अथ द्वितीयः पटलः
ततो व्यक्तिं प्रवक्ष्यामि वर्णानां वदने नॄणाम् ।
प्रेरिता मरुता नित्यं सुषुम्णारन्ध्रनिर्गताः ॥ १ ॥
कण्ठादिकरणैर्वर्णाः क्रमादाविर्भवन्ति ते ।
एषु स्वराः स्मृताः सौम्याः स्पर्शाः सौराः शुभोदयाः ॥ २ ॥
आग्नेया व्यापकाः सर्वे सोमसूर्याग्निदेवताः ।
स्वराः षोडश विख्याताः स्पर्शास्ते पञ्चविंशतिः ॥ ३ ॥
एवमर्थसृष्टिं शब्दसृष्टिञ्च मध्यमान्तामभिधाय उक्तानुवादपूर्वकं वैखरीसृष्टिं वक्तुं
प्रतिजानीते तत इति ।
प्रेरिता मरुतेति ।
मरुता क्रमात् प्रेरिताः पश्यन्तीस्थानं प्रापिताः उत्पत्त्युन्मुखीकृता इति यावत् ।
अतएव सुषुम्णारन्ध्रनिर्गता वर्णाः कण्ठादि- करणैः क्रमादाविर्भवन्ति इति सम्बन्धः ।
सुषुम्णारन्ध्राण्यनाहतविशुद्धयोः ।
एकदोच्चारणाभावात् क्रमादित्युक्तम् ।
तदुक्तं भगवता भर्त्तृहरिणा—-
आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।
मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥ इति ।
कण्ठादीत्यादिशब्देन ताल्वादिपरिग्रहः ।
तदुक्तम्—-
अष्टौ स्थानानि वर्णानामुरःकण्ठशिरस्तथा ।
जिह्वामूलञ्च दन्ताश्च नासिकौष्ठञ्च तालु च ॥ (वा० इति ।
यत् सर्ववर्णानां सोमसूर्याग्निरूपत्वमुक्तं तस्यैवाग्रे प्रयोगार्थम् अष्टत्रिंश- त्कलादिव्यवहाराय च
व्यवस्थया त्रैविध्यमाह एष्विति ।
एषु वर्णेषु स्वराः अकारादिविसर्गान्ताः स्पर्शाः ककारादिमकारान्ताः व्यापकाः यकारादिक्षकारान्ताः।
शुभोदयाः सर्वे एवं सोमसूर्याग्निदेवताः ।
तत्र स्वराणामुदयमनन्तरमेव वक्ष्यति ।
अन्येषामुदयस्तु अन्तिमपटले वक्ष्यमाणभूतोदयेनेति ज्ञेयम् ।
" भूतकलाभिस्तदुदयः " इति आचार्येक्तेः ।
तदत्रैव भूतवर्णकथनेन सूचयिष्यति " विना स्वरैः " (शा० २।८) इति वक्ष्यमाणप्रकारेण ।
स्वरादयः कियन्त इत्यपेक्षायामाह स्वरा इति ।
विख्याताः विशेषेण ख्याताः स्वतन्त्रा इत्यर्थः ।
यदाहुः—- " तेषु स्वराः स्वतन्त्राः स्युः " इति ॥ १-३ ॥
तत्त्वात्मानः स्मृताः स्पर्शा मकारः पुरुषो यतः ।
व्यापका दश ते कामधनधर्मप्रदायिनः ॥ ४ ॥
तत्त्वात्मान इति ।
प्रकृत्यादिचतुवींशतितत्त्वमया इति स्वरूपकथनम् ।
ननु तेषां पञ्चविंशतिसङ्ख्यकत्वात् कथं चतुवींशतितत्त्वमयत्वमत आह मकारः पुरुषो यत इति।
यतः कारणान्मकारः पुरुषः परमात्मा च विश्वरूप इत्यर्थः ।
भादयः प्रकृति- बुद्ध्याहङ्कारमनांसि तन्मात्राः श्रोत्रवागाकाशादयः इतरा वर्णाः ।
इदञ्च शक्तितत्त्वादि- न्यासेषूपयोगीत्युक्तं द्विद्विवर्णक्रमोक्तद्वादशसूर्यकलासु अन्त्यत्याग इत्यपि सूचितम् ।
एवं ते चतुवींशतितत्त्वमयाः ।
" अन्त्य आत्मा रविः स्मृतः " इत्याचार्येक्तेः ।
अत एव सर्वबीजेषु बिन्दुरूपमकारयोगात् पुरुषैक्यं तेषामिति मन्तव्यम् ।
मकारस्य बिन्दु- रूपत्वात् " बिन्दुः पुमान् रविः प्रोक्तः " इति वक्ष्यमाणत्वाच्च ।
स्वावयवेषु ककारादिषु अनुगतत्वात् सूर्यरूपबिन्द्वात्मना मकारेण स्पृश्यमानत्वात् स्पर्शाः अतएव सौराः ।
यद्वा एवं योजना ।
मकारः पुरुषः अन्ये स्पर्शास्तत्त्वात्मानः ।
यत इत्यग्रिमेन सम्बध्यते ।
यतः यकाराद्दश व्यापकाः ।
एषां दोषदूष्येषु वर्त्तमानत्वाद् व्यापकत्वम् ।
तत्राग्नीनामपि सत्त्वादाग्नेया इत्यपि नृसिंहाख्यकालाग्निरूपक्षकारान्तत्वेन वा आग्नेया इत्यपि द्रष्टव्यम् ।
ते कामधनधर्मप्रदा इति क्रमेण त्रयाणां फलम् ।
अतएवाग्रे " कामदायिन्यः स्वरजाः " इत्यादि वक्ष्यति ॥ ४ ॥
ह्रस्वः स्वरेषु पूर्वेक्तः परो दीर्घः क्रमादिमे ।
शिवशक्तिमयास्तेस्युबीन्दुसर्गावसानिकाः ॥ ५ ॥
स्वराणामेव पृथग्व्यक्तिं दर्शयन् तेषामष्टमूत्तीतच्छक्तिवाचकत्वाय अग्रे व्यवहाराय च
प्रकारद्वयमाह ह्रस्व इति ।
एकारौकारयोः दीर्घत्वेऽप्यत्र पारिभाषिकं ह्रस्वत्वम् ।
इमे ह्रस्वदीर्घाः क्रमात् शिवशक्तिमयाः ।
ह्रस्वाः अ इ उ ऋ ॡ ए औ एते शिवमयाः पुंरूपाश्च इत्यर्थः ।
बिन्दुसर्गावजपायां पुरुषप्रकृतिरूपौ पृथग्भूतावेता- विति विवक्षन्नाह ते स्युः बिन्दुसर्गावसानिका इति ।
ते ह्रस्वाः अन्ते बिन्दुयुक्ताः दीर्घा अन्ते विसर्गयुक्ताः ह्रस्वेषु बिन्दुरष्टमो दीर्घेषु विसर्गेऽष्टम इत्यर्थः ॥ ५ ॥
बिन्दुः पुमान् रविः प्रोक्तः सर्गः शक्तिर्निशाकरः ।
स्वराणां मध्यमं यच्च तच्चतुष्कं नपुंसकम् ॥ ६ ॥
अत एवाह बिन्दुः पुमानिति ।
निशाकर इत्युक्तिरितरस्वराणां तत्कलारूप- तिथ्यात्मकत्वात् ।
शशिरूपं विसर्जनीयं स्वकीयषोडशसङ्ख्यापूत्तीकारणतया ।
स्वरन्ते कथयन्तीति स्वराः अतएव सौम्याः ।
अयमेव पक्षो ग्रन्थकृदभिमतः ।
यतो मातृका- षडङ्गकथनाद्यवसरे अक्लीबह्रस्वदीर्घान्तर्गतैः षवर्गकैः क्रमात् इत्यादिव्यवहार- दर्शनात् ।
कश्चित्तु स्वरेषु पूर्वेक्तः अ इ उ ऋ ऌ एकमात्रो ह्रस्वः, परे आ ई ऊ ॠ ॡ ए ए ओ औ बिन्दुसर्गावसानिकाः
संयोगपरश्च दीर्घ इति मन्यते स केवलं नमस्य एव ।
नपुंसकमिति नपुंसकत्वं धर्मः स एषामस्तीति ।
अर्शआदित्वादच् ॥ ६ ॥
पिङ्गलायां स्थिता ह्रस्वा इडायां सङ्गता परे ।
सुषुम्णामध्यगा ज्ञेयाश्चत्वारो ये नपुंसकाः ॥ ७ ॥
स्वराणामुदयमाह पिङ्गलायामिति ।
ह्रस्वाः अ इ उ ए ओ ।
परे दीर्घाः आ ई ऊ ए औ बिन्दुसर्गयोः रविर्निशाकर इत्यनेनैवोदयस्योक्तत्वात् ।
एतत्प्रयोजनमुक्तं गौतमेन—-
षट्स्वरोदयजे कर्म प्रथितं मारणादिकम् ।
फलदं क्रूरकर्माशु ह्रस्वै र्दीर्घेदयेऽन्यथा ॥ इति ।
सुषुम्णेति ।
तत्र प्रकारः उत्तरभागाद्दक्षिणभागप्रवेशारम्भसमये कञ्चित्काल- मुभयत्र वहति देहवायुः ।
स दक्षिणायनप्रारम्भसमयः ।
तदा ऋ ऌ कारात्मकं ह्रस्वद्वन्द्वमुदेति ।
एवं दक्षिणादुत्तरभागप्रवेशप्रारम्भसमये कञ्चित्कालमुभयत्र वहति देहवायुः ।
स उत्तरायणसङ्क्रमकालः ।
तदा ॠॡ दीर्घद्वन्द्वमुदेति ।
यत् प्रयोगसारे—-
स्वरं सप्तममारभ्य चत्वारो ये नपुंसकाः ।
ते सुषुम्णाश्रिते प्राणे प्रोद्यन्त्ययनसङ्क्रमे ॥ इति ।
अन्ये त्वन्यथा मन्यन्ते ह्रस्वाः अ इ उ ऋ ऌ परे दीर्घाः आ ई ऊ ॠ ॡ इति।
तदुक्तं प्रयोगसारे—-
दक्षिणस्थो यदा प्राणस्तदा स्याद्दक्षिणायनम् ।
पञ्चभूतात्मकास्तत्र ह्रस्वाः पञ्चोदयन्ति ते ॥
वामाश्रितो यदा प्राणस्तदा स्यादुत्तरायणम् ।
पञ्चभूतास्तदा दीर्घास्तत्रोद्यन्ति पृथक् पृथक् ॥ इति ।
अन्यत्रापि—- प्राणे दक्षिणनाडीस्थे परा चैव तु रेचिका ।
इन्धिकाख्या च विद्याख्या निवृत्तिश्च यथा क्रमात् ॥
प्रतिष्ठा शान्तिसञ्ज्ञा च दीपिका मोचिका तथा ।
सूक्ष्मा चेति स्वराः प्राणे प्रोद्यन्तीडाश्रये प्रिये ॥ इति ।
एषां मते यद्यपि एकारादीनामुदयो नोक्तः स्यात् तथापि तेषां सन्ध्यक्षरत्वात् तदुदयेनैवोदयो ज्ञेयः ।
पद्मपादाचार्यास्तु—- " बाह्यघटिकापञ्चकेन आध्यात्मिकमयनम् ।
उक्तविधिविलम्बस्याप्यनुपपत्तौ श्वासोच्छ्वासानां कालावयवसम्पादनं द्रष्टव्यम् ।
तत्रा- होरात्रात्मकौ वा पक्षात्मकौ वा अयनात्मकौ च इच्छावशेन ज्ञातव्यौ " इति ॥ ७॥
विना स्वरैस्तु नान्येषां जायते व्यक्तिरञ्जसा ।
शिवशक्तिमयान् प्राहुस्तस्माद् वर्णान् मनीषिणः ॥ ८ ॥
व्यञ्चनशब्दव्युत्पत्तिं दर्शयन् तेषामपि शिवशक्तिमयत्वमाह विनेति ।
स्वरैवीना अन्येषां ककारादीनां व्यक्तिः अञ्जसा प्राकट्येन न भवति ।
तस्मात् सर्वे वर्णाः शिवशक्तिमयाः ।
व्यक्तिरञ्जसेति व्युत्पत्तिर्दशीता ।
यदाहुः—- " तैर्व्यङ्गाद्व्यञ्जनं भवेत् " इति ।
एतदुक्तं भवति ।
स्वराणां पूर्वं शिवशक्तिमयत्वमुक्तम् ।
हलाञ्च विना स्वरैरुच्चारणस्याशक्यत्वात् स्वरसहितोच्चारणे शिवशक्तिमयत्वमिति ।
एवं स्वरोदयेनैव तत्प्रधानत्वात् व्यञ्जनानामुदयो ज्ञेयः ।
उक्तञ्च मन्त्रमुक्तावल्याम्—- " तत्प्रधानाश्च मन्त्राः " इति ॥ ८ ॥
ख् अन्ये त्वन्यथा योजयन्ति सोमसूर्याग्निरूपिणः इति यदुक्तं तद्विभजते एष्विति ।
अत्र सूर्यरूपबिन्दोः सर्वत्र व्यापकत्वात् शुभोदया इति सौरविशेषणमुक्तम् ।
ननु यद्ययं विभागस्तदा पूर्वेक्तो येनेति हेतुः सर्ववर्णसामान्येनोक्तो न घटते इत्याशङ्क्याह सर्वे
सोमसूर्याग्निदेवता इति ।
ननु तथापि विरोधस्तदवस्थ एवेति चेत् ।
न ।
इदन्तु तात्त्विकम् विभागस्तु प्रयोगाद्यर्थ इति ज्ञेयम् ।
स्वराः स्पर्शा व्यापका इति यदुक्तं ते के कियन्त इत्यपेक्षायामाह स्वरा इत्यादि ।
विशेषेण ख्याता अनेन स्वरा विंशतिरेकश्चेचि शिक्षादौ सङ्ख्यान्तरश्रुतिर्या सा निरस्ता ।
व्यापकेषु क्षवदत्रापि संयुक्तस्य ज्ञस्य ग्रहणं स्यादिति शङ्कां वारयति पञ्चविंशतिरिति ॥ १-३ ॥
तत्त्वदेहवानिति पूर्वपटलोक्तो यः पुरुषः तं वदन् (प्रकृत्यादितत्त्वानामेतदुदये- नैवोदय इति
सचयितुम्) तत्त्वानि आह तत्त्वात्मान इति ।
दशेत्यनेन मूर्द्धन्यस्य लस्य ग्रहणं सूचयति ।
कामेति क्रमेण त्रयाणां फलम् ॥ ४ ॥
सर्वे सोमसूर्याग्निदेवता इति यदुक्तं तदेव विवृणोति ह्रस्व इति ।
ह्रस्वानां पुरुषरूपत्वादग्नि—-सूर्यरूपत्वम् स्वरत्वात् सोमरूपत्वम् ।
दीर्घाणां स्वरत्वेन सोमत्वं ह्रस्वोत्पन्नत्वात् सूर्याग्निरूपत्वम् ।
शास्त्रान्तरानुसारेण दशानामेवैते सञ्ज्ञे स्यातामित्यत आह ते स्युरिति ।
तेषां प्रकारान्तरेण तद्रूपत्वमाह स्वराणामिति ।
मध्यगमित्यनेन रेफादुत्पत्तिरेषामुक्ता ।
यदाहुराचार्याः—-
ऋकाराद्यास्तु चत्वारो रेफोत्था ऌपराः स्मृताः ।
इति ।
एतेन ह्रस्वषट्कं हकारोत्थं दीर्घषट्कम् ईकारोत्थम् ।
तत्र हकारस्य पुंरूपत्वादर्कत्वम् ।
ईकारस्य शक्तिरूपत्वात् सोमत्वम् ।
रेफस्याग्निरूपत्वादग्नि- रूपत्वम् ।
अत्र यद्यपि हकारस्य ह्रस्वषट्कहेतुत्वमिति विभागो नास्माभिरुच्यते
तथापि केवलस्योत्पत्तिहेतुत्वमशक्यमिति तदुभयानुवृत्तिरवश्यमपेक्षणीया ।
एवमित- रयोरप्यनुसन्धेयम् ।
तेन प्रत्येकं सोमसूर्याग्निरूपत्वम् ।
तदुक्तमीश्वरप्रत्यभिज्ञायाम्—-
यदेकतरनिर्माणे कार्यं जातु न ( तत्त्वेन) जायते ।
तस्मात् सर्वपदार्थेषु सामरस्यं व्यवस्थितम् ॥ इति ।
सामरस्यं त्रितयसत्त्वम् ॥ ५-६ ॥
प्रकारान्तरेण तदेवाह पिङ्गलायामिति ।
सुषुम्णायां नपुंसकोदये इडापिङ्गल- योरपि तत्रान्तर्भावात् तद्वर्णा अपि तत्रान्तर्भवन्ति ।
ताभ्यां विना तदुदयाभावात् ।
अतएवोक्तम् प्राक् " अग्नीषोमस्वरूपिणी " इति ॥ ७ ॥
व्यञ्जनानां प्रत्येकं सोमसूर्याग्निरूपत्वं दर्शयति विना स्वरैरिति ।
" शिवशक्ति- मयाद् रवेः येन सम्भवामापन्ना " इत्युपक्रम्य " सर्वे सोमसूर्याग्निदेवताः " इत्यादिनोक्त-
मुपसंहरति शिवेति ।
तस्मादिति पूर्वेक्तहेतुत्रयानुवादः ।
शिवः सूर्याग्निरूपः शक्तिः सोमरूपा ।
अथवा य एव शिवः सैव शक्तिः ।
शिवशक्त्योरभेदात् भुवनेशी- बीजात्मिका इत्यप्युक्तम् ।
यदाहुराचार्याः—-
यथा स्वरेभ्यो नान्ये स्युर्वर्णाः षड्वर्गभेदिताः ।
तथा सवित्रानुस्यूतम् ॥ इति ।
एवं त्रिवृत्करणप्रक्रियां भुवनेशीबीजादुत्पत्तिं च सूचयता तेजस्त्रयतः सृष्टि
रुक्ता ॥ ८ ॥ ,
कारणात् पञ्चभूतानामुद्भूता मातृका यतः ।
ततो भूतात्मका वर्णाः पञ्च पञ्च विभागतः ॥ ९ ॥
अथ पञ्चीकरणप्रक्रियां प्रणवादुत्पत्तिं
च सूचयन् भूतानां पृथक्प्रयोगार्थं पुनर्वर्णविभागमाह कारणादिति ।
अथवा " स्वस्ववर्णयुतानि " इत्युक्तं ते के वर्णा इत्यपेक्षायामाह कारणादिति ।
कारणात् शिवशक्तिसमवायात् बिन्दोः ।
मातृकेति अकारादिक्षकारान्तवर्णसमुदायस्य सञ्ज्ञा ।
यत् प्रयोगसारे—-
प्रसिद्धा वर्णमाला सा मातृकेत्युच्यते परा ।
इति ।
पञ्च पञ्च विभागतः दशविभागतः अथ च पूर्वं क्रमात् पञ्चतोऽपि पञ्चेति वीप्सापि ॥ ९ ॥
वाय्वग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् ।
पञ्च ह्रस्वाः पञ्च दीर्घा बिन्द्वन्ताः सन्धिसम्भवाः ॥ १० ॥
पञ्चशः कादयः षक्षलसहान्ताः समीरिताः ।
सोमसूर्याग्निभेदेन मातृकावर्णसम्भवाः ॥ ११ ॥
तदेव उद्दिष्टं कथयति वाय्विति ।
वाय्वाकाशयोराद्यन्तत्वेन निदीष्टत्वात् व्युत्क्रमोक्तिः ।
पञ्चीकरणप्रक्रियायां मुख्यत्वद्योतनाय
तत्र कॢप्ताक्षराणां तत्तद्- भूतत्त्वा (तत्रतत्रा)न्तर्भावाय च पञ्चाशदिति ।
विसर्गानन्तर्भावेन तेन न गौणत्वम् ।
पञ्चह्रस्वाः पञ्चदीर्घाः इति प्रसिद्धाः ।
अत्र सन्धिसम्भवानां पृथगुपादानात् न पारिभाषिकह्रस्वदीर्घग्रहः ।
विन्द्वन्ता इति सन्धिसम्भवविशेषणम् ।
ते च ए ए ओ औ ।
तेषां यथा सन्धिसम्भवत्वं तथोक्तमाचार्यैः—-
अकारेकारयोर्येगादेकारो वर्ण इष्यते ।
तस्यैवैकारयोगेन स्यादैकाराक्षरं तदा ॥
उकारयोगे तस्यैव स्यादोकाराह्वयः स्वरः ।
तस्यैवौकारायोगेन स्यादौकाराह्वयः स्वरः ॥
सन्ध्यक्षराः स्युश्चत्वारो मन्त्राः सर्वार्थसाधकाः ।
इति ।
ननु कथमत्र विसर्गे न गणितः ।
उच्यते ।
मूलाधारात् सञ्जातविवक्षोत्पन्न- प्रयत्नप्राणपवनप्रेरितः स्थानान्तरमप्राप्य कण्ठादेव निःसरन्
प्रकृत्यात्मकः सर्गेऽत्र भूतेषु न गणितः ।
अत एवाचार्यैः—- " कण्ठात्तु निःसरन् सर्गः " इत्यादिना " नश्वरः सर्ग एव स्यात् " इत्यन्तेन सर्गादेवककारादीनामुत्पत्तिरुक्ता ।
कादिमतेऽपि—-
प्राणाग्नीलाम्बुखात्मानः पङ्क्तयः पञ्च कीत्तीताः ।
मायाशक्त्यभिधः सर्गः सर्वभूतात्मकः प्रभुः ॥
तस्मात् तस्यात्र विन्यासो नैकदेशे शिवात्मनि ॥ इति ।
कादयः शान्ता इति शेषः ।
एतेन अ आ ए क च ट त प य षा वायव्याः ।
एवम् इ ई ए ख छ ठ थ फ र क्षा आग्नेयाः ।
एवं भ्वादीनामपि ज्ञेयम् ।
तदुक्तमाचार्यैः—-
ऊदद्गदादिलला कोर्णसौचतुर्थार्णकावसौ वारः ।
दृष्ट्यैव द्वितीयरक्षा वह्नेरद्वन्द्व योनिकादिवर्षाः ।
मरुतः कपोलबिन्दुकपञ्चमवर्णाः शहौ तथा व्योम्नः ।
इति ।
अत्र मन्त्रशोधनप्रकरणे स्वकुलान्यकुललक्षणः शोधनप्रकारो नोक्तः ।
स भूतवर्णकथनेन सूचितः ।
फलन्तु पिङ्गलामतोक्तम् ।
यथा—-
चत्वारिंशत्तथा पञ्च वर्णसङ्ख्या प्रकीत्तीता ।
गणस्तु नवभिर्ज्ञेयः पाथीवादिषु पञ्चसु ॥
अत्र ह्रस्वैरेव दीर्घाणां ग्रहणान्नवभिरित्युक्तिः ।
मन्त्रसाधकयोराद्यो वर्णः स्यात् पाथीवो यदि ।
तत् कुलं तस्य तत् प्रोक्तमेवमन्येषु लक्षयेत् ॥
पाथीवे वारुणं मित्रमाग्नेये मारुतं तथा ।
एन्द्रवारुणयोः शत्रुर्मारुतः परिकीत्तीतः ॥
आग्नेये वारुणं शत्रुर्वारुणे तैजसं तथा ।
सर्वेषामेव तत्त्वानां सामान्यं व्योमसम्भवम् ॥
परस्परविरुद्धानां वर्णानां यत्र सङ्गतिः ।
स मन्त्रः साधकं हन्ति किंवा नास्य प्रसीदति ॥ इति ।
तन्त्रान्तरेऽपि—- वर्णांशकं वदिष्यामि चतुर्मात्रव्यवस्थितम् ।
स्वकुलं मित्रमध्यस्थे अमित्रञ्च चतुर्थकम् ॥
वायव्याग्नेयवारुण्याः पाथीवञ्च प्रकीत्तीतम् ।
उत्तरोत्तरसंसिद्धिः समताव्याधिमृत्यवः ॥
प्राप्नुवन्ति समासाद्य मन्त्रिणोऽत्र निबोधतान् ।
मित्रे सिद्धिः समाख्याता उदासीने न किञ्चन ॥
मृत्युर्व्याधिरमित्रे च स्वकुले सिद्धिरुत्तमा ।
नामादिवर्णंसाध्यस्य साधकस्य यथाक्रमम् ॥
ऊर्द्धाधस्थं समालेख्य अंशकञ्च निरूपयेत् ।
वायव्ये तैजसं मित्रमुदासीनन्तु वारुणम् ॥
शत्रुञ्च पाथीवं विद्यात् स्वकुलं वायवं पुनः ।
तैजसे वारुणं शत्रु रुदासीनन्तु पाथीवम् ॥
वायव्यं मित्रमाख्यातं स्वकुलं तैजसं पुनः ।
वारुणे पाथीवं मित्रमुदासीनन्तु वायवम् ॥
तैजसन्तु रिपुं विद्यात् स्वकुलं वारुणं पुनः ।
पाथीवे वारुणं मित्रं तैजसं शत्रुरीरितम् ॥
उदासीनं वायवन्तु स्वकुलं पाथीवं पुनः ।
एष वर्णांशको नाम सान्वयस्ते निरूपितः ॥ इति ॥ १०-११ ॥
अष्टत्रिंशत् कलास्तत्तन्मण्डलेषु व्यवस्थिताः ।
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ॥ १२ ॥
शशिनी चन्द्रिका कान्तिर्ज्येत्स्ना श्रीः प्रीतिरङ्गदा ।
पूर्णा पूर्णामृता कामदायिन्यः स्वरजाः कलाः ॥ १३ ॥
अष्टत्रिंशत्कलाद्यर्थं पूर्वं विभागः कृतः ।
ताः कला एवाह सोमेति ।
अनेन प्रणवस्य त्रिभ्यो भेदेभ्योऽकारोकारमकारेभ्य एव अष्टत्रिंशत्कलोत्पत्तिरुक्ता ।
तत्र प्रथमाक्षरस्य विसर्गरूपत्वात् सोमत्वम् ।
उकारस्य विसर्जनीयस्य रेफादुत्पत्तेरग्न्यात्म- कत्वम् ।
मकारस्य सूर्यरूपत्वं प्रसिद्धमेव ।
ननु प्रथमद्वितीययोः कथं सोमाग्नि- रूपत्वम् ।
इति चेदुच्यते ।
अन्त्यपटले अजपातः प्रणवस्योत्पत्तिं वक्ष्यति ।
तत्र विलोमीकृता अजपा सोऽहं भवति ।
सकारहकारलोपे पूर्ववत् कृते प्रणवसिद्धिः ।
तत्र प्रथमो वर्णे विसर्गात्मकः ।
" सर्गः शक्तिर्निशाकरः " इत्युक्तेः ।
तस्यैव विसर्गस्य सकारादेशे उत्वे च कृते उकारादेशो भवतीति अग्नित्वम् ।
यद्वा तस्यां सूर्येन्दु- पावकात् " प्रणवस्य त्रिभिर्वर्णैः " इति वक्ष्यमाणत्वात् तेषां तथात्वम् ।
तेनैतदुक्तं भवति ।
प्रणवस्य त्रिभिर्भेदैः अष्टत्रिंशत्कलोत्पत्तिः पञ्चभेदेभ्यः पञ्चाशत्कलोत्पत्तिः ।
वायवीयसंहितायान्तु—-
लोकवृत्तिप्रवृत्त्यर्थमाकाशमरुदाश्रयात् ।
सञ्चरन्ति त्रयो भूता वह्निसूर्येन्दुरूपिणः ॥
तेजो रुद्रात्मकं यत्तु स वह्निस्त्रिगुणः स्मृतः ।
भिन्नास्तमोरजः सत्वैस्तद्गुणा नवधाऽभवन् ॥
वह्नेः कला दश प्रोक्ता बिन्दुना सह धर्मदाः ।
ब्रह्मात्मको रसो यस्तु स सूर्यः स चतुर्गुणः ॥
तद्गुणा गुणभेदेन पुनर्द्वादशतां गताः ।
तेन द्वादश विख्याताः सूर्यस्य धनदाः कलाः ॥
नहि नादकलेत्येवममूर्त्तत्वात् प्रदर्श्यते ।
या च विष्ण्वात्मिका पृथ्वी सोमोऽसौ गुणपञ्चकः ॥
तेऽपि प्रत्येकभेदेन गुणाः पञ्चदशाऽभवन् ।
ताः कलाः सह बीजेन षोडशेन्दोरनङ्गदाः ॥ इति ।
तत्तन्मण्डलेष्विति सोममण्डलसूर्यमण्डलाग्निमण्डलेषु ।
स्वरजा इत्यनेनामृता- दीनां पूजने स्वरमादौ कृत्वा पूजेत्युक्तं भवति ।
तत्र प्रयोगः ।
अम् अमृतायै नमः इत्यादि ॥ १२-१३ ॥
तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ।
सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ १४ ॥
कभाद्या वसुदाः सौर्यष्ठडान्ता द्वादशेरिताः ।
धूम्राच्चीरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ।
सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि ॥ १५ ॥
यादीनां दशवर्णानां कला धर्मप्रदा इमाः ।
अभयेष्टकरा ध्येयाः श्वेतपीतारुणाः क्रमात् ॥ १६ ॥
कभाद्या इति ।
ककारादनुलोमेन द्वादश ठकारपर्यन्तं भकाराद् विलोमेन द्वादश डकारपर्यन्तमित्यर्थः ।
तत्र प्रयोगो यथा—-कं भं तपिन्यै नमः ।
खं बं तापिन्यै नमः इत्यादि ।
हव्यकव्यवहे इति ।
हव्यकव्यशब्दयोः द्वन्द्वः ततो वहशब्देन समासः ।
तेन " द्वन्द्वात् परः श्रूयमाणः शब्दः प्रत्येकमभिसम्बध्यते " इति न्यायात् हव्यवहा कव्यवहा इति शक्तिद्वयम् ।
यादीनामित्यनेन धूम्राच्चीरादीनां यादित्वमुक्तम् ।
प्रयोगस्तु —-यं धूम्राच्चीषे नमः इत्यादि ॥ १४-१५ ॥
अभयेष्टेति ।
इष्टो वरः ।
तत्र दक्षिणहस्ते अभयं वामहस्ते वर इति सम्प्रदायविदः ।
उक्तञ्च—-
ऊर्द्धीकृतो दक्षहस्तः प्रसृतोऽभयमुद्रिका ।
अधोमुखो वामहस्तः प्रसृतो वरमुद्रिका ॥ इति ।
दशमपटल्यामपि भुवनेशीध्याने—-
दक्षेऽङ्कुशाभये प्रोक्ते वामे पाशमथेष्टदम् ।
इति ।
तन्त्रान्तरे सरस्वतीध्याने—-
साक्षस्रक्कलशोर्द्धबाहुयुगलाञ्चाधः समुद्राभयम् ।
हस्तं दक्षिणमन्यतः सवरदं यस्याः करे पुस्तकम् ॥ इति ।
सौत्रामणीतन्त्रे पञ्चमीध्याने—-
चक्रं खड्गं मुषलमभयं दक्षिणाभिर्भुजाभिः ।
शङ्खं खेटं हलमपि वरं बिभ्रती वामदोभीः ॥ इति ।
तन्त्रान्तरे नित्याध्याने—-कपालमभयन्तथा ।
दधानां दक्षिणैर्हस्तैः ।
इत्यादि ।
अन्यत्रापि—- पाशं पताकां चर्माऽपि शार्ङ्गं चापं वरं करैः ।
दधानां वामपार्श्वस्थैः सर्वाभरणभूषितैः ॥
अङ्कुशञ्च ततो दण्डं खड्गं वाणं तथाऽभयम् ।
दधानां दक्षिणैर्हस्तैरासीनां पद्मविष्टरे ॥ इति ।
कादिमतेऽपि—- ब्रूहि देव महेशान स्थूलसूक्ष्मस्वरूपयोः ।
ध्यानयोः कर्मणां सिद्धिं विविधां फलयोगतः ॥
तासां तत्तत्करेषूक्तेष्वायुधान्यथ शेषतः ।
शृणु वक्ष्ये महेशानि क्रमेण त्वं हि साम्प्रतम् ॥
वामदक्षिणयोः स्यातां द्विभुजे तु वराभयौ ।
पाशाङ्कुशौ चतुर्बाहौ षड्भुजे चापसायकौ ॥
चर्मखड्गावष्टभुजे गदाशूले दशोदिते ।
इति ।
अतो यत्र यत्र शक्तिध्याने वराभये तत्र तत्र प्रायोऽभयं दक्षिणे वामे वरमिति ज्ञेयम् ।
यत्तूत्तरषट्के—-
वामेनाभयसंयुक्तां वरदां दक्षिणेन तु ।
इति ।
अन्यत्रापि—-
पुस्तकञ्चाभयं वामे दक्षिणे चाक्षमालिकाम् ।
वरदानरतां देवीम् ।
इति ।
एतत् स्वस्वगुरुसम्प्रदायानुसारेण तत्तद्देवताविशेषे बोद्धव्यमित्यलम् ।
क्रमादिति ।
सौम्यकलादीनां श्वेतादयः ।
अनेन वर्णवस्त्रमाल्यभूषाणां ग्रहणम् ।
एवमग्रेऽपि ज्ञेयम् ॥ १६ ॥
तारस्य पञ्चभेदेभ्यः पञ्चाशद्वर्णगाः कलाः ॥ १७ ॥
यदर्थं पञ्चभूतेषु विभाग उक्तस्ताः कला उद्दिशति ।
यद्वा " तद्वर्णतोऽभिन्नाः कलाः " इति (१।१११) पूर्वपटलान्ते उद्दिष्टास्ता निदीशति तारस्येति ।
तारस्य प्रणवस्य पञ्चभेदा इति अकारोकारमकारबिन्दुनादाः ।
यद्यपि शक्तिशान्ताविति प्रणवस्य षष्ठसप्तमभेदौ तथापि तयोरेषु गणना नास्ति ।
परत्वात् ।
तदुक्तम्—-
सप्तात्मकस्य तारस्य परौ द्वौ तु परौ यतः ।
ततस्तु शक्तिशान्ताख्यौ न पठ्येते परैः सह ॥ इति ।
पञ्चाशच्छब्दोऽत्र लाक्षणिकः ।
कलाः क्रमादुत्पन्ना इति शेषः ।
काकाक्षि- गोलकन्यायेनोभयत्र क्रमादिति सम्बध्यते ॥ १७ ॥
सृष्टिर्बुद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्धृतिः स्थिरा ।
स्थितिः सिद्धिरिति प्रोक्ताः कचवर्गकलाः क्रमात् ॥ १८॥
अकाराद् ब्रह्मणोत्पन्नास्तप्तचामीकरप्रभाः ।
एताः करधृताक्षस्रक्पङ्कजद्वयकुण्डिकाः ॥ १९ ॥
जरा च पालिनी शान्तिरीश्वरी रतिकामु(मि)के ।
वरदाऽऽह्लादिनी प्रीतिर्दीर्घा स्युष्टतवर्गजाः ॥ २० ॥
उकाराद् विष्णुनोत्पन्नास्तमालदलसन्निभाः ।
अभीतिदरचक्रेष्टबाहवः परिकीत्तीताः ॥ २१ ॥
तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुत् क्रोधिनी क्रिया ।
उत्कारी मृत्युरेताः स्युः कथिताः पयवर्गजाः ॥ २२ ॥
रुद्रेण मार्णादुत्पन्नाः शरच्चन्द्रनिभप्रभाः ।
उद्वहन्त्योऽभयं शूलं कपालं बाहुभिर्वरम् ॥ २३ ॥
तमेव क्रममाह सृष्टिरित्यादिना इति पञ्चाशदाख्याता इत्यन्तेन ।
अकारात् प्रणवांशादुत्पन्नाः ।
तद्वाच्येन ब्रह्मणा चोत्पन्ना इति ज्ञेयम् ।
वाच्यवाचकयोरभेदात् ।
तदुक्तमाचार्यैः—- " अकारप्रभवा ब्रह्मजाताः " इति ।
एवमग्रेऽपि ।
अक्षस्रक् अक्षमाला ।
आयुधध्यानं दक्षाधस्तलाद्वामाधस्तलपर्यन्तम् ।
आह्लादिनीति पदच्छेदः ।
दरः शङ्खः ।
शरच्चन्द्रस्य निभा कान्तिः तद्वत् प्रभा यासां ताः ।
निभशब्दः सदृशवाची वा ॥ १८-२३ ॥
ईश्वरेणोदिता बिन्दोः पीता श्वेताऽरुणाऽसिता ।
अनन्ता च षवर्गस्था जवाकुसुमसन्निभाः ॥ २४ ॥
अभयं हरिणं टङ्कं दधाना बाहुभिर्वरम् ।
निवृत्तिः सप्रतिष्ठा स्याद्विद्या शान्तिरनन्तरम् ॥ २५ ॥
इन्धिका दीपिका चैव रेचिका मोचिका परा ।
सूक्ष्मा सूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा ॥ २६ ॥
व्यापिनी व्योमरूपा स्युरनन्ता स्वरसंयुताः ।
सदाशिवेन सञ्जाता नादादेताः सितत्विषः ॥ २७ ॥
अक्षस्रक्पुस्तकगुणकपालाढ्यकराम्बुजाः ।
न्यासे तु योजयेदादौ षोडश स्वरजाः कलाः ।
इति पञ्चाशदाख्याताः कलाः सर्वसमृद्धिदाः ॥ २८ ॥
बिन्दुकला आह ईश्वरेणेति ।
बिन्दोरिति ।
असितेति पदच्छेदः ।
हरिणं हरिणमुद्राम् ।
अन्ये मृगशिशुं मन्यन्ते ।
टङ्कः परशुः ।
सप्रतिष्ठेति प्रतिष्ठाकला सहिता ।
परेति कलानाम ।
सूक्ष्मामृतेत्येका ज्ञानामृतेत्येका ।
अनन्तेति षोडशी
कला ।
गुणः शूलम् ।
कराम्बुजमित्युपमासमासः ।
आद्ये ऊर्द्धयोर्दक्षवामयोरन्त्ये अध इत्यायुधध्यानम् ।
वैपरीत्यञ्च केचन इच्छन्ति ।
शङ्खपूजायामयं क्रम उक्तः ।
शरीरे न्यासक्रममाह न्यासे त्विति ।
तु पूर्वस्माद् विशेषे ।
सर्वसमृद्धिदा इति न्यासफलम् ॥ २४-२८ ॥
श्री कण्ठानन्तसूक्ष्माश्च त्रिमूत्तीरमरेश्वरः ॥ २९ ॥
अर्घीशो भारभूतीशस्तिथीशः स्थाणुको हरः ।
झिण्टीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ॥ ३० ॥
अक्रूरश्च महासेनः षोडशस्वरमूर्त्तयः ।
पश्चात् क्रोधीशचण्डेशपञ्चान्तकशिवोत्तमाः ॥ ३१ ॥
अथैकरुद्रकूर्मैकनेत्राह्वचतुराननाः ।
अजेशशर्व सोमेशास्तथा लाङ्गलिदारुकौ ॥ ३२ ॥
अर्द्धनारीश्वरश्चोमाकान्तश्चाषाढि दण्डिनौ ।
स्युरद्रिमीनमेषाख्यलोहिताश्च शिखी तथा ॥ ३३ ॥
छगलण्डद्विरण्डेशौ महाकालाख्यवालिनौ ।
भुजङ्गेशपिनाकीशखड्गीशाख्यवकास्तथा ॥ ३४ ॥
श्वेतभृग्वीशलकुलीशिवाः सम्वर्त्तकस्ततः ।
एते रुद्राः स्मृता रक्ता धृतशूलकपालकाः ॥ ३५ ॥
रुद्रादिकानिति पूर्वप्रकृतान् रुद्रान् उद्दिशति श्रीकण्ठेति ।
स्थाणुक इति कः स्वार्थे स्थाणुरिति नाम ।
एकरुद्रश्च कूर्मश्च एकनेत्राह्वश्च चतुराननश्चेति द्वन्द्वः ।
आह्वशब्दस्य न सञ्ज्ञायामन्तर्भावः ।
एवमग्रेऽपि आख्यादेः ।
छगलण्डद्विरण्डे-
शाविति ईशशब्द उभयत्र सम्बध्यते ।
आयुधध्यानं वामदक्षिणयोः ।
एवमुत्तरत्रापि ।
इदं सामान्यम् ।
वक्ष्यमाणं वन्धूकेत्यादि शक्तिसम्भिन्नत्वे ज्ञेयम् ।
एवं विष्णुष्वपि ।
यत्तु क्वचित् " तप्तहेमावदातम् " इति तच्छक्तिशक्तिमतोरभेदे शक्तिप्राधान्यादि- त्यवधेयम् ॥ २९-३५ ॥
पूर्णेदरी स्याद् विरजा शाल्मली तदनन्तरम् ।
लोलाक्षी वर्त्तुलाक्षी च दीर्घघोणा समीरिताः ॥ ३६ ॥
सुदीर्घमुखिगोमुख्यौ दीर्घजिह्वा तथैव च ।
कुण्डोदर्यूर्द्धकेशी च तथा विकृतमुख्यपि ॥ ३७ ॥
ज्वालामुखी ततो ज्ञेया पश्चादुल्कामुखी ततः ।
सुश्रीमुखी च विद्यामुख्येताः स्युः स्वरशक्तयः॥ ३८ ॥
महाकालीसरस्वत्यौ सर्वसिद्धिसमन्विता ।
गौरी त्रैलोक्यविद्या स्यान्मन्त्रशक्तिस्ततः परम् ॥ ३९ ॥
आत्मशक्तिर्भूतमाता तथा लम्बोदरी मता ।
द्राविणी नागरी भूयः खेचरी चापि मञ्जरी ॥ ४० ॥
रूपिणी वीरिणी पश्चात् काकोदर्यपि पूतना ।
स्याद्भद्रकालियोगिन्यौ शङ्खिनी गजीनी तथा ॥ ४१ ॥
कालरात्रिश्च कुब्जिन्या कपदीन्यपि वज्रिणी ।
जया च सुमुखेश्वर्या रेवती माधवी तथा ॥ ४२ ॥
वारुणी वायवी प्रोक्ता पश्चाद्रक्षोविदारिणी ।
ततश्च सहजा लक्ष्मीर्व्यापिनी माययाऽन्विता ॥ ४३ ॥
एता रुद्राङ्कपीठस्थाः सिन्दूरारुणविग्रहाः ।
रक्तोत्पलकपालाभ्यामलङ्कृतकराम्बुजाः ॥ ४४ ॥
आदिपदवाच्या एतच्छक्तीरुद्दिशति पूर्णेदरीति ।
विष्णुविष्णुशक्तिष्वपि इदमेवानुसन्धेयम् ।
सुदीर्घमुखिगोमुख्यौ भद्रकालियोगिन्यौ इत्यत्र " ङ्यापोः सञ्ज्ञाच्छन्दसोर्बहुलम् " इति बहुलग्रहणात्
पूर्वपदस्य ह्रस्वः ।
प्रयोगे तु दीर्घ एव ।
सर्वसिद्धिसमन्वितेति गौरीविशेषणम् ।
तेन सर्वसिद्धिगौरीति शक्तिनाम ।
अपेक्षितार्थद्योतनिकाकारादिभिः तथैवोक्तेः ।
अन्यत्रापि " सर्वसिद्धियाभिधा गौरी " इत्युक्तम् ।
रुद्राणां श्रीकण्ठादीनाम् ।
अङ्कः उत्सङ्गः ॥ ३६-४४ ॥
केशवनारायण माधव गोविन्द विष्णवः ।
मधुसूदनसञ्ज्ञोऽन्यः स्यात् त्रिविक्रमवामनौ ॥ ४५ ॥
श्रीधरश्च हृषीकेशः पद्मनाभस्ततः परम् ।
दामोदरो वासुदेवः सङ्कर्षण इतीरिताः ॥ ४६ ॥
प्रद्युम्नश्चानिरुद्धश्च स्वराणां मूर्त्तयः क्रमात् ।
पश्चाच्चक्री गदी शार्ङ्गी खड्गी शङ्खी हली पुनः ॥ ४७ ॥
मुषली शूलिसञ्ज्ञोऽन्यः पाशी स्यादङ्कुशी पुनः ।
मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः ॥ ४८ ॥
कृष्णः सत्यः सात्वतः स्यात् शौरी शूरो जनार्दनः।
भूधरो विश्वमूत्तीश्च वैकुण्ठः पुरुषोत्तमः ॥ ४९ ॥
बली बलानुजो बालो वृषघ्नश्च वृषः पुनः ।
सिंहो वराहो विमलो नृसिंहो मूर्त्तयो हलाम् ॥ ५० ॥
केशवाद्या इमे श्यामाश्चक्रशङ्खलसत्कराः ।
कीत्तीः कान्तिस्तुष्टिपुष्टी धृतिः शान्तिः क्रिया दया ॥ ५१ ॥
मेधा सहर्षा श्रद्धा च लज्जा लक्ष्मीः सरस्वती ।
प्रीती रतिरिमाः प्रोक्ताः क्रमेण स्वरशक्तयः ॥ ५२ ॥
जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी ।
विजया विरजा विश्वा विनदा सुनदा स्मृतिः ॥ ५३ ॥
ऋद्धिः समृद्धिः शुद्धिः स्याद् भक्तिर्बुद्धिः स्मृतिः क्षमा ।
रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधाऽपरा ॥ ५४ ॥
परा परायणा सूक्ष्मा सन्ध्या प्रज्ञा प्रभा निशा ।
अमोघा विद्युता चेति कीर्त्याद्याः सर्वकामदाः ॥ ५५ ॥
एताः प्रियतमाङ्केषु निषण्णाः सस्मिताननाः ।
विद्युद्दामसमानाङ्गारः पङ्कजाभयबाहवः ॥ ५६ ॥
आदिशब्दसङ्गृहीतान् केशवाद्यान् तच्छक्तीरप्युद्दिशति केशवेत्यादि ।
हलामिति व्यञ्जनानां वैयाकरणपरिभाषया ।
आयुधध्यानं वामदक्षिणयोः ।
एवमुत्तरत्रापि ।
वसुधापरेति अपरा वसुधेत्यन्वयः ।
परेति कलानाम ॥ ४५-५६ ॥
मातृकावर्णभेदेभ्यः सर्वे मन्त्राः प्रजज्ञिरे ।
मन्त्रविद्याविभागेन त्रिविधा मन्त्रजातयः ॥ ५७ ॥
पुंस्त्रीनपुंसकात्मानो मन्त्राः सर्वे समीरिताः ।
मन्त्राः पन्देवता ज्ञेया विद्याः स्त्रीदेवताः स्मृताः ॥ ५८ ॥
ततश्चैतन्येत्यारभ्य पञ्चाशद्वर्णरूपिणीत्यन्तेन मातृकास्वरूपत्वमुक्तं कुण्डल्याः ।
तस्या एव मन्त्रा उत्पन्ना इत्यपि ।
तत् प्रयोगाद्यर्थं मनूनां प्रकारत्रये वक्ष्यमाणे हेतुत्वेनोपन्यस्यति ।
मातृकेति ।
यत इति शेषः ।
पूर्वं शिवशक्तिमयादित्यनेन तदुत्पत्तिरुक्ता ।
तदेव मन्त्रेष्वपि दर्शयति मन्त्रेति ।
मातृकेति तत इति योज्यम् ।
अनेन सोमसूर्यात्मकत्वं सर्वेषामुक्तं भवति ।
यत् प्रयोगसारे—-
द्विधा प्रोक्ताश्च ते मन्त्राः सौम्यसौरविभागतः ।
सौराः पुन्देवता मन्त्रास्ते च मन्त्राः प्रकीत्तीताः ॥
सौम्याः स्त्रीदेवतास्तद्वद्विद्यास्ते इति विश्रुताः ।
इति ।
अनयोरुदयेन सर्वेषामुदयोऽप्युक्तो भवति ॥ ५७ ॥
प्रयोगविशेषसिद्ध्यर्थं मन्त्राणां त्रैविध्यमाह पुंस्त्रीति ।
अत्रापि शिवशक्ति- मयत्वात् मध्यमचतुष्कस्य नपुंसकत्वात् स्वराणां त्रैविध्ये तान् विना अन्येषामपि
उच्चारणाभावात् तदात्मकत्वेन हेतुत्वं योज्यम् ।
अत्र सर्व इत्युक्तेर्न पारिभाषिक मन्त्रग्रहणम् ।
एवमुत्तरत्रापि ।
ननु निष्कलचैतन्याखण्डानन्दवाच्यस्य मन्त्रस्य कथं पुंस्त्र्यादिकल्पनमिति चेत् सत्यम् ।
वस्तुतो नास्त्येव ।
उपासकानामर्थे कल्पनामात्रम् ।
यदाहुः—-
चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥
रूपस्थानां देवतानां पुंस्त्रयङ्गादिप्रकल्पना ।
इति ।
५८ ॥
पुम्मन्त्रा हुम्फडन्ताः स्युद्वीठान्ताश्च स्त्रियो मताः ।
नपंसका नमोऽन्ताः स्युरित्युक्ता मनवस्त्रिधा ॥ ५९ ॥
गार्ग्याभिप्रायेणैषां लक्षणमाह पुमिति ।
हु�फडन्ता इति सम्प्रदायाद् व्यस्तसमस्ततदन्ताः ।
द्विठान्ता इति स्वाहान्ताः ।
ठशब्देन साम्यात् अर्थाद् वा बिन्दुरुच्यते ।
" ठः शून्ये च बृहद्धूनौ " इति कोशात् ।
शून्यं बिन्दुरूपमेव ।
तस्य द्वित्वं तेन विसर्गः ।
स च शक्तिरूप इति ।
तेन द्विठशब्देनाग्निशक्तिः स्वाहोक्ता ।
प्रयोगसारे तु—- वषट्फडन्ताः पुंलिङ्गा वौषट्स्वाहान्तगाः स्त्रियः ।
नपुंसका हु� नामोऽन्ता इति मन्त्रास्त्रिधा स्मृताः ॥
तारेणाप्यनुमीयन्ते मन्त्राः स्वाद्यन्तमध्यतः ।
प्रत्यासन्नात्मभावेन यथा पुंस्त्रीनपूंसकाः ।
बिन्दुसर्गेन्दुखण्डान्तास्तद्वदेव प्रकीत्तीताः ॥ इति ॥ ५९ ॥
शस्तास्ते त्रिविधा मन्त्रा वश्यशान्त्यभिचारके ।
अग्नीषोमात्मका मन्त्रा विज्ञेयाः क्रूरसौम्ययोः ॥ ६० ॥
कर्मणोर्वह्नितारान्त्यवियत्प्रायाः समीरिताः ।
आग्नेया मनवः सौम्या भूयिष्टेन्द्वमृताक्षराः ॥ ६१ ॥
आग्नेयाः सम्प्रबुध्यन्ते प्राणे चरति दक्षिणे ।
भागेऽन्यस्मिन् स्थिते प्राणे सौम्या बोधं प्रयान्ति च ॥ ६२ ॥
नाडीद्वयं गते प्राणे सर्वे बोधं प्रयान्ति च ।
प्रयच्छन्ति फलं सर्वे प्रबुद्धा मन्त्रिणां सदा ॥ ६३ ॥
त्रिविधानां क्रमेण प्रयोजनमाह शस्ता इति ।
उक्तन्तु नारायणीये—-
शेषाः पुमांसः शस्तास्ते वश्योच्चाटे विशेषतः ।
क्षुद्रक्रियामयध्वंसे स्त्रियोऽन्यत्र नपुंसकाः ॥ इति ।
पूर्वं मातृकायाः कुण्डल्या उत्पत्तेरुक्तत्वात् तस्या अग्नीषोमात्मकत्वात् मन्त्राणामपि तद्दर्शयति अग्नीति ।
कर्मणोरिति पूर्वत्रान्वेति ।
वह्नी रेफः ।
तारः ओङ्कारः ।
अन्त्यः क्षकारः ।
वियत् हकारः ।
प्रायः शब्दो बाहुल्यवाची ।
" प्रायो मूम्न्यद्रुते शनैः " इत्यमरः ।
आग्नेया इति पूर्वेण सम्बध्यते ।
इन्दुः सः ।
तत्त्वन्यासे इन्दुमण्डलस्य सकारादित्वेन न्यस्तत्वात् ।
अमृतं वः ।
अत्रैकस्य बाहुल्ये तत्त्वम् ।
तदुक्तमीशानशिवेन—-
ताराकाशाद्यन्त्यवाद्यन्तवर्णा आग्नेयाः स्युः सौम्यवर्णास्ततोऽन्ये ।
आग्नेयोऽपि स्यात्तु सौम्यो नमोऽन्तः सौम्योऽपि स्यादग्निमन्त्रः फडन्तः।
स्यादाग्नेयैः क्रूरकार्यप्रसिद्धिः सौम्यैः सौम्यं कर्म कुर्याद् यथावत् ॥ इति ।
नारायणीयेऽपि—- तारान्त्याग्निवियत् प्रायो मन्त्र आग्नेय इष्यते ।
शिष्टः सौम्यः प्रशस्तौ तौ कर्मणोः क्रूरसौम्ययोः ॥
आग्नेयमन्त्रः सौम्यः स्यात् प्रायशोऽन्ते नमोऽन्वितः ।
सौम्यमन्त्रस्तथाग्नेयः फट्कारिणान्वितोऽन्ततः ॥ इति ।
पिङ्गलामतेऽपि—- रौद्रोऽपि शान्ततामेति शान्तजातिसमन्वितः ।
मन्त्रः शान्तोऽपि रौद्रत्वं हु� फट् पल्लवितो यदि ॥ इति ।
तत्र विशेषो नारायणीये—-
मन्त्रावाग्नेयसौम्याख्यौ ताराद्यन्तौ द्वयोर्जपेत् ।
इति ।
अपेक्षितार्थद्योतनिकायां व्याख्यातम् ।
एकं नक्षत्रमंशकचतुष्टयं भवति ।
तत्र आग्नेयानां नक्षत्राणां पूर्वांशद्वयमग्रम् इतरत् पुच्छम् ।
सौम्यानाम् उत्तरांशकद्वयमग्रमि- तरत् पुच्छम् ।
पुच्छकाले प्रयोगो न कार्य इति गार्ग्यः ।
आग्नेयसौम्यनक्षत्राणि अहिचक्रे वक्ष्यन्ते ।
तत्र सूर्यनक्षत्राणि अग्निनक्षत्राणि ।
बोधफलमाह प्रयच्छन्तीति ।
अन्यथा दोषदर्शनात् ।
यदुक्तं नारायणीये—-
सुप्तः प्रबुद्धमात्रो वा मन्त्रः सिद्धिं न यच्छति ।
स्वापकालो वामवहो जागरो दक्षिणावहः ॥
आग्नेयस्य मनोः सौम्यमन्त्रस्यैतद्विपर्ययः ।
प्रबोधकालं जानीयादुभयोरुभयोर्वहम् ॥ इति ।
अन्यत्रापि—- स्वापकाले तु मन्त्रस्य जपो नार्थफलप्रदः ।
इति ।
अन्यत्रान्यथा स्वापकाल उक्तः ।
यदाहुः—-
प्राणायाम ( पान) समायोगाच्छिवशक्त्योस्तु मेलनम् ।
प्रबोधकालो विज्ञेयः स्वापकालस्ततः परम् ॥ इति ।
अन्यत्र तु प्रबोधार्थं प्रकारान्तरमुक्तम्—-
सम्पुटीकृत्य यत्नेन लान्तानाद्यान् सबिन्दुकान् ।
पुनश्च सविसर्गान्तान् क्षकारं केवलं पठेत् ।
एवं जप्त्वोल्पदिष्टश्चेत् प्रबुद्धः शीघ्रसिद्धिदः ॥ इति ।
पुंस्त्रीत्यादिस्वरूपकथनेनैषां विरोधोऽपि सूचितः ।
यदाहुः—-
स्त्रीदैवत्या वैरिणः स्युः पुन्दैवत्यस्य भूयसा ।
स्त्रीदैवत्येषु सौम्यानां क्रूराणां स्यात् परस्परम् ॥
तथैव पुन्देवतानाम् ।
इति ।
पूर्ववैपरीत्येनोत्तरस्य सङ्गतिः ॥ ६२-६३ ॥
छिन्नादिदुष्टा ये मन्त्रा पालयन्ति न साधकम् ।
छिन्नो रुद्धः शक्तिहीनः पराङ्मुख उदीरितः ॥ ६४ ॥
बधिरो नेत्रहीनश्च कीलितः स्तम्भितस्तथा ।
दग्धस्त्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः ॥ ६५ ॥
भेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूच्छीतः ।
हृतवीर्यश्च हीनश्च प्रध्वस्तो बालकः पुनः ॥ ६६ ॥
कुमारस्तु युवा प्रौढो बृद्धो निस्त्रिंशकस्तथा ।
निर्बीजः सिद्धिहीनश्च मन्दः कूटस्तथा पुनः ॥ ६७ ॥
निरंशः सत्वहीनश्च केकरो बीजहीनकः ।
धूमितालिङ्गितौ स्यातां मोहितश्च क्षुधातुरः ॥ ६८ ॥
अतिदृप्तोऽङ्गहीनश्च अतिक्रुद्धः समीरितः ।
अतिक्रूरश्च सव्रीडः शान्तमानस एव च ॥ ६९ ॥
स्थानभ्रष्टश्च विकलः सोऽतिवृद्धः प्रकीत्तीतः ।
निःस्नेहः पीडितश्चापि वक्ष्याम्येषाञ्च लक्षणम् ॥ ७० ॥
तत्र शक्तिशिवात्मकमातृकातो मन्त्रोत्पत्तेरुक्तत्वात् तदुत्पत्तिनिमित्ताश्चाणवादि- दोषाः
तदन्तर्गतच्छिन्नादिदोषसम्बन्धा मन्त्रा विरुद्धफला इत्याह छिन्नेति ।
छिन्नादि- दोषैर्दुष्टाः साधकं न पालयन्तीति सर्वेषां सामान्यफलम् ।
वक्ष्यमाणं क्वचित्तत्तद्विशेष- फलं ज्ञेयम् ।
आदिशब्दार्थमाह छिन्नेति ।
तथा पुनरित्यनेन कूट एव निरंशसूचक इत्याह ।
सोऽतिवृद्ध इति निःस्नेहविशेषणम् तेन निःस्नेहानन्तरमतिवृद्धस्ततः पीडित इति ॥ ६४-७० ॥
मनोर्यस्यादि मध्यान्तेष्वानिलं बीजमुच्यते ।
संयुक्तं वा वियुक्तं वा खराक्रान्तं त्रिधा पुनः ।
चतुर्धा पञ्चधा वा स्युः समन्त्रश्छिन्न सञ्ज्ञकः ॥ ७१ ॥
मनोरिति ।
अनिलं यम् ।
आदिमध्यान्तेष्विति समुच्चयः ।
संयुक्तं वा अक्षरान्तरयुक्तं वियुक्तं वा केवलं वा इत्येकैकं द्विद्वीः सम्बध्यते ।
विशिष्टमनिलं वा विशिष्टं बीजं वा यस्य सच्छिन्नसञ्ज्ञक इति अन्वयः ।
बीजं शक्तिबीजम् ।
स्वराक्रान्तं दीर्घस्वराक्रान्तम् ।
आ ई ऊ ए औ एतत् स्वरयुक्तमिति सम्प्रदायविदः ।
बीजशब्देन मायाबीजं कथमिति चेदुक्तं शैवे—-
मायाबीजस्य नामानि मालिनी शिववल्लरी ।
वातावत्तीः कला वाणी बीजं शक्तिश्च कुण्डली ॥ इति ।
तदुक्तं पिङ्गलामते—- आदिमध्यावसानेषु यस्य मन्त्रस्य दृश्यते ।
चतुर्धा पञ्चधा द्वैधमेकवीरं स्वरान्वितम् ।
वायुबीजमसौ मन्त्रश्छेदितः परिकीत्तीतः ॥ इति ।
तत्रैव अथ मन्त्रांशकबीजविवरणमित्युपक्रम्य व्याख्यातम् ।
वायुबीजं यकारः ।
एकवीरो ह्नः ।
स्वराक्रान्तो दीर्घस्वरयुक्तः ।
यथाक्रमं ह्रां ह्री� ह्रूं ह्रैं ह्रौम् उदाहरणञ्च तत्रैव प्रदशीतम् ।
" अघोरेभ्योऽथ ह्रां घोरेभ्यो ह्री� घोरतरेभ्यः ह्रूं सर्वतः सर्वशर्वेभ्यो ह्रैं नमस्तेऽस्तु
रुद्ररूपेभ्यो ह्रौं " इति ।
मन्त्रमुक्तावल्याञ्च—- " एकवीरं वा स्वराक्रान्तं विशेषतः " इति ।
ग्रन्थान्तरे तु—- " अर्द्धग्रहो मनुश्छिन्नः " इत्युक्तम् ।
अर्द्धं ग्रहः ऋचि श्लोके वा मध्ये विच्छिन्नः ।
अन्यत्र तु—- " आदिमध्यान्तबीजानां लोपैश्छिन्नाः " इति ॥ ७१ ॥
आदिमध्यावसानेषु भूबीजद्वन्द्वलाञ्छितः ।
रुद्धमन्त्रः स विज्ञेयो भुक्तिमुक्तिविवजीतः ॥ ७२ ॥
आदीत्येषां समुच्चयः ।
भूवीजं लम् ।
द्वन्द्वेति प्रत्येकम् ।
भुक्तिरैहिकं फलम् ।
तदुक्तं पिङ्गलामते—-
आदौ द्विधा त्रिधा मध्ये पुनश्चान्ते द्विधा भवेत् ।
इन्द्रबीजमसौ मन्त्रो रुद्ध इत्यभिधीयते ॥ इति ।
अन्यत्र च—- द्विधा पूर्वं त्रिधा मध्ये द्विधान्ते च पुनः प्रिये ।
वज्रयुक्तस्तु यो मन्त्रः स निरुद्धः प्रकीत्तीतः ॥ इति ।
वज्ज्रं लकारः।
उभयत्र त्रिधेति शेषः ।
चकारेणोभयत्र समुच्चयोऽपि दशीतः।
एतेन केचन भूबीजशब्देन ग्लोमिति वदन्ति तदपि परास्तम् ।
ग्रन्थान्तरे त्वन्यः प्रकारः—- " रुद्धो निःसन्धिकः स्मृतः " इति ।
स्वरसन्धिर्व्यञ्जनसन्धिर्व्याकरणोक्तो यत्र नास्ति स निःसन्धिकः ।
तन्त्रान्तरे—- " रुद्धाः परिवारसमन्विताः " इति ॥ ७२ ॥
मायात्रितत्त्वश्रीबीजरावहीनस्तु यो मनुः ।
शक्तिहीनः स कथितो यस्य मध्ये न विद्यते ॥ ७३ ॥
कामबीजं मुखे माया शिरस्यङ्कुशमेव वा ।
असौ पराङ्मुखः प्रोक्तो हकारो बिन्दुसंयुतः ॥ ७४ ॥
आद्यन्तमध्येष्विन्दुर्वा न भवेद् बधिरः स्मृतः ॥ ७५ ॥
मायेति ।
माया भुवनेशीवीजम् ।
त्रितत्त्वं हू�कारः प्रणवो वा ।
रावः फ्रेङ्कारः।
एषां न समुच्चयः ।
यदुक्तम्—-
मायाबीजं यत्र नास्ति त्रितत्त्वं रावमेव वा ।
श्रीगृहं वापि मन्त्रोऽसौ शक्तिहीनः प्रकीत्तीतः ॥ इति ।
पिङ्गलामतेऽपि—- मायाबीजं त्रितत्त्वं वा श्रीगृहं यत्र नास्ति चेत् ।
शक्तिहीन इति ख्यातः सामर्थ्यं हन्ति मन्त्रिणः ॥ इति ।
अथ मन्त्रांशकबीजविवरणमित्युपक्रम्य त्रितत्त्वं हू� श्रीग्रहं श्रीमिति तत्रैव व्याख्यातम् ।
यस्येति ।
मुखे आदौ ।
शिरसि अन्ते ।
अङ्कुशं क्रोङ्कारः ।
वाशब्दः समुच्चये।
क्वचिदेव चेति पाठः ।
तदुक्तं पिङ्गलामते—-
कामबीजं न यन्मध्ये मायादावन्तिमोऽङ्कुशः ।
पराङ्मुख इति प्रोक्तः ।
इति।
मन्त्रमुक्तावल्यामपि—-
यस्य कामकलाबीजं मध्यस्थाने न विद्यते ।
आदौ मायाङ्कुशश्चान्ते विज्ञेयोऽसौ पराङ्मुखः ॥ इति ।
हकार इति ।
इन्दुः सः ।
बिन्दुसंयुत इत्यत्रापि सम्बध्यते ।
आद्यन्तमध्येष्विति न समुच्चयः ।
तदुक्तम्—-
शून्यं बिन्दुसमायुक्तम् आद्यन्ते वाथ मध्यतः ।
न भवेज्जीवबीजं वा यस्यासौ बधिरः स्मृतः ॥ इति ।
एतेन केचिदिन्दुशब्देन ठकाराख्यमाचक्षते ।
तदपि परास्तम् ॥ ७३-७५ ॥
पञ्चवर्णे मनुर्यः स्याद् रेफार्केन्दुविवजीतः ।
नेत्रहीनः स विज्ञेयो दुःखशोकामयप्रदः ॥ ७६ ॥
पञ्चेति ।
अर्के हकारः ।
वैष्णववृहत्तत्त्वन्यासेऽर्कमण्डलतत्त्वस्य हकारादित्वेन न्यस्तत्वात् ।
हकारस्य पुंरूपत्वाद् वा अर्कत्वम् ।
इन्दुः सकारः ।
पञ्चेत्यादि उभयं दोषबीजम् ।
दुःखशोकमयप्रद इति क्रमेण फलम् ।
यतोऽग्निसूर्यचन्द्राणां नेत्रत्रयात्म- कत्वात् एकद्विहानतः काणतापि ज्ञेया ।
तदुक्तं पिङ्गलामते—-
पञ्चाक्षरस्तु यो मन्त्रो वह्निचन्द्रार्कवजीतः ।
नेत्रहीन इति ज्ञेयो दुःखशोकामयावहः ॥ इति ।
अथ मन्त्रांशकवीजविवरणमित्युपक्रम्य चन्द्रः सः अर्के हः इति तत्रैव व्याख्यातम् ॥ ७६ ॥
आदिमध्यावसानेषु हंसप्रासादवाग्मवाः ।
हकारोबिन्दुमान् जीवो रावं वापि चतुष्कलम् ।
माया नमामि च पदं नास्ति यस्मिन् स कीलितः ॥ ७७ ॥
आदीति ।
एषां समुच्चयः हंसआदीनां न समुच्चयः ।
रावं वा इत्युक्तत्वात् ।
ग्रन्थान्तरेपि—- " हंसं मायात्मकं वापि " इति ।
हंसः खरूपम् ।
प्रासादबीजं हौम् ।
वाग्भवम् ए� ।
हकारोबिन्दुमान् ।
जीवः सः ।
रावः फ्रेम् ।
चतुष्कलो हू� ।
माया शक्तिबीजम् नमामीति पदञ्च यत्र नास्ति स कीलित इति ।
अत्र हकारोबिन्दुमानित्येकं पदम् ।
जीव इत्येकम् ।
तत्र जीवः कीदृशः हकारश्च अकारश्च उकारश्च बिन्दुश्च तद्वान्।
तेन स्होम् इति सिद्धम् ।
अत्र अकार उकार बिन्दुरित्यनेन ओङ्कारः ।
यथा " औमाः स्युः " इत्यत्र ।
तथा च पिङ्गलामते—-
नवमस्वरसंयुक्तो जीवारूढः सबिन्दुकः ।
यस्यात्मा दृश्यते नैव किंवा रावश्चतुष्कलः ॥
प्रासादो वाग्भवो हंसो माया वा यत्र दृश्यते ।
आदिमध्यान्तदेशेषु कीलितं तं प्रचक्षते ॥ इति ।
अथ मन्त्रांशकबीजविवरणमित्युपक्रम्य तत्रैव व्याख्यातम्—-नवमस्वर ओकारः ।
आत्मा हः ।
रावः फ्रेम् ।
चतुष्कलः हू� ।
तन्त्रान्तरे तु—- " हंसमायात्मकं वापि " इति पठित्वा ह्रीमिति व्याख्यातम् ।
अन्ये हंसो मायेति पिङ्गलावाक्येऽप्यय- मेवार्थ इत्याहुः ।
अन्यत्र तु—- " अन्तरन्येन बीजेन व्याप्तः कीलित उच्यते ।
" इति ।
ग्रन्थान्तरे—- " कीलितो बीजवजीतः " इति ॥ ७७ ॥
एकं मध्ये द्वयं मूद्ध्न यस्मिन्नस्त्रपुरन्दरौ ।
विद्येते स तु मन्त्रः स्यात् स्तम्भितः सिद्धिरोधकः ॥ ७८ ॥
एकमिति ।
मूद्ध्नी अन्ते ।
अस्त्रं फट्कारः ।
पुरन्दरो लः ।
मध्ये एकः फट्कारो लकारो वा ।
अन्ते फट्कारद्वयं लकारद्वयं वा ।
केचन मध्ये फट्कारः अन्ते लद्वयमिति व्याचक्षते ।
तदसत् ।
ग्रन्थान्तरविरोधात् ।
तथा च पिङ्गलामते—-
सकृन्मध्ये द्विधा प्रान्ते शक्रबीजं भवेद् यदि ।
स्तम्भितं तं वदन्तीत्थं मन्त्रं मन्त्रविदो बुधाः ॥ इति ।
ग्रन्थान्तरे च—- द्विधा त्रिधाऽष्टधा षोढा मन्त्रान्ते यत्र दृश्यते ।
महास्त्रं स्तम्भितो मन्त्रः सः श्रीशेन प्रकीत्तीतः ॥
इति ग्रन्थद्वयविरोधात् ।
" न विद्येते स मन्त्रः " इति प्रामादिकः पाठः ।
" विद्येते स तु मन्त्रः स्यात् " इति तु साम्प्रदायिकः पाठः ।
अन्यत्र तु—-
स्तम्भितोसौ क्रियायां यो नियुक्तो नापि युञ्जति ।
इति ॥ ७८ ॥
वह्निवायुसमायुक्तो यस्य मन्त्रस्य मूर्द्धनि ।
सप्तधा दृश्यते तं तु दग्धं मन्येत मन्त्रवित् ॥ ७९ ॥
वह्निरिति ।
वह्नी रेफः वायुर्यकारः तेन समवेतः अध ऊर्द्धं वा ।
मूर्द्धनि आदौ।
तदुक्तं पिङ्गलामते—-
आदिस्थैः सप्तभिर्बीजैर्मारुतैः पावकाक्षरम् ।
दीपितं यत्र तं मन्त्रमार्या दग्धं प्रचक्षते ॥ इति ।
ग्रन्थान्तरे प्रकारान्तरेणोक्तः—- " षट्कर्णाकणीतो दग्धः " इति ।
अन्यत्र तु—- " अग्निबीजाधिका दग्धाः " इति ॥ ७९ ॥
अस्त्रं द्वाभ्यां त्रिभिः षड्भिरष्टाभिर्दृश्यतेऽक्षरैः ।
त्रस्तः सोऽभिहितो यस्य मुखे न प्रणवः स्थितः ।
शिवो वा शक्तिरथवा भीताख्यः स प्रकीतीतः ॥ ८० ॥
अस्त्रमिति ।
द्वाभ्यामक्षराभ्यां त्रिभिः षड्भीरष्टभिरक्षरैर्वा यस्य अस्त्र फट्कारो दृश्यते ।
पिङ्गलामते भीतनाम्नायमुक्तः ।
आदिमध्यान्तदेशेषु यदि मन्त्रोऽस्त्रसंयुतः ।
भीत इत्युच्यते तन्त्रे ।
इति ।
अन्ये तु " त्रस्तः सोऽभिहितो मन्त्रः " इति पाठमपठन् ।
तन्त्रान्तरे—- " त्रासिताः सिद्धि- भीषिताः " इति ।
यस्येति ।
मुखे आदौ ।
शिवः हः शक्तिः स इति साम्प्रदायिकाः ।
केचन शिवशब्देन बिन्दुं शक्तिशब्देन विसर्गमाहुः ।
तदयुक्तम् ।
मन्त्रादौ केवलबिन्दोः केवलविसर्गस्य वा असत्त्वात् ।
अक्षरान्तरयुक्तो ग्राह्य इति चेत् ।
तद्वरं साम्प्रदायिकार्थानुसरणमेव ।
ग्रन्थकृदन्ते वक्ष्यति—-
हंसौ तौ पुम्प्रकृत्याख्यौ हं पुमान् प्रकृतिस्तु सः ।
इति ।
अयमेव दोषो नामान्तरेणोक्तः पिङ्गलामते—-
शिवः शक्तिस्तथौङ्कारो यस्यादौ नास्ति तं मनुम् ।
वदन्ति मातृकाहीनं हीनसिद्धिप्रदायकम् ॥ इति ।
अथ मन्त्रांशकबीजविवरणमित्युपक्रम्य तत्रैव व्याख्यातं शिवो हं शक्तिः
स इति ॥ ८० ॥
आदिमध्यावसानेषु भवेन्मार्णचतुष्टयम् ।
यस्य मन्त्रः स मलिनो मन्त्रवित् तं विवर्जयेत् ॥ ८१ ॥
आदीति ।
एषां समुच्चयः ।
मार्णचतुष्टयमित्यपि समुच्चयः ।
तेन स्थानत्रये मिलित्वा मार्णचतुष्टयमपेक्षितम् ।
तदुक्तं पिङ्गलामते—-
आदिमध्यान्तदेशेषु चतुर्धा यत्र दृश्यते ।
मकारो मलिनं विद्यात् तं मन्त्रं मन्त्रवित् त्यजेत् ॥ इति ।
अन्यत्र तु—- आदौ मध्येऽथ हृदये त्रिधा वै यस्य दृश्यते ।
मन्त्रो मकार ईशेन मलिनः स समीरितः ॥ इति ।
मतान्तरत्वाद्भेदः ।
हृदयशब्दोऽन्तवाची ।
अन्यत्र तु " मलैस्त्रिभिः सहजागन्तुकमायाख्यैर्मलिनाः " इति ॥ ८१ ॥
यस्य मध्ये दकारोऽथ क्रोधो वा मूर्द्धनि द्विधा ।
अस्त्रं तिष्ठति मन्त्रः स तिरस्कृत उदाहृतः ॥ ८२ ॥
यस्येति ।
क्रोधो हू� बीजं मध्ये दकारक्रोधयोवीकल्पः ।
मूर्द्धनि अन्ते ।
द्विधा अस्त्रमिति सम्बन्धः ।
मध्यान्तयोः समुच्चयः ।
तदुक्तं पिङ्गलामते—-
दकारः क्रोधबीजं वा यस्य मध्ये व्यवस्थितम् ।
फड् द्वयञ्च स्थितं प्रान्ते यस्याणोः स तिरस्कृतः ॥ इति ।
अन्यत्रापि—- यस्य मध्ये दकारस्तु क्रोधबीजं ह्रदि स्थितम् ।
द्विधा चान्ते च फट्कारः स्याद् यस्य स तिरस्कृतः ॥ इति ।
तन्त्रान्तरे " पराभूतास्तिरस्कृताः " इति ॥ ८२ ॥
भ्योद्वयं ह्नदये शीर्षे वषडस्रञ्च च मध्यतः ।
यस्यासौ भेदितो मन्त्रस्त्याज्यः सिद्धिषु सूरिभिः ॥ ८३ ॥
भ्योद्वयं प्रमुखे शीर्षे वषडस्रञ्च मध्यत इति ।
शीर्षे अन्ते वषट् ।
अस्त्रं ह्रः मध्यतः ।
यन्मन्त्रमुक्तावल्याम्—-
अस्त्रवर्णद्वयं मध्ये वषडन्ते तथैव च ।
यस्य मन्त्रस्य भिन्नोऽसौ विज्ञेयः सिद्धिवजीतः ॥ इति ।
पिङ्गलामतेऽपि—- अस्त्रवर्णद्वयं मध्ये वषडन्ते तथादितः ।
औमाः स्युरसौ मन्त्रो भेदितः परिकीत्तीतः ॥ इति ।
अथ मन्त्रांशकबीजविवरणमित्युपक्रम्य तत्रैव व्याख्यातम् ।
अस्त्रं ह्रः ।
औमाः ओङ्कारः ।
केचन " भ्योद्वयं हृदये शीर्षे वषडाबू च मध्यतः " इति पठन्ति ।
अन्ये च " वषट् वौषट् च मध्यतः " इति पठन्ति ।
अन्यत्र—- " भिन्नतां नीता भेदिताः " इति ॥ ८३ ॥
त्रिवर्णे हंसहीनो यः सुषुप्तः स उदाहृतः ॥ ८४ ॥
त्रिवर्ण इति ।
त्रिवर्णत्वं हंसहीनत्वमेकस्यैव ।
तदुक्तं पिङ्गलामते—-
वर्णत्रयं भवेद् यत्र हंसहीनं स शम्भुना ।
सुषुप्त इति सिद्धान्ते प्रोक्तोऽभीष्टफलापहः ॥ इति ।
मन्त्रमुक्तावल्यामपि—-वर्णत्रयात्मको मन्त्रो यस्तु हंसविवजीतः ।
प्रसुप्तः स तु विज्ञेयः सर्वसिद्धिफलापहः ॥ इति ।
" अज्ञातदीपकः सुप्तः " इत्येके ।
अन्यत्र तु—- " मायया हतसामर्थ्याः सुप्ताः " इति ।
अन्यत्र तु—- " सुप्तः स्यादासनं विना " इति ॥ ८४ ॥
मन्त्रो वाऽप्यथवा विद्या सप्ताधिकदशाक्षरः ।
फट्कारपञ्चकादिर्ये मदोन्मत्त उदीरितः ॥ ८५ ॥
तद्वदस्त्रं स्थितं मध्ये यस्य मन्त्रः स मूच्छीतः ।
विरामस्थानगं यस्य हृतवीर्यः स कथ्यते ॥ ८६ ॥
मन्त्र इति ।
सप्ताधिकानि अष्टौ दश च अक्षराणि यत्र सः ।
एवमष्टादशाक्षरः।
फट्काराणां पञ्चकमादौ यस्मिन्निति वहुब्रीहिः ।
तदुक्तम्—-
विद्या वा यदि वा मन्त्रो यद्यष्टादशवर्णकः ।
पञ्चफट्कारपूर्वः स्यान्मदोन्मत्तः स उच्यते ॥ इति ।
पिङ्गलामतेऽपि—- विद्या वा मन्त्रराजो वा यः स्यात् सप्तदशाधिकः ।
फट्काराः पञ्च पूर्वञ्चेदुन्मत्तः स प्रकीत्तीतः ॥ इति ।
अत्रापि विशेषणद्वयविशिष्टत्वे दोषः ।
तद्वदिति पञ्चवारम् ।
ग्रन्थान्तरे प्रकारान्तरम्—- " समूच्छीताः पुनवीचैतन्याः " इति ।
विरामेति ।
यस्यास्त्रमिति सम्बध्यते ।
यस्यान्ते अस्त्रमित्यर्थः ।
" विरामगोऽस्त्री यो मन्त्रः " इति पाठः क्वचित् ।
तदुक्तं पिङ्गलामते—-
अस्त्रमन्त्रो भवेद् यस्य मध्ये प्रान्ते च शम्भुना ।
हृतवीर्य इति ख्यातः स मन्त्रो नैव सिद्धिदः ॥ इति ।
अन्यत्रापि—-विरामस्थानगं यस्य हृतवीर्यः स उच्यते ।
इति ।
केचन पञ्चधा इत्यप्यनुवर्त्तयन्ति ।
तदेतद्विरुद्धम् ।
अन्ये तु " सामर्थ्यवजीतो हीनवीर्यः " इत्याहुः ।
अन्यत्र तु " निर्बीर्यश्चाधिकाक्षरः " इति ॥ ८५-८६ ॥
आदौ मध्ये तथा मूर्द्ध्न चतुरस्रयुतो मनुः ।
ज्ञातव्यो हीन इत्येष यः स्यादष्टादशाक्षरः ॥ ८७ ॥
एकोनविंशत्यर्णे वा यो मन्त्रस्तारसंयुतः ।
हृल्लेखाङ्कुशबीजाढ्यस्तं प्रध्वस्तं प्रचक्षते ॥ ८८ ॥
आदाविति समुच्चयः ।
चतुर्धास्त्रमित्यपि ।
स्थानत्रये मिलित्वा अस्त्रचतुष्टयम्।
तन्त्रान्तरे तु भीतनाम्ना अयमुक्तः ।
आदावन्ते तथा मध्ये चतुर्धाऽस्त्रेण संयुतम् ।
अष्टादशाक्षरं मन्त्रं भीतं तं भैरवोऽब्रवीत् ॥ इति ।
अष्टादशाक्षरत्वे विशेषः ।
अत्रापि " यः स्यादष्टादशाक्षरः " इति चरणः काकाक्षिगोलकन्यायेनोभयत्र सम्बध्यते इति वा ।
क्वचित् " ज्ञातव्यो भीत इत्येषः " इति पाठः ।
ग्रन्थान्तरे तु प्रकारान्तरम् ।
" अथ वजिताः सुसिद्ध सिद्ध साध्याख्यैरंशै- र्हीनाः " इति ।
अन्यत्र तु " हीनो दुष्टादवाप्तो यः " इति ।
यः स्यादिति ।
तारः प्रणवः ।
केचन तारं प्रेम् इति वदन्ति ।
तदयुक्तम् ।
ग्रन्थान्तरविरोधात् ।
यन्मन्त्रमुक्तावल्याम्—-
एकोनविंशत्यर्णे यो यो मन्त्रः प्रणवान्वितः ।
महामायाङ्कुशैर्युक्तस्तं प्रध्वस्तं प्रचक्षते ॥ इति ।
पिङ्गलामतेऽपि—- यदि सोऽष्टादशाक्षरः ।
विंशत्येकोनवर्णे वा मायौङ्काराङ्कुशान्वितः ।
प्रध्वस्त इत्यसौ मन्त्रः शम्भुदेवेन कीत्तीतः ॥ इति
केचनैतत् परिहाराय " यो मन्त्रः प्रणवान्वितः " इति पाठं पठन्ति ।
हृल्लेखा माया ।
तदुक्तं भुवनेशीपारिजाते—-
मायाबीजमिदं प्रोक्तं भुवनत्रयमक्षरम् ।
हृल्लेखेयञ्च योगेशी भुवनेशी च योगिनी ॥ इति ॥ ८७-८८ ॥
सप्तवर्णे मनुर्बालः कुमारोऽष्टाक्षरस्तु यः ।
षोडशार्णे युवा प्रौढश्चत्वारिंशल्लिपिर्मनुः ॥ ८९ ॥
सप्तवर्ण इति ।
चत्वारिंशल्लिपिश्चत्वारिंशदक्षरः ।
तदुक्तम्—-
सप्ताक्षरो भवेद् बालः कुमारश्चाष्टवर्णकः ।
चत्वारिंशाक्षरः प्रौढस्तरुणः षोडशाक्षरः ॥ इति ।
अन्यत्र—- " बालो लघ्वक्षरात्मकः " इति ।
ग्रन्थान्तरे तु—- " अदृढा बालकाः कार्ये " इति ।
अन्यत्र—-गुरोरप्यविधानेन प्राप्तो योवनगवीतः ।
इति ।
ग्रन्थान्तरे तु—- " तरुणा अतिदपीताः " इति ।
अन्यत्र तु—- " प्रौढाः प्रभोत्कटाः " इति ॥ ८९ ॥
त्रिंशदर्णश्चतुः षष्टिवर्णे मन्त्रः शताक्षरः ।
चतुः शताक्षरश्चापि वृद्ध इत्यभिधीयते ॥ ९० ॥
त्रिंशदिति ।
चतुःशताक्षरः चतुरधिकशताक्षरः मध्यपदलोपी ।
केचित् चतुःशताक्षर इति चत्वारि शतानि अक्षराणि यस्य इति व्याचक्षते ।
तन्न ।
ग्रन्थान्तर- विरोधात् ।
त्रिंशदर्णं शतार्णं वा चतुःषष्ट्यक्षरन्तथा ।
चतुरूर्द्धशतं वापि वृद्ध इत्यभिधीयते ॥ इति ।
पिङ्गलामतेऽपि—- त्रिंशद् यत्र शतार्द्धं वा चतुःषष्टिशतं चतुः ।
शतानि सन्ति वर्णानां स मन्त्रो वृद्धसञ्ज्ञकः ॥ इति ।
असावेवाग्रे वक्ष्यति अतिवृद्धलक्षणे—-
चतुःशतान्यथारभ्य यावद्वर्णसहस्रकम् ।
इति ।
त
न च विरोधः स्यात् ।
ग्रन्थान्तरे च—- " क्षुद्रकर्मैव कुर्वन्ति वृद्धास्ते ।
" इति ॥ ९० ॥
नवाक्षरो ध्रुवयुतो मनुर्निस्त्रिंश ईरितः ।
यस्यावसाने हृदयं शिरोमन्त्रश्च मध्यतः ॥ ९१ ॥
शिखा वर्म च न स्यातां वौषट् फट्कार एव च ।
शिवशक्त्यर्णहीनो वा स निर्बीज इति स्मृतः ॥ ९२ ॥
नवेति ।
ध्रुव ओङ्कारः ।
नवाक्षरत्वं ध्रुवयुक्तत्वमेकस्यैव ।
निस्त्रिंशो धातुक इत्यर्थः ।
पिङ्गलामते—-नवाक्षरस्तु निस्त्रिंशो ध्रुवयुक्तोऽपमृत्युदः ।
इति ।
यस्येति ।
हृदयमन्त्रः नमः ।
शिरोमन्त्रः स्वाहा ।
शिखा वषट् ।
वर्म हु� ।
शिवो हम् ।
शक्त्यर्णः स इति ।
विकल्पद्वयमध्य एव ।
अत्र " संस्याताम् " इति प्रामादिकः पाठः ।
" न स्याताम् " इति साम्प्रदायिकः ।
तदुक्तम्—-
हृच्छिरोऽन्ते शिखा वर्म मध्ये नेत्रास्त्रकेऽथवा ।
शिवशक्त्यात्मकौ वर्णौ न स्तौ यस्थ स मन्त्रराट् ।
निर्बीज इति सम्प्रोक्तः सर्वकर्मसु गहीतः ॥ इति ।
तन्त्रान्तरे तु—-निर्बीजस्तु समाख्यात आदावोङ्कारवजीतः ।
इति ॥ ९१-९२ ॥
एषु स्थानेषु फट्कारः षोढा यस्मिन् प्रदृश्यते ।
स मन्त्रः सिद्धिहीनः स्यान्मन्दः पङ्क्तयक्षरो मनुः ॥ ९३ ॥
एष्विति निर्बीजलक्षणे तन्त्रान्तरोक्तादिग्रहणसूचनार्थम् ।
तदाह एष्विति ।
आदिमध्यावसानेषु एषां समुच्चयः ।
षोढेत्यत्रापि स्थानत्रये मिलित्वा षट् ।
मन्द इति ।
पङ्क्त्यक्षरो दशाक्षरः ।
तदुक्तम्—- " दशाक्षरो भवेन्मन्दः " इति ।
तन्त्रान्तरे—- " प्रभाहीना मन्दाः " इति ॥ ९३ ॥
कूट एकाक्षरो मन्त्रः स एवोक्तो निरंशकः ।
द्विवर्णः सत्वहीनः स्याच्चतुर्वर्णस्तु केकरः ॥ ९४ ॥
कूट इति ।
तदुक्तम्—- " कूट एकाक्षरोऽथवा निरंशः स भवेन्मन्त्रः " इति ।
द्विवर्ण इति ।
तदुक्तम् ।
" द्व्यक्षरः सत्त्ववजीतः " इति ।
अन्यत्र तु—- " सत्त्ववजीतास्तमसोत्कटाः " इति ।
चतुर्वर्ण इति चतुर्बीजः ।
पिङ्गलामते विशेषः—-
ध्रुवहीनश्चतुर्बीजैः षड्भिर्वा केकरो मतः ।
इति ॥ ९४ ॥
षडक्षरो बीजहीनस्त्वर्द्धसप्ताक्षरो मनुः ।
सार्द्धद्वादशवर्णे वा धूमितः स तु निन्दितः ॥ ९५ ॥
सार्द्धबीजत्रयस्तद्वदेकविंशतिवर्णकः ।
अविंशत्यर्णस्त्रिंशदर्णे यः स्यादालिङ्गितस्तु सः ॥ ९६ ॥
द्वात्रिंशदक्षरो मन्त्रो मोहितः परिकीत्तीतः ।
चतुवींशतिवर्णे यः सप्तविंशतिवर्णकः ॥ ९७ ॥
क्षुधार्त्तः स तु विज्ञेयश्चतुवींशतिवर्णकः ।
एकादशाक्षरो वापि पञ्चविंशतिवर्णकः ॥ ९८ ॥
त्रयोविंशतिवर्णे वा मन्त्रो दृप्त उदाहृतः ॥ ९९ ॥
षडक्षर इति ।
अन्यत्र—- " बीजवजीता ओङ्काररहिताः " इति ।
सार्द्धेति ।
अत्रार्द्धसप्ताक्षरत्वम् अर्द्धद्वादशवर्णत्वञ्च अन्ते व्यञ्जनसत्त्वाद् ज्ञेयम् ।
सार्द्धबीजत्रयस्तद्वदिति ।
बीजं वर्णः ।
तद्वद्धूमित इत्यर्थः ।
तदुक्तम्—-
अर्द्धसप्ताक्षरो मन्त्रः सार्द्धद्वादशवर्णकः ।
धूमितः स समाख्यातः सार्द्धवर्णत्रयोऽथवा ॥ इति ।
त्रिंशद्वर्णस्य वृद्धत्वमालिङ्गितत्वञ्च तथैव ।
दृप्त इति ।
उद्देशावसरे अतिदृप्तस्योद्दिष्टत्वात् लक्षणावसरे दृप्तलक्षणं कथं क्रियते इति न मन्तव्यम् ।
सत्यप्युपसर्गेऽप्यर्थभेदात् ।
तदुक्तम्—-
धात्वर्थं वाधते कश्चित् कश्चित्तमनुवर्त्तते ।
तमेव विशिनष्ट्यन्योऽनर्थकोऽन्यः प्रयुज्यते ॥ इति ।
मन्त्रमुक्तावल्यां तथोक्तम्—-
चतुवींशाक्षरं वाथ मन्त्रमेकादशाक्षरम् ।
शतार्द्धार्द्धं त्रयोविंश मतिदृप्तन्तु तं विदुः ॥ इति ॥ ९५-९९ ॥
षड्विंशत्यक्षरो मन्त्रः षट्त्रिंशद्वर्णकस्तथा ।
त्रिंशदेकोनवर्णे वाऽप्यङ्गहीनोऽभिधीयते ॥ १०० ॥
अष्टाविंशत्यक्षरो वा एकत्रिंशदथापि वा ।
अतिक्रुद्धः स कथितो निन्दितः सर्वकर्मसु ॥ १०१ ॥
त्रिंशदक्षरको मन्त्रस्त्रयस्त्रिंशदथापि वा ।
अतिक्रूरः स कथितो निन्दितः सर्वकर्मसु ॥ १०२ ॥
षड्विंशतीति ।
त्रिंशतः एक ऊनो येषु पश्चाद् वहुब्रीहिः ।
अङ्गहीनो मन्त्रमुक्तावल्याम्—- " अष्टत्रिंशदक्षरः " इति चतुर्थेऽप्युक्तः ॥ १००-१०२ ॥
चत्वारिंशतमारभ्य त्रिषष्टिर्यावदापतेत् ।
तावत्सङ्ख्या निगदिता मन्त्राः सव्रीडसञ्ज्ञकाः ॥ १०३ ॥
चत्वारिंशतमिति ।
चत्वारिंशदक्षरमारभ्य एकैकाक्षरवृद्ध्या चतुवींशतिप्रकारः सब्रीडः ।
मन्त्रमुक्तावल्याम्—- " चतुःषष्ट्यक्षरं यावत् " इति ॥ १०३ ॥
पञ्चषष्ट्यक्षरा ये स्युर्मन्त्रास्ते शान्तमानसाः ।
एकोनशतपर्यन्तं पञ्चषष्ट्यक्षरादितः ॥ १०४ ॥
ये मन्त्रास्ते निगदिताः स्थानभ्रष्टाह्वया बुधैः।
त्रयोदशाक्षरा ये स्युर्मन्त्राः पञ्चदशाक्षराः ॥ १०५ ॥
एकोनेति ।
पञ्चषष्ट्यक्षर आदिर्यस्येत्येतद्गुणसंविज्ञानो वहुब्रीहिः ।
इतः पञ्चषष्ट्यक्षरादिति वा छेदः ।
तस्य पूर्वं शान्तमानसतोक्ता ।
मन्त्रमुक्तावल्यामपि—-
पञ्चषष्ट्युत्तरा ये च यावदेकोनकं शतम् ।
इति ।
तेन स्थानभ्रष्ट एकैकाक्षरवृद्ध्या चतुस्त्रिंशत् प्रकारः ॥ १०४-१०५ ॥
विकलास्तेऽभिधीयन्ते शतं सार्द्धं शतं तु वा ।
शतद्वयं द्विनवतिरेकहीनाथवापि सा ॥ १०६ ॥
शतत्रयं वा यत्सङ्ख्या निःस्नेहास्ते समीरिताः ।
चतुःशतान्यथारभ्य यावद्वर्णसहस्रकम् ॥ १०७ ॥
अतिवृद्धः प्रयोगेषु परित्याज्यः सदा बुधैः ।
सहस्रार्णाधिका मन्त्रा दण्डका पीडिताह्वयाः ॥१०८॥
द्विसहस्राक्षरा मन्त्रा खण्डशः शतधा कृताः ।
ज्ञातव्याः स्तोत्ररूपास्ते मन्त्रा एते यथा स्थिताः ॥ १०९ ॥
शतमिति ।
शतद्वयं द्विनवतिरित्येकः सार्द्धशतद्वयं द्विनवतिरेकहीना तेनैकाधिका नवतिः शतत्रयञ्च ।
एवं पञ्च पञ्च प्रकाराः ।
पिङ्गलामते तु—-
एकद्वित्रिंशतैर्वर्णैर्युक्ता निःस्नेहवृत्तयः ।
इति
त्रिप्रकार एव ।
मन्त्रमुक्तावल्यां षष्ठोऽप्युक्तः " त्रिशतं त्वेकवजीतम् " इति ।
केचन शतद्वयमित्येकः प्रकारः ।
द्विनवति रित्यन्यः ।
सा एकहीना एकाधिक नवति रित्यपरः प्रकार इत्यूचुः ।
तन्न ।
षट्षष्टिप्रभृतीनाम् एकोनशत पर्यन्तं स्थानभ्रष्टाह्वयत्व- स्योक्तत्वात् ।
त्रिंशद्वर्णवत् एकस्यैव दोषद्वयदुष्टत्वं भविष्यतीति चेत् तन्न ।
तत्र शतादारभ्याधिकस्यैव शतत्रय पर्यन्तमुक्तत्वात् ।
यत्सङ्ख्येति सर्वत्र सम्बध्यते ।
येषां मन्त्राणां सङ्ख्या शताधिकास्ते निःस्नेहा इति सम्बन्धः ।
योगेषु प्रयोगेषु ये दण्डकास्ते स्तोत्ररूपास्ते पीडिताह्वया ज्ञातव्या इति
सम्बन्धः ॥ १०६-१०९ ॥
तथा विद्याश्च बोद्धव्या मन्त्रिभिः काम्यकर्मसु ।
दोषानिमानविज्ञाय यो मन्त्रं भजते जडः ।
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥ ११० ॥
ननु मन्त्राणामेवैते दोषा उक्ता विद्यास्तु निर्देषा इति आशङ्क्य आह मन्त्रा एते इति ।
यथा मन्त्रा एते स्थिताः सदोषाः तथा मन्त्रिभिवीद्या अपि बोद्धव्याः ।
तदुक्तम्—-यथा मन्त्रास्तथा विद्या भेदभिन्नाः परस्परम् ।
ज्ञातव्या देशिकेन्द्रेण नानातन्त्रेषु भाषिताः ॥ इति ।
काम्यकर्मस्वित्यनेन मुक्त्यर्थं मन्त्रजपे एतऽद्दोषाभावाद्दशसंस्कारा अपि न कर्त्तव्याः ।
एतच्चोपलक्षणम् ।
तेन वक्ष्यमाणलक्षणं शोधनादिकं मुक्त्यर्थं न कर्त्तव्यमिति ॥ ११० ॥
इत्यादि दोषदुष्टांस्तान् मन्त्रानात्मनि योजयेत् ।
शोधयेदूर्द्धपवनो बद्धया योनिमुद्रया ॥ १११ ॥
इत्यादीत्यादिशब्दात् मीलितविपक्षस्थदारितमूकनग्नभुजङ्गमशून्यहतादयोदोषा ज्ञेयाः ।
तल्लक्षणानि यथा—-
" मीलिताः कर्मण्यतिजडा मन्त्रा मन्त्रिणा योजिता अपि " ॥ इति ।
" विपक्षस्था रिपोः पक्षमाश्रिताः " इति ।
" आदिमध्यावसानेषु ध्रुवो यस्य न विद्यते ।
स दारित इति ख्यातः तन्त्रेऽस्मिन् कृत्तिवाससा ॥ " इति ।
" न्यासं विना भवेन्मूकः " ।
" पल्लवेन विना मन्त्रो नग्नः सम्परिकीत्तीतः ।
" इति ।
" ऋषिदैवतच्छन्दोभिः परित्यक्तो भुजङ्गमः ।
" इति ।
" यस्य जापं शृणोत्यन्यः स मन्त्रः शून्य उच्यते ।
" " शिरोहीनो हतः प्रोक्तः " इति ।
शोधनप्रकारमाह मन्त्रानात्मनीति ।
कार्यं कारणादनन्यदेवेति या भावना सा आत्मनि योजना ।
क्वचिन्मन्त्रान् स्वात्मनि योजयेदिति पाठः ।
प्रकारान्तरेण शोधनमाह शोधयेदिति ।
वक्ष्यमाणलक्षणां योनिमुद्रां वद्धा मूलाधारोत्पन्नान् मन्त्रवर्णान् ब्रह्मरन्ध्रपर्यन्तं गतागतानि कुर्वतो
ध्यात्वा वायुधारणं कृत्वा सहस्रं जपेदिति शोधनप्रकारमाहुः ।
तदुक्तम्—- " योनिं बद्धा बीजं बिन्द्वादिपथेन चोन्मनीं प्राप्य तत्र सहस्रं मन्त्रं जपेत् स मन्त्रः
प्रबुद्धः स्यात् " इति ।
योनिमुद्रालक्षणं यथा—-
पाष्णीभागात् सुसम्पीड्य योनिमार्गं तथा गुदम् ।
अपानमूर्द्धमाकर्षेन्मूलबन्धो निगद्यते ॥
गुदमेढ्रान्तरं योनिस्तामाकुञ्च्य प्रबन्धयेत् ।
युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ इति ।
योनिस्थानमुद्रणात् योनिमुद्रात्वमस्याः ।
तदाहुः—-
सेयं मयोक्ता खलु योनिमुद्रा बन्धश्च देवैरपि दुर्लभोऽस्याः ।
अनेन बन्धेन न साध्यते यन्नास्त्येव तत् साधकपुङ्गवस्य ॥
छिन्ना रुद्धाः कीलिताः स्तम्भिता ये सुप्ता मत्ता मूच्छीता हीनवीर्याः ।
दग्धास्त्रस्ताः शत्रुपक्षे स्थिता ये बाला वृद्धा गवीता यौवनेन ॥
ये निर्बीजा ये च सत्त्वेन हीना खण्डीभूताश्चाङ्गमन्त्रैवीहीनाः ।
एते मुद्राबन्धनेनैव योन्या मन्त्राः सर्वे वीर्यवन्तो भवन्ति ॥ इति ॥ १११ ॥
मन्त्राणां दशसंस्काराः कथ्यन्ते सिद्धिदायिनः ।
जननं जीवनं पश्चात् ताडनं बोधनन्तथा ॥ ११२ ॥
अथाभिषेको विमलीकरणाप्यायने पुनः ।
तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः ॥ ११३ ॥
एवं न ये योगिनो योनिमुद्रानभिज्ञाः पवनधारणाशक्ताश्च तान् प्रति दशसंस्कारैः शोधनमाह मन्त्राणामिति ।
पिङ्गलामतेऽपि—-
इत्यादिदोषसंयुक्ता विज्ञेया मन्त्रिणाणवः ।
तस्मात् तद्दोषनाशाय क्रमः कोऽपि निगद्यते ॥
जननं जीवनं बोधस्ताडनं निर्मलीकृतिः ।
आप्यायनाभिषेकौ च क्रियाङ्गैः सप्तभिर्ध्रुवम् ॥
शोधिताः सकला मन्त्रा भवन्ति किल कामदाः ।
इति ।
मन्त्रतन्त्रप्रकाशेऽपि—-अथास्मै प्रवदेन्मन्त्रं संस्कृतं सुमुहूर्त्तके ।
सप्तैते मन्त्रसंस्काराः दुर्लभा भुवि मानवैः ॥
जननं जीवनञ्चैत्यादिना ।
अत्र तर्पणदीपनगोपनलक्षणास्त्रयः संस्काराः सामान्यतः प्रसिद्धा इति तान् विहाय सप्तेत्युक्तिरिति
ज्ञेयम् ॥ ११२-११३ ॥
मन्त्राणां मातृकामध्यादुद्धारो जननं स्मृतम् ॥ ११४ ॥
मन्त्राणामिति ।
मातृकामध्यादित्यनेनैतदुक्तं भवति ।
शुभे पीठादौ कुङ्कुमरोचनादिना मातृकाब्जं विलिख्य देयमन्त्रस्यैकैकमक्षरं मातृकाब्जत उद्धरणीयमिति ।
तदुक्तम्—-वर्णाब्जञ्च संलिख्य समुद्धरेन्मन्त्रजन्मैतत् ।
इति ॥ ११४ ॥
प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः ।
एतज्जीवनमित्याहुर्मन्त्रतन्त्रविशारदाः ॥ ११५ ॥
प्रणवेति ।
तत्र प्रणवान्तरितत्वमेवम् ओंराम् ओंरा ओम्मा ओंय ओन्न ओम्मः ।
सुधीरित्यनेन शतावृत्त्येत्युक्तम् ।
तदुक्तम्—-
प्रणवसहितांस्तु मन्त्रजवर्णान् प्रजपेच्छतावृत्त्या ।
एतज्जीवनमुक्तम् ।
इति ।
मन्त्रतन्त्रविशारदाः इत्यनेनान्येऽस्य बीजनमिति नाम आहुरित्युक्तं भवति ।
यत् पिङ्गलामते—-प्रणवो बीजमित्युक्तं बीजान्ते तं नियोजयेत् ।
अक्षरान्तरितं कृत्वा मन्त्रोऽसौ बीजितो मतः ॥ इति ॥ ११५ ॥
मन्त्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा ।
प्रत्येकं वायुना मन्त्री ताडनं तदुदाहृतम् ॥ ११६ ॥
मन्त्रेति ।
मन्त्रीत्यनेन भूर्ज्जे कुङ्कुमगोरोचनादिना मन्त्रवर्णान् विलिखेदित्युक्तम्।
वायुना यमिति बीजेन ।
प्रत्येकं शतवारं ताडयेत् ।
तदुक्तम्—-
भूर्ज्जे मन्त्राक्षराणि संलिख्य शतमप्येकैकं चन्दनाम्बुना ।
वायुबीजेन ताडयेत् एतत्ताडन मुक्तम् ॥ इति ॥ ११६ ॥
विलिख्य मन्त्रं तं मन्त्री प्रसूनैः करवीरजैः ।
तन्मन्त्राक्षरसङ्ख्यातैर्हन्याद्यान्तेन बोधनम् ॥ ११७ ॥
विलिख्येति ।
मन्त्रीत्यनेन भूर्ज्जे कुङ्कुमरोचनादिना लेखनमित्युक्तम् ।
करवीरजैरिति रक्तकरवीरजपुष्पैः ।
यान्तेन रमिति बीजेन ।
तदुक्तम्—-
एतस्मिन् विलिखित मन्त्रवर्णसङ्ख्याकरक्तकरवीरैः ।
एतद्वोधनमुक्तं यद्धन्याद्वह्निबीजेन ॥ इति ॥ ११७ ॥
स्वतन्त्रोक्तविधानेन मन्त्री मन्त्रार्णसङ्ख्यया ।
अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद् विशुद्धये ॥ ११८ ॥
स्वतन्त्रेति ।
स्वतन्त्रोक्तविधानेन ।
शैवमन्त्रे शिवतन्त्रानुसारात् शक्तिमन्त्रे शक्तितन्त्रानुसारात् विष्णुमन्त्रे वैष्णवतन्त्रानुसारात् इति ज्ञेयम् ।
पूर्ववद् भूर्ज्जे मन्त्रवर्णान् विलिख्याऽभिषिञ्चेदिति ।
मन्त्रीत्यनेन अमुष्य मन्त्रस्यामुकमक्षरम- भिषिञ्चामि नमः इति प्रयोग उक्तः ।
तदुक्तम्—-
निजतन्त्रेरितमार्गादभिषिञ्चेत् पिप्पलप्रवालेन ।
भूर्ज्जे विलिखितमन्त्रं शतमष्टौ चाभिषेकोऽयम् ॥ इति ।
पिङ्गलामते विशेषः—-
मालतीकलिकाभिस्तु न्यस्याणुं (र्णं) कणीकोपरि ।
अश्वत्थपल्लवैः शुद्धैस्तन्मन्त्राक्षरसमितैः ।
अभिषेकं प्रकुर्वीत स्वतन्त्रे विहितं यथा ॥ इति ।
मालतीकलिकाभिर्मन्त्राक्षराणि विलिख्याभिषेकं कुर्यात् ॥ ११८ ॥
सञ्चिन्त्य मनसा मन्त्रं ज्योतिर्मन्त्रेण निर्दहेत् ।
मन्त्रे मलत्रयं मन्त्री विमलीकरणन्त्विदम् ॥ ११९ ॥
सञ्चिन्त्येति ।
ज्योतिर्मन्त्रेण वक्ष्यमाणेन ।
मन्त्रीत्यनेन मूलाधारात् कुण्डलिनी- मुत्थाप्य तद्द्वारा (तद्वह्निना) दोषदाह इत्युक्तम् ।
मलत्रयं सहजमागन्तुकं मायीयमिति।
पिङ्गलामतेऽप्युक्तम्—-
सहजागन्तुमायाख्यं ज्योतिरूपेण निर्दहेत् ।
मन्त्रे मलत्रयं मन्त्री ततोऽसौ निर्मलो भवेत् ॥ इति ॥ ११९ ॥
तारं व्योमाग्निमनुयुग् दण्डी ज्योतिर्मनुर्मतः ।
कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षणं मनोः ॥ १२० ॥
तेन मन्त्रेण विधिवदेतदाप्यायनं मतम् ।
मन्त्रेण वारिणा मन्त्रे तर्पणं तर्पणं स्मृतम् ॥ १२१ ॥
ज्योतिर्मन्त्रमाह तारमिति ।
तारः प्रणवः ।
व्योम हकारः ।
अग्नी रेफः ।
मनुः औ।
एतद्युग् दण्डी अनुस्वारयुक्त इति मन्त्रविशेषणम् ।
" दण्डि " इति पाठे व्योमविशेषणम् ।
तदुक्तं निघण्टुमातृकायाम्—-
अमक्रूरेशको दण्डी बिन्दुकः कामगुह्यकः ।
कञ्चुः प्राचीनयोनिश्च सौख्यदुःखप्रबन्धकः ॥ इति ।
एवमग्रेऽपि दण्डशब्दवाच्यत्वं बिन्दोर्ज्ञेयम् ।
कुशेति ।
जप्तेनाष्टोत्तरशतमिति ।
लेखनं पूर्ववदेव ।
तेनेत्युभयत्र सम्बध्यते ।
तदुक्तं पिङ्गलामते—-
अष्टोत्तरशतालब्धं विशुद्धं कुशवारिणा ।
आप्यायितो भवेन्मन्त्रः प्रत्यर्णं प्रोक्षितो यदि ॥ इति ।
विधिवदिति प्रत्यर्णं सप्तधा ।
केचन तेन मन्त्रेणेति ज्योतिर्मन्त्रेण इति व्याचक्षते ।
तदसत् ।
ग्रन्थान्तरविरोधात् ।
तदुक्तम्—-
आप्यायनं स्वजप्तैः प्रत्यर्णं कुशपयोभिः स्यात् ।
इति ।
तेन मूलमन्त्रेणेत्यर्थः ।
तत्र प्रकारः ।
देयमन्त्रमुच्चार्य अमुं मन्त्रं तर्पयामि नमः इति जलेन तर्पणं कुर्यादिति ।
इदमेव मन्त्रतर्पणमित्यर्थः ।
तदुक्तम्—-
तर्पयामि पदं योज्यं मन्त्रान्ते त्विष्ट (ष्वेषु) नामसु ।
द्वितीयान्तेषु तु पुनः ।
इति।
अन्यत्रापि सर्वत्र तर्पणेऽयमेव प्रकारो द्रष्टव्यः ।
इदमप्यष्टोत्तरं शतम् ॥ १२०-१२१ ॥
तारमायारमायोगे मनोर्दीपनमुच्यते ।
जप्यमानस्य मन्त्रस्य गोपनन्त्वप्रकाशनम् ॥ १२२ ॥
संस्कारा दश सम्प्रोक्ताः सर्वत्(म)न्त्रेषु गोपिताः ।
यान् कृत्वा सम्प्रदायेन मन्त्री वाञ्छितमश्नुते ॥ १२३ ॥
तारेति ।
तारः प्रणवः ॐ ।
माया शक्तिः ।
रमा श्री� ।
मन्त्रस्यान्ते भवेन्नामयोगः प्रोच्चाटने मतः ।
इति योगलक्षणस्योक्तत्वादत्र मन्त्र एव नामस्थानीयः ।
तेन " इमानि बीजान्यादौ कृत्वा मन्त्रं जपेत् सप्तवारम् " इत्याचार्याः ।
सम्प्रदायेनेति ।
सम्प्रदायः प्रति संस्कारं मयोक्तोऽनुसन्धेयः ॥ १२२-१२३ ॥
स्वताराराशिकोष्ठानामनुकूलं भजेन्मनुम् ।
प्रापलोभात्पटुः प्राज्यं रुद्रस्याद्रि रुरुः करम् ॥ १२४ ॥
लोकलोपपटुः ग्राम खलौ द्यो भेषु भेदिताः ।
वर्णाः क्रमात् स्वरान्त्यौ तु रेवत्यंशगतौ स(त)दा ॥१२५॥
अथ निर्गुणोपासनाङ्गभूतसगुणोपासनायां प्रवृत्तस्य अवान्तरविचारं दर्शयति स्वतारेति ।
स्वं नाम तस्य तारा नक्षत्रम् ।
एवमग्रेऽपि—-
दुष्टर्क्षराशिभूतारिवर्णप्रचुरमन्त्रकम् ।
सम्यक् परीक्ष्य तं यत्नाद्वर्जयेन्मतिमान्नरः ॥
इत्युक्तेः तत्र तारामैत्रीज्ञानाय अक्षरेषु नक्षत्राणि कथयति प्रापेति ।
अत्र ग्रन्थकारस्य वाररुचः सङ्केतोऽभिप्रेतः ।
स यथा—-
कटपयवर्गभवैरिह पिण्डान्त्यैरक्षरैरङ्काः ।
नञि च शून्यं ज्ञेयं तथा स्वरे केवले कथिते ॥ इति ।
अत्र कटौ नववर्णौ पाद्यः पञ्चार्णः योऽष्टार्णे हान्तः ।
पिण्डं संयुक्ताक्षरम् ।
तत्रान्त्येनाङ्कः ।
प्रा २ प १ लो ३ भा ४ त्प १ टु १ प्रा २ ज्यं १ रु २ द्र २ स्या १ टिर २ रु २ रुः २ क १ रं
२ लो ३ क १ लो ३ प
१ प १ टु १ प्रा २ प १ ख २ लौ ३ द्यो १ ।
एवमुक्तद्व्याद्यक्षरेषु अश्विन्यादयो ज्ञेयाः ।
भेषु नक्षत्रेषु क्रमाद् वर्णा भेदिताः विभागेन दशीता इत्यर्थः ।
तदेत्युत्तरत्र सम्बध्यते ।
अत्र घकारद्यकारयोर्नागरलिपौ समानत्वात् भ्रान्तिकृतो घकारपाठः ।
तेन द्य इति एकाङ्कः सङ्गृहीतः ।
स्वरान्त्यौ अम् अः रेवत्यंशगतौ ।
अतो रेवत्याम् अम् अः ल इत्यक्षरत्रयम् ।
रेवत्यंशगतावितिपदेनैवोक्तेरङ्केषु न सङ्गृहीतम् ।
यथा वक्ष्यमाणे राश्यक्षरकथने वालं गौरं खुरमिति ।
रेफेण कन्यायामक्षरद्वयमेवोक्तम् ।
अन्येषां कन्यायां शादय इति पदेनैवोक्तेः ।
तद्वदत्रापीत्यवधेयम ।
उत्तरभाद्रपदनक्षत्रे लकारेणाङ्कत्रयं गृहीतम् ।
तेन षसहाक्षराणि ।
तत्र षकारस्य क्षकारांशत्वात् क्षकारोऽपि तेनैव गृहीतः ।
तेनात्राक्षरचतुष्कम् ।
तदुक्तमाचार्यैः—-
ततः क्षकारः सञ्जातो नृसिंहस्तस्य देवता ।
स पुनः षसहैः सार्द्धं परप्रोष्ठपदं गतः ॥ इति ।
ईशानशिवेऽपि—- प्रियलवकटरम्या श्री प्रिया रात्रिरन्या
खगकुलकटकस्त्री पात्रवालेतिसङ्ख्यान् ।
इति ।
नारायणीये तु—-राज्येत्यादि षड्विंशतिभेषु वर्णानुक्त्वा अमसावन्त्यभे उक्तौ ।
तत्र केचित्तु ल्वाविति पठित्वा व्याख्यान्ति लकारेणाङ्कत्रयं वकारेणाङ्कचतुष्टयमिति ।
तदसत् ।
सङ्केतविरोधात् ।
सङ्केते हि पिण्डान्त्यैरक्षरैरङ्का इत्युक्तम् ।
एतदभिप्रायेणैव द्विवचनकल्पनम् ।
तदपि भ्रमेणैव ।
यतः सङ्केताक्षरेषु साधुत्वार्थं प्रथमैकवचनमेव युक्तम् ।
नतु संयोगं कृत्वा द्विवचनम् ।
तथा कुत्राप्यदर्शनात् ।
अतएवायं पाठोऽ- पेक्षितार्थद्योतनिकादिभिष्टीकाभिरूपेक्षितः ।
अपरे बवाविति पठित्वा वदन्ति—-पवर्गीयबकारेणाङ्कत्रयम् उत्तरेणान्तस्थीयवकारेणाङ्कचतुष्टयमिति ।
तदपि प्रपञ्चसारे- शानादिग्रन्थविरुद्धम् ।
ततोऽयमेव पाठो नारायणीयेऽपि ।
परन्तु व्याख्यातुस्तत्र भ्रमः।
प्रथमोऽन्तस्थो वकारस्तेन चतुःसङ्ख्या द्वितीयः पवर्गी तेन त्रिसङ्ख्येति सर्वं समञ्जसम्।
देवदेवेशीकारेण तु प्रपञ्चसारादिविरोधपरिहारार्थं फुल्ला इति पठित्वा तत्र प्रथम- लकारेणाङ्कत्रयम्
उत्तरलकारेणाङ्कत्रयं गृहीतमिति व्याख्यातम् ।
तदपि सङ्केतविरुद्धम् ।
सङ्केते पिण्डेनाङ्कद्वयस्यागृहीतत्वात् ।
एतेन अ आ अश्विनी ।
इ भरणी ।
ई उ ऊ कृत्तिका ।
इत्यादि ज्ञेयम् ॥ १२४-१२५ ॥
जन्मसम्पद्विपत् क्षेमः प्रत्यरिः साधको वधः ।
मित्रं परममित्रञ्च जन्मादीनि पुनः पुनः ॥ १२६ ॥
स्वनामाद्यक्षरादित इति वक्ष्यमाणमत्रापि योजनीयम् ।
तेनायमन्वयः तदा वर्णभेदे स्वनामाद्यक्षरादितः
जन्मादीनि पुनः पुनः प्रादक्षिण्येन मन्त्राद्यक्षरावधि गणयेदिति शेषः ।
तेन यस्मिन्नक्षत्रे साधकनामाद्यक्षरं तदारभ्य
मन्त्राद्यक्षरनक्षत्रं यावत् प्रादक्षिण्येन गणनं कृत्वा
फलं विचारयेत् इत्यर्थः ।
तदुक्तम्—-
प्रादक्षिण्येन गणयेत् साधकाख्याक्षरात् सुधीः ।
इति ।
अन्यत्रापि—- एकादिनवपर्यन्तं स्वाख्याद्यर्णप्रपूर्वकम् ।
यावन्मन्त्राक्षरं धिष्ण्यं फलं तावद् विचारयेत् ॥ इति ।
अन्यत्रापि—- एवं विभक्तवर्णेषु नक्षत्राणि प्रकल्प्य च ॥
आरभ्य जन्मनक्षत्रं मन्त्रतारावसानकम् ।
इदं तु राशिनामप्रसिद्धनाम्नोरैक्ये ज्ञेयम् ।
विभज्य नवशो राम विशिखाचलमन्त्रकाः ।
वर्ज्याः शिष्टाः समिष्टार्थसिद्धिदाः स्युर्जपादिभिः ।
इति ।
आद्यतृतीय पञ्चमसप्तमान् वर्जयित्वा शेषं शुभम् ।
तदुक्तम्—- " त्यक्त्वा त्रिपञ्चादिमसप्तताराः " इति ।
अन्यत्रापि—-रसाष्टनव भद्राणि युगयुग्मगतान्यपि ।
इतराणि न भद्राणि ज्ञातव्यं तन्त्रकोविदैः ॥ इति ।
केचनाद्यमपि शुभमिच्छन्ति ।
तदुक्तम्—-
विपद् बधः प्रत्यरिश्च परित्याज्या मणीषिभिः ।
इति ।
इदन्त्वाद्यजन्मविषयम् ।
अत्र तारामैत्रीविचारे योनिमैत्री गणमैत्री चावश्यं विचारणीया।
यतस्तयोरपि नक्षत्रात्मकत्वात् ।
स्वकुलान्यकुलविचारोऽपि ।
पिङ्गलामते—-तथैकगणनक्षत्रं स्वकुलं ह्यकुलं परम् ।
इत्युक्तेः ।
तथा मन्त्रमुक्तावल्यामपि स्वकुलान्यकुलविभागकथने तथैकगणनक्षत्रमपि स्वकुलमित्युक्तम् ।
तत्र योनिमैत्री यथा—-अश्वेमाज फणिद्वयं श्ववृषभुङ्मेषौतवो मूषिक—-
श्चाखुर्गौः क्रमशः स्ततोऽपि महिषी व्याघ्रः पुनः सैरिभः ।
व्याघ्रैणौ मृगमण्डलौ कपिरथो वभ्रुद्वयं वानरः
सिंहाश्वौ मृगराट् पशुश्च करटी योनिस्तु भानामियम् ॥ इति ।
अत्राभिजिदपि गृहीत इति कृत्वा अष्टाविंशतिः ।
अश्व १ हस्ती २ मेषः ३ सर्पः ४।
५ श्वा ६ मार्जारः ७ मेषः ८ मर्जार ९ मूषिकः १०।
११ गौः १२ महिषी १३ व्याघ्रः १४ महिषी १५ व्याघ्रः १६ मृगः १७।
१८ श्वा १९ वानरः २० नकुलः २१।
२२ वानरः २३ सिंहः २४ अश्वः २५ सिंहः २६ गौः २७ हस्ती २८ ।
विरोधस्तु—- गोव्याघ्रं गजसिंहमश्वमहिषं श्वैणञ्च वभ्रूरगं
वैरं वानरमेषकं च सुमहत् तद्वद्विडालोन्दुरम् ।
इति ।
जन्मनक्षत्रयोन्या वै मारणानि यथातथम् ।
कृतानि न चिरेणैव सिद्धिदानि महेश्वरि ॥ इति ।
कार्यान्तरोपयोगिताऽप्यस्योक्ताऽन्यत्र ।
गणमैत्री यथा ।
तत्र मनुष्यादिगण- नक्षत्राणि एकविंशे वक्ष्यति ।
फलन्तु यथा—-बध्यघातकता मता ।
मनुष्यराक्षसानान्तु विरोधो देवरक्षसाम् ।
प्रीतिर्देवमनुष्याणां स्वेन स्वेनापि साम्यता ॥ इति ॥ १२६ ॥
वालं गौरं खुरं शोणं शमी शोभेति राशिषु ।
क्रमेण भेदिता वर्णाः कन्यायां शादयः स्मृताः ॥ १२७ ॥
अथाक्षरेषु राशिविभागमाह वालमिति ।
वा ४ लं ३ गौ ३ रं २ खु २ रं २ शो ५ णं ५ श ५ मी ५ शो ५ भा ४ इति राशिषु वर्णा भेदिताः विभागेनोक्ताः ।
कन्यायां स्वरान्त्यौ वर्त्तेते शादयश्च स्थिताः ।
अत्रादिशब्देन शषसहला गृह्यन्ते ।
क्षकारस्य मीने प्रवेशः ।
यदाहुराचार्याः—-अमः शवर्गलेभ्यश्च सञ्जाता कन्यका मता ।
इति ।
तथा—-चतुभीर्यादिभिः सार्द्धं स्यात् क्षकारस्तु मीनगः ।
इति ।
अनेन अ आ इ ई मेषः इत्यादि ज्ञेयम् ॥ १२७ ॥
लग्नं धनं भ्रातृबन्धुपुत्रशत्रुकलत्रकाः ।
मरणं धर्मकर्मायव्यया द्वादशराशयः ॥ १२८ ॥
द्वादशराशय इति फलफलिनोरैक्योपचारात् ।
अत्र प्रकारः ।
साधक- नामाद्यक्षरं यत्र राशौ तं राशिमारभ्य मन्त्राद्यक्षरं यत्र राशौ तत्पर्यन्तं गणनीयम् ।
षष्ठाष्टमद्वादशस्थानानि निन्द्यानि ।
तदुक्तम्—-
साध्याख्याक्षरराश्यन्तं गणयेत् साधकाक्षरात् ।
नैधनारिव्ययाधीना ये वर्णास्ते न शोभनाः ॥ इति ।
यत्तु—- एकपञ्चनव बान्धवाः स्मृता युग्मषष्ठदशमास्तु सेवकाः ।
पोषकास्त्रिमुनिरुद्रसमिता द्वादशाष्टचतुरस्तु घातकाः ॥
इति वचनं तद्राशिफलप्रकरणपठितं चेत् तदा स्वजन्मराशिमारभ्य मन्त्रराशि- पर्यन्तं
गणनीयमिति भिन्न एव प्रकारः ।
तदुक्तम्—-
राश्यर्णादिकमन्त्राणां सराशिर्जन्मराशितः ।
विचार्य मनुराश्यन्तं रिपुहीनं मनुं जपेत् ॥ इति ।
यदि राशिप्रकरणपठितं न भवति तदा वक्ष्यमाणअकडमचक्रफलत्वेन व्याख्येयमिति रहस्यम् ॥ १२८ ॥
चतुरस्रे लिखेद्वर्णांश्चतुःकोष्ठसमन्विते ।
अकारादिक्षकारान्तान् स्वनामाद्यक्षरादितः ॥ १२९ ॥
सिद्धादीन् कल्पयेन्मन्त्री कुर्यात् सिद्धादिभिः पुनः ।
सिद्धादीन् सिद्धिदः सिद्धो जपात् साध्यो हुतादिभिः ।
सुसिद्धः प्राप्तिमात्रेण साधकं भक्षयेदरिः ॥१३०॥
सिद्धार्णा बान्धवाः प्रोक्ताः साध्यास्ते सेवकाः स्मृताः ।
सुसिद्धाः पोषका ज्ञेयाः शत्रवो घातका मताः॥१३१॥
सिद्धादिमन्त्रशोधन प्रकारमाह चतुरस्र इति ।
मन्त्री मन्त्रशास्त्रसम्प्रदायाभिज्ञः ।
कुर्यात् सिद्धादिभिः पुनः सिद्धादीन् इति वक्ष्यमाणत्वात् षोडशकोष्ठोद्धारः सूचितः ।
तत्र प्रागपरोत्तरदक्षिणायताः पञ्च रेखाः कुर्यात् ।
तदा षोडशकोष्ठानि सम्पद्यन्ते ।
तत्र वर्णान् लिखेत् ।
एकैकान्तरितमिति शेषः ।
लेखनप्रकारश्च प्रथमचतुष्कप्रथमे प्रथमम्।
प्रादक्षिण्येन द्वितीयप्रथमे द्वितीयम् ।
प्रादक्षिण्येन तृतीयप्रथमे तृतीयम् ।
चतुर्थप्रथमे चतुर्थम् ।
एवं प्रादक्षिण्येन प्रथमद्वितीये पञ्चमम् ।
द्वितीयद्वितीये षष्ठम् ।
तृतीयद्वितीये सप्तमम् ।
चतुर्थद्वितीयेऽष्टमम् ।
एवं प्राक्षिण्येन प्रथमतृतीये नवमम् ।
द्वितीयतृतीये दशमम् ।
तृतीयतृतीये एकादशम् ।
चतुर्थतृतीये द्वादशम् ।
एवं प्रथमचतुर्थे त्रयोदशम्।
द्वितीय चतुर्थे चतुर्दशम् ।
तृतीयचतुर्थे पञ्चदशम् ।
चतुर्थचतुर्थे षोडशं न्यसेत् ।
एवं स्वरलिखनं कृत्वा तेनैव क्रमेण काद्यक्षराण्यपि लिखेत् ।
तुदक्तं कादिमते—-
प्रथमप्रथमे त्वाद्यं द्वितीयप्रथमे तथा ।
द्वितीयमन्यतश्चान्यत् तथान्यदपि कल्पयेत् ।
तत्तत्कोष्ठेषु विलिखेत् तत्तत्पञ्चममक्षरम् ॥ इति ।
तन्त्रान्तरे च—- कोष्ठचतुष्कचतुष्टयईशाद्यैशेषु लिखतु चतुरोऽन्तः ।
आग्नेयेषु तथैव नैरृत्येष्वेवमानिलेषु पुनः ॥
कादीन् वर्णान् कोष्ठेषु च तेष्वेवमेव लिखतु सुधीः ।
आवृत्त्या तु चतुर्थ्यां नैरृत्यैशे समापयेन्मतिमान् ॥
यस्य च नामाद्यर्णं यत्र चतुष्के तदादि तस्यैव ।
तस्माश्चतुश्चतुष्कं विज्ञेयं क्रमश एव सिद्धादि ॥
सिद्धादिषु च चतुर्ष्वप्येवं सिद्धादि तेषु विज्ञेयम् ॥ इति ।
अस्य प्रयोजनमाह स्वनामेति ।
स्वनामाद्यक्षरकोष्ठमारभ्य मन्त्राद्यक्षरकोष्ठं यावदिति शेषः ।
सिद्धादीनित्यादि ।
शब्दार्थफलकथनावसरे स्वयमेव प्रकटयिष्यति।
कल्पयेदिति ।
एवं यत्र चतुष्के स्वनामाद्यक्षरं तत्सिद्धचतुष्कम् ।
ततः प्रादक्षिण्येन साध्यादिचतुष्कत्रयमिति ।
मन्त्री कुर्यात् सिद्धादिभिः पुनः सिद्धादीन् इति ।
यत्र चतुष्ककोष्ठे स्वनामाद्यक्षरं तत् सिद्धसिद्धकोष्ठम् ।
ततस्तस्मिन्नेव चतुष्के प्रादक्षिण्येन कोष्ठत्रये सिद्धसाध्य—-सिद्धसुसिद्ध—-सिद्धारीनिति कल्पयेत् ।
अस्मिन्नेव चतुष्के यदि मन्त्राद्यक्षरमपि स्यात् तदा अनयैव गणनया सिद्धम् ।
यद्यस्मिन् चतुष्के स्वनामाद्यक्षरं प्रादक्षिण्येन द्वितीयचतुष्के मन्त्राद्यक्षरं तदा पूर्वचतुष्के यस्मिन्
कोष्ठे नामाद्यक्षरम् अत्र द्वितीयचतुष्केपि तदेव कोष्ठमारभ्य
प्रादक्षिण्येन साध्यसिद्ध—-साध्यसाध्य—-साध्यसुसिद्ध—-साध्यारीन् इति कल्पयेत् ।
यदि पुनः स्वनामाद्यक्षर- चतुष्कात् प्रादक्षिण्येन तृतीयचतुष्के मन्त्राद्यक्षरं तदा पूर्ववत् तत् कोष्ठादेव
प्रादक्षिण्येन सुसिद्धसिद्धसुसिद्धसाध्यसुसिद्धसुसिद्धसुसिद्धारीन् इति कल्पयेत् ।
यदि पुनः स्वनामाद्यक्षरचतुष्कात् प्रादक्षिण्येन चतुर्थचतुष्के मन्त्राद्यक्षरं तदा पूर्ववत् तत् कोष्ठादेव
प्रादक्षिण्येन अरिसिद्धअरिसाध्य—-अरिसुसिद्ध—-अर्यरीन् इति कल्पयेत् ।
नन्वत्र द्वितीयादि चतुष्के तमेव कोष्ठमारभ्य गणनमित्यत्र किं नियामकमिति चेत् उच्यते।
प्रकृतिक्रम एव नियामकः ।
स च पञ्चमाध्याये प्रथमचरणे ।
प्राप्तानां हि पदार्थानां विकृतौ क्रमचिन्तनम् ।
ते च सक्रमका एव प्राप्यन्ते नोदकादिह ।
नैराकाङ्क्षयात् क्रमस्तेषां न भूयोऽन्यः प्रकल्पते ।
इत्यादिनोक्तम् ।
तत्र किं नाम ग्राह्यमित्यपेक्षायां पिङ्गलामते—-
प्रसिद्धं यद्भवेन्नाम किंवास्य जन्मनाम च ।
यतीनां पुष्पपातेन गुरुणा यत् कृतं भवेत् ।
नाम्नस्तस्यैव वर्णानि विभक्तानि च कारयेत् ॥ इति ।
अन्यत्रापि—- लोके प्रसिद्धनामाथ मात्रा पित्रा तथा कृतम् ।
इति ।
अन्यत्रापि—- सुप्तो जागत्ती येनासौ दूरस्थश्च प्रभाषते ।
वदत्यन्यमनस्कोऽपि तन्नाम ग्राह्यमत्र तु ॥ इति ।
अन्यत्रापि—- मात्रा पित्रा कृतं नाम शोधनीयं प्रयत्नतः ।
इति ।
अन्ये त्वत्र जन्मनामैव ग्राह्यमित्यूचुः ।
तदुक्तम्—-
जन्मर्क्षाक्षरतो वीक्ष्यं तत्र मन्त्रादिमाक्षरम् ।
चतुभीः कोष्ठकैस्त्वेक इति कोष्ठचतुष्टयम् ॥
पुनः कोष्ठककोष्ठेषु सव्यतो जन्मभाक्षरात् ।
सिद्धसाध्यसुसिद्धारि क्रमाज्ज्ञेयं विचक्षणैः ॥ इति ।
जन्मनि जन्मकाले यदृक्षमश्विन्यादि तेषामक्षराणि " चुचेचोला अश्विनी प्रोक्ता " इत्यादीनि तस्मात् तदारभ्य
तेन जन्मनामाद्यक्षरमारभ्येत्यर्थः ।
एवं जन्मभाक्षरादित्य- त्रापि ज्ञेयम् ।
अयञ्च जन्मनामप्रसिद्धनाम्नोः विकल्पो ज्ञेयः ।
किंवास्येत्युक्तेः ।
सिद्धिद इति जपात् सिद्धः ।
हुतादिभिः साध्यः सिद्धिदः ।
प्राप्तिमात्रेण सुसिद्धः सिद्धिद इति सम्बन्धः ।
आदिशब्देन तर्पणादि ।
सिद्धसिद्धादिफलम् पिङ्गलामतोक्तं यथा—-
यथोक्तात् सिद्धसिद्धस्तु तत्साध्यो द्विगुणाज्जपात् ।
जपार्द्धात् तत्सुसिद्धस्तु तदरिर्बान्धवापहः ॥
द्विघ्नाज्जपात् साध्यसिद्धस्तत्साध्यस्तु निरर्थकः ।
तत्सुसिद्धः सार्द्धजपात् तदरिर्गेत्रजापहः ॥
सुसिद्धसिद्धोऽर्द्धजपात् तत्साध्यो द्विगुणाज्जपात् ।
तत्सुसिद्धो ग्रहादेव तदरिर्ज्ञातिजातिहा ॥
अरिसिद्धः सुतं हन्यादरिसाध्यस्तु कन्यकाम् ।
तत्सुसिद्धस्तु पत्नीघ्नस्तदरिः साधकापहः ॥ इति ।
पिङ्गलामते प्रत्यक्षरं सिद्धादिगणनोक्ता ।
मातापितृकृतं नाम यच्चाप्यभिजनैः कृतम् ।
विश्लिष्य तस्य वै वर्णान् स्वरवर्णविभेदतः ॥
तथैव मन्त्रबीजानि ततः शोधनमारभेत् ।
बिन्दुद्विबिन्दुकोपघ्मानीय जिह्वाङ्घिसम्भवान् ॥
संहतोच्चारणप्राप्तमधिकाक्षरमेव च ।
अपभ्रंशाक्षरं लक्षौ त्यक्त्वा षण्ढचतुष्टयम् ॥
मन्त्राक्षरैः सहैकैकं नामवर्णान् विशोधयेत् ।
व्यञ्जनैर्व्यञ्जनान्येव स्वरैः सार्द्धं स्वरांस्तथा ॥
आद्यमाद्येन संशोध्य द्वितीयेन द्वितीयकम् ।
मन्त्रे वाऽप्यथवा नाम्नि वर्णाः स्युवीषमा यदा ॥
तदा मन्त्रं समारभ्य समं यावत् प्रयोजयेत् ।
आद्यन्तयोः सिद्धवर्णौ मन्त्रे यस्मिन् वरानने ॥
अचिरेणैव कालेन स भवेत् सर्वसिद्धिदः ।
साध्यान्तादियुतो यस्तु सोऽतिकृच्छ्रेण सिध्यति ॥
आदावन्ते सुसिद्धस्तु सर्वकामविभूतिदः ।
आदावन्ते रिपुर्यस्य भवेत् त्याज्यः स मन्त्रकः ॥
आदौ सिद्धोऽन्त्यसाध्यो यो द्विगुणेन स सिद्ध्यति ।
आदौ सिद्धः सुसिद्धान्त्यो यथोक्तात् सिद्ध्यते जपात् ॥
आदौ सिद्धोऽन्त्यशत्रुर्यः स त्याज्यो मन्त्रवित्तमैः ।
साध्यादिश्चैव सिद्धान्त्यः त्रिगुणात् सिद्ध्यते जपात् ॥
आदौ साध्यः सुसिद्धान्त्यः प्रोक्तमार्गेण सिद्ध्यति ।
आदौ साध्योऽन्त्यशत्रुर्यस्तं यत्नात् परिवर्जयेत् ॥
सुसिद्धादिस्तु सिद्धान्त्यो यथोक्तादेव सिद्ध्यति ।
सुसिद्धादिस्तु साध्यान्त्यश्चतुर्गणमपेक्षते ॥
सुसिद्धादिश्चान्तशत्रुर्मध्यमः परिकीत्तीतः ।
आद्यारिस्त्वन्तसिद्धादिः सोऽपि त्याज्योऽत्रकर्मणि ॥
आदौ मध्ये तथा चान्ते सिद्धः शुभफलप्रदः ।
सर्वसाध्य उदासीनः प्रोक्तस्तन्त्रे स्वयम्भुवा ॥
स्थानत्रितयसुसिद्धः सर्वानर्थांश्च साधयत्येव ।
स्थानत्रितयगतारिर्मन्त्रो मृत्युर्न सन्देहः ॥
सिद्धादिः साध्ययुग्मान्तो व्यर्थ इत्युच्यते बुधैः ।
सिद्धादिद्वीसुसिद्धान्तः सर्वकार्यार्थसाधकः ॥
सिद्धादिररियुग्मान्तो नाशकः सम्प्रकीत्तीतः ।
शत्रुर्भवति यदादौ मध्ये सिद्धस्तदन्तके साध्यः ॥
कष्टेन कार्यसिद्धिस्तस्य फलं स्वल्पमेव भवेत् ।
अन्ते यदि भवति रिपुः प्रथमे मध्ये च भवति साध्ययुगम् ॥
कार्यं विलम्बितं स्यात् प्रणश्यति क्षिप्रमेवान्ते ।
आद्यन्तयोर्यदा साध्यो मध्ये सिद्धः प्रजायते ॥
आद्यन्तयोर्यदा सिद्धो मध्ये साध्यः प्रजायते ।
तावुभौ साध्यसिद्धौ हि जपाधिक्येन सिद्ध्यतः ॥
अरिसम्पुटितः सिद्धः सुसिद्धोऽपि तथा भवेत् ।
सर्वनाशकरो ज्ञेयः साधकस्य न संशयः ॥
सिद्धान्तरितसाध्यस्तु सुसिद्धान्तरितोऽथवा ।
शीघ्रं सिद्ध्यति मन्त्रोऽयमीशानः स्वयमब्रवीत् ॥
सिद्धान्तरितशत्रुस्तु सुसिद्धेनापि चेद्भवेत् ।
नासौ रिपुर्भवेन्मन्त्रः किन्तु कृच्छ्रेण सिद्ध्यति ॥
साध्यान्तरितसिद्धस्तु सुसिद्धोऽपि तथा यदि ।
सिद्ध्यत्यतीवकष्टेन साधकस्य न चान्यथा ॥
रिपुणाऽन्तरितः सिद्धः सुसिद्धोपि तथा यदि ।
ईदृशं लक्षणं दृष्ट्वा दूरतः परिवर्जयेत् ॥
रिपुणा दूषितो (न्तरितो) मन्त्रो नैव देयः कदाचन ॥ इति ।
नारायणीयेऽपि—-दुष्टार्णप्रचुरो मन्त्रो यः स्यात् स विनिन्दितः ।
इति ।
अपेक्षितार्थद्योतनिकायां व्याख्यातम् ।
तत्र पूर्ववन्मातृकाक्षराणि संलिख्य तत्समीपे मन्त्रं नाम च लिखित्वा प्रथमाक्षरेण प्रथमाक्षरं
शोधयित्वा पुनद्वीतीयाक्षरेण द्वितीयाक्षरं शोधयित्वा नामपरिसमाप्तौ पुनर्नाम लिखित्वा
यावन्मन्त्रपरिसमाप्तिस्ताव- च्छोधयित्वा यस्मिन् मन्त्रे दुष्टार्णाः साध्यार्णा वैरिणश्च इतरेभ्यो बहवो
भवन्ति तदा तन्मन्त्रं वर्जयेदित्यर्थः ।
अत्र केषाञ्चिद्वर्णानां शोधनं नास्तीत्याहुः ।
नमः प्रणवसंयोगावपभ्रंशाक्षराणि च ।
वर्जयित्वैव गणनं कर्त्तव्यञ्च सुरेश्वरिः ॥ इति ।
तत्त्वसागरवादिना तत्रैव प्रकारान्तरेण सिद्धादिकल्पनमुक्तम् ।
द्वादशारेऽथवा चक्रे कूटषण्ढविवजीतान् ।
आदिहान्तान् लिखेद्वर्णान् पूर्वतो यावदीश्वरम् ॥
अङ्कानेकादिभान्वन्तान् लिखेत् पूर्वादितः क्रमात् ।
सिद्धः साध्यः सुसिद्धोऽरिश्चतुर्द्धाणुः स्फुटीभवेत् ॥
नवैकपञ्चके सिद्धः साध्यः षड् दशयुग्मके ।
त्रिसप्तैकादशे मित्रं वेदाष्टद्वादशे रिपुः ॥
अथवाऽन्यप्रकारेण वच्मि मन्त्रांशकं मनाक् ।
अकारादिहकारान्तं मातृकाक्षरसञ्चयम् ॥
एकैकार्णक्रमान् न्यस्य चतुःकोष्ठेषु मन्त्रवित् ।
सिद्धं साध्यं सुसिद्धञ्च वैरिणं गणयेत् क्रमात् ॥
यत्र यत्र भवन्त्वर्णा नाममन्त्रसमुद्भवाः ।
सिद्धसाध्यादिभेदेन वर्णैस्तैर्मन्त्रमादिशेत् ॥
अथवा मन्त्रनाम्नोस्तु (मार्ण) कृते राशौ चतुर्हृते ।
सिद्धः साध्यः सुसिद्धोऽरिर्मन्त्र एकादितो भवेत् ॥ इति ।
महाकपिलपञ्चरात्रे तु—-
त्रिविधः कीत्तीतो मन्त्रः सिद्धः साध्यः सुसिद्धकः ।
अल्पाक्षरो भवेत् सिद्धः साध्यो मालार्द्धमालकौ ।
अत ऊर्द्धं सुसिद्धः स कवित्वे चातिनिन्दितः ॥ इति ।
अन्योऽपि विशेषः—- शुचिराराधयेन्मन्त्रं दृष्टादृष्टफलप्रदम् ।
सकलं निष्कलं सूक्ष्मं तथा सकलनिष्कलम् ॥
कलाभिन्नं कलातीतं षोढा मन्त्रं शिवोऽब्रवीत् ।
सकलं ब्रह्मरन्ध्रस्थं तदधो विद्धि निष्कलम् ॥
मानसं सूक्ष्मनामानं हृतस्थं सकलनिष्कलम् ।
बिन्दुस्थितं कलाभिन्नं कलातीतं तदूर्द्धतः ।
कला कुण्डलिनी सैव नादशक्तिः शिवोदिता ॥ इति ।
एषु षट्सु स्थानेषु चिन्तितो मन्त्रः स्थानस्थः फलप्रदो नान्यथा ।
यदुक्तम् मालिनीविजये—-
स्थानस्था वरदा मन्त्रा ध्यानस्थाश्च फलप्रदाः ।
ध्यानस्थानविनिर्मुक्ताः सुसिद्धा अपि वैरिणः ॥ इति ।
यद्यज्ञानादरिमन्त्रग्रहणं स्यात् तदा तत्त्यागप्रकार उच्यते—-
अथारिमन्त्रसन्त्यागविधिः सम्यक् प्रकाश्यते ।
शुचिः समाहितो भूत्वा प्रारभेत् प्रवरे दिने ॥
अशेषदुःखनाशाय देशिकः प्रवरं विधिम् ।
तत्रादौ रम्यभवने कुम्भं दीक्षाविधिक्रमात् ॥
मण्डले स्थापयेद् विद्वान् पुरयेत् तं जलैः शुभैः ।
विलोममन्त्रपाठेन तत्रावाह्य तु देवताम् ॥
सकलीकृत्य सम्पूज्याऽऽवरणानि प्रपूजयेत् ।
एवं सावरणामिष्ट्वा मन्त्री मन्त्रस्य देवताम् ॥
हुत्वा विलोममन्त्रेण सपीषा गोरपि द्विजः ।
अष्टोत्तरसहस्रं वा तथैवाष्ट शतं सुधीः ॥
ब्रह्मार्पणेन मनुना तथान्ते तर्पयेत् प्रभुम् ।
ततो यथावद् दुग्धान्नै र्देवताभ्यो बलिं हरेत् ॥
विदिक्षु दिक्षु च तथा वक्ष्यमाणैर्मनूत्तमैः ।
आयाहीन्द्र सुराधीश शतमन्यो शचीपते ॥
नमस्तुभ्यं गृहाणेमं पुष्पधूपादिकं बलिम् ।
आयाहि तेजसां नाथ हव्यवाह वरप्रद ॥
गृहाण पुष्पधूपादि बलिमेनं सुपूजितम् ।
प्रेतराज समायाहि भिन्नाञ्जनसमद्युते ॥
बलिं दत्तं गृहीत्वेमं सुप्रीतो वरदो भव ।
नमस्ते रक्षसां नाथ निरृते त्वमिहागतः ॥
गृहाण बलिपूजादि मया भक्त्या निवेदितम् ।
एहि पश्चिमदिक्पाल जल (लोक) नाथ नमोऽस्तु ते ॥
भक्त्या निवेदितां पूजां गृहीत्वा प्रीतिमाप्नुहि ।
प्रभञ्जन प्राणपते त्वमेहि सपरिच्छदः ॥
मया प्रयुक्तं विधिवत गृहाण बलिमादरात् ।
कुवेरतारकाधीशावागच्छेतां सुरोत्तमौ ॥
पुष्पधूपादिभिः प्रीतौ भवेतां वरदौ मम ।
ईश त्वमेव भगवन् सर्वविद्याश्रय प्रभो ॥
पूजितः पुष्पधूपाद्यैः प्रीतो भव विभूतये ।
आयाहि सर्वलोकानां नाथ ब्रह्मन् समर्चनम् ॥
गृहाण सर्वविघ्नान् मे निवर्त्तय नमोऽस्तु ते ।
आगच्छ वरदाऽव्यक्त विष्णो विश्वस्य नायक ॥
पूजितः परया भक्त्या भव त्वं सुखदो मम ।
ततः सपरिवाराञ्च पूजयेन्मन्त्रदेवताम् ॥
मन्त्रेण विपरीतेन पुष्पदीपोपचारकैः ।
ततस्तु प्रार्थयेद् विद्वान् पूजितां मन्त्रदेवताम् ॥
आनूकूल्यमनालोच्य मया तरलबुद्धिना ।
यदुपात्तं पूजितञ्च प्रभो मन्त्रस्वरूपकम् ॥
तेन मे मनसः क्षोभमशेषं विनिवर्त्तय ।
पापं प्रतिहतञ्चास्तु भूयाच्छ्रेयः सनातनम् ॥
तनोतु मम कल्याणं पावनी (माविनी) भक्तिरेव ते ।
इति सम्प्रार्थ्य मन्त्रेशीं मन्त्रं पत्रे विलोमतः ॥
लिखित्वाऽमलकर्पूरचन्दनेन समर्चयेत् ।
कलसोपरि संस्थाप्य भक्त्या परमया युतः ॥
तत्पत्रं मतिमान् पश्चाद् बद्ध्वा निजशिरस्यथ ।
स्नायात् पूजितकुम्भस्थतोयैर्मन्त्रमयैः शुभैः ॥
पुनश्चान्येन तोयेन कुम्भमापूर्य संयतः ।
तन्मध्ये मन्त्रपत्रञ्च निक्षिप्याथ प्रपूजयेत् ॥
तं कुम्भं निम्नगातीरे शुद्धे वाऽन्यजलाशये ।
निक्षिपेदथ विप्रांश्च यथाशक्त्या प्रभोजयेत ॥
इत्थं कृतविधानस्य रिपुमन्त्रोद्भवा रुजः ।
नश्यन्त्येव न सन्देहः क्रमाच्चित्तप्रसन्नता ।
जायतेऽतीवसम्पन्नो वर्द्धते तत्कुलं क्रमात् ॥ इति ।
अथ मन्त्रमुक्तावल्युक्त ऋणधनशोधनप्रकारो लिख्यते ।
इन्द्र १४ र्क्ष २७ नेत्र २ रवि १२ पञ्चदश १५ र्त्तु ६ वेद ४ वह्न्या ६ युधा ८ ष्ट ८ नवभि ९
र्गुणितांश्च साध्यान् ।
दिग् १० भू १ गिरि ७ श्रुति ४ गजा ८ ग्नि ३ मुनी ७ षु ५ वेद ४ षड् ६ वह्नि ३ भिश्च गुणितानथ साधकार्णान् ॥
नामाज्झलादकठवाद्गज ८ भक्तशेषं
ज्ञात्वोभयोरधिकशेषमृणं धनं स्यात् ।
मन्त्रो ऋणी शुभफलोऽप्यशुभो धनी च
तुल्यो यदा समफलः कथितो मुनीन्द्रैः ॥ इति ।
तत्र प्रकारः ।
साध्यस्य मन्त्रस्य साधकस्य शिष्यस्य नामाक्षराणि स्वरव्यञ्जन- रूपेण पृथक्कृत्वा स्थापयेत् ।
ततो मातृकाया अ-क-ठ-बात्मकम् एकादशैका- दशाक्षरं वर्गचतुष्टयं कृत्वा मन्त्राक्षराणि
स्वरव्यञ्जनरूपेण पृथक्कृतानि इन्द्रादिभि- रङ्कैर्गणयेत् ।
साधकनामाक्षराणि स्वरव्यजनरूपेण पृथक्कृतानि दिगादिभिरङ्कै- र्गुणयेत् ।
तत्र गुणनप्रकारः ।
यस्मिन् स्थाने यो वर्णः तं वर्णं तेनाङ्केन गुणयेत् ।
तत्स्थानमिताङ्कं गुणयेदित्यर्थः ।
तद्यथा ।
प्रथमकोष्ठस्थो वर्णेऽकारस्तं चतुर्दशभिः गुणयेत् तत्रैकश्चतुर्दशगुणितश्चतुर्दशैव ।
तथा द्वितीयकोष्ठस्थो वर्ण इकारस्तं सप्तविंशत्या गुणयेत् ।
तेन द्वाभ्यां सप्तविंशतिः गुणिता चतुःपञ्चाशत् ।
एवं तृतीयस्थानस्थो वर्ण उकारो द्विगुणितः षट् भवति ।
एवं साधकनामाक्षराण्यपि दिगादिभिः गुणयेत् ।
साधकनाम—-मन्त्राक्षरेषु आ ई ऊ ॠ ॡ एषामङ्का लघ्वक्षराणामेवाङ्का ज्ञेयाः ।
ततः सर्वेऽप्यङ्कएकीकृतः अष्टभिः विभाज्यः ।
यो राशिरधिकः स ऋणी अधमर्णः ।
ऊनो राशिर्धनी उत्तमर्णः ।
तत्र मन्त्रश्चेदधमर्णस्तदा ग्राह्यः ।
न चेन्न ग्राह्यः ।
अथ कादिमतोक्त ऋणधनशोधनप्रकारो यथा—-
नामाद्यक्षरमारभ्य यावन्मन्त्रादिवर्णकम् ।
त्रिधा कृत्वा स्वरैभीन्द्यात् तदन्यद् विपरीतकम् ॥ इति ।
अस्यार्थः ।
साधकनाम्नो यदाद्यक्षरं तत आरभ्य मन्त्राद्यक्षरपर्यन्तं मातृका- क्रमेण गणयित्वा
तमङ्कं त्रिगुणितं
कृत्वा स्वरैः सप्तभिर्हरेत् इति ।
अयं साधक- राशिः ।
एवं मन्त्राद्यक्षरमारभ्य साधकनामाद्यक्षरपर्यन्तं मातृकाक्रमेण गणयित्वा तमङ्कं त्रिगुणितं कृत्वा
सप्तभिर्हरेत् इति मन्त्रराशिः ।
अन्यत् पूर्ववत् ।
तन्त्रान्तरोक्तो वा ऋणधनशोधनप्रकारो यथा—-
साध्यनाम द्विगुणितं साधकेन समन्वितम् ।
अष्टभिश्च हरेच्छेषं तदन्यद् विपरीतकम् ॥ इति ।
अस्यार्थः ।
मन्त्राक्षराणि स्वरव्यञ्जनरूपेण पृथक्कृतानि द्विगुणयेत् ।
साधक- नामाक्षराण्यपि स्वरव्यञ्जनरूपेण पृथक्कृतानि तेषु संयोजयेत् ।
ततोऽष्टभिर्हरेत् ।
अयं मन्त्रराशिः।
एवं साधकनामाक्षराणि
स्वरव्यञ्जनरूपेण पृथक्कृतानि द्विगुणितानि स्वरव्यञ्जनरूपेण
पृथक्कृतमन्त्राक्षरैः संयोजितान्यष्टभिर्हरेत् ।
एवं साधकराशिः ।
अन्यत् पूर्ववत् ।
एवमुक्तेष्वन्यतमेनावश्यम् ऋणधनशोधनं मन्त्रेषु कर्त्तव्यम् ।
तत्र कथं मन्त्राणाम् ऋणित्वं तदुक्तं कादिमते—-
पूर्वजन्मकृताभ्यासात् पापादस्याफलाप्तिकृत् ।
पापे नष्टे फलावाप्तिः काले देहक्षयादृणी ॥
मन्त्रः सम्प्राप्तिमात्रेण प्राक्तनः (प्राक्पूतः) सिद्धये भवेत् ।
सिद्धमन्त्राद् गुरोर्लब्धमन्न्त्रो यः सिद्धिभाङ् नरः ॥
लक्ष्मीमदादनादृत्य (वान् स सदा पूज्यः) मन्त्रभोगमवाप्तवान् ।
स मन्त्रोऽस्य ऋणी ज्ञेयो भजनं तस्य पूर्वगम् ।
तस्मादृणविशुद्धिस्तु कार्या सर्वैस्तु सर्वतः ॥ इति ।
ग्रन्थान्तरे मन्त्रशोधने प्रकारान्तरमुक्तम्—-
षड्दलं चक्रमालिख्य प्रागादिषु दलेषु तु ।
अकारादिवर्णानेकैकं लिखेन्निः षण्ढकूटकान् ॥
स्वनामाद्यक्षरं यत्र तदारभ्य विचारयेत् ।
उदिते सम्पदुद्दिष्टा द्वितीये सम्पदां क्षयः ॥
तृतीये तु धनं (धृतिं) विद्यात् चतुर्थे बन्धुविग्रहः ।
पञ्चमे संशयात्मा स्यात् षष्ठः सर्वविनाशकः ॥ इति
अत्र सर्वत्र सिद्धादिशोधनापवादो ग्रन्थान्तरोक्तः ।
पिण्डे तारे स्वप्नलब्धे षडर्णे प्रासादार्कत्रैपुरे नारसिंहे ।
माला मायामातृवाराह कामास्त्रे नो दोषः स्त्र्याप्तवेदेषु रत्ने ॥
इति ।
मालामन्त्रस्वरूपमुक्तं महाकपिलपञ्चरात्रे—-
बहुवर्णास्तु ये मन्त्रा मालामन्त्रास्तु ते स्मृताः ।
दशाधिकाक्षरा माला पञ्चाधिकार्द्धमालिका ॥
न माला पञ्चपर्यन्ता वृद्धास्थविरबालकाः ।
वार्द्धके सिद्धिदा माला अर्द्धमाला तु यौवने ॥
वाल्ये पञ्चाक्षराधस्तु मन्त्रः सिद्धिप्रदायकः ॥ इति ।
प्रयोगसारे तु—- नवाक्षरान्ता ये मन्त्रा बीजमन्त्राः प्रकीत्तीताः ।
पुनवींशति वर्णान्ता मन्त्रा मन्त्रास्तथोदिताः ॥
ततोऽधिकाक्षरा मन्त्रा मालामन्त्राः प्रकीत्तीताः ।
वाल्ये प्रसिद्धिदा बीजमन्त्रा मन्त्राश्च यौवने ॥
मालामन्त्राश्च वार्द्धक्ये विशेषेण प्रसिद्धिदाः ।
इति ।
नारायणीयेऽपि—- विंशत्यर्णाधिका मन्त्रा मालामन्त्रा इति स्मताः ।
दशाक्षराधिका मन्त्रास्तदर्वाग् बीजसञ्ज्ञिताः ॥
वार्द्धके सिद्धिदा मालामन्त्रा मन्त्रास्तु यौवने ।
पञ्चाक्षराधिका वाल्ये सिद्धिदाः सर्वदाऽपरे ॥ इति ।
अपेक्षितार्थद्योतनिकायामुक्तम् " उक्तावस्थाव्यतिरिक्तावस्थासु बीजमन्त्रमाला- मन्त्रसिद्ध्यर्थं
द्विगुणं जपेत् " इति ।
तथा—-
हंसस्याष्टाक्षरस्यापि तथा पञ्चाक्षरस्य तु ।
एकद्वित्रयादिबीजस्य सिद्धादीन् नैव शोधयेत् ॥
तथा—- एकत्रिपञ्चसप्तार्णनवरुद्रषडर्णके ।
द्वात्रिंशत्यक्षरे मन्त्रे नांशकं परिगण्यते ॥
गारुडादिषु सौरेषु वैष्णवे बौद्धजैनयोः ।
महाकूटेषु मन्त्रेषु नैव सिद्धादिशोधनम् ॥
चत्वारिंशाक्षरस्योर्द्ध मेकैकाक्षरवृद्धितः ।
त्रिषष्टिवीजपर्यन्तं मन्त्रोऽनेक (नैक) फलप्रदः ॥ इति ।
तथाच—- आज्ञासिद्धास्तु ये मन्त्रा योगिनीनां प्रसादतः ।
लब्धा ये केऽपि ते मन्त्राः सर्वकामफलप्रदाः ॥ इति ।
एतद्व्यतिरिक्तेष्वावश्यकं शोधनम् ।
यदुक्तम्—-
मन्त्रो वा यदि वा विद्यास्तवो वा सूक्तमेव वा ।
अर्थबन्धुशरीरस्य नाशको भवति क्षणात् ॥
तस्मात् सर्वप्रयत्नेन दुष्टं सर्वत्र वर्जयेत् ।
न केवलन्तु मन्त्राणां विशेषेण तु देहिनाम् ।
परस्परं समीक्ष्यः स्यात् सम्बन्धो नान्यथा भवेत् ॥ इति ।
यस्तु सिद्धादिभिर्मन्त्रो न मिलति तत्र प्रकारान्तरमुक्तम् ।
यदाहुः—-
एषु दोषेषु सर्वत्र मायां काममथापि वा ।
क्षिप्त्वा चादौ श्रियं दद्यात् तद्दूषणविमुक्तये ॥ इति ।
तथा—- तारसम्पुटितो वापि दुष्टमन्त्रोऽथ सिद्ध्यति ।
यस्य यत्र भवेद्भक्तिः सोऽपि मन्त्रोऽस्य सिद्धयति ॥ इति ।
तथा भुवनेशीपारिजाते—-
मायाबीजसमायुक्तः क्षिप्रं सिद्धिप्रदो भवेत् ।
पिण्डस्तु केवलो मन्त्रो मायाबीजोज्ज्वलीकृतः ।
मायाबीजाद्भवेत् प्राणो बीजं चैतन्यवीर्यवत् ॥ इति ।
तथा—- अनुलोमविलोमस्थ कॢप्ता वर्णमालया ।
प्रत्येकवर्णयुङ्मन्त्रा जप्ताः स्युः क्षिप्रसिद्धिदाः ।
वैरिमन्त्रा अपि नृणामन्ये मन्त्राश्च किं पुनः ॥ इति ।
अग्रे व्यवहाराय सिद्धाद्यक्षराणां सञ्ज्ञान्तराण्याह सिद्धार्णा इति ॥ १२९-१३१ ॥
दीपस्थानं समाश्रित्य कृतं कर्म फलप्रदम् ॥ १३२ ॥
फलस्य पूर्वमुक्तत्वात् मन्त्रजपस्थानमाह दीपेति ।
दीपशब्दार्थेऽन्यत्रोक्तः—-
दीप्यते पुरुषो यत्र दीपस्थानं तदुच्यते ।
इति ।
तथा—- दीपौघं सम्प्रवक्ष्यामि यदुक्तं ब्रह्मयामले ।
प्रासादग्रामगेहाद्या ज्ञेया येन शुभाशुभाः ॥
ककारादिक्षकारान्ता वर्णाः स्युर्दीपसञ्ज्ञकाः ।
स्वराः षोडशपीठाख्या ज्ञातव्या मन्त्रिणां वरैः ॥ इति ।
तथा—- पीठसञ्ज्ञा स्वराणाञ्च दीपाः स्युर्व्यञ्जनानि हि ।
स्थानं दीपाक्षरं यस्मिन् कोष्ठे तिष्ठति तद्भवेत् ॥
दीपस्थानं तदेतत् स्यात् कूर्मचक्रे न संशयः ॥ इति ।
तस्य दीपस्थानमिति ।
कर्म जपादिकम् ।
अतएव वक्ष्यति " मन्त्राणां सिद्धिसाधनम् " इति ॥ १३२ ॥
चतुरस्रां भुवं भित्त्वा कोष्ठानां नवकं लिखेत् ।
पूर्वकोष्ठादि विलिखेत् सप्तवर्गाननुक्रमात् ॥ १३३ ॥
दीपस्थानज्ञानार्थं कूर्मचक्रमाह चतुरिति ।
तत्र द्वे रेखे पूर्वापरायते द्वे दक्षिणोत्तरायते चतुरस्रमध्ये कुर्यात् ।
तदा नवकोष्ठानि सम्पद्यन्ते ।
तेषु नवसु कोष्ठेषु नव क्षेत्रपालाः पूज्याः ।
यदुक्तम्—-
क्षेत्रपाला नवैतेषु दीपेशा नवकोष्ठके ।
अमृतो वृषभः शैलराजो वासुकिरर्थकृत् ॥
शक्तिकृत् (पूः) पद्मयोनिश्च महाशङ्खश्च ते नव ।
छायाछत्रगणोपेतान् मध्यात् पूर्वादितो यजेत् ॥ इति ।
पूर्वकोष्ठादि पूर्वदिक्कोष्ठमारभ्य इत्यर्थः ।
सप्तवर्गानिति कचटतपयशान् ।
अनुक्रमाद् विलिखेत् इति उत्तरान्तम् ।
अत्र यथासम्भवं मध्यत आरभ्य प्रतिकोष्ठम् ।
यदुक्तम्—- पूर्वकोष्ठे कवर्गस्य पञ्चकं मध्यतः क्रमात् ।
मध्यतोऽन्यत्र चाग्नेये चवर्गञ्चैवमेव हि ॥ इति ॥ १३३ ॥
लक्षमीशे मध्यकोष्ठे स्वरान् युग्मक्रमाल्लिखेत् ।
दिक्षु पूर्वादितो यत्र क्षेत्राख्याद्यक्षरस्थितम् ॥ १३४ ॥
मुखं तत् तस्य जानीयाद्धस्तावुभयतः स्थितौ ।
कोष्ठे कुक्षी उभे पादौ द्वे शिष्टं पुच्छमीरितम् ।
क्रमेणानेन विभजेन्मध्यस्थमपि भागतः ॥ १३५ ॥
मध्यकोष्ठे स्वरान् युग्मक्रमाल्लिखेदिति ।
तत्र लेखनप्रकार उक्तोऽन्यत्र—-
मध्यकोष्ठे पुरोभागे अकारद्वयमालिखेत् ।
आग्नेयामिद्वयं विन्द्यात् याम्ये तूद्वयमालिखेत् ॥
नैऋर्रत्ये ऋद्वयं विन्द्याद्वारुणे ऌद्वयन्तथा ।
वायव्यामेद्वयं विन्द्यात् सौम्यामोद्वयमिष्यते ॥
ईशे चान्त्ययुगं विन्द्यादेवं न्यस्य विचारयेत् ।
इति ।
अयं लेखनक्रमः क्रमेणानेन विभजेत् इति वक्ष्यमाणेन सूचित एव ।
क्षेत्राख्येति ।
अत्र क्षेत्रशब्दो ग्रामादीनामुपलक्षकः ।
यदुक्तम्—-पीठं क्षेत्रं पुरञ्चापि नगरं ग्राममेव च ।
इति ।
तल्लक्षणमन्यत्रोक्तम्—-कादिनान्तं भवेत् क्षेत्रं ग्रामः स्यात् पादिमान्तकः ।
यादिषान्तं पुरं सम्यक् प्रोक्तं देशिकसत्तमैः ।
सहान्तं नगरं प्रोक्तमेतत् क्षेत्रस्य लक्षणम् ॥ इति ।
पीठलक्षणन्तु प्रागुक्तम्—- " स्वराः षोडश पीठाख्याः " इति ।
क्वचित्तु " वनाद्रि- पत्तनग्राम देवगेहह्नदादिषु " इत्यप्युक्तम् ।
उभयतः स्थिताविति प्रत्येकं हस्तकुक्षिपादे- ष्वन्वेति ।
तेनाद्याद्यमभितोऽग्रिमाग्रिमम पुच्छं शिष्टम् ॥ १३४-१३५ ॥
मुखस्थो लभते सिद्धिं करस्थः स्वल्पजीवनः ।
उदासीनः कुक्षिसंस्थः पादस्थो दुःखमाप्नुयात् ॥ १३६ ॥
पुच्छस्थः पीड्यते मन्त्री बन्धनोच्चाटनादिभिः ।
कूर्मचक्रमिदं प्रोक्तं मन्त्राणां सिद्धिसाधनम् ॥ १३७ ॥
अस्य फलमाह मुखस्थ इति ।
मन्त्रीत्याकृष्यते ।
तस्य तन्त्रोक्तदीक्षाप्रकारेण स्वीकृतमन्त्र इत्यर्थः ।
अग्रेऽपि मन्त्रिणाम् इति पदद्वये अयमेवार्थेऽनुसन्धेयः ।
जीव्यतेऽनेनेति जीवनं भोगः स्वल्पं जीवनं यस्य स स्वल्पजीवनः ।
तदुक्तम्—-मुखस्थः शुभयुग्ज्ञेयः करस्थः स्वल्पभुक्तिमान् ।
इत्यादिना ।
तथा—- मुखे सर्वार्थसिद्धिः स्यात् करयोरल्पसिद्धिकृत् ।
इत्यादिना ।
तथा—- तस्मान्मुखं समाश्रित्य सर्वकर्म समारभेत ।
तदलाभे करं वापि कूर्मस्यान्यं न संश्रयेत् ॥ इति ।
अत्र विशेषो ग्रन्थान्तरोक्तः—-
स्थानसाधकयोर्नाम्नोररित्वं यत्र विद्यते ।
तत्तच्च (तदक्ष) शास्त्रतो ज्ञात्वा तत्तत् सम्यक् परित्यजेत् ॥
अरित्वमद्वयस्योक्तं गकारेण परस्परम् ।
ऋयुग्मस्य ठ (च) कारेण ठ (च) कारस्यापि तेन च ॥
ऌद्वयस्य पकारेण पकारस्यापि ऌद्वयम् ।
ओयुग्मस्य षकारेण षकारस्यौयुगेन च ॥
जकारस्य टकारेण झ (ऊ) कारस्य खकारतः ।
उकारस्य तकारेण फकारस्य धकारतः ॥
भकारस्य तु रेफेण यकारस्य सकारतः ।
अरित्वमेषां वर्णानामन्येषां मित्रभावना ॥
कूर्मचक्रे रिपुस्थानं साधको यत्नतस्त्यजेत् ॥ इति ।
उदाहरणञ्च तत्रैव दशीतम्—-
यथा गर्गस्य वैरि स्यादट्टहासं महत् पुरम् ।
गयाऽमरेश्वरस्यैवमकाराद्येषु योजयेत् ॥
ऋषभस्य चकाराख्यम् ऌतकस्यापि पद्मकम् ।
ओड्डियानं षण्मुखस्य औड्रं षङ्गुणकस्य च ॥
जयन्ती टङ्कनस्यारिः खन्धारं झञ्झभट्टतः ।
डकदेवस्य तरणिः (ताराख्यं) धूमाख्यं फञ्जकस्य च ॥
भट्टस्य रम्यकं वैरि यज्ञमित्रस्य वै सरः ।
एवं क्रमेण संशोध्य वैरिस्थानं त्यजेद्वुधः ॥ इति ।
तथा—- तेषामाद्यान्वितं वर्णं पूर्वमार्गेषु योजयेत् ।
यदि तद्व्यञ्जनापिण्डं यद्याद्यं पीठवजीतम् ॥
नामाक्षराणि सर्वाणि पीठयुक्तानि वर्जयेत् ।
तदादिकानि मार्गेण तद्गृहीत्वा स्वरं त्यजेत् ॥
ग्रामनामाक्षरेष्वादिमध्यान्तार्णान् विहाय च ।
द्वितीयमक्षरं यत्र कोष्ठे तिष्ठति तन्मुखम् ॥ इति ।
अन्यत्रापि—- तत्तन्नामद्वितीयार्णे यत्र तिष्ठति तन्मुखम् ।
इति ।
इदन्तु स्वरादिनामविषयम् ।
नामादी संयोगाक्षरे सति विशेषमाह—-
अक्षरत्रितयं यत्र ग्रामनामादिषु क्वचित् ।
स्वरो मध्याक्षरारूढो यत्र तिष्ठति तन्मुखम् ॥
भवतो यदि वर्णौ द्वौ ग्रामनामादिषु स्फुटम् ।
आद्यस्वरोः यत्र तिष्ठत्यदो वदनमिष्यते ॥ इति ।
तथा च—- क्षेत्रसाधकमन्त्राणामेकमेवाद्यमक्षरम् ।
यदि स्यात् स ध्रुवं मन्त्रः सर्वसिद्धिफलप्रदः ॥ इति ।
फलविशेषमाहाऽन्यः—-
मोक्षार्थं वदने कुर्याद्दक्षिणे त्वाभिचारिकम् ।
श्रीकामः पश्च्चिमे भूत्वा उत्तरे शान्तिदो भवेत् ॥
ईशाने शत्रुनाशः स्यादाग्नेयः शत्रुदायकः ।
नैरृते शत्रुभीतिः स्याद् वायव्ये तु पलायनम् ॥
कूर्मचक्रमविज्ञाय यः कुर्याज्जपयज्ञकम् ।
तज्जपस्य फलं नास्ति स चानर्थाय कल्पते ॥ इति ।
कादिमते विशेषः—-संवर्द्ध्यायामविस्तारं हृत्वाऽष्टाभिस्तु शेषतः ।
विज्ञाय वर्गं तेष्वेकमाद्यं नाम्नि प्रकल्पयेत् ॥
वास्तुष्वज्ञातरूपेषु प्रसिद्धं नामतो भवेत् ।
व्यञ्जनं देशकूर्मे स्याद् गृहकूर्मे स्वरास्तथा ॥
इति ॥ १३६-१३७ ॥
पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकम् ।
तीर्थप्रदेशाः सिन्धूनां सङ्गमाः पावनं वनम् ॥ १३८ ॥
उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः ।
देवतायतनं कूलं समुद्रस्य निजं गृहम् ।
साधनेषु प्रशस्यन्ते स्थानान्येतानि मन्त्रिणाम् ॥ १३९ ॥
पुरश्चरणजपस्य स्थानानि वदन् कूर्मचक्रविषयमाह पुण्येति ।
नदीतीरं पुण्यनदीतीरम् ।
सामान्यनदीतीरस्य निषिद्धत्वात् ।
पावनं वनमिति विशेषण विशेष्यभावः।
उद्यानानि विविक्तानि पूतानीत्यत्रापि ।
" विविक्तौ पूतविजनौ " इति कोषः ।
स्थानान्येतानीत्यनेन तन्त्रान्तरोक्तमपि सूचितम् ।
यदाहुः—-
प्रत्यङ्मुखशिवस्थाने वृषभादिविवजीते ।
अश्वत्थविल्वतुलसीवने पुष्पान्तरावृते ।
गवां गोष्ठेऽश्वत्थमूले पुण्यक्षेत्रेषु शस्यते ॥ इति ।
वायवीयसंहितायामपि—-
सूर्यस्याग्नेर्गुरोरिन्दोर्दीपस्य च जलस्य च ।
विप्राणाञ्च गवाञ्चैव सन्निधौ शस्यते जपः ॥
अथवा निवसेत् तत्र यत्र चित्तं प्रसीदति ॥ इति ।
तत्रैव स्थानविशेषे फलविशेषोऽप्युक्तः ।
गृहे जपः समः प्रोक्तो गोष्ठे शतगुणस्तु सः ।
आरामे च तथाऽरण्ये सहस्रगुण उच्यते ॥
अयुतं पर्वते पुण्ये नद्यां लक्षगुणस्तु सः ।
कोटिर्देवालये प्राहुरनन्तं शिवसन्निधौ ॥ इति ।
एवं शक्तिविशेषमन्त्रेषु अष्टाष्टकपीठाद्यपि ज्ञेयम् ।
अन्यत्र—-
म्लेच्छदुष्टमृगव्यालशङ्कातङ्कादिवजीते ।
एकान्ते वा वने निन्दारहिते भक्तिसंयुते ॥
सुदेशे धामीके राष्ट्रे सुभिक्षे निरुपद्रवे ।
रम्ये भक्तजनस्थाने निवसेन्न पराश्रये ॥
राजानः सचिवा राजपुरुषाः प्रभवो जनाः ।
चरन्ति येन मार्गेण न वसेत् तत्र तत्त्ववित् ॥
जीर्णदेवालयोद्यानगृहवृक्षतलेषु च ।
नदीकूलाद्रिकुञ्जेषु भूच्छिद्रादिषु नो वसेत् ॥
इति ॥ १३८-१३९ ॥
भैक्ष्यं हविष्यं शाकानि विहितानि फलं पयः ।
मूलं शक्तुर्यवोत्पन्नो भक्ष्याण्येतानि मन्त्रिणाम् ॥ १४० ॥
पुरश्चरणकर्त्तुर्मक्ष्याण्याह भैक्ष्यमिति ।
एतद्ब्रह्मचारियतिपरम् ।
भिक्षास्वरूप- मुक्तमन्यत्र—-
वैदिकाचारयुक्तानां शुचीनां श्रीमतां गृहे ।
सत्कुलस्थानजातानां भिक्षा स्यादग्रजन्मनाम् ॥ इति ।
हविष्यमिति व्रतहविष्यं न तु श्राद्धहविष्यादि ।
तच्च स्मृत्यन्तरे
हैमन्तिकं सितास्विन्नं धान्यमुद्गयवास्तिलाः ।
कलायकङ्गुनीवारा वास्तुकं हिलमोचिका ॥
षष्टिका कालशाकञ्च मूलकं केमुकेतरत् ।
कन्दं (लोणं) सैन्धवसामुद्रे गव्ये च दधिसपीषी ॥
पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी ।
तिन्तिडी (पिप्पली) जीरकञ्चैव नागरङ्गकमेव च ॥
कदली लवली धात्री फलान्यगुडमैक्षवम् ।
अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते ॥ इति ।
फलं पयो मूलं विहितमित्यनुषज्यते ॥ १४० ॥
पुरुषार्थसमावात्यै सच्छिस्यो गुरुमाश्रयेत् ।
मातृतः पितृतः शुद्धः शुद्धभावो जितेन्द्रियः ॥ १४१ ॥
सच्छिष्यो गुरुमाश्रयेदित्युक्तम् ॥ अतो गुरुलक्षणमाह मातृत इत्यादिना ।
मातृतः पितृतः शुद्धः शुद्धपितृमातृप्रसूत इत्यर्थः ।
सा च शुद्धिर्लेकप्रसिद्धितः शीलान्वेषणतश्च ज्ञेया ।
यदुक्तम्—-
यदकारि कर्म गुप्तं यौवनसमये मदान्ध (न्दधि) या मात्रा ।
तत् प्रकटयन्ति तनया विगतनयाः स्वधर्ममुत्सृज्य ॥ इति ।
शुद्धभावः शुद्धचित्तवृत्तिरित्यर्थः ।
अन्यथा खलत्वात् शुश्रूषार्ह एव न स्यात् ।
जितेन्द्रियः ।
अजितेन्द्रियस्य देवतापराङ्मुखत्वात् ॥ १४१ ॥
सर्वागमानां सारज्ञः सर्वशास्त्रार्थतत्त्ववित् ।
परोपकारनिरतो जपपूजादितत्परः ॥ १४२ ॥
सर्वागमानां सारज्ञः ।
अन्यथा शैवादितत्तत्सम्प्रदायानभिज्ञता स्यात् ।
सर्वशास्त्रार्थतत्त्ववित् ।
अन्यथा आगमशास्त्रविचारानुपपत्तेः ।
परोपकारनिरतः ।
अन्यथा शिष्योपरि कृपैव न स्यात् ।
तत् कृपां विना मन्त्रोऽपि पराङ्मुखो भवति ।
जपपूजादितत्परः ।
आदिशब्देन ध्यानहोमौ ।
अन्यथा लुप्तसमयाचारस्य देवतासान्निध्याभावात् ।
तदुक्तं पिङ्गलामते—-
नाध्यातोऽनचीतो मन्त्रः सुसिद्धोऽपि प्रसीदति ।
नाजप्तः सिद्धिदानेच्छुर्नाहुतः फलदो भवेत् ॥
पूजां ध्यानं जपं होमं तस्मात् कर्मचतुष्टयम् ।
प्रत्यहं साधकः कुर्यात् स्वयञ्चेत् सिद्धिमिच्छति ॥ इति ॥१४२॥
अमोघवचनः शान्तो वेदवेदार्थपारगः ।
योगमार्गानुसन्धायी देवताहृदयङ्गमः ॥ १४३ ॥
इत्यादिगुणसम्पन्नो गुरुरागमसम्मतः ॥ १४४ ॥
अमोघवचनः अनुग्रहक्षमः ।
शान्तः ।
अन्यथा लोकगहीतस्याऽसेव्यत्वात् ।
वेदवेदार्थपारगः ।
अनेन स्वाचारनिष्ठतोक्ता ।
यदुक्तम्—-
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ।
विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ इति ।
अन्यत्रापि—- विना स्वधर्मं यत् किञ्चित् देवताराधनादिकम् ।
परिभ्रंश्येत तद् यस्मात् क्षणात् सैकतहर्म्यवत् ॥ इति ।
योगमार्गानुसन्धायी ।
अन्यथा दीक्षादिदान एवाशक्तिः स्यात् ।
देवताहृदयङ्गमः देवतावद्धृदयङ्गमो मनोहरः प्रसन्नाकार इत्यर्थः ।
यथा देवतादर्शनेन मनसि सन्तोषस्तथा तद्दर्शनेनापि मनसि सन्तोषोत्पादात् ।
तदुक्तम्—-
कार्यानुगतं शीलं शीलानुगतं नृणां भवति चित्तम् ।
चित्तानुगतं रूपं रूपानुगता गुणाः प्रायः ॥ इति ।
यत्र च मनसः सन्तोषस्तत्र फलावश्यम्भावः ।
तदुक्तम्—- " यस्मिन्मनश्चक्षुषोरभिरतिस्तस्मिन्नभ्युदयः " इति ।
यथाऽभियुक्तकालिदासस्मरणमपि—- " मनो हि जन्मान्तरसङ्गतिज्ञम् " इति ।
आदिशब्दान्महाकपिलपञ्चरात्रोक्तम्—-
नातिबालो न वृद्धश्च न खञ्जो न कृशस्तथा ।
नाधिकाङ्गो न हीनाङ्गो न खल्वाटो न दन्तुरः ॥
कुल (कृत)ज्ञं वाग्मिनं शूरं प्रतिष्ठागमपारगम् ।
वास्तुविद्याकृताभ्यासं शल्योद्वारविवेकिनम् ।
क्रियानुक्रमवेत्तारं मुद्रातन्त्रविवेकिनम् ॥ इति ।
शुचिः सुवेशस्तरुणः सर्वभूतसमानधीः ।
धीमाननुद्धतमतिः कृतज्ञः शिष्यवत्सलः ।
श्रद्धावाननसूयश्च गृहस्थो गुरुरुच्यते ॥
इत्यादिग्रन्थान्तरोक्तञ्च द्रष्टव्यम् ।
आचार्यमातुलौ ऋत्विक् पितृव्यः श्वशुरो नृपः ।
इति षङ्गुरवोऽप्येते ।
इत्यन्यत्रोक्तेरत्र आगमसमतः इति विशेषणम् ।
संसारसागरे मग्नान् यस्तारयति देहिनः ।
तत्त्वप्लवप्रदानेन स एवेह गुरुः स्मृतः ।
इत्युक्तेः ।
प्रतिष्ठासारस्वते तु विशेषः—-
आर्यावर्त्तेद्भवोऽन्यो वा ककाराष्टकवजीतः ।
शैवसिद्धान्तनिपुणः प्रतिष्ठामन्त्रपारगः ॥ इति ।
वीरागमे च—- कुमारीहिमवन्मध्ये स्वतः कृष्णमृगान्विते ।
देशे जातस्तु यो विद्वान् आचार्यत्वमथार्हति ॥ इति ।
योगशिवपद्धतावपि—-मध्यदेशकुरुक्षेत्रनाभोज्जयिनिसम्भवाः ।
अन्तर्वेदिप्रतिष्ठानादावन्त्याश्च गुरूत्तमाः ॥
गौडदेशोद्भवाश्चौला मागधाः केरलास्तथा ।
कौशलाश्च दशार्णाश्च गुरवो मध्यमा मताः ॥
कर्णाटकोङ्कणाकीर (श्चैव) कच्छतीरोद्भवास्तथा ।
कालिङ्गाः कामरूपाश्च काम्बोजाश्चाधमाः स्मृताः ॥ इति ।
देवीमते च—- आचार्यः शैवशास्त्रज्ञः शिवदेशसमुद्भवः ।
ब्रह्मचारी गृहस्थो वा शिवभक्तिपरायणः ।
यजमानानुकूलर्क्षजन्मा देशिक उच्यते ॥ इति ।
हयशीर्षपञ्चरात्रेऽपि—-गृहस्थं ब्रह्मचर्यस्थं ककारा (पाटा)ष्टकवजीतम् ।
गुरुं कुर्वीत सततमुपवासव्रते रतम् ॥ इति ।
तथा—- सर्वत्र व्यतिरिक्तन्तु आत्मानं वेत्ति यो द्विजः ।
सर्वलक्षणहीनोऽपि स गुरुर्नात्र संशयः ॥
पञ्चरात्रप्रबुद्धस्तु सिद्धान्तार्थस्य तत्त्ववित् ।
सर्वलक्षणहीनोऽपि आचार्यः स निगद्यते ॥
यस्य विष्णौ परा भक्तिर्यथा विष्णौ तथा गुरौ ।
स एव देशिको ज्ञेयः सत्यमेतद्ब्रवीमि ते ॥ इति ।
शैवदीक्षायाम् अतीतागमे विशेषः—-
जटी मुण्डी शिखी वापि शस्तदेशसमुद्भवः ।
शिवशास्त्रार्थतत्त्वज्ञः श्रुतवृत्तान्वितो द्विजः ॥
शिवमेवाश्रितो नित्यं वाङ्मनः कायकर्मभिः ।
आचार्यः स सदोद्दिष्टः शिवदीक्षादिकर्मसु ॥ इति ।
शान्तिके च—- अनूचानः प्रसन्नात्मा शिवदीक्षाभिषेचितः ।
शिवागमज्ञो मतिमान् शिवपूजापरायणः ॥
रुद्राक्षमालां विभ्राणस्त्रिशूलाङ्कितविग्रहः ।
विशुद्धदेशकुलजः शीलाचारसमन्वितः ।
वेदशास्त्रार्थतत्त्वज्ञो ज्ञानवान् गुरुरुच्यते ॥ इति ।
प्रतिष्ठापद्धतावपि—- लिङ्गी वि(ङ्गादि) लक्षणज्ञानी निपुणः कर्मसन्ततौ ।
देवताव्याप्तितत्त्वज्ञः षड्विधाध्वविशारदः ॥
शुभाशुभनिमित्तज्ञस्त्वथवा विस्तरेण किम् ।
सम्यग्जातिपरिज्ञानं वृत्तन्त्वाद्यास्त्रयो गुणाः ।
यस्यैते स गुरुः श्रेष्ठः सर्वकामफलप्रदः ॥ इति ।
यतेरपि गुरुतोक्ता मोहशूरोत्तरे—-
चीर्णा (तीर्था) चारव्रतो मन्त्री ज्ञानवान् सुसमाहितः ।
नित्यनिष्ठो यतिः ख्यातो गुरुः स्याद् भौतिकोऽपि च ॥ इति ।
बातुलोत्तरेऽपि—- विद्ययाऽभयदातारं लौल्यचापलवजीतम् ।
एवंविधं गुरुं प्राप्य को न मुच्येत बन्धनात् ॥ इति ।
पौष्करे तु—- सर्वलक्षणहीनोऽपि ज्ञानवान् गुरुरुच्यते ।
ज्ञानञ्च तत्त्वविज्ञानं षडध्वज्ञानसंश्रयम् ॥ इति ॥ १४३-१४४ ॥
शिष्यः कुलीनः शुद्धात्मा पुरुषार्थपरायणः ।
अधीतवेदः कुशलो दूरमुक्तमनोभवः ॥ १४५ ॥
हितैषी प्राणिनां नित्यमास्तिकस्त्यक्तनास्तिकः ।
स्वधर्म्मनिरतो भक्त्या पितृमातृहितोद्यतः ॥ १४६ ॥
वाङ्मनः कायवसुभिर्गुरुशुश्रूषणे रतः ।
त्यक्ताभिमानो गुरुषु जातिविद्याधनादिभिः ॥ १४७ ॥
गुर्वाज्ञापालनार्थं हि प्राणव्ययरतोद्यतः ।
विहत्य च स्वकार्याणि गुरुकार्यरतः सदा ॥ १४८ ॥
दासवन्निवसेद् यस्तु गुरौ भक्तया सदा शिशुः ।
कुर्वान्नाज्ञां दिवारात्रौ गुरुभक्तिपरायणः ॥ १४९ ॥
आज्ञाकारी गुरोः शिष्यो मनोवाक्कायकर्मभिः ।
यो भवेत् स तदा ग्राह्यो नेतरः शुभकाङ्क्षया ॥ १५० ॥
मन्त्रपूजारहस्यानि यो गोपयति सर्वदा ।
त्रिकालं यो नमस्कुर्यादागमाचारतत्त्ववित् ॥ १५१ ॥
स एव शिष्यः कर्त्तव्यो नेतरः स्वल्पजीवनः ।
एतादृशगुणोपेतः शिष्यो भवति नापरः ॥ १५२ ॥
शिष्यलक्षणमाह शिष्य इति ।
कुलीनः शुद्धमातृपितृजः ।
अन्यथा कुण्डगोलादेरशुचित्वात् सर्वदा स्पष्टव्यत्वाभावात् ।
शुद्धात्मा अक्रूरचित्तः ।
क्रूरस्य विद्यानुपदेशात् ।
यत् श्रुतिः—-
विद्या ह वै ब्राह्मणमाजगाम ।
गोपाय मा शेवधिष्टेऽहमस्मि ।
असूयकायाऽनृजवेऽयताय न मा ब्रूया ।
वीर्यवती तथा स्याम् ॥ इति ।
पुरुषार्थपरायणः ।
अनेनास्य व्यसनहीनतोक्ता ।
अन्यथा उपदेशानर्थक्यात् ।
अधीतवेद इत्यनेनास्य शुद्धतोक्ता ।
यदुक्तम्—-
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ इति ।
कुशलः अमुग्धः ।
मुग्धस्य मन्त्रबोधनाक्षमत्वात् ।
दूरमुक्तमनोभवः ।
कामिनः सपापत्वादशुद्धचित्तत्वात् मन्त्राराधनानधिकारः ।
हितैषी प्राणिनां नित्यम् इति ।
अन्यथा उपदिष्टमन्त्रात् अभिचारादिकर्मरतस्य तस्य पापं गुरुमपि स्पृशेत् ।
आस्तिकः अस्ति परलोक इति बुद्धिर्यस्य ।
अन्यथा नास्तिकतायां मन्त्रदेवता- नाराधनात् गुरौ देवताकोपो भवेत् ।
त्यक्तनास्तिकः नास्तिकसंसर्गत्यागी ।
अन्यथा संसर्गजो दोषः स्यात् ।
स्वधर्मनिरतः आचारवान् ।
अनाचारिणोऽनधिकारात् ।
भक्त्या मातृपितृहितोद्यतो न तु दम्भादिना ।
असावेवास्य परमो धर्मम् उक्तो व्यासादिभिः ।
वाङ्मन इत्यादिना अवञ्चकतोक्ता ।
एतादृश इत्यनेन
युवा विनयताशेषकरणः करुणालयः ।
इत्यादि ग्रन्थान्तरोक्तं द्रष्टव्यम् ।
यत् प्रयोगसारे—-
तत्रापि भक्तियुक्ताय पुत्राय वसुदाय च ।
इति
नारायणीयेऽपि—- कुर्वन्नाचार्यशुश्रूषां मनोवाक्कायकर्मभिः ।
शुद्धभावो महोत्साहो बोद्धा शिष्य इति स्मृतः ॥
न तूपदेश्यः पुत्रश्च व्यत्ययी वसुदस्तथा ।
इति ।
नापर इत्यनेनाऽन्यस्य निषेध उक्तः ।
तथा चान्यत्र शिष्यदोषानुक्त्वा—-
एवमादिगुणैर्युक्तं न शिष्यन्तु परिग्रहेत् ।
गृह्णीयाद् यदि तद्दोषः प्रायो गुरुमपि स्पृशेत् ॥
अमात्यदोषो राजानं पतिं जायाकृतो यथा ।
तथा शिष्यकृतो दोषो गुरुं प्राप्नोत्यसंशयः ॥
स्नेहाद्वा लोभतो वापि यदि गृह्णाति दीक्षया ।
तस्मिन गुरौ सशिष्ये तु देवताशाप आपतेत् ।
तस्माच्छिष्यं गुरुर्नित्यं परीक्ष्य तु परिग्रहेत् ॥ इति ।
भुवनेशीपरिजातेऽपि—-अशिष्ये कथयेद् यस्तु स महापातकी भवेत् ।
इति ।
ग्रन्थान्तरे तु विशेषः—-गुरूच्यमाने वचने वदेदित्थं वचस्तदा ।
प्रसीद नाथ देवेति तथेति च कृतादरम् ॥
प्रणम्योपविशेत् पार्श्वे तथा गच्छेदनुज्ञया ।
मुखावलोकी सेवेत कुर्यादादिष्टमादरात् ॥
असत्यं न वदेदग्रे न बहु प्रलपेदपि ।
कामं क्रोधं तथा लोभं मानं प्रहसनं स्तुतिम् ॥
चापलानि च जिह्मानि कार्याणि ( निर्माणि) परिदेवनम् ।
ऋणदानं तथाऽऽदानं वस्तूनां क्रयविक्रयम् ।
न कुर्याद् गुरुणा सार्द्धं शिष्यो भूष्णुः कदाचन ॥ इति ।
प्रयोगसारेऽपि—- गुरुर्माता पिता स्वामी बान्धवाः सुहृदः शिवः ।
इत्याधाय मनो नित्यं भजेत् सर्वात्मना गुरुम् ॥
असत्यं न गुरौ ब्रूयाद् गुरुनिन्दां न कारयेत् ।
प्रारब्धां वारयेदन्यैरशक्तस्तत्पदं त्यजेत् ॥
गुरौ यथैव शूश्रूषा गुरुभार्यासु ताञ्चरेत् ।
ज्येष्ठांश्च गुरुवत् पश्येत् आत्मवच्च कनीयसः ॥
गुरुणा यद्यदादिष्टमिष्टं वाऽनिष्टमेव वा ।
तदा तदाशु सन्तिष्ठेदकौटिल्येन चेतसा ॥
मनोवाक्कर्मभिर्नित्यं पूजयेद् भाविनं गुरुम् ।
इति ।
देव्यागमेऽपि शिववाक्यम्—- गुरोरग्रे पृथक् पूजामौद्धत्यञ्च विवर्जयेत् ।
दीक्षां व्याख्यां प्रभुत्वादि गुरोरग्रे विवर्जयेत् ॥ इति ।
तत्रैव—- आसनं शयनं वस्त्रं भूषणं पादुकां तथा ।
छायां कलत्रमन्यच्च यत्तत्स्पृष्टं तु पूजयेत् ॥ इति ।
अन्यत्रापि—- यथा देवे तथा मन्त्रे यथा मन्त्रे तथा गुरौ ।
यथा गुरौ तथा स्वात्मन्येवं भक्तिक्रमः स्मृतः ॥
इति ॥ १४५-१५२ ॥
एकाब्देन भवेद् योग्यो ब्राह्मणोऽब्दद्वयान्नृपः ।
वैश्यो वर्षैस्त्रिभिः शूद्रश्चतुभीर्वत्सरैर्गुरोः ।
स शुश्रूषुः परिग्राह्यो दीक्षायागव्रतादिषु ॥ १५३ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
द्वितीयः पटलः समाप्तः ॥ २ ॥
शिष्यस्य परीक्षावधिकालमाह एकेति ।
गुरोर्येग्यो भवेदिति सर्वत्र सम्बद्ध्यते।
शुद्रश्चतुभीरिति ।
ननु शूद्रस्य दीक्षादौ कथमधिकार इति चेत् ।
मैवम् ।
वेदाध्ययन- तदुक्त कर्मस्वेव स्मृतावनधिकारप्रतिपादनादन्यत्राधिकारात् ।
अतएव शूद्रप्रकरणे
स्मृतिः—-नमस्कारेण मन्त्रेण पञ्चयज्ञान् न हापयेत् ।
इति ।
मन्त्रास्त्वीश्वर- प्रोक्तास्तत्र भगवतैव यथायथमधिकारिता दशीता ।
यथाप्रासाद मन्त्रप्रकरणे भगवानाह—-
स्त्रीशूद्राणामयं मन्त्रो नमोऽन्तस्तु शुभावहः ।
एतज्ज्ञात्वा महासेन चाण्डालानपि दीक्षयेत् ॥ इति ।
पिङ्गलामतेऽपि—- चतुर्णां ब्राह्मणादीनां दीक्षां कुर्वीत मन्त्रवित् ।
इति ।
अन्यत्रापि—- ब्रह्मक्षत्रविशः शूद्रा अर्चायां शुद्धबुद्धयः ।
गुरुदेवद्विजार्चासु रताः स्युरधिकारिणः ॥ इति ।
तेन साक्षाद्वैदिकेषु मन्त्रेषु रामषडक्षरसौराष्टाक्षरमन्त्रराजप्रभृतिषु प्रणवादिषु
च न तस्याधिकारः ।
तथा च पद्मपादाचार्यैः प्रणवव्याख्याने—-
अकारोकारमकारात्मेत्यनेन भेदत्रयेण प्रणवादिमन्त्रेषु त्रैवणीका एवाधि- कारिणो न स्त्रीशूद्रा
इत्यपि सूचितम् इत्युक्तम् ।
तथा च नृसिंहतापनीये—-
सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्राय नेच्छन्ति ।
सावित्रीं लक्ष्मीं यजुः प्रणवं यदि जानीयात् स्त्रीशूद्रः स्मृतोऽधो गच्छति ।
इति ।
महाकपिलपाञ्चरात्रे नारायणाष्टाक्षरमधिकृत्योक्तम्—-
न वेदः प्रणवं त्यक्त्वा मन्त्रो वेदसमुच्छिरतः ।
तस्माद् वेदपरो मन्त्रो वेदाङ्गश्चागमः स्मृतः ॥
वश्याकर्षादिकं काम्यं दृष्टादृष्टफलप्रदम् ।
वेदेन साध्यते सर्वं ग्रहयज्ञादिभिः किल ॥
न वेदेन विना यज्ञा न यज्ञा वेद (मन्त्र) वजीताः ।
तस्माद् वेदः परो मन्त्रो न मन्त्रो वेदमुज्झितः ॥
न मन्त्रे चाधिकारोऽस्ति शूद्राणां नियमः परः ।
मन्त्राभावादमन्त्रेण भाषितं सर्वकर्म हि ॥ इति ।
नारदपञ्चरात्रे नारायणाष्टाक्षरमधिकृत्योक्तम्—-
ब्राह्मणक्षत्रियविशां पञ्चरात्रं विधीयते ।
शूद्रादीनां न तत् श्रोत्रपदवीमपि गच्छति ॥ इति ।
तथा श्रवणे त्रपुजतुभ्यां कर्णपूरणम् उच्चारणे जिह्वाच्छेदः धारणे शरीरभेदः इति वेदविषये
तस्य स्मृतिषु दण्डोपदेशादित्यलम् ।
अन्यत्र वत्सरमात्रं सामान्यत उक्तम्—- गुरुता शिष्यता वापि तयोर्वत्सरवासतः ।
इति ।
सारसङ्ग्रहेऽपि—- सद्गुरुः संश्रितां शिष्यं वर्षमेकं परीक्षयेत् ।
इति ।
के चन इदं ब्राह्मणविषयमित्यूचुः ।
दशपटल्यान्तु—-
अब्दं परीक्ष्य चार्द्धं वा अन्यथा न कदाचन ।
इति ।
प्रयोगसारे तु—- वर्षेषु त्रिषु विप्रस्य षट्सु वर्षेषु भूभृतः ।
विंशो नवसु वर्षेषु परीक्षा तत्र शस्यते ॥
समास्वपि द्वादशसु तेषां ये वृषलादयः ।
इति ।
सिद्धान्तसारसङ्ग्रहे विशेषः—-
यथोक्तां दक्षिणां दद्याद् ब्राह्मणः क्षत्रियस्तथा ।
द्विगुणां वैश्यवर्यस्तु त्रिगुणां शूद्रसत्तमः ।
चतुर्गुणां प्रयच्छेत मन्त्रसिद्धिविधीच्छया ॥ इति ॥ १५३ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां द्वितीयः पटलः ॥ २ ॥