क्रमादङ्गैरङ्गुष्ठादिषु विन्यसेत् ।
इति ।
सजातिभिरित्यग्रिमेण सम्बध्यते ।
तत्तलयोरिति तच्छब्देन प्रकृतत्वादङ्गुलय उच्यन्ते ।
ताभिः करो लक्ष्यते ।
तलशब्देनान्तर्बाह्यमपि तलं गृह्यते ।
तेनास्त्रमन्त्र- मुच्चार्य करतलपृष्ठाभ्यां नम इति अस्त्रमन्त्रप्रयोगः ।
तदुक्तम्—-
अङ्गुष्ठाभ्यां नमो ह्रां ह्री� तर्जनीभ्यां नमस्ततः ।
मध्यमाभ्यां नमो ह्रूं ह्रैम् अनामिकाभ्यां नमस्ततः ॥
ॐ ह्रौ� कनिष्ठिकाभ्यां च नमो ह्रस्तलपृष्ठयोः ।
इति ।
कुर्यात्तालत्रयादिकमिति अङ्गास्त्रविनियोगः ।
तस्य स्वरूपमुक्तमन्यत्र—-
प्रसारिततलाभ्यान्तु तालत्रयमुदीरयेत् ।
इति ।
तालत्रयादिकमित्यादिशब्दोक्तं विशदयति दिश इति ।
तेनैवेत्यस्त्रमन्त्रेण ।
छोटिका नाराचमुद्रारूपा ।
अङ्गुष्ठतर्ज्जन्यग्राभ्यां स्फोटो नाराचमुद्रिका ।
इति तल्लक्षणात् ।
समाहित इत्यग्रिमेण सम्बध्यते ।
तत्रैवं सम्बन्धः ।
ततः समाहितः सुधीर्जातिभिः अङ्गमन्त्रान् हृदादिषु च विन्यसेदिति ।
चकारोऽङ्गुष्ठा- दिष्विति पूर्वेक्तसमुच्चयार्थः ।
तत इति वक्ष्यमाणतत्तत्कल्पोक्ततत्तन्मन्त्रन्यासानन्तर- मित्यर्थः ।
यदाहुः—- आदावृष्यादिविन्यासः करशुद्धिस्ततः परम् ।
अङ्गुलिव्यापकन्यासौ हृदादिन्यास एव च ॥
तालत्रयञ्च दिग्बन्धः ।
इति ।
अन्यत्रापि—- करन्यासं पुरा कृत्वा देहन्यासमतः परम् ।
अङ्गन्यासं न्यसेत् पश्चादेष साधारणो विधिः ॥ इति ।
आचार्या अपि षडङ्गन्यासान्तमुक्त्वा—-
जपारम्भे मनूनां हि सामान्येयं प्रकल्पना ।
इति ।
समाहितः सुधीरित्यनेन षडङ्गमुद्राः सूचिताः ।
तदुक्तमागमान्तरे—-
प्रसारिततलेनैव पाणिना हृदयं शिरः ।
प्रोक्ता शिखा तथा सम्यगधोऽङ्गुष्ठेन मुष्टिना ॥
तथाविधाभ्यां पाणिभ्यां वर्मस्कन्धादिनाभिगम् ।
तर्जनीमध्यमानामाः प्रोक्ता नेत्रत्रये क्रमात् ॥
यदा नेत्रद्वये प्रोक्ते तदा तर्जनीमध्यमे ॥ इति ।
अत्र प्रसारिततलेनेत्यत्र अङ्गुष्ठवर्जमङ्गुलीचतुष्टयेनेत्यर्थः ।
तदुक्तम्—-
अङ्गुष्ठवर्जमङ्गुल्यश्चतस्रो हृदि मूर्द्धनि ।
शिखायां मुष्टिरेव स्यादङ्गुष्ठकृतनालिका ॥
सर्वाङ्गुलय आनाभेः पाण्योः कवचबन्धनम् ॥ इति ।
शक्तिषडङ्गमुद्रास्तन्त्रान्तरे—-
हृदयं मध्यमानामातर्जनीभिः स्मृतं शिरः ।
मध्यमातर्जनीभ्यां स्यादङ्गुष्ठेन शिखा स्मृता ॥
दशभिः कवचं प्रोक्तं तिसृभिर्नेत्रमीरितम् ।
प्रोक्ताङ्गुलीभ्यामस्त्रं स्यादङ्गकॢप्तिरियं मता ॥ इति ।
शैवषडङ्गमुद्राः शैवागमे—-
कृतमुष्टिपदौ (पुटौ) हस्तौ कृत्वाऽङ्गुष्ठौ हृदि न्यसेत् ।
हृन्मुद्रेयं समाख्याता शिरोमुद्रा प्रकीर्त्त्यते ॥
ललाटाग्रे समाधाय कृतमुष्टिपुटौ करौ ।
कुर्यादूर्द्धप्रसक्ताग्रौ तर्जन्यौ ज्येष्ठबाह्यतः ॥
करौ शिखायां संयोज्य कृतमुष्टिपुटाकृती ।
ज्येष्ठावधःप्रसक्ताग्रौ कनिष्ठावूर्द्धतस्तथा ॥
कुर्यात् सेयं शिखामुद्रा सर्वेपद्रवनाशिनी ।
कृत्वाऽङ्गुष्ठौ प्रसक्ताग्रौ तर्जन्यौ च त्रिकोणवत् ॥
मूद्ध्र्न पश्चान्मुखं कृत्वा नयेदुभयपार्श्वतः ।
करौ हृदन्त मुद्रेयं कवचस्याऽभयप्रदा ॥
कृत्वा नेत्रोन्मुखं हस्तं सक्ताङ्गुष्ठकनिष्ठिकम् ।
प्रसार्य मध्यमां किञ्चिन्नमयेदितराङ्गुलीः ॥
नेत्रमुद्रेयमुद्दिष्टा रक्षोभूतात्तीभञ्जिनि ।
परस्परतलद्वन्द्वं पुनरास्फोटयेद् भृशम् ॥ इति ॥ ३२-३३ ॥
हृदयादिषु विन्यस्येदङ्गमन्त्रांस्ततः सुधीः ।
हृदयाय नमः पूर्वं शिरसे वह्निवल्लभा ॥ ३४ ॥
शिखायै वषडित्युक्तं कवचाय हुमीरितम् ।
नेत्रत्रयाय वौषट् स्यादस्त्राय फडिति क्रमात् ॥ ३५ ॥
षडङ्गमन्त्रानित्युक्तान् षडङ्गेषु नियोजयेत् ।
पञ्चाङ्गानि मनोर्यस्य तत्र नेत्रमनुं त्यजेत् ॥ ३६ ॥
जातिभिरित्युक्तेस्ताः का इत्यपेक्षायामाह हृदयेति ।
पूर्वं प्रथमो मन्त्रः
शिरसे एतदनन्तरं वह्निवल्लभा स्वाहेति उच्चरेदित्यर्थः ॥ ३४ ॥
नेत्रत्रयायेत्युपलक्षणम् ।
तेन द्विनेत्रे विष्ण्वादौ नेत्राभ्यां वौषडिति प्रयोगः ॥३५॥
षडङ्गमन्त्रान् तत्तत्कल्पोक्तानित्येवं प्रकारेणोक्तान् जातिमन्त्रांश्च मिलित्वा षडङ्गेषु हृदयादिषु
उक्तमुद्राभिर्नियोजयेन्न्यसेदित्यर्थः ॥ ३६ ॥
अङ्गहीनस्य मन्त्रस्य स्वेनैवाङ्गानि कल्पयेत् ।
तत्तत्कल्पोक्तविधिना न्यासानन्यान् समाचरेत् ॥ ३७ ॥
अङ्गेति ।
अङ्गहीनत्वं नाम नारायणाष्टाक्षरादिवन्मन्त्रोद्धाराभावः ।
स्वेनैवेत्या- वृत्त्या छेदेन वा ।
एतेनाङ्गानामावश्यकत्वमुक्तम् ।
यदाहुः—-
पूजाजपार्चनाहोमाः सिद्धमन्त्रकृता अपि ।
अङ्गविन्यासविधुरा न दास्यन्ति फलान्यमी ॥ इति ।
गौतमेन षडङ्गकरणप्रयोजनमप्युक्तम्—-
इज्यमानो हृदात्माऽयं हृदये स्याच्चिदात्मकः ।
क्रियते तत्परत्वन्तु (परात्मा च) हृन्मन्त्रेण ततः परम् ॥
सर्वज्ञादिगुणोपेते (त्तुङ्गे) संविद्रूपे परात्मनि ।
क्रियते विषयाहारः शिरोमन्त्रेण धीमता ॥
हृच्छिरोरूपचिद्धाममयता (नियता) भावना दृढा ।
क्रियते निजदेवस्य शिखामन्त्रेण सादरम् ॥
मन्त्रात्मकस्य देवस्य मन्त्रवाच्येन (व्याप्तेन) तेजसा ।
सर्वतो वर्ममन्त्रेण क्रियते न्याससम्भृतिः ॥
यद्ददाति परं ज्ञानं संविद्रूपे परात्मनि ।
हृदयादिमयं तेजः स्यादेतन्नेत्रसञ्ज्ञकम् ॥
आध्यात्मिकादिरूपं यत् साधकस्य विनाशयेत् ।
अविद्याजातमस्त्रं तत् परं धाम समीरितम् ॥ इति ।
पूर्वं तत इति मन्त्रन्यासानन्तरमिति व्याख्यातम् ।
तत्र को मन्त्रन्यास इत्यपेक्षयामाह तत्तदिति ।
न्यासान् मन्त्रन्यासान् ।
एषामप्यावश्यकतोक्ताऽन्यत्र—-
न्यासं विना जपं प्राहुरासुरं विफलं बुधाः ।
न्यासात्तदात्मको भूत्वा देवो भूत्वा तु तं यजेत् ॥ इति ।
कुलप्रकाशतन्त्रेऽपि—-आगमोक्तेन मार्गेण न्यासान् नित्यं करोति यः ।
देवताभावमाप्नोति मन्त्रसिद्धिः प्रजायते ॥
अकृत्वा न्यासजातं यो (जालानि) मूढात्मा प्रभजेन्मनून् ।
सर्वविघ्नैश्च बाध्येत व्याध्रैर्मृगशिशुर्यथा ॥
यो न्यासकवचच्छन्नो मन्त्रं जपति तं प्रिये ।
विघ्ना दृष्ट्वा पलायन्ते सिंहं दृष्ट्वा यथा गजाः ॥ इति ।
वायवीयसंहितायामपि—-नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत् ।
नाशिवस्तु शिवं ध्यायेन्नाशिवः शिवमाप्नुयात् ॥ इति ।
ग्रन्थकृदपि—- मन्त्राक्षराणि विन्यस्येद्देवताभावसिद्धये ।
इति ।
एतेन यत्र मन्त्रे अक्षरन्यासो वाचनिको नोक्तस्तत्रापि कर्त्तव्य इत्युक्तम् ॥ ३७ ॥
कल्पयेदात्मनो देहे पीठं धर्मादिभिः क्रमात् ।
अंसोरुयुग्मयोवीद्वान् प्रादक्षिण्येन देशिकः ॥ ३८ ॥
धर्मं ज्ञानञ्च वैराग्यमैश्वर्यं न्यस्य तु क्रमात् ।
मुखपार्श्वनाभिपार्श्वेऽधर्मादींश्च प्रकल्पयेत् ॥ ३९ ॥
धर्मादयः स्मृताः पादाः पीठगात्राणि चापरे ।
अनन्तं हृदये पद्ममस्मिन् सूर्येन्दुपावकान् ॥ ४० ॥
आत्मयागार्थं देहे पीठकल्पनामाह कल्पयेदिति ।
आत्मनो देहे न्यस्तैर्धर्मादिभिः पीठं कल्पयेदित्यर्थः ।
अत्र क्रमादित्यनेनैतदुक्तं भवति ।
मण्डूकाय नम इत्याधारे ।
कालाग्निरुद्राय नमः इति स्वाधिष्ठाने ।
कूर्माय नम इति नाभौ ।
ततो हृदि आधारशक्त्यादिन्यासं कृत्वा पश्चाद्धर्मादिन्यास इति ।
यदाहुः—-
न्यसेदाधारशक्तिप्रकृतिकमठशेषक्षमाक्षीरसिन्धून्
श्वेतद्वीपञ्च रत्नोज्ज्वलमहित महामण्डपं कल्पवृक्षम् ।
हृद्देशे ।
इति ।
अंसेति ।
प्रादक्षिण्येन दक्षिणावर्त्तक्रमेण ।
विद्वान् देशिकः इत्यनेन दक्षिणांसमारभ्य दक्षोरुपर्यन्तं न्यास इत्युक्तम् ।
अयं पक्षः साम्प्रदायिकः ।
तूक्तमीशानशिवेन—-आधाराख्यां यजेच्छक्तिं हृदयेऽंसे च दक्षिणे ।
धर्मं ज्ञानञ्च सव्यांसे ऊर्वेर्वामान्ययोरपि ॥
वैराग्यसञ्ज्ञमैश्वर्यम् ।
इति ।
क्रमादित्युत्तरेण सम्बध्यते ॥
मुखेति ।
अत्रापि प्रादक्षिण्येनेत्यनुषञ्जनीयम् ।
क्रमादित्यनेनैतदुक्तम् ।
मुखं ततो वामपार्श्वं ततो नाभिस्ततो दक्षिणपार्श्वम् ।
तदुक्तम्—-
मुखे च वामपार्श्वे च नाभौ दक्षिणपार्श्वके ।
अधर्मञ्चाप्यथाज्ञानमवैराग्यमनैश्वरम् ॥ इति ।
ईशानशिवेनाप्युक्तम्—- अधर्मं वदने ततः ।
अज्ञानं सव्यपार्श्वे च नाभौ पार्श्वे च दक्षिणे ॥
अवैराग्यमनैश्वर्यम् ।
इति ।
यत्त्वाचार्यवचनम्—- " आनननाभिमूलपार्श्वद्वयैः " इति तदपि तट्टीकाकारैरानन- पार्श्व
नाभिमूलपार्श्वैरित्येव व्याख्यातम् ।
अधर्मादीन् तानेव नञ्पूर्वानित्यर्थः ॥
अपर इति अधर्मादयः ।
अस्मिन्नित्यनन्ते ।
पद्ममिति वक्ष्यमाणलक्षणम् ।
एतेन पूतेन (?) पूर्वपूर्वस्योत्तरोत्तरं प्रत्याधारतोक्ता ।
अस्मिन् पद्मे सूर्येन्दुपावकानिति योज्यम् ॥ ३८-४० ॥
एषु स्वस्वकला न्यस्येन्नामाद्यक्षरपूवीकाः ।
सत्त्वादींस्त्रीन् गुणान् न्यस्येत्तथैवात्र गुरूत्तमः ॥ ४१ ॥
आत्मानमन्तरात्मानं परमात्मानमत्र तु ।
ज्ञानात्मानं प्रविन्यस्य न्यसेत् पीठमनुं ततः ॥ ४२ ॥
एष्विति त्रिषु मण्डलेषु ।
नामादौ यदक्षरं कभादि आदि आदि तत्पूवीकाः ।
तत्र क्रमः ।
सूर्यमण्डलं विन्यस्य तत्र तत्कलाः ततः सोममण्डलं तत्र तत्कलाः ततो वह्निमण्डलं तत्र
तत्कलाः न्यसेदिति ।
तथैवेति पूर्वपूर्वस्योपरि ।
नामाद्यक्षरपूर्वका- निति पदमेवाऽत्राकृष्यते ।
तेन नाम्नो यदाद्यक्षरं तत्पूर्वकान् न्यसेदिति ।
अत्र गुरुत्तम इत्युत्तरेण सम्बध्यते ।
ततः ॐ सं सत्त्वाय नमः इत्यादिप्रयोगः ।
तदुक्तम्—- " आद्यक्षरैः सत्त्वरजस्तमांसि " इति ।
एतच्च दिक्प्रदर्शनमात्रम् ।
पूर्वं सर्वत्र तथोक्तेः ।
अत्र परमात्मनि तुशब्दो व्यतिरेके ।
तेनायमर्थः ।
आत्मादित्रयेऽ- प्याद्यक्षरमेव बीजम् ।
ज्ञानात्मनि तु मायाबीजमिति गुरूत्तमपदेनोक्तम् ।
न्यसेत् पीठमनुं ततः इत्यनेनैतदुक्तं भवति ।
मां मायातत्त्वाय नमः, कं कलातत्त्वाय नमः, विं विद्यातत्त्वाय नमः, पं परतत्त्वाय नमः ।
हृत्पद्माग्राद्यष्टदल- मूलेषु मध्ये च पीठशक्तिनवकं न्यसेदिति ।
तदुक्तम्—- मायातत्त्वं कलातत्त्वं विद्यातत्त्वं परं तथा ।
विन्यस्य पीठशक्तीश्च ततः पीठमनुं न्यसेत् ॥ इति ।
अन्यत्रापि—-अथाष्टदिक्षु परितो मध्ये च शक्तीर्नव ।
न्यस्त्वा पीठमहामनुं च विधिवत्तत्कणीकामध्यगम् ॥ इति ॥ ४१-४२ ॥
एवं देहमये पीठे चिन्तयेदिष्टदेवताम् ।
मुद्राः प्रदर्श्य विधिवदर्घ्यस्थापनमाचरेत् ॥ ४३ ॥
मुद्रा इति ।
तत्तद्विशेषमुद्राश्च तत्तत्कल्पोक्तास्तत्तत्पटले मया वक्ष्यन्ते ।
विधिवदित्यनेनैतदनन्तरं मानसीं पूजां कृत्वा देवमभ्यर्थयेदित्युक्तम् ।
तत्राभ्यर्थनमन्त्रः—- ॐ स्वागतं देवदेवेश सन्निधीभाव केशव ।
गृहाण मानसीं पूजां यथार्थपरिभाविताम् ॥ इति ।
अत्र केशवेत्यत्र तत्तद्देवतानाम्नामूहः कार्यः ।
तदुक्तम्—-
इति ध्यात्वात्मानं पटुविशदधीर्नन्दतनयं
पुरोबुद्ध्यैवार्घ्यप्रभृतिभिरनिन्द्योपहृतिभिः ।
यजेत् ।
इति ।
अन्यत्रापि—- ध्यात्वा देवं प्रदर्श्याऽथ मुद्रा अपि विधानतः ।
पूजाञ्च मानसीं कुर्यात्ततोर्घ्यस्थापनञ्चरेत् ॥ इति ॥ ४३ ॥
" ॐ स्वागतं देवदेवेश सन्निधीभाव केशव ।
गृहाण मानसीं पूजां यथार्थपरिभाविताम् ॥ " इति ।
इस मन्त्र में सम्बोधन पद केशव के स्थान पर तत्तद् देवों का नाम रखना चाहिए ॥ ४३ ॥
शङ्खमस्त्राम्बुना प्रोक्ष्य वामतो वह्निमण्डले ।
साधारं स्थापयेद् विद्वान् बिन्दुस्रुतसुधामयैः ॥ ४४ ॥
तोयैः सुगन्धिपुष्पाद्यैः पूरयेत्तं यथाविधि ।
आधारं पावकं शङ्खं सूर्यं तोयं सुधामयम् ॥ ४५ ॥
स्मरेद्वह्न्यर्कचन्द्राणां कलास्तास्तेष्वनुक्रमात् ।
मूलमन्त्रं जपेत् स्पृष्ट्वा न्यसेत्तस्याङ्गमन्त्रवित् ॥ ४६ ॥
हृन्मन्त्रेणाभिसम्पूज्य हस्ताभ्यां छादयन्नपः ।
जपेद्विद्यां यथान्यायं देशिको देवताधिया ॥ ४७ ॥
अर्घ्यस्थापनमाचरेदित्युक्तम् ।
तद्विधिमाह शङ्खमिति ।
वामतो वामभागे स्वाग्रत इति ज्ञेयम् ।
यदुक्तम्—- " आत्मनः पुरतः शङ्खम् " इति ।
वह्निमण्डले ऊर्द्धाग्रे त्रिकोणे साधारं शङ्खमित्यन्वयः ।
विद्वानित्यनेनात्र वह्निमण्डल इत्युपलक्षणम् इत्युक्तम् ।
तेन त्रिकोणषट्कोणवृत्तचतुरस्ररूपे शङ्खमुद्रावष्टब्धे पूजितषडङ्गे इति ज्ञेयम् ।
तदुक्तम्—-
अग्रे त्रिकोणमालिख्य षट्कोणञ्च ततो बहिः ।
वर्त्तुलं चतुरस्रञ्च मध्ये मायां विलिख्य च ।
शङ्खमुद्रां प्रदर्श्याऽथ कोणदिक्ष्वङ्गपूजनम् ॥ इति ।
अन्यत्रापि—- त्रिकोणषट्कोणवृत्तचतुरस्राणि कारयेत् ।
शङ्खमुद्रामवष्टभ्य षडङ्गानि प्रपूजयेत् ॥ इति ।
बिन्दुर्भ्रूमध्यम् ।
केचन ब्रह्मरन्ध्रमिति वदन्ति ।
तत्र चन्द्रमण्डलस्य सत्त्वादिति ।
बिन्दुस्रुतसुधामयैरिति जलध्यानम् ।
यत् सोमशम्भौ—-
बिन्दुप्रसूत पीयूषरूपतोयाक्षतादिना ।
हृदापूर्य षडङ्गेन पूजयित्वाऽभिमन्त्रयेत् ॥ इति ।
पूरयेत्तं यथाविधीत्यनेनैतदुक्तम् ।
बिन्द्वन्तां प्रतिलोममातृकां विलोममूलमन्त्रञ्च जपन्निति ।
तदुक्तम्—-
पूरयेद्विमलपाथसा सुधीरक्षरैः प्रतिगतैः शिरोऽन्तकैः ।
इति ।
आधारमिति ।
आधारं पावकमण्डलत्वेन शङ्खं सूर्यमण्डलत्वेन तोयमिन्दु- मण्डलत्वेन ।
तेषु मण्डलेषु तत्तत्कला अपि स्मरेत् ।
केचन पूजयन्त्यपि ।
तत्र प्रयोगः—-स्ववामाग्रतः चतुरस्रवृत्तषट्कोणत्रिकोणमण्डलं कृत्वा शङ्ख- मुद्रयाऽवष्टभ्य
पुष्पाक्षतैः पूजाक्रमेण षडङ्गानि सम्पूज्य आधारमस्त्रमन्त्रेण प्रक्षाल्य " मं वह्निमण्डलाय दशकलात्मने
अमुकार्घ्यपात्रासनाय नमः " इति आधारं प्रतिष्ठाप्य पूर्वादग्नेर्दशकलाः पूजयेत् ।
ततः शङ्खमन्त्रेण (पुरुषोत्तमपटलोक्तशङ्खमन्त्रेण) शङ्खं प्रक्षाल्य " अं सूर्य- मण्डलाय
द्वादशकलात्मने अमुकार्घ्यपात्राय नमः " इति पात्रमाधारे निधाय प्रादक्षिण्येन द्वादशस्थानेषु सूर्यस्य
द्वादशकलाः सम्पूज्य विलोममातृकां विलोम- मूलमन्त्रञ्च जपन् शुद्धोदकेन शङ्खमापूर्य " ॐ सोममण्डलाय
षोडशकलात्मने अमुकार्घ्यामृताय नमः " इति सम्पूज्य सोमस्य षोडशकलास्तत्र प्रादक्षिण्येन पूजयेदिति ।
ततस्तत्र " गङ्गे च " इति मन्त्रेण सूर्यमण्डलादङ्कुशमुद्रया तीर्थमावाह्य स्वहृत्कमलाद्देवमप्यावाहयेत् ।
देशिको देवताधियेति वक्ष्यमाणत्वात् ।
तदुक्तम्—-
तत्र तीर्थमनुनाभिवाहयेत् तीर्थमुष्णरुचिमण्डलात् पुनः ।
स्वीयहृत्कमलतो हरिं यथा ।
इति ।
अङ्कुशमुद्रालक्षणं स्नानप्रसङ्गे उक्तम् ।
यद्वेयमङ्कुशमुद्रा ।
यदाहुः—-
ऋजुमध्या मध्यपर्वाक्रान्ता तर्जन्यधोमुखी ।
विज्ञेयाऽङ्कुशमुद्रेयं कुञ्चिता मध्यपर्वतः ॥ इति ।
स्पृष्ट्वेति ।
अप इति सम्बध्यते ।
न्यसेदिति अप्स्विति सम्बध्यते ।
तस्येति मूलमन्त्रस्य ।
अङ्गमन्त्रविदित्यनेन वक्ष्यमाणदिक्क्रमपूजनेनैव न्यास इत्युक्तम् ।
अभिसम्पूज्येति अप इति सम्बन्धः ।
हस्ताभ्यां छादयन्निति देशिक इत्यनेन मत्स्यमुद्रयेत्युक्तम् ।
तल्लक्षणन्तु—-
अधोमुखावुभौ हस्तौ स्वस्योपरि च संस्थितौ ।
पार्श्वद्वयगताङ्गुष्ठौ मत्स्यमुद्रेयमीरिता ॥
अत्र मूलमन्त्रविद्याशब्दाभ्यामेवमादिविधौ पुंस्त्रीदेवताकत्वमविवक्षितमित्युक्तम्।
अन्यथैकग्रहणे इतरग्रहणं न स्यात् ।
यथान्यायमिति सप्तकृत्वोऽष्टकृत्वो वा ।
इयं सङ्ख्या (व्यवस्था) पूर्वमपि ज्ञेया ।
तदुक्तम्—-
संस्पृशन् जपतु मन्त्रमष्टशः ।
इति ॥ ४४-४७ ॥
अस्त्रमन्त्रेण संरक्ष्य कवचेनावगुण्ठ्य च ।
धेनुमुद्रां समापाद्य रोधयेत्तत् स्वमुद्रया ॥ ४८ ॥
संरक्ष्येति ।
तदिति सम्बन्धः ।
तच्च संरक्षणं छोटिकाभिरिति ज्ञेयम् ।
अवगुण्ठ्येत्यत्रापि तदिति सम्बध्यते ।
तच्चावगुण्ठनमुद्रया ।
समापाद्येत्यमृतबीजेन ।
स्वमुद्रयेति सन्निरोधिन्या ।
अवगुण्ठनधेनुसन्निरोधनमुद्रास्त्रयोविंशे वक्ष्यन्ते ।
ततः शङ्खोपरि शङ्खमुषलचक्रमहामुद्रायोनिमुद्राः प्रदर्शयेत् ।
यदाहुः—-
चिन्मयं चिन्तयेत्तीर्थमानीयाऽङ्कुशमुद्रया ।
ब्रह्माण्डोदरतीर्थेभ्यो धेनुमुद्रां प्रदर्श्य च ॥
शङ्खमुद्रां चक्रमुद्रां मुषलाख्याञ्च दर्शयेत् ।
परमीकृत्य यत्नेन गुह्याख्याञ्चैव दर्शयेत् ॥ इति ।
कृष्णमन्त्रे गालिनीप्रदर्शनं राममन्त्रे गरुडमुद्राप्रदर्शनम् इत्यादिविशेषोऽनु- सन्धेयः ।
शङ्खमुद्रालक्षणमुक्तं प्राक् ।
अन्यासां लक्षणानि तु—-
मुष्टिं कृत्वा तु हस्ताभ्यां वामस्योपरि दक्षिणम् ।
कुर्यान्मुषलमुद्रेयं सर्वविघ्नप्रणाशिनी ॥
मिथः कनिष्ठिके बद्धा तर्जनीभ्यामनामिके ।
अनामिकोर्द्धगाश्लिष्टदीर्घमध्यमयोरधः ।
अङ्गुष्ठाग्रद्वयं न्यस्येद् योनिमुद्रेयमीरिता ॥ इति ।
विपर्यस्ते तले कृत्वा वामदक्षिणहस्तयोः ।
अङ्गुष्ठौ ग्रथयेच्चैव कनिष्ठानामिकान्तरे ।
चक्रमुद्रेयमुद्दिष्टा सर्वसिद्धिकरी शुभा ॥ इति ।
महामुद्रालक्षणं त्रयोविंश वक्ष्यते ।
कनिष्ठाङ्गुष्ठकौ सक्तौ करयोरितरेतरम् ।
तर्जनीमध्यमानामाः संहता भुग्नवजीताः (सज्जिताः) ।
मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता ॥ इति ।
हस्तावभिमुखौ कृत्वा रचयित्वा कनिष्ठिके ।
मिथस्तर्जनिके श्लिष्टे श्लिष्टावङ्गुष्ठकौ तथा ॥
मध्यमानामिके द्वे तु द्वौ पक्षाविति कुञ्चयेत् ।
एषा गरुडमुद्रा स्यादशेषविषनाशिनी ॥ इति ॥ ४८ ॥
दक्षिणे प्रोक्षणीपात्रमाधायाऽद्भः प्रपूरयेत् ।
किञ्चिदर्घ्याम्बु सङ्गृह्य प्रोक्षण्यम्भसि योजयेत् ॥ ४९ ॥
दक्षिण इति ।
पात्रं ताम्रादिजम् ।
यदाहुः—-
रत्नं रौक्मं रौप्यमब्जं ताम्रं मृद्दारुपैत्तलम् ।
पाद्मं पालाशमुत्कृष्टान्यमन्त्राण्यच्युतार्चने ।
सर्वेत्कृष्टौ ताम्रशङ्खावर्घ्यायाऽब्जोऽतिशस्यते ॥ इति ॥ ४९ ॥
अर्घ्यस्योत्तरतः कार्यं पाद्यं साचमनीयकम् ।
आत्मानं यागवस्तूनि मण्डलं प्रोक्षयेद् गुरुः ॥ ५० ॥
प्रोक्षणीपात्रतोयेन मनुनाऽन्यान्यपि क्रमात् ।
न्यासक्रमेण देहे स्वे धर्मादीन् पूजयेत्ततः ॥ ५१ ॥
अर्घ्यस्येत्यर्घ्यपात्रस्य ।
शक्तौ सत्याम् एतानि भिन्नानि ।
अशक्तौ एकेनैव सर्वम् ।
यदाहुः—-एकस्मिन्नथवा पात्रे पाद्यार्घ्यादीनि कल्पयेत् ।
इति ।
मनुनेति मूलमन्त्रेण प्रोक्षयेदिति सम्बन्धः ।
इदञ्च सामान्यविधानम् ।
अन्यत्र तु मन्त्रविशेषे प्रोक्षणमन्त्र उक्तः ।
तत्र तेनैव प्रोक्षणमिति ज्ञेयम् ।
गुरुरित्यनेनेदं प्रोक्षणं त्रिरित्युक्तं भवति ।
यदाहुः—-
प्रोक्षयेन्निजतनुं ततोऽमुना त्रिः करेण मनुनाऽखिलं तथा ।
साधनं कुसुमचन्दनादिकम् ।
इति ।
अन्यान्यपि यागवस्तूनि पूजाद्रव्याणि क्रमात् प्रोक्षयेदिति सम्बन्धः ॥
आन्तरं यागमाह न्यासेति ।
तदुक्तम्—-
द्विविधं स्याल्लब्धमनोर्बाह्यान्तरमुपासनम् ।
न्यासिनाञ्चान्तरं प्रोक्तमन्येषामुभयं तथा ॥ इति ।
वायवीयसंहितायामपि—-आदावाभ्यन्तरं यागमग्निकार्यावसानकम् ।
विधाय मानवः पश्चाद् बहिर्यागं समाचरेत् ॥ इति ।
तथा संहितायां शम्भुवाक्यमपि—-
न गृही ज्ञानमात्रेण परत्रेह च मङ्गलम् ।
प्राप्नोति चन्द्रवदने दानहोमादिभिवीना ॥
गृहस्थो यदि जुहुयान्न दद्यादपि नेश्वरि ।
पूजयेद् विधिना नैव कः कुर्यादेतदन्वहम् ॥
न ब्रह्मचारिणो दातुमधिकारोऽस्ति भामिनि ।
गुरुभ्योऽपि च सर्वेभ्यः को वा दास्यत्यपेक्षितम् ॥
नाऽरण्यवासिनां शक्तिर्न ते सन्ति कलौ युगे ।
परिव्राड् ज्ञानमात्रेण दानहोमादिभिवीना ॥
सर्वदुःखपिशाचेभ्यो मुक्तो भवति नान्यथा ।
परिव्राड्विरक्तश्च विरक्तश्च गृही तथा ॥
कुम्भीपाके निमज्जेते द्वाबुभौ कमलानने ।
पुण्याः स्त्रियो गृहस्थाश्च मङ्गलैर्मङ्गलाथीनः ॥
पूजोपकरणैः कुर्युर्दद्युर्दानानि चार्हणाम् ।
वानप्रस्थाश्च यतयो यद्येवं कुर्युरन्वहम् ॥
संसारान्न निवर्त्तन्ते विध्यतिक्रमदोषतः ।
आरूढयतिता ह्येते भवेयुर्दुःखभाजनम् ॥ इति ।
अत्र न्यासक्रमेणेत्यनेनैतदुक्तं भवति ।
मण्डूककालाग्निरुद्रकूर्मान् आधार- स्वाधिष्ठाननाभिदेशेषु तत आधारशक्त्यादीन् हृदि पश्चाद्धर्मादीनष्टौ
यथास्थानं सम्पूज्य पुनर्हृदि शेषादिपरतत्त्वान्ता पूजा ।
तदुक्तं रामपूर्वतापनीये—-
मायाविद्ये ये कलापरे तत्त्वे सम्पूजयेद्विमलादीश्च शक्तीः ।
इति ॥ ५०-५१ ॥
पुष्पाद्यैः पीठमन्वन्तं तस्मिंश्च परदेवताम् ।
पञ्चकृत्वः पुनः कुर्यात् पुष्पाञ्जलिमनन्यधीः ॥ ५२ ॥
उत्तमाङ्गहृदाधारपादसर्वाङ्गके क्रमात् ।
विना निवेद्यं गन्धाद्यैरुपचारैः समर्चयेत् ॥ ५३ ॥
पुष्पस्याद्यं गन्धः ।
बहुवचनमाद्यर्थं तेन गन्धाद्यैरित्यर्थः ।
एतादृशयुक्तिस्तु आदिशब्देन पुष्पमात्रग्रहणार्था ।
यद्वा पुष्पाणि च आद्यो गन्धश्च पुष्पाद्यैः ।
उपचारेषु गन्धानन्तरं पुष्पस्योद्दिष्टत्वात् ।
पीठमन्वन्तमिति ।
पीठशक्ति पीठमन्त्रपर्यन्तमित्यर्थः ।
तस्मिन्निति ।
एवम्भूते देहमये पीठे परदेवतां गन्धाद्यैरुपचारैः समर्चयेदित्यग्रिमेण सम्बन्धः ।
आद्येन पुष्पम् ।
तत्र विशेषमाह पञ्चेति ।
अनन्यधीरित्यनेन त्रिंशो वा इत्युक्तम् ।
तदुक्तमाचार्यैः—-
कुर्यात् पुष्पाञ्जलिमपि निजदेहे पञ्चशोऽथवापि त्रिंशः ।
इति ।
विना निवेद्यमिति ।
अस्यायमभिप्रायः ।
आसनादिदीपान्तानुपचारान् प्रदर्श्य बाह्ये नैवेद्यं न देयम् ।
ततो गुरूपदिष्टविधिना कुण्डलिनीमुत्थाप्य द्वादशान्तं नीत्वा तत्रत्यशिवेन समागमय तदुत्थामृतधारया
देवं प्रीणयेदिति ॥ ५२-५३ ॥
गुरूपदिष्टविधिना शेषमन्यत् समापयेत् ।
सर्वमेतत् प्रयुञ्जीत प्रोक्षणीस्थेन वारिणा ॥ ५४ ॥
विसृज्य तोयं प्रोक्षण्याः पूरयेत्तां यथा पुरा ।
ततस्तन्मण्डलं मन्त्री गन्धाद्यैः साधु पूजयेत् ॥ ५५ ॥
गुरूपदिष्टेति ।
अन्यत् शेषं मानसौ धूपदीपौ मन्त्रजपः जपनिवेदनं ब्रह्मार्पणं क्षमापनादि विसर्जनवर्जम् ।
यदाहुः—-
ध्यात्वा यजेच्चन्दनाद्यैर्मानसैर्धूपदीपकैः ।
भोजनावसरे किञ्चिज्जपं कृत्वा निवेदयेत् ॥ इति ।
अशक्तं प्रत्याह सर्वमिति ।
नत्वा गुरूनित्यादि एतदन्तं नित्यपूजायामपि समानम् ।
विशेषस्त्वयं नित्यपूजायाम् ।
एतच्छङ्खजलमेव वर्द्धन्यां निक्षिपेदिति ।
ततः प्राणायामत्रयं कृत्वा अष्टोत्तरसहस्रं नित्यजपं कृत्वा पुनः प्राणायामत्रयञ्च कुर्यात् ।
किञ्चन " क्षिपतु वर्द्धनीजले " इति पुरतो जपस्य परतोऽपि " विहितमथ तत्त्रयं बुधैः " इति चोक्तेः ।
तदुक्तं मन्त्रतन्त्रप्रकाशे—-
अष्टोत्तरसहस्रन्तु कृत्वाऽन्तर्यागमादरात् ।
जपेत् प्रतिदिनं यत्तु नित्य एष जपः स्मृतः ॥
अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ।
द्वादश्यां पूणीमायाञ्च तेषु नैमित्तिको जपः ॥
नित्यात् त्रिगुणितः सोऽथ पूजा चैव हरेस्तथा ॥ इति ।
आन्तरं यागमुक्त्वा बहिर्यागमाह तत इति ।
ततस्तदनन्तरं मन्त्री साधु शोभनत्वेन सर्वतोभद्रत्वमुक्तम् ।
तन्मण्डलं वेदिमध्यलिखितं सर्वतोभद्रमण्डलं गन्धाद्यैः पूजयेदिति सम्बन्धः ।
आदिशब्देन पुष्पम् ।
मन्त्रीत्यनेन श्रीसर्वतोभद्र- मण्डलाय नमः इति पूजामन्त्रः सूचित इति ज्ञेयम् ॥ ५४-५५ ॥
शालिभिः कणीकामध्यमापूर्येपरि तण्डुलैः ।
अलङ्कृत्य पुनस्तेषु दर्भानास्तीर्य तन्त्रवित् ॥ ५६ ॥
कूर्च्चमक्षतसंयुक्तं न्यसेत्तेषामथोपरि ।
आधारशक्तिमारभ्य पीठं मन्त्रमयं यजेत् ॥ ५७ ॥
शालिभिरिति ।
उपरि शाल्युपरि तण्डुलैरलङ्कृत्य तण्डुलान् तत्र निक्षिप्येत्यर्थः ।
पुनरनन्तरम् ।
तेषु तण्डुलेषु ।
तत् प्रमाणमन्यत्रोक्तम्—-
शालींस्तु कणीकायाञ्च निक्षिप्याढकसम्मितान् ।
तण्डुलांश्च तदष्टांशान् कूर्च्चञ्चोपरि विन्यसेत् ॥ इति ।
आढकलक्षणन्तु—- " कुडवश्चतुःपलः स्यात् ।
प्रस्थः कुडवैश्चतुभीः स्यात् ।
प्रस्थैश्चतुभीराढकः ।
" इति ।
तदष्टांशानिति कुडवद्वयमितान् ।
शास्त्रोक्ततोलकाष्टकं पलम् ।
सप्तविंशतिसाग्रदर्भपत्रमयं वेण्याकारेण ग्रथितं विष्टरापरपर्यायं कूर्चम् ।
तदुक्तं डामरे—- सप्तविंशतिदर्भाणां वेण्यग्रे ग्रन्थिभूषितम् ।
विष्टरे सर्वयज्ञेषु लक्षणं परिकीत्तीतम् ॥ इति ।
अत्र आत्मादितत्त्वत्रयेण देवं सम्पूज्य बाह्यपूजामारभेदिति सम्प्रदायविदः ।
आधारशक्तीति ।
अत्र प्रथमं गुरुगणपतिपूजनं कुर्यात् ।
तदुक्तम्—-
वायव्यास्त्रादीशपर्यन्तमर्चापीठस्योदग्गौरवी पङ्क्तिरादौ ।
पूज्योऽन्यत्राप्याम्बिकेयः कराब्जैः पाशं दण्डं शृण्यभीति दधानः ॥ इति ।
अन्यत्रापि—- पीठस्योत्तरे भागे गुरुपङ्क्तिं पूजयेच्च मन्त्रवित् ।
यावद् गिरीशकोणं वायोः कोणं समारभ्य ॥
अथ गुरुपरमगुरू द्वौ परमेष्टिगुरुं तथाऽभ्यर्च्य ।
परमाचार्यगुरुञ्चादिसिद्धिगुरुमथार्चयेत् स्वगुरुम् ॥ इति ।
अत्र परमाचार्यगुर्वनन्तरं परापरगुरुः परमसिद्धिगुरुरपि ज्ञेयः ।
तेषां ध्यानं मन्त्रतन्त्रप्रकाशे उक्तम्—-
श्वेताम्बरधरा गौरा गुरवः पुस्तकान्विताः ।
व्याख्यानमुद्रया युक्ता ध्यायन्तो वा हरिं निजम् ।
ध्यातव्याः पूजनादौ च तद्ध्यानाज् ज्ञानवान् भवेत् ॥ इति ।
शाक्तादौ तु विशेषस्तन्त्रान्तरे—-
ते रक्तमाल्याम्बरगन्धभूषाः स्वलङ्कृता पङ्कजविष्टरस्थाः ।
सर्वे च सालम्बनयोगनिष्ठाः प्राप्ताखिलैश्वर्यगुणाष्टकार्थाः ॥ इति ।
तत्र श्रीगुरुभ्यो नमः इत्यादि प्रयोगः ।
देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताः ।
सिद्धं सिद्धाधिकारांश्च श्रीपूर्वं समुदीरयेत् ॥
इत्युक्तेः अर्चयेदित्युक्तम् ॥ ५६-५७ ॥
अधः कूर्मशिलारूढां शरच्चन्द्रनिभप्रभाम् ।
आधारशक्तिं प्रयजेत् पङ्कजद्वयधारिणीम् ॥ ५८ ॥
मूध्नी तस्याः समारूढं कूर्मं नीलाभमर्चयेत् ।
ऊर्द्धं ब्रह्मशिलासीनमनन्तं कुन्दसन्निभम् ॥ ५९ ॥
यजेच्चक्रधरं मूध्नी धारयन्तं वसुन्धराम् ।
तमालश्यामलां तत्र नीलेन्दीवरधारिणीम् ॥ ६० ॥
अभ्यर्चयेद्वसुमतीं स्फुरत्सागरमेखलाम् ।
तस्यां रत्नमयं द्वीपं तस्मिंश्च मणिमण्डपम् ॥ ६१ ॥
यजेत् कल्पतरूंस्तस्मिन् साधकाभीष्टसिद्धिदान् ।
अधस्तात् पूजयेत्तेषां वेदिकां मण्डपोज्ज्वलाम् ॥ ६२ ॥
पश्चादभ्यर्चयेत्तस्यां पीठं धर्मादिभिः पुनः ।
रक्तश्यामहरिद्रेन्द्रनीलाभान् पादरूपिणः ॥ ६३ ॥
तदेवाह अध इति ।
अनेनैतदुक्तं भवति ।
कणीकायां महाकायं रक्तं मण्डूकं मण्डूकाय नमः इति यजेत् ।
तदूर्द्धं दशभुजं पञ्चवक्त्रं रक्तकृष्णदक्षिणवामपार्श्वं कालाग्निरुद्रं कालाग्निरुद्राय नम इति ।
तदुपरि महाकायं कूर्मं कूर्माय नम इति ।
तदुक्तं शौनककल्पे—-
मण्डूकादि पृथिव्यादि कणीकायां यजेत् क्रमात् ।
इति ।
नारसिंहकल्पेऽपि—- पद्मेऽष्टपत्रे मण्डूकं परतत्त्वान्तमर्चयेत् ।
इति ।
कूर्मशिलेति ।
कूर्माकारा शिला कूर्मशिला तामारूढाम् ।
पूर्वं पूजितः कूर्म एव कूर्मशिलेति ज्ञेयम् ।
वक्ष्यमाणस्तु कूर्मस्तद्भिन्न एव ।
तदुक्तं तापनीये—- " शक्तिं चाधाराख्यकां कूर्मनागौ " इति ।
शरच्चन्द्रस्येत्य- स्यार्थः पूर्ववज् ज्ञेयः ।
ब्रह्मशिलेति मूलप्रतिमाधस्तन शिलायाः सञ्ज्ञा ।
तदुक्तं वायवीयसंहितायाम्—-
शोधितां चन्दनालिप्तां श्वभ्रे ब्रह्मशिलां क्षिपेत् ।
रत्न (तत्त्व) न्यासं ततः कृत्वा नवभिः शक्तिनामभिः ॥
हरितालादि धातूंश्च बीजं गन्धौषधीरपि ।
शिवशास्त्रोक्तविधिना क्षिपेद्ब्रह्मशिलोपरि ॥ इत्यादिना
" लिङ्गं ब्रह्मशिलोपरि ।
प्रागुदक्प्लवनं किञ्चित् " इत्यन्तेन ।
अनन्तमिति ।
" नाभ्यूर्द्धं नराकृतिमधस्त्वह्याकृतिमेककुण्डलं सहस्रफणम् " इति तत् स्वरूपम् ।
अन्यत्र तद्ध्यानमुक्तम्—-
द्वात्रिंशद्भिः खलु तत्त्वैर्धराद्यैवीद्यान्तैः स्वैर्महितं विष्णुतेजः ।
आनन्त्यं तत्कथितं ह्यासनं स्यात् पीठाकारः स तु नागोऽह्यनन्तः ॥ इति ।
अन्यत्रापि—- तत्त्वैर्धरादिविद्यान्तैर्द्वात्रिंशत्सङ्ख्यकैरिह ।
पीठाकारोऽह्यनन्तः स्यादनन्तासनमीरितम् ॥ इति ॥
नीलेन्दीवरे धारयतीति समासः ।
वक्ष्यति " इन्दीवरे द्वे " इति ।
स्फुरत्सागरमेखलामित्यनेन पृथिव्यनन्तरं सागराय नम इति समुद्रः पूज्य इत्यर्थः ।
तत्र सरस्वतीमन्त्रे विद्याब्धिः लक्ष्मीविष्णुमन्त्रे क्षीराब्धिः गणेशमन्त्रे इक्षुरसः समुद्रः ।
अन्यत्रामृतसमुद्र इत्यादि ज्ञेयम् ।
तस्यां विशिष्टायाम् ॥ ५८-६३ ॥
वृषकेशरिभूतेभरूपान् धर्मादिकान् यजेत् ।
गात्रेषु पूजयेत्तांस्तु नञ्पूर्वानुक्तलक्षणान् ॥ ६४ ॥
वृषेति ।
केशरी सिंहः ।
भूतो देवयोनिः ।
तत्स्वरूपमुक्तमन्यत्र—-
रक्तवस्त्रधराः कृष्णा नखदंष्ट्राः सुदंष्टिरकाः ।
कर्त्रीखट्वाङ्गहस्ताश्च राक्षसा घोररूपिणः ॥
भूतास्तथैव दीनास्याः ।
इति ।
इभो हस्ती ।
नञ्पूर्वान् अधर्माज्ञानावैराग्यानैश्वर्यान् ।
उक्तलक्षणानिति रक्तादिवर्णान् वृषभादिरूपान् ।
उक्तञ्च—-
धर्मं रक्तं वृषरूपञ्च सिंहं ज्ञानं श्यामं दुष्टभूतञ्च पीतम् ।
वैराग्यं स्याद् गजरूपासिताङ्गमैश्वर्यञ्च क्रमतः पीठपादाः ॥
पीठस्येशा स्युरधर्मादयो ये ये चत्वारस्ते ह्युदिताकाररम्याः ।
इति ॥ ६४ ॥
आग्नेयादिषु कोणेषु दिक्षु चाथाम्बुजं यजेत् ।
आनन्दकन्दं प्रथमं संविन्नालमनन्तरम् ॥ ६५ ॥
आग्नेयादिष्विति ।
आदिशब्देन निरृतिवाय्वीशकोणानां ग्रहणम् ।
दिक्षु प्राग्- दक्षिणपश्चिमोत्तरासु ।
चः समुच्चये ।
" आशाश्चतस्रो लभ्यन्ते दिक्शब्देन वृषादयः " इति परिभाषणात् ।
वायवीयसंहितायामपि—-
अधर्मादींश्च पूर्वादीनुत्तरान्ताननुक्रमात् ।
इति ।
इह देवतापुरोभागस्य पूर्वत्वमित्याचार्याः ।
तथा चागमे—-
देवसाधकयोरन्तः पूर्वा सा दिगिहोच्यते ।
इति ।
अन्यत्रापि—- देवाग्रे स्वस्य चाप्यग्रे प्राची प्रोक्ता तु देशिकैः ।
प्राच्येव प्राची चोद्दिष्टा मुक्त्वा तु देवतार्चनम् ॥ इति ।
तन्त्रान्तरेऽपि—-यत्रैव भानुस्तु वियत्युदेति प्राचीति तां वेदविदो वदन्ति ।
तथा परा पूजकपूज्ययोश्च सदागमज्ञाः प्रवदन्ति तान्तु ॥ इति ।
अन्यत्रापि द्वारपूजावसरे—-देवस्य मुखमारभ्य दिशं प्राचीं प्रकल्पयेत् ।
तदादिपरिवाराणामङ्गाद्यावरणस्थितिः ॥ इति ।
अत्र युक्तिरपि ।
देहे पीठदेवतान्यासावसरे मुखे अधर्मन्यास उक्तः ।
स चाग्रभागः ।
महागणपतिपूजावसरे ग्रन्थकृदपि त्रिकोणबाह्ये
पूर्वादिचतुदीक्षु समर्चये- दित्युक्त्वा अग्रस्थबिल्ववृक्षाधः इत्युक्तवान् ।
तथा रामपूजायां द्वितीयावरणे " हनूमन्तं ससुग्रीवम् "
इत्युक्त्वा पुनराह " वाचयन्तं हनुमन्तमग्रतो धृतपुस्तकम् ।
" इति ।
अन्यच्च उत्तराभिमुखत्वेनापि पूजा विहिता ।
कर्मान्तरे च प्रतीच्यादिमुखत्वेन च ।
तत्र चाधर्मादिपूजनम् अङ्गादिपूजनं च कदाचित् क्रमान्तरेण स्यात् ।
अन्यदा क्रमेण स्यादित्यादि विरुद्धम् ।
तन्त्रान्तरे च—-
होतुः पूर्वं पूर्वभागं प्रदिष्टं सव्यं भागं दक्षिणन्त्वागमज्ञैः ।
दक्षं विद्यादुत्तरं भागमग्र्यं प्रज्ञावद्भिः पश्चिमं भागमुक्तम् ॥ इति ।
नृसिंहकल्पे च—- अथावरणपूजायां पुरः प्राचीं प्रकल्पयेत् ।
तदादिपरिवाराणां प्रादक्षिण्येन पूजनम् ॥ इति ।
नारायणीयेऽपि—- शक्तीरग्रादिपत्रेषु लक्ष्म्याद्या धृतचामराः ।
इति ।
अत एव पीठशक्त्यादिपूजने अग्रदलादीति व्याख्यास्यते ।
तेनोदङ्मुख- पूजादावपि स्वाग्रभागस्य पूर्वत्वमाकल्प्या धर्मादिपूजनमङ्गादिपूजनमिति ज्ञेयम् ।
तेन यन्त्रादावपि दलेष्वक्षरलेखने अग्रदलात् प्रभृति लेखनीयमिति ज्ञेयम् ।
इयं दिक् चरार्चायाम् ।
अथाम्बुजं यजेदिति वक्ष्यमाणक्रमेण ।
अत्राम्बुजात् पूर्वमनन्ताय नमः इत्यनन्तं पूजयेदित्यथशब्देनोक्तम् ।
तदुक्तम्—-हृद्यथ शेषमम्बुजम् ।
इति ।
शरीरे न्यासावसरे ग्रन्थकृदप्युक्तवान्—-
" अनन्तं हृदये पद्ममस्मिन् ।
" इति ॥ ६५ ॥
सर्वतत्त्वात्मकं पद्ममभ्यर्च्य तदनन्तरम् ।
मन्त्री प्रकृतिपत्राणि विकारमयकेसरान् ॥ ६६ ॥
पञ्चाशद्बीजवर्णाढ्यां कणीकां पूजयेत्ततः ।
कलाभिः पूजयेत् सार्द्धं तस्यां सूर्येन्दुपावकान् ॥ ६७ ॥
प्रणवस्य त्रिभिर्वर्णैरथ सत्त्वादिकान् गुणान् ।
आत्मानमन्तरात्मानं परमात्मानमर्चयेत् ॥ ६८ ॥
ज्ञानात्मानञ्च विधिवत् पीठमन्त्रावसानकम् ।
पीठशक्तीः केसरेषु मध्ये च सवराभयाः ॥ ६९ ॥
कलाभिरिति ।
तत्र द्वादशकलात्मकसूर्यमण्डलाय षोडशकलात्मकचन्द्र- मण्डलाय दशकलात्मकवह्निमण्डलाय इति केचन
कलाभिः सार्द्धमित्यस्यार्थं व्याचक्षते ।
अन्ये त्वन्यथा वर्णयन्ति ।
द्वादशकलादित्वमनुक्तमपि लभ्यते ।
तेन सूर्यमण्डलं सम्पूज्य तत्र द्वादशकलाः ततः सोममण्डलं तत्षोडशकलाः ततः अग्निमण्डलं
तद्दशकलाः पूजयेदिति ।
अयं साम्प्रदायिकः पक्षः ।
तस्यामिति कणीकायाम् ।
प्रणवस्य त्रिभिर्वर्णैरकारोकारमकारैः ।
कलाभिः सार्द्धं सूर्येन्दु- पावकान् पूजयेदिति सम्बन्धः ।
तदुक्तम्—- " सूर्येन्दुवह्नीन् प्रणवांशयुक्तान् " इति ।
एतेन तत्तन्मण्डलाधिष्ठातृदेवता ब्रह्मविष्ण्वीशास्तत्तन्मण्डले पूजनीया इति सूचितम् ।
यदाहुः—- सौरे बिम्बे चतुरास्यः किरीटीं हंसे सौधं कलशं चाक्षमालाम् ।
ब्रह्मा विभ्रद्वरदञ्चाभयाख्यं हस्तैर्ध्येयः सितवस्त्रश्चतुभीः ॥
सौम्ये बिम्बे गरुडे मेघनीलश्चक्रं शङ्खं सगदाब्जं दधानः ।
हारी माली कटकी सत्किरीटी विष्णुः पीतं वसनं कौस्तुभञ्च ॥
अग्नेबीम्बे वृषभे चन्द्रमौलिः श्वेतो रुद्रो दशबाहुस्त्रिनेत्रः ।
टङ्कैणाग्नित्रिशिखाह्युत्कपाल मुद्राक्षस्रग्वरदाभीतिपाणिः ॥ इति ।
अन्यत्रापि—-ब्रह्मविष्ण्वीश्वरास्त्वर्च्याः क्रमाद्वै मण्डलत्रये ।
इति ।
अथ सत्त्वादिकानिति ।
शुक्लरक्तकृष्णरूपान् ।
तदुक्तम्—-
सितरक्तासिताः प्रोक्ता गुणाः पीठोपरि स्थिताः ।
इति ।
विधिवदित्यनैतदुक्तं भवति ।
एतदनन्तरं मायाकलाविद्यापरतत्त्वानि सम्पूजयेदिति ।
आत्मादि परतत्त्वान्तमिष्ट्वा शक्तीः प्रपूजयेत् ।
इत्युक्तेः ।
वैहायसीमन्त्रप्रकाशेऽपि—-
सत्त्वं रजः शार्वरसञ्ज्ञकञ्च बिम्बानि चार्केन्दुहुताशनानाम् ।
सम्पूजयेदात्मचतुष्टयान्ते विद्यादिकं तत्त्वचतुष्टयञ्च ॥ इति ।
वायवीयसंहितायामपि—-त्रिमण्डलोपर्यात्मादितत्त्वत्रितयमासनम् ।
इति ।
पीठमन्त्रावसानकमित्यनेनाक्षिप्तानां पीठशक्तीनां पूजास्थानमाह पीठेति ।
केसरेषु पूजितपद्मकेसरेषु ।
तत्र अग्रदलाद्यष्टसु प्रादक्षिण्येन मध्ये च पीठशक्तिपूजां कृत्वा पीठमन्त्रपूजनमित्यर्थः ।
असव्येनाविशेषोक्तौ क्रमः सर्वत्र गृह्यते ।
इति परिभाषणात् ।
अत एव देहे पीठदेवतान्यासावसरे पीठशक्तिन्यास उक्तो मया ।
पीठशक्तयः पीठमन्त्राश्च तत्तन्मन्त्रे वक्ष्यन्ते ।
सवराभया इति ध्यानम् ।
आसां वर्णा अप्युक्ता आचार्यैः—-
श्वेता कृष्णा रक्ता पीता श्यामाऽनलोपमा शुक्ला ।
अञ्जनजपासमाने तेजोरूपाश्च शक्तयः प्रोक्ताः ॥ इति ।
मण्डूकादि एतदन्तं नित्यपूजायामपि समानम् ॥ ६७-६९ ॥
हेमादिरचितं कुम्भमस्त्राद्भः क्षालितान्तरम् ।
चन्दनागुरुकर्पूरधूपितं शोभनाकृतिम् ॥ ७० ॥
आवेष्टिताङ्गं नीरन्ध्रं तन्तुना त्रिगुणात्मना ।
अचीतं गन्धपुष्पाद्यैः कूर्च्चाक्षतसमन्वितम् ॥ ७१ ॥
एवं पूजिते पीठे कुम्भस्थापनमाह हेमादीति ।
आदिशब्देन राजतताम्रमृण्मयाः शक्त्यनुसारेण ज्ञेयाः ।
कुम्भं कलशम् ।
तदुक्तं महाकपिलपञ्चरात्रे—-
सौवर्णं कलशं रम्यं रौप्यं ताम्रमथापि वा ।
निर्देषं मृण्मयं वापि चन्दनेन विलेपितम् ॥ इति ।
अन्यत्रापि—- सौवर्णं राजतं वापि मात्तीकं वा यथोदितम् ।
क्षालयेदस्त्रमन्त्रेण कुम्भं सम्यक् सुरेश्वरि ॥ इति ।
अन्यत्र कलशशब्दव्युत्पत्तिः प्रमाणञ्चोक्तम्—-
कलां कलां गृहीत्वा वै देवानां विश्वकर्मणा ।
निमीतोऽयं सुरैर्यस्मात् कलशस्तेन उच्यते ॥
पञ्चाशदङ्गुलव्यास उत्सेधः षोडशाङ्गुलः ।
कलशानां प्रमाणन्तु मुखमष्टाङ्गुलं भवेत् ॥ इति ।
पद्मपादाचार्यैस्तु कलाः शेरते इति व्युत्पत्तिः कृता ।
अस्त्राद्भिः अस्त्रमन्त्र- जप्तोदकैः ।
त्रिगुणात्मना त्रिगुणेन सत्त्वादिगुणरूपेण च तन्तुना आवेष्टिताङ्गम् ।
तेन कण्ठे सूत्रवेष्टनं कुर्वन्ति ।
नीरन्ध्रमिति कुम्भविशेषणम् ।
तदुक्तं वायवीय- संहितायाम्—-
सौवर्णं राजतं वापि ताम्रं मृण्मयमेव वा ।
गन्धपुष्पाक्षताकीर्णं कुशदूर्वाङ्कुराचीतम् ।
सितसूत्रावृतं कण्ठे नववस्त्रयुगावृतम् ॥ इति ।
केचित्तु नीरन्ध्रं यथा स्थात्तथा तन्तुना आवेष्टिताङ्गमिति योजयन्ति ।
तन्मते सर्वेऽपि घटः तन्तुवेष्टितो भवति ।
तदात्राङ्गशब्दवैयर्थ्यं स्यात् ।
अन्यत्र विशेषः—-
कन्याकत्तीतसूत्रेण त्रिगुणेन च कर्मणा ।
गुणत्रयात्मकेनैव वेष्टयेदभितः समम् ॥ इति ।
आदिशब्देन धूपः ॥ ७०-७१ ॥
नवरत्नोदरं मन्त्री स्थापयेत्तारमुच्चरन् ।
एक्यं सङ्कल्प्य कुम्भस्य पीठस्य च विधानवित् ॥ ७२ ॥
नवरत्नोदरमिति ।
नवरत्नानि षष्ठे वक्ष्यन्ते ।
एवम्भूतं कुम्भं तारमुच्चरन् स्थापयेदित्यन्वयः ।
अत्र तारशब्देन यथास्वं तत्तन्मन्त्रेषु पञ्चप्रणवानामपि ग्रहणमिति ज्ञेयम् ।
मन्त्रीत्यनेन मूलमन्त्रोच्चारोऽप्युक्तः ।
विधानविदित्यनेन विनापि पञ्चाश- दौषधिक्वाथैः तज्जन्य सामर्थ्येपपादनक्षम इत्युक्तम् ॥ ७२ ॥
क्षीरद्रुमकषायेण पलाशत्वग्भवेन वा ।
तीर्थेदकैर्वा कर्पूरगन्धपुष्पसुवासितैः ॥ ७३ ॥
आत्माभेदेन विधिवन्मातृकां प्रतिलोमतः ।
जपन्मूलमनुं तद्वत् पूरयेद् देवताधिया ॥ ७४ ॥
क्षीरेति ।
क्षीरद्रुमकषायेण अश्वत्थोदुम्बरप्लक्षवटत्वक्कषायेण इत्यर्थः ।
आयुर्वेदोक्तरीत्या चतुर्थांशावशेषः कषायो ग्राह्यः ।
विधिवदिति सबिन्दुकम् ।
तद्वदिति विलोमेन ।
आत्माभेदेन देवताधिया पूरयेदिति सम्बन्धः ।
आत्मदेवताजलानामैक्यं भावयन्नित्यर्थः ॥ ७३-७४ ॥
शङ्खे क्वाथाग्बुसम्पूर्णे गन्धाष्टकमभीष्टदम् ।
विलोड्य पूजयेत्तस्मिन्नावाह्य सकलाः कलाः ॥ ७५ ॥
दश वह्नेः कलाः पूर्वं द्वादश द्वादशात्मनः ।
कलाः षोडश सोमस्य पश्चात् पञ्चाशतं कलाः ॥ ७६ ॥
जपित्वा प्रतिलोमेन मूलमन्त्रञ्च मन्त्रवित् ।
समाहितेन मनसा ध्यायन्मन्त्रस्य देवताम् ॥ ७७ ॥
शङ्ख इति स्थापितशङ्खादन्यस्मिन् ।
तत्र शङ्खस्थापनान्तं कर्म पूर्ववत् कार्यम् ।
क्वाथाम्बुनेति कलशपूरणावशिष्टेन सम्पूर्ण इति ।
समूलेन हृदयेन गन्धाष्टकं विलोड्य इति पिष्टगन्धाष्टकम् ।
तदुक्तम्—-
अष्टमूर्त्त्यात्मकं पिष्टमष्टगन्धं विलोड्य च ।
इति ।
अभीष्टदमित्यनेन गन्धद्वारामित्यस्य जप उक्तः ।
पूजयेदिति शिरसा धेनुमुद्रां प्रदर्श्येति ज्ञेयम् ।
सकलाः चतुर्नवति ।
द्वादशात्मन इति सूर्यस्य ।
पश्चादित्यनेनै- तदुक्तम् ।
अकारजकलानन्तरं हंस इति ।
उकारजानन्तरं प्रतद्विष्णुरिति ।
मकार- जानन्तरं त्र्यम्बकमिति ।
बिन्दुजानन्तरं तत्पदादिकम् ।
नादजानद्वारं विष्णुर्येनिमिति ऋचं पठेत् ।
पञ्चाशत् एकपञ्चाशत्कलाः तारपञ्चभेदोत्पन्नाः ।
अत्राष्टत्रिंशत्कलाः तत एकपञ्चाशत्कलाः पश्चात् पञ्चगुप्तकलाश्च शङ्खजले पूजनीयाः ।
ताश्च इच्छाज्ञाना- क्रियाचिदात्मानन्दात्मिकाः ।
एवञ्चाष्टत्रिंशत्कलाः पञ्चाशत्कला एकाधिकाः पञ्च गुप्तकलाश्चेति चतुर्नवतिदेवतात्मकत्वम् ।
यदाहुराचार्याः—- प्रथमं प्रकृतेर्हंसः प्रतद्विष्णुरनन्तरम् ।
त्रियम्बकस्तृतीयः स्याच्चतुर्थस्तत्पदादिकः ॥
विष्णुर्येनिमितीत्यादि पञ्चमः कल्प्यतां मनुः ।
चतुर्नवतिमन्त्रात्मदेवमा (ता) वाह्य पूज्यताम् ॥
अत्र याः पञ्च सम्प्रोक्ता ऋचस्तारस्य पञ्चभिः ।
कलाप्रभेदैश्च मिथो युज्यन्ते ताः पृथक् पृथक् ॥ इति ।
अन्यत्रापि—- चतुर्नवति सङ्ख्याश्च समावाह्य कलाः क्रमात् ।
इति ।
समाहितेनेति ।
मन्त्रस्य देवतां समाहितेन मनसाध्यायन् प्रतिलोमेन मूलमन्त्रं जपित्वा तामेवावाह्य पूजयेदिति सम्बन्धः ।
इदं चकारानमन्त्रवित्पदाच्च लभ्यते ।
यदाहुः—- मूलमन्त्र समुच्चार्य देवमावाह्य मन्त्रवित् ।
अभ्यर्च्य शङ्खसलिलं दिव्यकुम्भे विनिक्षिपेत् ॥ इति ।
समाहितेन मनसेति प्रसङ्गसङ्गत्याऽत्रोक्तं परं सर्वत्र ध्याने इदं विशेषणं ज्ञेयम् ।
अन्यथा ध्यानस्यैव कर्त्तुमशक्यत्वात् ॥ ७५-७७ ॥
प्राणप्रतिष्ठां कुर्वीत तत्र तत्र विचक्षणः ।
कलात्मकं शङ्खसंस्थं क्वाथं कुम्भे विनिक्षिपेत् ॥ ७८ ॥
प्राणेति ।
प्रतिष्ठाशब्दव्युत्पत्तिरुक्ता महाकपिलपञ्चरात्रे—-
प्रतिष्ठाशब्दसंसिद्धिः प्रतिपूर्वात्तु तिष्ठतेः ।
बह्वर्थत्वान्निपातानां संस्कारादी प्रतेः स्थितिः ॥
अर्थस्तदयमेतस्य गीयते शाब्दिकैर्जनैः ।
विशेषसन्निधिर्या तु क्रियते व्यापकस्य हि ॥
सन्मूर्त्तौ भावना मन्त्रैः प्रतिष्ठा साऽभिधीयते ।
इति ।
तत्र प्रयोगः ।
धूम्राचीराहूता भवेत्यावाहन्याद्यष्टमुद्राः प्रदर्श्य यं धूम्राचीषे नम इति सम्पूज्य प्राणप्रतिष्ठामन्त्रे
अमुष्यपदस्थाने षष्ठ्यन्तं धूम्राचीःपदं प्रक्षिप्य प्राणप्रतिष्ठां कुर्यात् ।
एवं सर्वास्वपि कलासु ।
अथवा दशानामप्यग्निकलानाम् एकदैवावाहनादि कृत्वा प्रत्येकं पूजां कृत्वा प्राणप्रतिष्ठामन्त्रे
अमुष्यपदस्थाने सर्वासां षष्ठ्यन्तं नामोच्चार्य प्राणप्रतिष्ठां कुर्यात् ।
कलाध्यानं द्वितीयपटलोक्तमनुसन्धेयम् ।
तत्र तत्रेत्यस्यायमर्थः ।
प्रथमं दशवह्निकलानां ततो द्वादशसूर्यकलानां ततः षोडशसोमकलानां ततो दशाकारजानां तदृचस्ततो
दशोकारजानां तदृचस्ततो दश मकारजानां तदृचस्ततः पञ्चानां बिन्दुजानां तदृचस्ततः षोडशनादकलानां
तदृचस्ततः पञ्चगुप्तकलानाम् ।
विचक्षण इत्यनेन सर्वत्र त्रिः प्राणप्रतिष्ठामन्त्रं जपेदित्युक्तम् ।
अन्ये तु प्रतिलोमेनेति सर्वत्र योजयन्ति ।
यत्तु आभिचारिकाभिषेकविषयम् ।
तदा प्रथमं नादकलास्तादृक् ततो बिन्दुकलास्तादृक् ततो मकारकलास्तादृक् तत उकारकलास्तादृक्
ततोऽकारकलास्तादृक् ततः सोमसूर्याग्नीनाम् ।
यदाहुः—-
स्थण्डिलाधारगं शङ्खं पूरयित्वा तदम्बुना ।
अष्टमूर्त्त्यात्मकं पिष्टमष्टगन्धं विलोड्य च ॥
कलानादक्रमेणैव स्वस्वनामसमायुताः ।
हृल्लेखाङ्गानि विन्यस्य प्रत्येकं ताः प्रयोजयेत् ॥
अत्र नादकलान्ते च विष्णुर्येन्यादिकां कलाम् ।
सर्वासां व्यापिनीं व्याप्तां सम्यगावाह्य पूजयेत् ॥
स्पृष्ट्वा सुस्थापनमनुं दक्षिणेनैव पाणिना ।
युक्तनादकलानाम्नेत्यादिना योजयेत् त्रिशः ॥
बिन्द्वादितारमेदानां कलाः सौम्या दिनेशितुः ।
अग्नेरपि समावाह्य तथैवाभियजेत् क्रमात् ॥ इति ।
विनिक्षिपेदिति मूलमन्त्रेणेति शेषः ।
तदुक्तम्—-
पुनस्तोयं कलात्मकम् ।
उच्चारयेन्मूलमन्त्रं कलशे सन्निधापयेत् ॥ इति ।
अन्यत्रापि—- कलशे तत् क्षिपेन्मूलमन्त्रमुच्चार्य मन्त्रवित् ।
इति ॥ ७८ ॥
गन्धाष्टकं तत् त्रिविधं शक्तिविष्णुशिवात्मकम् ।
चन्दनागुरुकर्पूरचोरकुङ्कुमरोचनाः ॥ ७९ ॥
जटामांसीकपियुताः शक्तेर्गन्धाष्टकं विदुः ।
चन्दनागुरुह्नीवेरकुष्ठकुङ्कुमसेव्यकाः ॥ ८० ॥
जटामांसीमुरमिति विष्णोर्गन्धाष्टकं विदुः ।
चन्दनागुरुकर्पूरतमालजलकुङ्कुमम् ।
कुशीतकुष्ठ संयुक्तं शैवं गन्धाष्टकं स्मृतम् ॥ ८१ ॥
गन्धाष्टकं विलोड्य इति यदुक्तं तदाह गन्धाष्टकमिति ।
शक्तिविष्णु- शिवात्मकमिति तदात्मकतोक्त्या अत्यन्तप्रियत्वं सूचितम् ।
चोर इति भटिऊर इति कान्यकुब्जभाषायाम् ।
रोचना गोरोचना ।
कपि गण्ठिवनेति प्रसिद्धम् ।
ह्रीवेरो वालकम् ।
कुष्ठं कूठ इति प्रसिद्धम् ।
सेव्यकमुशीरम् ।
जटामांसीमुरमिति समाहारद्वन्द्वैकत्वेन नपुंसकत्वम् ।
सुरा स्वनाम्ना प्रसिद्धाः ।
तमालं पत्रजम् ।
जलं वालकम् ।
कुशीतं रक्तचन्दनम् ।
एतानि समभागानि ग्राह्याणि ।
गणपतिसंहितायां गणेशगन्धाष्टकमप्युक्तम्—-
स्वरूपं चन्दनं चोरं रोचनागुरुमेव च ।
मदं भृगद्वयोद्भूतं कस्तूरीचन्द्रसंयुतम् ।
अष्टगन्धं विनिदीष्टं गणेशस्य महाविभोः ॥ इति ॥ ७९-८१ ॥
पाशादित्त्र्यक्षरात्मान्ते स्यादमुष्यपदन्ततः ।
क्रमात् प्राणा इह प्राणास्तथा जीव इह स्थितः ॥ ८२ ॥
अमुष्य सर्वेन्द्रियाणि भूयोऽमुष्यपदं भवेत् ।
वाङ्मनोनयनश्रोत्रघ्राणप्राणपदान्यथ ॥ ८३ ॥
पश्चादिहागत्य सुखं चिरं तिष्ठन्तु ठद्वयम् ।
अयं प्राणमनुः प्रोक्तः सर्वजीवप्रदायकः ॥ ८४ ॥
प्राणप्रतिष्ठां कुर्वीतेत्युक्तमतस्तन्मन्त्रमाह पाशादीति ।
पाशादित्र्यक्षरो नवमे वक्ष्यते ।
आत्मा जीवमन्त्रः ।
अत्र पाशादित्र्यक्षर आदौ आत्ममन्त्रः अन्त इत्यनेन यं रं लं वं शं षं सं हौम् इत्येतान्यष्टबीजानि
त्रयोविंशे वक्ष्यमाणानि सङ्गृहीतानि इति सम्प्रदायविदः ।
अत्र पाशाद्यात्मान्तानां प्रत्यमुष्यपदम् आवृत्तिरपि ज्ञेया ।
त्रयोविंशे तथा वक्ष्यमाणत्वात् ।
अमुष्यपदस्यायमर्थः ।
साध्यदेवतायन्त्रादेः षष्ठ्यन्तं नामपदं प्रयोक्तव्यमिति ।
तथा च " इमममुष्य पुत्रममुष्याः पुत्रमस्यै विश एष वः कुरवो राजा " इत्यस्याः श्रुतेः प्रयोगकथने कल्प
(श्रौत) सूत्रे कात्यायनः " असावित्यपनोदे " इति ।
तद्भाष्यञ्च अपनोदः अदःपदमपनोद्य नाम प्रयोक्तव्यमित्यर्थ इति ।
नारायणीयेऽपि—-
अमुकपदं यद्रूपं यत्र मन्त्रेषु दृश्यते ।
साध्याभिधानं तद्रूपं तत्र स्थाने नियोजयेत् ॥ इति ।
तट्टीकायामपेक्षितार्थद्योतनिकायामेवमुक्तम् ।
एतच्च पुरुषोत्तममन्त्रव्यतिरिक्त- स्थानेऽवगन्तव्यम् ।
तत्रामुकशब्दे दुरितपदस्यालक्ष्मीपदस्य वा प्रयोगादिति ।
तथेति अमुष्यपदं वदेदित्यर्थः ।
वाङ्मनोनयनमिति नयनपदपर्यायस्य चक्षुःपदस्योपलक्षकम् ।
केवलं छन्दोनुरोधात्तथोपदेशः ।
तथा च त्रयोविंशे असावेव " सर्वेन्द्रियाण्यमुष्यान्ते वाङ्मनश्चक्षुरन्ततः " इति ।
मन्त्रविदामप्युपदेशे चक्षुःपदमेवोपदिष्टमुपलभ्यते सम्प्रदाय- विदाम् ।
तथा चाचार्यवचनं दीक्षापटले—-
तद्वद्वाङ्मनसी उदीर्य तदनुप्राणा इहाथायान्त्विति ।
तट्टीकाकाराः पद्मपदाचार्या व्याख्यातवन्तः " वाङ्मनसो ग्रहणं चक्षुःश्रोत्र- घ्राणप्राणानामुपलक्षणार्थमिति " ।
तथा प्राणप्रतिष्ठापटले आचार्याः—-
तद्वद्वाङ्मनसं दृशं श्रुतिमथो घ्राणञ्च सप्राणकम् ।
इति ।
अत्रापि टीकाकारै- र्व्याख्यातम् " दृकपदेन चक्षुःपदं गृह्यते " इति ।
एवञ्चेन्न स्यात् क्वचिन्नयनपदं क्वच्चिक्षुःपदं क्वचिद्दृक्पदं तद्वत् क्वचिल्लोचनपदमपि स्यात् ।
तच्चायुक्तम् ।
नहि पर्यायेणोच्चारितो मन्त्रः स मन्त्रो भवति अन्यथा मन्त्रोद्धारश्लोका एव मन्त्रा भवेयुः।
तस्मान्नयनपदं चक्षुः पदोपलक्षकमिति स्थितम् ।
घ्राणप्राणपदानीति ।
अत्र मन्त्रे प्राणा इति बहुवचनान्तता ज्ञेया ।
वागादीनां बहूनां पदानां द्वन्द्वसमासात् ।
त्रयोविंशे वक्ष्यति " वायं श्रोत्रघ्राणपदे प्राणाः " इति ।
ठद्वयं स्वाहा ।
नन्वत्र मन्त्रे यदमुष्यस्थाने साध्यदेवतायन्त्रादेर्नामपदप्रयोगः तस्य कथं मन्त्रत्वमिति चेत् ।
मीमांसाधिकरणसिद्धान्तसिद्धमिति ब्रूमः ।
तथाहि द्वितीयेऽध्याये भावार्थचरणे " अनाम्नातेष्वमन्त्रत्वमाम्नातेषु हि विभागः स्यात् " इत्यत्राधिकरणे ऊह-
प्रवरनामधेयानां मन्त्रत्वममन्त्रत्वं वेति संशय तेषाममन्त्रत्वं सिद्धान्तितम् ।
तत्प्रसङ्गे- नेदमपि विचारितं यदूहप्रवरनामधेयानां प्रक्षेपे सर्वस्यैवामन्त्रत्वम् उत प्रक्षिप्तस्यैवेति ।
तत्र प्रक्षिप्तस्यैवामन्त्रत्वं सिद्धान्तितम् ।
तत्प्रसङ्गानुप्रसङ्गेनेदमपि चिन्तितम् ।
यत्र मन्त्रे " इमममुष्य पुत्रममुष्याः पुत्रमस्यै विश एष वो राजा " इत्यादौ यत् सर्वनामस्थाने
राजादिशब्दप्रयोगः तस्यामन्त्रत्वमुत मन्त्रत्वमिति ।
तत्राम्नातस्य सर्वनाम्नो राजादि- पदप्रयोगे ।
प्रामाण्यसमर्पकत्वमात्रमिति ।
ऊहादिवदमन्त्रत्वमिति पूर्वः पक्षः ।
सिद्धान्तस्तु ।
भवेदेवं यद्याम्नातस्य सर्वनाम्नो राजादिपदप्रयोगे प्रामाण्यसमर्पकत्वं स्यात् ।
किन्तु सर्वनाम्नां तत्स्थाने शब्दान्तरसमर्पकत्वमेव ।
तथाहि ।
ऊहे तु " अग्नये त्वाजुष्टं निर्वपामि " इति प्रकृतौ श्रुतौ च मन्त्रः ।
विकृतौ तु सूर्यदेवताके चरौ न्यायात् सूर्यायेति पदमूह्यते इति ।
भवतु तस्यामन्त्रत्वम् ।
एवं प्रवरशब्देनासितदेवलशाण्डिल्य- प्रवराभिधायिपदकीर्त्तनम्, नामधेयशब्देन च यजमानाभिधायि
विष्णुशर्मादि नाम- कीर्त्तनमभिमतम् ।
तेषाञ्च वेदे अनाम्नानात् " प्रवरनामधेयानि कीर्त्तयेत् "
इति वाक्येन च मन्त्रप्रयोज्य विशेषरूपेणाम्नानाभावान्न मन्त्रत्वम् ।
सर्वनाम्नामाम्नानन्तु राजादि- विशेषनाम्नाम् आनन्त्यात् आम्नातुमशक्यत्वात्
राजादिविशेषार्थप्रतिपादनार्थम् ।
न चास्य स्वतस्तत्प्रतिपादनसामर्थ्यमस्तीति ।
स्वयं प्रयोगानर्हं सत् विशेषशब्दानेव प्रयोगार्हानुपलक्षयति ।
यथा तस्यापत्यमित्यादौ ।
अतो विवक्षितस्वरूपराजाद्यर्थ- विशेषविषयानेव शब्दान् मन्त्रवाक्यनिवेशिनो दर्शयति ।
इत्येतदर्थमेव सर्वनामपदं दृष्टार्थेनाऽध्ययनविधिनाऽध्यापितमिति निश्चीयते ।
तस्माद्राजादिनाम्नामप्याम्नात- प्रायत्वान्मन्त्रत्वमेवेति ॥ ८२-८४ ॥
पश्चादश्वत्थपनसचूतकोमलपल्लवैः ।
इन्द्रवल्लीसमाबद्धैः सुरद्रुमधिया गुरुः ।
कुम्भवक्त्रे पिधायास्मिंश्चषकं सफलीकृतम् ॥ ८५ ॥
संस्थापयेत् फलधिया विधिवत् कल्पशाखिनाम् ।
ततः कुम्भं निर्मलेन क्षौमयुग्मेन वेष्टयेत् ॥ ८६ ॥
इन्द्रवल्लीति इन्द्रवारुणी लताविशेषः ।
चषकं कलशजातीयं शरावादि ।
विधिवदित्यनेन मूलमन्त्रोच्चारणमुक्तम् ।
क्षौममित्यतसीसम्भवम् ।
तदभावे पट्ट- वस्त्रादि ।
अन्यत्र एकवस्त्रवेष्टनमप्युक्तम् ।
अतिसूक्ष्मतरेणैव विशुद्धेन नवेन च ।
मायातत्त्वस्वरूपेण वेष्टयेद्वाससा घटम् ॥ इति ॥ ८५-८६ ॥
मूलेन मूत्तीं कॢप्तास्मिंश्छायायां कल्पशाखिनाम् ।
आवाह्य पूजयेत्तस्यां मन्त्री मन्त्रस्य देवताम् ॥ ८७ ॥
मन्त्रस्य देवतामित्येकमन्त्रदीक्षायाम् ।
पञ्चायतनदीक्षापक्षे पञ्चकलशान् संस्थाप्य तत्तत्कलशे तत्तद्देवतामावाहयेदिति मन्त्रीत्यनेनोक्तम् ।
तदुक्तमाचार्यैः—- प्रोक्तेनैवं कलशविधिनैकेन वानेककुम्भैः ।
इति ।
पञ्चायतनदीक्षायां देवतास्थापनक्रम उक्तो ज्ञानमालायाम्—-
यदा तु शङ्करं मध्ये एशान्यां श्रीपतिं यजेत् ।
आग्नेयाञ्च तथा हंसं नैरृत्यां पार्वतीसुतम् ॥
वायव्याञ्च सदा पूज्या भवानी भक्तवत्सला ।
यदा तु मध्ये गोविन्दमैशान्यां शङ्करं यजेत् ॥
आग्नेयां गणनाथञ्च नैरृत्यां तपनन्तथा ।
वायव्यामम्बिकाञ्चैव यजेन्मन्त्री समाहितः ॥
सहस्रांशुं यदा मध्ये एशान्यां पार्वतीपतिम् ।
आग्नेयामेकदन्तञ्च नैरृत्यामच्युतं यजेत् ॥
वायव्यां पूजयेद् देवीं भोगमोक्षैकभूमिकाम् ।
भवानीन्तु यदा मध्ये एशान्यां माधवं यजेत् ॥
आग्नेयां पार्वतीनाथं नैरृत्यां गणनायकम् ।
प्रद्योतनन्तु वायव्यामाचार्यस्तु प्रपूजयेत् ॥
हेरम्बन्तु यदा मध्ये एशान्यामच्युतं यजेत् ।
आग्नेयां पञ्चवक्त्रन्तु नैरृत्यां जगदम्बिकाम् ॥
वायव्यां द्युमणिञ्चैव यजेन्मन्त्री ह्यतेन्द्रितः ।
स्वस्थानवजीता देवाः शोकदुःखभयप्रदाः ।
तन्मण्डलस्थितो राजा साधकश्च विनश्यति ॥ इति ।
अन्यत्रापि—- शम्भौ मध्यगते हरीनहरभूदेव्यो हरौ शङ्करे-
भास्येनागसुता रवौ हरगणेशाजाम्बिकाः स्थापिताः ।
देव्यां विष्णुहरैकदन्तरवयो लम्बोदरेऽजेश्वरा-
र्येनाः शङ्करभागतोऽतिशुभदा व्यस्तास्तु ते हानिदाः ॥ इति ।
पण्डिता अपि—- " शं ना रग दे मध्यान्ना शं गरभेशतः सूशं
ग नादे दे ना शं गर ग नाशं भसू विदिक् पूज्याः ॥ " इति ।
अन्यत्राग्नेयादिक्रमेण स्थापनमुक्तम् ।
सूर्यैकदन्ताच्युतशक्तिरुद्रा विघ्नेश्वरेशाद्रिसूतार्ककृष्णाः ।
श्रीनाथविघ्नेशभगाम्बिकेशाश्चण्डीशहेरम्बपतङ्गकृष्णाः ॥
श्रीशम्भुसूर्याखुरथाम्बकृष्णाः प्रदक्षिणं मध्यविदिक्षु पूज्याः ।
स्वस्थानगाः सर्वमनोरथाप्त्यै अर्थं विनिघ्नन्ति परत्र संस्थाः ॥ इति ।
अन्यत्रापि—- मध्येऽभ्यर्च्य हरिं गणेननगजाशर्वा गणं मध्यतः
शम्भ्वार्यारविविष्णवो रविमथो विघ्नाजशक्तीश्वराः ।
मध्ये शक्तिमथेशविघ्नरवयो विष्णुश्च मध्ये हरं
सूर्येभास्यशिवाच्युता हि विहिता आग्नेयकोणादिमाः ॥ इति ।
अत्रोभयत्र स्थापनक्रमे फलतः साम्यमेव ।
पूजा तु गणपतिमारभ्य ।
यत्र गणपतेर्मुख्यत्वं तत्र सूर्यमारभ्येति ज्ञेयम् ।
यदाहुः—-
मुख्ये पुष्पाञ्जलिं दत्त्वा गणेशाद्यर्चनं भवेत् ।
गणेश एव मुख्यश्चेत् यत्र सूर्यक्रमाद्भवेत् ॥ इति ।
एतद्व्याख्यानमुभयथा कुर्वन्ति ।
पुष्पाञ्जलिमिति मुख्ये प्रथमतः पुष्पाञ्जलि- मात्रं कृत्वा पश्चाद् गणेशाद्यर्चनं कृत्वा मुख्यपूजेति ।
अपरे तु—-पुष्पाञ्जलिशब्देन पूजासमाप्तौ यः पुष्पाञ्जलिः स सङ्गृहीतः ।
तेन मुख्यदेवपूजानन्तरं गणेशाद्यर्चनमिति ।
एतच्च स्वस्वगुरुसम्प्रदायानुसारेण ज्ञेयम् ।
अयमेव देवतास्थापनक्रमो नित्यपूजाया- मपि समानः ।
तत्र नित्यपूजा शालग्रामे मणौ यन्त्रे वा पाषाणादिप्रतिमायां वा कार्या ।
तदुक्तं ज्ञानमालायाम्—-गिरिजारतसौख्याय जाता विघ्नपराः सुराः ।
तच्छ्रुत्वा चरितं देव्या शापो दत्तोऽतिदारुणः ॥
पार्वतीशापसंयुक्ता देवा अश्मत्वमागताः ।
विष्णुना शङ्करेणापि तथाऽन्यैः सुरसत्तमैः ॥
संस्तुता वरदा जाता पाषाणत्वेऽपि भो सुराः ।
स्वस्थाने पूजयिष्यन्ति पुरुषार्थचतुष्टयम् ॥
दातुं समर्था मद्वाक्यादेष एव वरोऽपीतः ।
तस्मात् पूजा विधातव्या पाषाणप्रतिमासु च ॥ इति ।
हयशीर्षपञ्चरात्रे—- मृण्मयी दारुघटिता लोहजा रत्नजा तथा
शैलजा गन्धजा चैव कौसुमी सप्तधा स्मृता ॥
कौसुमी गन्धजा चैव मृण्मयी प्रतिमा हिता ।
तत्कालपूजिताश्चैताः सर्वकामफलप्रदाः ॥ इति ।
महाकपिलपञ्चरात्रेऽपि—-शैलजा लोहजा वापि रत्नजा वाथ दारुजा ।
मृण्मयी चेति पञ्चैताः प्रतिमाः परिकीत्तीताः ॥
सर्वेषामेव देवानां महानीला यशःप्रदा ।
दारुजा कामदा प्रोक्ता सौवर्णी भुक्तिमुक्तिदा ॥
राजती स्वर्गफलदा ताम्री ह्यायुवीवधीनी ।
कांस्या बह्वापदं हन्ति रैतिकी शत्रुनाशिनी ॥
सर्वभोगप्रदा शैली स्फाटिकी दीप्तिकारिका ।
महाभोगप्रदा ख्याता मृण्मयी खलु शोभना ॥
मानाङ्गुलप्रमाणेन दशपञ्चाङ्गुलात्मिका ।
गृहे तु प्रतिमा पूज्या नाधिका हि प्रशस्यते ॥ इति ।
अन्यत्रापि—- अङ्गुष्ठपर्वादारभ्य वितस्तिर्यावदेव तु ।
गृहे तु प्रतिमा कार्या नाधिका शस्यते बुधैः ॥ इति ।
यत्तु—- सौम्या तु हस्तमात्रा वसुदा हस्तद्वयोच्छिरता प्रतिमा ।
क्षेमसुभिक्षाय भवेत् त्रिचतुर्हस्तप्रमाणोच्चा ॥ इति ।
तत् स्थापितप्रतिमाविषयं ज्ञेयम् ।
मृण्मयां तत्रैव विशेष उक्तः—-
मृण्मयीं प्रतिमां वक्ष्ये यथावत्तां निबोध मे ।
पक्वापक्वा द्विधा प्रोक्ता मृण्मयी प्रतिमा क्रमात् ॥
सर्वे लोका न शंसन्ति प्रतिमां दग्धमृण्मयीम् ।
अपक्वा प्रतिमा शस्ता सैव कार्या विचक्षणैः ॥
सुधया नैव कर्त्तव्या नाश्मचूर्णैः कदाचन ।
मृदैव मृण्मयीं कुर्याद् यथावदनुपूर्वशः ॥
ब्राह्मणस्य सिता मृद्वै क्षत्रियस्याऽरुणा स्मृता ।
विशां पीता भवेन्मृद्वै कृष्णा शूद्रस्य कीत्तीता ॥ इति ।
अन्यत्र विशेषः—- नृपभयमत्यङ्गायां हीनाङ्गायामकल्पता कर्त्तुः ।
क्षामोदर्यां क्षुद्भयमर्थविनाशः कृशाङ्गायाम् ॥
मरणन्तु सक्षतायां शस्त्रनिपातेन निदीशेत् कर्त्तुः ।
वामे विनता पत्नीं दक्षिणविनता हिनस्त्यायुः ॥
अन्धत्वमूर्द्धदृष्टौ करोति चिन्तामधोमुखी दृष्टिः ।
सर्वप्रतिमास्वेवं शुभाशुभं भास्करोक्तमवगच्छेत् ॥ इति ।
अन्यत्रापि—- नाधिकाङ्गी न हीनाङ्गी कर्त्तव्या देवता क्वचित् ।
अधिका शिल्पिनं हन्यात् कृशा चैवार्थनाशिनी ॥
कृशोदरी तु दुभीक्षं निर्मांसा धननाशिनी ।
वक्रनासा तु दुःखाय सङ्क्षिप्ताङ्गी भयङ्करी ॥
चिपिटा दुःखशोकाय अनेत्रा नेत्रनाशिनी ।
दुःखदा हीनवक्त्रा तु पाणिपादकृशा तथा ॥
हीनांसा हीनजङ्घा च भ्रमोन्मादकरी नृप ।
शुष्कवक्त्रा च राजानं कटिहीना च मारयेत् ॥
पाणिपादविहीनायां जायते नरको महान् ।
जङ्घाहीना च या मूत्तीः शत्रुकल्याणकारिणी ॥
पुत्रमित्रविनाशाय हीना वक्षःस्थलेन या ।
सम्पूर्णावयवा या तु आयुर्लक्ष्मीप्रदा सदा ॥
एवं लक्षणमासाद्य कर्त्तव्या मूत्तीरुत्तमा ॥ इति ।
अन्यत्र विशेषः—- खण्डिते स्फुटिते भ्रष्टे दग्धे मानविवजीते ।
यागहीनेऽथवोच्छिष्टे पतिते दुष्टभूमिषु ॥
अन्यमन्त्राचीते चैव पतितस्पर्शदूषिते ।
दशस्वेतेषु नो चक्रुः सन्निधानं दिवौकसः ॥
इति सर्वगतो विष्णुः परिभाषां चकार ह ॥ इति ।
अन्यत्र—- खण्डितां स्फुटितां जीर्णामवलीढाञ्च वह्निना ।
प्रतिमां वर्जयेद् यत्नाद् भग्नां स्वाल्लक्षणाच्च्युताम् ॥
निक्षिपेद्दारुजामग्नौ तथाऽन्यामप्सु निक्षिपेत् ॥ इति ।
तथा—- एकाहपूजाविहतौ कुर्याद् द्विगुणमर्चनम् ।
त्रिरात्रे तु महापूजां सम्प्रोक्षणमतः परम् ॥
मासादूर्द्धमनेकाहं पूजा यदि विहन्यते ।
प्रतिष्ठैवेष्यते कैश्चित् कैश्चित् सम्प्रोक्षणक्रमः ॥
सम्प्रोक्षणलक्षणं यथा तत्रैव—-
सम्प्रोक्षणन्तु देवस्य देवमुद्वास्य पूर्ववत् ।
पञ्च पञ्च क्रमेणैव स्नापयित्वा मृदम्भसा ॥
गवां रसैश्च संस्नाप्य दर्भतोयैवीशोध्य च ।
प्रोक्षयेत् प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ॥
सपुष्पं सकुशं पाणिं न्यस्य देवस्य मस्तके ।
पञ्चवारं जपेन्मूलमष्टोत्तरशतोत्तरम् ॥
ततो मूलेन मूर्द्धादि पीठान्तं संस्पृशेदपि ।
तत्त्वन्यासं लिपिन्यासं मन्त्रन्यासञ्च विन्यसेत् ॥
प्राणप्रतिष्ठामन्त्रेण प्रतिष्ठापनमाचरेत् ।
पूजाञ्च महतीं कुर्यात् स्वतन्त्रोक्तां यथाविधिः ॥
यागहीनादिषु प्रायः सम्प्रोक्षणविधिः स्मृतः ॥ इति ।
अन्यत्रापि—- शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु वा ।
नित्यपूजा हरेः कार्या न तु केवल भूतले ॥ इति ।
रामपूर्व्वतापनीयेऽपि—-सोभयस्याऽस्य देवस्य विग्रहो यन्त्रकल्पना ।
विना यन्त्रेण चेत् पूजा देवता न प्रसीदति ॥ इति ।
संहितायामपि—- यन्त्रं मन्त्रमयं प्राहुर्देवता मन्त्ररूपिणी ।
यन्त्रेणाऽपूजितो देवः सहसा न प्रसीदति ॥
तथा—- सर्वेषामपि मन्त्राणां यन्त्रे पूजा प्रशस्यते ।
इति ।
ईशानशिवेनाप्युक्तम्—-शक्तिं निजैक्येन तथैव चक्रे चित्रे पटे वा यजनं न भूमौ ।
मोहादसौ स्थण्डिलगां यजेच्चेद् भ्रंश्येत् त्रिवर्गादिति मन्त्रसिद्धाः ॥ इति ।
शिवपूजा तु शिवमूर्त्तौ शिवलिङ्गे स्थिरे चले वा कार्या ।
तत्र चले पाषाणादिलिङ्गे यत् पञ्चसूत्रादिलक्षणमुक्तं तदवश्यं द्रष्टव्यम् ।
रत्नलिङ्गादौ तु तत्तलक्षणाभावेऽपि न दोषः ।
तदुक्तं हयशीर्षपञ्चरात्रे—-
न कुर्याल्लक्षणोद्धारं रत्नजानां चलात्मनाम् ।
सु(स्व)प्रभा लक्षणन्त्वेषां स्वर्णजानामपि द्विज ॥
तस्मान्न लक्षणोद्धारं कुर्यात् पाषाणलिङ्गवत् ।
अचलानां तैजसानां क्वचिदिष्येत लक्षणम् ॥
लक्षणं कल्पनीयन्तु स्थाप्यलिङ्गे यथाविधि ।
चललिङ्गे कुशा (ऽङ्गुला) ग्रेण लक्षणं कल्पयेद् गुरुः ।
मनसा चिन्तयेद्वापि लक्षणं लिङ्गसंस्थितम् ॥ इति ।
सोमशम्भुनाऽपि—- रत्नजे लक्षणोद्धारो न लौहे न सरिद्भवे ।
लिङ्गेषु च न लौहेषु न दृष्टं क्वचिदागमे ॥
स्वरूपं लक्षणं तेषां प्रभा रत्नेषु निर्मला ।
इति ।
अन्यत्र तु विशेषः—-गृहे लिङ्गद्वयं नार्च्यं गणेशद्वयमेव च ।
शक्तित्रयं तथा शङ्खं मत्स्यादिदशकाङ्कितम् ॥
द्वौ शङ्खौ नार्चयेच्चैव शालग्रामशिलाद्वयम् ।
द्वे चक्रे द्वारकायास्तु तथा सूर्यद्वयं बुधः ॥
एतेषामर्चनान्नित्यमुद्वेगं प्राप्नुयाद् गृही ।
इति ॥ ८७ ॥
मूलमन्त्रं समुच्चार्य सुषुम्णावर्त्मना सुधीः ।
आनीय तेजः स्वस्थानान्नासिकारन्ध्रनिर्गतम् ॥ ८८ ॥
करस्थमातृकाम्भोजे चैतन्यं पुष्पसञ्चये ।
संयोज्य ब्रह्मरन्धेरण मूर्त्यामावाहयेत् सुधीः ॥ ८९ ॥
आवाह्म पूजयेदित्युक्तम् ।
तत्रावाहनप्रकारमाह मूलेति ।
स्वस्थानाद् हृदयकमलात् ।
अन्ये सूर्यमण्डलादित्याहुः ।
तदुक्तं वैहायसीमन्त्रकोषे—-
अथार्कतो वा हृदयारविन्दादावाहयेन्नन्दसुतं सुवेशम् ।
इति ।
अन्यत्रापि—- आवाहयेन्महादेवीं हृदयाम्बुजगह्वरात् ।
सूर्यमण्डलतो वापि स्वीयाद्वा द्वादशान्ततः ॥ इति ।
ब्रह्मरन्ध्रेणेति ब्रह्मरन्ध्रद्वारा ।
करस्थमातृकाम्भोजे पुष्पसञ्चये इति व्यधिकरणसप्तम्यौ ।
सुधीः मूलमन्त्रमुचार्य स्वस्थानात्तेजः सुषुम्णावर्त्मना आनीय ब्रह्मरन्ध्रद्वारा नासिकारन्ध्रनिर्गतं
तच्चैतन्यं करस्थमातृकाम्भोजे पुष्पसञ्चये संयोज्य मूर्त्तावावाहयेदिति सम्बन्धः ।
तदुक्तम्—-
देवं सुषुम्णामार्गेण आनीय ब्रह्मरन्ध्रकम् ।
वामनासापुटे ध्यात्वा निर्यान्तं स्वाञ्जलिस्थितम् ।
पुष्पमारोप्य तत् पुष्पं प्रतिमादौ निधापयेत् ॥ इति ।
अत्रावाहनमाह्वानम् ।
तदावाहिन्या ।
तच्च मूलमन्त्रान्ते आवाहितो भव नमः इति प्रकारेण आगमोक्तश्लोकान्ते वा ।
यद्वा मूलमन्त्रान्ते आगमश्लोकमुच्चार्येति सुधीरित्यनेनोक्तम् ।
अयमेव मुख्यः प्रकारः ।
संहितायामपि धूपमन्त्रमुक्त्वा—-
एवमित्थन्तु बीजान्ते धूपमन्त्र उदाहृतः ।
इत्यादिनोक्तम् ।
एवमग्रेऽपि स्थापनादिषूह्यम् ।
श्लोकस्तु—-
आत्मसंस्थमजं शुद्धं त्वामहं परमेश्वर ।
अरण्यामिव हव्याशं मूर्त्तावावाहयाम्यहम् ॥ इति ।
इदमावाहनादि शालग्रामादौ न कार्यम् ।
यदाहुः—-
शालग्रामे स्थावरे वाऽऽवाहनं न विसर्जनम् ।
शालग्रामशिलादौ यन्नित्यं सन्निहितो हरिः ॥ इति ।
अन्यत्रापि—- उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने ।
अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् ॥
शालग्रामार्चने नैव ह्यावाहनविसर्जने ।
इति ।
अत्र पञ्चायतनपक्षे प्रत्येकं देवतानामावाहनं ततः प्रत्येकं देवतानां स्थापनमिति
पदार्थानुसमयो वा उतावाहनादि नैवेद्यान्तम् एकत्र समाप्य पश्चादेवमन्यत्रेति काण्डानुसमय इति संशये अत्र
काण्डानुसमय इति सिद्धान्तः ।
यतः—-मुख्ये पुष्पाञ्जलिं दत्त्वा गणेशाद्यर्चनं भवेत् ।
इत्युक्तम् ।
तत्रार्चनशब्दः पूजावाचकः सा चाऽऽवाहनादिनैवेद्यान्ता ।
इदञ्च पञ्चमाध्याये द्वितीयचरणे " वचनात्तु परिव्याणान्तम् " इत्यधिकरणे सिद्धान्तितम् ॥ ८८-८९ ॥
संस्थापनं सन्निधानं सन्निरोधमनन्तरम् ।
सकलीकरणं पश्चाद् विदध्यादवगुण्ठनम् ॥ ९० ॥
अमृतीकरणं कृत्वा कुर्वीत परमीकृतिम् ।
क्रमादेतानि कुर्वीत स्वमुद्राभिः समाहितः ॥ ९१ ॥
सुधीः संस्थापनं विदध्यादिति सम्बन्धः ।
संस्थापनं स्थापनम् ।
तत् स्थापिन्या।
श्लोकस्तु—-
तवेयं महिमामूत्तीस्तस्यां त्वां सर्वगं प्रभो (विभो) ।
भक्तिस्नेहसमाकृष्टं दीपवत् स्थापयाम्यहम् ॥ इति ।
सुधीरित्यनेनासनोपवेशने कर्त्तव्ये इत्युक्तं भवति ।
तद् यथा मूलमन्त्रान्ते—-
सर्वान्तर्यामिणे देव सर्वबीजमयं शुभम् ।
स्वात्मस्थाय परं शुद्धमासनं कल्पयाम्यहम् ॥
आसनं गृहाण नमः ।
ततो मूलमन्त्रान्ते—-
अस्मिन् वरासने देव सुखासीनोऽक्षरात्मक ।
प्रतिष्ठितो भवेश त्वं प्रसीद परमेश्वर ॥
उपविष्टो भव नमः ।
सन्निधानं नैकट्यावस्थानप्रार्थनम् ।
तत् सन्निधापिन्या ।
श्लोकस्तु—-
अनन्या तव देवेश मूत्तीशक्तिरियं प्रभो ।
सान्निध्यं कुरु तस्यां त्वं भक्तानुग्रहतत्पर ॥ इति ।
सन्निरोधः सन्निरोधनम् अनन्यचित्तप्रार्थनम् ।
तत् सन्निरोधिन्या ।
श्लोकस्तु—-
आज्ञया तव देवेश कृपाम्भोधे गुणाम्बुधे ।
आत्मानन्दैकतृप्तं त्वां निरुणध्मि पितर्गुरो ॥ इति ।
सिद्धान्तसागरे आवाहनादीनामन्यथा लक्षणमुक्तम् ।
स्वत एवाभिपूर्णस्य तत्त्वस्येहार्चनादिषु ।
सादरं सम्मुखीभावस्तदावाहनमुच्यते ॥
शिवस्याऽऽवाहितस्यास्य विद्यादेहे तु सन्ततम् ।
स्थिरीकरणमुद्दिष्टं स्थापनं भक्तितोऽर्चने ॥
पूजां प्रयोज्यमानान्तु गृहीत्वाऽनुग्रहादिकम् ।
कर्त्तुं सामर्थ्यमस्येह तत् सान्निध्यं प्रचक्षते ॥
आसमाप्तेस्तु पूजायाः सान्निध्यं हि शिवस्य यत् ।
स सन्निरोध उद्दिष्टो विभोरस्यापि शक्तितः ॥ इत्यादिना ।
अनन्तरमित्यनेन सम्मुखीकरणं प्रार्थनञ्च मुद्राद्वयेनोक्तम् ।
श्लोकौ तु—-
अज्ञानाद् दुर्मनस्त्वाद्वा वैकल्यात् साधनस्य च ।
यदाऽपूर्णं भवेत् कृत्यं तदाऽप्यभिमुखो भव ॥
दृशा पीयूषवषीण्या पूरयन् यज्ञविष्टरम् ।
मूर्त्ता वा यज्ञसम्पूर्त्तेः स्थिरो भव महेश्वर ॥ इतिं
मुद्रालक्षणं यथा—- मुष्टिद्वयस्थिताङ्गुष्ठौ सम्मुखौ च परस्परम् ।
संश्लिष्टावुच्छिरतौ कुर्यात् सेयं सम्मुखमुद्रिका ॥
प्रसृताङ्गुलिकौ हस्तौ मिथः श्लिष्टौ च सम्मुखौ ।
कुर्यात् स्वहृदये सेयं मुद्रा प्रार्थनसञ्ज्ञिका ॥ इति ।
सकलीकरणं पूर्णरूपत्वेनावस्थितिप्रार्थनम् ।
तच्च देवताङ्गे षडङ्गन्यासात् ।
अवगुण्ठनम् अयोग्यदृष्ट्यविषयत्वापादनम् ।
तदवगुण्ठन्या ।
श्लोकस्तु—-
अभक्तवाङ्मनश्चक्षुः श्रोत्रदूरामितद्युते ।
स्वतेजः पञ्जरेणाऽऽशु वेष्टितो भव सर्वतः ॥ इति ।
अमृतीकरणमानन्दपूर्णतावस्थितित्वम् ।
तद् धेनुमुद्रया ।
परमीकरणं सर्वापराधसहिष्णुत्वम् ।
तन्महामुद्रया ।
स्वमुद्राभिरिति त्रयोविंशे वक्ष्यमाणाभिः ।
समाहित इत्यनेन मूलमन्त्रपुटितमातृकाक्षराणि देवदेहे विन्यसेदित्युक्तम् ।
पूजायां वक्ष्यमाणत्वात् ॥ ९०-९१ ॥
अथोपचारान् कुर्वीत मन्त्रवित् स्वागतादिकान् ।
स्वागतं कुशलप्रश्न निगदेदग्रतो गुरुः ॥ ९२ ॥
अथेति ।
उपचारशब्दार्थे ज्ञानमालायामुक्तः—-
भक्त्या चैते कृता देवे साधकं देवसन्निधिम् ।
चारयन्ति यतस्तस्मादुच्यन्ते ह्युपचारकाः ॥
समीपे चारणाद्वाऽपि फलानां ते तथोदिताः ॥ इति ।
मूले षोडश उक्ता ज्ञानमालायामन्येऽपि ।
तद् यथा—-
अष्टत्रिंशत्षोडशार्कदशपञ्चोपचारकाः ।
तान् विभज्य प्रवक्ष्यामि के के ते तैः कृतैश्च किम् ॥
आसनं प्रथमं तेषामावाहनमुपस्थितिः ।
सान्निध्यमाभिमुख्यञ्च स्थिरीकृतिः प्रसाधनम् ॥
अर्घ्यञ्च पाद्याचमने मधुपर्कमुपस्पृशम् ।
स्नानं नीराजनं वस्त्रमाचामं चोपवीतकम् ॥
पुनराचामभूषे च दर्पणालोकनं ततः ।
गन्धपुष्पे धूपदीपौ नैवेद्यञ्च ततः क्रमात् ॥
पानीयं तोयमाचामं हस्तवासस्ततः परम् ।
ताम्बूलमनुलेपञ्च पुष्पदानं पुनः पुनः ॥
गीतं वाद्यं तथा नृत्यं स्तुतिञ्चैव प्रदक्षिणम् ।
पुष्पाञ्जलिनमस्कारावष्टत्रिंशत् समीरिताः ॥ इति ।
मन्त्रतन्त्रप्रकोशेऽपि—-आसनं प्रथमं तेषु ततश्चावाहनं मतम् ।
उपस्थानञ्च सान्निध्यम् ।
इत्यादिना—-
पुष्पाञ्जलिनमस्कारौ विष्णुप्रीत्यै भवन्त्यमी ।
त्रिंशचाष्टौ समाख्याता उपचारा मनीषिभिः ॥ इत्यन्तेन ।
षोडश मूले स्पष्टाः ।
तथा—-आसनस्वागते वस्त्रभूषे त्यक्त्वा तु द्वादश ।
अर्घ्यपाद्याचमान्येव मधुपर्काचमान्यपि ॥
गन्धादयो नैवेद्यान्ता उपचारा दश क्रमात् ।
गन्धपुष्पे धूपदीपौ नैवेद्यं पञ्च संस्मृताः ॥
सपर्या पञ्चधा प्रोक्ता तासामेकां समाचरेत् ।
इति ।
प्रयोगसारे षष्ठी अप्युक्ताः ।
अर्घ्यं गन्धं ततः पुष्पमक्षतं धूपमेव च ।
दीपो नैवेद्यं सप्ताङ्गी सपर्येत्यपरे जगुः ॥ इति ।
स्वागतमिति ।
कुशलप्रश्नमिति स्वागतमित्यस्यार्थकथनम् ।
श्लोकस्तु—-
यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये ।
तस्मै ते परमेशाय स्वागतं स्वागतञ्च मे ॥ इति ।
एतदनन्तरं सुस्वागतमपि मूलमन्त्रान्ते ।
श्लोकस्तु—-
कृतार्थेऽनुगृहीतोऽस्मि सफलं जीवितं मम ।
आगतो देवदेवेश सुखागतमिदं पुनः ॥ इति ॥ ९२ ॥
पाद्यं पादाम्बुजे दद्याद् देवस्य हृदयाणुना ।
एतच्छ्यामाकदूर्वाब्जविष्णुक्रान्ताभिरीरितम् ॥ ९३ ॥
पाद्यमिति ।
हृदयाणुना नमोमन्त्रेण ।
श्लोकस्तु—-
यद्भक्तिलेशसम्पर्कात् परमानन्दसम्भवः ।
तस्मै ते चरणाब्जाय पाद्यं शुद्धाय कल्पये ॥ इति ।
अत्र नमोमन्त्रमुच्चार्य श्लोकमुच्चार्य पाद्यं गृहाण नमः इति शङ्खस्थजलमुत्सृजेत् ।
एवमग्रेऽपि ।
यत्र मन्त्रविशेषो नोक्तस्तत्र मूलमन्त्र एव ज्ञेयः ।
एतदिति ।
श्यामाकः श्यामा इति प्रसिद्धः ।
महाकपिलपञ्चरात्रेऽपि—-
दूर्वा च विष्णुपत्नी च श्यामाकं पद्ममेव च ।
पाद्याङ्गानि च चत्वारि कथितानि समासतः ॥ इति ॥ ९३ ॥
सुधामन्त्रेण वदने दद्यादाचमनीयकम् ।
जातीलवङ्गकक्कोलैस्तदुक्तं तन्त्रवेदिभिः ॥ ९४ ॥
सुधामन्त्रेण वमित्यनेन ।
श्लोकस्तु—-
वेदानामपि वेदाय देवानां देवतात्मने ।
आचामं कल्पयामीश शुद्धानां शुद्धिहेतवे ॥ इति ।
जाती जातीफलम् ।
कक्कोलं कोशफलम् कवाव इति कान्यकुब्ज- भाषायाम् ।
तदुक्तमगस्तिसंहितायाम्—-
तथाऽऽचमनपात्रेऽपि दद्याज्जातीफलं मुने ।
लवङ्गमपि कक्कोलं शस्तमाचमनीयकम् ॥ इति ।
महाकपिलपञ्चरात्रे आचमनीयद्रव्याण्यन्यथोक्तानि ।
कर्पूरमगुरुं पुष्पं द्रव्याण्याचमनीयकम् ।
इति ।
अन्यत्र विशेषः—- अर्घ्यं त्रिर्ददाति, पाद्यं त्रिर्ददाति, आचमनीयं षड्ददाति ।
इति ।
आगताय तथार्चायां स्नातुमासनगाय च ।
पूजातो गन्तुकामस्य दद्यादर्घ्यं विचक्षणः ॥
आगते स्नानकाले च नैवेद्योपक्रमे तथा ।
पाद्यस्यापि समुद्दिष्टः समयस्त्रिविधो बुधैः ।
इति ॥ ९४ ॥
अर्घ्यं दिशेत्ततो मूद्ध्न शिरोमन्त्रेण देशिकः ।
गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपैः ॥ ९५ ॥
सदूर्वैः सर्वदेवानामेतदर्घ्यमुदीरितम् ।
सुधाणुना ततः कुर्यान्मधुपर्कं मुखाम्बुजे ॥ ९६ ॥
आज्यं दधिमधून्मिश्रमेतदुक्तं मनीषिभिः ।
तेनैव मनुना कुर्यादद्भिराचमनीयकम् ॥ ९७ ॥
शिरोमन्त्रेण स्वाहेत्यनेन ।
महाकपिलपञ्चरात्रे कुशाग्रस्थाने फलमुक्तम् ।
सिद्धार्थमक्षतञ्चैव दूर्वा च तिलमेव च ।
यवं गन्धं फलं पुष्पमष्टाङ्गन्त्वर्घ्यमुच्यते ॥ इति।
सर्वदेवानामिति सर्वत्र सम्बध्यते ।
पाद्याद्युक्तद्रव्याणि सर्वदेवतासु समानानीत्यर्थः ।
श्लोकस्तु—- तापत्रयहरं दिव्यं परमानन्दलक्षणम् ।
तापत्रयविनिर्मुक्तं तवार्घ्यं कल्पयाम्यहम् ॥ इति ।
मधुपर्कमिति ।
श्लोकस्तु—-
सर्वकालुष्यहीनाय परिपूर्णसुखात्मक ।
मधुपर्कमिमं देव कल्पयामि प्रसीद मे ॥ इति ।
अत्रार्घ्यादिप्रोक्तद्रव्याभावे केवलतण्डुलानेव निक्षिपेत् ।
तदुक्तं मन्त्रतन्त्रप्रकाशे—-
द्रव्याभावे प्रदातव्याः क्षालितास्तण्डुलाः शुभाः ।
इति ।
अन्यत्रापि—- तण्डुलान् प्रक्षिपेत्तेषु द्रव्यालाभे तु तत्समान् ।
इति ।
तेनैव मनुना सुधाणुनेत्यर्थः ।
श्लोकस्तु—-
उच्छिष्टोऽप्यशुचिर्वाऽपि यस्य स्मरणमात्रतः ।
शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकम् ॥ इति ।
मधुपर्कान्ते आचमनमुपलक्षणम् ।
तेन स्मृत्युक्तनिमित्तेऽप्याचमनं दद्यात् ।
स्नानान्ते वासोदानान्ते उपवीतदानान्ते नैवेद्यान्ते ।
तदुक्तं महाकपिलपञ्चरात्रे—-
स्नाने वस्त्रे तथा भक्ष्ये दद्यादाचमनीयकम् ।
इति ।
एवं षडप्याचमनीयानि ।
तदुक्तं ज्ञानमालायाम्—-
पाद्ये च मधुपर्के च स्नाने वस्त्रोपवीतयोः ।
भोजने चाचमनं देयम् ।
इति ।
स्नानात् पूर्वं महाकपिलपञ्चरात्रे तु विशेषः—-
गन्धं तैलमथो दद्याद् देवस्याप्रतिमं ततः ।
इति ।
श्लोकस्तु—- स्नेहं गृहाण स्नेहेन लोकनाथ महाशय ।
सर्वलोकेषु शुद्धात्मन् ददामि स्नेहमुत्तमम् ॥ इति ।
तत उद्वर्त्तनम्—-महाकपिलपञ्चरात्रे—-
रजनी सहदेवी च शिरीषो लक्ष्मणापि च ।
सदाभद्रा कुशाग्राणि उद्वर्त्तनमिहोच्यते ॥ इति ।
अन्यत्रापि—- अभ्यङ्गोद्वर्त्तने चापि महास्नानं समाचरेत् ।
इति ॥ ९५-९७ ॥
गन्धाद्भिः कारयेत् स्नानं वाससी परिधापयेत् ।
दद्याद् दिव्योपवीतञ्च हाराद्याभरणैः सह ॥ ९८ ॥
गन्धाद्भिरिति ।
तदुक्तं मन्त्रतन्त्रप्रकाशे—-
शुद्धतोयाद् गन्धतोयं श्रेष्ठं शतगुणोत्तरम् ।
गङ्गादितीर्थतोयानां फलं शास्त्रप्रणोदितम् ॥
तत्र तत्राधिगन्तव्यम् ।
इति ।
तथा—-
नाहरेन्मलिनं तोयं केशकीटादिदूषितम् ।
मलिनेनापि भाण्डेन व्यङ्गेनाऽशुचिना तथा ॥ इति ।
तत्रैव विशेषः—- अक्षता गन्धपुष्पाणि स्नानपात्रे तथा त्रयम् ।
इति ।
श्लोकस्तु—- परमानन्दबोधाब्धिनिमग्ननिजमूर्त्तये ।
साङ्गोपाङ्गमिदं स्नानं कल्पयाम्यहमीश ते ॥ इति ।
एतदनन्तरं शङ्खजलेन देवतायाऽभिषेकं कुर्यात् ।
यदाहुः—-
शतं सहस्रमयुतं शक्त्या चैवाभिषेचयेत् ।
शङ्खं सम्पूर्य तेनैव सपुष्पेण च देवताम् ॥ इति ।
अन्यत्रापि—- अ(स्व)शक्त्या गन्धतोयेन संस्नाप्य जगदीश्वरम् ।
इति ।
अत्र विशेषः—- महाभिषेकं सर्वत्र शङ्खेनैव प्रकल्पयेत् ।
सर्वत्रैव प्रशस्तोऽब्जः शिवसूर्यार्चनं विना ॥ इति ।
तत्र विशेषस्तु तन्त्रान्तरे—-प्रतिमापटयन्त्राणां नित्यं स्नानं न चाचरेत् ।
कारयेत् पर्वदिवसे तथा मलनिवारणम् ॥ इति ।
वाससीति द्विवचनेनोत्तरीयं गृहीतम् ।
श्लोकौ तु—-
मायाचित्रपटाच्छन्न निजगुह्योरुतेजसे ।
निरावरणविज्ञान वासस्ते कल्पयाम्यहम् ॥
यमाश्रित्य महामाया जगत्सम्मोहिनी सदा ।
तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम् ॥ इति ।
तत्र विशेषो मन्त्रतन्त्रप्रकाशे—-
पीतं कौशेयवसनं विष्णोः प्रीत्यै प्रकीत्तीतम् ।
रक्तं शक्त्यर्कविघ्नेषु ईश्वरस्य सितं प्रियम् ।
मलहीनं तथाऽच्छिद्रं क्षौमं कार्पासमेव वा ॥
तैलादिदूषिताद्रोगः सच्छिद्राद्वाच्यता भवेत् ।
जीर्णाद्दरिद्रता कर्त्तुर्मलिनात् कीत्तीहीनता ॥ इति ।
यज्ञोपवीतमिति ।
श्लोकस्तु—- यस्य शक्तित्रयेणेदं सम्प्रोतमखिलं जगत् ।
यज्ञसूत्राय तस्मै ते यज्ञसूत्रं प्रकल्पये ॥ इति ।
हाराद्याभरणैरिति ।
श्लोकस्तु—- स्वभावसुन्दराङ्गाय नानाशक्त्याश्रयाय ते ।
भूषणानि विचित्राणि कल्पयाम्यमराचीत ॥ इति ॥ ९८ ॥
न्यासक्रमेण मनुना पुटितैर्मातृकाक्षरैः ।
अभ्यर्च्य देवीं गन्धाद्यैरङ्गादीन् पूजयेत् ततः ॥ ९९ ॥
न्यासेति ।
उपचारात् पूर्वं कृतो यो देवदेहे न्यासः तत्क्रमेण मूलमन्त्र- पुटितमेकैकमक्षरं कृत्वेत्यर्थः ।
वर्णैर्मनुप्रपुटितैः क्रमशः शतार्द्धैर्न्यासक्रमादभियजेत् सकलासु मन्त्री ।
गन्धादिभिः प्रथमतो मनुदेवतासु त्रैलोक्यमोहन इति प्रथितः प्रयोगः ॥
इत्याचार्येक्तेः ।
अभ्यर्च्य देवीमिति ।
अत्र देवीमित्युपलक्षणं स्वेष्टदेवतामित्यर्थः ।
क्वचि- द्देवमिति पाठः ।
पुटितलक्षणं त्रयोविंशे वक्ष्यति ।
ततो गन्धाद्यैरभ्यर्च्य पुनरन्त- रमङ्गादीनावरणानि चार्चयेत् ।
इति क्रमविधायकम् ।
गन्धाद्यैरित्यादिशब्देन पुष्पम् ।
अङ्गादीनिति तत्तत्कल्पोक्ताङ्गावृत्यादि ।
अस्यायमाशयः ।
मुख्यदेवे गन्धपुष्पे दत्त्वा अङ्गादिलोकपालान् सम्पूज्य धूपादि दद्यादिति ॥ ९९ ॥
गन्धश्चन्दनकर्पूर कालागुरुभिरीरितः ।
कमले करवीरे द्वे कुमुदे तुलसीद्वयम् ॥ १०० ॥
जातीद्वयं केतके द्वे कह्लारं चम्पकोत्पले ।
कुन्दमन्दारपुन्नागपाटला नागचम्पकम् ॥ १०१ ॥
आरग्वधं कणीकारं पारन्ती नवमल्लिका ।
सौगन्धिकं सकोरण्टं पलाशाशोकमल्लिकाः॥ १०२ ॥
धूस्तूरं सर्जकं बिल्वमर्जुनं मुनिपुष्प(पत्र)कम् ।
अन्यान्यपि सुगन्धीनि पत्रपुष्पाणि देशिकैः ॥ १०३ ॥
उपदिष्टानि पूजायामाददीत विचक्षणः ।
मलिनं भूमिसंस्पृष्टं कृमिकेशादि दूषितम् ॥ १०४ ॥
अङ्गस्पृष्टं समाघ्रातं त्यजेत् पर्युषितं गुरुः ।
देवस्य मस्तकं कुर्यात् कुसुमोपहितं सदा ॥ १०५ ॥
गन्धाद्यैरित्युक्तं तत्स्वरूपमेवाह गन्ध इत्यादिना ।
श्लोकस्तु—-
परमानन्दसौरभ्यपरिपूर्णदिगन्तर ।
गृहाण परमं गन्धं कृपया परमेश्वर ॥ इति ।
इदं गन्धदानं कनिष्ठिकयेति ज्ञेयम् ।
यदाहुः—-
शङ्खपात्रस्थितं गन्धं मन्त्रैर्दद्यात् कनिष्ठया ।
इति ।
ततो गन्धमुद्रां प्रदर्शयेत् ।
तल्लक्षणन्तु—-
कनिष्ठाङ्गुष्ठसंयुक्ता गन्धमुद्रा प्रकीत्तीता ।
इति ।
कमले इति ।
द्वे इति श्वेतरक्ते ।
श्लोकस्तु—-
तुरीयवनसम्भूतं नानागुणमनोहरम् ।
अमन्दसौरभं पुष्प गृह्यतामिदमुत्तमम् ॥ इति ।
ततः पुष्पमुद्रां प्रदर्शयेत् ।
केतके द्वे इति श्वेतपीते ।
मन्दारोऽर्कः ।
पुन्नागो नागकेशरः ।
आरग्वधो राजवृक्षः घनवदर इति कान्यकुब्जभाषायाम् ।
पारन्ती लताभेदः ।
सौगन्धिकं कह्लारभेदः ।
देशिकैः पूजायामुपदिष्टानीत्यनेनान्येषु पुष्पाध्यायेषु विहितानि ग्राह्याणि तत्तद्देवतानां निषिद्धानि त्याज्यानीत्युक्तम् ।
ज्ञानमालायाम्—-
नाक्षतैरर्चयेद् विष्णुं न तुलस्या विनायकम् ।
न दूर्वया यजेद् दुर्गां बिल्वपत्रैदीवाकरम् ॥
उन्मत्तमर्कपुष्पञ्च विष्णौ वर्ज्यं सदा बुधैः ।
देवीनाञ्चार्कमन्दारावादित्ये तगरं यथा ॥
गणेशाय च सूर्याय रक्तपुष्पमति प्रियम् ।
शिवे कुन्दं न (म)दन्तीञ्च यूथीं बन्धूककेतके ॥
जवां रक्तां त्रिसन्ध्ये द्वे सिन्दूरं कूटजानि च ।
मालतीं घुसृणं रक्तं हयारिं बर्बरां त्यजेत् ॥
उग्रगन्धमगन्धञ्च कृमिकेशादिदूषितम् ।
अशुद्धपात्रपाण्यङ्गवासोभिः कुत्सितात्मभिः ॥
आनीतं नार्पयेच्छम्भोः प्रमादादपि दोषकृत् ।
कलिकाभिस्तथा नेज्यं विना चम्पकपङ्कजैः ॥
शुष्कैर्न पूजयेद्विष्णुं पत्रैः पुष्पैः फलैरपि ।
स्नात्वानीतैः पर्युषितैर्याचितैः कृष्णवर्णकैः ॥
सायं विकाशितैः पुष्पैः स्वयञ्च पतितैर्भुवि ।
वर्जयेद्बृहतीद्वन्द्वं काञ्चनारं कुरुण्टकम् ॥
सर्वपुष्पैः सदा पूजा विहिता विहितैरपि ।
कर्त्तव्या सर्वदेवानां भक्तियोगोऽत्र कारणम् ॥
पुष्पं वा यदि वा पत्रं फलं नेष्टमधोमुखम् ।
दुःखदं तत् समाख्यातं यथोत्पन्नं तथाऽर्पणम् ॥
चित्रपूजासु सर्वासु न विद्धस्यापि दूषणम् ।
अधोमुखार्पणं नेष्टं पुष्पाञ्जलिविधौ न तत् ॥
लक्षपूजासु सर्वासु पुष्पमेकैकमर्पयेत् ।
समुदायेन चेत् पूजा लक्षपुष्पार्पणन्तु तत् ॥ इति ।
मन्त्रतन्त्रप्रकाशेऽपि—-पुष्पं पञ्चविधं प्रोक्तं मुनिभिर्नारदादिभिः ।
परापरोत्तमञ्चैव मध्यमञ्च तथाऽधमम् ॥
सौवर्णन्तु परं प्रोक्तमपरं चित्रवस्त्रजम् ।
वृक्षगुल्मलतापुष्पमुत्तमं परिकीत्तीतम् ॥
अधमं पत्रतोयादि मध्यमन्तु फलात्मकम् ।
उत्सृष्टं न क्रियायोग्यं सदायोग्ये परापरे ॥
पत्रेषु तुलसी श्रेष्ठा बिल्वमामलकं शुभम् ।
मरुको देवकह्लारी विष्णुक्रान्ता तथैव च ॥
अपामार्गेऽथ गान्धारी पत्री सुरभिसञ्ज्ञिका ।
नागवल्लीदलं दूर्वा कुशपत्रं तथा मतम् ॥
पत्रञ्चागस्त्यवृक्षस्य पुण्यं धात्रीदलं तथा ।
फलेऽप्यामलकं श्रेष्ठं वादरं तिन्तिणीभवम् ॥
दाडिमं मातुलुङ्गञ्च जम्बीरं पनसोद्भवम् ।
कदली चूतसम्भूतं श्रेष्ठं जम्बूफलन्तथा ॥
यजेदेतैः सदा विष्णुं पत्रैः पुष्पैः फलैस्तथा ।
इति ।
तथा—- दिवसे दिवसोत्फुल्लैः पुष्पैः पूजा तथा निशि ।
पुष्पाभावे प्रवालैर्वा पूजयेच्च न कोरकैः ॥ इति ।
अन्यार्थमाहृतं दुष्टं तथैवान्योपभुक्तकम् ।
इति ।
गुरुरित्यनेन केषुचित् पर्युषितेषु दोषाभाव इत्युक्तम् ।
यत् ज्ञानमालायाम्—-
न पर्युषितदोषोऽस्ति जलजोत्पलचम्पके ।
तुलस्यगस्त्यवकुले बिल्वगङ्गाजले तथा ॥ इति ।
पण्डितैदीनसङ्ख्यया केषाञ्चित् पर्युषितदोषाभाव उक्तः ।
बिल्वापामार्गजातीतुलसिशमिशता केतकीभृङ्गदूर्वा
मन्दाम्भोजाहिदर्भा मुनितिलतगरा ब्रह्मकह्लारमल्ली ।
चम्पाश्वारातिकुम्भीमरुवकदमना विश्वतोऽहानि च स्युः
त्रिंशत्त्र्येकार्यरीशोदधिनिधिवसुभूभूयमा भूय एवम् ॥ इति ।
शता शतपत्रम् ।
भृङ्गं भृङ्गराजः ।
मन्दो मन्दारः ।
अहि द्रोणकलशः ।
ब्रह्म पलाशः।
अश्वारातिः करवीरः ।
एषां यथायोग्यं पत्रपुष्पाणि ग्राह्याणि ।
अरयः षट् ।
यमो द्वयम् ।
एवम् एकावृत्त्या आहृतानां दिनसङ्ख्या ।
भूय एवमस्यार्थः ।
द्वितीयावृत्त्या दर्भादीनामियं दिनसङ्ख्येति ।
स्मृत्यन्तरेऽपि—-
पङ्कजं पञ्चरात्रं स्यात् दशरात्रञ्च बिल्वकम् ।
तुलस्यैकादशाहात्तु पुनः प्रक्षाल्य पूजयेत् ॥ इति ।
तुलस्यां निर्माल्यदोषोऽपि नास्ति ।
यदाहुः—-
सद्यः पर्युषिता वापि निर्माल्या नैव दूष्यति ।
तथान्यैर्न हरेस्तुष्टिस्तुलस्या तुष्यते यथा ॥ इति ॥१००-१०५॥
पूजाकाले देवताया नोपरि भ्रामयेत् करम् ।
अगुरूशीरगुग्गुलुशर्करामधुचन्दनैः ॥ १०६ ॥
धूपयेदाज्य सम्मिश्रैर्नीचैर्देवस्य देशिकः ।
वर्त्त्या कर्पूरगभीण्या सपीषा तिलजेन वा ॥ १०७ ॥
आरोप्य दर्शयेद्दीपानुच्चैः सौरभशालिनः ।
स्वादूपदंशं विमलं पायसं सहशर्करम् ॥ १०८ ॥
उद्दिष्टमुक्त्वा प्रकृतमाह धूपयेदिति ।
वामहस्तेन घण्टामन्त्रेणाचीतां घण्टां वादयन् धूपं दद्यादित्यर्थः ।
देशिक इत्यनेन घण्टामन्त्रेण तत्पूजनमप्युक्तम् ।
यदाहुः—- जयध्वनि ततो मन्त्रमातः स्वाहेत्युदीर्य च ।
अभ्यर्च्य वादयन् घण्टाम् ।
इति ।
शैवागमे तु—- धूपभाजनमस्त्रेण प्रोक्ष्याऽभ्यर्च्य हृदाणुना ।
अस्त्रेण पूजितां घण्टां वादयन् गुग्गुलुं दहेत् ॥ इति ।
श्लोकस्तु—- वनस्पतिरसोपेतो गन्धाढ्यः सुमनोहरः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ इति ।
तदुक्तम्—- घण्टां गन्धाक्षतकुसुमकैरचीतां वादयानः ।
इति ।
अन्यत्रापि—- ततः समर्पयेद्धूपं घण्टां वाद्य जयस्वनैः ।
इति ।
अत्र प्रयोगः—-धूपपात्रमस्त्रेण प्रोक्ष्य नमोमन्त्रेण पुष्पं दत्त्वा वामया तर्जन्या संस्पृशन्
मूलमन्त्रं श्लोकश्च पठित्वा साङ्गाय सपरिवाराय देवाय धूपं समर्पयामि नमः इति शङ्खजलमुत्सृज्य
धूपमुद्रां प्रदर्श्य घण्टामन्त्रेणाचीतां घण्टां वामहस्तेन वादयन् देवतागुणनामयशः स्तुत्यादि
कीर्त्तयन् देवं धूपयेत् ।
उक्तञ्च—-
धूपस्थानं समभ्यर्च्य तर्जन्या वामया स्पृशन् ।
सङ्कल्प्यैवं ततः पुष्पाञ्जलिं दत्त्वा यशः पठेत् ॥
बह्वृच परिशिष्टेऽपि—-धूपस्य व्यजनेनैव धूपेनाङ्गविधूपने ।
नीराजनेषु सर्वेषु देव (गुण) नामादि कीर्त्तयन् ॥
जयघोषं प्रकुर्वीत कारुण्यञ्चापि कीर्त्तयेत् ।
तथा मङ्गलघोषञ्च जगद्बीजस्य च स्तुतिम् ॥ इति ।
मन्त्रतन्त्रप्रकाशे तु—-न दहेद् दूषितं धूपं कार्पासास्थिशिरोरुहैः ।
इति ।
एवं दीपदानेऽपि घण्टावादनादि सर्वं पूर्ववत् कुर्यात् ।
विशेषस्त्वयम् उत्सर्गे वाममध्यमया दीपपात्रस्पर्शः ।
दीपमुद्रादर्शनञ्च ।
श्लोकस्तु—- सुप्रकाशो महादीपः सर्वतस्तिमिरापहः ।
सबाह्यभ्यन्तरञ्ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥ इति ।
उक्तञ्च ज्ञानमालायाम्—-सर्वनादप्रिया देवा नैकः कर्त्तुञ्च तान् क्षमः ।
सर्वनादमयी घण्टा रवात्मा(र्था)सर्वनादकृत् ॥ इति ।
नीचैरिति देवतानाभिदेशे उच्चैरिति नेत्रदेशे इत्याचार्याः ।
" दृष्याद्यति विश- दधीः पादपर्यन्तमुच्चैः " इत्युक्तेः ।
बहुवत्तीदीपपक्षे विषमा एव वत्तीसङ्ख्या ग्राह्या ।
यदाहुः—- आरातीकन्तु विषमबहुवत्तीसमन्वितम् ।
इति ।
प्रयोगसारे तु—- तैलेन कपिलाज्येन सिक्थकेनापरेण वा ।
स्नेहेन वत्तीसंयुक्तं दीपमुच्चैः प्रदर्शयेत् ॥ इति ।
तत्र सपीषा चेद्दीपः तदा दक्षिणतः तैलेन चेत्तदा वामत इति सम्प्रदायः ।
एवञ्च सितावत्तीश्चेद्दक्षिणतः रक्ता चेद्वामतो निवेदनमिति ॥ १०७-१०८ ॥
कदलीफलसंयुक्तं साज्यं मन्त्री निवेदयेत् ।
तत्र तत्र जलं दद्यादुपचारान्तरान्तरा ॥ १०९ ॥
मन्त्रीत्यनेनैतदुक्तं भवति नैवेद्यम् अस्त्रमन्त्रजप्तजलेन सम्प्रोक्षयेत् ।
शैवागमे तु—-ततो मृत्युञ्जयेनैव वौषडन्तेन सप्तधा ।
जप्तैः सदर्भशङ्खस्थैः सिञ्चेत् तत्तोयबिन्दुभिः ॥ इति ।
ततश्चक्रमुद्रयाऽभिरक्ष्य वायुबीजेन द्वादशवाराभिमन्त्रितजलेन हविः सम्प्रोक्ष्य तदुत्थवायुना
तद्दोषं संशोष्य (ध्य) दक्षिणकरतलेऽग्निबीजं विचिन्त्य तत्पृष्ठलग्नं वामकरतलं कृत्वा नैवेद्ये
प्रदर्श्य तदुत्थाग्निना तद्दोषं दग्ध्वा वामकरतलेऽमृतबीजं विचिन्त्य तत्पृष्ठलग्नं दक्षिणकरतलं
कृत्वा नैवेद्ये प्रदर्श्य तदुत्थामृतधारया प्लावितं विभाव्य मूलमन्त्रजप्तजलेन सम्प्रोक्ष्य
तदखिलममृतात्मकं ध्यात्वा तत् स्पृष्ट्वा मूलमन्त्रमष्टधा जप्त्वा धेनमुद्रां प्रदर्श्य
जलगन्धपुष्पैरभ्यर्च्य देवतायै पुष्पाञ्जलिं समर्प्य तन्मुखात्तेजो निर्गतमिति ध्यात्वा
वामाङ्गुष्ठेन मुख्यं नैवेद्यपात्रं स्पृष्ट्वा दक्षिणकरेण जलं गृहीत्वा स्वाहान्तं मूलमन्त्रम्
सत्पात्रसिद्धं सुहविवीविधानेकभक्षणम् ।
निवेदयामि देवाय सानुगाय गृहाण तत् ॥
इति श्लोकञ्च जपित्वा साङ्गाय सपरिवाराय देवाय नैवेद्यं समर्पयामि नमः इति जलमुत्सृज्य
नैवेद्यमुद्रां प्रदर्शयेत् ।
ततः सपुष्पाभ्यां हस्ताभ्यां नैवेद्यपात्रं त्रिः प्रोद्धरन्—- " निवेदयामि भवते जुषाणेदं
हविर्हरे " इति जपेत् ।
तत्र हरे इति पदस्थाने तत्तद्देवतानामोह्यम् ।
यदाहुः—-
अस्त्रोक्षितं तदरिमुद्रिकयाऽभिरक्ष्य वायव्यतोयपरिशोषितमग्निदोष्णा ।
सन्दह्य वामकरसौधरसाभिपूर्णं मन्त्रामृतीकृतमथाभिमृशन् प्रजप्यात् ॥
मनुमष्टशः सुरभिमुद्रिकया परिपूर्णमर्चयतु गन्धमुख्यैः ।
हरिमर्चयेदथ कृतप्रसराञ्जलिरास्यतोऽस्य विसरेच्च महः ॥
वीतिहोत्रदयितान्तमुच्चरन् मूलमन्त्रमथ निक्षिपेज्जलम् ।
अर्पयेत्तदमृतात्मकं हविर्देर्युजा सकुसुमं समुद्धरन् ॥
निवेद्यार्पणमन्त्रोऽयं सर्वार्चासु निजाख्यया ।
इति ।
ततो वामकरेण ग्रासमुद्रां दक्षिणकरेण प्राणादिमुद्राश्च दर्शयन् प्राणाय स्वाहेत्यादि मन्त्रान् जपेत् ।
यदाहुः—-
ग्रासमुद्रां वामदोष्णा विकचोत्पलसन्निभाम् ।
प्रदर्शयन् दक्षिणेन प्राणादीनाञ्च दर्शयेत् ॥
स्पृशेत् कनिष्ठोपकनिष्ठिके द्वे स्वाङ्गुष्ठमूद्ध्र्ना प्रथमेहमुद्रा ।
तथा परा तर्जनिमध्यमे स्यादनामिकामध्यमिके च मध्या ॥
अनामिकातर्जनिमध्यमा स्यात्तद्वच्चतुर्थी सकनिष्ठिकास्ताः ।
स्यात् पञ्चमी तद्वदिहोपदिष्टाः प्राणादिमुद्रा निजमन्त्रयुक्ताः ॥
प्राणापानोदानव्यानसमानाः क्रमाच्चतुर्थ्या युक्ताः ।
ताराधारा वध्वा चेद्वाः कृष्णाध्वनस्त एते मनवः ॥ इति ।
पुष्पादिमुद्रालक्षणानि च—-
ज्येष्ठाङ्गुष्ठस्य पुष्पस्य युक्ता धूपस्य तर्जनी ।
दीपस्य मध्यमानामा नैवेद्यस्य प्रकीत्तीता ॥
इतराङ्गुलिसंयोगात् पञ्चमुद्राः प्रकीत्तीताः ।
गन्धादिष्वपि दत्तेषु (भेदेषु) मुद्राश्चेमाः प्रदर्शयेत् ॥
मुद्रया यत् कृतं कर्म तदक्षयफलप्रदम् ॥ इति ।
तत्रेति ।
उपचाराणाम् अन्तरान्तरा पुष्पाञ्जलिं दत्त्वा जलं दत्त्वा स्वहस्तं प्रक्षालयेदिति परमगुरवः ।
इदानीं तन्त्रान्तरोक्तो विशेषो लिख्यते ।
अनिर्माल्यं सनिर्माल्यमर्चनं द्विविधं स्मृतम् ।
दिव्यैर्मनोभवैर्द्रव्यैर्गन्धपुष्पैः स्रगादिभिः ॥
यदर्चनमनिर्माल्यं दिव्यभोगापवर्गदम् ।
ग्राम्यारण्यादिसम्भूतैर्यागद्रव्यैर्मनोरमैः ॥
भक्तैर्यत् क्रियते सम्यक् सनिर्माल्यं तदर्चनम् ।
तत्र तत्त्वसागरसंहितायां निर्माल्यत्वमुक्तम्—-
जातमात्राणि पुष्पाणि घ्रातान्येव निसर्गतः ।
पञ्चभिश्च महाभूतैर्भानुना शशिना तथा ॥
प्राणिभिश्च द्विरेफाद्यैः पौष्पैरेव न संशयः ।
अतो निर्माल्यमित्युक्तम् ।
इति
निर्माल्यञ्चेत् अनेन फलं कथमित्याशङ्क्य तत्रैवोक्तम्—-
घ्रातपुष्पात् फलं सिध्येदल्पं नो मानसाद् यथा ।
तस्मादपरिहार्यत्वादन्यथा चानुपायतः ॥
अल्पबुद्धित्वतो नॄणां बाह्यपुष्पैर्भवेत् क्रिया ॥ इति ।
तथा—- पुनस्त्रिधा मता पूजा उत्तमाधममध्यमा ।
अधिकारिनिमित्ताभ्यां भिद्यते शतधा पुनः ॥
यागोपकरणैः कृत्स्नैः क्रियमाणोत्तमा मता ।
यथालब्धैवीनिष्पाद्या दृष्टैः पूजा तु मध्यमा ॥
पत्रपुष्पाम्बुनिष्पाद्या पूजा चाधमसञ्ज्ञिता ।
विदिताखिलवेदार्थैर्ब्रह्मषीभिरकल्मषैः ॥
क्रियमाणा तु या पूजा सात्त्विकी सा विमुक्तिदा ।
राजषीभिस्तपोनिष्ठैर्भगवत्तत्त्ववेदिभिः ॥
या पूजा क्रियते सम्यक् राजसी सा सुखप्रदा ।
स्त्रीबालवृद्धमूर्खाद्यैर्भक्तैश्च(र) क्षुद्रमानसैः ॥
या पूजा क्रियते नित्यं तामसी सा प्रकीत्तीता ।
आतुरी सौतकी चैव त्रासी दौर्बेधिकी तथा ॥
साधनाभाविनी चेति पञ्चधा भिद्यते पुनः ।
यदि लङ्घनपर्यन्तो व्याधिरात्मनि दृश्यते ॥
तदा पूजा न कर्त्तव्या स्थण्डिले प्रतिमासु च ।
न स्नानं दन्तकाष्ठं वा कुर्याद्धोममथापि वा ॥
रविमण्डलमालोक्य प्रतिमामथवा पुनः ।
मूलमन्त्रं सकृज्जप्त्वा पुष्पं साक्षतमुत्क्षिपेत् ॥
श्रान्तो व्याधिभिरत्युग्रैः क्लान्तश्चैवोपवासकैः ।
निजसामयिकैर्वापि स्वकर्त्तव्यं समापयेत् ॥
स्नात्वा (स्तुत्त्वा) देवमथाग्नींश्च गुरून् विप्रान् प्रपूज्य च ।
एतावत्कालविच्छिन्ना पूजा युष्मत्प्रसादतः ॥
न दोषो मेऽस्त्विति प्रार्थ्य पुनः पूर्ववदाचरेत् ।
अथ सूतकिनः पूजां वदाम्यागमचोदिताम् ॥
स्नात्वा नित्यञ्च निर्वर्त्त्य मानस्या क्रियया तु वै ।
बाह्यपूजाक्रमेणैव स्थान (ध्यान) योगेन पूजयेत् ॥
यदि कामी न चेत् कामी नित्यं पूर्ववदाचरेत् ।
त्रासिनो वक्ष्यते पूजा यथैवागमचोदिता ॥
लब्धं वा यदिवाऽलब्धमर्घ्यपात्रादि साधनम् ॥
पूजोदकेन कर्त्तव्या न चेत्तोयञ्च विद्यते ॥
यदि सम्पूजयेद्देवं भावनाकुसुमादिभिः ।
दौर्बेधिकीं प्रवक्ष्यामि पूजामागमचोदिताम् ॥
मूर्खस्त्रीबालवृद्धाद्या दूर्बेधा इति भाविताः ।
रत्नमण्डपधर्मादिचतुष्कमुरगोम्बुजम् ॥
मूलमूर्त्तेस्तथाङ्गानि तेषां पूजा विधीयते ।
अन्येषामपि सर्वेषां प्रोक्ता सङ्क्षेपकर्मणि ॥
सर्वेपचारवस्तूनामलाभे भावनेव हि ।
निर्मले (र्माल्ये) नोदकेनाथ पूर्णतेत्याह नारदः ।
इति ।
पूजाकरणासमर्थं प्रति—-आराधनासमर्थश्चेद्दद्यादर्चनसाधनम् ।
यो दातुं नैव शक्नोति कुर्यादर्चनदर्शनम् ॥
नैकञ्च यस्य विद्येत सोऽधो यात्येव नान्यथा ।
यस्तु भक्त्या प्रयत्नेन स्वयं सम्पाद्य चाखिलम् ॥
साधनञ्चाऽर्चयेद्विद्वान् स समग्रफलं लभेत् ।
योऽर्चयेद्विधिवद्भक्त्या परानीतैश्च साधनैः ॥
पूजाफलार्द्धमेवाऽस्य न समग्रफलं लभेत् ।
इति ॥ १०९ ॥
अङ्गादिलोकपालान्तं यजेदावरणान्यपि ।
केशरेष्वग्निकोणादि हृदयादीनि पूजयेत् ॥ ११० ॥
अङ्गादीन् पुनरर्चयेदित्युक्तम् ।
तत्राद्यन्ते सामान्ये इति ।
तयोर्ध्यानस्थानप्रयोगान् वक्तुम् आदिशब्दार्थञ्च प्रकटयितुं पुनः सङ्गृह्णाति ।
तत्स्वरूपमाह अङ्गादीति ।
पूजावसरस्य प्रागुक्तत्वात् अतएव वक्ष्यति " एवं सम्पूज्य विधिवन्निवेद्यान्तम् " (४।११८) इति ।
अङ्गम् अङ्गावृतिरादौ यत्र तत् ।
लोकपालावृतिरन्ते यत्र तत् ।
अङ्गादि- लोकपालान्तमिति क्रियाविशेषणम् ।
लोकपालशब्देनैव स्वास्त्रावृतिग्रहणं ज्ञेयम् ।
एतच्च सम्भवाभिप्रायं बहुषु स्थलेषु तथा दर्शनात् न नियमः ।
अपिशब्दादत्रापि अन्तरान्तरा जलं दद्यादित्यनुषज्यते ।
अङ्गपूजायाः सर्वसामान्यम् अर्चनस्थानमाह केशरेष्विति ।
अग्निकोणादीत्यादिशब्देन नैरृतवायव्येशानकोणेषु ।
तदुक्तम्—-
वह्न्यदीशान्तमङ्गानि हृदादिकवचान्तिकम् ।
अर्चयेत् पुरतो नेत्रमन्त्रं दिक्षु बहिः पुनः ॥ इति ।
अन्यत्रापि—- हुतवहनिरृति समीरण शिवदिक्षु हृदादिवर्मान्तम् ।
इति ।
अन्ये तु आग्नेयेशाननैरृतवायव्यकोणेष्विति व्याचक्षते ।
यदाहुः—-
इष्ट्वा हृदयमाग्नेयामैशान्यान्तु शिरो यजेत् ।
नैरृत्यान्तु शिखा पूज्या वायव्यां कवचं यजेत् ॥
अभ्यर्च्य पुरतो नेत्रं दिक्षु शस्त्रमथार्चयेत् ।
इति ।
अन्यत्रापि—- अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनम् ।
इति ।
यथागुरूपदेशञ्च निर्णयः ।
अत्राग्नेयादीनि पुरःकल्पितपूर्वदिगपेक्षया न तु प्रसिद्धानीति ॥ ११० ॥
नेत्रमग्रे दिशास्वस्त्रं ध्यातव्या अङ्गदेवताः ।
तुषारस्फटिकश्यामनीलकृष्णारुणाचीषः ॥ १११ ॥
नेत्रमग्र इति कणीकायां देवस्य पुरतः ।
शिरःप्रभृतिमन्त्रेषु पूजायां नमोऽन्तता ज्ञेया ।
होमे तु हृदयादीनां स्वाहान्तता ।
आद्यद्वितीययोस्तज्जातियुक्तत्वादेव न तत्प्रयोगः ।
अधिकरणसिद्धश्चायमर्थः ।
तथा हि—- " मन्त्रे स्ववाक्यशेषत्वं गुणोपदेशात् स्यात् " इत्यत्राधिकरणे स्वाहाकारेण वषट्कारेण वा देवेभ्यो
हविर्ददातीति सामान्येन विहितया स्वाहाकारान्ततया पृथिव्यै स्वाहा अन्तरिक्षाय स्वाहेत्यादिषु मन्त्रेषु
न पुनस्तस्य वाधः ।
सामिधेनीसाप्तदश्यवदुपसंहाराभावान्नान्य- मन्त्रेषु बाधश्चेति स्थितम् ॥ १११ ॥
वरदाभयधारिण्यः प्रधानतनवः स्त्रियः ।
पश्चादभ्यर्चनीयाः स्युः कल्पोक्तावृतयः क्रमात् ॥ ११२ ॥
प्रधानतनवः स्त्रिय इति पक्षद्वयमिति पद्मपादाचार्याः ।
उक्तञ्च—-वरदाभयधारिण्यो महिलाकृतयोऽङ्गदेवताः पूज्याः ।
इति ।
आवरणानीत्युक्तानां स्थानमाह पश्चादिति ।
पश्चादङ्गावृत्यनन्तरमित्यर्थः ।
इदमपि प्रायिकम् ।
तत्पूर्वमप्यावृतीनां सत्त्वात् ॥ ११२ ॥
अन्ते यजेल्लोकपालान् मूलपारिषदान्वितान् ।
हेतिजात्यधिपोपेतान् दिक्षु पूर्वादितः क्रमात् ॥ ११३ ॥
इन्द्रमग्निं यमं रक्षो वरुणं पवनं विधुम् ।
ईशानं पन्नगाधीशमध ऊद्ध्र्वं पितामहम् ॥ ११४ ॥
पीतो रक्तो सितो धूम्रः शुक्लो धूम्रः सितावुभौ ।
गौरोऽरुणः क्रमादेते वर्णतः परिकीतीताः ॥ ११५ ॥
अन्त इति बाह्ये ।
चतुरस्रे आवरणान्तत्त्वस्य पूर्वमुक्तेः ।
एतच्च व्याख्यानं वैहायसीमन्त्रकोशे वायवीयसंहितायाञ्च तथा दर्शनात् ।
सत्सम्प्रदायाच्च ।
पूर्वादितो दिक्षु क्रमाच्च ।
अन्ते इन्द्रमग्निम् इत्यादीन् लोकपालान् यजेदिति सम्बन्धः ।
तत्र सामान्यत इन्द्राय नम इत्यादि प्रयोगे प्राप्ते विशेषमाह मूलेत्यादिना ।
अन्ते इत्यत्रापि सम्बध्यते ।
तेनेदं पदं सर्वान्ते देयमेवेत्यर्थः ।
तच्च प्रयोगलिखने स्फुटीभविष्यति ।
मूलपारिषदान्वितानित्यस्यायमर्थः ।
यदा शक्त्यावरणे इन्द्रादि पूजा तदा प्रत्येकं शक्तिपारिषदायेति लोकपालानां वज्रादीनाञ्च विशेषणं ज्ञेयम् ।
एवं शिवपूजायां प्रत्येकं शिवपारिषदायेति ।
एवं गणेशपूजायां प्रत्येकं गणेशपारिषदायेति ।
एवं सूर्यपूजायां प्रत्येकं सूर्यपारिषदायेति ।
एवं विष्णुपूजायां प्रत्येकं विष्णुपारिषदायेति ।
चरणव्यत्ययो गोपनार्थं कृतः ।
हेतीत्यत्रापि अन्त इति सम्बध्यते ।
इन्द्रायेत्यादेरन्त इत्यर्थः ।
अत्रापि प्रयोगे जात्यधिपानां पूर्वमुच्चारणं पश्चाद्धेतीनाम् ।
मूले तु हेतिशब्दस्याल्पाक्षरत्वात् पूर्वनिपातः ।
हेतयः आयुधानि ।
जातयः सुरतेजः- प्रेतरक्षोजलप्राणनक्षत्रभूत नागलोकाः ।
सवाहनान् सपरिवारानित्यपि ज्ञेयम् ।
वाहनानि तु एरावताजमहिषनरमकरमृगाश्ववृषभरथहंसाः ।
तदुक्तमाचार्यैः—-
जात्यधिपहेतिवाहनपरिवारान्ताः क्रमेण यष्टव्याः ।
इति ।
वक्ष्यति च स्वयं नित्यामन्त्रे—-
लोकपालान् यजेदन्ते वाहनायुधसंयुतान् ।
इति ।
सशक्तिकानिति ज्ञेयम् ।
तदुक्तं वैहायसीमन्त्रकोशे—-
लोकेश्वरान् पाथीवमण्डले सशस्त्रान् सशक्तीन् सहवाहनांश्च ।
सपार्षदांश्चन्दनपुष्पधूपैर्यजेत् स मन्त्री निजवाञ्छिताय ॥ इति ।
स्वस्वबीजाद्यानित्यपि ज्ञेयम् ।
बीजानि तु लं रं मं क्षं बं यं शं हं नं कम् ।
तदुक्तं महाकपिलपञ्चरात्रे—-
यानुलोमतृतीयन्तु द्वितीयं लविलोमतः ।
चतुर्थं फानुलोमेन रानुलोमेन चाष्टमम् ॥
तृतीयं पानुलोमेन लविलोमात् तृतीयकम् ।
चतुर्थं सप्तमं वर्णं रानुलोमेन संस्थितम् ॥
चतुर्थं थानुलोमेन तृतीयं गविलोमतः ।
स्वरोपान्त्यस्वनामाभ्यां भेदितं सर्वमेव तत् ॥
अनुपूर्वेद्धतं बीजं ब्रह्मान्तं वासवादिमम् ॥ इति ।
एतानि दीर्घाण्यपीति केचित् ।
अनन्तब्रह्मणोर्मायापाशबीज इति केचित् ।
तदुक्तम्—-
पृथ्व्याग्निपवनाद्यन्तवरुणानिलसेश्वरैः ।
अनन्तबिन्दुसंयुक्तैरर्च्याः पाशेन मायया ॥ इति ।
तत्र रक्ष इति निरृतिं पवनं वायुं विधुं सोमं पन्नगाधीशम् अनन्तं पितामहं ब्रह्माणम् ।
दिक्षु पूर्वादितः क्रमादिति ।
अत्र प्रसिद्धा एव पूर्वादयो ग्राह्याः ।
तदुक्तम्—-
प्रयजेत् स्वदिक्ष्वमलधीः स्वजात्यधीश्वरहेतिवाहपरिवारसंयुतान् ।
इति ।
नारायणीये च—- इन्द्रादींश्च स्वदिक्षु ।
इति ।
ग्रन्थकृदपि—-इन्द्रादिकान् लोकपालान् स्वस्वदिक्षु समर्चयेत् ।
इति ।
तत्राष्टदिक्षु अष्ट पूजयितव्याः ।
निरृतिवरुणयोर्मध्ये अनन्तम् ।
इन्द्रेशानयोर्मध्ये ब्रह्माणम् ।
तदुक्तं वायवीयसंहितायाम्—-
विष्णुं नैरृते विधिमैश्वरे ।
बहिः पद्मस्य वज्राद्यान्यब्जान्तान्यायुधान्यपि ॥
प्रसिद्धरूपास्वाशासु लोकेशानां क्रमाद् यजेत् ।
इति ।
अत्र नैरृते एश्वरे इति तत्सामीप्यलक्षकमिति ज्ञेयम् ।
अत्र क्वचिद् ब्रह्माणं पूजयित्वा अनन्तं पूजयेदिति क्रमः ।
स पौराणिक इति ज्ञेयं न तान्त्रिकः ।
महाकपिलपञ्चरात्रहयशीर्षपञ्चरात्रप्रपञ्चसारादिबहुतन्त्रविरोधात् ।
तथा चाचार्याः—-
अनन्तब्रह्मपर्यन्तैः पञ्चमीन्द्रादिभिर्मता ।
चक्रपद्मान्तिकैः षष्ठी वज्राद्यैः ॥ इति ।
प्रयोगो यथा ।
ॐ लम् इन्द्राय सुराधिपतये सायुधाय सवाहनाय सपरिवाराय सशक्तिकाय विष्णुपारिषदाय नमः इति ।
एवं ॐ रम् अग्नये तेजोऽधिपतये इत्यादि ।
एषां पूजायां लोकपालमुद्रा दर्शनीया ।
यदाहुः—-
पाणिमूले सुसंलग्ने शाखाः सर्वाः प्रसारिताः ।
लोकेशानामियं मुद्रा तेषामर्चासु दर्शयेत् ॥ इति ॥११३-११५॥
वज्रं शक्तिं दण्डमसिं पाशमङ्कुशकं गदाम् ।
शूलं चक्रं पद्ममेषामायुधानि क्रमाद्विदुः ॥ ११६ ॥
पीतशुक्लसिताकाशविद्युद्रक्तसितासिताः ।
करविन्दपाटलाभा वज्राद्याः परिकीतीताः ॥ ११७ ॥
एवं सम्पूज्य विधिवन्निवेद्यान्तं ततो गुरुः ।
दक्षिणे स्थण्डिलं कृत्वा तत्राऽऽधाय हुताशनम् ॥ ११८ ॥
संस्कृत्य विधिवद्विद्वान् वैश्वदेवं समाचरेत् ।
तत्र सम्पूज्य गन्धाद्यैर्देवतामुक्तविग्रहाम् ॥ ११९ ॥
वज्रमिति ।
असिं खड्गम् ।
आकाशो नीलवर्णः ।
करविन्दः नीलपुष्पोऽतसी- प्रायो वृक्षः ।
तत्पुष्पवर्ण इत्यर्थः ।
तदुक्तमाचार्यैः—-करविन्दारुणवर्णाः ।
इति ।
तत्र प्रयोगो यथा ॐ वज्राय वज्रलाञ्छितमौलये सायुधाय सवाहनाय सपरिवाराय सशक्तिकाय
विष्णुपारिषदाय नमः इत्याद्यूह्यम् ।
तदुक्तमाचार्यैः—-
अर्चा बहिर्निजसुलक्षितमौलियुक्ताः
स्वस्वायुधाभयसमुद्यतपाणिपद्माः ।
इति ।
मूलेन मूत्तीं कॢप्तेत्यादि निवेद्यान्तमिति नित्यपूजायामपि समानम् ।
विद्वान् विधिवत् संस्कृत्येत्यनेन वीक्षणादयश्चत्वारः संस्कारा घृतसंस्कारा अग्नेराज्याहुति- क्रमेण
गर्भाधानादि संस्काराश्च कर्त्तव्या इत्युक्तं भवति ॥ ११६-११९ ॥
तारव्याहृतिभिर्हुत्वा मूलमन्त्रेण मन्त्रवित् ।
सपीष्मता पायसेन पञ्चविंशतिसङ्ख्यया ॥ १२० ॥
हुत्वा व्याहृतिभिर्भूयो गन्धाद्यैः पुनरर्चयेत् ।
तां योजयित्वा पीठस्थमूर्त्तौ वह्निं विसर्जयेत् ॥ १२१ ॥
अवशिष्टेन हविषा विकिरेत् परितो बलिम् ।
देवतायाः पार्षदेभ्यो गन्धपुष्पाक्षतान्वितम् ॥ १२२ ॥
तारव्याहृतिभिरिति ।
अत्राद्याश्चतस्रः सतारव्याहृतिभिः एका समस्तेन ।
भूयोऽनन्तरं व्याहृतिभिर्हुत्वेति सम्बन्धः ।
पूर्ववदिति ज्ञेयम् ।
पुनरनन्तरं गन्धाद्यैस्तां देवताम् अर्चयेत् ।
आदिपदेन पुष्पधूपदीपनैवेद्यानि ।
पीठस्थमूर्त्तौ योजयित्वा तामित्यनुषज्यते ॥ १२०-१२२ ॥
ततो निवेद्यमुद्धृत्य शोधयित्वा जलं पुनः ।
पञ्चोपचारैः सम्पूज्य दर्शयेच्छत्रचामरे ॥ १२३ ॥
कर्पूरशकलोन्मिश्रं ताम्बूलञ्च निवेदयेत् ।
सहस्रावृत्य सञ्जप्य मूलमन्त्रमनन्यधीः ।
तज्जप्तं सर्वसम्पत्त्यै देवतायै समर्पयेत् ॥ १२४ ॥
तत इत्यनेनैतदुक्तं भवति ।
पानार्थं जलं दद्यात् ।
मूलमन्त्रान्ते
श्लोकस्तु—- समस्तदेवदेवेश सर्वतृप्तिकरं परम् ।
अखण्डानन्दसम्पूर्ण गृहाण जलमुत्तमम् ॥ इति ।
ततो भोजनशेषोदकञ्च दत्त्वा निर्गततेजो देवमुखे संहृत्य नैवेद्यांशं विश्वक्- सेनादिभ्यो दद्यादिति ।
तदुक्तम्—-
मुख्यादीशानातः पात्रान्नैवेद्यांशं समुद्धरेत् ।
सर्वदेवस्वरूपाय पराय परमेष्ठिने ।
श्रीरामसेनायुक्ताय विश्वक्सेनाय ते नमः ॥
गणेशे वक्रतुण्डाय सूर्ये चण्डांशवेऽर्पयेत् ।
शक्तावुच्छिष्टचाण्डाल्यै शिवे चण्डेश्वराय च ॥ इति ।
देवतायाः पार्षदेभ्य इत्यत्रापि पारिषदशब्देनैषामेव ग्रहणम् ।
सर्वसम्पत्त्यै देवतायै इति व्यधिकरणे चतुर्थ्यौ ।
समर्पयेदिति ।
अत्र नित्यपूजायां ताम्बुलछत्रादर्श- चामराणि समर्प्य—- बुद्धिः सवासना कॢप्ता दर्पणं मङ्गलानि च ।
मनोवृत्तिवीचित्रा ते नृत्यरूपेण कल्पिता ॥
ध्वनयो गीतरूपेण शब्दा वाद्यप्रभेदतः ।
छत्राणि नव पद्मानि कल्पितानि मया प्रभो ॥
सुषुम्णाध्वजरूपेण प्राणाद्याश्चामरात्मना ।
अहङ्कारो गजत्वेन वेगः कॢप्तो रथात्मना ॥
इन्द्रियाण्यश्वरूपाणि शब्दादि रथवर्त्मना ।
मनः प्रग्रहरूपेण बुद्धिः सारथिरूपतः ।
सर्वमन्यत्तथा कॢप्तं तवोपकरणात्मना ॥
इति श्लोकान् पठित्वा यथाशक्ति मूलमन्त्रं जप्त्वा गुह्यातिगुह्यगोप्ता त्वं गृहाणाऽस्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थिते ॥
इत्यनेनं तं जपं देवतायै निवेदयेत् ।
तदुक्तं शैवागमे—- मन्त्री श्लोकं पठित्वा तु दक्षहस्तेन शम्भवे ।
मूलाणुनाऽर्घ्यतोयेन दक्षहस्ते निवेदयेत् ॥ इति ।
ततः पराङ्मुखमर्घ्यं दत्त्वा शङ्खं पूजयेत् ।
तदुक्तं मन्त्रतन्त्रप्रकाशे—-
पूजयेद् गन्धपुष्पाद्यैः शङ्खं वै देववद् बुधः ।
इति
अन्यत्रापि—- त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया ।
शङ्खे तिष्ठन्ति विप्रेन्द्र तस्माच्छङ्खं सदाऽर्चयेत् ॥
ततः प्रदक्षिणं कुर्यात् ।
तत्र विशेषस्तन्त्रान्तरे—-
एकां चण्ड्यां रवौ सप्त तिस्रो दद्याद् विनायके ।
चतस्रः केशवे दद्यात् शिवस्यार्द्धं प्रदक्षिणम् ॥ इति ।
ततः स्तुत्वा नत्वा नित्यहोमं कुर्यात् ।
तत्र तन्त्रान्तरे विशेषः—-
अग्न्याधानादिकं कर्म नित्यहोमे न विद्यते ।
इति ।
ततश्चुल्लुकोदकेन " इतः पूर्व प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्य- वस्थासु मनसा वाचा
हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत् स्मृतं यदुक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु स्वाहा ।
मां मदीयञ्च सकलं हरये समर्पये ॐ तत् सत् " इति ब्रह्मार्पणमन्त्रेणात्मानं समर्प्य स्वहृत्कमले
संहारमुद्रया देवमुपसंहरेदिति विशेषः ।
संहारमुद्रालक्षणमुक्तमेव ।
प्रसादस्वीकारे तत्तद्देवताभक्तेन तत्तद्देवताप्रसादः स्वीकर्त्तव्य एव ।
पञ्चदेवतापूजायान्तु विष्णोरेव शालग्रामशिलास्पर्शादन्येषाञ्च ।
तथा च बह्वृचपरिशिष्टे—-पवित्रं विष्णुनैवेद्यं सुरसिद्धषीभिः स्मृतम् ।
अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणं चरेत् ॥
अग्राह्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम् ।
शालग्रामशिलास्पर्शात् सर्वं याति पवित्रताम् ॥ इति ।
अन्यो विशेषस्तन्त्रान्तरे विक्षेपादथ बालिश्याजपहोमार्चनान्तरा ।
उत्तिष्ठति तदा न्यासं षडङ्गं विन्यसेत् पुनः ॥ इति ॥ १२३-१२४ ॥
ततः शम्भोदीशि गुरुवीकिरे पूर्वसञ्चिते ॥ १२५ ॥
हेमवस्त्रादिसंयुक्तां कर्करीं तोयपूरिताम् ।
संस्थाप्य तस्यां सिंहस्थां खड्गखेटकधारिणीम् ॥ १२६ ॥
घोररूपां पश्चिमास्यां पूजयेदस्त्रदेवताम् ।
चलासनेन सम्पूज्य तामादाय गुरुः पुनः ॥ १२७ ॥
रक्षेति लोकपालानां नालमुक्तेन वारिणा ।
देवाज्ञां श्रावयन्नन्तः परिवृत्त्य प्रदक्षिणम् ॥ १२८ ॥
अस्त्रमन्त्रं समुच्चार्य यथापूर्वं निवेशयेत् ।
अभ्यर्च्य भूयो गन्धाद्यैरस्त्रं तत्र स्थिरासने ॥ १२९ ॥
शम्भोदीशीति एशान्याम् ।
कर्करीं सनालं जलपात्रम् ।
तस्यां कर्कर्याम् एवम्भूतामस्त्रदेवतां पूजयेदित्यन्वयः ।
चलासनेन इत्युच्छिरतासनेन ।
तामिति ।
गुरुस्तां कर्करीमादाय नालमुक्तेन वारिणा लोकपालानां रक्षेति देवाज्ञां श्रावयन् अन्तर्मण्ड- पान्तर्वेद्याः
परितः प्रदक्षिणं परिवृत्त्य यथापूर्वं तां निवेशयेदिति सम्बन्धः ।
तत्र कर्कर्याम् ।
स्थिरासने निश्चलासने उपविष्ट इत्यर्थः ॥ १२५-१२९ ॥
ततश्च संस्कृते वह्नौ गोक्षीरेण चरुं पचेत् ।
अस्त्रेण क्षालिते पात्रे नवे ताम्रमयादिके ॥ १३० ॥
तत इति ।
संस्कृते वह्नाविति आचार्येण स्वकुण्डे संस्कृते ।
यतोऽग्रिमपटले वक्ष्यमाणाग्निजननकर्म आचार्येण अस्मिन्नेव काले कृतमस्ति तस्यानुवादः संस्कृते वह्नाविति ।
तदुक्तं प्रयोगसारे—-
कुण्डमस्त्रेण सम्प्रोक्ष्य तत्राधाय हुताशनम् ।
सान्वाधानादिकं देवं यथावत् पूजयेत्ततः ॥
कृत्वा तण्डुलनिर्वापं तस्मिन् क्षीरे पचेच्चरुम् ॥ इति ।
नारायणीयेऽपि—- तत्र सम्भृतसम्भारः शिवमिष्ट्वा विधानतः ।
मूलमूर्त्त्यङ्गविद्याभिस्तण्डुलक्षेपणादिकम् ॥
कृत्वा चरुं पचेत् क्षीरे पुनस्तद्विभजेत् त्रिधा ।
निवेद्यैकं परं हुत्वा सशिष्योऽन्यद् भुजेद् गुरुः ॥ इति ॥ १३०॥
तण्डुलान् शालिसम्भूतान् मूलमन्त्राभिमन्त्रितान् ।
प्रसृतीनां पञ्चदश क्षिप्त्वा चाऽस्त्रमनुं जपेत् ॥ १३१ ॥
प्रक्षाल्य पात्रवदनं पिधाय कवचाणुना ।
प्राङ्मुखो मूलमन्त्रेण देशिकेन्द्रश्चरुं पचेत् ॥ १३२ ॥
तण्डुलानिति ।
प्रसृतीनां पञ्चदशभिः परिमितानिति शेषः।
तण्डुलान् प्रक्षाल्या- ऽस्त्रमनुं जपन् क्षिप्त्वा इति सम्बन्धः ।
प्रसृतिलक्षणमग्रे वक्ष्यते ॥ १३१-१३२ ॥
स्रुवेणाज्येन संस्विन्ने दद्यात्तप्ताभिघारणम् ।
मूलेन पश्चात्तत्पात्रं कवचेनाऽवतारयेत् ॥ १३३ ॥
अस्त्रजप्ते कुशास्तीर्णे मण्डले विधिवद् गुरुः ।
तं विभज्य त्रिधा भागमेक देवाय कल्पयेत् ॥ १३४ ॥
स्रुवेणेति ।
संस्विन्ने चरौ स्रुवेण कृत्वा मूलमन्त्रेण आज्येन तप्ताभि-
घारणं दद्यादिति सम्बन्धः ।
विधिवद् गुरुरित्यनेन मूलेन कुशेन समविभागः कार्य इत्युक्तम् ॥ १३३-१३४ ॥
अन्यमग्नौ प्रजुहुयादपरं देशिकः स्वयम् ।
शिष्येण सार्द्धं भुञ्जीत विहिताचमनस्तदा ॥ १३५ ॥
अन्येति ।
अग्नाविति कुण्डाग्नौ देशिकः प्रजुहुयादित्यनेनैतदुक्तम् ।
" साज्येन चरुणा तथा " इत्यग्रिमपटले मूलमन्त्रेण पञ्चविंशतिवारमुक्तो होमोऽत्रानुसन्धेयः इति ।
भुञ्जीतेति ।
तत्र विशेषः सोमशम्भौ—-
चरोस्तृतीयभागन्तु ग्रासत्रितयसम्मितम् ।
अष्टग्रासप्रमाणं वा दर्शनस्पर्शवजीतम् ॥
पालाशे पुटके मुक्तौ भुक्तौ पिप्पलपत्रजे ।
हृदा सम्भोजयेन्मन्त्री पूतैराचमयेज्जलैः ॥ इति ॥ १३५ ॥
आचान्तं शिष्यमानीय सकलीकृत्य देशिकः ।
तालप्रमाणं हृज्जप्तं क्षीरवृक्षादिसम्भवम् ॥ १३६ ॥
दन्तकाष्ठं तदा दद्याच्छिष्याय नियतात्मने ।
दन्तान् विशोध्य स पुनस्तत् प्रक्षाल्य विसर्जयेत् ॥ १३७ ॥
सकलीकृत्येति मन्त्रषडङ्गमस्याङ्गे न्यस्येति ।
तालेति ।
प्रसृतपाणेरङ्गुष्ठाग्रा- न्मध्यमाग्रं यावत्तालः ।
तदुक्तम्—-
अङ्गुष्ठमध्यमाङ्गुल्यौ ये हस्तस्य प्रसारिते ।
तदग्रयोरन्तरालं तालमाहुर्मनीषिणः ॥ इति ।
देशिको दद्यादित्यनेन दानमन्त्र उक्तः ।
यत् पिङ्गलामते—-
माया दण्डिनि ठद्वन्द्वं प्रदद्यादमुना च तत् ।
इति ।
विसर्जनानन्तरं तत्परीक्षा कर्त्तव्येति विसर्जयेदित्यनेनोक्तम् ।
प्रक्षाल्य निक्षिपेद्भूमौ वामतो वामपाणिना ।
इति ।
प्रयोगसारे विशेषः ।
स यथा नारायणीये—-
दन्तकाष्ठं हृदा जप्तं क्षीरिवृक्षादिसम्भवम् ।
सम्मार्ज्य दन्तांस्तच्छित्त्वा प्रक्षाल्यैतद्भुवि क्षिपेत् ॥
दिक्षु पूर्वाद्यधोर्द्धासु तस्याग्रपतनं क्रमात् ।
वृद्धिस्त्रपो मृतिवीत्तं क्षयं शान्तिर्गदो धनम् ॥
सुखवृद्धिः परं दुखं फलान्येतानि संशति ।
इति ।
अन्यत्रापि—- धीश्रीतापवियोगापमृत्युशुभदुःस्थताशमैशादौ ।
रदधावनाग्रपाते कुफले मूलाहुतिस्तिलैदीशति ॥ इति ।
अन्यत्रापि—- अथात्र चूतवृक्षस्य द्वादशाङ्गुलमानतः ।
दन्तकाष्ठं प्रदातव्यं तद्दन्ताग्रविचवीतम् ॥
ऊर्द्धास्यं क्षेपयेत्तत्र मण्डले पीठमुन्नयेत् ।
पश्चिमोत्तररुद्रेन्द्रे शुभः पातोऽन्यथाऽशुभः ॥
दुर्निमित्तविनाशाय जुहुयाच्छतमस्त्रतः ॥ इति ।
वायवीयसंहितायान्तु—-त्यक्तं तद्दन्तपवनं दृश्यते गुरुणा यदि ।
प्रागुदक्पश्चिमेशाग्रं शिवमन्यच्छिवेतरम् ॥
अशस्ताशामुखे तस्मिन् गुरुस्तद्दोषशान्तये ।
शतमर्द्धं तदर्द्धं वा जुहुयान्मूलमन्त्रतः ॥ इति ॥ १३६-१३७ ॥
यथाविधि तमाचान्तं शिखाबन्धाभिरक्षितम् ।
विधाय सार्द्धममुना वेद्यां दर्भास्तरे गुरुः ।
शयीत तस्यां तां रात्रिमधिवासः समीरितः ॥ १३८ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
चतुर्थः पटलः समाप्तः ॥ ४ ॥

  यथाविध्याचान्तं यथाविधि शिखाबन्धाभिरक्षितं विधायेति सम्बन्धः ।  

तत्राचमने विधिः पूर्वं मयोक्त एव ।
शिखाबन्धे तु यथाविधीत्यनेनैतदुक्तं भवति ।
मूलमन्त्रस्य सजातिशिखामन्त्रेण अघोरादिमन्त्रेण वा शिखां बध्नीयादिति ।
शयीतेति ।
गुरुस्तस्यां वेद्याम् अमुना शिष्येण सार्द्धं दर्भास्तरे तां रात्रिं शयीतेति सम्बन्धः ।
वेद्यामिति सामीप्यमधिकरणार्थम् ।
तदुक्तं नारायणीये—-
पुनस्तं शिष्यमाचान्तं शिखाबन्धाभिरक्षितम् ।
कृत्वा वेद्यां सहाऽनेन स्वपेद् दर्भास्तरे गुरुः ॥ इति ।
गुरुरित्यनेन देवदक्षिणभागे पूर्वशिरसा शिष्यं स्वापयेदित्युक्तम् ।
स्वप्नमाणवमाश्रित्य स्वापयेत् पूर्वमस्तकम् ।
इति पिङ्गलामत उक्तेः ।
सोमशम्भौ तु—- गृहस्थान् दर्भशय्यायां पूर्वशीर्षास्त्ररक्षितान् ।
हृदा सद्भस्मशय्यायां यतीन् दक्षिणमस्तकान् ॥ इति ।
वायवीयसंहितायान्तु—-देवस्य दक्षिणे भागे शिष्यं तमधिवायसयेत् ।
अहतास्तरणास्तीर्णे सदर्भशयेन शुचिः ॥
मन्त्रिते च शिवं ध्यायन् प्राक्शिरस्को निशि स्वपेत् ।
शिखाबद्धस्य सूत्रस्य शिखया तच्छिखां गुरुः ॥
आवेष्ट्याहतवस्त्रेण तमाच्छाद्य च वर्मणा ।
रेखात्रयञ्च परितो भस्मना तिलसर्षपैः ।
कृत्वाऽस्त्रजप्तैस्तद्बाह्ये दिगीशानां बलिं हरेत् ॥ इति ।
स्वप्नमाणवमन्त्रो वैष्णवेषु मन्त्रतन्त्रप्रकाशे—-
ॐ हृत् सकललोकाय विष्णवे प्रभविष्णवे ।
विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः ।
स्वप्नमाणवमन्त्रोयं कथितो नारदादिभिः ॥ इति ।
शैवशाक्तादौ तु पिङ्गलामते—- तारो हिलिद्वयं शूलपाणये द्विठ ईरितः ।
स्वप्नमाणवमन्त्रोऽयं शम्भुना परिकीत्तीतः ॥ इति ।
तन्त्रान्तरोक्तो विशेषः—-नमोऽजाय त्रिनेत्राय पिङ्गलाय महात्मने ।
वामाय विश्व(विष्णु)रूपाय स्वप्नाधिपतये नमः ॥
स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः ।
क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर ॥
इति मन्त्रेण स्वापकाले देवं सम्प्रार्थ्य स्वपेत् ।
प्रातश्च स्वप्नपरीक्षा कार्या ।
तदुक्तं पिङ्गलामते—-
स्वप्ने शुभाशुभं दृष्टं पृच्छेत् प्रातः शिशु गुरुः ।
शुभे शुभं वदेत्तस्य जुहुयादशुभे शतम् ।
अस्त्रेणेति क्रमात् प्रोक्तो विधिः शिष्याधिवासने ॥ इति ।
अन्यत्रापि—- क्रूरेऽधमा मध्यमा स्याददृष्टे तूत्तमोत्तमा(मापि च) ॥ इति ।
महाकपिलपञ्चरात्रेऽपि—-गुरुपादार्चनं कृत्वा उपवासी जितेन्द्रियः ।
दर्भशयां गतो रात्रौ दृष्ट्वा स्वप्नं निवेदयेत् ॥
कन्यां छत्रं रथं दीपं प्रासादं कमलं नदीम् ।
कुञ्जरं वृषभं माल्यं समुद्रं फणिनं द्रुमम् ॥
पर्वतञ्च हयं मेध्यमाममांसं सुरासवम् ।
एवमादीनि सर्वाणि दृष्ट्वा सिद्धिमवाप्नुयात् ॥
चाण्डालं करभं कारुं गर्त्तं शून्यममङ्गलम् ।
तैलाभ्यक्तं नरं नग्नं शुष्कवृक्षं सकण्ट(नपुंस)कम् ॥
प्रासादमत(न)लं दृष्ट्वा नरो रोगमवाप्नुयात् ।
दृष्ट्वा दुःस्वप्नकञ्चैव होमात् सिद्धिमवाप्नुयात् ॥ इति ।
अत्रोपवासीति रागतः प्राप्तभोजननिषेधः न तु वचनविहितचरुभोजननिषेधः ।
मन्त्रतन्त्रप्रकाशेऽपि—-अथ प्रातः समुत्थाय स्वप्नं दृष्ट्वा विचारयेत् ।
भद्रे भद्रं विजानीयादभद्रे जुहुयाच्छतम् ॥ इत्यादि ।
नारायणीये तु—- स्वप्नान् संवीक्षितान् शिष्यः प्रभाते श्रावयेद् गुरुम् ।
शुभैः सिद्धिः परैर्भक्तिः ।
इति ।
अधिवासः समीरित इति मन्त्रग्रहणपूर्वदिने ।
पिङ्गलामते तु सद्योऽधिवासोऽप्युक्तः—-
सद्योऽधिवासमथवा प्रकुर्वीत यथाविधि ।
इति ।
मन्त्रतन्त्रप्रकाशेऽपि—-दिनद्वये नैव कुर्याद्दीक्षाकर्म विचक्षणः ।
सद्योऽधिवासनं कुर्यादेकस्मिन् दिवसे यदि ॥
अधिवासशब्दार्थ उक्तो महाकपिलपञ्चरात्रे—-
वसतेरधिपूर्वस्य भावे घञ्प्रत्यये कृते ।
अधिवास इति ह्येष प्रयोगः सिद्धिमेति च ॥
गुर्वादिसहितो वासो रात्रौ नियमपूर्वकः ।
सोऽस्यार्थे हि निपातानामनेकार्थतया मतः ॥ इति ॥ १३८ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां चतुर्थः पटलः ॥ ४ ॥