अथ तृतीयः पटलः
ततो वक्ष्यामि दीक्षाङ्गं वास्तुयागपुरःसरम् ।
कृतेन येन मन्त्रज्ञो दीक्षायाः फलमश्नुते ॥ १ ॥
एवं पूर्वेक्तरीतिप्रपञ्चितस्वरूपसर्वपुरुषार्थप्रदमन्त्रस्य ग्रहणोपायौ दीक्षा ।
तां वक्तुं तदङ्गभूतवास्तुयागादिकं प्रपञ्चयितुं प्रतिजानीते—-तत इति ।
" अङ्गापूर्वसहकृतं प्रधानापूर्वं फलं साधनक्षमं जनयति " इति भट्टन्यायमाश्रित्याह—-कृतेनेति ।
तत्र प्रसङ्गादन्यत् किञ्चिद् दीक्षाङ्गं तन्त्रान्तरोक्तमुच्यते—-
असिद्धिर्भूमिसम्पत्तिर्मरणं बन्धु(बुद्धि)नाशनम् ।
आयुर्वद्धिः प्रजानाशः सम्पत्ती रत्नसञ्चयः ॥
शुभ(पुत्र)प्राप्तिः स्थाननाशो मेधार्थञ्च वशीकृतिः ।
चैत्रादीनां फलं ज्ञेयं मलमासन्तु वर्जयेत् ॥
अन्यत्र तु आषाढस्यापि सम्यक्फलतोक्ता—-
वैशाखपूर्वजे मासे मन्त्रारम्भः सुदुःसहः (दुःखकृत्) ।
वैशाखे धनदायी च ज्येष्ठे मृत्युप्रदो भवेत् ॥
आषाढे पुत्रलाभाया श्रावणे शुभदो मतः ।
भाद्रे चैव ज्ञानहानिस्तथा सद्भिः प्रकीत्तीता ॥
आश्विने सर्वसिद्धिश्च कात्तीके ज्ञानसिद्धिदः ।
शुभकृन्मार्गशीर्षे स्यात् पौषो दुःखविधायकः ।
माघे मेधाविवृद्धिश्च फाल्गुने सर्ववश्यता ॥ इति ।
सिद्धान्तशेखरे तु विशेषः—-
शरत्काले च वैशाखे दीक्षा श्रेष्ठफलप्रदा ।
फाल्गुने मार्गशीर्षे च ज्यैष्ठे दीक्षा तु मध्यमा ॥
आषाढे श्रावणे माघे कनिष्ठा सद्भिरीरिता ।
निन्दितश्चैत्रमासस्तु पौषो भाद्रपदस्तथा ।
निन्दितेष्वपि मासेषु दीक्षोक्ता ग्रहणे शुभा ॥ इति ।
तत्राषाढस्य उत्तमानन्तर्गतत्वान्निषेधः कष्टानन्तर्गतत्वाच्च ग्रहणम् ।
एवं ज्यैष्ठस्यापि निषेध उत्तमानन्तर्भावादेवेति ज्ञेयम् ।
तथा च कालोत्तरे—-
शरद्वसन्तयोर्येगो दीक्षाकर्मविधौ स्मृतः ।
तयोरसम्भवे वर्षां विनाऽन्यत्र प्रशस्यते ॥ इति ।
क्रियाकाण्डशेखरेऽपि—-न विना पर्व दीक्षा स्याद् वर्षासु मधुपौषयोः ।
इति ।
आषाढश्रावणनिषेध उत्तममध्यमानन्तर्भावात् ।
कारणे—- आषाढपूर्वमासे च आषाढे मार्गशीर्षके ।
दीक्षां न कारयेद्धीमानन्यमासे तु कारयेत् ॥ इति ।
मार्गशीर्षनिषेध उत्तमानन्तर्भावादेवेति ज्ञेयम् ।
अगस्त्यसंहितायाम्—-
शुक्लपक्षेऽथ कृष्णे वा दीक्षा सर्वशुभावहा ।
इति ।
कालोत्तरं तु—- भूतिकामैः सिते मुक्तिकामैस्तु कृष्णपक्षके ।
इति विशेषः ।
संहितायाम्—- पूणीमा पञ्चमी चैव द्वितीया सप्तमी तथा ।
त्रयोदशी च दशमी प्रशस्ता सर्वकामदाः ॥ इति ।
अन्यत्र तु—- कृष्णाष्टभ्यां चतुर्दश्यां पञ्चपर्वदिनेऽथवा ।
इति ।
मन्त्रसारसङ्ग्रहेऽपि—- द्वितीया पञ्चमी वापि षष्ठी वापि विशेषतः ।
द्वादश्यामपि कर्त्तव्यं त्रयोदश्यामथापि वा ॥ इति ।
मन्त्ररत्नावल्यान्तु—- चतुर्थीं नवमीं षष्ठीमष्टमीञ्च चतुर्दशीम् ।
पौर्णमासीं विना शेषा हिता उक्ता मुमुक्षुषु ॥ इति ।
तत्त्वसागरसंहितायान्तु—-तां तां तिथिं समालोच्य तद्भक्तांस्तत्र दीक्षयेत् ।
इन्द्रः—- कस्य का तिथिरुद्दिष्टा विशेषाद् वद नारद ।
नारदः—- ब्रह्मणः पौर्णमास्युक्ता द्वादशी चक्रधारिणः ।
चतुर्दशी शिवस्योक्ता वाचः प्रोक्ता त्रयोदशी ॥
द्वितीया तु श्रियः प्रोक्ता पार्वत्याश्च तृतीयिका ।
चतुर्थी गणनाथस्य भानोः प्रोक्ता तु सप्तमी ।
नित्या मार्गेषु पार्वत्या अष्टमी च चतुर्दशी ॥ इति ।
विष्णुदीक्षायां पञ्चरात्रे तु विशेषः—-द्वादश्यां शुल्कपक्षस्य सूर्यसङ्क्रमणे तथा ।
इति ।
सङ्क्रमा विष्णुपदिव्यतिरिक्ताः ।
कालोत्तरे च—-
दिनच्छिद्राणि मुक्त्वा च याश्च स्युस्त्रिदिनस्पृशः ।
इति ।
रत्नावल्यान्तु—- आदित्यं मङ्गलं सौरिं त्यक्त्वा वारांस्तु भूतये ।
इति ।
संहितायाम्—-रवौ गुरौ सिते सोमे कर्त्तव्यं बुधशुक्रयोः ।
इति ।
सिते पक्षे इत्यर्थः ।
अन्यत्र—- उत्तरात्रयरोहिण्यो रेवती पुष्यवासवम् ।
धनिष्ठा वायुमित्राश्विपित्र्यं त्वाष्ट्रञ्च नैरृतम् ।
एशवैष्णवहस्ताश्च दीक्षायान्तु शुभावहाः ॥ इति ।
वासवं ज्येष्ठा ।
वायुः स्वाती ।
मित्रम् अनुराधा ।
अश्वि अश्विनी ।
पित्र्यं मघा ।
त्वाष्ट्रं चित्रा ।
नैरृतं मूला ।
एशम् आर्द्रा ।
वैष्णवं श्रवणम् ।
संहितायामपि—- अश्विनीरोहिणीस्वातीविशाखाहस्तभेषु च ।
ज्येष्ठोत्तरात्रयेष्वेवं कुर्यान्मन्त्राभिषेचनम् ॥ इति ।
रत्नावल्याम्—- त्रीण्युत्तराणि रोहिण्यः पुष्यकं मृगशीर्षकम् ।
हस्ता स्वातिरनुराधा मघा मूलञ्च रेवती ॥
अभिजित् श्रवणञ्च ।
इति ।
कारणे च—- पौष्णं रोहिण्यथादित्यं श्रवणञ्चाश्विनी तथा ।
सावित्रं त्वाष्ट्रवायव्यमैन्द्रं नैरृतमेव च ॥
तिष्यं त्रिरुत्तरार्द्रा च सौम्यं शिष्यत्रिजन्मभम् ।
नक्षत्राणि प्रशस्तानि दीक्षाकर्मणि सुव्रते ॥ इति ।
पौष्णं रेवती ।
आदित्यं पुनर्वसु ।
सावित्रं हस्ता ।
सौम्यं मृगः ।
नीलतन्त्रेऽपि—- रोहिणी श्रवणार्द्रा च धनिष्ठा उत्तरात्रयम् ।
पुष्यः शतभिषा चैव दीक्षानक्षत्रमुच्यते ॥ इति ।
रत्नावल्यान्तु—- प्रतिपत् पूर्वाषाढा च पञ्चमी कृत्तिका तथा ।
पूर्वभाद्रपदा षष्ठी दशमी रोहिणी तथा ॥
द्वादशी सार्पनक्षत्रमर्यम्णा च त्रयोदशी ।
नक्षत्रलुप्ता इत्येते देवानामपि नाशकाः ॥ इति ।
अन्यद् वारादिसंयोगात् तिथिनक्षत्रदुष्टत्वं ज्योतिःशास्त्रादवसेयम् ।
तथा—- शुभयोगेषु सर्वेषु दीक्षा सर्वशुभप्रदा ।
इति ।
रत्नावल्याम्—- योगाश्च प्रीतिरायुष्मान् सौभाग्यः शोभनः शुभः ।
सुकर्मा च धृतिर्वृद्धिर्ध्रुवः सिद्धिश्च हर्षणः ॥
वरीयांश्च शिवः सिद्धो ब्रह्मा एन्द्रश्च षोडश ।
इति ।
तथा—- शुभानि करणान्याहुर्दीक्षायाञ्च विशेषतः ।
शकुन्यादीनि विष्टिञ्च विशेषेण विवर्जयेत् ॥ इति ।
संहितायाम्—- पञ्चाङ्गशुद्धिदिवसे स्वोदये तिथिवारयोः ।
गुरुशुक्रोदये शुद्धलग्ने द्वादशशोधिते ॥
प्रवृद्धे वलसंयुक्ते शुक्रे देवगुरौ तथा ।
शुभे विधुसमायोगे शुभवर्गे शुभोदये ।
इत्यादौ सर्वमन्त्राणां सङ्ग्रहः सर्वसौख्यकृत् ॥ इति ।
तथा च ज्योतिःशास्त्रे—-नीचस्थे वक्रसंस्थेऽप्यतिचरणगते वालबृद्धेऽस्तगे वा
सन्न्यासो देवयात्रा व्रतनियमविधिः कर्णवेधश्च दीक्षा ।
मौञ्जीवन्धो गणानां परिणयनविधिर्वास्तुदेवप्रतिष्ठा
वर्ज्याः सद्भिः प्रयत्नात् त्रिदशपतिगुरौ सिंहराशिस्थिते च ॥ इति।
तथा—- चरः सर्वै वीवर्ज्यः स्यात् स्थिरराशिषु सौख्यदा ।
त्रिषडायगताः पापाः शुभाः(सौम्याः)केन्द्रत्रिकोणगाः ।
दीक्षायान्तु शुभाः प्रोक्ता रन्ध्रस्थाः सर्वनाशकाः ॥ इति ।
आय एकादशस्थानम् ।
केन्द्रेत्यनेन प्रथमचतुर्थसप्तमदशमस्थानानि ।
त्रिकोणेति पञ्चमनवमस्थाने ।
रन्ध्रम् अष्टमस्थानम् ।
तथा—- शिष्यत्रिजन्मदिवसे सङ्क्रान्तौ विषुवेऽयने ।
अन्येषु पुण्ययोगेषु ग्रहणे चन्द्रसूर्ययोः ।
शिष्यानुकूले काले वा देहशुद्धिः शुभावहा ॥ इति ।
महाकपिलपञ्चरात्रेऽपि—-एतन्नक्षत्रतिथ्यादौ करणे योगवासरे ।
मन्त्रोपदेशो गुरुणा साधनञ्च शुभावहम् ॥ इति ।
क्रियाकाण्डशेखरेऽपि तिथ्यादिसर्वमुक्त्वोक्तम्—-
इत्यादिनिपुणं वीक्ष्य दीक्षां कुर्वीत देशिकः ।
मौमुक्षवीं प्रत्ययं न कालादिनियमः स्मृतः ॥ इति ।
रत्नावल्याञ्च—- निन्द्यानि तानि सर्वाणि प्रशस्तानि विमुक्तये ।
इति ।
एतच्च वक्ष्यमाणाग्निचक्रमवलोक्य दिनं कर्त्तव्यमिति ।
अपवादोऽपि—- शशिदिनकरयोर्ग्रहणे जन्मनि शिष्यस्य मकरसङ्क्रान्तौ ।
करुणासमये च गुरोः नक्षत्रादीष्यते न दीक्षायाम् ॥ इति ।
तथा—- शिष्यजन्मदिवसेषु सङ्क्रमे प्रग्रहे शशिदिनेशयोरपि ।
पुण्ययोगयुजि वा शुभे नृणां मन्त्रसिद्धिरभिधीयते परा ॥ इति ।
सिद्धान्तशेखरेऽपि—-विषुवेऽप्ययनद्वन्द्वे आषाढ्यां (सङ्क्रान्त्यां) दम(दम)नोत्सवे ।
दीक्षा कार्या तु कालेषु पवित्रारोपकर्मणि ॥ इति ।
कालोत्तरे च—- दीक्षायामभिषेके च तथा मन्त्रपरिग्रहे ।
व्रतग्रहणमोक्षे च द्रव्यारम्भणकर्मणि ॥
कात्तीक्याञ्चैव वैशाख्यां स्वर्भानोरपि दर्शने ।
चन्द्रसूर्येपरागे च षडशीतिमुखेषु च ॥
ग्रहनक्षत्रयोगेषु विषुवेषुत्सवेषु च ।
अयनेषु च सर्वेषु योगः सर्वार्थसिद्धिदः ॥ इति ।
रुद्रयामलेऽपि—- सत्तीर्थेऽर्कविधुग्रासे तं तु दामनपर्वणोः ।
मन्त्रदीक्षां प्रकुर्वाणो मासर्क्षादीन् न शोधयेत् ॥ इति ।
अगस्त्यसंहितायाञ्च—-सूर्यग्रहणकाले तु नान्यदन्वेषितं भवेत् ।
सूर्यग्रहणकालेन समोऽन्यो नास्ति कश्चन ॥
तत्र यद्यत्कृतं सर्वमनन्तफलदं भवेत् ।
न मासतिथिवारादिशोधनं सूर्यपर्वणि ॥
ददातीष्टं गृहीतं यत् तस्मिन् काले गुरोर्नृषु ।
सिद्धिर्भवति मन्त्रस्य विनायासेन वेगतः ॥
कर्त्तव्यं सर्वयत्नेन मन्त्रसिद्धिमभीप्सुभिः ॥ इति ।
तथान्यत्रापि—- पुण्यतीर्थे कुरुक्षेत्रे देवीपीठचतुष्टये ।
प्रयागे श्रीगुरौ काश्यां कालाकालं न शोधयेत् ॥ इति ।
तत्त्वसागरसंहितायाम्—-तिथिं विनापि दीक्षायां विशिष्टावसरं शृणु ।
दुर्लभे सद्ग्गुरुणान्तु सकृत्सङ्ग उपस्थिते ॥
तदनुज्ञा यदा लब्धा स दीक्षावसरो महान् ।
ग्रामे वा यदिवाऽरण्ये क्षेत्रे वा दिवसे निशि ।
आगच्छति गुरुर्दैवाद् यदा दीक्षा तदा भवेत् ॥ इति ।
तथा—- यदैवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः ।
नि तिथिर्न व्रतं होमो न स्नानं न जपक्रिया ।
दीक्षायाः कारणं किन्तु स्वेच्छावाप्ते तु सद्गुरौ ॥ इति ॥ १ ॥
राक्षसं वास्तुनामानं हत्वाऽधिष्ठाय तत्तनुम् ।
स्थितास्त्रिपञ्चाशद्देवास्तेभ्यः पूर्वं बलिं हरेत् ॥ २ ॥
वास्तुयागोत्पत्तिमाह राक्षसमिति ।
हत्वेति ।
यदुक्तम्—-
कश्यपस्य गृहिणी तु सिंहिका राहुवास्तुतनयावजीजनत् ।
पूर्वजो हरिनिकृत्तकन्धरो दैवतैरवरजो निपातितः ॥ इति ।
महाकपिलपञ्चरात्रेऽपि—-पूर्वमासीन्महानुग्रः सर्वभूतभयङ्करः ।
सदेवैर्निहतो भूमौ स वास्तुपुरुषः स्मृतः ॥
यावद् भूमिः स्थिरा लोके तावद् वास्त्वसुरः स्थितः ।
संहारे तु लयं याति देवैः सर्वग्रहादिभिः ॥
विस्तारोऽस्य समन्ताच्च शतकोटिस्तु योजनः ।
संस्थितोऽसौ धरां व्याप्य प्रोक्तानः कृष्णवर्णकः ॥
जानुकूर्परकौ वास्तोर्वह्निवायुप्रकोष्ठगौ ।
पितृपादपुटश्चायमीशमूर्द्धा हृदञ्जलिः ॥
ऊर्द्धकेशः सुपीनश्च वर्त्तुलाक्षोऽसुराकृतिः ॥ इति ।
अन्यत्राधोमुखतोक्ता ।
वास्त्वीशनामा ह्यसुरोऽतिकायो देवैः पुरा दत्तवरोऽभिपूज्यः ।
शेते स भूम्यां प्रविसार्य पादौ हस्तौ तथाऽधोवदनः सदैव ॥
ईशानेऽस्य शिरो निवेशितमभूद्वास्तोष्पते र्मारुते
वह्नौ चापि करद्वयं पदयुगं नक्तञ्चराशास्थितम् ।
इति ।
वास्तुस्वरूपमाहान्यत्र—-अन्धकासुरसङ्ग्रामे पुरा क्रुद्धस्य शूलिनः ।
अपतत् स्वेदपानीयं ललाटाद् भुवि भीषणम् ॥
सोमशम्भुना तु व्यवस्थोक्ता—-आकुञ्चितकरं वास्तुमुत्तानमसुराकृतिम् ।
स्मरेत् पूजासु कुड्यादिनिवेशे त्वधराननम् ॥
जानुनी कूर्परासक्ते दिशि वातहुताशयोः ।
पैत्र्यां पादपुटौ रौद्य्रां शिरोऽस्य हृदयेऽञ्जलिः ॥ इति।
स्थिता इति पुनरुत्थानशङ्कया ।
तदुक्तं महाकपिलपञ्चरात्रे—-
सर्वान् देवास्तु कार्येषु पूजयेद् वास्तुसंस्थितान् ।
तेनाऽसौ वर्त्तते नो चेत् उत्तिष्ठेन्माधवाज्ञया ॥ इति ।
तेभ्यः पूर्वं वलिं हरेदिति ।
तदुक्तम्—- ततश्च तेषां ये पूजाविमुखास्तैः कृतानि तु ।
सुकृतानि समादद्युर्दुष्कृतानि च कुर्वते ॥
ततस्तेषामर्चयन्तु प्रत्यब्दं कुर्वतां सताम् ।
शुभान्येवाशु जायन्ते नैवाऽशुभकथापि च ॥ इति ।
मयेनाप्युक्तम्—- गृहादिकरणे यत्र नाचीतो वास्तुदैवतः ।
तत्र शून्यं भवेत् सर्वं रक्षोविघ्नादिभिर्हतम् ॥
तस्माद्वास्त्वर्चनं कार्य सम्यक् सम्पदमीप्सुभिः ॥ इति ।
तथा च—- शुभकर्मणि दीक्षायां मण्डपकरणे गृहादिविधिषु तथा ।
विहितो वास्तुबलिः स्याद्रक्षोविघ्नोपशान्तिसम्पद्भ्यः ॥ इति ।
महाकपिलपञ्चरात्रेपि—-भूमेः परिग्रहे पूर्वं शिलानां स्थापने तथा ।
जलाधारगृहार्थञ्च यजेद्वास्तुं विशेषतः ॥
अपरेष्वपि कार्येषु यागहोमादिकेषु च ।
वास्तुमण्डलकं कुर्यात् सूत्रयित्वा समं गुरुः ॥
सुसमं सुखदं वास्तु विषमं न सुखावहम् ।
ब्रह्माद्यदितिपर्यन्ताः पञ्चाशत् त्रयसंयुताः ॥
सर्वेषां किल वास्तूनां नायकाः परिकीत्तीताः ।
असम्पूज्य(गृह्य)हि तान् सर्वान् प्रासादादीन् न कारयेत् ॥
अनिष्पत्तिवीनाशः स्यादुभयोर्धर्मधमीणोः ।
इति ॥ २ ॥
बलिमण्डलमेतेषां यथावदभिधीयते ।
पूर्वापरायतं सूत्रं विन्यसेदुक्तमानतः ॥ ३ ॥
यथावत् साकल्येन मण्डलार्थं चतुःषष्टि कोष्ठोत्पादनमाह पूर्वेति ।
विन्यसेदिति।
" अस गतिदीप्त्यादानेषु " इत्यसौ भौवादिकस्य प्रयोगः ।
उक्तमानतः ।
उक्तं वास्तुशास्त्रे यन्मानं तेन मानेन इत्यर्थः ।
क्वचिद्धस्तमानत इति पाठः ।
महाकपिलपञ्चरात्रे तु विशेषः—-
गृहप्रासादकूपानां मण्डपस्य जलस्य च ।
वास्तुमण्डलकं कार्यमष्टहस्तन्तु नापरम् ॥ इति ॥ ३ ॥
तन्मध्यं किञ्चिदालब्य मत्स्यौ द्वौ परितो लिखेत् ।
तयोर्मध्ये स्थितं सूत्रं विन्यसेद् दक्षिणोत्तरम् ॥ ४ ॥
तन्मध्यमिति ।
तस्य मध्यं किञ्चिदालम्ब्या मध्यात् किञ्चिदधिकं चिह्नमालम्ब्येत्यर्थः ।
कुत इत्यपेक्षायां सूत्राग्रादिति शेषः ।
एवं परित उभयतः उत्तरदक्षिणयोः प्राचीसूत्रस्येति शेषः ।
मत्स्यौ द्वौ चिह्नद्वयं सम्पादयेत् ।
तत्र प्रकारः।
प्राचीसूत्रप्रागग्रे सूत्रादिं निधाय मध्यचिह्नात् सूत्राग्रं भ्रामयेत् ।
एवमपराग्रादपि ।
तत एको मत्स्यः ।
एवमपरत्रापीति द्वितीयो मत्स्यः ।
तदुक्तं सिद्धान्तशेखरे—-
सोमसूत्रप्रसिद्ध्यर्थं सूत्राग्रभ्रमणं ततः ।
प्रागङ्के प्रत्यगङ्के च हस्तं दत्त्वा समाचरेत् ॥
उदग्दक्षिणगो मत्स्यो रेखायां जायते क्रमात् ।
शफरस्य मुखे पुच्छे मध्यचिह्ने प्रसारितम् ॥
समन्तात् सोमसूत्रं स्यात् ।
इति ॥ ४ ॥
द्वाभ्यां द्वाभ्यां तथाऽग्राभ्यां कोणेषु मकरान् लिखेत् ।
मत्स्यमध्ये स्थिताग्राणि तत्र सूत्राणि पातयेत् ॥ ५ ॥
द्वाभ्यामिति ।
तत्र द्वाभ्यां द्वाभ्याम् अग्राभ्यामेकैको मत्स्यः तथा पूर्ववत् ।
तद्यथा।
प्राचीसूत्रार्द्धमितेन प्राचीसूत्राग्रस्थितेन सूत्रेण ईशे आग्रेये चार्द्धचन्द्रं कुर्यात् ।
ततस्तेनैव सूत्रेण उत्तरसूत्राग्रस्थितेन ईशे वायव्ये चार्द्धचन्द्रं कुर्यात् ।
एवमीशे मत्स्य उत्पन्नः ।
तथा पूर्ववत् तत्सूत्रेण पश्चिमाग्रस्थितेन वायव्ये नैरृत्ये चार्द्धचन्द्रं कुर्यात् एवं वायव्ये मत्स्य उत्पन्नः ।
तत् सूत्रेण पश्चिमाग्रस्थितेन वायव्ये नैरृत्ये चार्द्धचन्द्रं कुर्यात् एवं वायव्ये मत्स्य उत्पन्नः ।
तत्सूत्रेण दक्षिणाग्रस्थितेन नैऋर्रत्ये आग्नेये अर्द्धचन्द्रं कुर्यात् ।
तत उभयत्रापि मत्स्यद्वयं जायते ।
तदुक्तं सिद्धान्तशेखरे—-
क्षेत्रार्द्धमानसूत्रेण दिक्षु चिह्नं समालिखेत् ।
दिक्षु चिह्नं समाश्रित्य कोणेष्वङ्कान् समालिखेत् ।
क्षेत्रार्द्धमानसूत्रेण प्रतिलोमानुलोमतः ॥ इति ।
एवं मत्स्यचतुष्के जाते तन्मध्यमाग्रं सूत्रचतुष्कं दद्यादित्याह मत्स्येत्यादि ॥ ५ ॥
चतुरस्रं भवेत्तत्र चतुःकोष्ठसमन्वितम् ।
तत् पुनवीभजेन्मन्त्री चतुःषष्टिपदं यथा ॥ ६ ॥
चतुरस्रमिति वास्तुशरीरस्य चतुरस्रत्वात् ।
तदुक्तम्—-
चतुस्राकृतिः कश्चिदसुरः सर्वनाशकः ।
इति ।
महाकपिलपञ्चरात्रेऽपि—-देवैः स वास्तुपुरुषः स्थापितश्चतुरस्रकः ।
इति ।
आचार्या अपि—-चतुरस्रसंस्थितिरसौ ।
इति ।
प्रयोगसारेऽपि—-ज्ञेयः स वास्तुपुरुषश्चतुरस्रसंस्थः ।
इति ।
चतुष्कोष्ठसमन्वितमिति ।
चतुरस्रमध्ये अधश्च कोणचतुष्के वहिः कोष्ठ- चतुष्कमपरं गुरुगणेशदुर्गाक्षेत्रेशपूजनार्थमुक्तम् ।
तदिति ।
यथाचतुःषष्टिपदं भवेत् तथा तद् विभजेदित्यन्वयः ॥ ६ ॥
ईशानाद्रक्षसो यावद् यावदग्नेः प्रभञ्जनः ।
एवं सूत्रद्वयं दद्यात् कर्णसूत्रं समाहितः ॥ ७ ॥
ईशानादिति ।
प्रभञ्जनो वायुस्तद्दैवत्यः कोणस्तच्छब्दवाच्यः तं यावत् ।
एवं कर्णसूत्रं कर्णसूत्रसञ्ज्ञकं सूत्रद्वयं दद्यात् ।
शिल्पशास्त्रे कोणसूत्रस्य कर्णसूत्रमिति सञ्ज्ञा।
समाहित इति काकाक्षिगोलकन्यायेनोभयत्र सम्बद्ध्यते ।
तत्र समाहितः सावधानो मन्त्री सम्प्रदायेन मन्त्रशास्त्राभिज्ञः पूर्वापरायतं सूत्रं विन्यसेदित्यादि
सप्तसु क्रियासु कर्त्तृत्वेनान्वेति ।
अन्ते उपाकृतत्वात् ।
तत्र चतुःषष्टिकोष्ठोत्पादनप्रकारो यथा—-चतुर्षु कोष्ठेषु कोणसूत्रचतुष्टयमन्यद्दद्यात् ।
तन्मध्योत्पन्नमत्स्येषु पूर्वापरायते द्वे सूत्रे दक्षिणोत्तरायते च द्वे सूत्रे पातयेत् ।
एवं षोडशकोष्ठानि सम्पद्यन्ते ।
ततः चतुर्षु कोणकोष्ठेषु पुनः कर्णसूत्रचतुष्टयं दद्यात् ।
तदुत्पन्नमत्स्येषु पूर्वापरायते द्वे दक्षिणोत्तरायते द्वे च सूत्रे पातयेत् ।
एवञ्च कृते मध्यकोष्ठद्वये मत्स्या उत्पन्नाः तेषु मत्स्येषु द्वे सूत्रे प्रागपरायते द्वे दक्षिणोत्तरायते च दद्यात् ।
एवं चतुःषष्टिकोष्ठानि सम्पद्यन्ते ।
तत्र ग्रन्थान्तरोक्त—- कर्णसूत्रद्वयातिरिक्तकर्णसूत्राणि मार्जये ।
तत्र ईशानशिवोक्तो विशेषः—-
पूज्याश्चतुःषष्टिपदेषु विप्रैरेकोत्तराशीपदे नृपाद्यैः ।
इति ।
हयशीर्षपञ्चरात्रे तु—-एकाशीतिपदं वास्तु गृहकर्मणि शस्यते ।
चतुःषष्टिपदं वास्तु प्रासादेषु प्रशस्यते ॥ इति ।
सोमशम्भावपि—- कुर्यात् कोष्ठचतुःषष्टि प्रासादे वास्तुमण्डलम् ।
गृहेऽपि वर्त्तयेद् वास्तुं किन्त्वेकाशीतिकोष्ठकैः ॥ इति ।
महाकपिलपञ्चरात्रे—-प्रासादार्थं चतुःषष्टिरेकाशीतिगृहे तथा ।
इति ।
तथाऽन्यत्रापि—- एकाशीतिपदं कृत्वा वास्तुञ्चैव गृहादिषु ।
चतुःषष्टिपदो वास्तुः प्रासादे ब्रह्मणा स्मृतः ॥
इत्युक्तवा मण्डपान् प्रवरान् वक्ष्ये प्रासादस्यानुरूपतः ।
इत्युक्तम् तेनाति देशिकमण्डपे इदं वास्तुमण्डलम् ॥ ७ ॥
ब्रह्माणं पूजयेदादौ मध्ये कोष्ठचतुष्टये ।
दिक्चतुष्केषु पूर्वादि यजेदार्यमनन्तरम् ॥ ८ ॥
विवस्वन्तं ततो मित्रं महीधरमतः परम् ।
ब्रह्माणमिति ।
समाहित इति आदौ मध्ये कोष्ठचतुष्टये ब्रह्माणं पूजयेदिति सम्बन्धः ।
कोष्ठचतुष्टये एकाकारेण माजीते इत्यर्थः ।
तत्र पद्मं विलिखेत् ।
तदुक्तं महाकपिलपञ्चरात्रे—-पञ्चविंशत्पदे मध्ये ब्रह्माणन्त्वर्चयेत् कजे ।
इति ।
कादिमतेऽपि—- सर्वमध्ये यजेत् सम्यक् ब्रह्माणं कमलासनम् ।
हेमाभञ्च चतुर्वक्त्रं वेदाध्ययनशालिनम् ॥ इति ।
आदाविति सरस्वतीसाहित्यमुक्तम् ।
समाहित इत्यनेनैतदुक्तं भवति ।
पूर्वं पीठमभ्यर्च्य पश्चात् तत्र ब्रह्माणं पूजयेदिति ।
तत्र मण्डूकादिपरतत्त्वान्तं सम्पूज्य अणिमादि सर्व- सिद्ध्यन्ता नव पीठशक्तीः सम्पूज्य ।
ॐ सर्वज्ञानक्रियाव्यक्तकमलासनाय योगपीठाय नमः इति पीठमन्त्रः ।
ॐ नमो ब्रह्मणे इति मूलमन्त्रः ।
प्रजापतिः ऋषिः ।
पङ्क्तिश्छन्दः।
ब्रह्मा देवता ।
अक्षरैरङ्गानि ।
अक्षस्रक्स्रुव(क्)—-दण्डकमण्डलुधरो ब्रह्मा ध्येयः ।
अणिमादीनां ध्यानमुक्तं कुलप्रकाशतन्त्रे—-
सिन्धुरस्थाऽणिमा पूज्या पीतवर्णा चतुर्भुजा ।
वरवज्रधरा दक्षे वामेऽभयनिधानभृत् ॥
महिमां महिषारूढां पूजयेत् कज्ज्वलप्रभाम् ।
दण्डाभयधरां वामे दक्षे शक्त्यक्षमालिनीम् ॥
नक्रस्था लघिमा श्यामा पूजनीया चतुर्भुजा ।
नागपाशधरा दक्षे तद्वामेऽभयवारिजे ॥
कनकाद्रिनिभा पूज्या कूर्मस्था गरिमा तथा ।
गदावरधरा दक्षे वामेऽभयनिधानभृत् ॥
पूज्या प्रेतगता नीलविद्युत्पुञ्जनिभेशिता ।
वरखड्गधरा दक्षे वामे साभयकर्त्तृका ॥
पूज्या या वशिता धूम्रा मृगस्था सा चतुर्भुजा ।
सारविन्दध्वजा दक्षे वामे वरसरोजिनी ॥
छागलस्थाऽतिरक्ताङ्गी स्यात् पूजायां प्रकामता ।
शक्त्यक्षमालिनी दक्षे वामे सवरकुण्डिका ॥
पूजनीया वृषारूढा प्राप्तिस्तुहिनसन्निभा ।
सत्रि(शक्ति)शूलवरा दक्षे वामे साभयवारिजा ॥
सर्वसिद्धिः पद्मरागप्रभा पूज्या चतुर्भुजा ।
साक्षमालारविन्दा च बीजपूरसरोजिनी ॥ इति ।
दिगिति ।
दिक्चतुष्केषु पूर्वादि यजेत् ।
प्रादक्षिण्येनेति शेषः ।
कोष्ठचतुष्टये इदमत्राऽप्यन्वेति ।
एकाकारेण माजीते इत्यर्थः ।
तेन आर्यः पूर्वदिशि विवस्वान् दक्षिणदिशि मित्रः पश्चिमदिशि महीधरः उत्तरदिशि पूज्यः ।
तदुक्तमाचार्यैः—-
प्राग्याभ्यवारुणोदग्दिक्कोष्ठचतुःपदेषु समभियजेत् ।
इति ॥ ८ ॥
कोणार्द्धकोष्ठद्वन्द्वेषु वह्न्यादिपरितः पुनः ॥ ९ ॥
सावित्रं सवितारञ्च शक्रमिन्द्रजयं पुनः ।
रुद्रं रुद्रजयं विद्वानापं चाऽप्यापवत्सकम् ॥ १० ॥
कोणेति ।
कोणे ब्रह्मपदस्य कोणभागे अर्द्धे अधऊर्द्धकोष्ठे ।
कर्णसूत्रेण भेदितत्वात् ।
यत्र तदर्द्धकोष्ठं तस्य द्वन्द्वानि तेषु वह्न्यादि आग्नेयादि उपरिकोष्ठे सावित्रम् अधःकोष्ठे सवितारं यजेत् ।
परित इति चतुदीक्षु ।
तदुक्तम्—-
सोमशम्भुना—- मध्ये नवपदो ब्रह्मा शेषास्तु पदिकाः स्मृताः ।
षट्पदास्तु मरीच्याद्या दिक्षु पूर्वादिषु क्रमात् ।
अष्टौ कोणाधिपास्तत्र कोणार्द्धेष्वष्टसु स्थिताः ॥ इति ।
अत्र यद्यपि उपर्यधो वेतिपदं नास्ति तथापि
महाकपिलपञ्चरात्रोक्तवास्तु- शरीरावस्थितिनिरुपणेनोपरिक्रमो लभ्यते ।
तद् यथा—-
मस्तके संस्थितो रुद्रः कर्णयोस्तस्य संस्थितौ ।
पर्ज्जन्यश्चादितिश्चैव मुखे चापः सुसंस्थितः ॥
आपवत्सः स्थितः कण्ठे जयन्तश्च दितिः पुनः ।
स्कन्धयोः पञ्चार्गलाद्या महेन्द्राद्या भुजद्वये ॥
वक्षःस्थौ रुद्रसावित्रौ दासस्तु सविता तथा ।
हस्तौ तु हृद्गतौ तस्य ब्रह्मा नाभौ व्यवस्थितः ॥
पृथ्वीधरो मरीचिश्च स्तनयोः कुक्षिगौ पुनः ।
विवस्वान् मित्रनामा च पादयोः पितरः स्थिताः ॥
पापाद्याश्चैव पूषाद्याः सप्त सप्तोरुजङ्घके ।
इन्द्रो मेढ्रे स्थितस्तस्य जयो वृषणसंस्थितः ॥ इति ।
रुद्र ईशानः ।
दासो रुद्रजयः ।
पृथ्वीधरो महीधरः ।
मरीचिरार्यः ।
पितरः निरृतिः ।
पापो रोगः ।
इन्द्रः शक्रः ।
इति ज्ञेयम् ।
यदुक्तम्—- ईशश्चेशानरुद्रोऽसौ तज्जयो रुद्रदासकः ।
मरीचिरार्यकः ख्यातः पिता स्याद्राक्षसाधिपः ॥
पापो रोग इति ख्यातः ।
इति ।
अन्यत्रापि—- धातृवह्नी समाश्रित्य कृत्वा चाधः पदत्रयम् ।
सावित्रमर्चयेत्तत्र पदे वासवसञ्ज्ञके ॥
विधिसावित्रयोर्मध्ये सवितारं पदत्र(द्व)ये ।
आश्रित्य पितृधातारौ कृत्वा चाधः पदत्र(द्व)यम् ॥
यजेदिन्द्रं महाभागं पदे लोकसुसञ्ज्ञके ।
तथा चेन्द्रजयः पूज्यो ब्रह्मशक्रसुमध्यगः ॥
आश्रित्य वायुधातारौ कृत्वा चाधः पदत्रयम् ।
तत्र देवं यजेद्रुद्रं पदे भुवनसञ्ज्ञके ॥
तथेशवेधसोर्मध्ये तज्जयञ्च पदत्रये ।
एशान्यामापकं कामपदत्रयसुसंस्थितम् ॥
तदापवेधसोर्मध्ये यजेद् वत्सं पदत्रये ॥ इति ।
सोमशम्भावपि—- सावित्रे रक्तपुष्पाणि वह्न्यधः कोणकोष्ठके ।
तदधःकोष्ठके दद्यात् सवित्रे च कुशोदकम् ॥
हरिद्रौदनमिन्द्राय रक्षोऽधःकोणकोष्ठके ।
इन्द्रजयाय मिष्टान्नमिन्द्राधस्तान्निवेदयेत् ॥
रुद्राय घृतसिद्धान्नं वायुकोणाधरे पदे ।
तदधो रुद्रजयाय मांसमार्द्रं निवेदयेत् ॥
आपोऽथ शिवकोणाधस्तद्वत्साय च तत्तले ।
इति ॥
अग्रे तत्कर्णसूत्रोभयतः इति कर्णसूत्रस्य प्रयोजनत्वादत्र कोणार्द्ध- कोष्ठेत्युक्तम् ॥ ९-१० ॥
तत्कर्णसूत्रोभयतः कोष्ठद्वन्द्वेषु देशिकः ।
शर्वं गुहं चार्यमणं जृम्भकं पिलपिच्छकम् ॥ ११ ॥
चरकीञ्च विदारीञ्च पूतनामर्चयेत् क्रमात् ।
अर्चयेद् दिक्षु पूर्वादि सार्द्धाद्यन्तपदेष्विमान् ॥ १२ ॥
अष्टावष्टौ विभागेन देवान् देशिकसत्तमः ।
क्रमादीशानपर्जन्यजयन्ताः शक्रभास्करौ ॥ १३ ॥
सत्यो वृषान्तरिक्षौ च दिशि प्राच्यामवस्थिताः ।
अग्निः पूषा च वितथो यमश्च गृहरक्षकः ॥ १४ ॥
गन्धर्वे भृङ्गराजश्च मृगो दक्षिणदिग्गताः ।
निरृति दौर्वारिकश्च सुग्रीववरुणौ ततः ॥ १५ ॥
पुष्पदन्तासुरौ शे(शो)षरोगौ प्रत्यग्दिशि स्थिताः ।
वायुर्नागश्च मुख्यश्च सोमो भल्लाट एव च ।
अर्गलाख्यो दित्यदिती कुवेरस्य दिशि स्थिताः ॥ १६ ॥
तदिति ।
दिशत्युपदिशति शिष्येभ्यो मन्त्रानिति देशिको मान्त्रिकः ।
सर्वत्र क्रमादिति वह्न्यादिपरितः इति क्रमोऽनुसन्धेयः ।
सार्द्धाद्यन्तेति ।
अर्द्धे च ते आद्यन्ते च अर्द्धाद्यन्ते अर्द्धाद्यन्ताभ्यां सह वर्त्तमानानि यानि पदानि तेषु ।
इदञ्च कर्णसूत्रेणाऽर्द्धीकृतकोणकोष्ठतो लभ्यते ॥ ११-१६ ॥
उक्तानामपि देवानां पदान्यापूर्वपञ्चभिः ।
रजोभिस्तेष्वथैतेभ्यः पायसान्नैर्बलिं हरेत् ॥ १७ ॥
अयं वास्तुबलिः प्रोक्तः सर्वसम्पत् समृद्धिदः ॥ १८ ॥
बलिविधानमाह उक्तानामिति ।
पञ्चमी रजोभिः सर्वतोभद्रमण्डले वक्ष्यमाणैः।
तत्र कमलानि वक्ष्यमाणप्रकारेणैव पूरयेत् ।
तत्र मध्यपद्मं श्वेतमन्यानि रक्तानि ।
तदुक्तं दिव्यसारस्वते—-मध्ये पदानां नवकं मार्जयित्वा प्रपूरयेत् ।
सितेन रजसा भूयस्तद्दिक्षु च चतसृषु ॥
षट्कं सम्मार्ज्य रजसा रक्तेन परिपूरयेत् ।
शिष्टानि च पदान्यत्र यथास्थानं प्रकल्पयेत् ॥
विचित्राणि ततो मध्ये ब्रह्माणं सम्प्रपूजयेत् ॥ इति ।
पदसीमारेखाः श्वेताः पदानि च विचित्राणि ।
वास्तुदेवानां ध्यानं तन्त्रान्तरोक्तं लिख्यते—- उक्तानां सर्वदेवानां स्वरूपञ्च निगद्यते ।
अक्षमालां स्रुचं(वं)दक्षे वामे दण्डकमण्डलुम् ॥
दधानमष्टनयनं यजेन्मध्येऽम्बुजासनम् ।
सर्वे चतुर्भुजा देवा वास्तुदेहे व्यवस्थिताः ॥
कृताञ्जलिपुटाः सर्वे खड्गखेटकपाणयः ।
ब्रह्माणं सन्निरीक्षन्ते तद्वक्त्राभिमुखाश्च ते ॥
स्वस्वस्थाने स्थिताश्चैव साधारणमुदाहृतम् ।
मरीचिः श्वेतवर्णः स्याद् विवस्वान् रक्त(अभ्र)वर्णकः ॥
शातकुम्भसमो(नभो)मित्रः कृष्णवर्णस्तु भूधरः ।
सविता नीलवर्णाभः सावित्रो धूम्रविग्रहः ॥
इन्द्रश्चारुणवर्णाभः शुक्लश्चेन्द्रजयस्तथा ।
रुद्रः प्रवालसदृशः पीतो रुद्रयस्तथा ॥
आपो गोक्षीरधवल आपवत्सो जपाद्युतिः ।
ईशानः क्षीरधवलः पर्जन्योऽञ्जनसन्निभः ॥
जयन्तोऽञ्जनसङ्काशो महेन्द्रश्चाः(श्या)मलद्युतिः ।
आदित्यो रक्तवर्णः स्यात् सत्यकश्चित्रवर्णकः ॥
वृषो वन्धूकपुष्पाभः कुन्दाभश्चान्तरिक्षकः ।
उद्यद्दिनकराभोऽग्निः पूषा रक्ताब्जसन्निभः ॥
वितथश्चेन्द्रचापाभो विद्युद्वर्णे गृहक्षतः ।
यमश्चाञ्जनसङ्काशो गन्धर्वः पद्मरागवत् ॥
भृङ्गराजश्च भृङ्गाभो मृगो जीमूतसन्निभः ।
निरृतिः पावकाभश्च पीतो दौवारिकः स्मृतः ॥
सग्रीवो नीलकण्ठाभश्चन्द्राभः पुष्पदन्तकः ।
वरुणः स्फटिकभाङ्गो भृङ्गाभश्चासुरो मतः ॥
शे(शो)षश्चोत्पलसङ्काशः पापयक्ष्मे(रोगश्चैवे)न्द्रनीलवत् ।
वायुः कृष्णाभवर्णः स्यान्नागः शङ्खेन्दुसन्निभः ॥
मुख्यो मौक्तिकसङ्काशो भल्लाटः श्वेतपद्मवत् ।
सोमः स्फटिकसङ्काशोऽर्गलो रक्तोत्पलद्युतिः ॥
दितिः कुन्देन्दुधवला कपिला चादितिः स्मृता ।
चरकी शङ्खसद्दशी विदारी पावकद्युतिः ॥
पूतना हिमसङ्काशा मेघाभा पिलपिच्छिका ।
खड्गञ्च पानपात्रञ्च छुरिकां कर्त्तरीं तथा ॥
दधाना भीमरूपास्ता राक्षस्यः परिकीत्तीताः ।
सितो रक्तश्च पीतश्च कृष्णः स्कन्दादिका ग्रहाः ॥
वज्रं शक्तिञ्च खड्गञ्च पाशञ्च विकृताननाः ।
दधाना भीषणाः प्रोक्ता ग्रहाः स्कन्दादिकाश्च ते ॥ इति ।
अष्टादशरेखा नाडीत्वेन तत्तद्देवतात्वेन च ध्येयाः ।
तदुक्तम्—- लक्ष्मी यशोवती कान्ता सुप्रिया सुकला शिवा ।
सुभगा सुमुखी नन्दा नाड्यः प्राचीमुखोद्गताः ॥
धन्या प्राणा विशाला च स्थिरा भद्रा जया निशा ।
विरजा विभवा चैता नाड्यः सौम्यमुखाः स्मृताः ॥ इति ।
पायसान्नैरिति बहुवचनमाद्यर्थम् ।
तेन वक्ष्यमाणानि लाजादिद्रव्याणि सङ्गृहीतानि ।
तत्र प्रतिदैवतं बलिद्रव्यभेदा मन्त्राश्चोक्ताः महाकपिलपञ्चरात्रे—-
पायसौदनलाजैश्च युक्तं धूपैः प्रसूनकैः ।
अक्षतं तिलसंयुक्तं माषभक्तादिमण्डितम् ।
गृहणेमं बलिं ब्रह्मन् वास्तुदोषं प्रणाशय ॥
गन्धादिशर्करापूपं पायसोपरि संस्थितम् ।
आर्यकाख्य गृहाणेमं सर्वदोषं प्रणाशय ॥
चन्दनाद्यचीतं नाथ कर्पूरागुरुमण्डितम् ।
विवस्वन् वै गृहाणेमं सर्वदोषं प्रणाशय ॥
सगुडं पायसं नाथ पुष्पादिसुसमन्वितम् ।
गृहाणेमं बलिं हृद्यं मित्र शान्तिं प्रयच्छ मे ॥
माषौदनं समांसञ्च गन्धादिक्षीरसंयुतम् ।
गृहाणेमं महीभृत् त्वं सर्वदोषं प्रणाशय ॥
एवमन्तर्बलिं दत्त्वा सर्वेषामन्येषां यद्यप्यर्चा आग्नेयादि तथापि ईशानादि बलिं दद्यात्।
वचनानुरोधात् ।
वचनं यथा—-
ईशादिदक्षिणावर्त्ते बलिः सामान्यभाषितः ।
सर्वेषां खलु वस्तूनां विशेषः पदनिर्णये ॥ इति ।
अन्यत्र पूजापि ईशाद्ये चोक्ता ।
ईशकोणादिषु सुरान् पूजयेच्च विधानतः ।
इति ।
अन्यत्रापि—- ईशानादिचतुष्कोणसंस्थितान् पूजयेद् बुधः ।
इति ।
तथा—- क्षीरं खण्डसमायुक्तं पुष्पादिभिरलङ्कृतम् ।
गृहाणेमं बलिं हृद्यमाप शान्तिं प्रयच्छ मे ॥
दधीदं गुडसम्मिश्रं गन्धादिवस्तुमण्डितम् ।
गृहाणेमं बलिं वत्स विघ्नमत्र प्रणाशय ॥
पुष्पादिकुशपानीयं कर्पूरागुरुवासितम् ।
सावित्र वै गृहाणेमं शान्तिमत्र प्रयच्छ मे ॥
पिष्टकं सगुडं नाथ रक्तगन्धादिशोभितम् ।
गृहाणेमं बलिं सूर्य विघ्नमत्र प्रणाशय ॥
शीतमन्नं तथा पुष्पं कुङ्कुमादिसमन्वितम् ।
गृहाणेमं बलिं हृद्यं शक्रदेव नमोऽस्तु ते ॥
ओदनं घृतसंयुक्तं वस्त्रगन्धादिमण्डितम् ।
गृहाणेमं बलिं हृद्यमिन्द्रजय नमोऽस्तु ते ॥
पक्वापक्वमिदं मांसं वस्त्रपुष्पादिसंयुतम् ।
गृहाणेमं बलिं हृद्यं रुद्रदेव नमाम्यहम् ॥
हृन्मांसं(समांसं) सघृतं पक्वं गन्धपुष्पादिसंयुतम् ।
गृहाणेमं बलिं रुद्रजय स्वस्ति प्रयच्छ मे ॥
रक्तपुष्पं समांसं वै रक्तवस्त्रादिसंयुतम् ।
विदारि वै गृहाणेमं रक्षोविघ्नं विनाशय ॥
पित्तं रक्तास्थिसंयुक्तं रक्तगन्धादिमण्डितम् ।
गृहाणेमं बलिं पापे (पूतने त्वं) रक्षोविघ्नं प्रणाशय ॥
सघृतं माष(मांस) भक्तञ्च वस्त्रगन्धाद्यलङ्कृतम् ।
बलिं गृहाण शर्वेमं रक्षोविघ्नं प्रणाशय ॥
मांसं पुष्पादिसंयुक्तं माषभक्तोपशोभितम् ।
गृहाणेमं बलिं स्कन्द रक्षोविघ्नं प्रणाशय ॥
श्वमांस (सुरसं) पिष्टकैर्युक्तं पक्वमांसोदकान्वितम् ।
अर्यमन् वै गृहाणेमं रक्षोविघ्नं प्रणाशय ॥
रक्तमांसौदनं मत्स्यं गन्धधूपसमन्वितम् ।
जृम्भक त्वं गृहाणेमं रक्षोविघ्नं प्रणाशय ॥
छागकर्णान्वितं मांसं वस्त्रगन्धादिसंयुतम् ।
पिलिपिच्छ गृहाणेमं रक्षोविघ्नं प्रणाशय ॥
घृतेन साधितं मांसं वस्त्रगन्धादिसंयुतम् ।
चरकि वै गृहाणेमं रक्षोविघ्नं प्रणाशय ॥
सघृतं चाक्षतान्नञ्च वस्त्रगन्धाद्यलङ्कृतम् ।
गृहाणेमं बलिन्त्वीश वास्तुदोषापहारकम् ॥
उत्पलं पायसैर्युक्तं वस्त्रादिकसमन्वितम् ।
गृहाणेमं बलिं हृद्यं देव(मेघ)राज नमोऽस्तु ते ॥
पञ्चहस्तं सुपीतञ्च ध्वजं भक्तादिमण्डितम् ।
गृहाणेमं बलिं हृद्यं जिष्णुसुत नमोऽस्तु ते ॥
ओदनं घृतसम्पूर्णं पञ्चरत्नादिमण्डितम् ।
गृहाणेमं बलिं हृद्यं (देव) देवराज नमोऽस्तु ते ॥
रक्तपुष्पयुतं भक्तं रक्तगन्धादिभिर्यतम् ।
गृहाणेमं बलिं हृद्यं भास्कर त्वं नमोऽस्तु ते ॥
वितानं धूम्रवर्णाभं गन्धादिकसुशोभितम् ।
वस्त्रयुक्तं (रक्तपुष्पं) गृहाणेमं बलिं सत्य नमोऽस्तु ते ॥
इदन्तु मांसभक्तं वै वस्त्रगन्धादिपूजितम् ।
गृहाणेमं वृष बलिं वास्तुदोषं प्रणाशय ॥
इदन्तु शाद्वलं मांसं नैवेद्यादिसुसंयुतम् ।
गृहाणेमं बलिं हृद्यं व्योम शान्तिं प्रयच्छ मे ॥
सुवर्णं पिष्टकञ्चाथ वस्त्रगन्धादिभिर्यतम् ।
घृतान्वितं गृहाणेमं सप्तजिह्व नमोऽस्तु ते ॥
क्षीरं लाजसमायुक्तं रक्तपुष्पादिमण्डितम् ।
गृहाणेमं बलिं हृद्यं पूषदेव नमोऽस्तु ते ॥
दधिगन्धादिभिर्युक्तं पीतपुष्पसमन्वितम् ।
बलिं वितथ गृह्णेमं विघ्नमत्र प्रणाशय ॥
भक्तं मधुप्लुतं चैणं रक्तवस्त्रादिमण्डितम् ।
गृहाणेमं बलिं हृद्यं यमदेव नमोऽस्तु ते ॥
पक्वमांसौदनं नवनीतं वस्त्रादिमण्डितम् ।
प्रीतिकरं गृहाणेमं गृहरक्ष नमोऽस्तु ते ॥
नानागन्धसमायुक्तं रक्तपुष्पादिभिर्युतम् ।
बलिं गृहाण गन्धर्व सर्वदोषं प्रणाशय ॥
इमान्तु शाकुनीं जिह्वां माषभक्तोपरिस्थिताम् ।
गृहाणेमं बलिं भृङ्गराज शान्तिं प्रयच्छ मे ॥
यवं घृततिलोपेतं गन्धपुष्पादिसंयुतम् ।
गृहाणेमं बलिं हृद्यं मृगदेव नमोऽस्तु ते ॥
शर्करासंयुतं खण्डं वस्त्रगन्धादिमण्डितम् ।
प्रीति बलिं गृहाणेमं रक्षोराज नमोऽस्तु ते ॥
चन्दनागुरुकाष्ठञ्च गन्धपुष्पादिभिर्युतम् ।
गृहाणेमं बलिं हृद्यं दौवारिक नमोऽस्तु ते ॥
इदन्तु पायसं नाथ गन्धपुष्पादिमण्डितम् ।
सुग्रीव वै गृहाणेमं बलिं शान्तिं प्रयच्छ मे ॥
यवा(ग्राणि)न्नानि च गोदुग्धं भक्तोपरि सुरोपितम् ।
गृहाणेमं बलिं हृद्यं जलराज नमोऽस्तु ते ॥
माषभ(यु)क्तं कुशस्तम्बं घृतगन्धादिसंयुतम् ।
पुष्पदन्त गृहाणेमं सर्वदोषं प्रणाशय ॥
मधुना साधितं पिष्टं गन्धाद्यैरुपशोभितम् ।
बलिं गृहाणासुरेन्द्र सर्वदोषं प्रणाशय ॥
घृतञ्चाऽन्नसमायुक्तं कर्पूरादिसुवासितम् ।
गृहाणेमं बलिं शेष(शोष)सर्वशान्तिं प्रयच्छ मे ॥
यवजं तण्डुलं नाथ गन्धपुष्पादिशोभितम् ।
गृहाणेमं बलिं रोग सर्वदोषं प्रणाशय ॥
सघृतं मण्डक(मोदक)ञ्चेदमन्नाद्यैरुपशोभितम् ।
गृहाणेमं बलिं हृद्यं मृगवाह नमोऽस्तु ते ॥
इदञ्च कृशरं चान्नं पुष्पगन्धादिमण्डितम् ।
पातालेश गृहाणेमं विघ्नमत्र प्रणश्यतु ॥
नारिकेलोदकं भक्तं पीतवस्त्रादिसंयुतम् ।
गृहाणेमं बलिं मुख्य वास्तुदोषं प्रणाशय ॥
पायसं मधुना मिश्रं नानापूजो(पीतपुष्पो)पशोभितम् ।
गृहाणेमं बलिं सोम सर्वदोषं प्रणाशय ॥
ओदनं घृतसम्मिश्रं गन्धपुष्पसमन्वितम् ।
गृहाणेमं बलिं हृद्यं भल्लाट त्वं नमोऽस्तु ते ॥
माषान्नञ्च घृताभ्यक्तं पुष्पगन्धादिमण्डितम् ।
गृहाणेमं बलिं हृद्यमर्गलाख्य नमोऽस्तु ते ॥
क्षीरं खण्डसमायुक्तं नानापूजो(पुष्पो)पशोभितम् ।
दैत्यमातर्गृहाणेमं सर्वदोषं प्रणाशय ॥
पोलिकां मधुसंयुक्तां गन्धवस्त्रादिसंयुताम् ।
गृहाणेमं बलिं हृद्यं देवमातर्नमोऽस्तु ते ॥
स्वर्गपातालमर्त्येषु ये देवा वास्तुसम्भवाः ।
गृह्णन्त्वमुं बलिं हृद्यं तुष्टा यान्तु स्वमन्दिरम् ॥
मातरो भूतवेताला ये चान्ये बलिकाङ्क्षिणः ।
विष्णोः परिषदा ये च तेऽपि गृह्णन्त्विमं बलिम् ॥
पितृभ्यः क्षेत्रपालेभ्यो बलिं दत्त्वा प्रकामतः ।
अभावादुक्तमार्गस्य कुशपुष्पादिभिर्यजेत् ॥ इति ।
सर्वसम्पदित्यनेन दिशां बलिरप्युक्तः ।
तदुक्तं प्रयोगसारे—-
वास्तुशेष क्रियाभूतः सर्वरक्षाविभूतिकृत् ।
भूतप्रीतिप्रदश्चाऽस्मिन् दिशां बलिरुदीर्यते ॥
दिक्पालपरिषत्सर्वभूतानुद्दिश्य नामभिः ।
पूजा विसर्जनान्तो यः स विज्ञेयो दिशां बलिः ॥
दध्यम्बुरजनीपुष्पलाजशक्तुतिलान्धसा ।
द्रव्येण वितरेद्दिक्षु बलिं दिक्क्रमयोगतः ॥
सुराणां तेजसाञ्चैव प्रेतानां (प्रजानां)रक्षसामपि ।
तथा जलानां प्राणानां नक्षत्राणाञ्च यत् पुनः ॥
विद्यानामधिपानाञ्च तान्यथोक्त्वा(क्तान्)बलिं हरेत् ।
सवाहनपदं प्रोक्त्वा परिवाराय शक्तये ॥
तत्पार्षदेभ्यश्च ततः सर्वेभ्य इति संयुतम् ।
भूतेभ्यश्च क्रमाद्भूयः प्रादक्षिण्यात् क्षिपेद्वलिम् ॥
द्विषत्पिशाचवेतालरक्षोरक्षाभयात्तीहा ।
दिशां बलिवीशेषेण सर्वसम्पत्समृद्धिदः ॥
वास्तौ गेहे प्ररोहे(प्रद्रोहे) भूतद्रोहे गृहप्रवेशे च ।
वितते च शान्तिहोमे दिशां बलिः सिद्धये प्रयोक्तव्यः ॥ इति।
तत्र यथोपदेशं प्रयोगो लिख्यते ।
अथ यजमान आचार्यं वृणुयात् ।
तत आचार्ये वक्ष्यमाणलक्षणां भूमिं परिगृह्य वक्ष्यमाणमार्गेण तच्छुद्धिं विधाय पञ्च- ब्रह्मभिः
पञ्चगव्यैर्भूमिं सिञ्चेत् ।
तन्मध्ये कनकशलाकया रत्नेन वा तदभावे रजत- फलपुष्पधान्यानामन्यतमेन वा—-
शान्ता यशोवती कान्ता विशाला प्राणवाहिनी ।
सती च सुमना नन्दा सुभद्रा नवमी मता ॥
इति नव रेखाः प्रागपरायताः दक्षिणोपक्रमा उदगपवर्गा विलिख्य—-
हिरण्या सुव्रता लक्ष्मीवीभूतिवीमला प्रिया ।
जया कला विशोका च नवमी संस्मृता बुधैः ॥
इति नव रेखा दक्षिणोत्तरायताः पश्चिमोपक्रमाः पूर्वसमाप्तिका विलिख्य ततः शुल्कडोरकादिना ताः
सम्यक्निर्माय पूर्वेक्तप्रकारेण पञ्चरजोभिर्मण्डितं पूर्वेक्त- कोणकोष्ठचतुष्टयोपेतं विचित्रं मण्डलं रचयेत् ।
तत्पश्चिमदिशि हस्तमात्रं त्रिमेखलं कुण्डं स्थण्डिलं वा विदध्यात् ।
ततो बहिः कोणकोष्ठस्थान् गुरुगणेशदुर्गाक्षेत्रपालान् चतुष्पदं नाभिगं ब्रह्माणं तत्पूर्वदिशि चतुष्पदं
वामस्तनगमार्यकम् इत्यादि अर्द्धपद- गामदितिं कर्णगामित्यन्तं पूर्वेक्ततत्तत्पदतदङ्गस्थितान्
त्रिपञ्चाशद्देवान् पदार्थानुसमयेन ब्रह्मन् इहागच्छ इह तिष्ठेति सर्वानावाह्य प्रणवादिनमोऽन्तेन
चतुर्थ्यन्तस्वस्वनाममन्त्रेण पाद्यादिभिरुपचारैः प्रपूजयेत् ।
ततो मण्डलादीशानकोणे अव्रणमकृष्टमूलं बहि- र्दध्यक्षतविभूषितं
चूताश्वत्थन्यग्रोधोडुम्बरप्लक्षपल्लवसञ्च्छन्नमुखं वस्त्रयुगान्वितम्
अन्तर्निक्षिप्तपञ्चरत्नविविधफलं निर्मलजलपूर्णं दृढं कलसम् अक्षतानामुपरि स्थापयेत्।
तत इमं मे वरुण इति वरुणगायत्र्या वरुणं कलसे न्यसेत्।
गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च ।
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥
इत्यनेन तीर्थान्यावाह्य अश्वस्थानगजस्थानवल्मीकनदीसङ्गमह्नदगोकुलरथ्यातः सप्त- मृत्तिका आनीय कलसे
निक्षिप्य " वं वरुणाय नमः " इति मन्त्रेण तत्र कलसे पञ्चोपचारैः वरुणं पूजयेत् ।
ततः—-
मुरा मांसी वचा कुष्टं शैलेयं रजनीद्वयम् ।
शटी चम्पकमुस्तञ्च इति सर्वौषधीश्च प्रक्षिपेत् ।
ततः कुण्डादिसमीपमेत्य संस्कारादि अग्निमुखान्तं कर्म कृत्वा ब्रह्मादित्रिपञ्चाशद्देवेभ्यः
अष्टोत्तरसहस्रमष्टोत्तरशतमष्टाविंशतिमष्टौ वा प्रत्येकं यवैर्वा कृष्णतिलैर्वा
उदुम्बरतदतिरिक्तक्षीरवृक्षीयपालाशखदिरापामार्ग कुशदूर्वाणामन्यतम- समिद्भिः वा आहुतीर्जुहुयात् ।
केचित्तु ब्रह्मण आहुतिशतम् अन्येषां दशदशाहुतय इत्याहुः ।
तत ॐ वास्तोष्पतये नमः अनेन वैदिकैर्वा तल्लिङ्गैः पञ्चमन्त्रैः पञ्चविल्व- फलानि
विल्वबीजानि वा जुहुयात् ।
तत उत्तरतन्त्रं समाप्य वौषडन्तेनाऽग्निमन्त्रेण वरुणमन्त्रेण वा पूर्णाहुतिं हुत्वा तन्त्रोक्तद्रव्यैः
तत्तन्मन्त्रैश्च त्रिपञ्चाशद्देवताभ्यो बलिं दत्त्वा दिशां बलिञ्च विधाय आचार्यः प्रत्यङ्गमुखो भूत्वा
प्राङ्मुखं साध्यं शान्तिकलसोदकेन—-ॐ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
इत्यादिभिः वशिष्ठसंहितोक्तमन्त्रैः वैदिकैश्च मन्त्रैः मङ्गलाभिषेकं कृत्वा सर्वौषधिजलैः स्नापयेत् ।
तत आचार्यः पुनः ब्रह्मादिदेवान् पञ्चोपचारैः सम्पूज्य ततः—- यान्तु देवगणाः सर्वे
पूजामादाय पाथीवीम् ।
इष्टकामप्रसिद्ध्यर्थं पुनरागमनाय च ॥
इति पठेत् ।
ततः शिष्य आचार्याय दक्षिणां दद्यात् ।
तत आचार्ये मण्डपस्य पश्चिमभागे स्थण्डिलं कृत्वा तस्मिन् साध्यं संस्थाप्य सुदर्शनेनाऽघोरेण वा तं
सकलीकृत्य स्वयमपि तन्मूत्तीर्भूत्वा रक्तोष्णीषवस्त्रोत्तरीय माल्यचन्दनादिनाऽ- लङ्कृत्य साध्यस्य दक्षिणे
भागे उदङ्मुखः स्थित्वा सौवर्णराजतताम्रादीनामन्यतमं पात्रमादाय तत्र तान् ब्रह्मादिदेवतानिवेदित पिण्डान्
यथास्थानं निधाय तत्तद्देवताश्च वास्तुपुरुषेण सार्द्धं तत्रैव संस्थाप्य प्रत्येकं पिण्डेषु घृतदीपं
निधाय रक्तपुष्पैरलङ्कृत्य साध्यं सम्प्रोक्ष्य तत्पात्रं कराभ्यामादाय—-
भूतानि यानीह वसन्ति तानि बलिं गृहीत्वा विधिवत् प्रयुक्तम् ।
अन्यत्र वासं परिकल्पयन्तु क्षमन्तु तान्यत्र नमोऽस्तु तेभ्यः ॥
इति मन्त्रेण साध्यं नीराज्य अन्यस्मिन् पात्रे आढकपरिमितं रक्तोदकं भूतक्रूरञ्च निष्पाद्य तत्रापि नव
दीपान् निधाय तेन नीराज्य खड्गपाणिः स्वयं खड्गहस्तैरनेकैः परिवृतो दीपिकाशतैश्च परिवृतः
पञ्चविधवाद्यघोष स्वस्तिसूक्तसङ्घुष्ट दिग्भागः चत्वरं महावृक्षमूलं
वा तडागनदीदेवालयानामन्यतमदेशं गत्वा तत्र स्थण्डिलं गोमयेनोपलिप्य प्राङ्मुखस्तत्तद्देवताः
संस्थाप्य पिण्डानपि तत्र तत्र निधाय चतुदीक्षु भूतक्रूरेण पूर्वेक्तमन्त्रेण बलिदानं कृत्वा रक्तोदकं
तत्र निःक्षिप्य प्रदक्षिणं परिक्रम्य प्रक्षालितपाणिपादनयनः पुनः पुनरपश्यन्नेव तत्सर्वं परिवारान् ।
अग्रतः प्रस्थाप्य स्वयं ध्याननिष्ठः सन् साध्यं समागत्य तस्य रक्षां कुर्यात् ।
इति मुख्यप्रकारः ।
यदाहुः—- वास्तूपशमनं कुर्यात् समिद्भिर्बलिकर्मणा ।
होमस्त्रिमेखले कार्यः कुण्डे हस्तप्रमाणके ॥
यवैः कृष्णतिलैस्तद्वत् समिद्भिः क्षीरवृक्षजैः ।
पालाशैः खादिरैर्वाऽपामार्गेडुम्बरसम्भवैः ॥
कुशदूर्वामयैर्वापि मधुसपीः समन्वितैः ।
कार्यस्तु पञ्चभिवील्वैवील्वबीजैरथापि वा ॥
होमान्ते भक्ष्यभोज्यैश्च वास्तुदेशे बलिं हरेत् ।
तत्तद्विशेषनैवेद्यमिदं दद्यात् क्रमेण तु ॥ इत्यादिना ।
अन्यत्राऽस्य प्रत्यब्दं कालविशेषे कर्त्तव्यतोक्ता ।
यदाहुः—-
एवं सिंहगते भानौ पूर्णायां प्रतिवत्सरम् ।
स्वगेहे वास्तुपूजाया मण्डले सहुतक्रमात् ॥
एवं विदधतो गेहे नाऽकल्याणं कदाचन ॥
अकाल(आवाल)मरणं व्याधिभूतप्रेतादिकानि च ।
न सर्पपीडा नान्योन्यकलहान्यशुभानि च ॥
पुत्रपौत्रधनारोग्यपशुदासीसमृद्धिभाक् ।
अरोगी विजयी ख्यातश्चिरं जीवति तद्गृहे ॥
राजवेश्मसु सर्वत्र तथा च महिषीगृहे ।
सचिवामात्य सेनानीभवनेषु पुरे तथा ॥
विदध्यात् प्रतिवर्षन्तु प्रोक्तसिद्ध्यै तु देशिकः ।
न चेदुक्तान्यथारूपफलैः क्लेशोऽनिशं भवेत् ॥ इति ॥ १७-१८ ॥
नक्षत्रराशिवाराणामनुकूले शुभेऽहनि ।
ततो भूमितले शुद्धे तुषाङ्गारविवजीते ॥ १९ ॥
मण्डपमाह नक्षत्रेति ।
ज्योतिःशास्त्रसमुक्तप्रकारेण नक्षत्रराशिवाराणां मध्ये साध्यानुकूलनक्षत्रे साध्यानुकूलराशौ अनुकूलवारे
शुभेऽहनि ज्योतिःशास्त्रसमुक्त- शुभतिथौ ततो मण्डपं रचयेदिति सम्बन्धः ।
तथा च राजमार्त्तण्डे—-
आदित्यद्वयरोहिणीमृगशिरोहस्ताधनिष्ठोत्तरा-
पुष्याविष्णुमघानुराधपवनैः शुद्धैः सुतारान्वितैः ।
सौम्यानां दिवसेषु पापरहिते योगे विरिक्ते तिथौ
विष्टित्यक्तदिने वदन्ति मुनयो वेश्मादिकार्यं शुभम् ॥ इति ।
भूमितले शुद्धे इति ।
तत्र भूमिपरीक्षोक्ता महाकपिलपञ्चरात्रे—-
तत्र भूमिं परीक्षेत वास्तुज्ञानविशारदः ।
स्फुटिता च सशल्या च वल्मिका रोहिणी तथा ॥
दूरतः परिवर्ज्या भूः कर्त्तुरायुर्धनापहा ।
स्फुटिता मरणं कुर्यादूषरा धननाशिनी ॥
सशल्या क्लेशदा नित्यं विषमा शत्रुतो भयम् ।
ईशकोणप्लवा सा च कर्त्तुः श्रीदा सुनिश्चितम् ॥
पूर्वप्लवा वृद्धिकरी वरदा(बलदा)तूत्तरप्लवा ।
विद्वेषं मरणं व्याधिं कुर्याद् वह्निप्लवा मही ॥
या दक्षिणप्लवा(धर्मराजप्लवा)भूमिर्नित्यं मृत्युभयप्रदा ।
गृहक्षयकरी सा च भूमिर्या नैरृतप्लवा ॥
धनहानिकरी पृथ्वी कीत्तीता वरुणप्लवा ।
वातप्लवा तथा भूमिर्नित्यमुद्वेगकारिणी ॥
श्वेता तु ब्राह्मणी पृथ्वी रक्ता वै क्षत्रिया स्मृता ।
वैश्या पीता च विज्ञेया कृष्णा शूद्रा प्रकीत्तीता ॥
ब्राह्मणी घृतगन्धा स्यात् क्षत्रिया रक्त(रस)गन्धकृत् ।
क्षीरगन्धा भवेद् वैश्या शूद्रा विङ्गन्धिनी क्षितिः ॥
मधुरा ब्राह्मणी भूमिः कषाया क्षत्रिया स्मृता ।
वैश्या तिक्ताऽथ विज्ञेया शूद्रा स्यात् कटुका मही ॥
ब्राह्मणी भूः कुशोपेता क्षत्रिया स्याच्छराकुला ।
कुशकाशाकुला वैश्या शूद्रा सर्वतृणाकुला ॥
सिता पीता तथा रक्ता कृष्णवर्णसमन्विता ।
स्थिरोदका दृढा स्निग्धा भूमिः सर्वसुखावहा ॥
शीतस्पर्शेष्णकाले च वह्निस्पर्शा हिमागमे ।
वर्षासु चोभयस्पर्शा सा शुभा परिकीत्तीता ॥ इति ।
हयशीर्षपञ्चरात्रेपि—-सुरभीणां रतिर्यत्र सवत्सानां वृषैः सह ।
सुन्दरीणां रतिर्यत्र पुरुषैः सह सत्तम ॥
काश्मीरचन्दनामोद कर्पूरागुरुगन्धिनी ।
कमलोत्पलगन्धा च जातिचम्पकगन्धिनी ॥
पाटलामल्लिकागन्धा नागकेशरगन्धिनी ।
दधिक्षीराज्यगन्धा च मदिरासवगन्धिनी ॥
सुगन्धिब्रीहिगन्धा च शुभगन्धयुता च या ।
सर्वेषामेव वर्णानां भूमिः साधारणी मता ॥ इति ।
तथा—- ज्ञात्वा भूमिं परीक्षेत पूर्वेदक्प्लवनां शुभाम् ।
असङ्कटां तथाच्छन्नां तृणैस्तोयपरिप्लुताम् ॥
सम्पूर्यमाणे खाते तु तथाऽधिकमृदां शुभाम् ।
कुसुमप्रकरस्तद्वत् यस्यामम्लानिमृच्छति ॥
न निर्वाति तथा दीपस्तोयं शीघ्रं न जीर्यति ।
श्वेतारुणा पीतकृष्णा विप्रादीनां प्रशस्यते ॥
आज्यासृग्गन्धमद्यानां तुल्यगन्धा तु या भवेत् ।
मधुरा च कषाया च अम्ला च कटुका च या ॥
कुशैः शरैस्तथा काशैर्दूर्वाभिर्या च सम्भृता ।
इति ।
प्रयोगसारेऽपि—- वितस्तिमात्रविस्तारं निर्माय विवरं भुवि ।
निःक्षिपेत् तां मृदं तस्मिन् तासु शिष्टासु शोभनम् ॥
समासु मध्यमं विद्यान्न्यूनास्वधममुच्यते ।
परीक्ष्यैवं प्रयत्नेन त्यक्त्वा भूमिं कनीयसीम् ॥
अङ्गारतुषकेशास्थिहीनं कृत्वाऽथ भूतलम् ।
इत्यादिना ।
तुषेति ।
तुषा धान्यत्वचः अङ्गारो निर्वापितमुल्मुकम् ।
आदिशब्दात् अस्थिकेशपाषाणभस्मादिशल्यं तद्वजीते ।
अन्यथा दोषदर्शनात् ।
यदुक्तम्—-
वाशिष्ठ्याम्—- खन्यमाने यदा कुण्डे पाषाणः प्राप्यते भुवि ।
तदाऽपमृत्यवे चास्थिकेशाङ्गारैर्धनक्षयः ॥
भस्मनाऽग्निभयं प्रोक्तं तुषैः प्रोक्ता दरिद्रता ।
इति ।
तत्र शल्यज्ञानमादियामलोक्ताहिबलचक्राद् ज्ञेयम् ।
तद्यथा—-
अहिचक्रं प्रवक्ष्यामि यथा सर्वज्ञभाषितम् ।
द्रव्यं शल्यं तथा शून्यं येन जानन्ति साधकाः ॥
ऊर्द्धं रेखाष्टकं लेख्यं तिर्यक् पञ्च तथैव च ।
अहिचक्रे भवन्त्येवमष्टाविंशतिकोष्ठकाः ॥
तत्र पौष्णाश्विनीयाम्य कृत्तिकामघभाग्यभम् ।
उत्तराफाल्गुनी लेख्या पङ्क्तौ तत्सप्तकं ध्रुवम् ॥
अहिर्बुध्नोऽजपादर्क्षं शतभं ब्राह्मसर्पभम् ।
पुष्यं हस्तं समालेख्यं द्वितीयां पङ्क्तिमास्थितम् ॥
अभिजिद्विष्णू धनिष्ठा सौम्यं रौद्रं पुनर्वसुम् ।
चित्रभञ्च तृतीयायां पङ्क्त्यां धिष्णस्य सप्तकम् ॥
विश्वर्क्षं तोयभं मूलं ज्येष्ठा मैत्रविशाखभौ ।
स्वाती पङ्क्त्यां चतुर्थ्यन्तु कृत्वा चक्रं विलोकयेत् ॥
रेवत्यश्विनी भरणी कृत्तिका मघापूर्वेत्तराः प्रथमपङ्क्तौ ।
उत्तरभाद्रपदा पूर्वभाद्रपदा शतभिषा रोहिणी अश्लेषा पुष्या हस्ता द्वितीयपङ्क्तौ ।
अभिजित् श्रवणा- धनिष्ठामृगशिरआर्द्रापुनर्वसुचित्राः तृतीयपङ्क्तौ ।
तत उत्तराषाढापूर्वाषाढामूलज्येष्ठा- नुराधाविशाखास्वात्यः चतुर्थपङ्क्तौ ।
एवं प्रजायते चक्रे प्रस्तारः पन्नगाकृतिः ।
द्वारशाखा मघा याम्या द्वारस्थ कृत्तिका मता ॥
अश्वीशपूर्वाषाढादि त्रिकपञ्चचतुष्टयम् ।
रेवतीपूर्वभाद्रेन्दोर्भानि शेषाणि भास्वतः ॥
उदयादिगता नाड्यो भघ्नाः षष्ट्याप्तशेषके ।
दिनेन्दुभुक्तयुक्तोऽसौ भवेत् तत्कालचन्द्रमाः ॥
चन्द्रवत् साधयेत् सूर्यम् ऋक्षस्थं चेष्टकालिकम् ।
पश्चाद् विलोकयेत् तौ च स्वऋक्षेऽथाऽन्यभे स्थितौ ॥
चन्द्रऋक्षे यदाऽर्केन्दू तदा स्यान्निश्चितो निधिः ।
भानुऋक्षे स्थितौ तौ चेत् तदा शल्यं न चाऽन्यथा ॥
स्वस्वभे द्वितीयं ज्ञेयं नास्ति किञ्चिद् विपर्यये ।
भुक्तराश्यंशमानेन भूमानं काम्बिकैः करैः ॥ इति ।
तथाच—- चन्द्रस्थाने निधिर्ज्ञेयः सूर्यस्थाने तु शल्यकम् ।
इति ।
इदं चक्रं गुरुमुखाद् ज्ञात्वा शल्योद्धारं कुर्यादिति ।
इदञ्च निवर्त्तनपरिमितभूमौ एकमेव कुर्यात् ।
निवर्त्तनस्वरूपञ्च—-
दण्डस्तु दशहस्तः स्यात् त्रिंशद्दण्डैर्निवर्त्तनम् ।
इति ।
तन्मध्ये वारद्वयम् अन्यच्चक्रं लेखनीयम् ।
तत ऊर्द्धं नेति सम्प्रदायविदः ।
अथवा महाकपिलपञ्चरात्रोक्त प्रकारेण शल्योद्धारः कर्त्तव्यः ।
तद्यथा—-
प्रासादारम्भकाले च गृहादौ च विशेषतः ।
शल्योद्धारस्तु कर्त्तव्यो यदीच्छेच्छुभमात्मनः ॥
प्रासादारम्भकाले च यदङ्गं स्पृशते पुमान् ।
वास्तुदेहे दृढं तत्र शल्यं विद्याद्विचक्षणः ॥
कण्डूयति शिरः पुंसि शिरः शल्यं समुद्धरेत् ।
शल्यं तत्राऽस्थि(स्ति) विज्ञेयं खन्यमाने करत्रये ॥
अग्निदाहश्च रोग(ध)श्च धनहानिश्च जायते ।
यत्नेनोत्पाटयेच्छल्यं यदीच्छेद्भद्रमात्मनः ॥
बाहू कण्डूयमाने तु निदीशेल्लोहशृङ्खलम् ।
हस्तद्वयेन सन्तिष्ठेल्लक्षणं कथितं तव ॥
स्वामिनो मरणं विद्याद् विदेशे गमनं तथा ।
यत्नेनोत्पाटयेच्छल्यं यदीच्छेत् सिद्धिमात्मनः ॥
ऊरू कण्डूयमाने तु कांस्यशल्यं विनिदीशेत् ।
हस्तेनैकेन सन्तिष्ठेल्लक्षणं कथितं तव ॥
असती च भवेद् भार्या यशोहानिश्च जायते ।
यत्नेनोत्पाटयेच्छल्यं यदीच्छेच्छुभमात्मनः ॥
हस्तौ कण्डूयमाने तु कङ्कालञ्च विनिदीशेत् ।
त्रिहस्तेन च सन्तिष्ठेत् खन्यमाने न चान्यथा ॥
अग्निदाहश्च रोगश्च सशल्यं मरणं भवेत् ।
यत्नेनोत्पाटयेच्छल्यं यदीच्छेद्भद्रमात्मनः ॥
पृष्ठं कण्डूयमाने तु बाहुशल्यं विनिदीशेत् ।
हस्तेनैकेन सन्तिष्ठेन्नात्र कार्या विचारणा ॥
स्वामिनाशो भवेत्तत्र भार्या वा जायतेऽसती ।
पादौ कण्डूयमाने तु हस्तशल्यं विनिदीशेत् ॥
सार्द्धहस्तेन सन्तिष्ठेल्लक्षणं गदितं तव ।
गोनाशो राजदण्डश्च शस्यहानिश्च जायते ॥
यत्नेनोत्पाटयेच्छल्यं यदीच्छेत् सिद्धिमात्मनः ।
कुक्षिं कण्डूयमाने तु पाषाणं तत्र निदीशेत् ॥
हस्तद्वितयमानेन लक्षणं गदितं तव ।
भुजङ्गदंशस्तत्र स्यात्तस्माच्छल्यं समुद्धरेत् ॥
जानू कण्डूयमाने तु भस्म तत्र विनिदीशेत् ।
हस्तद्वयेन सन्तिष्ठेल्लक्षणं गदितं तव ॥
अग्निदाहो मनस्तापः क्लेशदुःखभयानि च ।
करोत्येवंविधं कर्म तस्मात् तं वै समुद्धरेत् ॥
गोशृङ्गं पीतमण्डूकः शङ्खः शुक्तिश्च कच्छपः ।
शम्बुकश्च प्रशस्ताः स्युर्याश्चान्या रत्नजातयः ॥
अङ्गारं वै तुषं केशमस्थिशल्यं विचारयेत् ।
खन्धमाने जलं यावच्छल्यदोषो विनश्यति ॥
दूरनीचस्थितं वारि खनितुं नैव शक्यते ।
पञ्चहस्तं प्रखातव्यं शल्यदोषोपशान्तये ॥
शल्योद्धारं ततः कृत्वा पूरयेत् सुसमं यथा ॥ इति ।
हयशीर्षपञ्चरात्रेऽपि—-प्रासादे दोषदं शल्यं भवेद् यावज्जलान्तकम् ।
तस्मात् प्रासादिकी भूमिः शोध्या यावज्जलान्तिका ।
शिलान्तं कर्करान्तं वा यावद् वा शुद्धतां ब्रजेत् ॥ इति ॥ १९ ॥
पुण्याहं वाचयित्वा तु मण्डपं रचयेच्छुभम् ।
पञ्चभिः सप्तभिर्हस्तैर्नवभिर्वा मितान्तरम् ॥ २० ॥
पुण्याहं वाचयित्वेति ।
पुण्याहवाचनं वह्वृचानां प्रसिद्धतरम् ।
अथवा अस्य यजमानस्य पुण्याहं भवन्तो ब्रुवन्तु एवं स्वस्ति भवन्तः एवम् ऋद्धिं भवन्तः " इति
त्रिः पुण्याहवाचनम् ।
तदुक्तं वोधायनेन—-
" पुण्याहं वाक्यं स्वस्त्यृद्धिमित्योङ्कारपूर्वं त्रिस्त्रिरेकैकामाशिषं वाचयित्वा " इति ।
तत्र पूर्वादिदिग्ज्ञान—-निश्चयपूर्वकमेव मण्डपादि कुर्यात् ।
अन्यथा दोषदर्शनात् ।
तदुक्तम्—- यदि कुर्याद् यथादृष्टं विपन्नो निरयं व्रजेत् ।
भानोर्गत्या दिशो(दिकं) ज्ञात्वा कूर्यात् कर्माणि देशिकः ॥ इति।
अन्यत्रापि—- वास्तुवैषम्यतो यत्र सम्यङ् न ज्ञायते ककुप् ।
तत्र शङ्कुं प्रतिष्ठाप्य जानीयाच्छुद्धदिक्स्थितिम् ॥ इति ।
तद्विज्ञानोपायस्तत्रैवोक्तः—-तद्गत्या दिक्परिज्ञानं शृणु वक्ष्ये यथाविधि ।
सुसमे भूतले कृत्वा वृत्तं भ्रमणरूपतः ॥
तन्मध्यबिन्दौ शङ्कुन्तु स्थापयेद् द्वादशाङ्गुलम् ।
अग्रच्छायाद्वयवशाद् वृत्ते पूर्वापरद्वये ॥
पूर्वापराह्णयोः कृत्वा चिह्ने तमभितस्तथा ।
ससमान परिभ्रान्त्या कृत्वा वृत्तद्वयं पुनः ॥
तयोः संश्लेषसञ्जातमध्यदक्षोत्तरस्थिते ।
सन्धिद्वये च प्राक् प्रत्यक् सूत्रं मध्ये तु विन्यसेत् ॥
सूत्रं दक्षोत्तरं तेषामग्रैः प्रागादि कल्पयेत् ॥ इति ।
क्रियासारेऽपि—- कृत्वा भूमिं समां तत्र वृत्तं हस्तमितं समम् ।
द्वादशाङ्गुलमानोच्चं शङ्कुं खादिरनिमीतम् ॥
अलाभे यज्ञवार्क्षं वा तत्र संस्थापयेत् सुधीः ।
तच्छाया संस्पृशेद् यत्र तन्मध्ये मध्यमं स्मृतम् ॥
तिर्यक् प्रसारयेत् सूत्रं मध्यं याम्योत्तरे स्मृते ।
कोणाः स्युरन्ये चत्वारश्चतुःसूत्रप्रसारणात् ॥
एवमाशापरिज्ञानं समाख्यातं यथा स्फुटम् ।
ज्ञात्वैवं मण्डपादीनि कुर्यात् सम्यग् विचक्षणः ॥ इति ।
तत्र महाकपिलपञ्चरात्रे तु विशेषः—-
विषुवे तु गते सूर्ये शङ्कुमानं समाचरेत् ।
खादिरं विन्यसेच्छङ्कुं द्वादशाङ्गुलविस्तृतम् ॥
निश्चलीकृत्य हन्तव्यं गृहीत्वा लोहमुद्गरम् ।
अष्टधा च स्वयं हन्यात् प्रशस्तं क्रमतो लघु ॥
हन्यमाने यदा शङ्कौ हस्तात् पतति मुद्गरः ।
तदा ताडयितुः शोको जायते दुस्तरो महान् ॥
मौञ्जकौशेयकार्पासं प्राणिवालजमेव वा ।
चतुर्यवपरीणाहं सूत्रं शङ्कौ तु वेष्टयेत् ॥
वेष्ट्यमानं यदा सूत्रं शङ्कुं मुञ्चति तत्क्षणम् ।
पुत्रस्य मरणं विद्याच्छिन्ने वै स्वविनाशनम् ॥
तत्रापि नारसिंहेन होमेनाऽशुभनाशनम् ॥ इति ।
मयेनाऽप्युक्तम्—- शङ्कुः सारद्रुमैः प्रोक्तस्तस्याग्रं चित्रवृत्तकम् ।
सम्यक् कृत्वा दिनादौ तु स्थापयेत् समभूतले ॥
शङ्कुद्विगुणमानेन तन्मध्ये वर्त्तुलं लिखेत् ।
पूर्वापराह्णयोश्छाया यदा तन्मण्डलान्तगा ॥
तद्विन्दुद्वयगं सूत्रं पूर्वापरदिगिष्यते ।
बिन्दुद्वयान्तरभ्रान्त शफरद्वयपुच्छगम् ॥
दक्षिणोत्तरगं सूत्रमेवं सूत्रद्वयं न्यसेत् ।
तदग्राण्यपरान्तानि सूत्राणि च विनिक्षिपेत् ।
सूत्राणि स्थपतिः प्राज्ञः प्रागुत्तरमुखानि च ॥ इति ।
हयशीर्षपञ्चरात्रेऽपि—-भूमिं तोयसमां कृत्वा दर्पणोदरसन्निभाम् ।
द्वादशाङ्गुलमानेन तत्र वृत्तन्तुं भ्रामयेत् ॥
मध्ये तु निश्चलं शङ्कुं स्थाप्य च्छायां निरीक्षयेत् ।
वृत्तरेखा तु या बाह्यशङ्कुच्छाया प्रकल्पिता ॥
प्रवेशनिर्गमे तस्यां शङ्कुच्छायां निरूपयेत् ।
शङ्कुच्छायाग्रचिह्नाभ्यां प्राक्प्रतीच्योः प्रसाधयेत् ॥
प्राक्प्रतीचीगते सूर्ये उदग्याम्ये तु साधयेत् ।
विषुवे विमलव्योम्नि शङ्कुना साधयेद् दिशम् ।
शरद्वसन्तयोरेवमादित्यात् साधयेद् दिशम् ।
प्राचीं वा पुष्यवेधेन चित्रास्वात्यन्तरेण वा ॥ इति ।
न्यत्रापि—-यथैव पूर्वापरदिग्विभागविशेषविज्ञानमिहोपदिष्टम् ।
समासतस्तं विषयं विविच्य कार्याणि कर्माणि यथोपदिष्टम् ॥ इति ।
रात्रौ तु प्राचीसाधनं यथा—-
कृत्तिका श्रवणः पुष्यश्चित्रास्वात्योर्यदन्तरम् ।
एतत् प्राच्या दिशो रूपं युगमात्रोदिते पुरे ॥ इति ।
त्रिकाण्डमण्डनेऽपि—-श्रवणस्योदये प्राची कृत्तिकायास्तथोदये ।
चित्रास्वात्यन्तरे प्राची न प्राची चन्द्रसूर्ययोः ॥ इति ।
सूक्ष्मपूर्वदिगानयनं त्रैराशिकेन कर्त्तव्यम् ।
तद्यथा ।
द्वितीयदिवसेऽपि तथैव शङ्कुं संस्थाप्य पूर्वापराह्णयोश्चिन्हे कुर्यात् ।
तत्र पूर्वापरदिवसद्वयचिह्नमध्यभुवं तिलादिना विभजेत् ।
ततस्त्रैराशिककल्पना षष्टिघटिकाभिरेतदन्तरञ्चेल्लभ्यत पूर्व-
दिनपूर्वापरचिह्नयोरन्तरालघटिकाभिस्तदा कियदिति त्रैराशिकम् ।
तत्र त्रैराशिकसूत्रं यथा—- आद्यन्तयोस्त्रिराशावभिन्नजाती प्रमाणमिच्छा च ।
फलमन्यजाति मध्ये तदन्त्यगुणमादिना विभजेत् ॥ इति ।
अनेन प्रकारेण या आगता तिलादिप्रमाणिका अन्तरभूस्ताम् उदगयने उत्तरतो दक्षिणायने दक्षिणतः
प्रागङ्क एवं वर्द्धयेत् ।
तत्र रेखां कुर्यात् ।
एषा सूक्ष्मा प्राचीति ।
मण्डपं रचयेदित्यनेनोत्तममध्यमकनीयोभेदेन त्रिविधोऽपि मण्डप उद्दिष्टो भवति ।
तत्र मण्डपत्रैविध्यं मन्त्रमुक्तावल्यामुक्तम्—-
अथ मण्डपनिर्माणं ब्रुमहे ब्रह्मणोदितम् ।
श्रेष्ठमध्यमहीनैस्तु मानैस्तच्च त्रिधा मतम् ॥ इति ।
अनेन मानाधिकोऽथवा न्यूनः इत्यादि क्रियासारोक्तदोषपरिहारः सूचितः ।
त्रिविधस्यापि मण्डपस्य प्रमाणमाह मञ्चभिरिति ।
तत्र यथाश्रुत व्याख्यानं तु पञ्चहस्तविस्तारायामवान् पञ्चविंशतिहस्तक्षेत्रफलः कनीयान् मण्डपः ।
मध्यमस्तु सप्तहस्तविस्तारायामवान् एकोनपञ्चाशद्धस्तक्षेत्रफलः ।
उत्तमस्तु नवहस्तायाम- विस्तारवान् एकोत्तराशीतिकरक्षेत्रफलः ।
तत्रोत्तममण्डपे तावद्विचार्यते ।
ग्रन्थकृदेवाग्रे नवकुण्डीयपक्षमस्मिन्नेव मण्डपे वक्ष्यति ।
तेषु च कुण्डेषु वक्ष्यमाणप्रकारेण वेद्याः पादान्तरं त्यक्त्वा एका तिस्रः पञ्च वा मेखलाः कार्याः ।
तदुक्तं पिङ्गलामते—-
मेखलैकाऽथवा तिस्रो भूतसङ्ख्याऽथवा प्रिये ।
इति ।
तन्त्रान्तरेऽपि—-मेखलाः पञ्च वा तिस्रो वैका वाऽथ सुरेश्वरि ।
इति ।
सिद्धान्तशेखरेऽपि—-सर्वेषामेव कुण्डानामेका वा तिस्र एव वा ।
पञ्च वा मेखलास्ताः स्युः ।
इति ।
प्रतिष्ठासारसङ्ग्रहेऽपि—- " मेखलाः पञ्च वा कार्याः " इति ।
तत्र पञ्चमेखलापक्षे कुण्डानामेव न समावेशः ।
त्रिमेखलापक्षस्तु ग्रन्थकारोक्तः ।
तत्पक्षे यथाकथञ्चित् कुण्डानामेव समावेशः ।
होमकर्त्रादीनां प्रचारस्थलमेव नास्ति अतिसङ्ङ्कीर्णत्वात् ।
किञ्च वैश्वदेवार्थं वक्ष्यमाणस्थण्डिलस्य वेद्यां शयीतेति वक्ष्यमाणशयनस्यापि समा- वेशो नास्ति ।
कर्मान्तरे होमद्रव्याधिक्ये वा कुण्डाधिक्यं तदापि कुण्डसमावेशो नास्ति।
मध्यमाधमयोस्तु का कथा ।
तत्र पञ्चकुण्डीपक्षस्यापि समावेशायोगात् ।
ग्रन्थकारेण तत्रापि नवकुण्डीपक्ष उपन्यस्तः ।
स त्वत्यन्तासङ्गत एव स्यात् ।
तस्मान्न यथाश्रुतव्याख्यानम् ।
केचित्तु वक्ष्यमाणं वेद्याख्यं मध्यमन्तरशब्दार्थमाहुः ।
तन्मते पञ्चदशहस्तविस्तारायामः पञ्चविंशत्यधिकद्विशतकरक्षेत्रफलः कनीयान् मण्डपः ।
मध्यमस्तु एकविंशतिहस्तविस्तारायामः एकचत्वारिंशदधिकचतुःशतकरक्षेत्रफलः ।
उत्तमस्तु सप्तविंशतिहस्तायामविस्तारः एकोनत्रिंशदधिकसप्तशतकरक्षेत्रफलः।
तदपि सतां न समतम् ।
यतो ग्रन्थान्तरे एतादृशमानस्यानुक्तत्वात् ।
मन्त्रमुक्तावल्यादौ परमपि मानम्—-
चतुवींशतिहस्तं वा हस्तविंशतिकं तथा ।
इति ।
अन्यत्रापि—- विंशहस्तप्रमाणेन मण्डपं कूटमेव च ।
इति ।
विंशतिहस्तं चतुवींशतिहस्तमेव चोक्तम् ।
तेनास्य शारदीयपद्यस्यैवमर्थे व्याख्येयः ।
पञ्चभिः सप्तभिरिति समुच्चितम् ।
तेन द्वादशहस्तायामविस्तारः स चतु- श्चत्वारिंशदधिकशतकरक्षेत्रफलः कनीयान् मण्डपः ।
ततः पञ्चभिर्नवभिरित्यन्वेति ।
तेन चतुर्दशहस्तायामविस्तारः चतुरूनद्विशतहस्तक्षेत्रफलः मध्यमो मण्डपः ।
ततश्च सप्तभिर्नवभिरित्यन्वेति ।
तेन षोडशहस्तायामविस्तारः षट्पञ्चाशदधिकद्विशतकर- क्षेत्रफल उत्तमो मण्डपः ।
इति त्रिविधोऽपि मण्डप उक्तो भवति ।
तदुक्तं प्रतिष्ठासारसङ्ग्रहे—-स्वल्पो द्वादशहस्तोऽयं द्विद्विवृद्ध्या ततः क्रमात् ।
इति ।
एतेन चतुर्दशहस्तस्य मध्यमतोक्ता षोडशहस्तस्योत्तमता च ।
सिद्धान्तशेखरेऽपि—- मण्डपोऽर्ककरोऽपिवा ।
कर्त्तव्या मण्डपाश्चान्ये द्विद्विहस्तप्रवृद्धितः ॥ इति ।
सोमशम्भुनापि—- मण्डपोऽर्ककरोऽथवा ।
द्विहस्तोत्तरया वृद्ध्या शेषाः स्युर्मण्डपाः शुभाः ॥ इति ।
महाकपिलपञ्चरात्रेऽपि—-हस्ताच्च द्वादशारभ्य क्रमाद् द्वौ द्वौ प्रवर्द्ध्य च ।
इति।
अन्यत्रापि—- गृहस्येशानभागे तु मण्डपं कारयेद् बुधः ।
द्वादशैरष्टषड्ढस्तैः षोडशैर्वा समन्ततः ॥ इति ।
क्रियासारेऽपि—- अथ द्वादशविस्तारः कनिष्ठो मण्डपः स्मृतः ।
इति ।
पञ्चरात्रेऽपि—- तथा षोडशभिर्हस्तैर्मण्डपः स्यादिहोत्तमः ।
इति ।
मन्त्रमुक्तावल्यामपि—-उत्तमं मानमित्याहुर्हस्तषोडशकं तथा ।
इति ।
अयञ्च मण्डपश्चतुरस्रः कर्त्तव्यः ।
यदुक्तं परिशिष्टे कात्यायनेन—- " प्रमाणं चतुरस्रमादेशादन्यत् " इति ।
सिद्धान्तशेखरेपि—- " चतुरस्रं चतुर्द्वारम् " इति ।
समचतुरस्रता तु वास्तुमण्डल- प्रोक्तविधानेन विधातव्या ।
अत्र विशेषः सिद्धान्तशेखरे—-स्थलादर्काङ्गुलोच्छ्रायं मण्डपस्थलमीरितम् ।
इति ।
महाकपिलपञ्चरात्रे मण्डपं प्रकृत्योक्तम्—-
उच्छ्रायो हस्तमानं स्यात् सुसमं च सुशोभनम् ।
इति ।
अन्यत्रापि—- " क्ष्मास्रं मण्डपमुन्नतम् " इति ।
नन्वत्र मण्डपत्रये कनीयसैव फलसिद्धे- र्मध्यमोत्तमयो—-रननुष्ठानमेव स्यादिति चेन्न ।
फलस्य कर्मनिष्पत्तेस्तेषां लोकवत् परिमाणतः फलविशेषः स्यात् इति न्यायेन फलतारतम्यकल्पनाददोषः ।
तथाहि अग्निहोत्रज्योतिष्टोमयोः स्वर्गः फलत्वेन श्रूयते तत्राद्येनैव तत्सिद्धौ द्वितीये महति कोऽपि न
प्रवर्त्तेत इत्याशङ्क्य फले तारतम्यकल्पनमाकरे परिहृतम् ।
अर्थाद्वा कल्पनैकदेशत्वात् इत्यनेन कल्पनाया अपि श्रुत्येकदेशत्वेनोक्तेः ।
किञ्च वात्तीककृता स्थानप्रमाणादप्येतत् सिद्ध्यति इत्युक्तम् ।
कर्मणामल्पमहतां फलानाञ्च स्वगोचरे ।
विभागस्थानसामान्यादविशेषेऽपि चोदितः ॥ इति ।
एतस्य व्याख्याव्यवस्था कर्मणां स्थानसामान्यादुदिता ।
यथा—-
मध्ये स्वसमुदायस्य फलानामपि सा तथा ।
परिमाणस्य सामान्यादनुक्तेऽपि विशेषतः ॥ इति ।
यत्तु केनचित् " दशरविकरायामावल्पौ मतावथ
मध्यमौ रविमनुकरायामौ " इति द्वादशहस्तस्योभयरूपत्वमुक्तम् ।
तदसत् ।
स्तम्भादिप्रमाणसङ्करापातात् ।
(यथाश्रुतव्याख्यानमपि एककुण्डपक्षे पञ्चकुण्डीपक्षे
यथासम्भवं योजनीयं नतु ग्रन्थकारोक्तनवकुण्डीपक्षे) ॥ २० ॥
षोडशस्तम्भसंयुक्तं चत्वारस्तेषु मध्यगाः ।
अष्टहस्तसमुच्छ्रायाः संस्थाप्या द्वादशाऽभितः ॥ २१ ॥
मण्डपे स्तम्भनिवेशनप्रकारमाह षोडशेति ।
चत्वार इति तेषु स्तम्भेषु मध्ये चत्वारो मध्यगा वेदिकोणेषु स्थाप्याः ।
तदुक्तम् सिद्धान्तशेखरे—-
मध्ये स्तम्भचतुष्कं स्यात्तन्मध्ये वेदिका मता ।
इति ।
अन्यत्रापि—- वेदिकोणेषु विन्यस्येत् स्तम्भान् वेदस्वरूपकान् ।
आग्नेयादिक्रमेणैव ।
इति ।
तेन बहिर्द्वादशस्तम्भस्थापनमपि आग्नेयादिक्रमेणेति ज्ञेयम् ।
तदुक्तम्—-
स्तम्भोच्छ्राये शिलान्यासे सूत्रयोजनकीलके ।
खननावट संस्कारे प्रारम्भो वह्निगोचरे ॥ इति ॥
ते च अष्टहस्तसमुच्छ्रायाः ।
स्तम्भोच्चत्वं वदता ग्रन्थकृता षोडशहस्तस्यैवोत्त- मत्वमुक्तम् ।
यत् पञ्चरात्रे—-मण्डपार्द्धेच्छिरतान् वेदसङ्ख्यांश्चूडान्वितांस्तथा ।
इति ।
अभित इति ।
मध्यस्तम्भानभित इत्यर्थः ।
तदुक्तं क्रियासरे—-
भूमिं समस्थलीकृत्य परिच्छिद्य च सूत्रतः ।
स्तम्भान् समञ्च संस्थाप्य ।
इति ।
पञ्चरात्रेऽपि—- स्तम्भद्वादशकं पुनः ।
बाह्येप्युक्तप्रमाणेन तत्र तत्र विभागतः ॥ इति ॥ २१ ॥
पञ्चहस्तप्रमाणास्ते विच्छिद्रा ऋजवः शुभाः ।
तत्पञ्चमांशं निखनेन् मेदिन्यां तन्त्रवित्तमः ॥ २२ ॥
कीदृशाः षोडशस्तम्भाः ।
निश्छिद्राः छिद्रवजीताः ।
एतेन दृढत्वमुक्तम् ।
ऋजवः अवक्राः ।
क्वचिदपि न स्थूला न कृशा अतएव शुभा इत्यर्थः ।
एवं विधत्वञ्च तेषां सारवृक्षोद्भवत्वं विना न सम्भाव्यते ।
सारद्रुमोत्थम् इदमप्यर्थादुक्तम् ।
यत् पञ्चरात्रे—-सारदारुभवान् स्तम्भान् दृढान् कुर्यादृजून् समान् ।
इति ।
क्रियासारे तु विशेषः—-यज्ञीयवृक्षो वेणुर्वा क्रमुकः स्तम्भकर्मणि ।
अन्ये विशुद्धवृक्षा वा भवेयुर्नान्यभूरुहाः ॥
गृहशल्यः स्वयं शुष्कः कुटिलश्च पुरातनः ।
असौम्यभूमिजनितः सन्त्याज्यः स्तम्भकर्मणि ॥ इति ।
मध्यमाधमयोर्द्वादशस्तम्भप्रमाणं त्रैराशिकेनानेयम् ।
तत्पञ्चमांशमिति ।
स्तम्भो- च्छ्रायं पञ्चधा विभज्य पञ्चमांशं भुवि निखनेदित्यर्थः ॥ २२ ॥
नारिकेलदलैर्वंशैश्छादयेत् तत्समन्ततः ।
द्वारेषु तोरणानि स्युः क्रमात् क्षीरमहीरुहाम् ॥ २३ ॥
तत्समन्तत इति ।
तस्य मण्डपस्य समन्ततः सर्वत्र द्वारवर्ज्यम् वंशैर्नारिकेल- दलैश्छादयेत् ।
नारिकेलदलाभावे कटैर्वेष्टयेत् ।
यद् वास्तुशास्त्रे—-कटैः सद्भिस्तु सञ्छाद्या विजयाद्याश्च मण्डपाः ।
इति ।
हयशीर्षपञ्चरात्रे—-मण्डपं मण्डयेदार्द्रशाखाभिस्तु समन्ततः ।
इति ।
यत्तु क्रियासारे—- " भित्तिञ्च परितः कृत्वा " इति तत्तु स्थिरप्रतिमादिमण्डपेष्विति ज्ञेयम् ।
" नियमोऽयं समाख्यातः स्थिरलिङ्गक्रियासु च " इति तत्रैव वक्ष्यमाणत्वात् ।
तोरणस्थापनमाह द्वारेष्विति ।
ननु द्वाराणामेवानुक्तत्वात् कथं द्वारेष्वित्युक्तिः ।
सत्यम् ।
द्वारेष्वित्यनेनैव द्वाराक्षेपः ।
तत्प्रमाणं तत्स्थानञ्चोक्तं मन्त्रमुक्तावल्याम्—-
दिक्षु द्वाराणि चत्वारि विदध्यात् पञ्चमांशतः ।
इति ।
क्रियासारेऽपि—- दिक्षु द्वाराणि मध्यतः ।
तोरणानि च तेष्वेव द्वारेषु स्थापयेद्बुधः ॥ इति ।
पञ्चरात्रे प्रमाणमुक्तम्—- कनीयसि स्याद् द्विकरं चतुरङ्गुलिवृद्धितः ।
मध्यमोत्तमयोर्द्धारम् ।
इति ।
न्यस्येदिति निखनेत् पञ्चमांशेनैव ।
यद्वास्तुशास्त्रे—- पञ्चमांशं न्यसेद्भूमौ सर्वसाधारणो विधिः ।
इति ।
सिद्धान्तशेखरे तोरणस्तम्भमधिकृत्योक्तम्—-
पञ्चमांशेन वा खातं सर्वेषाञ्च शिवोदितम् ।
इति ।
क्रमादिति ।
पूर्वदक्षिणपश्चिमोत्तरदिशि ।
क्षीरमहीरुहामिति वटोडुम्बराश्वत्थ- प्लक्षाणाम् ।
" न्यग्रोधोडुराश्वत्थप्लक्षाः क्षीरमहीरुहाः " इति परिभाषणात् ।
तदुक्तं सिद्धान्तशेखरे—- न्यग्रोधतोरणं पूर्वे याम्ये त्वौडुम्बरं मतम् ।
पश्चिमेऽश्वत्थसम्भूतमुत्तरे प्लक्षतोरणम् ॥
पूर्वे वा प्लक्षसम्भूतं न्यग्रोधश्चोत्तरे मतः ॥ इति ।
क्रियासारेऽपि—- प्लक्षोडुम्बरबोधिद्रुवटाः पूर्वादितः क्रमात् ।
तोरणानि च चत्वारि ।
इति ।
सोमशम्भुरपि—- प्लक्षोडुम्बरकाश्वत्थवटजास्तोरणाः क्रमात् ।
पूर्वादितो विधातव्या यद्वाद्यन्तविपर्ययः ।
अलाभादेकमेवैषां सर्वाशासु निवेशयेत् ॥ इति ।
मन्त्रमुक्तावल्यामपि—-अथाग्निमीलेति मन्त्रेण विन्यसेत् पूर्वतोरणम् ।
इषेत्वोर्जेत्वा मन्त्रेण दक्षिणं तोरणं न्यसेत् ॥
अग्न आयाहि मन्त्रेण पश्चिमस्य निवेशनम् ।
शन्नो देवीति मन्त्रेण दद्यादुत्तरतोरणम् ॥ इति ।
महाकपिलपञ्चरात्रेऽपि—-देवास्तोरणरूपेण संस्थिता यज्ञमण्डपे ।
विघ्नविध्वंसनार्थाय रक्षार्थन्त्वध्वरस्य च ॥
न्यसेन् न्यग्रोधमैन्द्र्यान्तु याम्याञ्चोडुम्बरं तथा ।
वारुण्यां पिप्पलञ्चैव कौवेर्यां प्लक्षकं न्यसेत् ॥
सुशोभनन्तु पूर्वस्याम् ऋग्वेदादिसुमन्त्रितम् ।
इषे त्वोर्जेत्वा मन्त्रेण सुभद्राख्यन्तु दक्षिणे ॥
सुकर्माख्यन्तु वारुण्यां सामवेदादिकेन तु ।
शन्नो देवीति मन्त्रेण सुहोत्रन्तूत्तरे न्यसेत् ॥ इति ।
यत्तु केनचित् अश्वत्थोडुम्बरजटिवटैरित्येषां पूर्वादिनिवेशनमुक्तं तदसम्बद्धम् ।
लिखितनानावचनविरोधात् ।
इदञ्च तोरणस्तम्भनिवेशनं मण्डपाद्बहिर्हस्तमानेनेति ज्ञेयम् ।
तदुक्तम्—- मण्डपद्वारबाह्ये च वेदिमानेन दिक्क्रमात् ।
प्लाक्षमौडुम्बराश्वत्थवटोत्थं तोरणं न्यसेत् ॥ इति ।
वास्तुशास्त्रे तु—- अश्वत्थोडुम्बरप्लक्षवटशाखाकृतानि तु ।
मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत् ॥ इति ।
द्वारेषु क्रियमाणत्वात् तोरणेषु द्वारनिर्देशः ।
इदन्तु पश्चिमदक्षिणोत्तरपूर्वेषु अपसव्येन वा पश्चिमद्वारादिति ज्ञेयम् ।
अत्र विशेषः सिद्धान्तशेखरे—-
एकमेषामलाभे स्यात्तदभावे शमीद्रुमः ।
जम्बूखदिरसाराश्च तालो वा तोरणे स्मृताः ॥ इति ।
क्रियासारे तु—- अवक्रा सत्वचः सार्द्रा दण्डाः स्युस्तोरणे शुभाः ।
इति ॥२३॥
स्तम्भोच्छ्रायः स्मृतस्तेषां सप्तहस्तैः पृथक् पृथक् ।
दशाङ्गुलप्रमाणेन तत्परीणाह ईरितः ॥ २४ ॥
स्तम्भेति ।
सप्तहस्तैरिति उत्तममण्डपे यतो ग्रन्थकृत् सर्वं मानमुत्तमस्यैवाह ।
पृथक् पृथगिति मध्यमाधमयोभीन्नं भिन्नं मानमित्यर्थः ।
तेन मध्यमे षड्ढस्ताः ।
अधमे पञ्चहस्ताः ।
तोरणस्तम्भमधिकृत्य वास्तुशास्त्रे—-
पञ्चहस्तप्रमाणास्ते विस्तारेण द्विहस्तकाः ।
षडङ्गुलानि वर्द्धन्ते सप्तहस्तास्तथोत्तमाः ॥ इति ।
अत्र विस्तारेणेति तिर्यक्फलकमानम् ।
मध्यमस्य षड्ढस्तता अनुक्ताऽपि न्यायाद् गम्यते ।
तदुक्तं कात्यायनेन—- " औचित्यादर्थात् परिमाणम् " इति ।
तेषां तोरणस्तम्भानां परीणाहो विशालता स च परिध्यानयनेन ज्ञातव्यः ।
तत्र स्थूल- परिधानयनं भास्कराचार्येणोक्तम्—-
द्वाविंशतिघ्ने विहृतेऽथ शैलैः स्थूलोऽथवा स्याद् व्यवहारयोग्यः ।
इति ।
व्यासः १० द्वाविंशतिघ्नः २२० शैलै ः ७ हृतः ३१ लब्धः एतावान् परिधिर्यस्य काष्ठस्य तस्य
दशाङ्गुलो विष्कम्भः ॥ २४ ॥
तिर्यक्फलकमानं स्यात् स्तम्भानामर्द्धमानतः ।
शूलानि कल्पयेन्मध्ये तोरणे हस्तमानतः ॥ २५ ॥
तिर्यगिति ।
उभयस्तम्भमध्ये देहलीरूपेण उपरि यत् तिर्यक्फलकं तस्य मानं स्तम्भानां पञ्चहस्तमितानां
तोरणस्तम्भानामर्द्धमानतः।
तेन सार्द्धहस्तद्वयं प्रमाणमुक्तम्।
स्तम्भानामिति बहुवचनं द्वारबहुत्वात् तोरणस्तम्भानामपि बहुत्वमिति योज्यम् ।
अनेन कनिष्ठमण्डपे पञ्चहस्ततोरणस्तम्भत्वमपि सूचितम् ।
इदं तिर्यक्फलकमानम् उत्तमस्यैव ।
अन्ययोः षट्षडङ्गुलन्यूनता ज्ञेया ।
वास्तुशास्त्रे तथोक्तेः ।
शूलानीति बहुवचनं चतुःसङ्ख्यापरम् ।
तोरण इत्येकवचनं जातौ ।
तेन प्रतितोरणमेकमेकं शूलं कार्यम् ।
तच्च हस्तप्रमाण ।
तत्राङ्गुलत्रयं निवेशः षड्भागः परीणाह ।
एतच्च मण्डपत्रये समानम् ।
तत्र शूलस्वरूपं मध्यकीलः तीक्ष्णाग्रः ऋजुः तमभितो द्वौ तीक्ष्णाग्रौ वक्रौ ।
मध्यकीलदेशगतवक्रभागाविति ।
तदुक्तं क्रियासारे—-तोरणं घटयित्वैवमूर्द्धं शूलत्रयं न्यसेत् ।
शूलं हस्तायतं तेषाम् ।
इति ।
पिङ्गलामतेऽपि—- शूलेन चिह्निताः कार्या द्वारशाखाः स्वमस्तके ।
ऋजु वै मध्यशूलं स्यात् किञ्चिद्वक्रन्तु पक्षयोः ॥
उभयं तत् समाख्यातम् अङ्गुलं रोपयेत् तदा ।
इति ।
यदा तु तोरणे इत्येकवचनं विवक्षितं तदा शूलानीति बहुवचनं कपिञ्चलाधि- करणन्यायेन
त्रित्वे पर्यवस्यति ।
हस्तमानत इति त्रयाणां मिलित्वा मानम् ।
तदुक्तं क्रियासारे—- तोरणं घटयित्वैवं मूर्द्ध्न शूलत्रयं न्यसेत् ।
शूले नवाङ्गुलं दैर्ध्यं तुरीयांशेन विस्तृतिः ।
शेषाणां द्व्यङ्गुला वृद्धिः वेशश्चाऽङ्गुलवृद्धितः ॥ इति ।
तेन कनिष्ठे द्व्यङ्गुलप्रवेशः ।
मन्त्रमुक्तावल्यामपि—-
अग्रयोर्मध्यभागे च पट्टिकायां त्रिशूलकान् ।
इति ।
एतानि तत्काष्ठमयान्येव शैव एव कर्त्तव्यानि इति ज्ञेयम् ।
वैष्णवे तु विशेषः ।
वास्तुशास्त्रे—- मस्तके द्वादशांशेन शङ्खचक्रगदाम्बुजम् ।
प्रागादिक्रमयोगेन न्यसेत् तेषां स्वदारुजम् ॥ इति ।
एषां स्वदारुजत्वोक्तेः शैवे एतत्स्थानीयानां शूलानां न्यायादेव स्वदारुजत्वं प्राप्तम् ।
तत्र द्वादशांशः तोरणस्तम्भानामेव ।
पूर्ववाक्यशेषे " सप्तहस्तास्तथोत्तमाः " इति तेषामेव प्रकृतत्वात् तेन चतुर्दशद्वादशाङ्गुलानि
क्रमेणोत्तमादिषु शाखादीनां मानानि ।
विस्तारस्तु स्वतुर्यांशेनैव ।
यत्तु केनचित् फलक द्वादशांशेन चतुरङ्गुलादि- मानमुक्तम् ।
तदसत् ।
तस्याऽप्रकृतत्वात् ।
शूलमानस्य नवाङ्गुलोक्तेश्च ।
एषां निवेश- नमपि पूर्ववज् ज्ञेयम् ।
ततः प्रतितोरणम् एकैकः कलसः स्थाप्यः प्रतिद्वारपार्श्वे द्वौ द्वौ प्रतिकोणञ्चैकैकः ।
तदुक्तम्—-
गन्धपुष्पाम्बरोपेतान् कुम्भांस्तेषु विनिक्षिपेत् ।
ध्रुवं धरां वाक्पतिञ्च विघ्नेशं तेषु पूजयेत् ॥
मण्डपस्य तु कोणस्थकलसेषु क्रमादमी ।
अमृतो दुर्जयश्चैव सिद्धार्थे मङ्गलस्तथा ॥
पूज्या द्वारस्थकुम्भेषु शक्राद्यास्तन्मनूत्तमैः ।
इति ।
अन्यत्रापि—- मण्डपे कलसौ द्वौ द्वौ द्वारे द्वारे निवेशयेत् ।
गालितोदकसम्पूर्णावाम्रपल्लवशोभितौ ॥ इति ॥ २५ ॥
दिक्षु ध्वजान्निबध्नीयाल्लोकपालसमप्रभान् ।
वितानदर्भमालाद्यैरलङ्कुर्वीत मण्डपम् ॥ २६ ॥
दिक्षु ध्वजानिति ।
ध्वजस्वरूपं प्रतिष्ठासारसङ्ग्रहे—-
पीतरक्तादिवर्णाश्च पञ्चहस्ता ध्वजाः स्मृताः ।
द्विपञ्चहस्तैर्दण्डैस्ते वंशजैः संयुता मताः ॥ इति ।
द्विपञ्चहस्तैर्दशहस्तैः ।
अन्यत्रापि—-
पञ्चहस्ता ध्वजाः कार्या वैकल्पे तु द्विहस्तकाः ।
दण्डश्च दशहस्तः स्यादष्टदिक्षु च तान् न्यसेत् ॥ इति ।
क्रियासारे तु विशेषः—-ध्वजानां लक्षणं सम्यगुच्यते तु यथातथम् ।
मण्डपस्य बहिर्दण्डैर्दशहस्तायतैः सह ॥
पूर्वाद्यष्टहरित्स्वष्टौ ध्वजान् संस्थापयेत् क्रमात् ।
तेषां हस्तद्वयं व्यासो मध्यः स्वकरसमितः ॥
व्यासार्द्धं शिखरं पुच्छं हस्तत्रितयमानकम् ।
मत्स्याभं शिखरं पुच्छशिखरन्तु त्रिकोणकम् ॥
तयोर्मध्ये चतुष्कोणं ध्वजानेवं प्रकल्पयेत् ।
मातङ्गवस्तमहिष सिंहमत्स्यैणवाजिनः ॥
वृषभञ्च यथान्यायं ध्वजमध्ये क्रमाल्लिखेत् ।
अथवा दिग्गजानष्टावैरावतपुरःसरान् ॥
ध्वजेषु विलिखेदुक्तधातुभिश्च स(सु)लक्षणम् ।
एवं ध्वजानां कथितं लक्षणन्तु शुभावहम् ॥ इति ।
ध्वजानामावश्यकत्वमुक्तं हयशीर्षपञ्चरात्रे—-
अतः परं प्रवक्ष्यामि ध्वजारोपणमुत्तमम् ।
यत् कृत्वा पुरुषः सम्यक् समस्तफलमाप्नुयात् ॥
यातुधाना गुह्यकाश्च कुष्माण्डाः खेचरास्तथा ।
चिन्तयन्त्यसुरश्रेष्ठा ध्वजहीनं सुरालयम् ॥
ध्वजेन रहिते ब्रह्मन् मण्डपे तु वृथा भवेत् ।
पूजाहोमादिकं सर्वं जपाद्यं यत् कृतं बुधैः ॥
रक्षणेन विना यद्वत् क्षेत्रं नश्यति क्षेत्रिणः ।
ध्वजं बिना देवगृहं तथा नश्येत सर्वथा ॥
विष्णुपारिषदाः क्रूराः कुष्माण्डाद्याश्च ये स्मृताः ।
पूजादिकन्तु गृह्णन्ति देवं दृष्ट्वा न रक्षितम् ॥
दृष्ट्वा ध्वजांस्तु देवस्य मण्डपे ज्वलनप्रभान् ।
नश्यन्ति सर्वे ते चार्करश्मिक्षिप्तं तमो यथा ॥ इति ।
लोकपालसमप्रभानिति ।
लोकपालवर्णांश्चतुर्थे वक्ष्यन्ते ।
पताका निवेशनमप्युक्तम्—-
सारसङ्ग्रहे—- प्रतिकुण्डं पताकास्तु प्रोक्ताः शास्त्रार्थकोविदैः ।
सप्तहस्ताः पताकाः स्युः सप्तमांशेन विस्तृताः ॥
लोकपालानुवर्णेन नवमी तुहिन (तु हीन) प्रभा ।
इति ।
सिद्धान्तशेखरेपि—-पताकाध्वजसंयुक्तम् ।
इति ।
सोमशम्भुरपि—- सप्तहस्ताः पताकाः स्युवींशत्यङ्गुलविस्तृताः ।
दशहस्ताः पताकानां दण्डाः पञ्चांशवेष्टिताः ।
पताका आयुधाङ्काश्च पुष्पगन्धसमन्विताः ।
इति ।
मण्डपालङ्कारमाह वितानेति ।
वितानश्चन्द्रातपः ।
दर्भमाला रज्जुग्रथिता दर्भाः ।
आदिशब्देन दुकूलेन स्तम्भवेष्टनं चूतपल्लवमालाबन्धनमित्यादि ज्ञातव्यम् ।
तदुक्तं सिद्धान्तशेखरे—- चूतपल्लवमालाढ्यं वितानैरुपशोभितम् ।
विचित्रवस्त्रसञ्छन्नं तुलास्तम्भविभूषितम् ।
सफलै कदलीस्तम्भैः क्रमुकैर्नारिकेलजैः ।
फलैर्नानाविधैर्भेज्यैर्दर्पणैश्चामरैरपि ॥
भूषितं मण्डपं कुर्याद् रत्नपुष्पसमुज्ज्वलम् ।
इति ।
हयशीर्षपञ्चरात्रेऽपि—-दर्पणैश्चामरैर्घण्टैः स्तम्भान् वस्त्रैवीभूषयेत् ।
कलसैर्घटिकाभिश्च साधारैः कर्करैस्तथा ॥ इति ।
मण्डपान्यथाभावे दोष उक्तः क्रियासारे—-
अनुक्तसाधनैः कॢप्तो यदि वा कुटिलाकृतिः ।
मानाधिकोऽथवा न्यूनो मण्डपः कर्त्तृनाशनः ॥
आख्यातसाधनैः कॢप्तः शोभनः सममानकः ।
मनोज्ञो मण्डपो योऽसौ कर्मकर्त्तः शुभावहः ॥ इति ॥ २६ ॥
तत्त्रिभागमिते क्षेत्रेऽरत्रिमात्रसमन्विताम् ।
चतुरस्रां ततो वेदीं मण्डलाय प्रकल्पयेत् ॥ २७ ॥
वेदनिर्माणमाह तदिति ।
तस्य मण्डपमध्यसूत्रस्य यस्त्रिभागः तृतीयभागः तन्मिते क्षेत्रे ।
अन्यथा क्षेत्रफलस्य तृतीयांशग्रहणे यत्किञ्चिदेव स्यात् ।
तदुक्तम्—- ततो मण्डपसूत्रन्तु त्रिगुणं परिकल्पयेत् ।
पूर्वादिषु क्रमात् तस्य मध्यभागेन वेदिका ॥ इति ।
फलतश्च नवमभागेन वेदिका भवति ।
तदुक्तं सिद्धान्तशेखरे—-
नवांशं मण्डपं कृत्वा मध्यांशे वेदिका मता ।
इति ।
अरत्रिमात्रसमुन्नतां हस्तमात्रसमुन्नतां चतुरस्रां वेदिं मण्डपमध्ये
मण्डलाय वक्ष्यमाणसर्वतोभद्रमण्डलाय कल्पयेत् ।
मण्डपकथने तदुक्तम्—-
चतुर्द्धारयुक्तं ततस्तस्य मध्ये बुधस्त्रिभागैकभागेन वेदीम् ।
अरत्निप्रमाणोन्नतां दर्पणान्तर्निभां मनोहारिणीं चापि कुर्यात् ॥ इति ।
बहुभिर्ग्रन्थकारैररत्निशब्दो हस्तेऽपि प्रयुक्तः ।
यथा कादिमते अङ्गुल- लक्षणमुक्त्वा—- तैश्चतुभीर्भवेन्मुष्टि वीतस्तिस्तैस्त्रिभिर्गुणैः ।
अरत्निस्तद्द्वयेन स्याद्धस्तः तद्द्वयतः शिवे ॥ इति ।
कात्यायनेनापि शुल्वे बहुषु स्थलेषु अरत्निशब्दो हस्ते प्रयुक्तः ।
मन्त्रमुक्ताव- ल्यामपि अयुतहोमार्थं द्विहस्तकुण्डकथने " दशाङ्गुलाधिकाऽरत्निः " इत्युक्तम् ।
तत्रैव लक्षहोमे च चतुर्हस्तोक्तौ " चतुवींशत्यङ्गुलाधिकाऽरत्निः " इति ।
तेनात्राऽप्यरत्नि शब्दो हस्तमात्रे व्याख्यातः ।
तदुक्तं वशिष्ठसंहितायाम्—-
हस्तोन्नताञ्च विस्तीर्णां चतुर्हस्तैः समन्ततः ।
इति ।
मन्त्रमुक्तावल्यामपि—-इष्टकाभिर्मृदा वाऽपि वेदी दर्पणसन्निभा ।
राजहस्तोच्छ्रया कार्या विदुषा सिद्धिमिच्छता ॥ इति ।
राजहस्तो मध्यमाङ्गुल्यन्तः ।
पञ्चरात्रेऽपि—-
वेदी मण्डपस्य त्रिभागतः ।
चतुर्थांशोच्छिरतिस्तस्याः ।
इति ।
क्रियासारेऽपि—- त्रिभागं मण्डपं कृत्वा मध्यभागस्तु वेदिका ।
हस्तमानं तदुत्सेधं चतुरस्रं समं यथा ॥
पक्वाभिर्वाऽप्यपक्वाभिरिष्टकाभिर्दृढं यथा ।
कर्त्तव्या वेदिका श्रेष्ठा तदभावे मृदाऽपि वा ॥
अवक्रपार्श्वा सुस्निग्धा दर्पणोदरसन्निभा ।
इति ।
उत्सेध औन्नत्यम् ।
सिद्धान्तशेखरे तु विशेषः—-
वेदी चतुवीधा तत्र चतुरस्रा च पद्मिनी ।
श्रीधरी सर्वतोभद्रा दीक्षासु स्थापनादिषु ॥
चतुरस्रा चतुष्कोणा वेदी सर्वफलप्रदा ।
तडागादिप्रतिष्ठायां पद्मिनी पद्मसन्निभा ॥
राज्ञां स्यात् सर्वतोभद्रा चतुर्भद्राऽभिषेचने ।
विवाहे श्रीधरी वेदी विंशत्यस्रसमन्विता ।
दर्पणोदरसङ्काशा निम्नोन्नतविवजीता ॥ इति ।
वेदिकाया अन्यथाभावे दोष उक्तः क्रियासारे—-
वक्रपार्श्वा क्लिन्नमध्या परूषा दृगशोभना ।
मानहीनाधिका या सा कर्त्तुः कर्मविनाशिनी ॥ इति ।
वायवीयसंहितायां तु मण्डपाद्युक्त्वा—-
कृत्वा पूर्वेदितं सर्वं विना वा मण्डपादिकम् ।
मण्डलं पूर्ववत् कृत्वा स्थण्डिलञ्च विशेषतः ॥ इति ॥ २७ ॥
प्रागेव दीक्षादिवसात् सप्तभिवीधिवद्दिनैः ।
सर्वमङ्गलसम्पत्त्यै विदध्यादङ्कुरार्पणम् ॥ २८ ॥
अङ्कुरार्पणकर्माह प्रागेवेति ।
दीक्षादिवसात् प्राक् सप्तभिदीनैरेतेन दीक्षादि- नमष्टमं यथा भवति तथा कर्त्तव्यमित्युक्तम् ।
विधिवदित्यनेन नवभिः पञ्चभिस्त्रिभिः सद्यो वेत्युक्तम् ।
तदुक्तं सिद्धान्तशेखरे—-
प्रतिष्ठायाञ्च दीक्षायां स्था(स्त्रा)पने चोत्सवे तथा ।
सम्प्रोक्षणे च शान्त्यर्थं विवाहे मौञ्जिबन्धने ॥
सर्वमङ्गलकार्येषु कारयेदङ्कुरार्पणम् ।
प्रतिष्ठादिवसाद् पूर्वं नवमे सप्तमे दिने ।
पञ्चमे वा तृतीये वा सद्यो वा चाऽङ्कुरार्पणम् ॥ इति ।
महाकपिलपञ्चरात्रेऽपि—-पुण्याहघोषणं कृत्वा ब्राह्मणैः सह देशिकः ।
मङ्गलाङ्कुरयज्ञञ्च कुर्यात्तत्रैव चाहनि ॥
सप्तमान्नवमाद्वाऽपि प्रागेव यज्ञकर्मणः ॥ इति ।
अन्यत्रापि—- उत्सवेषु विविधेष्वपि दीक्षास्थापनादिषु पवित्रविधौ च ।
मङ्गलाङ्कुरविरोपणपूर्वं मङ्गलं भवति कर्मकृतस्ततः ॥
शस्तयोगदिवसात्तु पुरस्तात् सप्तमेऽहनि शुभे नवमे वा ।
पञ्चमेऽथ सुदिने सुमुहूर्त्ते मङ्गलाङ्कुरविधिं विदधीत ॥ इति।
तत्र पूर्वेद्युरुपवासं कृत्वा स्वगृह्योक्तविधिना नान्दीश्राद्धं कृत्वा अङ्कुरार्पणमारभेत् ।
तदुक्तम्—- गुरुवीशुद्धः प्रागेव शुद्धाहात् सप्तमेऽहनि ।
सङ्कल्प्योपोष्य कर्त्तव्यमङ्कुरारोपणं शुभम् ॥
कुर्यान्नान्दीमुखश्राद्धं पूर्वेद्युः स्वस्तिवाचनम् ।
स्वगृह्योक्तप्रकारेण तदेतद्विदधीत वै ॥ इति ।
संहितायामपि—- सर्वत्राभ्युदयश्राद्धमङ्कुरोत्पादनं तथा ।
आदावेव प्रकुर्वीत कर्मणोऽभ्युदयात्मनः ॥ इति ॥ २८ ॥
मण्डपस्योत्तरे भागे शालां पूर्वापरायताम् ।
गूढां कुर्यात् ततस्तस्यां मण्डलं रचयेत् सुधीः ॥ २९ ॥
शालामिति ।
तत्र—-विंशत्या तु करैर्मानं दशायामेन विस्तृतिः ।
शालाया उत्तमं मानम्।
अत्रैतावत्याः प्रयोजनाभावादेतदर्द्धेन मध्यममानेन शाला कार्या ।
तेन दशहस्तदीर्घा पञ्चहस्तायामा अत्र कर्त्तव्या ।
तामेवाह पूर्वापरायतामिति ।
दीर्घ चतुरस्ररूपां गूढां परितः कटादिपरिवृतां दक्षिणैकद्वारवतीं निवाताञ्च कुर्यात् ।
तदुक्तं प्रयोगसारे—-अवागुदक्स्थितां कृत्वा निवातां तां कुटीं दृढाम् ।
इति ।
तस्यां वक्ष्यमाणं मण्डलं रचयेत् ॥ २९ ॥
पञ्चहस्तप्रमाणानि पञ्च सूत्राणि पातयेत् ।
पूर्वापरायतान्येषामन्तरं द्वादशाङ्गुलम् ॥ ३० ॥
दक्षिणोत्तरसूत्राणि तद्वदेकादशाऽर्पयेत् ।
पदानि तत्र जायन्ते चत्वारिंशत् प्रमार्जयेत् ॥ ३१ ॥
पङ्क्तयां वीथीश्चतस्रोऽन्तश्चतुष्कोभयपार्श्वयोः ।
वीथ्यौ द्वे च चतुष्कोष्ठत्रयमत्राऽवशिष्यते ॥ ३२ ॥
पदानि रञ्जयेत्तानि श्वेतपीतारुणासितैः ।
रजोभिः श्यामलेनाऽथ वीथीरापूरयेत् सुधीः ॥ ३३ ॥
मण्डलमेवाह पञ्चहस्तेति।
शालाविस्तारमध्यभागे प्रागपरायतमेकं सूत्रं पञ्च- हस्तप्रमाणं दत्त्वा तत्सूत्रस्य दक्षिणोत्तरभागयोः
द्वादश द्वादशाङ्गुलान्तरे द्वे द्वे सूत्रे दद्यात् ।
ततस्तत्पञ्चसूत्रव्यतिभेदीनि एकादशसूत्राणि अर्पयेत् ।
तद्वदिति द्वादशाङ्गु- लान्तराणीत्यर्थः ।
एवं पञ्चापि हस्ताः सङ्गृहीताः ।
तदुक्तं प्रयोगसारे—-
प्रसार्य स्फोटयेत् सूत्रं यथा याम्योत्तरायतम् ।
पञ्चहस्तप्रमाणेन द्वे द्वे पार्श्वे च पातयेत् ॥
तद्वत् पूर्वेक्तमानेन द्वादशद्वादशाङ्गुले ।
प्राक् प्रत्यक् च समं पश्चात् सूत्राण्येकादश क्रमात् ।
पातयेत् तासु रेखासु पूर्वसूत्रान्तरान्तरम् ॥ इति ।
प्रमार्जयेदित्युत्तरत्रान्वेति ।
पङ्क्त्या चतस्रो वीथीर्मार्जयेत् ।
बाह्य इत्यर्थः ।
अन्तरिति वक्ष्यमाणत्वात् ।
पूर्वतश्चतुष्कोष्ठामेकां वीथीम् अष्टकोष्ठां दक्षिणवीथीं पुनश्चतुष्कोष्ठां पश्चिमवीथीम्
अष्टकोष्ठामुत्तरवीथीं मार्जयेत् ।
ततोऽन्तश्चतुष्कस्य मध्यचतुष्कस्य उभयोः पार्श्वयोः पार्श्वद्वये द्वे वीथ्यौ द्विद्विकोष्ठरूपे चात्र
मार्जयेदित्यस्यानुषङ्गः ।
ततः फलितमाहात्रेति ।
अत्र मण्डले चतुष्कोष्ठत्रयमवशिष्यते इति ।
तानि शिष्टानि चतुष्कोष्ठत्रयस्थानि पदानि द्वादश ।
प्रत्येकचतुष्कोष्ठे श्वेतादिभी रजोभी रञ्जयेत् ।
तत्र श्वेतं वायुपदे ।
पीतमाग्नेये ।
अरुणं रक्षःपदे ।
असितमीशपदे इति सुधीरित्यनेनोक्तम् ।
तदुक्तमाचार्यैः—-
पीतरक्तसितासितं प्रतिपदं वह्न्यादि शर्वान्तकम् ।
इति ।
अथ अनन्तरं श्यामलेन हरितेन वीथीरापूरयेत् ॥ ३०-३३ ॥
पात्राणि त्रिविधान्याहुरङ्कुरार्पणकर्मसु ।
पालिकाः पञ्चमुख्यश्च शरावाश्च चतुःक्रमात् ॥ ३४ ॥
प्रोक्ताः स्युः सर्वतन्त्रज्ञैर्हरिब्रह्मशिवात्मकाः ।
एषामुच्छ्राय उन्नेयः षोडशद्वादशाष्टभिः ॥ ३५ ॥
अङ्कुरार्पणपात्राण्याह पात्राणीति ।
स्थूलानि उच्चानि शरावाण्येव पालिका- शब्देनोच्यन्ते ।
पालिका एव किञ्चिन्नीचाः पञ्चमुखयुक्ताः पञ्चमुख्य उच्यन्ते ।
शरावाः प्रसिद्धाः ।
सर्वतन्त्रज्ञैरित्यनेन पञ्चदेवतादीक्षादिकर्मसु पात्रभेदो नास्तीत्युक्तम् ।
प्रथमा हरिरूपाः ।
द्वितीया ब्रह्मरूपाः ।
तृतीयाः शिवरूपाः ।
एतेन हरिब्रह्मेशा एषु पात्रेषु पूज्या इत्युक्तं भवति ।
तदुक्तं सारस्वतमते—-
प्रोक्तेषु तेषु पात्रेषु ब्रह्मविष्णुशिवान् यजेत् ।
इति ।
सिद्धान्तशेखरेऽपि—- सम्पूजयेच्छरावेषु रुद्रं चन्दनपुष्पकैः ।
पालिकासु तथा विष्णुं ब्रह्माणं घटिकासु च ॥ इति ॥ ३४-३५ ॥
अङ्गुलैः क्रमशस्तानि शुभान्यावेष्ट्य तन्तुना ।
प्रक्षाल्य देशिकस्तेषु पदेष्वाहितशालिषु ॥ ३६ ॥
सगन्धदर्भकूर्च्चेषु पश्चिमादि निवेशयेत् ।
करीषवालुकामृद्भस्तानि पात्राणि पूरयेत् ॥ ३७ ॥
अङ्गुलैः क्रमशः इति पूर्वेण सम्बद्ध्यते ।
महाकपिलपञ्चरात्रे तु विशेषः—-
पालिकावक्त्रविस्तारः षोडशाङ्गुल उच्यते ।
भवेत् कण्ठविलं वा स्यात् तदष्टाङ्गुलविस्तृतम् ॥
पादपीठस्य विस्तारं षडङ्गुलमुदाहृतम् ।
चतुरङ्गुल उत्सेधस्तत्सन्धिश्चाऽङ्गुलं भवेत् ॥
तत्सन्धेश्च भवेन्नाहं पादपीटार्द्धमेव च ।
भवेत् पञ्चमुखी चैवं घटिका सर्वकामदा ॥
चतुरङ्गुलविस्ताराण्याहुर्वक्त्राणि पञ्च वै ।
चत्वारि च चतुदीक्षु ऊर्द्धमेकं यथाविधि ॥
घटिकायामविस्तारो द्वादशाङ्गुल उच्यते ।
आचार्याः कथयन्त्येके षोडशाङ्गुलमेव वा ॥
द्वादशाङ्गुलविस्तारं शरावस्य मुखं स्मृतम् ।
चतुरङ्गुलविस्तारमधस्तान्मूलमुच्यते ॥ इति ।
अन्यत्रापि—- तालमात्रमिह पञ्चमुखी स्याद् व्यासतोच्छ्रयमिता घटिका स्यात् ।
दिक्षु तन्मुखचतुष्टयमेकं मध्यतस्तु समवत्तीतभागम् ॥
तालविस्तृतमुखन्तु शरावं व्यासतोच्छ्रयगतार्द्धमिताङ्घ्र ।
दण्डमस्य चतुरङ्गुलनाहं कण्ठमस्य विलवर्जमुदग्रम् ॥
सम्भवे कनकरूप्यताम्रतो मात्तीकान्यभिनवान्यथवा स्युः ।
इति ।
सिद्धान्तशेखरे तु—- यथासम्भवमानं वा पालिकादि समाचरेत् ।
इति ।
तानीति पात्राणि।
शुभानीति कृष्णवर्णव्रणादिरहितानि।
तन्तुनेति त्रिगुणेन ।
तत्र पूर्वं प्रक्षालनं पश्चात्तन्तुवेष्टनमिति ज्ञेयम् ।
दर्भकूर्चम् अग्रे वक्ष्यमाणम् ।
पश्चिमादीति ।
पश्चिमचतुष्के पालिकाचतुष्टयं मध्यमचतुष्के पञ्चमुखीचतुष्टयं पूर्वचतुष्के शराव-
चतुष्टयं निवेशयेत् ।
तन्मध्ये आग्नेयादि स्थापनमिति ज्ञेयम् ।
तदुक्तं प्रयोगसारे—- तेषु पात्राणि विन्यसेत् ।
वह्न्यादीशानर्र्पय्यन्तं चतुष्केषु पृथक् पृथक् ॥ इति ।
करीषेति ।
करीषं शुष्कगोमयचूर्णम् ।
एतैरुत्तरोत्तरं सर्वाण्येव पात्राणि पूरयेत्।
उक्तञ्च हयशीर्षपञ्चरात्रे—-पूरयेदुत्तरोत्तरम् ।
इति ।
प्रयोगसारेऽपि—- मृद्वालुकाकरीषैश्चोर्द्धतः पात्राणि पूरयेत् ।
इति ।
तत्र विशेषः सिद्धान्तशेखरे—-
गन्धादिभिश्च कुद्दालं पूजयित्वा दिनान्तरे ।
गीतनृत्यसमायुक्तं गजवाजिसमन्वितम् ॥
गुर्वादयो रथारूढा गजारूढास्तथा परे ।
गत्वा तीरं तडागस्य नद्याः पुष्पवनस्य वा ॥
तत्र शुद्धं भुवो भागं दर्भैः सम्मृज्य चास्त्रतः ।
अभ्युक्ष्य चार्घ्यतोयेन तत्तन्मन्त्रमनुस्मरन् ॥
हृदा भूमिं समावाह्य गन्धपुष्पैः समर्चयेत् ।
कुद्दालीमस्त्रमन्त्रेण खात्वा भूमिमथो मृदम् ॥
गृहीत्वा वामदेवेन पूरयेत् कांस्यपात्रके ।
हृदा मृदञ्च सम्मृज्य वस्त्रेणाच्छाद्य धारयेत् ॥
पुरं वा निलयं वापि सर्वमङ्गलनिःस्वनैः ।
गुरुः प्रदक्षिणं कृत्वा मण्डपं त्वानयेत्ततः ॥
एतत्कर्म दिवाकाले कुर्याद् रात्रौ न बुद्धिमान् ।
इति ॥ ३६-३७ ॥
सुधाबीजेन बीजानि दुग्धैः प्रक्षाल्य तन्त्रवित् ।
मूलमन्त्राभिजप्तानि पञ्चघोषपुरः सरम् ॥ ३८ ॥
आशीर्वाग्भिद्वीजातीनां मङ्गलाचार पूर्वकम् ।
निर्वपेत्तेषु पात्रेषु देशिको यतमानसः ॥ ३९ ॥
तेषु बीजावापमाह सुधेति ।
सुधाबीजेन वमित्यनेन ।
दुग्धैः गोदुग्धैः प्रक्षाल्येति ।
महाकपिलपञ्चरात्रे तु विशेषः—-
द्वादशाक्षरमन्त्रेण क्षालयित्वा तु वारिणा ।
इति ।
सारस्वतमतेऽपि—-बीजानि तानि प्रक्षाल्य जलक्षीरेण च क्रमात् ।
इति ।
एतत् तन्त्रवित् इत्यनेन सूचितम् ।
मूलेति मूलमन्त्रेण दातव्यमन्त्रेण अभिजप्तानि अष्टोत्तरशतमिति ।
तदुक्तं महाकपिलपञ्चरात्रे—-
सङ्ख्यानुक्तौ शतं साष्टं सहस्रं वा जपादिषु ।
इति ।
पञ्चघोषास्तु पटहढक्कामृदङ्गमुखवाद्यशङ्खाः ।
मङ्गलाचारेति तत्तद्देशप्रसिद्ध्या उलूलूध्वन्यादिपूर्वकम् ।
देशिको यतमानस इत्यनेन तानि बीजानि एकीकृत्य रात्रौ मूलमन्त्रेण प्राङ्मुख उदङ्मुखो वा
पालिकादिषु निर्वपेदित्युक्तम् ।
तदुक्तं सिद्धान्तशेखरे—-
बीजमुख्येन मूलेन प्राङ्मुखो वाप्युदङ्मुखः ।
वापयेत् सर्वबीजानि पालिकादिष्वनुक्रमात् ।
बीजानामधिपः सोमस्तस्माद्रात्री तु निर्वपेत् ॥ इति ।
सारस्वतमतेऽपि—- बीजेभ्यो दैवतेभ्यश्च स रात्रौ कान्तिमान् यतः ।
तस्माद् गुरुस्तु बीजानि निशायामेव वापयेत् ॥ इति ॥ ३८-३९ ॥
शालिश्यामाढकीमुग्दतिलनिष्पावसर्षपाः ।
कुलत्थकङ्गुमाषाश्च बीजान्यङ्कुरकर्मणि ॥ ४० ॥
बीजान्याह शालीति ।
शालयो हैमन्तिकाः ।
श्यामः श्यामाकः कान्यकुब्ज- भाषायां सावा इति प्रसिद्धः ।
आढकी तूवरी ।
निष्पावा राजमाषाः ।
विष्णुपुराण- टीकायां श्रीधर्यां तथा व्याख्यातत्वात् ।
" निष्पावान् राजमाषांश्च सुप्ते देवे विवर्जयेत् " इति पृथगुक्तेर्न तत्र वाधा ।
सारस्वतमते प्रत्येकं बीजेषु देवतापूजोक्ता ।
स्कन्दं प्रियङ्गौ निष्पावे वायुमग्निं कुलत्थके ।
आढक्यां निरृतिं सोमं मुद्गे वैवस्वतं तिले ॥
प्रजापतिं शालिबीजे(धान्ये)त्वनन्तं सर्षपेऽर्चयेत् ।
इन्द्रं श्यामे च माषे तु वरुणन्तु नगात्मजे ॥ इति ।
सिद्धान्तशेखरे तु प्रत्यहं सोमपूजाप्युक्ता ।
सोमं सम्पूजयेन्नित्यमधिवासदिनावधि ।
अधिवासदिने प्राप्ते सोममुद्वासयेद् गुरुः ॥ इति ॥ ४० ॥
हरिद्राद्भः समभ्युक्ष्य वस्त्रैराच्छाद्य देशिकः ।
बलित्रिविधपात्राणां दिक्षु पूर्वादितो हरेत् ॥ ४१ ॥
हरिद्रेति ।
तत्र मन्त्र उक्तः प्रयोगसारे—-
त्रियम्बकाय शर्वाय शङ्कराय शिवाय च ।
सर्वलोकप्रधानाय शाश्वताय नमो नमः ॥
विकीर्याऽनेन मन्त्रेण हरिद्राचूर्णमिश्रितम् ।
तोयं प्रवर्षयेत्तेषु सिञ्चेत्तोयैदीनं प्रति ॥ इति ।
इदं देशिक इत्यनेन सूचितम् ।
वस्त्रैर्नूतनवस्त्रैः बहुवचनं कपिञ्जलाधिकरण- न्धायेन त्रित्वे पर्यवस्यति ।
आच्छाद्येति पात्रचतुष्टयमेकैकेन ।
रात्रौ बलिं क्षिपेदि- त्यन्वयः ।
प्रातः पुनः स्थलमार्जनादिकं कृत्वा द्वितीयरात्र्यादौ बलिदानम् ॥ ४१ ॥
प्रणवाद्यैर्नमोऽन्तैश्च रात्रौ रात्रीशनामभिः ।
भूतानि पितरो यक्षा नागा ब्रह्मा शिवो हरिः॥ ४२ ॥
प्रणवाद्यैरिति।
तत्र मन्त्रः ॐ भूतेभ्यो नमः (गन्धपुष्पधूपदीपनैवेद्यताम्बूलसहितं बलिं गृह्णन्तु स्वाहा) इति ।
एवमन्यत्रापि मन्त्रः ।
महाकपिलपञ्चञ्चरात्रे तु विशेषः—- ततो गन्धविमिश्रेण सिञ्चेद्वै शुद्धवारिणा ।
त्रिरात्रन्तु यथान्यायं पञ्चरात्रमथापि वा ॥ इति ।
सारस्वतमते तु—- प्ररूढान्यङ्कुराण्यन्यो न वीक्षेत कदाचन ।
आचार्य एव प्रविशेत्तच्छिष्यो वा तदाज्ञया ॥ इति ।
सिद्धान्तशेखरेऽपि—-वस्त्रैराच्छाद्य यत्नेन सुगुप्तानि च कारयेत् ।
इति ॥ ४२ ॥
सप्तानामपि रात्रीणां देवताः समुदीरिताः ।
भूतेभ्यः स्युर्लाजतिलहरिद्रादधिसक्तवः ॥ ४३ ॥
सान्नाः पितृभ्यः सतिलास्तण्डुलाः परिकीत्तीताः।
करम्भलाजा यक्षेभ्यो नारिकेलोदकान्विताः ॥ ४४ ॥
सक्तुपिष्टञ्च नागेभ्यो ब्रह्मणे पङ्कजाक्षतम् ।
सापूपमन्नं शर्वाय विष्णवे तु गुडौदन ॥ ४५ ॥
सप्तसु रात्रिषु पृथक् पृथक् बलिद्रव्याण्याह भूतेभ्य इति ।
सान्ना इत्यन्तं षट् प्रथमरात्रौ ।
अस्यैव भूतक्रूरेति नाम ।
तदुक्तम्—-
" लाजतिलरक्तरजोदधिसक्तवन्नानि भूतक्रूराख्यम् " इति ।
करम्भा दधिसक्तवः ।
अक्षता अखण्डतण्डुलाः ।
यदा नवसु रात्रिषु बलिदानं तदा रात्रिद्वये बलिद्रव्यं देवता चोक्ताचार्यैः " वैष्णवञ्च दौग्धान्नं "
कृशरञ्च वैष्णवेयं यदि नवरात्रं क्रमेण बलिरुक्तः " इति ॥ ४३-४५ ॥
ततो लोकेश्वरेभ्योऽपि वितरेद्विधिवद्बलिम् ।
दीक्षायामभिषेकेषु नववेश्मप्रवेशने ।
उत्सवेषु च सम्पत्त्यै विदध्यादङ्कुरार्पणम् ॥ ४६ ॥
तत इति ।
तत्तद्दिशि पायसादिना बलिवीधेयः ।
तत्र नैरृत्यप्रतीच्ययोर्मध्ये अनन्तस्य ईशपूर्वयोर्मध्ये ब्रह्मणः इति ।
विधिवदित्यनेन पूर्वेक्तो दिशां बलिरत्रापि कर्त्तव्य इति सूचितम् ।
एषां पात्राणां विनियोगमग्रे वक्ष्यति ।
अङ्कुरपरीक्षोक्ता सिद्धान्तशेखरे—- यजमानाभिवृद्ध्यर्थम् अङ्कुराणि परीक्षयेत् ।
सम्यगूर्द्धं प्ररूढानि कोमलानि सितानि च ॥
धूम्रवर्णान्यपूर्णानि तथा तिर्यग्गतानि च ।
श्यामलानि च कुब्जानि वर्जयेदशुभानि तु ॥
अवृष्टिं कुरुते कृष्णं धूम्राभं कलहन्तथा ।
अपूर्णं जननाशञ्च दुभीक्षं श्यामलाङ्कुरम् ॥
तिर्यग्गते भवेद् व्याधिः कुब्जे शत्रुभयं तथा ।
अशुभे चाङ्कुरे जाते शान्तिहोमं समाचरेत् ॥
मूलमन्त्रेण जुहुयाद् गुरुर्मूत्तिधरैः सह ।
अघोरास्त्रेण वास्त्रेण शतं वाऽथ सहस्रकम् ॥ इति ।
सारस्वतमतेऽपि—- प्ररूढैरङ्कुरैः कर्त्तुर्निदिशेच्च शुभाशुभम् ।
श्यामैः कृष्णैरङ्कुरैरर्थहानिस्तिर्यग्रूढैर्व्याधिरान्दोलितैस्तैः ।
कुब्जैर्दुःखं दुष्प्ररूढैर्मृतिश्च रोगा भुग्नैः स्थानदेशेष्टहानिः ॥ इति ॥ ४६ ॥
प्राक् प्रोक्ते मण्डपे विद्वान् वेदिकाया बहिस्त्रिधा ॥ ४७ ॥
क्षेत्रं विभज्य मध्यांशे पूर्वादि परिकल्पयेत् ।
अष्टास्वाशासु कुण्डानि रम्याकाराण्यनुक्रमात् ॥ ४८ ॥
कुण्डस्थानमाह प्रागिति ।
वेदिकाया बहिः सर्वतः क्षेत्रं क्षेत्रमध्यसूत्रं त्रिधा विभज्य तत्तन्मध्यभागे प्रादक्षिण्येन पूर्वादि
अष्टास्वाशासु रम्याकाराणि कुण्डानि अनुक्रमात् परिकल्पयेदिति सम्बन्धः ।
विद्वान् पञ्चमेखलादिकमपि जानन्नित्यर्थः ।
आशासु दिक्षु ईशानान्तास्वित्यर्थः ।
" पूर्र्वाद्युक्तावधिच्छेदात् क्रम एव विवक्षितः " इति परिभाषणात् ।
तेन वेद्याः पादमात्रं त्यक्त्वा वक्ष्यमाणमेखलायोग्यञ्च तत्र स्थानं त्यक्त्वा कुण्डानि कार्याणीत्यर्थः ।
सम्पन्नो भवति ।
तदुक्तं सोमशम्भुना—-वेदीपादान्तरं त्यक्त्वा ।
इति ।
सिद्धान्तशेखरेऽपि—- त्यक्त्वा वेदिचतुर्भागम् ।
इति ।
नारदीयेऽपि—- कुण्डवेद्यन्तरञ्चैव सपादकरसमितम् ।
इति ।
अत्र पादशब्दः किञ्चिदधिकोपलक्षकः ।
तेन मध्यमोत्तममण्डपविषयत्वमस्य ।
क्रियासारेऽपि—- वेदिकाकुण्डयोर्मध्ये हस्तद्वितयमन्तरम् ।
इति ।
इदं चतुवींशति हस्तमण्डपविषयम् ।
वाशिष्ठसंहितायान्तु—-
त्रयोदशाङ्गुलं त्यक्त्वा वेदिकायाश्चतुदीशम् ।
कुण्डानि स्वागमोक्तानि विदध्याद्विधिवद्बुधः ॥ इति ।
अत्र कुण्डानीति समेखलानि ॥ ४७-४८ ॥
चतुरस्रं योनिमर्द्धचन्द्रं त्र्यस्रं सुवर्त्तुलम् ।
षडस्रं पङ्कजाकारमष्टास्रं तानि नामतः ॥ ४९ ॥
तमेव क्रममाह चतुरस्रमिति ।
तदुक्तमाम्नायरहस्ये—-
नवकुण्डविधाने तु दिक्षु कुण्डाष्टकस्थिते ।
इति ॥ ४९ ॥
आचार्यकुण्डं मध्ये स्याद् गौरीपतिमहेन्द्रयोः ।
हस्तमानमितां भूमिं पूर्ववत् परिकल्पयेत् ॥ ५० ॥
समन्तात् कुण्डमेतत् स्याच्चतुरस्रं शुभावहम् ।
चतुवींशत्यङ्गुलाढ्यं हस्तं तन्त्रविदो विदुः ॥ ५१ ॥
कर्त्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलिपर्वणः ।
मध्यस्य दीर्घमानेन मानाङ्गुलमुदीरितम् ॥ ५२ ॥
आचार्यकुण्डमिति ।
गौरीपतिमहेन्द्रयोर्मध्ये ईशपूर्वदिङ्मध्ये आचार्यकुण्डं स्यात् ।
तदुक्तं तत्रैव—-
नवमं कारयेत् कुण्डं पूर्वेशानदिगन्तरे।
तद्वृत्तं चतुरस्रं वा स्यात् ।
इति।
तदुक्तं सिद्धान्तशेखरे—-पुरन्दरेशयोर्मध्ये वृत्तं वा चतुरस्रकम् ।
तदाचार्यस्य निदीष्टम् ।
इति।
अन्यत्रापि—- मध्ये वृत्तञ्च गौरीपतिसुरपदिशोः पण्डिताः केचिदाहुः ।
इति ।
क्रियासारेऽपि—- वृत्तं वा चतुरस्रं स्यान्मध्यस्थानं वृषेशयोः ।
इति ।
तत्र सर्वकुण्डप्रकृतिभूतत्वादादितश्चतुरस्रकुण्डलक्षणमाह हस्तेति ।
पूर्ववदिति वास्तुमण्डलचतुरस्रकरणरीत्या ।
समन्ताच्चतुदीक्षु परिकल्पयेदिति सम्बन्धः।
चतुरस्र- कुण्डलक्षणे हस्त उक्तः तल्लक्षणनिर्वाहार्थम् अङ्गुललक्षणमप्याह चतुरिति ।
कर्त्तुः संस्कार्यस्य शिष्यस्य नत्वाचार्यस्य ।
प्रयोजककर्त्तृत्वेन शिष्येपि कर्त्तृशब्द प्रयोगात् ।
ननु मुख्यकर्त्तृपदवाच्य आचार्य एवात्र किमिति न गृह्यते ।
इति चेदुच्यते ।
" दान- वाचनान्वारम्भणवरवरणव्रत प्रमाणेषु यजमानं प्रतीयात् " इति कात्यायनवचनात् ।
नन्विदं श्रौतं प्रकृतं तान्त्रिकं तत् कथमेकवाक्यत्वमिति चेत् ।
तन्न ।
" परोक्तमविरोधि च " इत्युक्तेः ।
यथा श्रौते सोमयागादौ—-
यज्ञोपवीतिना कार्यं सदा बद्धशिखेन च ।
शुचिना कर्म कर्त्तव्यम् ।
इत्याद्यविरुद्धं स्मार्त्तमपि गृह्यते ।
तद्वदिहापि ।
अतएवोक्त " सर्वशाखा- प्रत्ययमेकं कर्म " इति ।
तन्त्रविद इत्यनेन तत्तत्तन्त्रोक्तनानाविधाङ्गुललक्षणाभिज्ञा इत्युक्तम् ।
मध्यमाङ्गुलिपर्वण इति ।
पर्वशब्देन मध्यमपर्वेच्यते ।
तन्मध्यस्य दैर्ध्यमानं यत्तदङ्गुलम् ।
अथवा मध्यस्य मध्यमाङ्गुलिपर्वणः दैर्घ्यमानं यत्तदङ्गुल- मिति सम्बन्धः ॥ ५०-५२ ॥
यवानामष्टभिः कॢप्तं मानाङ्गुलमुदीरितम् ।
चतुरस्रीकृतं क्षेत्रं पञ्चधा विभजेत् सुधीः ॥ ५३ ॥
अग्रे ग्रन्थकृद् यवद्वयक्रमेणैव इत्यादि यवव्यवहारं करिष्यति तत्सिद्ध्यर्र्थ- मङ्गुलस्याष्टमो
भागो यव इत्याह यवानामिति ।
मानाङ्गुलमिति तस्यैव सञ्ज्ञान्तरम् नत्वङ्गुलस्येदं पृथग्लक्षणम् ।
वा शब्दादिप्रयोगाभावात् ।
ग्रन्थान्तरे च—-
जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।
प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥
त्रसरेणुस्तु विज्ञेयो ह्यष्टौ ते परमाणवः ।
त्रसरेणव एते स्युरष्टरेणुस्तु संस्मृतः ॥
ते रेणवस्तथा त्वष्टौ बालाग्रं तत् स्मृतं बुधैः ।
बालाग्राण्यष्ट लिख्या तु यूका लिख्याष्टकं स्मृतम् ॥
अष्टौ यूका यवं प्राहुरङ्गुलन्तु यवाष्टकम् ।
रत्निस्त्वङ्गुलपर्वाणि विज्ञेयस्त्वेकविंशतिः ॥
चत्वारि विंशतिश्चैव हस्तः स्यादङ्गुलानि तु ॥ इति ।
अङ्गुलद्वयमेकतयैवोक्तम् ।
त्रैलोक्यसारेऽपि—-
कर्त्तुर्मध्याङ्गुलेर्मध्यपर्वणोरङ्गुलप्रमा ।
तिर्यग्यवोदराण्यष्टावूर्द्धाग्रा ब्रीहयस्त्रयः ॥ इति ।
सिद्धान्तशेखरेऽपि मात्राङ्गुलेनैव कुण्डं कर्त्तव्यमित्युक्तम् ।
तद् यथा—-
मात्राङ्गुलेन हस्तः स्यात् कुण्डमाने शिवेरितः ।
मध्यमाङ्गुलिमध्यस्थपर्वदैर्घ्येण चोत्तमम् ॥
मात्राङ्गुलेन चानेन मेखलाकण्ठनाभयः ।
कर्त्तव्याः कुण्डयोनिश्च ।
इति ।
मयेनापि—- परमाणुक्रमाद् वृद्धं मानाङ्गुलमितीरितम् ।
इत्यादिना—-
यवोऽष्टगुणितोऽङ्गुलम् ।
अङ्गुलन्तु भवेन्मात्रं वितस्तिर्द्वादशाङ्गुलः ॥ इत्यन्तेन ।
हयशीर्षपञ्चरात्रेऽपि—-
यवाष्टकैरङ्गुलं स्याच्चतुवींशाङ्गुलः करः ।
चतुवींशाङ्गुलश्चान्यः स्वाङ्गुष्ठेन तु समितः ॥ इति ।
तत्राङ्गुष्ठरेखामध्यपर्वणोरपि समतैव ।
ननु यद्यपि वाशब्दादिप्रयोगो नास्ति तथापि मात्राङ्गुलमानाङ्गुल शब्दाभ्यामेव विकल्पो भविष्यतीति चेत् ।
तन्न ।
तथाग्रेऽपि भिन्नतया व्यवहाराभाबात् ।
यत्र तु पञ्चरोत्रे पञ्चधाऽङ्गुललक्षणमुक्तं तत्र तु तेषां व्यवस्थाऽप्युक्ता ।
अत्र तु व्यवस्थाया नोक्तत्वात् पर्यायतैव ।
तत्तु यथा पञ्चरात्रे—-
वातायनपथं प्राप्य ये यान्ति रविरश्मयः ।
तेषु सूक्ष्मा विसर्पन्ते रेणवस्त्रसरेणवः ॥
परमाणवस्तेऽष्टौ स्यूरेणवस्तु तदष्टभिः ।
तेऽष्टौ बालाग्रकं तेऽष्टौ लिक्षा यूका तदष्टकम् ॥
तदष्टकं यवास्तेऽष्टावङ्गुलं समुदाहृतम् ।
सा तूत्तमाङ्गुलिः सप्त यवाः सैव तु मध्यमा ॥
षड्यवाः साधमा प्रोक्ता मानाङ्गुलमितीरितम् ।
विन्यस्तैस्तिर्यगष्टाभिर्यवैर्मानान्तराङ्गुलम् ॥
शिष्यदक्षिणहस्तस्य मध्यमाङ्गुलिमध्यतः ।
पर्वणोरन्तरा दैर्ध्यं मात्राङ्गुलमुदाहृतम् ॥
विनाऽङ्गुष्ठेन शेषाभिर्मुष्टि मङ्गुलिभिः कृतम् ।
चतुर्द्धा विभजेदेको भागो मुष्ट्यङ्गुलिः स्मृता ॥
यं कञ्चित् पुरुषायामं विभज्य दशधा पुनः ।
एकं द्वादशधा भागं कृत्वा तेष्वेकमङ्गुलम् ॥
देहलब्धाङ्गुलं नाम जानीयात् तस्य तत् पुनः ।
उच्छ्रायः प्रतिमायाः स्यान्महामानाङ्गुलाश्रयः ॥
महामानाङ्गुलं यत्तन्मात्राङ्गुलमितीरितम् ।
मानान्तराङ्गुलेनैव प्रतिमाङ्गानि कल्पयेत् ॥
प्रासादादींश्च तेनैव कृर्यान्मानान्तरेण वा ।
वेदिकापीठशिविकारथादीनां विधिः पुनः ॥
मानान्तराङ्गुलेनैव भवेन्नान्येन केनचित् ।
यागोपकरणान्यत्र कुर्यान्मानाङ्गुलेन वै ॥
होमाङ्गानि स्रुवादीनि कुण्डं मुष्ट्यङ्गुलाश्रयम् ।
देहलब्धाङ्गुलेनापि कुण्डादीनि प्रकल्पयेत् ॥ इति ।
बहुषु पुस्तकेषु उभयत्र मानाङ्गुलमित्येव पाठः ।
एकत्र मानाङ्गुलशब्दः पारिभाषिकः अन्यत्र मानेन प्रमाणेनाऽङ्गुलमिति यौगिको व्याख्येयः ।
चतुरस्रकुण्डक्षेत्रफलं तल्लक्षणेनोक्तम् ।
तस्याङ्गुलात्मकत्वात् तदज्ञाने वक्तु- मशक्यत्वात् इत्यधुनोच्यते ।
तत्तु लीलावत्यां भास्कराचार्यः—-
समश्रुतौ तुल्यचतुर्भुजे च तथायते तद्भुजकोटिघातः ।
इति ।
त्रिशत्यां श्रीधराचार्येऽपि—-
समलम्बकचतुरस्रे त्र्यस्रिक्षेत्रे च जायते करणम् ।
भूवदनसमासार्द्धं मध्यमलम्बेन सङ्गुणयेत् ॥
इत्यनेन प्रकारण चतुवींशतिश्चतुवींशत्या गुणिता पञ्चशतानि षट्सप्तत्यधि- कानि अङ्गुलानि क्षेत्रफलम् ।
एतदेव क्षेत्रफलमष्टस्वपि कुण्डेषु ज्ञेयम् ।
अतः सर्वेषामेव कुण्डानामिदमेव प्रकृतिभूतम् ।
तन्त्रान्तरेऽप्यस्यैव प्रकृतितोक्ता चतुरस्रमुक्त्वा—-
तस्मिन्नन्यानि कुण्डानि वदामि तव नामतः ।
इति ।
अन्यत्रापि—-क्षेत्रं स्याच्चतुरस्रमत्र जनयेदन्यानि कुण्डान्यपि ।
इति ।
सिद्धान्तशेखरेऽपि—-योन्यादिसर्वकुण्डानि चतुरस्राद्भवन्ति हि ।
लक्षणं चतुरस्रस्य पूर्वं तस्मान्मयोच्यते ॥
इत्यादिना चतुरस्रमिदं प्रोक्तं सर्वकुण्डेषु कारणम् ॥ इत्यन्तेन ।
क्रियासारेऽपि—- चतुष्पदं चतुष्कोणमेतत् क्षेत्राह्वयं भवेत् ।
चतुरस्रादिकुण्डानां सर्वेषामत्र सम्भवः ॥ इति ।
चतुरस्रप्रकृतितया योनिकुण्डमाह चतुरस्रीकृतमिति ।
चतुरस्रीकृतं क्षेत्रं पञ्चधा विभजेत् ।
तत्र सर्वस्य क्षेत्रफलस्य विभागे प्रयोजनाभावान्मध्यसूत्रस्यैव विभागः कार्य इति
सुधीरित्यनेनोक्तम् ।
तत्रायं पञ्चमः अंशः चतुरङ्गुलानि सार्द्धषड्यवाः किञ्चिदूनाः ॥ ५३ ॥
न्यसेत् पुरस्तादेकांशं कोणार्द्धार्द्धप्रमाणतः ।
भ्रमयेत् कोणमानेन तथाऽन्यदपि मन्त्रवित् ।
सूत्रयुग्मं ततो दद्यात् कुण्डं योनिनिभं भवेत् ॥ ५४ ॥
एवम्भूतमंशं पुरस्ताद्दक्षिणोदग्गतसूत्रस्योत्तरभागे न्यसेद् वर्द्धयेत् इति मन्त्रविदित्यनेनोक्तम् ।
ततः कोणार्द्धार्द्धप्रमाणतः कोणमानेन भ्रमयेत् ।
अत्र कोणशब्देन कोणसूत्रं गृह्यते ।
तस्यार्द्धं कर्णसूत्रद्वयमध्यसम्पातस्थानम् तदर्द्धम् ।
अपरकोष्ठयुगले द्वितीयकर्णसूत्रयोगस्थानम् ।
तत्प्रमाणतः तस्मान्मानात् कोणमानेन कोणसंलग्नतया भ्रमयेत्।
प्रकारस्तु अपरैककोष्ठकर्णसूत्रद्वयसम्पातस्थाने सूत्रादि संस्थाप्य मध्यतिर्यक्सूत्राग्रात्
तत्कोणसंलग्नं दक्षिणोदग्गतसूत्रस्य दक्षिणाग्रावधि सूत्राग्रं भ्रमयेत् मन्त्रविदन्यदपि तथा
भ्रमयेदित्यर्थः ।
तत्रापि प्रकारः ।
द्वितीयापरकोष्ठकर्णसूत्रद्वयसम्पातस्थाने सूत्रादिं संस्थाप्य मध्यम तिर्यग्गतसूत्रस्य द्वितीयाग्रात्
तत्कोणसंलग्नं दक्षिणोदग्गतसूत्रस्य दक्षिणाग्रावधि सूत्राग्रं भ्रमयेत् ।
ततः सूत्रयुग्मं दद्यात् ।
पार्श्वद्वयस्थवृत्ताग्राभ्यां पुरोवर्द्धीत सूत्राग्रावधि सूत्रद्वयं पातयेत् ।
एवं योनिनिभमुत्तराभिमुखं कुण्डं भवेत् ।
तदुक्तं कादिमते—-
तन्मध्यपञ्चमांशेन विकाश्य ब्रह्मसूत्रकम् ।
पूर्वतः पश्चिमद्वन्द्वकोष्ठयोर्मध्यदेशतः ॥
तत्कोणमानेन तथा भ्रामयेत् पश्चिमाग्रकान् ।
उत्तराग्रावधि तथा दक्षिणाग्रावधि प्रिये ॥
तन्मध्यतिर्यक्सूत्राग्र( त्रांश)द्वयावष्टम्भतस्तथा ।
विकाशितब्रह्मसूत्रावधि सूत्रद्वयं क्षिपेत् ॥
योनिकुण्डमिदं भद्रे (भद्रम) ।
इति ।
कामिकेऽपि—- पञ्चमांशं पुरो न्यस्य मध्ये वेदांशमानतः ।
भ्रमादश्वत्थपत्राभं कुण्डमाग्नेयमीरितम् ॥ इति ।
क्रियासारेऽपि—- क्षेत्रं पञ्चांशकं कृत्वा पूर्वस्यामेकमंशकम् ।
न्यस्य तस्मान्यसेत् सूत्रे पार्श्वयोर्मध्यमावधि ॥
ततः प्रत्यक्पदद्वन्द्वं भ्रामयेत् तत्तदर्द्धतः ।
पृथक् पृथक् यथा सम्यक् तथा कोणत्रयावधि ॥
एवं कृते स्थिरं कुण्डं भवेदश्वत्थपत्रवत् ॥ इति ।
सिद्धान्तशेखरेऽपि—-योन्याख्यमुच्यते कुण्डमाग्नेयामुत्तरामुखम् ।
प्रजावृद्धौ(त्तौ)प्र(च)तापे च शस्तं तत्रापि पूर्ववत् ॥
चतुष्कोष्णं(णं) समं कुर्यादंशं क्षेत्रस्य पञ्चमम् ।
सोमसूत्रस्य बाह्याग्रे योजयेत् सौम्यभागके ॥
अग्रयोर्गर्भसूत्रस्य न्यसेदंशे च सूत्रकम् ।
सिद्ध्यत्यनेन पत्राग्रं दक्षकोष्ठद्वयस्य तु ॥
मध्यकोष्ठस्य चान्ते च भ्रामयेत्तद्भ्रमाद्भवेत् ।
पत्रपृष्ठं सुसंसिद्धं पत्रमश्वत्थपत्रवत् ॥
इतीदं योनिकुण्डं स्यात् ।
इति ।
अत्र क्षेत्रोपपत्तिरुच्यते ।
तत्रैकपार्श्वे अर्द्धं वृत्तम् ।
द्वितीयपार्श्वे अर्द्धं वृत्तम् ।
एवमेकं वृत्तक्षेत्रम् ।
वृत्तार्द्धद्वयमध्यस्थमधोमुखं त्रिकोणमेकम् ।
तदुपर्यूर्द्धमुखं त्रिकोणमेकमिति त्रीणि क्षेत्राणि ।
तत्र त्रयाणामपि पृथक् पृथक् फलमानीयैकीकृतं योनिकुण्डक्षेत्रफलं भवति ।
तत्र वृत्तक्षेत्रफलं तावदुच्यते ।
व्यासस्य वर्गे भनवाग्नि (३९२७) निघ्ने सूक्ष्मं फलं पञ्चसहस्रभक्ते ।
इति भास्कराचार्येक्तप्रकारेण वृत्तक्षेत्रफलानयने श्रीधराचार्येक्तिः " त्रिंशत्यां स्थूला " इत्युपेक्षिता ।
तत्रैकाङ्गुलस्य चतुस्त्रिंशांशेनोनानि सप्तदशाङ्गुलानि व्यासः ।
तदुपपत्तिरेवं " तत्कृत्योर्येगपदम् " इत्यनेन कर्णप्रमाणमानीय तदर्द्धं व्यासो भवति ।
इदञ्चाग्रे द्विहस्तकुण्डकरणीकथनप्रस्तावे स्फुटीकरिष्यते ।
तत्र व्यासस्य न्यासो यथा १६ सवणीतः अस्य यथोक्तकरणेन ज्ञातं क्षेत्रफलं २२६ एकोयवश्च- तस्त्रो
यूकास्तिस्त्रो लिख्याः ।
न्यासांशसवर्णनादिप्रकारस्तु ग्रन्थगौरवभयान्नोक्तः ।
स तु पाटीगणिते लीलावत्यादौ द्रष्टव्यः ।
ततोऽधस्र्यस्रस्य फलम् ।
" लम्बगुणं भूम्यर्द्धं स्पष्टं त्रिभुजे फलं भवति " इति भास्कराचार्येक्तमार्गेण ।
तत्र भूः २४ अङ्गुलानि लम्बः १२ अङ्गुलानि ।
ततो भूम्यर्द्धं १२ लम्बः १२ गुणं १४४ ।
इदं मध्यत्य्रस्रस्य फलम् ।
तत ऊर्द्धत्र्यस्रस्य फलम् तस्य भूः २४ अङ्गुलानि
ग्रन्थकृदुक्तप्रकारेण लम्बः तत्र मध्यसूत्रार्द्धं १२ अङ्गुलानि ।
ततो वद्धीतपञ्चमोऽंशः उभयोः समच्छेदार्थं न्यासः समच्छेदौ योगः ।
ततो यथोक्तकरणेन जातं क्षेत्रफलं २०१ किञ्चिन्न्यून- पञ्चयवाधिकम् ।
तेन क्षेत्रफलमध्ये सयवद्वयचतुरङ्गुलानि न्यूनानि भवन्ति ।
उदाहृत कादिमतादिलक्षणेष्वपि इदमेव फलं ज्ञेयम् ।
तत्र कश्चित् कामिकवचनं ४६९ एतावत फलमानीय दूषितवानिति महाभ्रान्त एव ।
एवं सर्वेषामेकवाक्यत्वे सत्यपि च " मानहीने दरिद्रता " इत्यादि " न्यूनाधिकप्रमाणं यद् यजमानविनाशकृत् "
इत्यादि दोषापत्तेरिति क्षेत्रफलसाम्यमत्रावश्यमपेक्षितम् ।
यतो भास्कराचार्यश्रीधराचार्यप्रोक्त- गणितमार्गेण क्षेत्रफलानयनद्वारैवावश्यं कुण्डानि वक्तव्यानि ।
यत् क्रियासारे—-
प्राक्कुण्डे यत् प्रमाणं तदन्येषां क्षेत्रमानकम् ।
इति ।
ग्रन्थकृताऽपि तुल्यक्षेत्रफलानयनार्थमेव समचतुरस्रस्य प्रकृतिता निरूपिता ।
पञ्चदशशाखोपरि कल्पसूत्रं प्रणीतवतो भगवतः कात्यायनस्यापि परिशिष्टे शुल्वे कुण्डं वक्तुमिच्छोः
श्रीधराचार्यभास्कराचार्यप्रोक्तमार्गेण क्षेत्रफलानयनद्वारैव प्रवृत्ति- र्दृश्यते ।
अतोऽवश्यं क्षेत्रफलसाम्यं वक्तव्यम् ।
तदाचार्येणातिसूक्ष्मगणनायां शिष्य- बुद्धिक्लेशो भविष्यतीत्युपेक्षितम् ।
साम्प्रदायिकास्तदर्थं यवत्रयप्रक्षेपमाहुः एकहस्ते मया क्षेत्रफलसमतार्थं सर्वानुगतप्रकारस्तूच्यते ।
चतुवींशतिधा मध्यसूत्रं भुङ्क्त्वा पुरो न्यसेत् ।
पञ्चांशांश्चैकैकस्य त्रीन् विंशांशान् कोणपादतः ॥
वृत्तार्द्धेस्तो मध्यतिर्यक्सूत्रान्तञ्च ततोऽर्पयेत् ।
पुरोवद्धीतसूत्रान्तं सूत्रे द्वे स्याद् भगाकृति ॥
अनेन प्रकारेण क्षेत्रफलमव्यभिचारीति ज्ञेयम् ।
अत्र पञ्चाङ्गुलानि सयवानि यूकासार्द्धलिख्याचतुष्टयसहितानि मध्यसूत्रं वर्द्धयेत् ।
तदा लम्बः १७ सवणीतः उक्तक्रमेण जातं क्षेत्रफलं २०५ षड्यवास्तिस्रो यूकाः पञ्च लिख्याः ।
एवमेकीकृतं सर्वं क्षेत्रफलं ५७६ ।
एतत् सूक्ष्ममिति ज्ञेयम् ।
यत्तु
कादिमते—- चतुरस्राभितो या तु त्यक्त्वा भूः सान्य(ग्र)तः स्थिता ।
लभ्यते सर्वकुण्डेषु तेन सर्वाणि सर्वतः ।
तत्समान्येव जायन्ते षस्मवत्युङ्गुलात्मना ॥ इति ।
सिद्धान्तशेखरेऽपि—-क्षेत्रस्य चतुरस्रस्य समं सूत्रं चतुर्गुणम् ।
योन्यादिसर्वकुण्डानां पर्यन्तेषु नियोजयेत् ॥
चतुरस्रं समं तच्चेच्छुभं योन्यादिकुण्डकम् ॥ इति ।
तदत्रास्मदुक्तप्रकारेण संवदति ।
व्यासे भनन्दाग्नि ३९२७ हते विभक्ते
खवाणसूर्यैः १२५० परिधिः स सूक्ष्मः ।
इति प्रकाराद् वृत्तपरिधिः सूक्ष्मः १६०।
३०।
स्थूलस्तु ५४ अङ्गुलानि कर्णसूत्रद्वयं २१।
२१ अङ्गुलानि " तत्कृत्योर्येगपदम् " इत्यनेन प्रकारेण जातम् ।
मिलित्वा षस्मावत्यङ्गुलात्मता ।
परन्त्वतिस्थूलमानत्वाद् बहुषु स्थलेषु व्यभिचरतीद- मित्युपेक्षितम् ।
यतोऽर्द्धचन्द्रे ९८ अङ्गुलानि यवत्रयाधिकानि परिधिः ।
त्र्यस्रे ९० अङ्गुलानि ३ यवाः २ यूकाः ।
वृत्ते ८५ अङ्गुलानि किञ्चिदधिकानि ।
षडस्रे ८८ अङ्गुलानि ४ यवाः ७ यूकाः ।
अष्टास्रे ८७ अङ्गुलानि ४ यवाः ।
एवं कुत्रापि न मिलतीति यत्किञ्चिदेतत् ।
कैश्चिच्छारदापद्यमिदमन्यथा व्याख्यातम् ।
पञ्चमांशेन प्राचीसूत्रं वर्द्धयेत् ।
ततः कोणयोः प्रतीचीतिर्यक्सूत्रोत्पन्ननैरृत्यवायव्ययोः अर्द्धार्द्धप्रमाणेन एकत्र कोणे
पञ्चमांशस्यार्द्धम्
अपरत्र कोणेऽपि पञ्चमांशस्यार्द्धं वर्द्धयेत् ।
कोणमानेन वद्धीत- वायव्यकोणात् प्राचीसूत्रपश्चिमाग्रावधि भ्रमयेत् ।
तद्वद्वद्धीतनैरृत्यकोणात् प्राचीसूत्र- पश्चिमाग्रावधि भ्रमयेत् ।
वद्धीताभ्यां वायव्यनैरृत्यकोणाभ्यां वद्धीतप्राचीसूत्राग्रावधि सूत्रद्वयं दद्यादिति ।
तदसाम्प्रदायिकत्वात् एतदर्थप्रतिपादकशब्दाभावात् लिखित- कादिमतादिविरोधात् स्वकपोलकल्पितम् ।
सूक्ष्मगणनायां क्षेत्रफलस्याप्याधिक्याद् यत्किञ्चिदेतत् ।
यदतिगणितज्ञाभिमानिनः आगमज्ञाभिमानिनश्च लक्षणम् ।
अष्टोनद्विशतांशसूत्रकचतुःकोणे पुरस्ताद्दद—-
त्वष्टत्रिंशतमेधयत्वथ लवान् श्रोण्योरिमानर्द्धशः ।
अङ्ग्रात् सूत्रयुगे त्रिकोणमिति तच्छ्रोण्योस्ततोऽर्द्धभ्रमात्
वृत्तार्द्धे बहिरालिखेदिति भवेत् कुण्डोत्तमं योनिवत् ॥ इति ।
चतुरस्रश्रोण्योरपि पश्चिमतिर्यक्सूत्रमुभयतः तानष्टत्रिंशदंशान् अर्द्धार्द्धतया वर्द्धयेत् ।
एकोनविंशतिर्दक्षिणतः एकोनविंशतिरुत्तरत इति यत् तत् स्वकपोल- कल्पितम् ।
क्रियासार-कादिमत-कामिक-सिद्धान्तशेखरादिविरोधात् ।
क्षेत्रफलमध्ये च किञ्चिदधिकं क्षेत्रफलमिति (चतुर्दशाङ्गेलानि न्यूनानीति) ज्ञात्वा महद्भिः सन्तोष्ट- व्यम् ।
अत्र भ्रामयेदिति लेखकदोषवशात् अपपाठः ।
मित्वात् " मितांह्रस्वः " इति ह्रस्वत्वात् भ्रमयेदित्येव पाठः ॥ ५४ ॥
चतुरस्रीकृतं क्षेत्रं दशधा विभजेत् पुनः ।
एकमेकं त्यजेदंशमध ऊर्द्धञ्च तन्त्रवित् ॥ ५५ ॥
ज्यासूत्रं पातयेदग्रे तन्मानाद् भ्रमयेत्ततः ।
अर्द्धचन्द्रनिभं कुण्डं रमणीयमिदं भवेत् ॥ ५६ ॥
चतुरस्रप्रकृतितया अर्द्धचन्द्रकुण्डमाह चतुरस्रीकृतमिति ।
क्षेत्रशब्देन पूर्वव- न्मध्यसूत्रं गृह्यते ।
तद् दशधा विभजेत् ।
तत एकं भागमध उत्तरतः एकमूर्द्धतो दक्षिणतश्च त्यक्त्वा अग्रे अग्रचिह्ने उत्तरभागे ज्यासूत्रं
स्वेच्छाप्रमाणं पातयेत् इति
त(म)न्त्रविदित्यनेन सूचितम् ।
ततस्तन्मानान्मध्ये व्यासमानाद् भ्रामयेत् ।
तत्र प्रकारः।
ज्यासूत्रमध्यसूत्रसन्निपाते सूत्रादिं संस्थाप्य ऊर्द्धभागे यच्छिह्नं कृतं ततो ज्यासूत्रान्तं भ्रामयेत् ।
तदर्द्धचन्द्रनिभम् उत्तराभिमुखं कुण्डं भवेत् ।
तदुक्तं सिद्धान्तशेखरे—-
अर्द्धचन्द्रमथोच्यते ।
याम्ये तन्मारणे शस्तमुत्तराभिमुखं सदा ॥ इति ।
अत्र क्षेत्रोपपत्तिः ।
तत उभयतो दशांशत्यागेन सर्वस्य पञ्चमांशत्यागो भवति।
स च ४ अङ्गुलानि ६ यवाः ३ यूकाः १ लिख्याः ४ बालाग्राणि ६ रेणवः ३ त्रसणवः १ परमाणुः ।
तदायं शिष्टो व्यासः १९ अङ्गुलानि १ यवः ४ यूकाः ६ लिख्याः ३ बालाग्राणि १ रेणुः ४ त्रसरेणवः ७ परमाणवः ।
तेन पञ्चमांशाधिकै- कोनविंशत्यङ्गुलायामः १९ क्षेत्रफलानयनार्थं सवणीतः एतद्व्यासेन फलानयने
यवार्द्धाधिकमङ्गुलत्रयमधिकं क्षेत्रफलं भवति ।
तदाचार्येणोपेक्षितम् अल्पत्वात् ।
क्षेत्रफलाव्यभिचारी सर्वानुगतप्रकारस्तूच्यते ।
चतुवींशतिधा भक्ते सूत्रे व्यासोऽर्द्धचन्द्रके ।
विंशांशत्रयमेकस्य भागा एकोनविंशतिः ।
एतन्मानार्द्धभ्रमेण दलेन्द्वग्रे गुणाङ्कनात् ॥
तदायं व्यासः १९ अङ्गुलानि १ यवः १ यूका ४ लिख्याः ५ बालाग्राणि ३ रेणवः १ त्रसरेणुः ४ परमाणवः ।
तदा २ अङ्गुले ३ यवाः ३ यूकाः १ लिख्या ५ बालाग्राणि २ रेणू ३ त्रसरेणवः २ परमाणू इममंशमूर्द्धतस्त्यजेत् ।
एतादृशमेवांशमधस्त्यजेत् ।
तत्र क्षेत्रफलानयनाय व्यासस्य न्यासः १९।
तेन एकोनविंशत्यङ्गुलानि एकाङ्गुलस्य विंशतिधा भक्तस्य त्रयो भागाः सवणीतो यथा तत्र
वृत्तफलानयनार्थमयं द्विगुणीकृतः ।
तत्र छेदस्यैवार्द्धीकरणेन उपरि ततो द्विगुणो भवत्येव तेनायं सम्पूर्णवृत्तव्यासः ।
ततो " व्यासस्य वर्गे भनवाग्नि " इत्यादिना आनीतं क्षेत्रफलं सर्ववृत्तस्य ११५२ एतदद्धी कृतम्
अर्द्धचन्द्रस्य क्षेत्रफलं ५७६ सूक्ष्मं ज्ञेयम् ।
अथवा द्विहस्तकुण्डे एतद्व्यासवर्गं द्विगुणीकृत्य तन्मूलमानेयम् ।
तत्र एव व्यासः ।
स एवमग्रेऽप्यूह्यम् ।
यत् कस्यचिदतिगणितज्ञाभिमानिनो लक्षणम् ।
चतुरस्रीकृतं क्षेत्रं चतुवींशतिधा भजेत् ।
एकोनविंशत्या विंशद्वादशांशाढ्या लवैः ॥
प्राच्यन्ताद् विभजेत् वृत्तफलं प्रत्यग्धनुःस्थिति ।
तदवध्येधयेत् प्राच्यां तिर्यक्सूत्रं ततो भवेत् ॥
कुण्डमर्द्धेन्दुसदृशं सम्यग्दृष्टिमनोहरम् ॥ इति ।
अत्रापि सूक्ष्मगणनया अङ्गुलत्रयन्यूनम् ।
यतस्तेन " व्यासार्द्धत्रय( वर्ग)वर्गात् क्षेत्रफलं दशगुणान्मूलम् " इति श्रीधराचार्येक्तेन प्रकारेण
क्षेत्रफलमानीतम् ।
तच्च स्थूलम् ।
यतो गणितग्र्रन्थानामियं शैली यत् स्थूलं सूक्ष्ममपि फलानयनमुच्यते ।
तत्र भगवता श्रीधराचार्येण बृहत्पाट्यां प्रकारद्वयमप्युक्त्वा तत्सङ्ग्रहे त्रिशतीग्रन्थे स्थूला
एक प्रकारा लिखिताः ।
भास्कराचार्येण तु लीलावत्यां स्थूला एव सूक्ष्मा अपि प्रकारा उक्ताः ।
तां बृहत्पाटीञ्चावलोक्य मया सूक्ष्मं फलमिदमानीतम् ।
तदेव सूक्ष्ममिति मन्यते चेत्तदा मूले अत्यन्तं फलाधिक्यं स्यात् ।
अन्यच्च अस्योत्तराभि- मुखत्वात् प्राच्यन्तात् सूत्रं वर्द्धयेत् ।
प्रत्यग्धनुःस्थितीत्यन्तमेवासङ्गतम् ।
स्वग्र्रन्थे स्वयं योनिलक्षणं वदन्नाह स्म—-
मघव-शिखि-कृतान्त-दिक्स्थकुण्डेष्वियमधिमेखलमेव मध्यभागे ।
यमदिशि शशिदिङ्मुखा निवेश्य ।
इति ।
तेन स्वग्रन्थे पूर्वापरविरोधोऽपि नोपलक्षित इति यत्किञ्चिदेतत् ।
यत्तु शुल्वे कात्यायनवचनम्—- " मण्डलं चतुरस्रं चिकीर्षन् विष्कम्भं पञ्चदशभागान् कृत्वा
द्वावुद्धरेच्छेषः करणी " इति ।
तदपि सम्भवाभिप्रायं नतु सम्यग्गणनाभि प्रायम् ।
एवमपि चेत् कस्यचिन्महापुरुषस्य मनसि सन्देह उत्पद्यते ।
तेन प्रत्यक्षं परीक्षा कार्या।
धातुकाष्ठमृण्मयं वा एकहस्तमितं समं चतुरस्रं पात्रं कारयित्वा तदुक्तमानेन- मदुक्तमानेन च एकं
हस्तमितं वृत्तं पात्रं कारयित्वा चतुरस्रपात्रं सम्यग् जलेनापूर्य तज्जलेनैव वृत्तं पात्रं पूरयेत् ।
यदेव वृत्तं पात्रं सम्यक् पूर्णतामेति तदेव शुद्धमिति मन्तव्यम् ।
एतस्यैव यल्लक्षणान्तरम्—-
चतुष्कोणक्षेत्रे जिनलवकमध्यस्थितगुणे
विहायाधः सार्द्धद्वयमुपरि तावच्च मतिमान् ।
कलांशेनांशस्योनितमुपरि तिर्यक् कुरु गुणं
भ्रमार्द्धं तन्मानादपि शशिदलं कुण्डमिति तु ॥ इति ।
अत्र एकोनविंशत्यङ्गुलानि सार्द्धयवानि व्यासः ।
तत्र सूक्ष्मगणनायां पञ्चाङ्गुलानि न्यूनानि ।
तत्कृतस्थूलगणनाप्रकारेणापि सार्द्धमङ्गुलं न्यूनं भवति ।
यत्तु तेनोक्तं " मण्डलं चतुरस्रम् " इति कात्यायनवचनेन संवाद्यमिति तदप्यसिद्धं संवादाभावात् ।
सिद्धान्तशेखरे तु—- नवधा भाजिते क्षेत्रे चतुरस्रे समे तदा ।
दक्षिणे चोत्तरे चांशमेकैकन्तु परित्यजेत् ।
सप्तांशमध्यसूत्रेण भ्रमणादर्द्धचन्द्रकम् ॥ इति ।
कामिकेऽपि—- चतुरस्रे ग्रहैर्भक्ते त्यक्त्वान्त्याद्यौ तदंशकौ ।
मध्यसप्तांशमानेन कुण्डं खण्डेन्दुवद् भ्रमात् ॥ इति ।
अत्रोभयत्र अष्टादशाङ्गुलानि एकस्य द्वौ तृतीयांशौ व्यासः ।
अतोऽत्यन्तं न्यूनं क्षेत्रफलम् ॥ ५५-५६ ॥
चतुर्द्धा भेदिते क्षेत्रे न्यसेदुभयपार्श्वयोः ।
एकैकमंशं तन्मानादग्रतो लाञ्छयेत्ततः ।
सूत्रद्वयं ततः कुर्यात् त्र्यस्त्रं कुण्डमुदाहृतम् ॥ ५७ ॥
चतुरस्रप्रकृतितया त्र्यस्रकुण्डमाह चतुर्द्धेति ।
क्षेत्रे चतुरस्रमध्यसूत्रे चतुर्द्धा भेदिते ।
उभयपार्श्वयोस्तिर्यक्प्रतीचीसूत्रपार्श्वयोरेकैकमंशं वर्द्धयेत् ।
तन्मानात् चतुर्थांशमानेन अग्रतो लाञ्छयेत् ।
ततः सूत्रत्रयं दद्यात् ।
तत्र प्रकारः ।
तिर्यक्प्रतीची- सूत्रपार्श्वयोर्ये लाञ्छने तदवधि प्रतीचीसूत्रं वर्द्धयेदित्येकम् ।
वद्धीतनैरृत्यकोणात् मध्यसूत्राग्रदत्तलाञ्छनं यावत् सूत्रं पातयेदिति द्वितीयम् ।
ततो वद्धीतवायव्यकोणात् मध्यसूत्राग्रदत्तलाञ्छनं यावत् सूत्रं पातयेदिति तृतीयम् ।
एवमूर्द्धाग्रं पूर्वाभिमुखं त्र्यस्रि कुण्डं भवति ।
तदुक्तं सिद्धान्तशेखरे—- त्रिकोणं कुण्डमुच्यते ।
नैरृत्ये दशीतं कुण्डं विद्वेषे पूर्ववत् क्रमम् ॥ इति ।
अत्र क्षेत्रोपपत्तिः ।
भूः ३६ लम्बः ३० ततो " लम्बगुणं भूम्यर्द्धम् " इत्यादिना जातं क्षेत्रफलं ५४० ।
षट्त्रिंशदङ्गुलानि न्यूनानि खर्वञ्च त्र्यस्रम् ।
यतः षट्त्रिंशद्भूः भुजौ तु " तत्कृत्योर्येगपदं कर्ण " इति प्रकारेणानीतौ पञ्चत्रिंशदात्मकौ ।
त्र्यस्रकुण्डे तु भुजत्रयसाम्यञ्चापेक्षितम् ।
तदर्थं केचन अन्यथा व्याचक्षते ।
चतुर्द्धा क्षेत्रे भेदिते एकैकमंशं पार्श्वयोर्वर्द्धयेत् ।
तन्मानेन वद्धीतानन्तरं यत् षड्त्रिंशन्मानं तन्मानेनाग्रतो लाञ्छयेत् ।
तत्र लाञ्छनप्रकारः ।
वद्धीतपार्श्वयोः षट्त्रिंशदङ्गुलमितसूत्रस्यादि निधाय प्राचीसूत्राग्रे लाञ्छयेदिति ।
ततः पूर्ववत् सूत्रत्रयं दद्यादिति ।
एवं च सति भुजत्रयसाम्यं भवति ।
उभयपार्श्वे मिलित्वा यवचतुष्टयप्रक्षेपादेक हस्तक्षेत्रफलसाम्यं भवतीति बुध इत्यनेन
सूचितमिति ते वदन्ति ।
मया तु समत्रिभुजता अन्यूनानतिरिक्त- क्षेत्रफलता च यथा भवति तथा सर्वानुगतप्रकार उच्यते ।
चतुवींशतिधा भक्ते सूत्रेऽथोभयपार्श्वयोः ।
द्वादशांशान्नवैकस्य भागानेकोनविंशतिम् ।
अर्द्धशो वर्द्धयेत् त्र्यस्रि भवेत् सूत्रत्रयात् समात् ॥
अस्यायमर्थः सम्पन्नः ।
षडङ्गुलानि यूकोनयवद्वयाधिकानि एकपार्श्वे वर्द्धयेत् ।
एवं द्वितीयपार्श्वे ।
तदा सप्ताङ्गुलानि चत्वारो यवाः षड्यूकाधिकाः प्राक्सूत्रं वद्धीतं भवति ।
ततो भूः ३६ अङ्गुलानि ३ यवाः ६ यूकाः सार्द्धलिख्या- द्वयम ।
लम्बः ३१ अङ्गुलानि ४ यवाः ६ यूकाः ।
तत्र " लम्बेन निघ्नं कुमुखैक्य- खण्डम् " इति प्रकारेण क्षेत्रफलानयनाय लम्बस्य न्यासो
यथा ३१ सवणीतः १० ।
भूः ३६ सवणीत मुखं शून्यमत एक्यमिदमेव तदर्द्धं छेदस्य द्वैगुण्यात् ततो " लम्बेन निघ्नं
कुमुखैक्यखण्डम् " इति कृते छेदेन भक्ते लब्धं क्षेत्रफलं यथा ५७६ ।
अत्र भुजत्रयं सममेव ।
क्रियासारेऽपि समभुजतोक्ता—-
क्षेत्रमष्टांशकं कृत्वा पार्श्वयोरंशकौ बहिः ।
न्यस्त्वा तन्मानसूत्रेण न्यसेत् सूत्रत्रयं समम् ॥ इति ।
क्षेत्रफलमत्रापि व्यभिचरत्येव ।
यतो २६ लम्बः क्षेत्रफलं ३९० ।
अतिन्यून- त्वादन्ये एवं व्याचक्षते ।
पार्श्वयोरंशकाविति एकस्मिन् पार्श्वे अंशद्वयं द्वितीयपार्श्वे अंशद्वयम् ।
तेन पञ्चदशाङ्गुलानि न्यूनानि क्षेत्रफलमध्ये भवन्ति ।
द्वितीयमत व्याख्यातशारदापद्यार्थेन संवादश्च भवति ।
महाकपिलपञ्चरात्रेऽपि समभुजतोक्ता ।
द्वात्रिंशदङ्गुलं सूत्रं त्रिधा तत् पातयेद् ध्रुवम् ।
पूर्वाग्रं कुण्डकं कृत्वा त्रिकोणं तु प्रकारयेत् ॥ इति ।
अत्रापि क्षेत्रफलं व्यभिचरत्येव ।
यतः २७ अङ्गुलानि ५ यवाः लम्बः क्षेत्रफलं ४४० ।
अन्यत्रापि—-
शर्वरी १६।
८ सार्द्धभागीकृतक्षेत्रतः पार्श्वयोर्न्यस्य भागद्वयं पण्डितः।
तेन मानेन सूत्रद्वयं विन्यसेत् कुण्डमेतद्भवेद्रुद्रनेत्रास्त्रकम् ॥ इति ।
इदं लक्षणद्वयं षणवतिपरिधिरेखाभिप्रायेण ।
अग्रे लिखितकादिमतेऽपि समभुजतोक्ता ।
मयाऽत्र लम्बस्तु गणितापटून् प्रत्युक्तः ।
गणितज्ञैस्तु—-
स्वाबाधाभुजकृत्योरन्तरमूलं प्रजायते लम्बः ।
इति लम्बमानीय क्षेत्रफलं सम्पाद्य सन्तोष्टव्यम् ।
अथवा लम्बं विनैव
सर्वदोर्युतिदलं चतुःस्थितं बाहुभिवीरहितञ्च तद्धतेः ।
मूलमस्फुटफलं चतुर्भुजे स्पष्टमेतदुदितं त्रिबाहुके ॥
इति प्रकारेणानीय सन्तोष्टव्यम् ।
मूलशेषाद्याबाधानयनार्थं प्रकार उच्यते ।
मूलशेषं त्ववयवसङ्ख्यानिघ्नमथो भजेत् ।
द्विघ्नस्यैकेन मूलेन फलं त्ववयवा मताः ॥
अथवा भास्कराचार्येक्त मार्गेण—-
वर्गेण महतेष्टेन वधात् छेदांशयोर्हतात् ।
पदं गुणपदक्षुणछिद्भक्तं निकटं भवेत् ॥
इत्यानेयमासन्नमूलम् ।
यत् कस्यचिदतिगणितज्ञाभिमानिनः आगमज्ञाभिमानि- नश्च लक्षणद्वयम् ।
क्षेत्रत्र्यंशं पुरस्तुर्यमधश्चोभयपार्श्वयोः ।
वर्द्धयित्वा कृतैः सूत्रैः कुण्डं त्र्यस्रं त्रिभिर्भवेत् ॥ इति ।
क्षेत्रस्य मध्यमगुणे जिनभागभक्ते
श्रोण्योः पृथक् शरलवान् परिवर्द्ध्य धीमान् ।
अग्रे विनाऽष्टमलवेन दशाथ सूत्रै—-
त्र्यस्रि त्रिभिर्भवति कुण्डमिह प्रयुक्तैः ॥ इति ।
अत्र पूर्वेक्तलक्षणं किञ्चिल्लम्बं त्र्यस्रं द्वितीयन्तु महालम्बम् ।
क्षेत्रफले च एकयवन्यूनता ।
तेन यत् किञ्चिदेतत् ।
अत्र क्षेत्रफलसाम्यात् त्र्यस्राकारत्वाच्च त्रिकोणकुण्डतेति चेत् तदा कुण्डस्वरूपमननुगतं स्यात् ।
यदा ३१ अङ्गुलानि ६ यवाः लम्बः ।
भूः ३६ अङ्गुलानि २ यवौ ।
अत्रापि क्षेत्रफलं समानमेव ।
एवं सहस्रधा त्र्यस्रं कुण्डं स्यात् ।
अतस्त्र्यस्रिकुण्डे क्षेत्रफलानयनमेव न प्रमाणम् ।
समत्रिभुजता चावश्यमपेक्षितेत्यलम् ।
अथ शुल्वे कात्यायनः—-प्रौगे यावानग्निः सपक्षपुच्छविशेषः तावद् द्विगुणं चतुरस्रं कृत्वा यः
पुरस्तात् करणीमध्ये शङ्कुः यौ च श्रोण्योः सोऽग्निः ।
इति ।
अस्यार्थः सङ्क्षिप्त उच्यते ।
यावतः क्षेत्रस्य त्र्यस्रता कर्त्तुमिष्टा तत् क्षेत्रं द्विगुणितं न्यसेत् ।
ततः प्रतीचीसूत्रकोणोभयतः सकाशात् मध्यसूत्राग्रावधि सूत्रद्वयं दद्यात् इति ।
अस्य क्षेत्रफलमङ्गुलद्वयमधिकम् ।
इदन्तु ऋषिणा शिष्यबुद्धिक्लेशो माभूत् इत्युपेक्षितमिति तद्वृत्तिकारैरेव व्याख्यातम् ।
इयं लम्बता तु तत्रेष्टकाचिति- सम्पादनार्थम् ।
न तु कुण्डाकारतासम्पादनार्थम् ।
नन्विदमेव कल्पकृद्वचनं कुण्डाकारतासम्पादनार्थं प्रमाणस्तु इति चेत् ।
तदा शारदातिलककारादिमत- कादिमत-पञ्चरात्र-कामिक-क्रियासार-सिद्धान्तशेखरआम्नायरहस्यमहाकपिल-
पञ्चरात्रादिषु अन्येष्वपि बहुषु ग्रन्थेषु मुनिप्रणीतेष्वपि विरोधो दृश्यते ।
तत्र किं ग्राह्यमिति संशय एव स्यात् ।
न च वाच्यं कल्पसूत्राणां साक्षादुपलभ्यमानश्रुति- मूलानाम् अनुमितिश्रुतिमूलाभ्यः स्मृतिभ्योऽधिकं प्रामाण्यम् ।
नानाशाखागतलिङ्गादि- कल्पितश्रुत्यर्थेपसंहारोपनिबद्धस्य कल्पस्वरूपत्वात् ।
प्रयोगशास्त्रमिति चेदित्यस्मि- न्नधिकरणे भाष्यकृता कल्पप्रामाण्यस्य व्यवस्थापितत्वात् इति।
वात्तीककारेणा- ऽन्यथाधिकरणरचनायाः कृतत्वात् ।
तथाहि इह कल्पानां प्रामाण्याप्रामाण्यचिन्ता न क्रियते ।
किं तही कल्पसूत्राण्युदाहृत्य इदं चिन्त्यते।
कि तेषां स्वतन्त्राणामेव वेदवत् प्रामाण्यम् उत स्मृतिवत् ।
श्रुतिपरतन्त्राणामिति तत्र श्रुतिपारतन्त्र्येण स्मृतिवदेव प्रामाण्यं स्थापितम् ।
किञ्च विरोधाधिकरणे " औडुम्बरीं स्पृष्टवोद्गायेत् " इति प्रत्यक्षश्रुतिविरोधात् " औडुम्बरी सर्वा वेष्टयितव्या "
इति कल्पकृद्वचनं लोभमूलमिति भाष्यकारैः सिद्धान्तितम् ।
अतः सर्वासां स्मृतीनां विरुद्धत्वात् " श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्मावुभौ स्मृतौ " इति
वचनस्यात्रानवकाशात् अ(स्प)ष्टदोषदुष्टत्वाच्च विकल्पा- भावात् सन्देह एव स्थितः ।
तथा च तत्र विहितस्य कर्मणोऽननुष्ठानमेव स्यात् ।
तस्माद् यत्र समत्रिभुजता तुल्यक्षेत्रफलत्वञ्च भवति तदेव त्रिकोणकुण्डमिति सिद्धान्तः।
सर्वेषु लक्षणवचनेषु कानिचित् क्षेत्रफलव्यभिचारीणि कानिचित् सम- भुजताव्यभिचारीणीति ।
अतस्तानि त्र्यस्राकारतामात्रसम्पादनफलानीति ज्ञेयम् ।
ग्रन्थान्तरे तु—- पञ्चभागीकृते क्षेत्रे द्वौ भागौ बाह्यतस्त्यजेत् ।
न द्वयोः पार्श्वतस्त्यक्त्वा तस्मान्मध्यं विगृह्य च ।
कर्णसूत्रद्वयं दद्यात् त्रिकोणं भवति स्फुटम् ॥ इति ।
अत्र द्विनवत्यङ्गुलानि न्यूनानि भुजत्रयसाम्यम् ।
सिद्धान्तशेखरेऽपि—-चतुरस्रीकृते क्षेत्रे क्षेत्रमष्टांशकं बहिः ।
विन्यसेद् गर्भसूत्राग्रे प्रतीचीसूत्रपार्श्वयोः ।
सूत्राणां त्रितयं न्यस्येत् त्रिकोणं कुण्डमीरितम् ॥ इति।
अत्र च सप्तत्यधिकशताङ्गुलानि न्यूनानि विषमभुजता च ।
तस्यैव षष्ठमंशन्तु पार्श्वयोः प्रविकाशयेत् ।
प्रत्येकं पश्चिमं सूत्रं तम्मानेनाथ सूत्रयोः ॥
विन्यासाद् ब्रह्मसूत्रान्तात् तदग्रावधिलम्बनात् ॥ इति
कादिमते षट्त्रिंशदधिकशताङ्गुलानि न्यूनानि समभुजताऽस्ति ।
षणवति- परिधि रेखाभिप्रायं चेदं लक्षणम् ।
" त्रिभागवृद्धितो मत्स्यैस्त्रिभिर्नैशाचरं भवेत् " इति कामिकेऽपि ।
तत्र चतुर्वर्ग- चिन्तामणिकारैः स्थानत्रये भागत्रयवृद्धिरिति व्याख्यातम् ।
तन्मते चतुःषष्ट्य- ङ्गुलान्यधिकानि ।
अन्यैस्तु अग्रे त्र्यंशवृद्धिः उभयपार्श्वे अर्द्धार्द्धतया एकांशवृद्धि- रिति व्याख्यातम् ।
तन्मते चतुःषष्ट्यङ्गुलानि न्यूनानि ।
उभयमतेऽपि विषम- भुजतैवेत्यलम् ॥ ५७ ॥
अष्टादशांशे क्षेत्रे च न्यसेदेकं बहिर्बुधः ।
भ्रमयेत्तेन मानेन वृत्तं कुण्डमनुत्तमम् ॥ ५८ ॥
चतुरस्रप्रकृतितया वृत्तं कुण्डमाह अष्टादशेति ।
क्षेत्रे पूर्ववच्चतुरस्रमध्यसूत्रे अष्टादशांशेऽष्टादशधा विभक्ते एकमंशं बहिः कस्मिन्नपि सूत्रे वर्द्धयेत् ।
तेन मानेन मध्यात् तन्मानेन वद्धीतमानेन भ्रमयेत् तदा वृत्तं पूर्वाभिमुखं कुण्डम् ।
न विद्यते उत्तमं यस्मादित्यनुत्तमम् ।
अत्र क्षेत्रोपपत्तिः ।
तत्राष्टादशांशः १ अङ्गुलं २ यवौ ५ युकाः ।
तत्र वृत्ते कृते व्यासे एतद्विगुणं २ अङ्गुले ५ यवाः २ यूके एतावद्वर्द्धते तदा २६ अङ्गुलानि
एकाङ्गुलस्य द्वौ तृतीयांशौ ।
अयं व्यासः २६ सवणीतः ।
अथवा ग्रन्थ- कृदुक्तप्रकारेणैव न्यासः ।
तत्र द्वौ अष्टदशांशौ तेन एको नवमांशः तस्य समच्छेदार्थं न्यासः समच्छेदौ योगः
त्रिभिरपवत्तीतः स एवाङ्कः ।
ततो " व्यासस्य वर्ग " इत्यादिप्रकारेण लब्धं क्षेत्रफलं पञ्चशती अष्टाधिकानि पञ्चाशद् अङ्गुलानि ।
तेनाष्टादशाङ्गुलं क्षेत्रं न्यूनं भवति ।
तेन क्षेत्रफलाव्यभिचारी- सर्वानुगतप्रकारस्तूच्यते—-
वृत्तकुण्डे मध्यसूत्रं चतुवींशतिधा भजेत् ।
एकांशपञ्चविंशांशसहितं सार्द्धमंशकम् ।
बहिर्न्यस्य भ्रमान्मध्याद् वृत्तं कुण्डमितीरितम् ॥
अत्र सार्द्धांशमेकमङ्गुलं चत्वारो यवाः एकस्य पञ्चविंशांशाः २ यूके ४ लिख्या अर्द्धसहिताः ।
वृत्ते कृते एतद्विगुणं ३ अङ्गुलानि ० यवाः ५ यूकाः १ लिख्या ।
तेन सर्वस्य व्यासस्य न्यासः २७ अयं सवणीतः " व्यासस्य वर्गे भनवाग्नि " इत्यादिना लब्धं क्षेत्रफलं ५७६ ।
इदं सूक्ष्मगणनया क्षेत्रफलम् ।
शुल्वे तु कात्यायनः—-
चतुरस्रं मण्डलं चिकीर्षन् मध्यादंशे निपात्य पार्श्वतः परिलिख्य तत्र यदतिरिक्तं भवति तस्य
तृतीयेन सह मण्डलं परिलिखेत् समाधिः ।
इति ।
अत्रांशशब्देन कोणः ।
तत्कर्णसूत्रार्द्धं १७ अङ्गुलानि यूकाद्वयोनानि ।
तच्च मध्यसूत्रात् पञ्चाङ्गुलानि यूकाद्वयन्यूनानि ।
अधिकं तस्य तृतीयोंशोऽङ्गुलमेकम् एकाङ्गुलस्य द्वौ तृतीयांशौ तेन १३ अङ्गुलानि एकस्य द्वौ
तृतीयांशौ व्यासार्द्धम् ।
अयं द्विगुणितो व्यासः २७ सवणीतो यथा ।
अस्य क्षेत्रफले दशाङ्गुलानि वर्द्धन्ते ।
यत्तु गणितज्ञाभिमानिनो लक्षणं षोडशधा कृतमध्यमसूत्रक्षेत्रपुरः परिवद्धीतभागे ।
एकैक एव ततोऽन्तरचिह्नान् मण्डलकुण्डमिह भ्रमणात् स्यात् इति ।
अत्र सप्तविंशत्यङ्गुलानि व्यासः ।
तस्य क्षेत्रफलं ५७२ अङ्गुलानि ।
अत्र चत्वार्यङ्गुलानि न्यूनानि भवन्ति इति न तदपि सम्यक् ।
कामिके तु—-
कर्णार्द्धाष्टांशसन्न्यासाद् वृत्तं कुण्डमिहोदितम् ।
इति ।
पुरस्तात् सम्यक् न्यासः सन्न्यासः ।
अत्र साष्टमांशचतुर्दशाङ्गुलानि व्यासार्द्ध- मिति महान् व्यभिचारः ।
ग्रन्थान्तरे तु—-
चतुरस्रं पुरा कृत्वा कुण्डक्षेत्रप्रमाणत् ।
नवभागं पुरा कृत्वा चैकभागं बहिर्न्यसेत् ॥
तस्मान्मध्यं गृहीत्वैवं भ्रमात्तद्वर्त्तुलं भवेत् ॥ इति ।
अत्रैकस्य तृतीयांशसहितानि एकोनत्रिंशदङ्गुलानि व्यासः ।
तेन महत्तर- मन्तरम् ।
केचन एकं भागं बहिर्न्यसेदर्द्धार्द्धतयेति शेषः ।
तदा मूलपद्येन सहैक- वाक्यता भवति इति वदन्ति ।
सिद्धान्तशेखरे तु—-
चतुरस्रे सुसंसिद्धे तद्बाह्ये भागमष्टमम् ।
क्षेत्रस्य विन्यसेद्दिक्षु मध्यात्तन्मानसूत्रतः ।
भ्रमणभ्रामणेनैवं वृत्तं कुण्डमुदीरितम् ॥ इति ।
अत्र त्रिंशदङ्गुलानि व्यासः तेन महत्तममन्तरम ।
अतः सिद्धान्तशेखरवचनं कैश्चिदन्यथा व्याख्यायते ।
क्षेत्रस्याष्टमं भागं बाह्ये दिक्षु विन्यसेदर्द्धार्द्धतयेति शेषः ।
तेनोभयपार्श्वे मिलित्वा अष्टमो भागो भवति ।
तदा व्यासः २७ क्षेत्रफलं चतुरङ्गुलं न्यूनम् ।
सूक्ष्मगणनयेति ज्ञातव्यम् ।
स्थूलगणनायामङ्गीक्रियमाणायां लिखित- कात्यायनवचनेन महदन्तरमेव स्यादित्यलम् ॥ ५८ ॥
अष्टधा विभजेत् क्षेत्रं मध्यसूत्रस्य पार्श्वयोः।
भागं न्यसेदेकमेकं भागेनाऽनेन मध्यतः ॥ ५९ ॥
कुर्यात् पार्श्वद्वये मत्स्यचतुष्कं तन्त्रवित्तमः ।
सूत्रषट्कं ततो दद्यात् षडस्रं कुण्डमुत्तमम् ॥ ६० ॥
चतुरस्रप्रकृतितया षडस्रं कुण्डमाह अष्टधेति ।
क्षेत्रं चतुरस्रमध्यसूत्रम् अष्टधा विभजेत् ।
मध्यसूत्रस्येत्यत्र मध्यसूत्रपदेन दक्षिणोदग्गतसूत्रं गृह्यते ।
पार्श्वयोरिति वचनात् ।
अन्यथा अध ऊर्द्धमित्येव ब्रूयात् ।
तस्य पार्श्वयोर्दक्षिणोत्तराग्रयोः एकमेकं भागं न्यसेद् बहिर्वर्द्धयेत् ।
ततोऽनेन मानेन वद्धीतमानेन वद्धीतचिह्नेन मध्यतो मध्याच्च पार्श्वयुगे
वद्धीतदक्षिणोदग्गतसूत्रमध्यस्य दक्षिणपार्श्वे वामपार्श्वे च पूर्वापरभागयोः मत्स्यचतुष्कं कुर्यात् ।
तन्त्रवित्तम इत्यनेन सम्प्रदायेनैवायमर्थे ज्ञेय इत्युक्तम् ।
तत्र मत्स्योत्पादनप्रकारः ।
क्षेत्रमध्यादुत्तरकृतचिह्नपरिमितसूत्रस्यादिं क्षेत्रमध्ये निधाय पूर्वेशानयोरन्तराले वृत्तार्द्ध कृत्वा
तत उत्तरकृतचिह्ने तत्सूत्रादिं निधाय तदर्द्धवृत्तभेदि वृत्तार्द्धं कुर्यात् ।
एवं पूर्वेशानयोदीशोरन्तराले मत्स्यसिद्धिः ।
एवमेव क्षेत्र- मध्याद्दक्षिणकृतचिह्नाच्च पूर्वाग्नेयदिशोरन्तराले च मत्स्यं कुर्यात् ।
एवमेव क्रमेण पश्चिमवायव्ययोरन्तराले पश्चिमनैरृत्ययोरन्तराले च मत्स्यद्वयं कुर्यात् ।
तत उत्तर- चिह्नात् पूर्वेशानान्तरालमत्स्यं यावत् एकं सेत्रं पश्चिमवायव्यान्तरालमत्स्यं यावद्
द्वितीयं सूत्रं दद्यात् ।
ततो दक्षिणचिह्नात् पूर्वाग्नेयान्तरालमत्स्यं यावत् एकं सूत्रं पश्चिमनैरृत्यान्तरालमत्स्यं यावद्
द्वितीयं सूत्रं दद्यात् ।
एवं सूत्रचतुष्टयदानम् ।
ततः पूर्वमत्स्ययोमीथ एकं तद्वत् पश्चिममत्स्ययोमीथ एकं सूत्रं दद्यात् ।
एवं षट्सूत्रसम्पातेन पूर्वाभिमुखं षडस्रं कुण्डं भवति ।
तदुक्तं क्रियासारे—-
क्षेत्रं वस्वंशकं कृत्वा बहिः पार्श्वद्वयेऽंशकौ ।
न्यस्त्वाऽनेन प्रमाणेन मध्यात्तुल्यं यथा न्यसेत् ॥
कोणान्यन्यानि चत्वारि पार्श्वयोश्च द्वयं द्वयम् ।
षट्सूत्राणि न्यसेत्तेषु तत् स्यात् षट्कोणकुण्डकम् ॥ इति ॥
सिद्धान्तशेखरेऽपि—-चतुरस्रे समे सिद्धे क्षेत्रमष्टांशकं बहिः ।
अग्रयोर्गर्भसूत्रस्य योजयेत्तत्प्रदेशतः ॥
गर्भमध्यप्रमाणेन सूत्रेण भ्रयन्त्रकम् ।
गर्भमध्ये बहिर्भागे विन्यस्य भ्रमणाद्भवेत् ॥
उत्तरे दक्षिणे बाह्ये मत्स्ययोद्धीतयं ततः ।
मीने बाह्यांशके मीने मीनयुग्मे ततः क्रमात् ।
सूत्रषट्कं न्यसेत् तत्तु कुण्डं षट्कोणमीरितम् ॥ इति ।
अत्र गर्भसूत्रस्येति दक्षिणोदग्गतसूत्रस्य उत्तरे दक्षिणे इति वद्धीतदक्षिणोद- ग्गतसूत्रमध्यस्य
उत्तरपार्श्वे दक्षिणपार्श्वे इत्यर्थः ।
अत्र क्षेत्रोपपत्तिः ।
विषमचतुरस्रद्वयं कल्पयेत् ।
तत एकस्य भूः ३० अङ्गुलानि मुखं १५ लम्बः १३ ।
ततः " लम्बेन निघ्नं कुमुखैक्यखण्डम् " इत्यनेन प्रकारेण लब्धं क्षेत्रफलं २९२ यवचतुष्टयाधिकम् ।
एवं द्वितीयचतुरस्रस्यापि २९२ यवचतुष्टयाधिकम् ।
एकत्र मिलितं ५८५ ।
एवं नवाङ्गुलान्यधिकानि भवन्ति ।
षड्भुजसमता भवत्येव ।
अत्र " स्वाबाधाभुजकृत्योरन्तरमूलं प्रजायते लम्बः " इत्यनेन लम्बमानसाधनं ज्ञेयम् ।
यद्वा क्षेत्रत्रयं कल्पयेत् ।
मध्ये आयतचतुरस्रं पार्श्वयोस्त्र्यस्र- द्वयम् ।
तत्रायतचतुरस्रस्य फलं ३९० ।
एकस्य त्र्यस्रस्य फलं ९७ यव- चतुष्टयाधिकम् ।
एवं द्वितीयस्यापि ।
मिलित्वा क्षेत्रफलं ५८५ ।
एवं विषम- चतुरस्रचतुष्टयं परिकल्प्या १४६ यवद्वयम् एतावदेकैकस्य फलमानीय सन्तोष्टव्यम्।
यद्वा त्र्यस्रषट्कं परिकल्प्या एकैकस्य ९७ यवचतुष्टयाधिकं फलमानीय संवाद्यम् ।
एवमन्यप्रकारेणापि फलसंवाद ऊहनीयः ।
अन्ये त्वन्यथा वर्णयन्ति ।
क्षेत्र- चतुरस्रमध्यसूत्रमष्टधा विभजेत् ।
मध्यसूत्रस्य प्राचीसूत्रस्य पार्श्वयोरध ऊर्द्धञ्च एकं भागं न्यसेत् ।
मध्यसूत्रस्य दक्षिणोदग्गतस्य च पार्श्वयोरधः ऊर्द्धमेकं भागं न्यसेत् ।
ततो मध्यतोऽनेने मानेन पार्श्वयुगे मत्स्यचतुष्कं कुर्यात् ।
तत्र मत्स्यकरणप्रकारः ।
पूर्वापरायतसूत्रचिह्नद्वयस्य दक्षिणोत्तरतस्तेन मानेन मत्स्यद्वयं कुर्यात् ।
तत्र चतुरस्रपूर्वपरिधिरेखा दक्षिणोत्तरया प्राचीसूत्रस्य यत्र सम्पातः तत उपर्यधश्च त्र्यङ्गुलेन
तां परिधिरेखामङ्कयित्वा पूर्वतः कृतचिह्नदक्षिणभागे अर्द्धवृत्तं कृत्वा परिधिरेखागतदक्षिणचिह्नात्
तद्व्यक्तिभेदि अर्द्धवृत्तं कुर्यात् ।
एवं दक्षिणभागे मत्स्यसिद्धिः ।
एवमुत्तरभागेऽपि ।
एवमुक्ताप्रकारेण चतुरस्रपश्चिमपरिधिरेखायामपि अङ्कद्वयं कृत्वा पश्चिमदिशि कृतचिह्नस्य
दक्षिणोत्तरभागयोर्मत्स्यद्वयं कुर्यात् ।
ततो वद्धीतदक्षिणचिह्नात् पूर्वदक्षिणभागमत्स्यं यावदेकं सूत्रं पश्चिमदिग्दक्षिणभागमत्स्यं यावद्
द्वितीयं सूत्रं दद्यात् ।
एवं वद्धीतोत्तरचिह्नात् पूर्वदिगुत्तरभागमत्स्यं यावदेकं सूत्रं पश्चिमदिगुत्तरभागमत्स्यं
यावद् द्वितीयं सूत्रम् ।
एवं सूत्रचतुष्टयदानम् ।
ततः पूर्वमत्स्ययोमीथ एकं सूत्रं पश्चिममत्स्ययोमीथ एकं सूत्रम् ।
एवं षट्सूत्रस्य सम्पातात् षडस्रं कुण्डमिति ।
अत्र विषमचतुरस्रद्वयं प्रकल्प्य एकस्य क्षेत्रफलं २७० ।
एवं द्वितीयस्यापि ।
मिलित्वा ५४० ।
तन्मते मध्यसूत्रस्य पार्श्वयोरित्यस्यावृत्तिर्भवति ।
किञ्च क्वचिन्मध्यसूत्रशब्देन प्राचीसूत्रं गृह्यते क्वचिद्दक्षिणोदग्गतसूत्रं तदसम्बद्धम ।
प्रमाणाभावात् ।
मध्यत इति पदं व्यर्थमेव स्यात् ।
मत्स्योत्पादनार्थं चतुरस्रपरिधि- रेखयोर्यदङ्कनं तदपि स्वकपोलकल्पितम् ।
क्षेत्रफलमध्ये षट्त्रिंशदङ्गुलानि न्यूनानि विषमभुजता चेत्यज्ञानविजृम्भितम् ।
यत् त्वस्यैव व्याख्याने प्राचीसूत्रपूर्वापरभागयोः कोणपातमिच्छन्ति तेन मत्स्या एव अथ तत्र
क्षेत्रफलसाम्यापादनाय बहवः प्रकाराः सम्भाव्यन्ते ।
तत्र कश्चित्—-
अष्टधा विभजेत् क्षेत्रं मध्यसूत्रादधोपरि ।
भागं न्यसेदेकमेकं पार्श्वयोस्तु दिगङ्कतः ॥
सम्म्वर्द्ध्य क्षेत्रेष्वष्टांशं तत ऊर्द्धाधरौ तिमी ।
क्षेत्राष्टमांशतः कुर्याद् दिक्सूत्रे तावदङ्कतः ॥
सम्भेद्य क्षेत्रषष्ठांशं गुणेनैवमुदक् तिमी ।
षट्सूत्रीं पातयेत्तेषु षडस्रकुण्डमुत्तमम् ॥ इति ।
अत्र दक्षिणोदग्गतमध्यसूत्रमष्टाङ्गुलं वद्धीतं क्षेत्रफलमन्यूनानतिरिक्तमेव ।
षड भुजसाम्यं नास्ति ।
तथा च—-
अष्टोनद्विशतांशकेऽन्तरगुणे क्षेत्रस्य तिर्यक्स्थिता-
न्तः सूत्रोभयतो भ २७ वर्द्धनभवाङ्कोर्द्धाधरे चिह्नयेत् ।
तत्त्वां २५ शेषु झषैः पुरोऽप्यधरतोऽङ्कद्व्यंश २९ वृद्धौ झष-
द्वन्द्वा द्विद्विगुणैद्वीपार्श्वगुणतस्तिभ्योः षडस्रीरितम् ॥ इति
अत्रापि क्षेत्रफलमन्यूनानतिरिक्तमेव ।
शड्भुजसाम्यञ्च नास्ति ।
अन्यच्च इदं वायव्यकुण्डं तच्च पूर्वाग्रम् ।
अत्र च पूर्वपश्चिमयोरेव कोणपाताद् योनिस्थापनानव- काशात् ।
" न कुर्यात् कुण्डकोणेषु योनिं तां तन्त्रवित्तमः " इति ।
कोणे योनिस्थापनस्य निषेधात् ।
कुण्डस्य पूर्वाग्रता व्याहन्यते ।
एतल्लक्षणयकृता च स्वग्रन्थे कुण्डान्युक्त्वोक्तम्—-प्रागादि कुण्डत्रयमुत्तराग्रं याम्यस्थयोनीतरपञ्चकुण्डी ।
प्रागग्रिका पश्चिमयोनिरत्र ।
इति योनिलक्षणं वदता चोक्तम्—-
मघवशिखिकृतान्तदिक्स्थकुण्डेष्वियमधिमेखलमेव मध्यभागे ।
यमदिशि शशिदिङ्मुखी निवेश्या वरुणदिशीतरकुण्ड एन्द्रवक्त्त्रा ॥ इति ।
तेन स्वग्रन्थे पूर्वापरविरोधोऽपि नोपलक्षित इति यत् किञ्चिदेतत् ।
तथा च ।
प्राचीमध्यसूत्रमङ्गुलत्रयं वर्द्धयेत् ।
ततो वद्धीतचिह्नात् दक्षिणोत्तरतः चतुरङ्गुलमानेन चतुरस्रपूर्वपरिधिरेखाङ्काभ्यां मत्स्यद्वयं कुर्यात् ।
एवं पश्चिमदिश्यपि दक्षिणोदग्गत- सूत्रम् अङ्गुलत्रयम् अङ्गुलस्य षष्ठांशसहितं वर्द्धयेत् ।
एवमपि क्षेत्रफलमन्यूनमेव ।
इतोऽपि बहवः प्रकाराः सम्भाव्यन्ते ।
क्षेत्रफलसाम्यापादनाय नतु षड्भुजसाम्या- पादनाय ।
एवं कुण्डस्याननुगतता प्रसज्यते ।
तेन षडस्रकुण्डे षणामपि भुजानां साम्यं क्षेत्रफलसाम्यम् अवश्यमपेक्षितम् ।
यतोऽत्र क्रियासारे कादिमते कामिके सिद्धान्त- शेखरेऽपि षड्भुजसमताया उक्तत्वात् ।
तत्र सर्वानुगत प्रकारस्तूच्यते—-
षडस्रे मध्यसूत्रन्तु चतुवींशतिधा भजेत् ।
तच्चैकैकनवांशोनत्र्यंशैः सम्वर्द्ध्य मध्यतः ॥
भ्रमयेत् तेन सद्वृत्तं तद्व्यासार्द्धेन लाञ्छयेत् ।
षट्सु स्थानेषु षट्सूत्रपातनात् तत् षडस्रकम् ॥ इति ।
अस्यार्थः ।
त्रयोऽंशा अङ्गुलत्रयम् ।
तत् कीदृक् ।
एकस्य नवमोऽंशः तेनोनम् ।
तेनायं वृत्तव्यासः २९ अङ्गुलानि ६ यवाः २ यूके किञ्चिदूने ।
तस्य सवर्णनार्थं न्यासः २९ सवणीतः व्यासार्द्धं व्यासचतुर्थांशः इयमेवाबाधा ।
ततः " स्वाबाधाभुजकृत्योः " इत्यनेनानीय लम्बः ।
कुमुखैक्यखण्डे लम्बेन गुणिते छेदेन भक्ते लब्धम् एकविषमचतुरस्रस्य क्षेत्रफलं २८८ ।
एवं द्वितीय- स्यापि ।
मिलित्वा क्षेत्रफलं ५७६ ।
अथवा मध्ये आयतचतुरस्रं पार्श्वयोस्त्र्यस्रद्वयं कल्पयेत् ।
तत्र व्यासचतुर्थांशः शरः अयमेवोभयत्र्यंस्रस्य लम्बः ।
ततः
व्यासाच्छरोनाच्छरसङ्गुणाच्च मूलं द्विनिघ्नं भवतीह जीवा ।
इति आनीता ज्या २६ किञ्चिदूना ।
ततो मध्यायतचतुरस्रस्य " तथायते तद्भुजकोटिघातः " इत्यनेन पूर्ववच्च त्र्यस्रद्वयस्यापि फलमानीय
सर्वमेकीकृतं क्षेत्रफलं ५७६ ।
एवं विषमचतुरस्रचतुष्टयं त्र्यस्रषट्कं वा कल्पयित्वा फलसंवाद ऊहनीयः ।
अत्र षणां भुजानामपि साम्यमस्ति ।
तत्तु—-
खखखाभ्ररसैरङ्कै ६०००० र्वृत्तव्यासे समाहते ।
खखखाभ्रार्क १२०००० सम्भक्ते लभ्यन्ते क्रमशो भुजाः ॥
इति भास्कराचार्येक्तपरिपाट्या भुजानयनेन समूह्यम् ।
यत्तु कादिमते
तन्मध्यद्वादशांशेन विकाश्य ब्रह्मसूत्रकम् ।
तेन मानेन च तथा कृत्वा वृत्तमपि स्फुटम् ॥
तद्वृत्ते वृत्तमध्यस्य कुर्यादर्द्धेन चाङ्कनम् ।
तत्र षट्सूत्रपातेन भवेत् कुण्डं षडस्रकम् ॥ इति ।
अत्र क्षेत्रफलमध्ये पञ्चशतषट्सप्तत्यङ्गुलमध्ये द्विसप्तत्यङ्गुलानि न्यूनानि ।
भुजसाम्यमस्त्येव ।
षड्भागवृद्धितो मत्स्यैश्चतुभीः स्यात् षडस्रकम् ।
इति
कामिके तु महान् व्यभिचारः ।
भुजसाम्यमस्त्येव ।
षणवतिपरिधिरेखाभि- प्रायेणेदं लक्षणम् ।
यत्तु ततस्तन्मत्स्यचतुष्टयानुसारेण चतुरस्रसम्बन्धि पूर्वपश्चिम- परिधिरेखायां लाञ्छनचतुष्टयं
विदध्यादिति चतुवर्गचिन्तामणिकारव्याख्यानम् तत्तु क्षेत्रफलानुसारेण कल्पितमिति उपेक्षणीयम् ।
तादृशशब्दाभावात् भुज साम्या- भावाच्च ॥ ५९-६० ॥
चतुरस्रीकृतं क्षेत्रं विभज्याऽष्टादशांशतः ।
एकं भागं बहिर्न्यस्य भ्रामयेत्तेन वर्त्तुलम् ॥ ६१ ॥
वृत्तानि कणीकादीनां बहिस्त्रीणि प्रकल्पयेत् ।
पद्मकुण्डमिदं प्रोक्तं विलोचनमनोहरम् ॥ ६२ ॥
चतुरस्रप्रकृतितया पद्मकुण्डमाह चतुरस्रीकृतमिति ।
इदं वृत्तकुण्डे व्याख्यातम्।
तत्र कणीकादीनां वृत्तानि त्रीणि बहिः प्रकल्पयेदिति ।
तत्र कृतवृत्ताद्बहिस्त्रीणि वृत्तानि क्रियन्ते चेत् तदा—-
यावान् कुण्डस्य विस्तारः खननं तावदीरितम् ।
इति वचनात् न ज्ञायते कियद्धस्तं कुण्डं स्यादिति नैतद्व्याख्यातम् ।
किं तही बहिरिति वीप्सा मध्यादिति शेषः ।
तेन वृत्ते कृते मध्याद्बहिः बहिः कणीकादीनां त्रीणि वृत्तानि कुर्यादित्यर्थः ।
तदुक्तं क्रियासारे—-
कृत्वैवं पूर्ववद्वृत्तं तन्मध्ये वर्त्तुलत्रयम् ।
भ्राम्यैवं पङ्कजाकारं कारयेत् कणीकादिभिः ॥ इति ।
तदा यत् कृतं सर्वबाह्यवृत्तं तदेव दलाग्रवृत्तं स्यात् ।
तदा दलाग्रकरणे यत् क्षेत्रं त्यज्यते तेनात्यन्तं क्षेत्रस्य न्यूनता स्यात् ।
पूर्वं वृत्तकुण्डे अष्टादशाङ्गुलन्यूनता दशीता ।
अत्र ततोऽपि न्यूनता स्यात् ।
तेनैवं कैश्चिद् व्याख्यायते ।
इदं ग्रन्थकृता यद्वृत्तमुक्तं तत्तु क्षेत्रसङ्ग्रहमात्रं कृतं क्षेत्रसीमावृत्तमित्यर्थः ।
वक्ष्यमाणपद्मकरणे—-
पद्मक्षेत्रस्य सन्त्यज्य द्वादशांश बहिः सुधीः ।
तन्मध्यं विभजेद् वृत्तैस्त्रिभिः समविभागतः ॥
इत्युक्तत्वात् ।
अत्र व्यासद्वादशांशः अङ्गुलद्वयं सपादं तत्र यत् सीमावृत्तं तस्याध एकाङ्गुलम् एको यवस्तत्र वृत्तं कुर्यात् ।
तदुपर्यपि तेनैव मानेन वृत्तं कुर्यात् ।
तेन मध्ये सीमावृत्तं जातम् ।
तत्रान्तर्वृत्तस्य चतुवींशत्यङ्गुलानि यवत्रयं च व्यासः ।
तत्र समविभागतस्त्रीणि वृत्तानि कुर्यात् ।
ततो वद्धीतद्वादशांशेन दलाग्राणि कुर्यात् ।
तत्र बहिर्वृत्तस्य अष्टाविंशत्यङ्गुलानि सप्तयवा व्यासः ।
तत्रोभयवृत्तक्षेत्रफलमेकी- कृत्यार्द्धमस्य क्षेत्रफलम् ।
अत्रापि व्यभिचारः ।
यतोऽधोवृत्तस्य क्षेत्रफलं ४६७ सर्वेपरिवृत्तस्य क्षेत्रफलं ६५९ एकीकृतं ११२६ एतदर्द्धं ५६३ तेन
त्रयोदशाङ्गुलानि न्यूनानि भवन्ति ।
वस्तुतस्तु पद्मक्षेत्रस्योत्पादको यः पद्मकरण- प्रकारः स सर्वतोभद्रमण्डलादावेव ज्ञेयः ।
नवकुण्डकरणे तत्र क्षेत्रस्याधिक्यं स्यात् ।
यत्तु ग्रन्थकारेण " वृत्तानि कणीकादीनां बहिस्त्रीणि " इति क्रियासारेऽपि " वर्त्तुलत्रयम् " इति तत्तु
पत्रोर्द्धभूवृत्ताभिप्रायेणैवेति ध्येयम् ।
पत्राग्रे वृत्तमधिकं कुर्यात् इति सूचयितुं तेनापि क्षेत्रफलमधिकं किञ्चित् ।
तेन पद्मकुण्डकरणे पञ्चवृत्तान्येवेति ज्ञेयम् ।
तेनात्र तद्वदर्द्धनिशाकरकरणमपि नास्ति ।
अत्र क्षेत्रफलाव्यभिचारी सर्वानुगतप्रकारस्तूच्यते ।
पद्मकुण्डे मध्यसूत्रं चतुवींशतिधा भजेत् ।
भ्रमयेत् कणीकावृत्तं त्यंशवृत्तार्द्धमानतः ॥
षडंशवृत्तार्द्धमानभ्रमिवृत्ते तु केशराः ।
नवांशवृत्तार्द्धमाने वृत्ते स्यात् पत्रमध्यभूः ॥
द्वादशांशात्तु वृत्तार्द्धात्तं पत्रोर्द्धभूः स्मृता ।
दलाग्राणान्तु वृत्तार्द्धं कृत्वा पञ्चदशांशकैः ॥
न्यूनैः पञ्चभिरेकांशश्चतुषष्ट्यंशकैर्भ्रमात् ।
रेखाग्रेभ्यः पत्रसीम्नो दलाग्राणि प्रकल्पयेत् ॥
अत्र मध्ये षडङ्गुलव्यासा कणीका ।
" यावान् कुण्डस्य विस्तारः खननं तावदीरितम् " इति वक्ष्यमाणत्वात् ।
तेन कणीकाखननमपि प्राप्तम् ।
तत्र कणीका किञ्चिदुच्चा रक्षणीया ।
तदुच्चता यद्यप्यत्र नोक्ता तथापि नाभिकथने एकहस्तस्य नाभिं नेत्रवेदाङ्गुलोपेताम् इति वक्ष्यति ।
तेन सा चतुरङ्गुलव्यासा द्व्यङ्गुल उत्सेधः तदा षडङ्गुलव्यासायाः कियानुत्सेध इति त्रैराशिकेनोच्चता आनेया ।
तत्र त्रैराशिकसूत्रम्—-
प्रमाणमिच्छा च समानजाती आद्यन्तयो स्तः फलमन्यजाति ।
मध्ये तदिच्छाहतमाद्यहृत् स्यादिच्छाफलं व्यस्तविधिवीलोमे ॥ इति ।
तत्र त्रैराशकस्य न्यासः ४ ।
२।
६ ततोऽन्त्येन ६ मध्यस्थं २ गुणितं १२ ।
आदिना ४ भक्तं लब्धोच्चता ३ ।
तदुक्तं कामिके—-
उत्सेधन्तु ततः कुर्यात् कणीकार्द्धांशमानतः ।
इति
अतो ग्रन्थकृदग्रे योनिकुण्डे योनिम् अब्जकुण्डे नाभिञ्च वर्जयेत् इति वक्ष्यति ।
सिद्धान्तशेखरेऽपि—-योनौ योनिं न कुर्वीत पद्मे पद्मं न कारयेत् ।
इति ।
क्रियासारेऽपि—- योन्यामम्बुजकुण्डयोः ।
क्रमेण योनिं नाभिञ्च न कुर्वीत चतुर्मुख ॥ इति ।
तस्मात् त्र्यङ्गुलं कणीकोच्चतां संस्थाप्याऽन्यत् खननीयम् ।
केशरस्थानमपि खनित्वा अधोभागे केशराणि स्थापयेत् ।
दलाग्राकारतया दलमध्यः सर्वेऽपि खननीयः ।
तत्र चतुवींशतिव्यासवृत्ताद्बहिर्यद्वृत्तं
तस्यार्द्धमेव यथा गृह्यते तथा कुशलतया बाह्यस्तेन दलाग्राणि रचयेत् ।
यस्त हस्तत एव पत्राणां वक्रता सा च पत्रसीमारेखा ।
पत्रोर्द्धभूवृत्तसम्पातात् पत्रमध्ये रेखां यावदुभयतो रेखादानात् ।
इदं पद्मकुण्डम् ।
अत्र क्षेत्रोपपत्तिः ।
चतुवींशतिव्यासवृत्ते पूर्ववत् फलं ४५२ अङ्गुलानि ३ यवाः ४ यूकाः ।
बहिर्वृत्तस्य एकाङ्गुलस्य दशभिश्चतुःषष्ट्यंशैरूनत्रिंशदङ्गुल व्यासस्य क्षेत्रफलं ६९९
अङ्गुलानि ४ यवाः ४ यूकाः ।
मिलितं ११५२ ।
एतदर्द्धं क्षेत्रफलं ५७६ ।
इदमतिसूक्ष्मं फलम् ।
तदुक्तं कामिके—-
चतुरस्त्राष्टभागेन कणीका स्याद्विभागशः ।
तद्बहिस्त्वेकभागेन केशराणि प्रकल्पयेत् ॥
तृतीये दलमध्यानि चतुर्थे दलकोटयः ।
चतुरस्राद्बहिः कुर्याद्दलाग्राण्यपि यत्नतः ॥ इति ।
अत्र क्षेत्रफलं चतुरङ्गुलमधिकम् ।
यत्तु अतिगणितज्ञाभिमानिनो लक्षणे—-
क्षेत्रेऽन्तश्चतुरस्रके विततिवस्वंशेन वृत्तं कृतं
व्यासार्द्धेन तु कणीका पुनरियद्वृद्ध्या भ्रमात् केशराः ।
तद्वृद्ध्या दलमध्यभूः पुनरियद्वृद्ध्या भ्रमेणोर्द्धभूः
क्षेत्रव्यासजिनांशकस्य विशिखैरूनं कलांशैः पुनः ॥
तत् सम्बर्द्ध्य दलाग्रकाणि रचयेत् क्षेत्रार्द्धमुज्झन् विना
स्यात् त्रिंशल्लवविस्तृतीयमियता द्विघ्नेन वृत्तं बहिः ।
स्वव्यासार्द्धमितोच्चतामिह खनेत् त्यक्त्वान्तरा कणीकां
कुर्वन् केशरचिह्नमष्टदलकं यद्वा चतुभीर्दलैः ॥ इति ।
अत्र क्षेत्रफले एकादशाङ्गुलानि न्यूनानि भवन्ति ।
तथा—- भांशन्तु वृत्तव्यासस्य स्वाष्टांशेनाधिकं बहिः ।
सम्बर्द्ध्य मध्याद्विलिखेद् बाह्यवृत्तं द्वितीयकम् ॥
तृतीयं तावतैवान्यत् सीमावृत्तान्तरा लिखेत् ।
अष्टसूत्य्रा षोडशधा तत्क्षेत्रं विभजेत्ततः ॥
पत्रमध्यस्थसूत्रान्ताद् यथा बाह्यकरस्तथा ।
तत्पार्श्वसूत्रान्तरस्थवृत्तं सम्पाततो लिखेत् ॥
वत्तार्द्धे द्वे दलाग्रार्थमन्तर्वीथ्यां हि यावती ।
त्यक्त्वा भूः स्याद्बहिर्वीथ्यां तावती गृह्यते यथा ॥
क्षेत्रत्र्यंशेन मध्ये स्यात् कणीका स्वदलोन्नता ।
पत्राग्राणि तदाकारात् खनेदखिलमन्तरम् ॥
एवमष्टदलाब्जाभं जायते कुण्डमुत्तमम् ॥ इति ॥
अत्र महान् व्यभिचारः ।
कामिकेऽपि चतुर्दलताप्युक्ता ।
अवशिष्टदलं वेददलमष्टदलन्तु वा ।
इति ।
अन्यत्रापि—- दशांशे च विन्यस्य बाह्येऽंशमेकं परिभ्राम्य तेनैव वृत्तं दलानाम् ।
बहिर्मध्यमे कणीकां वापि कुर्यात् भवेदष्टपत्रं बुधः पद्मकुण्डम् ॥ इति ।
अत्राल्पमन्तरम् ।
सिद्धान्तशेखरे—-
चतुरस्रेऽष्टधा भक्ते कुर्याद्वृत्तचतुष्टयम् ।
कणीकाकेशरे वृत्ते तृतीये पत्रसञ्चयः ॥
दलाग्राणि चतुर्थे स्युर्वृत्तान्येवं प्रकल्पयेत् ।
कोष्ठयुग्मस्य मध्येऽपि भ्रमयन्त्रं निधाय च ॥
भ्रमणात् सन्धिमारभ्य पत्राग्रं बाह्यतो भवेत् ।
चतुदीक्षु चतुष्पत्रं पद्माभं कुण्डमीरितम् ॥
अथवाऽष्टदलं पद्मं कुर्याच्छास्त्रोक्तमार्गतः ॥ इति ।
अत्र तु अत्यन्तं न्यूनं क्षेत्रफलम् ॥ ६१-६२ ॥
पूर्वेक्तं विभजेत् क्षेत्रं चतुवींशतिभागतः ।
एकं भागं बहिर्न्यस्य चतुरस्रं प्रकल्पयेत् ॥ ६३ ॥
अन्तस्थ चतुरस्रस्य कोणार्द्धार्द्धप्रमाणतः ।
बाह्यस्य चतुरस्रस्य कोणाभ्यां परिलाञ्छयेत् ॥ ६४ ॥
दिशं प्रति यथान्यायमष्टसूत्राणि पातयेत् ।
अष्टास्रं कुण्डमेतद्धि तन्त्रविद्भरुदाहृतम् ॥ ६५ ॥
चतुरस्रप्रकृतितया अष्टास्रं कुण्डमाह पूर्वेक्तमिति ।
पूर्वेक्तं क्षेत्रं पूर्वेक्त चतुरस्रमध्यसूत्रं चतुवींशतिभागतो विभजेत् ।
एकं भागं चतुदीक्षु बहिर्न्यस्य ष- विंशत्यङ्गुलायामविस्तारं चतुरस्रान्तरं बहिः कुर्यादित्यर्थः ।
अत्र कोणशब्देन कोणसूत्रम् ।
अन्तःस्थचतुरस्रस्य यत् कोणसूत्रं यूकाचतुष्टयोनचतुस्त्रिंशदङ्गुलानि ।
तदर्द्धं यूकाद्वयोनसप्तदशाङ्गुलानि ।
तदर्द्धं यूकोनसार्द्धाष्टाङ्गुलानि ।
तत्प्रमाणतः बाह्यस्य चतुरस्रस्य कोणाभ्यां सकाशात् परिलाञ्छयेत् ।
बाह्यचतुरस्रपरिधिरेखास्थ- मित्यर्थः ।
कोणाभ्यामितीशाग्नेयाभ्याम् ।
एवमाग्नेयनैरृताभ्यामित्यादि ।
ततो दिशं प्रति अष्टसूत्रसम्पातादष्टास्रं कुण्डम् ।
तत्र सूत्रपातनप्रकारः ।
कोणपार्श्वयोर्ये लाञ्छने तयोमीथ एकम् एवं दिक्षु सूत्रचतुष्टयम् ।
बाह्यचतुरस्ररेखास्तु लाञ्छनद्वयमध्यसूत्राण्येव ।
चतुदीक् सूत्राणि एवमष्टसूत्राणि ।
तत्राष्टसूत्राणां सम्भवात् अष्टसूत्राणि पातयेदित्युक्तिः ।
इदमेव यथान्यायमित्यनेनोक्तम् ।
अत्र क्षेत्रोपपत्तिः ।
तत्र त्रीणि क्षेत्राणि मध्ये आयतचतुरस्रं पार्श्वयोवीषम- चतुरस्रे ।
तत्रायतस्यैको भुजः ९ सवणीतः ।
द्वितीयो भुजः २६ ।
" तथाऽऽयते तद्भुजकोटिघातः " इति ।
अनेन लब्धं क्षेत्रफल २३४ अङ्गुलानि ३ यवाः २ यूके ।
ततो विषमचतुरस्रद्वयस्य भूः २६ मुखं सवणीतं तयोर्लम्बः ८ सवणीतः ।
" लम्बेन निघ्नं कुमुखैक्यखण्डम् " इति लब्धं क्षेत्रफलम् १४८ अङ्गुलानि ५ यवाः ३ यूकाः ।
एवं द्वितीयस्यापि ।
सर्वं मिलितं ५३१ अङ्गुलानि ६ यवाः ।
तेन यवद्वयाधिकचतुश्चत्वारिंशदङ्गुलानि न्यूनानि ।
अष्टभुजसमता च नास्ति ।
अन्यूनानतिरिक्तक्षेत्रफलानयनेनैव कुण्डसिद्धिरिति चेत् तदा अष्टास्राणि अनेकानि कुण्डानि स्युः ।
तथाहि षड्विंशति विस्तारायामे बाह्यचतुरस्रे अर्द्धयवसहितसप्ताङ्गुलैः कोणपार्श्वयोः लाञ्छिते सति
मध्यायतचतुरस्रस्यैको भुजः २६ अपरो भुजः ११ अङ्गुलानि ७ यवाः ।
अस्य क्षेत्रफलं ३०८ अङ्गुलानि ४ यवाः ।
विषमचतुरस्रद्वयस्य भूः २६ मुखं ११ अङ्गुलानि ७ यवाः ।
लम्बः अर्द्धयवसहितसप्ताङ्गुलानि ।
अस्य क्षेत्रफलं १३३ अङ्गुलानि ६ यवाः ।
एवमन्यस्यापि ।
सर्वं मिलित्वा क्षेत्रफलं ५७६ ।
तथा सप्तविंशतिविस्तारायामे बाह्यचतुरस्रे षयवाष्टाङ्गुलैः कोणपार्श्वतोऽङ्किते आयतचतुरस्रस्य भुजः २७
अपरः सार्द्धनवाङ्गुलानि तस्य क्षेत्रफलं २५६ ।
विषम चतुरस्रद्वयस्य भूः २७ भुखं सार्द्धनवाङ्गुलानि लम्बोऽष्टाङ्गुलानि षयवाः ।
एकस्य क्षेलफलं १६० ।
एतावदन्यस्यापि ।
मिलित्वा क्षेत्रफलं ५७६ ।
एवमष्टाविंशत्यायामविस्तारे बाह्य- चतुरस्रे सार्द्धयवसहित दशाङ्गुलैः कोणपार्श्वतो लाञ्छिते
मध्यायतचतुरस्रस्यैको भुजः २८ अपरः सप्ताङ्गुलानि पञ्चयवाः तत् फलं २१३ विषमचतुरस्रद्वयस्य भूः
२८ मुखं सप्ताङ्गुलानि पञ्चयवाः ।
लम्बो दशाङ्गुलानि सार्द्धे यवः ।
अस्य फलं १८१ अङ्गुलानि ४ यवाः ।
एतावदन्यस्यापि ।
मिलित्वा क्षेत्रफलं ५७६ ।
एतादृशाः सहस्रशः प्रकाराः सम्भाव्यन्ते ।
नहि तावन्त्यपि सर्वाण्यष्टास्रकुण्डानि ।
यतः कुण्डस्याननुगतता प्रसज्यते ।
तेन यत्र तुल्याष्टभुजत्वं तुल्यक्षेत्रफलत्वञ्च तदेवाष्टास्रं कुण्डमिति सम्प्रदायविदः ।
तस्य सर्वानुगत प्रकार स्तूच्यते ।
कुण्डेऽष्टास्रे मध्यसूत्रं चतुवींशतिधा भजेत् ।
एकसार्द्धाष्टमांशाढ्यमंशमेकं बहिर्न्यसेत् ॥
चतुदीक्ष्वथ तन्मानाच्चतुरस्रान्तरं भवेत् ।
षट्चत्वारिंशदेकांश चतुः षष्ट्यंशसंयुतैः ॥
सप्तांशैर्लाञ्छयेद्बाह्यचतुरस्रास्त्रिपार्श्वतः ।
दिक्ष्वष्टसूत्रसम्पाता दष्टास्रं समबाहुकम् ॥
अत्र षडविंशत्यङ्गुलानि यवत्रयम् एतद्विस्तारायामं बाह्यचतुरस्रम् तत्तु सप्ताङ्गुलानि
पञ्चयवाः षड्यूकाः।
एतमानेन कोणपार्श्वयोर्लाञ्छितम्।
तेनात्र मध्यायतचतुरस्रस्यैको भुजः २६ सवणीतः ।
अपरो भुजः २३ सवणीतः पूर्ववल्लब्धं क्षेत्रफलं २८८ ।
तत ऊर्द्धाधो विषमचतुरस्रद्वयस्य सवणीता भूः ।
सवणीतं मुखम् ।
लम्बः ७ सवणीतः अत्रैकस्य फलं १४४ ।
एतावदपरस्यापि ।
मिलित्वा क्षेत्रफलं ५७६ ।
एवमत्राष्टानां भुजानां साम्यप्तपीति ।
इदमेवाष्टास्रं कुण्डमिति मन्तव्यम् ।
चतुर्णां भुजानां साम्यं प्रत्यक्षतः सिद्धम् ।
अन्येषान्तु चतुर्णां " तत्कृत्योर्येगपदं कर्ण " इत्यनेन प्रकारेणानेयम् ।
तच्छब्देन कोटिभुजौ बहिश्चतुरस्रगौ तत्कर्णेपरिस्थितौ तावत्रैतौ ।
अथवा सुगम प्रकारान्तरमुच्यते ।
कुण्डेऽष्टास्रे मध्यसूत्रं चतुवींशतिधा भजेत् ।
एकत्रिदशमांशाट्यं ह्यंशवृद्ध्या तु वर्त्तुलम् ।
तन्मध्ये दिक्ष्वष्टसूत्रदानादष्टास्रकं समम् ॥
अत्रापि अष्टानामपि भुजानां समता ।
सा तु—-
द्विद्विनन्देषुवेदैश्च ४५९२२ वृत्तव्यासे समाहते ।
खखखाभ्रार्क १२०००० सम्भक्ते लभ्यन्ते क्रमशो भुजाः ॥
इति भास्कराचार्येक्तप्रकारेणानेया ।
ये तु गणितज्ञस्य लक्षणे—-
चतुरस्रे मध्यसूत्रंषष्ठांशेन विवर्द्धयेत् ।
स्वजिनांशाधिकेनाऽथ तावन्मानं बहिर्गतम् ॥
चतुरस्रान्तरं कृत्वा कोणार्द्धार्द्धेषु लाञ्छयेत् ।
स्थानाष्टके ततः सूत्रान्येकैकं स्यात्तु चिह्नतः ॥
नयेत्तार्त्तीयतार्त्तीयं चिह्नं प्रत्यष्ट बुद्धिमान् ।
तत्सम्पातान्तरं मृष्ट्वा चतुरस्रे तथा उभे ॥
अष्टास्रं दर्शयेत् कुण्डं तुल्यक्षेत्रफलं समम् ।
इति ।
तथा—- क्षेत्रव्यासजिनांशकेषु चतुरः संवर्द्ध्य साकं तथा
षट्त्रिंशेन लवेन चैकलवकस्यैतद्वितत्या वहेत् ।
वेदास्त्रित्यदुदारदिग्गुणयुतं दिक्कोणमध्ये कृता-
ष्टाङ्केष्वष्ठगुणैस्तृतीयमिलितैरष्टास्त्रिकुण्डं भवेत् ॥ इति ।
एते अपि न साम्प्रदायिके ।
यतः क्षेत्रफलं यथाकथञ्चित् संवदन्ति ।
एकलाञ्छनत स्तृतीयलाञ्छनपर्यन्तं सूत्रपातः क्वचिदप्यनुक्त इति स्वकपोलकल्पित- मेतत् ।
किञ्च एवम्भूते अष्टास्रकुण्डे सति योनिस्थापनस्थानमेव नास्ति ।
सर्वत्र कोणरूपत्वात् कुण्डस्य ।
ग्रन्थकृदेव वक्ष्यति—-
नार्पयेत् कुण्डकोणेषु योनिं तां मन्त्रवित्तमः ।
इति ।
कामिके तु—- क्षेत्राद् द्वादशकं भागं चतुदीक्षु तदन्तरे ।
विन्यस्य तत्प्र्रमाणेन तुर्यांशमपरे नयेत् ।
तस्य कर्णप्रमाणेन तद्भुजास्वपि लाञ्छयेत् ॥
तत्राष्ठसूत्रसम्पातादष्टास्रं कुण्डमुच्यते ।
इति ।
अत्र महान् व्यभिचारः ।
अत्र चतुर्वर्गचिन्तामणिकारः कर्णशब्दस्य कर्णार्द्ध- मर्थमुक्ता कोणयोरानुकूल्यप्रातिकूल्येनाष्टौ
लाञ्छनानीति व्याख्याति स्म ।
तदयुक्तम् ।
तत्प्रतिपादकवचनाभावात् अतिविषमभुजत्वात् क्षेत्रफलव्यभिचाराच्च ।
अत्र सर्वत्र क्षेत्रोत्पत्तिवासनाः ग्रन्थगौरवभयान्न प्रपञ्चिताः ।
तास्तु मत्कृतायां लीलावतीगणित- टीकायां सुबोधिन्यां द्रष्टव्याः ।
नोपयोग इह मत्कृते श्रमे केवलागमविदान्तु यद्यपि ।
आगमं गणितमप्यवैति यस्तुष्यतु प्रियगुणः स कश्चन ॥
अयमुत्तमो नवकुण्डिकागणितपक्षः ।
एतत्कुण्डकरणाशक्तः सर्वाणि कुण्डानि चतुरस्राणि वृत्तानि वा कुर्यात् ।
तदुक्तमाम्नायरहस्ये—-
कुण्डानि चतुरस्राणि वृत्तनामाकृतानि च ।
इति ।
सोमशम्भुनापि—- शस्तानि तानि वृत्तानि चतुरस्राणि वा सदा ।
इति ।
अन्यत्रापि—- वेदास्त्राण्येव तानि स्युर्वृर्त्तुलान्यथवा क्वचित् ।
इति।
मध्यमस्तु पञ्चकुण्डीपक्षः ।
तदुक्तमाम्नायरहस्ये—-
नव पञ्चाथवैकं वा कर्त्तव्यं लक्षणान्वितम् ।
इति ।
सोमशम्भुनाऽपि—- वेदीपादान्तरं त्यक्त्वा कुण्डानि नव पञ्च वा ।
इति ।
सिद्धान्तशेखरेऽपि—-त्यक्त्वा वेदिचतुर्भागं कुण्डानि नव पञ्च वा ।
इति ।
तन्निवेशनमप्याम्नायरहस्य एवोक्तम्—-
विधाने पञ्चकुण्डानामीशाने पञ्चमं भवेत् ।
इति ।
ज्ञानरत्नावल्यामपि—-दिक्षु वेदास्त्रवृत्तानि पञ्चमन्त्वीशगोचरम् ।
इति ।
अत्र वृत्तशब्देन वृत्तार्द्धचन्द्रपद्मानि गृह्यन्ते ।
उक्तचतुरस्रवृत्तविकल्पाभिप्रायेण वा ।
सोमशम्भुरपि—- कुर्यात् कुण्डं क्रमादीशे पञ्चमम् ।
इति ।
नारदीयेऽपि—- यत्रोपदिश्यते कुण्डचतुष्कं तत्र कर्मणि ।
वेदास्त्रमर्द्धचन्द्रञ्च वृत्तं पद्मनिभं तथा ॥
कुर्यात् कुण्डानि चत्वारि प्राच्यादिषु विचक्षणः ।
पञ्चमं कारयेत् कुण्डमीशदिग्गोचरं द्विज ॥ इति ।
यत्तु—- पञ्चकुण्डी चेन्निवेश्या दिक्ष्वन्तश्चेशपूर्वयोः ।
इति कस्य चिद्वचनं तदसम्बद्धम् ।
लिखितग्रन्थविरोधात् ।
एककुण्डपक्षः कनीयान् ।
तन्निवेशनमुक्तमाचार्यैः—-
अथवा दिशि कुण्डमुत्तरस्यां प्रविदध्याच्चतुरस्रमेकमेव ।
इति ।
क्वचित् प्रतीच्यामपि तन्निवेशनमुक्तम् ।
भुक्तौ मुक्तौ तथा पुष्टौ जीर्णेद्धारे विशेषतः ।
दीक्षाहोमे तथा शान्तौ वृत्तं वरुणदिग्गतम् ॥ इति ।
सोमशम्भुरपि—- एकं वा शिवकाष्ठायां प्रतीच्यां कारयेद्बुधः ।
इति ।
तत्रैककुण्डपक्षे चतुरस्रं वृत्तं वा तत् कार्यम् ।
तदुक्तं क्रियासारे—-
चतुरस्रं भवेत् कुण्डं वृत्तं कुण्डमथापि वा ।
स्थिरार्च्चने चरार्च्चायां नित्ये हवनकर्मणि ॥ इति ।
पिङ्गलामतेऽपि—- कुण्डमेककरं वृत्तं मेखलाकण्ठनाभिमत् ।
नित्यकर्मणि दीक्षायां शान्तौ पुष्टौ समं शुभम् ॥ इति ।
एवं हस्तमात्रं कुण्डमुक्तम् ।
यदुक्तं सिद्धान्तशेखरे—-
हस्तमात्राणि सर्वाणि दीक्षासु स्थापनादिषु ।
नित्यहोमे च साहस्त्रे कुर्यात् कुण्डानि सर्वदा ॥ इति ।
द्विहस्तादिप्रकारस्तूच्यते ।
एकहस्तक्षेत्रफलं द्विगुणं द्विहस्तस्य, त्रिगुणं त्रिहस्तस्य, चतुर्गुणं चतुर्हस्तस्येति
दशहस्तान्तं ज्ञेयम् ।
तत्र तन्मूलञ्च तत्तदायाम- सूत्रञ्च तस्यैव नामान्तराणि करणीमध्यसूत्रादीनि ।
तत्र भास्कराचार्यप्रोक्त- सूत्रानुसारेण मूलानयनं ज्ञेयम् ।
तद्यथा—-
त्यक्त्वान्त्याद्विषमात् कृतिं द्विगुणयेन्मूलं समे तद्धृते
त्यक्त्वा लब्धकृतिं तदाद्यविषमाल्लब्धं द्विनिघ्नं न्यसेत् ।
पङ्क्त्यां पङ्क्तिहृते समेऽन्त्यविषमात् त्यक्त्वाप्तवर्गं फलं
पङ्क्त्यां तद्द्विगुणं न्यसेदिति मुहुः पङ्क्तेर्दलं स्यात् पदम् ॥ इति ।
अस्यार्थे ग्रन्थगौरवभयान्नोक्तः ।
स तु मत्कृतायां लीलावतीटीकायां सुबोधिन्यां सोदाहरणो द्रष्टव्यः ।
अथवा एकहस्तस्य यत् कोणसूत्रं तदेव द्विहस्त- कुण्डायामसूत्रम् ।
एवं द्विहस्तकोणसूत्रं चतुर्हस्तकुण्डस्यायामसूत्रं त्रिहस्तकुण्डकर्ण- सूत्रं षठस्तस्य ।
चतुर्हस्तकर्णसूत्रम् अष्टहस्तस्य ।
पञ्चहस्तकर्णसूत्रं दशहस्तस्येति ज्ञेयम् ।
अथ गणितापटून् प्रति दशहस्तान्तं करण्यो लिख्यन्ते ।
एकसप्तदशांशोनचतुस्त्रिंशद् द्विहस्तके ।
एतेन ३३ अङ्गुलानि ७ यवाः ४ युकाः २ लिख्ये इयती द्विहस्तकरणी ।
एकाष्टाविंशतिशतात् त्रिसप्तत्याऽथ संयुताः ।
एकचत्वारिंशदङ्गुलयस्तु स्युस्त्रिहस्तके ॥
एतेन ४१ अङ्गुलानि ४ यवाः ४ यूकाः ४ लिख्याः इयती त्रिहस्तकरणी ।
अष्टचत्वारिंशता स्याच्चतुर्हस्ते करण्यथ ।
तृतीयांशन्यूनचतुः पञ्चाशत् पञ्चहस्तके ॥
एतेन ५३ अङ्गुलानि ५ यवाः २ यके ४ लिख्याः इयती पञ्चहस्तकरणी ।
चतुरेकोनविंशोना ऊनषष्टिस्तदुत्तरे ।
एतेन ५८ अङ्गुलानि ६ यवाः ३ यूकाः ४ लिख्याः इयती षड्ढस्तकरणी ।
सप्तहस्ते ह्यर्द्धयुता त्रिषष्टिः करणी मता ।
अष्टहस्ते ह्यष्टषष्टिर्युग्मसप्तदशोनिता ॥
एतेन ६७ अङ्गुलानि ७ यवाः ७ यूकाः ४ लिख्याः इयती अष्टहस्तकरणी ।
द्वासप्तत्यङ्गुला कार्या करणी नवहस्तके ।
द्वाभ्यामेकोनविंशाभ्यामूना षट्सप्ततिदीशि ॥
एतेन ७५ अङ्गुलानि ७ यवाः १ यूका २ लिख्ये इयती दशहस्तकरणी ।
कृत्वेष्टचतुरस्रन्तु स्याद्योन्याद्युक्तमार्गतः ।
एवं दशान्तं कुण्डानां करण्युक्ता मया स्फुटा ॥ ६३-६५ ॥
यावान् कुण्डस्य विस्तारः खननं तावदीरितम् ॥ ६६ ॥
अथ कुण्डे खातमाह यावानिति ।
कुण्डस्य यावान् विस्तारो मध्यसूत्रं तावत्प्रमाणः खातः कार्य इत्यर्थः ।
हस्तमात्राणि सर्वाणि कुण्डान्युक्त्वा
कादिमते—- प्रोक्तानां सर्वकुण्डानामरत्निः खतमानकम् ।
इति ।
अरत्निहस्तयोः पर्यायता तेनैवोक्ता यथा तथा पूर्वमेव दशीतम् ।
अन्यत्रापि—-यावन्मानं कुण्डविस्तार उक्तस्तावत् खातस्यापि मानं प्रदिष्टम् ।
इति ।
आचार्याश्च—- विंशद्भिश्चतुरधिकाभिरङ्गुलीभिः
सूत्रेणाप्यथ परिसूत्र्य भूमिभागम् ।
ताभिश्च प्रखनतु तावतीभिः ।
इति ।
वायवीयसंहितायामपि—-कुण्डं विस्तारवन्निम्नम् ।
इति ।
दिव्यसारस्वतेऽपि—-चतुरस्रं चतुःकोष्ठं सूत्रैः कृत्वा यथा पुरा ।
हस्तमानेन तन्मध्ये तावन्निम्नायतं खनेत् ॥ इति ।
गणेश्वरविमशीन्यामपि—-चतुवींशाङ्गुलायामं तावत् खातसमन्वितम् ।
इति ।
अन्ये तु मेखलाय सह खातमाहुः ।
तदुक्तं मोहशूरोत्तरे—-
हस्तमात्रं खनेत्तिर्यगूर्द्धं मेखलया सह ।
इति ।
प्रतिष्ठासारसङ्ग्रहेऽपि—-पञ्चत्रिमेखलोच्छ्रायं ज्ञात्वा शेषमधः खनेत् ॥ इति ।
विश्वकर्माप्याह—- व्यासात् खातः करः प्रोक्तो निम्नं तिथ्यङ्गुलेन तु ।
उन्नता वा नवाडृगुलैः ।
इति ।
स एव वक्ष्यति ।
प्रथमेऽपि—-कुण्डं जिनाङ्गुलैस्तिर्यगूर्द्धं मेखलया सह ।
इति ।
सिद्धान्तशेखरेऽपि—-खातं कुण्डप्रमाणं स्यादूर्द्धं मेखलया सह ।
इति ।
एतत्पक्षद्वयमध्ये प्रथमपक्ष एव युक्तियुक्तो भाति ।
यतः—-
कुण्डस्वरूपं जानीयत् परमं प्रकृतेर्वपुः ।
इत्यादिना
मेखलानामङ्गत्वाभिधानात् ।
तासां भूषणरूपत्वात् तया सह खातो नोपपद्यते ।
भूषकत्वे कदाचिदकर्त्तव्यतापि स्यादिति चेन्न ।
शृङ्गाररहितं यच्च यजमानविनाशकृत् ।
इत्युक्तेर्भूषणस्याप्यावश्यकत्वात् ।
अथ " मरणं छिन्नमेखले " इति ।
तथा " कुण्डं जर्जरखमेखलम् " इति ।
तथा " मानेनाधिकमेखले व्याधयः सम्प्रवर्द्धन्ते " इत्यादिना च तद्वैकल्पे दोषस्योक्तत्वादङ्गत्वमिति चेत् ।
अस्तु नामाङ्गत्वं तथापि तया सह खातोऽनुपपन्नः ।
प्रधाने कार्यसम्प्रत्ययस्य न्यायत्वात् ।
किञ्च खातेन विना कुण्डस्वरूपप्राप्त्यसम्भवादेव दृष्टद्वारासन्निपत्योपकारकाङ्गस्य तस्यादृष्टद्वारा आरादु-
पकारकाङ्ग मेखलया सह सिद्धिरप्ययुक्ता ।
उक्तञ्च योगिनीहृदये—-
खातं कुण्डायतेस्तुल्यमङ्गत्वं तस्य कीत्तीतम् ।
सन्निपत्योपकारेण मेखलादेवीशिष्यते ॥ इति ॥
न च ब्रीहीणां प्रोक्षणादिवत् खाताङ्गत्वं मेखलानामिति वाच्यम् ।
" कुण्डानां मेखलास्तिस्त्रः " इत्यादिना कुण्डाङ्गत्वेनैव विधानात् ।
किञ्च प्रधाने कार्यसम्प्रत्ययश्चेत् नाङ्गीक्रियते तदा द्विहस्तादिकुण्डेष्वपि क्षेत्रद्वैगुण्यं न प्राप्येत ।
तत्रापि एकहस्तादि- खातघनहस्तफलस्य यद् द्वैगुण्यादिकं तन्मूलप्रमाणात् तत्करणी स्यात् ।
तच्चानिष्टं तव मते च खातस्याननुगतता प्रसज्यते ।
त्रिमेखलापक्षे अन्यः खातः ।
पञ्चमेखला- पक्षे अन्यः ।
द्वादशाङ्गुलमेखलापक्षे अन्य इति ।
अन्यच्च—- " निम्नं तिथ्यङ्गुलेन तु उन्नताद्या नवाङ्गुलैः " इति विश्वकर्मवचनम् ।
प्रतिष्ठासारसङ्ग्रहेऽपि—-
पञ्चत्रिमेखलोच्छ्रायं ज्ञात्वा शेषमधः खनेत् ।
इति ।
विशेषवाक्यद्वयैकवाक्यतया " ऊर्द्धं मेखलया सह " इत्यन्यानि सामान्यवचनानि व्याख्येयान्यवश्यम् ।
" आग्नेयं चतुर्द्धा करोति " इति विशेषविधिविषये ।
" पुरोडाशं चतुर्द्धा करोति " इति सामान्यविधिवत् ।
" सामान्यविधिरस्पष्टः संह्रियेत विशेषतः " इति वात्तीककृदुक्तेः।
तेनानिच्छतापि त्वया एकमेखलकुण्डे मेखलया विना खातोऽङ्गी- कर्त्तव्यः ।
मेखलया सह विधायकाभावात् ।
अतो मेखलया विनैव खात इति सिद्धान्तः ।
मेखलया सह खातवचनानि चतुररत्न्येकहस्तादिकुण्डेषु ।
पञ्चाशदादिहोमविधाने खाताधिक्यस्य प्रयोजनाभावात् तद्विषयाणि इति ज्ञेयम् ।
श्रुतिद्वैधन्तु यत्र स्यात्तत्र धर्माबुभौ स्मृतौ ।
स्मृतिद्वैधे तु विषयः कल्पनीयः पृथक् पृथक् ॥ इत्युक्तेः ।
एतदभिप्रायेणैव प्रयोगसारे उक्तम्—-
कारयेन्मेखलास्तिस्त्रश्चतुस्त्रिद्व्यङ्गुलाः क्रमात् ।
अथवा मेखलामेकां कुर्यात् सङ्क्षेपकर्मसु ॥ इति
यत्तु तेनैवोक्तम् अत्र पक्षे बहुवचनसमते बहुनामनुग्रहो न्याय इति तदपि न सम्यक् ।
अस्मन्मत एव बहूक्तसत्त्वात् स एव पक्षो ग्राह्यः ।
उक्तञ्च जैमिनिना—-
विप्रतिविद्धधर्मसमवाये भूयसां स्यात् सधर्मत्वम् ।
इति ।
तत्र प्रथमपक्षे अस्य घनहस्तफलं १३८२४ अपरपक्षे १४७२४ ॥ ६६ ॥
कुण्डानां यादृशं रूपं मेखलानाञ्च तादृशम् ॥ ६७ ॥
कुण्डानां मेखलास्तिस्रो मुष्टिमात्रे तु ताः क्रमात् ।
उत्सेधायामतो ज्ञेया द्व्येकार्द्धाङ्गुलसम्मिताः ॥ ६८ ॥
अरत्निमात्रे कुण्डे स्युस्तास्त्रि द्व्येकाङ्गुलात्मिकाः ।
एकहस्तमिते कुण्डे वेदाग्निनयनाङ्गुलाः ॥ ६९ ॥
अथ मेखला आह कुण्डानामिति ।
कुण्डानां चतुरस्रयोन्यादीनां यादृशं रूपं चतुरस्रत्वादि मेखलानां तादृशं रूपम् ।
चतुरस्रे चतुरस्ररूपा मेखला योनौ योनिरूपा मेखला कार्येत्यर्थः ।
एतेन मेखलाः कुण्डाकाराः कार्याः ।
मेखलानां स्वरूपे चतुरस्रत्वहानिर्नास्तीत्युक्तम् ।
तिस्त्र इति मध्यमः पक्षः ।
पञ्चमेखलापक्ष उत्तमः ।
एकमेखलापक्षः कनीयानिति ।
यदा तु ग्रन्थकारोक्तत्रिमेखलापक्ष एव उत्तमः पक्षः ।
तदा द्विमेखलापक्षो मध्यमः ।
एकमेखलापक्षः कनीयानिति ।
यद्वायवीय- संहितायाम्—- मेखलानां त्रयं वापि द्वयमेकमथापि वा ।
इति ।
क्रियासारेऽपि—- नाभियोनिसमायुक्तं कुण्डं श्रेष्ठं त्रिमेखलम् ।
कुण्डं द्विमेखलं मध्यं नीचं स्यादेकमेखलम् ॥ इति ।
अन्यत्रापि—- तिस्रः कुण्डे मेखला मेखले द्वे यद्वा विद्वानेकिकां मेखलां वा ।
इति
सोमशम्भौ तु—- त्रिमेखलं द्विजे कुण्डं क्षत्रियस्य द्विमेखलम् ।
मेखलैका तु वैश्यस्य ।
इति ।
तत्र सर्वकुण्डप्रकृतिभूतैकहस्तकुण्डमुपक्रम्य वेदाग्निनयनाङ्गुलाः इत्युक्त- त्वात् सर्वत्र
करणीषष्ठाष्टद्वादशांशैः क्रमान्मेखलाः स्युरिति गम्यते ।
" प्रकृतिवद्वि- कृतिः कार्या " इति भाट्टन्यायात् ।
तदुक्तं सोमशम्भुना—-
कुण्डानां यश्चतुवीशो भागः सोऽङ्गुलसञ्ज्ञकः ।
विभज्यानेन कर्त्तव्या मेखलाकण्ठनाभयः ॥ इति ।
महाकपिलपञ्चरात्रे तु स्पष्टमेव—-
कुण्डषड्भागिका त्वाद्या द्वितीयाऽष्टांशका स्मृता ।
तृतीया द्वादशांशा स्यात् ।
इति ॥
योगिनीहृदयेऽपि—- मेखलाः शृणु मे देवि हस्तादिषु विशेषतः ।
षट्नागार्कांशसम्भागैमीताः स्युर्गेपिताः शुभाः ॥ इति ।
यत्तु मुष्ट्यादिकुण्डे द्विहस्तादावपि ग्रन्थकृदुक्तं तत् स्थूलमानेनेति ज्ञेयम् ।
मुष्टिमात्रे त्विति ।
उत्सेधायामत इति ।
एकहस्तपर्यन्तं सर्वत्रान्वेति ।
तत्रोक्ताङ्गुल- मानेन एकविंशत्यङ्गुलं मुष्टिमात्रं कुण्डं मुष्टिरत्न्योः पर्यायत्वात् तत्र मुष्टिकुण्डे
सार्द्धत्र्यङ्गुलाऽऽद्या ।
सपञ्चयवद्ध्याङ्गुला मध्या ।
पादोनद्व्याङ्गुला तृतीया ।
अरत्निमात्रं कुण्डमुक्ताङ्गुलमानेन सार्द्धद्वाविंशत्यङ्गुलम् ।
" अरत्निः सकनिष्ठः स षोडशांशवियुक्करः " इत्युक्तेः।
तत्र पादोनचतुरङ्गुलाऽऽद्या।
ससार्द्धषड्यवद्व्याङ्गुला मध्या ।
यवोनद्व्यङ्गुला तृतीया ।
अत्र मेखलाकरणप्रकारः ।
एकहस्ते द्व्यङ्गुलोत्सेधा नवाङ्गुलविस्तृता कण्ठात् प्रभृति आद्या मेखला कार्या ।
तदुपरि द्वितीया त्र्यङ्गुलोत्सेधा सप्ताङ्गुल- विस्तृता ।
तदुपरि चतुरङ्गुलोत्सेधा चतुरङ्गुलविस्तृता ।
एवं फलतो वेदाग्निनयना- ङ्गुलत्वं भवत्येव ।
उक्तञ्च—-
या या तु मेखला पूर्वा सा सा भूमिरुदाहृता ।
इति ।
तेन प्रथमा अन्तर्नवाङ्गुलोच्चा चतुरङ्गुलविस्तारा बहिश्चतुरङ्गुलोच्चा ।
द्वितीया अन्तः पञ्चाङ्गुलोच्च त्र्यङ्गुलविस्तारा बहिस्त्र्यङ्गुलोच्चा ।
तृतीया तु उभयत्र द्व्यङ्गुलोच्चा द्व्यडगुलविस्तारा ।
तदुक्तं मोहशूरोत्तरे—- " कोण४राम३यमा२ङ्गुलैः " इति कोणाश्चत्वारः।
अन्यत्रापि—- चतुस्त्रिद्व्यङ्गुला यद्वा तिस्त्रः सर्वत्र शोभना ।
इति ।
विश्वकर्माप्याह—- उन्नताद्या नवाङ्गुलैः ।
इति ।
क्रियासारेऽपि—- प्रधानमेखलोत्सेधमुक्तमत्र नवाङ्गुलम् ।
तद्बाह्यमेखलोत्सेधं पञ्चाङ्गुलमिति स्मृतम् ॥
तद्बाह्यमेखलोत्सेधमङ्गुलद्वितयं क्रमात् ।
चतुस्त्रिद्व्यङ्गुलो व्यासो मेखलात्रितयान्वितः ॥ इति ।
लक्षणसङ्ग्रहेऽपि—- प्रथमा द्व्यङ्गुलायामा उन्नता सा नवाङ्गुलैः ।
मध्या तु त्र्यङ्गुला बाह्ये तृतीया तु यमाङ्गुलैः ॥ इति ।
सिद्धान्तशेखरेऽपि—-चतुवीशन्तिमो भागः कुण्डानामङ्गुलं स्मृतम् ।
इति ।
पुनरप्यङ्गुलपरिभाषां कृत्वा—-चतुभीश्च त्रिभिर्द्वाभ्यामूर्द्धा मध्या त्वधोगता ।
तिस्त्रः प्रोक्ताः क्रमादेवं विस्तारादुच्छ्रयादपि ॥ इति ।
एतेन प्रथमा चतुरङ्गुला तदुपरि त्र्यङ्गुला तदुपरि द्व्यङ्गुलेति ।
बहिश्चतुरङ्गुला तदन्तर्मध्यमा त्र्यङ्गुला द्व्यङ्गुला कण्ठलग्नेति च व्याख्यानद्वयं निरस्तम् ।
यत्तु कस्यचिल्लक्षणं—-
व्यासे चतुवींशतिधा विभाजिते विस्त्रश्चतुस्त्रीक्षणभागविस्तृताः ।
समन्ततः कण्ठबहिस्तु मेखला नवर्त्तुरामांशकतुङ्गुता मता ॥ इति ।
अत्र द्वितीयतृतीययोः षड्भागत्रिभागत उच्चतोक्ता ।
तदसम्बद्धम् ।
लिखित- बहुग्रन्थविरोधात् एतत्प्रतिपादकवचनाभावाच्च ।
" विस्तारतुल्योन्नतयश्च कैश्चिदुक्ता इमाः " इति यत्तेनैवोक्तं तदप्यज्ञानविजृम्भितम् ।
लिखिततत्तत्प्रतिपादकवचनार्था नवबोधात् ।
यच्च " कोणरामयमाङ्गुलैः " इत्यादीनं वचनानां विस्तारमात्रे पर्यवसानं कृतं सोऽप्यबोध एव ।
यदाचार्यैस्तु—-
सत्त्वपूवीकगुणान्विताः क्रमात् द्वादशाष्टचतुरङ्गुलोच्छिरताः ।
सर्वतोऽङ्गुलचतुष्कविस्तृता मेखलाः सकलसिद्धिदा मताः ॥ इति ।
तन्मतानुसारिभिरन्यैरपि सर्वेषां मेखलामानं " वितस्त्यष्टतदर्द्धकैः " इत्युक्तम् ।
तत्तु साक्षात् " सकलसिद्धिदा मता " इतयुक्तत्वात् फलविशेषता ज्ञेया ।
तत्रापि कण्ठाद्बहिः प्रथममेखला द्वादशाङ्गुलविस्तारा चतुरङ्गुलोच्चा ।
तदुपरि द्वितीया- ऽष्टाङ्गुल विस्तृता चतुरङ्गुलोच्चा ।
तदुपरि चतुरङ्गुलोच्चा चतुरङ्गुलविस्तारेति ज्ञेयम् ।
एवं कुण्डभागे द्वादशाङ्गुलोच्चत्वं भवति ।
तदुक्तं वशिष्ठसंहितायाम्—-
प्रथमा मेखला तत्र द्वादशाङ्गुलविस्तृता ।
चतुभीरङ्गुलैस्तस्याद्राश्चोन्नतिश्च समन्ततः ॥
तस्याश्चोपरि वप्रः स्याच्चतुरङ्गुलमुन्नतः ।
अष्टाभिरङ्गुलैः सम्यक् विस्तीर्णस्तु समन्ततः ॥
तस्योपरि पुनः कार्ये वप्रः सोऽपि तृतीयकः ।
चतुरङ्गुलविस्तीर्णश्चोन्नतश्च तथाविधः ॥ इति ।
पञ्चमेखलापक्षे तन्मानमुक्तं लक्षणसङ्ग्रहे—-
मेखलाः पञ्च वा कार्याः षट्पञ्चाब्धित्रिपक्षकैः ।
इति ।
सिद्धान्तशेखरेऽपि—-षड्वाणाब्धिवह्निनेत्रमिताः स्युः पञ्च मेखलाः ।
इति ।
द्विमेखलापक्षे तल्लक्षणमुक्तं तन्त्रान्तरे—-
षष्ठांशेनाष्टमांशेन मेखलाद्वितयं मतम् ।
इति ।
एकमेखलापक्षेऽपि—-षट्चतुर्द्व्यङ्गुलायामविस्तारोन्नतिशालिनी ।
इति योनिलक्षणं वदता ग्रन्थकृता सूचित एव ।
तन्मानमुक्तं पिङ्गलामते—-
एका षडङ्गुलोत्सेधविस्तारा मेखला मता ।
इति ।
महाकपिलपञ्चरात्रेऽपि—-मेखलैकाऽथवा स्मृता सा चतुर्थांशविस्तारा ।
इति ।
प्रथमेऽपि—- कण्ठाङ्गुलाद् बहिः कार्या मेखलैका षडङ्गुला ।
इति ।
सिद्धान्तशेखरेऽपि—-कुण्डानां मेखलां कुर्यादेकाञ्चेत् षड्भिरङ्गुलैः ।
इति ।
सोमशम्भुरपि—- अङ्गुलैः षड्भिरेका च ।
इति ।
अन्यत्रापि—- षडंशविस्तृतोन्नताथवैकिकैव मेखला ।
इति ।
कामिके तु विशेषः—- स्यात्तद्वेदर्त्तुभागतः ।
मेखलापृथुतोच्छ्रायः कुण्डाकारा तु मेखला ॥
सर्वेषान्तु प्रकर्त्तव्या मेखलैकाऽत्र लाघवात् ॥ इति ॥ ६७-६९ ॥
मेखलानां भवेदन्तः परितो नेमिरङ्गुलात ।
एकहस्तस्य कुण्डस्य वर्द्धयेत् तत् क्रमात् सुधीः ।
दशहस्तान्तमन्येषाम् अर्द्धाङ्ङ्गुलवशात् पृथक् ॥ ७० ॥
कण्ठमानमाह मेखलानामिति ।
मेखलानामन्तः परितः सर्वतः अङ्गुला- दङ्गुलमानात् नेमिरेकहस्तस्य कुण्डस्य भवेदिति सम्बन्धः ।
अङ्गुलादङ्गुलं व्याप्येत्यर्थः ।
ल्यब्लोपे पञ्चमी ।
क्वचिदङ्गुलेति पाठः ।
तदा सामानाधिकरण्येन योजनीयम् ।
एतेन कुण्ड व्यास चतुवींशांशो नेमिरित्युक्तं भवति ।
द्विहस्तादावपि तत्करण्याश्चतुवींशांश एव नेमिः ।
यदर्द्धाङ्गुलवशाद्दशहस्तान्तमन्येषां क्रमात्तां वर्द्धयेदित्युक्तम् ।
तत्तु तद्द्विहस्ताभिप्रायेण ।
द्विहस्ते च एकमङ्गुलं यवत्रयं द्वे
यूके चतस्त्रो लिख्याः पञ्च रेणवः चत्वारस्त्र्यसरेणवः इति ।
तदुक्तं महाकपिलपञ्चरात्रे—-चतुवींशतिभागेन कण्ठो वै परिकीत्तीतः ।
इति ।
तेन रत्निमात्रे सप्तयवः कण्ठः अरत्निमात्रे सार्द्धसप्तयवः।
तदुक्तं मन्त्रमुक्तावल्याम्—-
कण्ठोऽष्टयवैर्हस्तमानेषु कुण्डेषु अरत्निमितेषु च सार्द्धसप्तभिर्यवैः
रत्निमितेषु च सप्तभिर्यवैः ।
इति ।
कामिके त्वन्यथोक्तम्—-क्षेत्रार्कांशेन तस्यौष्ठः ।
इति ।
सोमशम्भुरपि—- बहिरेकाङ्गुलः कण्ठो द्व्यैङ्गुलः क्वचिदागमे ।
इति ।
साम्प्रदायिकास्तु प्रथमपक्षमेव मन्यन्ते बहुतन्त्रसमतेः ।
तदुक्तम् एकहस्तमुपक्रम्य—-
खाताद्बाह्येऽङ्गुलः कण्ठस्तद्बाह्ये मेखलाः क्रमात् ।
इति ।
पिङ्गलामतेऽपि—- खातादेकाङ्गुलं त्याज्यं मेखलानां स्थितिर्भवेत् ।
इति ।
अन्यत्रापि—- कण्ठोऽङ्गुलाद्बहिः कार्यः ।
इति ।
सिद्धान्तशेखरेऽपि—-कुण्डे हस्तमिते कण्ठं कुर्यादेकाङ्गुलं ततः ।
इति ।
कालोत्तरे च—- खताद्बाह्येऽङ्गुलः कण्ठः सर्वकुण्डेष्वयं विधिः ।
चतुवींशतिमं भागमङ्गुलं परिकल्पयेत् ॥ इति ।
तट्टीकाकारैर्व्याख्यातम्—-यवोऽष्टगुणितोऽङ्गुलमित्यादिना प्रसिद्धेनैव हस्ताङ्गुल- व्यवहारेणे
होमानुसारात् कुण्डमुक्तम् ।
इयन्तु खातादिमानकथनार्थं परिभाषा क्रियते।
चिकीषीतकुण्डक्षेत्रं चतुवींशतिधा विभज्य यावांश्चतुवींशतिमो भागस्तावत्परिमाण- मङ्गुलं परिकल्पयेदिति ।
अतएव सर्वकुण्डेष्वयं विधिरित्युक्तम् ।
अन्यत्रापि—-कण्ठोऽष्टयवमात्रः स्यात् कुण्डे तु करमात्रके ।
इति ।
अन्यत्रापि—-कुण्डस्यैककरस्य बाह्यपरितो नेमिर्भवेदङ्गुलम् ।
इति ॥ ७० ॥
कुण्डे द्विहस्ते ता ज्ञेया रसवेदगुणाङ्गुलाः ।
चतुर्हस्तेषु कुण्डेषु वसुतर्कयुगाङ्गुलाः ॥ ७१ ॥
कुण्डे रसकरे ताः स्युर्दशाष्टर्त्वङ्गुलान्विताः ।
वसुहस्तमिते कुण्डे भानुपङ्क्त्यष्टकाङ्गुलाः ॥ ७२ ॥
दशहस्तमिते कुण्डे मनुभानुदशाङ्गुलाः ।
विस्तारोत्सेधतो ज्ञेया मेखलाः सर्वतो बुधैः ॥ ७३ ॥
द्विहस्तादिकुण्डानां विस्तारायामं सूचयन् मेखला आह कुण्ड इति ।
अत्र सर्वत्र षष्ठाष्टमद्वादशांशैः पूर्वेक्तवन्मेखलाः कार्याः ।
विस्तारोत्सेधतो ज्ञेया इति वक्ष्यमाणं पूर्ववत् सर्वत्र सम्बद्ध्यते ।
रसवेदगुणाङ्गुला इति ।
अल्पमन्तरमाचार्यैरु- पेक्षितं पञ्च यवाः द्वे यूके इतीयं प्रथमा ।
चतुरङ्गुलानि द्वौ यवौ मध्या ।
द्वे अङ्गुले षड् यवाः पञ्च यूकाः अन्त्या ।
अत्र यद्यपि त्रिपञ्च सप्तनवहस्तानां मेखला नोक्तास्तथापि अग्रे—-
एकहस्तमितं कुण्डमेकलक्षे विधीयते ।
लक्षाणां दशकं यावत्तावद्धस्तेन वर्द्धयेत् ॥
इति त्रिहस्तादीनां विनियोग उक्तः ।
अतस्तमेखलामानमपि पूर्ववत् षष्ठाष्टम- द्वादशांशो ज्ञेयः ।
तत्र त्रिहस्ते षडङ्गुलानि सप्त यवाः तिस्रो यूकाः तिस्रो लिख्याः आद्या ।
पञ्चाङ्गुलानि एको यवः चतस्रो यूकाः चतस्रो लिख्याः अर्द्धसहिताः मध्या ।
त्रीण्यङ्गुलानि त्रयो यवः पञ्च यूकाः षड्लिख्यास्त्र्यंशोनाः अन्त्या ।
चतुर्हस्त इति ।
वसवोऽष्टौ तर्काः षट् युगानि चत्वारि ।
अत्र षष्ठाष्टमद्वादशांशता ग्रन्थकृतैव प्रकटीकृता ।
एवं पञ्चहस्तादावपि ज्ञेयम् ॥ ७१-७३ ॥
होतुरग्रे योनिरासामुपर्यश्वत्थपत्रवत् ॥ ७४ ॥
योनिमाह होतुरिति ।
आसां मेखलानामुपरि मध्यभागे होतुरग्रे अश्वत्थपत्रवद् योनिः कार्या ।
तदुक्तं सोमशम्भुना—-
तासामुपरि योनिः स्यान्मध्येऽश्वत्थपलाशवत् ।
इति ।
इयञ्च पूर्वेक्तयोनिः कुण्डाकारा कार्या ।
होतुरग्रे इत्यनेनैतदुक्तं भवति ।
वेदी यथा पृष्ठभागे न पतति होतुश्च प्राङ्गमुखता उदङ्मुखता वा भवति तथा ।
केषाञ्चित् पश्चिममेखलोपरि केषाञ्चिद्दक्षिणमेखलोपरि योनिः स्थापनीयेति ।
तदुक्तम् स्वायम्भुवे—-प्रागग्नियाम्यकुण्डानां प्रोक्ता योनिरुदङ्मुखा ।
पूर्वा मुखाः स्मृताः शेषा यथाशोभं व्यवस्थिताः ॥ इति ।
त्रैलोक्यसारेऽपि—- दक्षिणस्था पूर्वयाम्ये जलस्था पश्चिमोत्तरे ।
नवमस्यापि कुण्डस्य योनिर्दक्षजलस्थिता ॥ इति ।
(अत्र पूर्वशब्देनाग्नेयी जलस्थेति नैरृते वायव्ये उत्तरेतीशाने (?) ।
)
सिद्धान्तशेखरेऽपि—-इन्द्राग्नियमदिक्कुण्डयोनिः सौम्यमुखी स्मृता ।
योनिः पूर्वामुखान्येषु पूर्वैशान्युत्तरा स्मृता ॥ इति ।
क्रियासारेऽपि—- होमकृत्पुरतः स्थाप्या दक्षिणे पश्चिमेऽपि वा ।
इति ।
सोमशम्भुरपि—- पूर्वाग्नियाम्यकुण्डानां योनिः स्यादुत्तरानना ।
पूर्वानना तु शेषाणाम् एशान्येऽन्यतरा तयोः ॥ इति ।
अत्रैशान्य इति एकदेशेन नवमं कुण्डं गृहीतम् ।
एतेन पूर्वाग्नेयदक्षिण- कुण्डानि नवमञ्च कुण्डमुत्तराग्रम् अन्यानि पञ्चकुण्डानि प्रागग्राणीति ॥ ७४ ॥
मुष्ट्यरत्र्येकहस्तानां कुण्डानां योनिरीरिता ।
षट्चतुर्द्व्यङ्गुलायामविस्तारोन्नतिशालिनी ॥ ७५ ॥
तस्याः प्रमाणमाह मुष्टीति ।
एकहस्तप्रकृतिकत्वात् सर्वकुण्डानां चतुःषड्- द्वादशांशैरायामविस्तारोन्नतियुक्ता सर्वत्र योनिः कार्या ।
तदुक्तं तन्त्रान्तरे—-
तूर्यषष्ठद्वादशांशैर्येनिः कुण्डायतेर्भवेत् ।
आयता विस्तृता तुङ्गा जिनांशेन तदग्रकम् ॥ इति ।
क्रियासारे—- तत्षडङ्गुलमायामं विस्तारं चतुरङ्गुलम् ।
इति ।
इदन्तु एकमेखलापक्षे ।
अन्ये त्वन्यथा वर्णयन्ति ।
षट्चतुर्द्व्यङ्गुलायामेति षड्- द्व्यङ्गुलायाम द्वादशाङ्गुलदैर्घ्या षड्द्व्यङ्गुलविस्तारेति ।
अष्टाङ्गुलविस्तारा द्व्यङ्गुलोच्छिरतिरिति ।
तदुक्तं—-
स्वायम्भुवे—- मेखलामध्यतो योनिः कुण्डार्द्धत्र्यंशविस्तृता ।
इति ।
सिद्धान्तशेखरेऽपि—-दीर्घार्कपर्वभिर्येनिवीस्तारेणाऽष्टकाङ्गुला ।
उन्नतिर्द्व्यङ्गुलेनास्याः ।
इति ।
प्रयोगसारेऽपि—- त्रिभागां मध्यतो योनिमायामे द्वादशाङ्गुलाम् ।
द्वादशांशोच्छिरतां कुर्यात् किञ्चित् कुम्भनिवेशिनीम् ॥ इति ।
क्वचिदेकाङ्गुलोऽप्युच्छ्राय उक्तः ।
यन्नारदीये—- कुण्डत्र्यंशेन विस्तारो योनेरुच्छ्रायतोऽङ्गुला ।
कुण्डार्द्धेन तु दीर्घा स्यात् ।
इति ।
त्रैलोक्यसारेऽपि—- दैर्घ्यात् सूर्याङ्गुला योनिस्त्र्यंशोना विस्तरेण तु ।
एकाङ्गुलोच्छिरता सा तु ।
इति ।
पिङ्गलामतेऽपि—- विस्तारोऽष्टाङ्गुलो योनेरुच्छ्रायोऽङ्गुलसम्मितः ।
इति ।
अन्यत्रापि—- " उत्सेधमङ्गुलम् " इति ।
तेन द्व्यङ्गुलोच्छ्रायैकाङ्गुलोच्छ्राययो- वीकल्पः ।
अष्टाङ्गुलो विस्तारस्त्वादिभागे ।
अग्रे सङ्कुचितत्वात् अश्वत्थपत्रवदि- त्युक्तेः योनिमध्ये किञ्चिन् निम्नं कार्यम् ।
तदुक्तं त्रैलोक्यसारे " मध्ये त्वाज्यधृतिस्तथा " इति ।
साम्प्रदायिका अपि एतादृशीमेव योनिं मन्यन्ते ।
अन्ये तु षट्चतुर्द्व्यङ्गुलेति समुच्छिरतमायामादिषु सम्बद्ध्यते तेन द्वादशाङ्गुलविस्तारा द्वादशाङ्गुलदीर्घा
द्वादशा- ङ्गुलोच्छ्राया योनिः कार्येत्याहुः ।
तदुक्तं पञ्चरात्रे—-
अर्काङ्गुलोच्छ्रयां योनिं विदध्यात्तावदायताम् ।
इति ।
अन्यत्रापि—- द्वादशस्वररूपत्वाद् योनिः स्याद् द्वादशाङ्गुला ।
उत्सेधायामतस्तुल्या ।
इति ।
एतत्पक्षद्वयमपि यथा स्वगुरुसम्प्रदायमूहनीयम् ।
इदन्तूक्तप्रमाणं त्रिमेखलापक्षे।
यदा द्वादशाङ्गुलमेखलापक्षस्तन्मते योनिरुक्ता ।
प्रयोगसारे—- सात्त्विकी मेखला पूर्वा विस्तृत्या द्वादशाङ्गुला ।
द्वितीया राजसी प्रोक्ता मेखलाऽष्टाङ्गुलैस्ततः ॥
तृतीया मेखला ख्याता तामसी चतुरङ्गुला ।
पृथग्विस्तारमेतासु चतुरङ्गुलमानतः ॥
स्थितां प्रतीच्यामायामे सम्यक् पञ्चदशाङ्गुलाम् ।
द्विपञ्चाङ्गुलविस्तारां षट्चतुर्द्व्याङ्गुलां क्रमात् ॥
व्यक्ताश्वत्थदलाकारां निम्नां कुण्डे निवेशिताम् ।
त्रयोदशाङ्गुलोत्सेधां योनिं कुण्डस्य कारयेत् ॥ इति ।
प्रतीच्यामिति एककुण्डपक्षानुसारेणेति ज्ञेयम् ॥ ७५ ॥
एकाङ्गुलन्तु योन्यग्रं कुर्यादीषदधोमुखम् ।
एकैकाङ्गुलतो योनिं कुण्डेष्वन्येषु वर्द्धयेत् ।
यवद्वयक्रमेणैव योन्यग्रमपि वर्द्धयेत् ॥ ७६ ॥
एकाङ्गुलमिति ।
एतेन चतुवींशांशेन सर्वत्र योन्यग्रमपि ईषदधोमुखं कुण्ड- प्रविष्टं कुर्यादित्युक्तम् ।
तदुक्तं नारदीये—- " कुण्डौष्ठौ बोधिपत्रवत् " इति ।
ओष्ठो योन्यग्रं कुण्डप्रविष्टाग्रेत्यर्थः ।
त्रैलोक्यसारेऽपि—- प्रविष्टाभ्यन्तरे तथा ।
कुम्भद्वयसमायुक्ता चाश्वत्थदलवन्मता ॥ इति ।
वायवीयसंहितायामपि—-मेखला मध्यतः कुर्यात् पश्चिमे दक्षिणेऽपि वा ।
शोभनामग्रतः किञ्चिन्निम्नामुन्मूलिकां शनैः ॥
अग्रेण कुण्डाभिमुखीं किञ्चिदुत्सृष्टमेखलाम् ।
इति।
अत्र ग्रन्थगौरवभयाद्दशहस्तकुण्डान्तं प्रत्येकं योनितदग्रादीनां मानं नोक्तम् ।
तथापि किञ्चिदुच्यते—-आयामः सा(श्च)र्द्धविस्तत्या षष्ठां(सत्यं)शेनाथ विस्तृतिः।
विस्तारार्द्धादुन्नतिः स्यादुन्नत्यर्द्धात्तदग्रकम् ॥
एकैकाङ्गुलतो योनिं कुण्डेष्वन्येषु वर्द्धयेत् ।
यवद्वयक्रमेणैव योन्यग्रमपि वर्द्धयेत् ॥
इति तु गणितापटून् प्रति स्थलमानेनोक्तम् ।
नतु सम्यग्गणनाभिप्रायमिति ॥ ७६ ॥
स्थलादारभ्य नालं स्याद् योन्या मध्ये सरन्ध्रकम् ।
नार्पयेत् कुण्डकोणेषु योनिं तां तन्त्रवित्तमः ॥ ७७ ॥
नालमाह स्थलादिति ।
स्थलादारभ्य योन्या नालं स्यात् ।
स्थलादारभ्येत्यनेन बाह्यमेखलालग्नं नालं कर्त्तव्यमित्युक्तम् ।
तेन चतुरङ्गुलोत्सेधविस्तारां बाह्य- मेखलासन्दष्टां वेदिं कृत्वा तदुपरि नालं स्थापयेदित्यर्थः ।
कथम् मध्ये सरन्ध्रकं यथा भवति तथा मध्ये मध्यमेखलोपरि परिधिपरिस्तरणार्थं रन्ध्रं
विधाय अन्यो मध्यभागः पूरणीय इत्यर्थः ।
तदुक्तं पञ्चरात्रे—-
स्थलादारभ्य योनिः स्याद्बाह्यमेखलया समा ।
इति ।
यस्तु मध्ये सरन्ध्रकमिति नालविशेषणमित्यवदत् स भ्रान्त एव ।
यतः सरन्ध्रस्यैव नालशब्दवाच्यत्वात् ।
तस्य सरन्ध्रकथने तस्यादृष्टार्थापत्तेश्च ।
न च नालाद्बाह्ये परिध्यादिस्थापनमिति वाच्यम् ।
दृष्टेनादृष्टबाधायोगात् ।
परिधिपरिस्तरण- स्थलाभावाच्च ।
प्रयोगसारे तु—-योन्याः पश्चिमतो नालमायामे चतुरङ्गुलम् ।
त्रिद्व्येकाङ्गुलविस्तारं क्रमान्न्यूनाग्रमिष्यते ॥ इति ॥ ७७ ॥
कुण्डानां कल्पयेदन्तर्नाभिमम्बुजसन्निभाम् ।
तत्तत् कुण्डानुरूपं वा मानमस्य निगद्यते ॥ ७८ ॥
मुष्ट्यरन्त्येकहस्तानां नाभिरुत्सेधतारतः ।
द्वित्रिवेदाङ्गुलोपेता कुण्डेष्वन्येषु वर्द्धयेत् ॥ ७९ ॥
यवद्वयक्रमेणैव नाभिं पृथगुदारधीः ।
योनिकुण्डे योनिमब्जकुण्डे नाभिं विवर्जयेत् ॥ ८० ॥
नाभिक्षेत्रं त्रिधा भित्वा मध्ये कुर्वीत कणीकाम् ।
बहिरंशद्वयेनाष्टौ पत्राणि परिकल्पयेत् ॥ ८१ ॥
नाभिमाह कुण्डानामिति ।
कुण्डानामन्तर्नाभिं कल्पयेत् ।
कुण्डाकारं पद्माकारं वा नाभिं कृत्वा खातमध्ये स्थापयेदित्यर्थः ।
" आतपे क्षत्रिये नाभिः प्राण्यङ्गेऽपि द्वयोः " इति नाभिशब्दपुंलिङ्गोऽप्यस्ति ।
उत्सेधतारतः उच्चत्वविस्ताराभ्याम् अत्रापि प्राग्वदेकहस्तस्य
सर्वकुण्डप्रकृतिभूतत्वात् कुण्डविस्तारषष्ठांशेन विस्तृता तदर्द्धेच्चा इत्युक्तं भवति ।
अम्बुजसादृश्यमेवाह नाभिरिति ।
कुर्वीतेति अंशेनेति शेषः ।
उक्तञ्च नारायणीये—-पार्श्वे यागभुवः खाते कुण्डे सन्नाभिमेखला ।
इति ॥ ७८-८१ ॥
मुष्टिमात्रमितं कुण्डं शतार्द्धे सम्प्रचक्षते ।
शतहोमेऽरत्निमात्रं हस्तमात्रं सहस्रके ॥ ८२ ॥
द्विहस्तमयुते लक्षे चतुर्हस्तमुदीरितम् ।
दशलक्षे तु षड्ढस्तं कोट्यामष्टकरं स्मृतम् ॥ ८३ ॥
उक्तमुष्ट्यादिकुण्डानां विनियोगमाह मुष्टीत्यादि कोट्यामष्टकरमित्यन्तेन ।
शतहोमे अरत्निमात्रम् इति छेदः ।
तदुक्तम्—-
मुष्टिमानं शतार्द्धे तु शते चारत्निमात्रकम् ।
इति ।
संहितायान्तु—-कुण्डञ्च कोटिहोमेऽपि तदर्द्धेऽपि कराष्टकम् ।
इति ॥ ८२-८३ ॥
एकहस्तमितं कुण्डमेकलक्षे विधीयते ।
लक्षाणां दशकं यावत्तावद्धस्तेन वर्द्धयेत् ।
दशहस्तमितं कुण्डं कोटिहोमे विधीयते ॥ ८४ ॥
पक्षान्तरमाह एकेति ।
इदन्तु पुष्पाज्याद्यल्पद्रव्यविषयम् एककर्त्तृकहोमपरं वा पञ्चकरपर्यन्तम् ।
तदूर्द्धन्तु बृहद्द्रव्यविषयमनेककर्त्तृकविषयं वा ज्ञेयम् ।
कोट्यामष्ट- करमित्यनेन विकल्पो दशहस्तमित्यस्य ।
सिद्धान्तशेखरे तु विशेषः—-
लक्षार्द्धे त्रिकरं कुण्डं लक्षहोमे चतुष्करम् ।
कुण्डं पञ्चकरं प्रोक्तं दशलक्षाहुतौ क्रमात् ॥
षड्ढस्तं लक्षविंशत्यां कोट्यर्द्धे सप्तहस्तकम् ।
इति ।
अन्यत्रापि—-केचिद्धस्तं लक्षहोमे द्विहस्तं लक्षद्वन्द्वे वह्निहस्तं त्रिलक्षे ।
होमे कुण्डं वेदलक्षेऽब्धिहस्तं प्राहुर्देष्णां पञ्चकं पञ्चलक्षे ॥
रसहस्तं रसलक्षे सप्तकरं सप्तलक्षे स्यात् ।
वसुलक्षे वसुहस्तं नवलक्षे नवकरं कुण्डम् ॥
दशलक्षे दशहस्तं दशकरमेवेह कोटिहोमेऽपि ।
दशहस्तान्न हि कुण्डं परमस्ति महीतलेऽमुष्मिन् ॥ इति ॥ ८४ ॥
सर्वसिद्धिकरं कुण्डं चतुरस्रमुदाहृतम् ।
पुत्रप्रदं योनिकुण्डमर्द्धेन्द्वाभं शुभप्रदम् ॥ ८५ ॥
शत्रुक्षयकरं त्र्यस्रं वर्त्तुलं शान्तिकर्मणि ।
छेदमारणयोः कुण्डं षडस्रं पद्मसन्निभम् ॥ ८६ ॥
वृष्टिदं रोगशमनं कुण्डमष्टास्रमीरितम् ।
विप्राणां चतुरस्रं स्याद्राज्ञां वर्त्तुलमिष्यते ॥ ८७ ॥
वैश्यानामर्द्धचन्द्राभं शूद्राणां त्र्यस्रमीरितम् ।
चतुरस्रन्तु सर्वेषां केचिदिच्छन्ति तान्त्रिकाः ।
कुण्डरूपन्तु जानीयात् परमं प्रकृतेर्वपुः ॥ ८८ ॥
प्राच्यां शिरः समाख्यातं बाहू दक्षिणसौम्ययोः ।
उदरं कुण्डमित्युक्तं योनिः पादौ तु पश्चिमे ॥ ८९ ॥
अथ कुण्डानां फलविशेषानाह सर्वेति ।
छेदः उच्छेदः उच्चाटनमिति यावत् ।
अयञ्च फलविशेषः पूर्वेक्ततत्तद्दिशि कुण्डकरण एव ज्ञेयः ।
तदुक्तम् कामिके—- एन्द्र्यां स्तम्भे चतुष्कोणमग्नौ भागे भगाकृति ।
चन्द्रार्द्धं मारणे याम्ये द्वेषे निरृतिकोणकम् ॥
वारुण्यां शान्तिके वृत्तं षडस्र्युच्चाटनेऽनिले ।
उदीच्यां पौष्टिके पद्मं रौद्र्यामष्टास्रि मुक्तिदम् ॥ इति ।
पिङ्गलामतेऽपि—- कुण्डं कुशेशयाकारम् उत्तरे वश्यकर्मणि ।
षडस्र्युच्चाटने वायावर्द्धेन्दु मारणे यमे ॥
वेदास्रं स्तम्भने प्राच्यामाकर्षेऽग्नौ भगाकृति ।
वारुण्यां शान्तिके वृत्तमीशे त्वष्टास्रि मुक्तिदम् ॥ इति ।
सिद्धान्तशेखरेऽपि—-योन्याख्यमुच्यते कुण्डमाग्नेयामुत्तरामुखम् ।
प्रजावृद्धौ च तापे स्यादर्द्धचन्द्रमथोच्यते ॥
याम्ये तन्मारणे शस्तमुत्तराभिमुखं सदा ।
नैरृते त्र्यस्रिकुण्डं स्याद् विद्वेषे पूर्ववक्त्रकम् ॥
वृत्तं कुण्डमतो वक्ष्ये वारुण्यां शान्तिके हितम् ।
षडस्रमुच्यते कुण्डं वायावुच्चाटने पटु ॥
पद्मकुण्डमथो वक्ष्ये सौम्ये तत् पुष्टिवर्द्धनम् ।
वक्ष्ये कुण्डमथाष्टास्रमीशाने सर्वकामदम् ॥ इति ।
अत्र दीक्षाङ्गतया क्रियमाणयाऽष्टकुण्ड्या संयोगपृथक्त्वन्यायेन तत्तत्- कुण्डोक्तफलसिद्धिरपि ज्ञेया ।
क्रियासारेऽपि—- पूर्वेक्तलक्षणैर्युक्तं कुण्डं तालप्रमाणकम् ।
उक्तं चरार्च्चने चैव न स्थिरे तु चतुर्मुख ॥
कुण्डमत्रोक्तमार्गेण निर्मायाऽथ सलक्षणम् ।
क्षत्रियोऽपि समृद्धो वा शूद्रस्ताम्रेण बन्धयेत् ॥
तदलाभे त्विष्टकाभिः सम्बद्ध्य सुदृढं यथा ।
पूर्वेदितप्रकारेण मृत्स्नया लेपयेत्तथा ॥
ताम्रेण लक्षणोपेतं कुर्यान्मृत्तिकयाऽपि वा ।
एतत् कुण्डं चरार्चायां गृह्णीयान्न स्थिरार्चने ॥
अत्र च पूर्ववाक्यैकवाक्यतया तालप्रमाणत्वं ज्ञेयम् ।
अम्लेन ताम्रकं कुण्डं मृण्मयं गोमयाम्भसा ।
सौधञ्च सुधया सम्यक् शोधयेदमरर्षभ ॥
मृण्मयानान्तु कुण्डानां परितः सन्धिभिः सह ।
रक्तमृच्छालिपिष्टाभ्यां भूषयेद्दृक्प्रियं यथा ॥ इति ।
अत्रोक्त कुण्डानां न्यूनत्वे आधिक्ये अन्यथाभावे वा दोषमाह—-
विश्वकर्मा—- खाताधिके भवेद्रोगी हीने धेनुधनक्षयः ।
वक्रकुण्डे तु सन्तापो मरणं छिन्नमेखले ॥
मेखलारहिते शोकोऽभ्यधिके वित्तसङ्क्षयः ।
भार्याविनाशनं कुण्डं प्रोक्तं योन्या विना कृतम् ॥
अपत्यध्वंसनं प्रोक्तं कुण्डं यत् कण्ठवजीतम् ॥ इति ।
आगमान्तरेऽपि—- मानाधिके भवेन्मृत्युर्मानहीने दरिद्रता ।
इत्यादि ।
क्रियासारेऽपि—- न्यूनाधिकप्रमाणं यत् कुण्डं जर्जरमेखलम् ।
शृङ्गाररहितं यच्च यजमानविनाशकृत् ॥ इति ।
वशिष्ठसंहितायामपि—-अनेकदोषदं कुण्डमत्र न्यूनाधिकं यदि ।
तस्मात् सम्यक् परीक्ष्येदं कर्त्तव्यं शुभमिच्छता ॥ इति ।
सिद्धान्तशेखरेऽपि—-मानहीने महाव्याधिरधिके शत्रुवर्द्धनम् ।
योनिहीने त्वपस्मारो वाग्दण्डः कण्ठवजीते ॥ इति ।
जयद्रथयामलेऽपि—-सूत्राधिके सुहृद्द्वेषो मानहीने दरिद्रता ।
वाग्रोधः कण्ठहीने स्यादसिद्धिर्न्यूनखातके ॥
अधिके चासुरो भोगो मानेनाधिकमेखले ।
व्याधयः सम्प्रवर्द्धन्ते विभागे स्यादपस्मृतिः ॥
उच्चाटः स्फुटिते छिद्रसङ्कुले वाच्यता भवेत् ॥ इति ।
अस्यापि क्रियासारे आवश्यकतोक्ता—-
दिग्देशकुण्डनिर्मुक्तो योऽनलो लौकिको हि सः ।
तस्माद्दिग्देशकुण्डानि सङ्ग्राह्यण्युक्तलक्षणैः ॥
कुण्डमेवंविधं न स्यात् स्थण्डिलं वा समाश्रयेत् ।
इति ।
कुण्डं खातरूपं योनिः पश्चिमतः इति नित्याभिप्रायेण एककुण्डाभिप्रायेण च ग्रन्थकृदुक्तिः ॥ ८५-८९ ॥
नित्यं नैमित्तिकं काम्यं स्थण्डिले वा समाचरेत् ।
हस्तमात्रेण तत् कुर्यात् बालुकाभिः सुशोभनम् ॥ ९० ॥
अङ्गुलोत्सेधसंयुक्तं चतुरस्रं समन्ततः ।
एवं प्रोक्तानि कुण्डानि कथ्यते स्रुक्स्रुवौ ततः ॥ ९१ ॥
कुण्डानुकल्पमाह नित्यमिति ।
अङ्गुलोत्सेधसंयुक्तम् ।
अङ्गुलं पूर्वेक्त- लक्षणम् ।
यद्वा अङ्गुलानां हस्तशाखानां चतसृणां य उत्सेधस्तद्युक्तम् ।
यदाहुः स्थण्डिलं रत्निमात्रायामं चाङ्गुष्ठपर्वेन्नतमपि सुषमं निमीतं वालुका- भिश्चतुष्कोणं
द्व्यङ्गुलोत्सेधमेके बुधा हस्तविस्तारयुक्तं तदाहुः इति ।
इदमल्पहोम- विषयमिति ज्ञेयम् ।
तदुक्तं वशिष्ठसंहितायाम्—-इषुमात्रं स्थण्डिलं वा सङ्क्षिप्ते होमकर्मणि ।
इति ।
क्रियासारे तु स्थण्डिले देशविशेषोऽप्युक्तः—-
होमोऽष्टदिक्षु प्राक्प्रह्वः(पुच्छः)प्रागुदक्प्रवणोऽथवा ।
उदक्प्रह्वः(पुच्छः)प्रदेशो वा स्थण्डिलस्य स्थलं स्मृतम् ॥ इति ।
पिङ्गलामते तु विशेषः—-होमे प्रशस्यते कुण्डं स्थण्डिलं वा हसन्तिका ।
इति ।
वायवीयसंहितायामपि—-अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थण्डिलेऽपि वा ।
वेद्यां वाऽथायसे पात्रे मृण्मये वा नवे शुभे ॥ इति ।
स्थण्डिलं वालुकाभिर्वा रक्तमृद्रजसापि वा ।
इति क्रियासारे विशेषः ।
होमे अग्निचक्रमपि विलोकनीयम् ।
तदुक्तमन्यत्र—-
नवकोष्ठं समालिख्याऽथेशनिरृतयोः क्रमात् ।
वारीन्द्रैन्द्रे वायुवह्न्योर्दक्षिणोत्तरयोर्न्यसेत् ॥
सूर्यादीन् मध्यकोष्ठे तु केतुं न्यस्य फलं दिशेत् ।
आदित्ये च भवेच्छोको बुधे धनसमागमः ॥
शुक्रस्थानेऽर्थलाभः स्यात् शनिर्हानिकरो भवेत् ।
चन्द्रे लाभं विजानीयाद् भौमे च वधबन्धनम् ॥
गुरुः स्यादर्थलाभाय राहुर्हानिकरो मतः ।
केतुना मृत्युमाप्नोति ह्यग्निचक्रे सदैव हि ॥
त्रयं त्रयञ्च गणयेत् सूर्यर्क्षाद्दिनभावधि ।
नित्ये नैमित्तिके दुर्गाहोमादौ न विचारयेत् ॥ इति ।
उक्तमुपसंहरन् वक्ष्यमाणमवतारयति एवमिति ।
स्थण्डिलस्यापि कुण्डानु- कल्पत्वेनोक्तत्वात् कुण्डानामेवोपसंहारः कृत इति ज्ञेयम् ॥ ९०-९१ ॥
प्रकल्पयेत् स्रुचं यागे वक्ष्यमाणेन वर्त्मना ।
श्रीपर्णी शिंशपाक्षीरशाखिष्वेकतम(मयं)गुरुः ॥ ९२ ॥
गृहीत्वा विभजेद्धस्तमात्रं षट्त्रिंशता पुनः ।
विंशत्यंशैर्भवेद्दण्डो वेदी तैरष्टभिर्भवेत् ॥ ९३ ॥
एकांशेन मितः कण्ठः सप्तभागमितं मुखम् ।
वेदीत्र्यंशेन विस्तारः कण्ठस्य परिकीत्तीतः ॥ ९४ ॥
स्रुचो लक्षणमाह प्रकल्पयेदिति ।
श्रीपर्णी काश्मरी ।
क्षीरशाखिनो न्यग्रोधादयः ।
तदुक्तं प्रयोगसारे—-न्यग्रोधोदुम्बराश्वत्थप्लक्षाः क्षीरमहीरुहाः ।
इति ।
वेदित्र्यंशेनेति पादोनत्र्यंशैः कण्ठान्तस्थो विष्कम्भ इत्यर्थः ।
स च तत्परिध्या- नयनेन ज्ञेयः ॥ ९२-९४ ॥
अग्रं कण्ठसमानं स्यान्मुखे मार्गं प्रकल्पयेत् ।
कनिष्ठाङ्गुलिमानेन सपीषो निर्गमाय च ॥ ९५ ॥
अग्रमिति ।
अग्रं मुखं कण्ठसमानं वेदीतृतीयांशविस्तारम् ।
सर्वेषां दैर्घ्यस्योक्तत्वात् ।
सपीषो निर्गमायेत्युक्तेः मार्गमिति कण्ठवेदीपरिधिभेदिनम् ।
तदुक्तं मन्त्रमुक्तावल्याम्—-
कण्ठाधः कारयेन्मार्गं विद्वानाज्यस्य निर्गमे ।
वेधञ्च मुखतः कुर्यात्तप्तलोहशलाकया ॥ इति ।
वशिष्ठसंहितायामपि—-
सुषिरं कण्ठदेशे स्याद् विशेद् यावत् कनीयसा ।
इति ॥ ९५ ॥
वेदिमध्ये विधातव्या भागेनैकेन कणीका ।
विदधीत बहिस्तस्या एकांशेनाऽभितोऽवटम् ॥ ९६ ॥
तस्य खात त्रिभिर्भागैर्वृत्तमर्द्धांशतो भवेत् ।
अंशेनैकेन परितो दलानि परिकल्पयेत् ।
मेखला मुखवेद्योः स्यात् परितोऽर्द्धांशमानतः ॥ ९७ ॥
उद्दिष्टवेद्या रचनाप्रकारमाह वेदीति ।
कणीका तु खातमध्ये उच्चा रक्षणीया ।
तस्या कणीकाया बहिः अभितः सर्वतः ।
तेनांशद्वयं सङ्गृहीतम् ।
अवटो गर्त्तः ।
त्रिभिर्भागैरङ्गुलद्वयेनेत्यर्थः ।
बहिरित्यवटस्य परित इतिवृत्तं परितः तेनांशद्वयं सङ्गृहीतम् ।
मुखवेद्योः परितः अर्द्धांशमानतो मेखला स्यादित्यन्वयः ।
तेनार्द्धांशेन मुखेऽपि मेखला कार्या ।
सा च वृत्ताकारा भवति ।
तत्र एकेन कणीका द्वाभ्यामवटः एकेन वृत्तम् अंशद्वयेन दलानि एकांशेन मेखला ।
अर्थादर्द्धभागेन परितः समचतुरस्र सीमाघटना कार्या ।
तदुक्तं मन्त्रमुक्तावल्याम्—-
अर्द्धाङ्गुला भवेच्छोभा समा वा चित्रितापि वा ।
इति ।
अत्राङ्गुलशब्दोऽंशवाची ।
एवमष्टापि भागा उपयुक्ताः ।
सीम्नः कोणेषु वल्यादिचित्रं कार्यमुपदेशात् ॥ ९६-९७ ॥
दण्डमूलाग्रयोः कुम्भौ गुणवेदाङ्गुलैः क्रमात् ।
गण्डीयुगं यमांशैः स्याद्दण्डस्यानाह ईरितः ॥ ९८ ॥
षड्भिरंशैः पृष्ठभागो वेद्याः कूर्माकृतिर्भवेत् ।
हंसस्य वा हस्तिनो वा पोत्रिणो वा मुखं लिखेत् ।
मुखस्य पृष्ठभागेऽस्याः सप्रोक्तं लक्षणं स्रुचः ॥ ९९ ॥
दण्डेति ।
अत्रांशप्रकरणात् अङ्गुलशब्दोऽंशवाची ।
तेन मूले त्र्यंशेन मूलभागमुखः अग्रे तु चतुरंशेन वेदिलग्नमुखः कार्यः ।
क्रमादित्यग्रेऽप्यन्वेति ।
तत्र मूलकुम्भलग्ना द्व्यंशा अन्यत्र लग्नापि द्व्यंशा गण्डी कङ्कणाकारा कार्या ।
युगशब्दस्य " युगं युग्मे कृतादिषु " इति कोशात् वाच्ये द्वित्वार्थे सम्भवति ।
लक्षणाङ्गी- करणे प्रमाणाभावात् ।
तदुक्तं सोमशम्भुना—-
मूले चाग्रे च दण्डस्य गण्डी कङ्कणवद्भवेत् ।
इति ।
एतेनैकादशांशा जाताः ।
मध्ये नवांशमितो धारणार्थं दण्डोऽवशिष्यते ।
तदुक्तं महाकपिल पञ्चरात्रे—-रसाङ्गुलै(ष्ठै)र्भवेद्दण्डः ।
इति ।
अत्र यद्यङ्गुलशब्देनाङ्गुलानि गृह्येरन् तदा सार्द्धास्त्रयोऽंशा दण्डेऽवशिष्यन्ते ।
ततो धारणार्थमवकाश एव न स्यात् ।
दण्डस्यानाहो विशालता षड्भिरंशैः कार्यः ।
वेद्याः पृष्ठभागः कूर्माकृतिरिति पृथगेव ।
ये तु दण्डस्यानाहो दैर्घ्यमीरितमिति पृथग् योजयन्ति षड्भिरंशैर्वेद्याः पृष्ठभागः कूर्माकृतिरिति च
योजयन्ति ते बभ्रमुरेव ।
आनाहशब्दस्य दैर्घ्यवाचित्वाभावात् दैर्घ्यस्य च प्रागुक्तत्वात् ।
तदुक्तं मन्त्रमुक्तावल्याम्—-
षडङ्गुलपरीणाहो दण्डमध्य उदाहृतः ।
इति ।
कूर्माकृतिरित्यत्र षड्भिरंशैरित्यस्यानर्थक्याच्च अस्याः स्रुचो मुखस्य पृष्ठभागे हंसादेर्मुखं
लिखेदिति सम्बन्धः ।
पोत्रिणो वराहस्य ॥ ९८-९९ ॥
स्रुचश्चतुवींशतिभिर्भागैरारचयेत् स्रुवम् ।
द्वाविंशत्या दण्डमानमंशैरेतस्य कीत्तीतम् ॥ १०० ॥
चतुभीरंशैरानाहः कर्षाज्यग्राहि तच्छिरः ।
अंशद्वयेन निखनेत् पङ्के मृगपदाकृति ॥ १०१ ॥
दण्डमूलाग्रयोर्गण्डी भवेत् कङ्कणभूषिता ।
स्रुवस्य विधिराख्यातः कीर्त्यन्ते मण्डलान्यथ ॥ १०२ ॥
स्रुवलक्षणमाह स्रुच इति ।
चतुभीरंशैरानाहो विस्तारः ।
एतस्येति सम्बन्धः ।
यन्मन्त्रमुक्तावल्याम् " दण्डो वेदाङ्गुलैर्भवेत् " इति ।
कर्षेति ।
कर्षलक्षणन्तु—-
माषो दशगुञ्जः स्यात् षोडशमाषो निगद्यते कर्षः ।
इति ।
अंशद्वयेन तच्छिरः कुर्यात् ।
तत् कर्षाज्यग्राहि यथा स्यात् एवं पङ्के मृगपदाकृति खनेदिति सम्बन्धः ।
कङ्कणभूषिता इत्युक्तेर्गण्डीशब्दोऽत्र घटपर्यायः ।
तदुक्तं मन्त्रमुक्तावल्याम्—-मूलाग्रयोः कारयेद् द्वौ कुम्भौ चातिमनोहरौ ।
इति ।
तौ च विशेषानभिधानात् प्राग्वत् कार्यौ ।
कङ्कणमपि प्राग्वत् कार्यम् ।
अन्यत्र विशेषः—-
तदलाभे पलाशस्य पर्णाभ्यां हूयते हविः ।
इति ।
अत्र पर्णाभ्यामिति मध्यमपर्णाभ्यामिति ज्ञेयम् ।
" मध्यमेन पर्णेन जुहोति " इति श्रुतेः ।
वायवीयसंहितायामपि—-
स्रुक्स्रुवौ तेजसौ ग्राह्यौ न कांस्यायससीसकौ ।
यज्ञदारुमयौ वापि तान्त्रिकैः (स्मार्त्तौ वा) शिल्पिसम्मतौ ॥
पर्णे वा ब्रह्मवृक्षादेरच्छिद्रे मध्य उत्थिते ।
इति ।
अन्यत्र तु—- पलाशपर्णाभावे तु पर्णैर्वा पिप्पलोद्भवैः ।
इति ।
संहितायामपि—-पलाशपत्रे निश्छिद्रे रुचिरे स्रुक्स्रुवौ मुने ।
विदध्याद्वाऽश्वत्थपत्रे सङ्क्षिप्ते होमकर्मणि ॥ इति ॥ १००-१०२ ॥
चतुरस्रे चतुःकोष्ठे कर्णसूत्रसमन्विते ।
चतुर्ष्वपि च कोष्ठेषु कोणसूत्रचतुष्टयम् ॥ १०३ ॥
मध्ये मध्ये यथा मत्स्या भवेयुः पातयेत्तथा ।
पूर्वापरायते द्वे द्वे मन्त्री याम्योत्तरायते ॥ १०४ ॥
पातयेत्तेषु मत्स्येषु समं सूत्रचतुष्टयम् ।
पूर्ववत् कोणकोष्ठेषु कर्णसूत्राणि पातयेत् ॥ १०५ ॥
तदुद्भूतेषु मत्स्येषु दद्यात् सूत्रचतुष्टयम् ।
ततः कोष्ठेषु मत्स्याः स्युस्तेषु सूत्राणि पातयेत् ॥ १०६ ॥
अथ वेदिकायां सर्वतोभद्रादिमण्डलरचनामाह चतुरस्र इति ।
वास्तुमण्डलोक्त- प्रकारेण कर्णसूत्रद्वयसहितं चतुष्कोणयुक्तं चतुरस्रं कुर्यादित्यर्थः ।
श्लोकद्वयेन षोडशकोष्ठोत्पादनप्रकारमाह चतुष्वीति ।
चतुर्षु कोष्ठेषु कोण- सूत्रचतुष्कं तथा दद्याद् यथा मध्ये मध्ये मत्स्या भवेयुः ।
मन्त्री तेषु मत्स्येषु द्वे प्रागपरायते द्वे याम्योत्तरायते इदं समं सूत्रचतुष्टयं पातयेदिति सम्बन्धः ।
एवं षोडशकोष्ठीसम्पन्ना भवति ।
चतुःषष्टिकोष्ठोत्पादनप्रकारं सार्द्धपद्येनाह पूर्ववदिति ।
इदं त्रिषु स्थानेष्वन्वेति।
तत्र प्रकारः ।
कोणगतचतुःकोष्ठेषु पूर्ववत् कर्णसूत्रचतुष्कं दत्त्वा तदुत्पन्नमत्स्य- चतुष्केषु पूर्ववत् द्वे प्रागग्रे
द्वे उदगग्रे सूत्रे इदं सूत्रचतुष्टयं दद्यात् ।
एतत् सूत्रचतुष्कपातोत्पन्नान्तरालकोष्ठमत्स्यचतुष्के पुनः द्वे प्रागग्रे द्वे उदगग्रे सूत्रे दद्यात् ।
एवं चतुःषष्टिकोष्ठानि सम्पद्यन्ते ॥ १०३-१०६ ॥
यावच्छतद्वयं मन्त्री षट्पञ्चाशत् पदान्यपि ।
तावत्तेनैव विधिना तत्र सूत्राणि पातयेत् ॥ १०७ ॥
तेनैव विधिना इत्यस्यायमर्थः ।
कोणकोष्ठचतुष्के पूर्ववत् कर्णसूत्रचतुष्टयं दत्त्वा तदुत्पन्नमत्स्यचतुष्के द्वे प्रागग्रे द्वे
उदगग्रे सूत्रे दद्यात् ।
तत एतत्सूत्र चतुष्कपातोत्पन्नान्तरालकोष्ठमत्स्येषु षट् प्रागग्राणि षडुदगग्राणि सूत्राणि दद्यात् ।
एवं द्वे शते षट्पञ्चाशत् कोष्ठानि सम्पद्यन्ते ॥ १०७ ॥
षट्त्रिंशता पदैर्मध्ये लिखेत् पद्मं स(सु)लक्षणम् ।
बहिः पङ्क्त्या भवेत् पीठं पङ्क्तियुग्मेन वीथिका ॥ १०८ ॥
द्वारशोभोपशोभास्त्रान् शिष्टाभ्यां परिकल्पयेत् ।
शास्त्रोक्तविधिना मन्त्री ततः पद्मं समालिखेत् ॥ १०९ ॥
कोष्ठानां विनियोगमाह षट्त्रिंशतेति ।
पद्मलिखनप्रकारमनन्तरमेव वक्ष्यति ।
बहिरिति त्रिषु स्थानेष्वन्वेति ।
बहिः पङ्क्त्या परितः अष्टाविंशतिकोष्ठात्मिकया वक्ष्यमाणरीत्या पीठं कुर्यात् ।
तद्बहिः पङ्क्तियुग्मेन परितः अशीतिकोष्ठात्मकेन वक्ष्यमाणरीत्या वीथिकां कुर्यात् ।
तद्बहिः परितः शिष्टाभ्यां पङ्क्तिभ्यां द्वादशोत्तरशतकोष्ठाभ्यां द्वाराणि शोभा उपशोभा अस्त्रान् कोणान्
वक्ष्यमाणरीत्या कुर्यात् ॥ १०८-१०९ ॥
पद्मक्षेत्रस्य सन्त्यज्य द्वादशांशं बहिः सुधीः ।
तन्मध्यं विभजेद् वृत्तस्त्रिभिः समविभागतः ॥ ११० ॥
आद्यं स्यात् कणीकास्थानं केशराणां द्वितीयकम् ।
तृतीयं तत्र(पद्म)पत्राणामुक्तांशेन दलाग्रकम् ॥ १११ ॥
पद्मकरणप्रकारमाह पद्मेति ।
तत्र षट्त्रिंशत्पदात्मकं पद्मक्षेत्रं तद्दिक् सूत्रद्वयेन कर्णसूत्रद्वयेन चाष्टधा भेदितं वर्त्तते ।
तान्येव सूत्राणि पत्रमध्यसूत्राणि ।
तत्र प्रकारः ।
पद्मक्षेत्रायामं द्वादशधा विभज्य एकांशं सर्वतो बहिस्त्यजेत् ।
ततो दशभागान् षोढा विभज्य मध्ये सूत्रादिं संस्थाप्य अंशद्वयेनैकं वृत्तं तदुपर्यंशद्वयेनापरं
तदुपर्यंश- द्वयेनान्यदिति वृत्तत्रयं कुर्यात् ।
आद्यमित्याद्युक्तिस्तु वक्ष्यमाणाङ्गावरणादीनां स्थान- सूचनायेत्यवधेयम् ।
मुक्तांशेनेति द्वादशांशेन तत्र वृत्तमग्रे वक्ष्यति ॥ ११०-१११ ॥
बाह्यवृत्तान्तरालस्य मानं यद् विधिना सुधीः ।
निधाय केशराग्रेषु परितोऽर्द्धनिशाकरान् ॥ ११२ ॥
लिखित्वा सन्न्धिसंस्थानि तत्र सूत्राणि पातयेत् ॥ ११३ ॥
बाह्येति ।
बाह्यं यत् पत्रवृत्तं तस्य यदन्तरालं तस्य मानेन सुधीः केशराग्रेषु केशरवृत्ताग्रे निधाय सूत्रादिमिति शेषः ।
विधिना परित उभयतः पद्ममध्यसूत्राणामिति शेषः ।
अर्द्धनिशाकरान् लिखित्वा सन्धिसंस्थानि अर्द्धनिशाकर सन्धिसंस्थानि चत्वारि सूत्राणि तत्र
पातयेदिति सम्बन्धः ।
मानं यद्विधिनेति पाठे बाह्यवृत्तान्तरालस्य यन्मानं तेन विधिना तेन मानेनेत्यर्थः ।
तत्रायं विधिः ।
तत्र वृत्तान्तरालमितसूत्रं केशरवृत्तदिक्सूत्रसम्पाते
संस्थाप्य तद्दिक्सूत्रोभयतः पत्रवृत्तस्पशीकेशरवृत्तलग्नान्त- द्वयम् अर्द्धचन्द्रं लिखेत् ।
एवं चतुर्षु दिक्सूत्रेषु चतुर्षु कोणसूत्रेषु च कृते अष्टार्द्धचन्द्रा जायन्ते ।
एतच्च केशराग्रेष्विति बहुवचनादेव लभ्यते ।
यतोऽष्टपत्रमध्ये अष्टौ केशरस्थानानि ततोऽष्टदलसिद्धिरिति ।
ततोऽर्द्धचन्द्रयोः परस्परसम्पातरूपाष्टसन्धिषु सम्मुखीनयोर्द्धयोर्द्धयोरेकैकं सूत्रं दद्यात् ।
एवमष्टपत्राणामपि अष्टौ सीमारेखा उत्पद्यन्ते।
सन्ध्यधोवत्ती सीमारेखोभयतः स्थितोऽर्द्धनिशाकरांशो मार्जनीयः ।
तदुक्तं—-
दलप्रसिद्ध्यै दलमध्यसन्धौ निधाय सूत्रन्तु दलान्तरालम् ।
दलान्तरालोभयसद्भ्रमोत्थैः शशाङ्कखण्डैस्तु दलं प्रसिद्ध्येत् ॥ इति ।
अन्यत्रापि—- उक्तक्षेत्रस्य दिक्सूत्रे संस्थाप्यान्यद्विमृज्य तु ।
प्रसार्य कोणसूत्रे द्वे वृत्तदिक्मत्स्यमानतः ॥
निधाय केशराग्रेषु दलसन्धींस्तु लाञ्छयेत् ।
पातयित्वा तु सूत्राणि तत्र पत्राष्टकं लिखेत् ॥ इति ॥ ११२-११३॥
दलाग्राणाञ्च यन्मानं तन्मानं वृत्तमालिखेत् ।
तदन्तराले तन्मध्य सूत्रस्योभयतः सुधीः ।
आलिखेद्बाह्यहस्तेन दलाग्राणि समन्ततः ॥ ११४ ॥
चतुर्थं वृत्तमाह दलेति ।
दलाग्राणां यन्मानं बहिः त्यक्त्वा द्वादशांशरूपं तन्मानं चतुर्थं वृत्तं कुर्यात् ।
दलाग्रकरणप्रकारमाह तदिति ।
तदन्तराले कृतदलाग्रवृत्तान्तराले तन्मध्यसूत्रस्य पत्रमध्यसूत्रस्योभयतः बाह्यहस्तेन समन्ततो
दिक्षु विदिक्ष्वपि दलाग्राणि सुधीरालिखेदिति सम्बन्धः ।
तत्र प्रकारः ।
चतुर्थं वृतान्तराले पत्रमध्यसूत्रस्योभयतः सन्धिसूत्रस्याग्रे सूत्रादिं निधाय मध्यवृत्ततः
दलाग्रवृत्त पत्रमध्यसूत्रसम्पातपर्यन्तं सूत्रद्वयं दद्यात् ।
तत्र सूत्रप्रान्त एकः पत्रस्पर्शी द्वितीयो दलाग्रमध्यसूत्रसम्पातस्पर्शी ।
सूत्रद्वयाग्रभागश्च परस्पराभिमुखो यथा स्यादित्येतदर्थं बाह्यहस्तेनेत्युक्तम् ।
ततः कणीकावृत्तं त्यक्त्वा बाह्यस्थत्रीणि वृत्तानि पद्मपत्रमध्य रेखाश्च सर्वं सम्यक् मार्जयेत्
यथाऽष्टदलं पद्मं दृष्टिमनोहरं दृश्यते ॥ ११४ ॥
दलमूलेषु युगशः केशराणि प्रकल्पयेत् ।
एतत् साधारणं प्रोक्तं पङ्कजं तन्त्रवेदिभिः ॥ ११५ ॥
केशरप्रकारमाह दलेति ।
कणीकावृत्तस्पर्शी सन्धिगतपत्रसीमासूत्रान्तराले पत्रमध्यसूत्रस्योभयतः एकैकस्मिन् पत्रे द्वौ द्वौ
केशरौ कणीकावृत्तलग्नमूलौ केशरवृत्तलग्नाग्रौ अग्रे किञ्चित् स्थूलौ परस्परसम्मुखौ कुर्यात् ।
उपसंहरति एतदिति ।
यत्र कुत्रापि पङ्कजं कुर्यादिति वक्ष्यति ।
तत्रायं प्रकारो ज्ञेयः ॥ ११५ ॥
पदानि त्रीणि पादार्थं पीठकोणेषु मार्जयेत् ।
अवशिष्टैः पदैवीद्वान् गात्राणि परिकल्पयेत् ॥ ११६ ॥
पदानि वीथिसंस्थानि मार्जयेत् पङ्क्त्यभेदतः ।
दिक्षु द्वाराणि रचयेद् द्विचतुःकोष्ठकैस्ततः ॥ ११७ ॥
पीठं कुर्यादिति यदुक्तं तत्प्रकारमाह पदानीति ।
पीठार्थं स्थापितपङ्क्तौ
एकैकं कोणकोष्ठं तदुभयपार्श्ववत्ती कोष्ठद्वयञ्च एवं च त्रीणि कोष्ठानि पादार्थं मार्जयेत् ।
अवशिष्टैश्चतुभीः पदैः पीठगात्राणि कल्पयेत् ।
वीथ्यर्थं स्थापितपङ्क्तिद्वय- स्यैकाकारेण मार्जनं कार्यम् ।
द्वाराण्याह दिक्ष्विति ।
द्वाराद्यर्थं परितः स्थापित- पङ्क्तिद्वयमध्ये चतुदीक्षु द्वारचतुष्टयार्थम् आन्तरपङ्क्तिस्थं
मध्यसूत्रोभयपार्श्ववत्ती कोष्ठ- द्वयं तथा बाह्यपङ्क्तिस्थं मध्यसूत्रपार्श्ववत्ती कोष्ठचतुष्टयं
द्वारार्थं मार्जयेत् ।
एवं चत्वारि द्वाराणि स्युः ॥ ११६-११७ ॥
पदैस्त्रिभिरथैकेन शोभाः स्युर्द्वारपार्श्वयोः ।
उपशोभाः स्युरेकेन त्रिभिः कोष्ठैरनन्तरम् ।
अवशिष्टैः पदैः षड्भिः कोणानां स्याच्चतुष्टयम् ॥ ११८॥
शोभा आह पदैरिति ।
अन्तः पङ्क्तिस्थानि द्वारपार्श्वद्वयगतानि त्रीणि त्रीणि
कोष्ठानि बाह्यपङ्क्तिस्थं द्वारपार्श्वद्वयगमेकैकं कोष्ठं मार्जयेत् ।
एवमष्टौ शोभाः स्युः।
उपशोभा इति ।
अन्तः पङ्क्तिस्थम् उभयतः शोभालग्नमेकैकं कोष्ठं त्रीणि त्रीणि बाह्यपङ्क्तिकोष्ठानि मार्जयेत् ।
एवमष्टावुपशोभाः स्युः ।
अवशिष्टैरिति ।
उभयत उपशोभालग्नान्यन्तः पङ्क्तिस्थानि त्रीणि कोष्ठानि बाह्यपङ्क्तिस्थानि च त्रीणि कोष्ठानि मार्जयेत् ।
एवं चत्वारः कोणाः स्युः ॥ ११८ ॥
रञ्जयेत् पञ्चभिर्वर्णैर्मण्डलं तन्मनोहरम् ।
पीतं हरिद्राचूर्णं स्यात् सितं तण्डुलसम्भवम् ॥ ११९ ॥
कुसुम्भचूर्णमरुणं कृष्णं दग्धपुलाकजम् ।
विल्वादिपत्रजं श्याममित्युक्तं वर्णपञ्चकम् ॥ १२० ॥
अङ्गुलोत्सेधविस्ताराः सीमारेखाः सिताः शुभाः।
कणीकां पीतवर्णेन केशराण्यरुणेन च ॥ १२१ ॥
शुक्लवर्णेन पत्राणि तत्सन्धिं श्यामलेन च ।
रजसा रञ्जयेन्मन्त्री यद्वा पीतैव कणीका ॥ १२२ ॥
केशराः पीतरक्ताः स्युररुणानि दलान्यपि ।
सन्धयः कृष्ण(शुक्ल)वर्णाः स्युः पीतेनाऽप्यसितेन वा ॥१२३॥
रञ्जयेत् पीठगर्भाणि पादाः स्युररुणप्रभाः ।
गात्राणि तस्य शुक्लानि वीथीषु च चतसृषु ॥ १२४ ॥
आलिखेत् कल्पलतिका दलपुष्पफलान्विताः ।
वर्णैर्नानाविधैश्चित्रैः सर्वदृष्टिमनोहराः ॥ १२५ ॥
द्वाराणि श्वेतवर्णानि शोभा रक्ताः समीरिताः ।
उपशोभाः पीतवर्णाः कोणान्यसितभानि च ॥ १२६ ॥
मण्डलरञ्जनार्थं पञ्चवर्णानाह रञ्जयेदिति ।
कुसुम्भेति ।
अन्यत्रारुणान्तरमुक्तम् ।
तथा दोषारजः क्षारसंयुक्तं रक्तमुच्यते ।
इति ।
पुलाकजं तुच्छधान्यजम् ।
" पुलाकस्तुच्छधान्यं स्यात् " इति त्रिकाण्डे ।
तत्प्रक्रिया यथा ।
तुच्छधान्यस्यार्द्धदाहावसरे दुग्धादिना सिक्त्वा ततो वस्त्रगालितं चूर्णं कुर्यात् ।
आदिशब्देनाऽन्यद्धरितपत्रादि ।
तदुक्तं प्रयोगसारे—-
श्यामं श्यामच्छदोद्भूतं रजः प्रोक्तं स्वकर्मसु ।
इति ।
श्यामशब्देनात्र हरिद्वर्णे गृह्यते ।
महाकपिलपञ्चरात्रे तु अस्यावश्यकतोक्ता—-
पीतं क्षितिस्तु विज्ञेया शुक्लमापः प्रकीत्तीताः ।
तेजो वै रक्तवर्णं स्याच्छ्यामं वायुः प्रकीत्तीतः ॥
आकाशं कृष्णवर्णञ्च पञ्चमन्तु महामुने ।
सितेऽधिदेवता रुद्रो रक्ते ब्रह्माऽधिदेवता ॥
पीतेऽधिदेवता विष्णुः कृष्णे चैवाऽच्युतः स्मृतः ।
श्यामेऽधिदेवता नागः समाख्यातो मयाऽनघ ॥
शुक्लं ग्रहाय दोहन्ति रक्तं क्रूरगणोद्भवम् ।
कृष्णं सर्वासुरोत्साहं नीलं वैनायकीन्तथा ॥
पैशाचीं राक्षसीञ्चैव निहन्ति हरितं रजः ।
तस्माद्धोमेऽभिषेके च यागे चैव विशेषतः ।
वर्त्तयेन्मण्डलं तैस्तु देवसन्तुष्टिकारकम् ॥ इति ।
तन्त्रान्तरे तु विशेषः—-
शक्तस्तु वाञ्छेद् यदि सिद्धिमुग्रां तद्वर्णरत्नैरिह मण्डलानि ।
आभूषयेन्मौक्तिक पुष्परागमाणिक्यनीलैर्हरितैश्च रत्नैः ॥ इति ।
सीमारेखा इति सर्वाः ।
पूर्वं श्वेतकमलमुक्त्वा रक्तकमलमाह यद्वेति ।
विष्णुशाक्तशैवदीक्षादौ तु व्यवस्थितविकल्पो ज्ञेयः ।
पीतैवेति द्वितीयपक्षेऽपि ।
पक्षान्तरं समाप्य प्रकृतमाह पीतेनेति ।
स्वेच्छया विकल्पोऽयम् ।
पीठगर्भाणीति कमलक्षेत्रकोणान् ।
अत्र गर्भ एषामस्तीति गर्भं कोणस्थानम् ।
अर्शादित्वादच् ।
ततो नपुंसकता ।
तस्येति पीठस्य कल्पलतिकालेखनमुपदेशतो ज्ञेयम् ॥ ११९-१२६ ॥
तिस्रो रेखा बहिः कुर्यात् सितरक्तासिताः क्रमात् ।
मण्डलं सर्वतोभद्रमेतत् साधारणं स्मृत ॥ १२७ ॥
बहिरिति सर्वबाह्यकृतसीमारेखाया बाह्ये इत्यर्थः ।
वशिष्ठसंहितायान्तु विशेषः—-
पीतं पूर्वे सितं देयं पश्चिमेऽप्युत्तरे तथा ।
रक्तन्तु दक्षिणे कृष्णं पाटलं वह्निसंस्थितम् ॥
नैरृत्ये नीलवर्णन्तु वायव्ये धूम्रवर्णकम् ।
ईशे गौरं विनिदीष्टमष्टपत्रेष्वयं क्रमः ॥ इति ॥ १२७ ॥
चतुरस्रां भुवं भित्वा दिग्भ्यो द्वादशधा सुधीः ।
पातयेत्तत्र सूत्राणि कोष्ठानां दृश्यते शतम् ॥ १२८ ॥
चतुश्चत्वारिंशदाढ्यं पश्चात् षट्त्रिंशताऽम्बुजम् ।
कोष्ठैः प्रकल्पयेत् पीठं पङ्क्तयां नैवात्र वीथिकाः॥१२९॥
द्वारशोभे यथापूर्वमुपशोभा न दृश्यते ।
अवशिष्टैः पदैः कुर्यात् षड्भिः कोणानि तन्त्रवित् ।
विदध्यात् पूर्ववच्छेषमेवं वा मण्डलं शुभम् ॥ १३० ॥
मण्डलान्तरमाह चतुरस्रामिति ।
अत्र मत्स्योत्पादनप्रकारासम्भवात् दिग्भ्यो द्वादशधेत्युक्तिः ।
तत्र चतुदीक्षु द्वादशधा भूमिं विभज्य तत्र सूत्राणि पातयेदिति ।
तत्र प्रकारः ।
पूर्ववत् षोडशकोष्ठानि कृत्वा तेष्वेकं कोष्ठं समांशेन त्रिधा विभज्य तच्चिह्नद्वये प्रागग्रं
सूत्रद्वयं दद्यात् ।
एतत्सूत्रद्वयसम्पातोत्पन्नप्रतिकोष्ठमत्स्यद्वन्द्वेषु प्रागग्रे द्वे द्वे एवं प्रागग्रां षट्सूत्रीं दद्यात् ।
एवमेकशतचतुश्चत्वारिंशत् कोष्ठानि जायन्ते ।
कोष्ठैरिति पूर्वत्रान्वेति ।
अम्बुजमुक्तप्रकारेणैव ।
पङ्क्त्यां पीठं पूर्ववदेव ।
अवशिष्टै- रिति ।
तत्रैकं पदमन्तःपङ्क्तिस्थं पञ्चकोष्ठानि बाह्यपङ्क्तिस्थानि ।
एवं षड्भिरित्यर्थः ।
शेषमिति रञ्जनबाह्यरेखात्रयकरणादि ॥ १२८-१३० ॥
चतुरस्रे चतुःषष्टिपदान्यारचयेत् सुधीः ।
पदैश्चतुभीः पद्मं स्यान्मध्ये तत्परितः पुनः ॥ १३१ ॥
वीथीश्चतस्रः कुर्वीत मण्डलान्तावसानिकाः ।
दिग्गतेषु चतुष्केषु पङ्कजानि समालिखेत् ॥ १३२ ॥
विदिग्गतचतुष्काणि भित्वा षोडशधा सुधीः ।
मार्जयेत् स्वस्तिकाकारं श्वेतपीतारुणासितैः ॥ १३३ ॥
रजोभिः पूरयेत्तानि स्वस्तिकानि शिवादितः ।
प्राक् प्रोक्तेनैव मार्गेण शेषमन्यत् समापयेत् ।
नवनाभमिदं प्रोक्तं मण्डलं सर्वसिद्धिदम् ॥ १३४ ॥
नवनाभमण्डलमाह चतुरस्र इति ।
तत्र पूर्ववत् चतुःषष्टिकोष्ठानि कृत्वा तत्र मध्यचतुष्के पूर्ववत् पद्मम् ।
ततश्चतुदीक्षु अष्टाष्टकोष्ठिकाश्चतस्त्रो वीथीः कुर्यात् ।
एवमष्टदिक्षु चतुःकोष्ठाष्टकमवशिष्यते ।
तद्भित्वा षोडशधेति पूर्ववदेव मार्जयेदिति ।
मार्जनप्रकारस्तु षोडशधेति कोष्ठेषु मध्यचतुष्कस्यैकैकं कोष्ठं परस्परविरुद्धैकैक- दिशि
सम्मार्ज्य तत्संलग्नबाह्यवीथ्याः कोणकोष्ठादिकोष्ठत्रयं तद्दिक्स्थमेव मार्जयेत् ।
एवमुपशोभाकारवच्चत्वारि चत्वारि कोष्ठानि माजीतानि स्वस्तिका- काराणि सम्पद्यन्ते ।
केचित्त्वन्यथा मार्जनमाहुः ।
मध्यचतुष्कस्य पूर्वदिग्गतकोष्ठद्वयं पूर्वदिशि सम्मार्ज्य तल्लग्नं बाह्यवीथीस्थं दक्षिणदिक्पर्यन्तं
कोष्ठद्वयं मार्जयेत् ।
एवं दक्षिणदिग्गतकोष्ठद्वयं दक्षिणदिशि सम्मार्ज्य तल्लग्नं बाह्यवीथीस्थं पश्चिमदिक्पर्यन्तं
कोष्ठद्वयं मार्जयेत् ।
एवं पश्चिमकोष्ठद्वयं पश्चिमदिशि सम्मार्ज्य तल्लग्नं बाह्यवीथीस्थम् उत्तरान्तं कोष्ठद्वयं मार्जयेत् ।
तत उत्तरस्थं कोष्ठद्वयम् उत्तरदिशि सम्मार्ज्य तल्लग्नं बाह्यवीथीस्थं पूर्वदिक्पर्यन्तं
कोष्ठद्वयं मार्जयेत् ।
पक्षद्वयमपि साम्प्रदायिकमेव ।
शिवादित ईशानादि वायव्यान्तम् ।
शेषमिति पद्मरञ्जनादि वीथीषु कल्पलतिकालिखनं रेखात्रयञ्च ॥ १३१-१३४ ॥
पञ्चाब्जं मण्डलं प्रोक्तमेतत् स्वस्तिकवजीतम् ।
दीक्षायां देवपूजार्थं मण्डलानां चतुष्टयम् ।
सर्वतन्त्रानुसारेण प्रोक्तं सर्वसमृद्धिदम् ॥ १३५ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
तृतीयः पटलः समाप्तः ॥ ३ ॥
स्वस्तिकवजीतमिति स्वस्तिकचतुष्कं मार्जयेदित्यर्थः ।
चतुष्टयमिति ।
एषां विषय उक्तः प्रयोगसारे नवनाभमुक्त्वा—-
कलशानां नवानान्तु प्रोक्तमेतत् परं पदम् ।
तथा प्राक् प्रस्तुते स्थाने पद्मं सङ्कल्प्य पूर्ववत् ॥
वीथीस्तद्वच्च संयोज्य चतुष्टयचतुष्टये ।
स्वस्तिकान्यालिखेद्दिक्षु कोणकोष्ठानि मार्जयेत् ॥
पञ्चानां कलशानाञ्च पदं स्यादेतदुत्तमम् ।
चतुरस्रोदितस्थाने तथा पद्मं समालिखेत् ॥
कलशस्यैकदेव(तदेक)स्य प्रोक्तं साधारणं पदम् ।
इति ॥ १३५ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां तृतीयः पटलः ॥ ३ ॥