०१

अथ प्रथमः पटलः

नित्यानन्दवपुर्निरन्तरगलत्पञ्चाशदर्णैः क्रमाद्
व्याप्तं येन चराचरात्मकमिदं शब्दार्थरूपं जगत् ।
शब्दब्रह्म यदूचिरे सुकृतिनश्चैतन्यमन्तर्गतं
तद्वोऽव्यादनिशं शशाङ्कसदनं वाचामधीशं महः ॥ १ ॥
" पदार्थादर्शः "
श्रीकण्ठं निजताण्डवप्रवणताप्रोद्दाममोदोदयं
पश्यन्त्याः कुतुकाद्भुतप्रियतया सञ्जातभावं मुहुः ।
मन्दान्दोलितदुग्धसिन्धुलहरी लीलालसं लोचन-
प्रान्तालोकनमातनोतु भवतां भूतिं भवान्याः शुभम् ॥ १ ॥
संसेव्यमानमृषिभिः सनकादिमुख्यै-
र्येगेन गम्यमविनश्वरमादिभूतम् ।
संसारहृन्निगमसारविचारसारं
शैवं महो मनसि मे मुदमादधातु ॥ २ ॥
भद्राय भवतां भूयाद् भारती भक्तिभाविता ।
स्मृतिरुज्जृम्भते यस्या वाग्विलासोऽतिदुर्लभः ॥ ३ ॥
शारदातिलके तन्त्रे गुरूणामुपदेशतः ।
पदार्थादर्शटीकेयं राघवेण विरच्यते ॥ ४ ॥
सम्प्रदायागतं किञ्चिद् गणितागमसम्मतम् ।
यदुक्तमत्र तत् सन्तो विचारयितुमर्हथ ॥ ५ ॥
पिशुनो दूषकश्चेत् स्यान्न तद्दोषाय दूषणम् ।
दोषावहा हि विकृतिर्न स्वभावो हि दुस्त्यजः ॥ ६ ॥
अथेश्वरः सर्वा अपि श्रुतीर्भवपाशबद्धानां जन्तूनां स्वर्गाय मुक्तये च समुपदिशति स्म ।
अन्येषां तु स्मृतिशास्त्रादीनां तन्मूलकत्त्वेन तदर्थप्रतिपादकत्त्वेन च प्रामाण्यमिति सुप्रसिद्धतरम् ।
अस्यास्त्वागमस्मृतेः कथं तन्मूलकत्त्वम् ।
अन्यच्च तैरेव विशेषेण पर्यालोचितैः स्वर्गेऽथवा मुक्तिरपि भविष्यतीति किमनयेति प्राप्ते ब्रूमः ।
" स एक्षत बहु स्यां प्रजायेय " इति ।
तथा च " यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व "
इत्युपक्रम्य " आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते, आनन्देन जातानि जीवन्ति, आनन्दं प्रयन्त्यभिसंविशन्ति " इत्यादि ।
" इदं सर्वं यदयमात्मा एव " इत्यन्तेनोपसंहृतम् ।
अथ—-
उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥
इत्युक्तत्त्वादुपक्रमोपसंहाराभ्यां स्वलीलारूपानाद्यनिर्वाच्याविद्यासहायसम्पन्नं परमानन्दस्वरूपं
नित्यशुद्धबुद्धस्वभावं परब्रह्मैव स्वात्मविवर्त्तरूपं सकलं जगत् ससर्जेति श्रुतिवाक्यप्रतिपादितोऽर्थः ।
नन्वस्तु जगत्सृष्टिकर्त्तृत्वं ब्रह्मणः अनाद्यविद्याङ्गीकरणं किमर्थम् इति चेन्न ।
तया विना असङ्गस्य तस्य कारणतैवानुपपन्ना ।
तथेममर्थं श्रुत्यागमावपि वदतः ।
" इन्द्रो मायाभिः पुरुरूप ईयते " इति ।
" शिवो हि शक्तिरहितः शक्तः कर्त्तुं न किञ्चन " इति ।
एवं जाते जगति निजकर्मपाशबद्धा जन्तवोऽनात्मज्ञा उत्पत्तिमरणप्रवाहपतिता नाशक्नुवन्
संसारसिन्धुं तरीतुम् ।
एवं भूतान् तानवलोक्य परमकरुणतया किञ्चिदुपाधिविशिष्टः सर्वाः श्रुतीः समुपदिशति स्म ।
तत्र सर्वासु श्रुतिषु काण्डत्रयं कर्मेपासनाब्रह्मभेदेन ।
तत्र कर्मकाण्डं जैमिनिप्रभृतिभिः सम्यक्तया विवृतम् ।
इदमुपासनाकाण्डं नारदादिभिः ब्रह्मकाण्डं भगवद्व्यासादिभिरपि ।
श्रुतिमूलकताऽस्य प्रत्यक्षोपलब्धश्रुतिमूलकता अप्रत्यक्षो- पलब्धश्रुतिमूलकता च ।
रामपूर्वेत्तरतापनीय नृसिंहपूर्वेत्तरतापनीयसौराष्टाक्षरशैव- पञ्चाक्षरात्मिका तु साक्षात्श्रुतिरूपलभ्यत एव ।
तत्र कर्मकाण्डे सर्वेऽप्यधिकारी ।
मुमुक्षोरपि तत्त्वज्ञानपर्यन्तं स्वचित्तशुद्ध्यर्थं प्रत्यवायपरिहारार्थञ्च कर्मकरणेऽधिकार- सम्भवात् ।
तद्वदुपासनाकाण्डेऽपि ।
यतः साकारोपासनातः स्वर्गादिबहुफलं भवति क्रमतो मुक्तिश्च ।
कर्म- काण्डात्तु स्वर्गादिकं बहुतरव्ययायासेन भवति ।
ब्रह्मकाण्डान्मुक्तिरपि आदरनैरन्तर्य- दीर्घकालाभ्याससाध्यानेकेषु जन्मसु तादृशेषु एव गतेषु भवति ।
" अनेकजन्म- संसिद्धस्ततो याति परां गतिम् " इति वचनात् ।
अत एतदुपासनाकाण्डमेवागम- शास्त्रात्मकं गरीय इति सिद्धम् ।
तत्रोत्पलाचार्यपूज्यपादशिष्यः श्रीलक्ष्मणाचार्यः पूर्वतन्त्राणामनेकेषामेकैक- मन्त्रविधानकथनप्रवृत्तानामतिविततानां
गम्भीराणामिदानीन्तनानामल्पबुद्धीनामल्पायु- षामेकस्मिन् सर्वमन्त्रविधानमभीप्सूनां
पुंसामशक्त्या दुरवगाहत्वमत्रावलोक्याति- कृपालुः शारदातिलकं तन्त्रं चिकीर्षुश्चिकीषीतस्याविघ्नेन
समाप्त्यर्थं प्रचयगमनार्थञ्च सकलशिष्टैकवाक्यतयाऽभिमतकर्मभारम्भसमये
तत्समाप्तिकामैर्म्मङ्गलमाचरणीय- मिति सदाचारानुमितश्रुतिबोधितपरदेवतानुस्मरणलक्षणं
मङ्गलं शिष्यशिक्षार्थमुपनि- बध्नन्नाह—-नित्येति ।
तन्महोऽनिशं वोऽव्यादित्यन्वयः ।
तन्मह एतावतैव परदेवतानु- स्मरणस्य सिद्धौ सत्यामप्यस्य पदस्य यत्किञ्चित् क्रियापेक्षायां
विघ्नोपशमनद्वाराऽ- भिलषितफलवितरणरूपावनक्रियानिर्देशेन देवतासाम्मुख्यं दशीतम् ।
तत्र सामान्य कर्मसम्बन्धे प्राप्ते क्रियमाणस्य ग्रन्थस्य निवीघ्नं पाठमभिप्रेप्सोः शिष्योपरि कृपां
सूचयतो व इति कर्मणो निर्देशः ।
वो युष्मान् शिष्यानित्यर्थः ।
एषामेवात्र सम्बोधनयोग्यत्त्वात् सम्बोधनप्रधानत्त्वाच्च युष्मच्छब्दस्य ।
यतः शिष्यकृपयैव विदित- वेद्य आचार्ये ग्रन्थकरणे प्रवृत्तः ।
तेषां कञ्चित्कालमवने सिद्धे स्वशिष्याणां तच्छिष्याणामपि निवीघ्नं पाठसिद्ध्यसम्भवेन ग्रन्थप्रचारो न
भवतीत्युक्तमनिशमिति ।
तथा च तेषां चिरकालावने सिद्धे स्वशिष्याणां तच्छिष्याणामपि निवीघ्नं पाठसिद्धौ ग्रन्थप्रचारो
भविष्यतीत्याशयः ।
किं तन्मह इत्यपेक्षायामाह—-नित्यानन्दवपुरिति ।
नित्यो योऽयमानन्दः स वपुर्यस्य एतेन शक्त्यभिन्नं परशिवस्वरूपमुक्तम् ।
ननु " शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यते " इत्युक्तेर्निर्गुणस्याऽसङ्गस्य निराकारस्य तस्य
कथमवनक्रिया- कर्त्तृत्त्वम् इत्याह—-वाचामधीशमिति ।
अनेन शक्त्युपहितं सदाशिवात्मकं रूपं वागुपदेष्टृत्त्वेनोक्तम् ।
ननु वागुपदेष्टृत्त्वं चतुर्मुखोपाध्युपहितस्यापि वर्त्तते तन्निवृत्त्यर्थमाह —-शशाङ्कसदनमिति ।
शशाङ्कस्य चन्द्रस्य सदनं स्थानं चन्द्रकलावतंसमित्यर्थः ।
शब्दसृष्टेरत्र मुख्यत्वात् मन्त्रमयं तत्स्वरूपं सूचयति ।
यदाभ्यामः विष्णुस्तेन सङ्कर्षणः तेन औ एतेन सहिता निशा हकारो यत्रेत्युत्तरपदलोपी
बहुव्रीहिस्तेन हाविति सिद्धम् ।
शशाङ्केत्यादिना बिन्दुरुक्तः ।
तत्र वागैश्वर्यमुपबृंहयन् वक्ष्यमाणां शब्दार्थसृष्टिं सूचयन् व्यापकतामाह—-येन चराचरात्मकमिदं
स्थावरजङ्गमात्मकं शब्दार्थरूपं जगत् क्रमाद् व्याप्तम् ।
कैः निरन्तरगलत्पञ्चाशदर्णैः निरन्तरमनवरतं गलन्तो व्यक्तीभवन्तः पञ्चाशदर्णा वर्णास्तैः ।
अत्र समासे वर्णशब्दस्य वावलोपो वक्तव्य इति स्वर्णशब्द इव वलोपे अर्णशब्दो वर्णवाची ।
केचित्तु नित्येत्याद्यर्णैरित्यन्तमेकमेव पदमित्याहुः ।
अत्र वर्णानामेकपञ्चाशत्त्वेऽपि सामीप्यसम्बन्धेन लक्षणया पञ्चाशत्त्वमुक्तम् ।
अन्वया- नुपपत्तिवत्तात्पर्या-नुपपत्तेरपि लक्षणाबीजस्याभ्युपगतत्वात् ।
अथवा " मकारः पुरुषो यतः " इत्युक्तेः तस्य स्वस्वरूपत्वात् पञ्चाशदित्युक्तिः ।
यद्वा क्षकारस्य क-ष संयोगात्मकत्वात् तयोरुपदेशेनैवास्योपदेश इत्यपुनरुक्तं पञ्चाशद्ग्रहणम् ।
यद्वा विसर्गस्य केवलं शक्तित्वात् पञ्चभूतात्मकत्वाभावात् सर्ववर्णेत्पत्तिहेतुत्वाच्च तं त्यक्त्वा तथोक्तिः ।
तदुक्तम्—-
" अमायोऽनन्त्य एव वा " इति ।
क्वचिद्वाह्येऽपि तावतामेवोपयोगाद्वा तथोक्तिः ।
यद्वा मूलाधारादि आज्ञापर्यन्तं षट्चक्रेषु पञ्चाशद्वर्णानामेव स्थितत्वात् पञ्चाशदित्युक्तिः ।
अनयोर्व्याख्यानयोः बहि- रान्तरभेदेन व्यवस्था ज्ञेया ।
आन्तरस्य च मुख्यत्वात् शास्त्रे सर्वत्र मुख्येन व्यवहार इति ज्ञेयम् ।
अनेनान्तर्मातृकान्यासोऽपि सूचितः ।
स चान्त्यपटले (२५) कुण्डली- प्रस्तावे स्फुटीभविष्यति ।
अतएव द्वितीयादिचतुवींशतिपटलान्तं यत् प्रपञ्चितं तत् सर्वं मातृकाविकार इत्यपि सूचितम् ।
ननु " सर्वव्यापी सदाशिवः " (शा। १। १५) इति वक्ष्यमाणत्वात् तस्य स्वत एव सर्वव्यापित्वे कुतः कैरिति
कारणापेक्षा इति चेत्, सत्यम्।
तस्य स्वत एव सर्वव्यापित्वं
किन्तु अत्र शास्त्रे शब्दसृष्टेः मुख्यत्वद्योतनाय निरन्तरगलत्पञ्चाशदर्णै- रिति कारणतोक्तिः ।
किञ्च पूर्वमपि यत्किञ्चिच्छक्त्युपाधिविशिष्टत्वे वक्तव्ये या वाचामधीशमित्युक्तिः सा अत्र च
वर्णानामर्थरूपव्यापकतोक्तिरपि ।
तत्र शब्दस्वरूप- मभिव्याप्य एव अर्थरूपं व्याप्नोतीति क्रमादित्युक्तिः ।
तेषां शब्दरूपव्यापकता सम्भवत्येव ।
अर्थरूपव्यापकता तु सर्वस्याप्यर्थस्य शब्दप्रकाश्यत्वनियमात् ज्ञेया ।
तदुक्तं भगवता भर्त्तृहरिणा—-
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिदं ज्ञानं सर्वं शब्देन गृह्यते ॥ इति ।
(वा।)
अथवा येषां मते शब्दार्थयोरभेदस्तन्मतमालम्ब्योक्तम् ।
तदुक्तं तेनैव—-
एकस्यैवात्मनो भेदः शब्दार्थावपृथक्स्थितौ ।
इति ।
(वा।)
अतएव मन्त्रदैवतयोरैक्यां मन्त्रशास्त्रे ।
अतएव पूर्वं सदाशिवमन्त्रोद्धारः ।
यद्वा शक्तिसम्भिन्नत्वात्तस्य शक्त्यंशत्वेन शब्दरूपव्यापकत्वं शिवांशत्वेन अर्थरूप-
व्यापकत्वं ज्ञेयम् ।
तदुक्तं वायवीयसंहितायाम्—-
शब्दजातमशेषन्तु धत्ते शङ्करवल्लभा ।
अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः ॥ इति ।
एतत्पक्षे तृतीया उपलक्षणत्वेन ज्ञेया ।
उपलक्षणत्वन्तु तदुत्पन्नत्वात्तेषाम् ।
शब्दसृष्टिप्राधान्यमेवोपबृंहयन्नाह—-सुकृतिनो यदन्तर्गतं चैतन्यं शब्दब्रह्म इत्यूचिरे ।
सुकृतिनस्तत्त्वज्ञा इत्यर्थः ।
" चैतन्यं सर्वभूतानां शब्दब्रह्मेति मे मतिः " (शा। १। १३) इति वक्ष्यमाणत्वात् ।
तस्य सर्वव्यापित्वात् तदंशस्यैव सर्वजन्तुचैतन्यरूपत्वात् शुद्धब्रह्मणः शब्दब्रह्मत्वं सम्भवत्येव ।
किञ्च यस्माद् बिन्दोः शब्दब्रह्मण उत्पत्ति- स्तस्मादेव बिन्दोः सदाशिवस्याप्युत्पत्तिरित्यपि सम्भवति ।
तत्र शब्दसृष्टौ शब्द- ब्रह्मेत्युक्तिः अर्थसृष्टौ सदाशिव इति परं विशेषः ।
भिद्यमानात् पराद्विन्दोरव्यक्तात्मा रवोऽभवत् ।
शब्दब्रह्मेति तं प्राहुः सर्वागमविशारदाः ॥ (शा। १। ११, १२)
अथ बिन्द्वात्मनः शम्भोः कालबन्धोः कलात्मनः ।
अजायत जगत्साक्षी सर्वव्यापी सदाशिवः ॥ (शा। १। १५)
इति वक्ष्यमाणत्वात् ।
अथवा हेतु-हेतुमद्भावेन योजना कार्या ।
यतः सुकृतिनः यत् अन्तर्गतं चैतन्यं शब्दब्रह्म इत्यूचिरे अतो येन निरन्तरगलत्पञ्चाशदर्णैः जगत् व्याप्तमिति ।
तत् प्राप्य कुण्डलीरूपं प्राणिनां देहमध्यगम् ।
वर्णात्मनाऽऽविर्भवति गद्यपद्यादिभेदतः ॥ (शा। १। १४)
इति वक्ष्यमाणत्वात् ।
अन्ये त्वन्यथा योजयन्ति ।
यत् परमशिवस्वरूपं सुकृतिनो वेदान्तिनः तत् शब्देन ब्रह्म इत्यूचिरे ।
अयमर्थः—-अस्माभिः परमशिव इत्युच्यते, तैस्तु ब्रह्म इत्युच्यत इति शब्दमात्रेण परं भेदः ।
वस्तुतस्तु नित्यानन्दादिस्वरूपत्वं तैरिवास्माभि- रपि अङ्गीक्रियत एव ।
तत् कीदृक् वाचामधीशम् " यस्य निःश्वसितं वेदाः " इत्यादि- श्रुतेः वाचामधीशत्वं प्रसिद्धमेव ।
यतो वाचामधीशमतएव निरन्तरगलत्पञ्चाशदर्णैर्येन जगद्व्याप्तमिति यथासम्भवं तत्रापि योजनीयम् ।
यतो वेदस्य वर्णमयत्वात् ।
यद्वाऽत्र शास्त्रे शब्दसृष्टेरर्थसृष्टेरपि कुण्डलिन्या एवोत्पत्तेस्तस्या एव " कुण्डली परदेवता " (शा। १।
५७) इति परदेवतात्वोक्तेस्तदनुस्मरणमेवोचितमिति महःशब्देन तेजोरूपा कुण्डलिनीत्युच्यते ।
" आदित्येन्द्वग्नितेजोमद्यद्यत्तत्तन्मयी विभुः " इत्युक्तेः।
सा कीदृशी नित्यानन्दवपुः ।
असावेवान्त्यपटले कुण्डलीस्वरूपं वक्ष्यति " नित्यानन्द- मयी गलत्परसुधावर्षैः " (शा। २५। ६९) इत्यादिना ।
यया कुण्डल्या शब्दार्थरूपं परा-पश्यन्ती-मध्यमा-वैखरी-रूपत्वेन शब्दजनकत्वात् कार्ये कारणोपचारात्
शब्द- रूपं विषयत्वात् अर्थरूपस्वभावेन चरम् पृथिव्यंशाधिक्यात् कार्ये कारणोपचारात् अचरम्, एवम्भूतं
गच्छतीति जगद् विनश्वरं शरीरं व्याप्तम् ।
यद्वा, यया शब्दार्थरूपं चराचरात्मकं जगद् विश्वं व्याप्तम् ।
" सर्वगा विश्व- रूपिणी, दिक्कालाद्यनवच्छिन्ना " (शा।१। ५३) इत्यग्रत उक्तेः।
कैः निरन्तरगलत्पञ्चा- शदर्णैः " पञ्चाशद्वारगुणिता पञ्चाशद्वर्णमालिकां सूते " (शा। १। १११)
इति वक्ष्यमाणत्वात् ।
सुकृतिनः पुण्यात्मानस्तत्त्वज्ञा इत्यर्थः ।
यां शब्दब्रह्ममयीमाहुः " सा प्रसूते कुण्डलिनी शब्दब्रह्ममयी विभुः " (शा। १। १०८) इति वक्ष्यमाणत्वात्।
चैतन्यं चिच्छक्तिस्वरूपा ।
अयमेव वक्ष्यति " ततश्चैतन्यरूपा सा " (शा। १। ५१) इति ।
अन्तर्गतं सुषुम्नान्तर्गतमित्यर्थः।
" या मूलाधारदण्डान्तरविवरगता " इत्युक्तेः।
शशाङ्कसदनं सहस्रारगमने चन्द्रमण्डलगतत्वात् ।
वाचामधीशं सर्वशब्दोत्पादकत्वात् सर्वमन्त्रोत्पादकत्वाच्च ।
तथायमेव वक्ष्यति—- " विश्वात्मना प्रबुद्धा सा सूते मन्त्रमयं जगत् " (शा। १। ५७) इति ।
यद्वा, वाचामधीशं वाग्देवतारूपेत्यर्थः ।
" शक्तिः कुण्डलिनीति या निगदिता आईमसञ्ज्ञा " इत्युक्तेः ।
यद्वा ग्रन्थारम्भे प्रकृते सरस्वती देवता तस्या एव स्मरणाद् ग्रन्थरूपा स्फूत्तीर्भवित्री ।
किञ्चात्र ग्रन्थे प्रथमतः सरस्वतीमन्त्राणामेव वक्ष्यमाणत्वात् ।
तेन सरस्वतीदेवतानुस्मरणमेवोचितमिति ।
तद्वाचामधीशं महः सारस्वतं तेजः वोऽव्यात् ।
अथ वाचामधीशमित्यनेन केवलं वाग्भवस्य सरस्वतीमन्त्रत्वमुक्तम् ।
एतज्जपन्नरवरो भुवि वाग्भवाख्यम् ।
वाचां सुधारसमुचां लभते स सिद्धिम् ॥
इत्युक्तेः ।
तत् कीदृक् शशाङ्कसदनम् अनेन चन्द्रकलावतंसत्वेन ध्यानमुक्तम् ।
यदाहुः—- धृतशशधरखण्डोल्लासिकोटीरचूडा ।
भवतु सपदि वाचामीश्वरी भूतये वः ॥ इति ।
पुनः कीदृक् नित्यं सर्वदा आनन्दयतीत्यानन्दम् आनन्दजनकं वपुर्यस्य तत् ।
साधकानां सुधारससहोदरसरससूक्तिसंस्फुरणादाह्लादजनकमित्यर्थः ।
तथा च सरस्वतीस्तवे आचार्याः—-
क्षौमाम्बरपरीधाने मुक्तामणिविभूषणे, मुदावासे ।
इति ।
पुनः कीदृक् चैतन्यमन्तर्गतम् अनेन सूक्ष्मा परपर्याया पराख्या उक्ता ।
यदाहुः—-
स्वरूपज्योतिरेवाहुः सूक्ष्मा वागनपायिनी ।
इति ।
अन्यत्रापि—-सूक्ष्मा कुण्डलिनी मध्ये ज्योतिर्मात्रा परा मता ।
इति ।
येन महसा निरन्तरगलत्पञ्चाशदर्णैश्चराचरात्मकं शब्दार्थरूपं जगद् व्याप्तम् ।
अत्र पञ्चाशदर्णैरित्यनेन वर्णरूपा पश्यन्ती उक्ता ।
शब्दार्थरूपमित्यनेन पदरूपा मध्यमा उक्ता ।
यत् सारस्वतं महः सुकृतिनः शब्दब्रह्मेत्यूचिरे ।
अत्र शब्दब्रह्मशब्देन वेदा उच्यन्ते ।
तेन वेदात्मकमित्यर्थः ।
तदुक्तं वात्तीककारपादैर्ग्रहाधिकरणे—-
शब्दब्रह्मेति यद् वेदशास्त्रं वेदाख्यमुच्यते ।
इति ।
अनेन वाक्यरूपा वैखरी उक्ता ।
यदाहुः—-
ध्वनिर्वर्णाः पदं वाक्यमित्यास्पदचतुष्ट्यम् ।
यस्याः सूक्ष्मादिभेदेन वागधीशामुपास्महे ॥ इति ।
अन्यत्रापि—- आदिक्षान्तविलासलालसतया तासां तुरीया तु या
क्रोडीकृत्य जगत्त्रयं विजयते वेदादिविद्यामयी ।
इति ।
अपरे त्वत्र ग्रन्थकृता भैरवीमन्त्रोद्धारः कृत इति वदन्ति ।
तद् यथा ।
तत् त्रैपुरं महो वोऽव्यात् ।
कीदृक् अगलत् अविनश्वरम् ।
पुनः कीदृक् नित्यानन्दवपुः नित्यः पुरुषः तेन हकारः आनन्दमयीत्वात् आनन्दोत्पादकत्वात् वा आनन्दः शक्तिः
तेन सः एतौ वपुः शरीरं यस्य ।
एतेनैतयोः बीजत्रयेऽपि सत्त्वमुक्तम्भवति ।
अन्तः मध्यं मध्यबीजमित्यर्थः ।
तत् कीदृक् क्रमात् कश्च रश्च मश्च करमाः तान् अत्ति लक्षणया गृह्णातीति क्रमात् ।
तेन ककारः तदधो लकारः ।
अत्र रेफेण लकारस्य ग्रहणं व्याकरणपरिभाषया ।
उक्तञ्च " रेण लोऽपीष्यते ग्रहणं तेन " इति ।
संहितायामपि—- " अतएव महेशानि र-लयोः समता भवेत् ।
" इति ।
तदधो मकारः पुरुषः तेन हः।
पुनः कीदृक् अन्तर्गतम् अन्ते रो रेफः गतः सङ्गतो यत्र तत् ।
पुनः कीदृक् व्याप्तं विः चतुःसङ्ख्या चतुर्थस्वरः तेनाप्तं गृहीतम् ।
अत्र ग्रन्थकृतो वाररुचः सङ्केतोऽभिप्रेतः ।
स द्वितीयपटले स्फुटीभविष्यति ।
" नञि च शून्यं ज्ञेयम् " इति वाररुचः सङ्केतः ।
तेन शून्यं तस्य बिन्दुरूपत्वात् बिन्दुरुद्धृतः ।
एतेन षट्कूटं मध्यबीजमुद्धृतम् ।
अतएव वक्ष्यते " षट्कूटं त्रिपुरामन्त्रम् " इति ॥ एवं मध्यमं बीजमुक्त्वा प्रथमबीजे हकारसकारयोः
पूर्वमेवोक्तत्वात् एवम् एकारोऽपि योजनीयः ।
कीदृक् प्रथमं शशाङ्कसदनम् एतेन बिन्दुस्थम् ।
एवं प्रथमबीजमुद्धृतम् ।
अन्त्यं कीदृक् शब्दार्थरूपम् अत्र शब्दशब्देन शब्दादयो गृह्यन्ते, अर्थशब्दो विषयवाची ।
तेन शब्दादयो विषयास्ते च दशेति दशसङ्ख्या तया औकारः तद्रूपं यत्र तत्तथा ।
अन्यच्च " अङ्कानां वामतो गतिः " इत्युक्तेः वाररुचेन सङ्केतेन तकारस्य षट्सङ्ख्या ।
" पिण्डान्त्यैरक्षरैरङ्काः " इत्युक्तेः न्यकारान्तयकारस्य एकाङ्कः ।
एवं षोडश तेन विसर्गः ।
एवं तृतीय- बीजमुद्धृतम् ।
तदुक्तं सिद्धेश्वरीमते—-
हंसास्त्रयो दन्त्यसकारयुक्ता वस्वब्धिपङ्क्तिस्वरसंविभिन्नाः ।
अन्त्यो विसर्गी इतरौ सबिन्दू मध्यो विरिञ्चीन्द्रहराग्नियुक्तः ॥ इति ।
अस्यायमर्थः—-वसु अष्टसङ्ख्या ।
अब्धिश्चतुःसङ्ख्या ।
पङ्क्तिर्दशसङ्ख्या ।
तथा च " पङ्क्तिर्दशाक्षरच्छन्दो दशसङ्ख्यावली अपि " इत्यमरः ।
हंसा हकारास्त्रयः ।
कीदृशाः दन्त्यसकारयुक्ताः ।
तथा क्रमाद् वस्वब्धिपङ्क्तिस्वरैः क्लीवान् विना अष्टम ए चतुर्थ ई दशम औ तैर्युक्ताः ।
ऋकारादि स्वरचतुष्टयं नपुंसकं " स्वराणां मध्यकं यत्तु तच्चतुष्कं नपुंसकम् " (शा। २। ६) इत्युक्तत्वात् ।
नपुंसकस्वरपरित्यागेन बिन्दु- विसर्गसहितानां स्वराणामष्टम एकारः दशम औकार इति बोध्यम् ।
विशेषमाह तृतीयो विसर्गयुक्तः, इतरौ प्रथमद्वितीयौ सानुस्वरौ ।
मध्यः पुनः विरिञ्च्यादियुतः विरिञ्चिः कः इन्द्रो लः, हरो हः, अग्नी रेफः एतैर्युतः ।
इदं षट्कूटं मध्यबीजम् ।
इयं त्रिबीजा भैरवी ।
अथ च एचेति स्वतन्त्रतया निर्द्देशात् व्याप्तमित्याप्तशब्दग्रहणात् शब्दार्थ- रूपमिति रूपशब्दोपादानात्
केवलास्त्रयः स्वरा एवास्य मन्त्रस्य चेतनीमन्त्र इति सूचितम् ।
यदाहुः—-
शिवाष्टमं केवलमादिबीजं भगस्य पूर्वाष्टमबीजमन्यत् ।
परं शिरोऽन्तं गदिता त्रिवर्गा सङ्केतविद्या गुरुवक्त्रगम्या ॥ इति ।
शिव उकारः, तस्याष्टम एकारः ।
भगम् एकारः, तस्य पूर्वाष्टमश्चतुर्थः स्वरः।
शिरो बिन्दुः सोऽन्ते यस्य शिरोऽन्त औकारः ।
उक्तबीजानां क्रमेण वाग्भव-कामराज-शाक्तत्वमाह ।
वाचामधीशमित्यने- नाद्यस्य वाग्भवत्वमुक्तम् ।
चराचरात्मकं मैथुनसृष्टजगतः कामोत्पन्नत्वात् मध्यम- बीजस्य कामराजतोक्ता ।
सुकृतिनः यदन्त्यबीजं शब्दब्रह्मेत्यूचिरे इत्यनेनान्त्यस्य शाक्तत्वमुक्तम् ।
" त्रिधामजननी देवी शब्दब्रह्मस्वरूपिणी " (शा। १। ५६) इति वक्ष्य- माणत्वात् ।
यदुक्तं सिद्धेश्वरीमते—-
वाग्भवं प्रथमं बीजं कामराजं द्वितीयकम् ।
शक्तिबीजं तृतीयन्तु चतुर्वर्गफलप्रदम् ॥ इति ।
अथ च—- " ॐ तत्सदिति निर्द्देशो ब्रह्मणस्त्रिविधः स्मृतः " इत्युक्तेः शब्दात्मकं ब्रह्म
शब्दब्रह्मेति प्रणवम् ।
चराचरात्मकं जगद् येनेति मैथुनसृष्टेः कामादुत्पत्तेः कामबीजम् ।
वाचा नकारः ।
बृहत्तत्त्वन्यासे नकारेण सह शब्दतत्त्वन्यासात् ।
मश्च १।
धीः शक्तिरूपः ।
ईशः प्रभुः अनेन विसर्गः ।
" मायाशक्त्यभिधः सर्गः सर्वभूतात्मकः प्रभुः " इत्युक्तेः ।
एवं नमः शब्दः ।
एवमस्य मन्त्रस्य ह्लादिनी मन्त्र उक्तः ।
यदाहुः—-
कमलं परिलुप्तमध्यमान्त्यस्वरमीशादियुतं सबिन्दुनादम् ।
निगमादिनमोऽन्तरे विराजद्भुवि देवीहृदयं प्रदिष्टमेतत् ॥ इति ।
त्रयाणां बीजानां सामान्येन विशेषणमाह—-अनिशमिति ।
न विद्यते निशा हकारो यत्र आदाविति शेषः ।
केशवादिन्यासे निशा हकारः शक्तिः ।
तेनादौ हका- राभावे सकारस्यादित्वमुक्तम् ।
तेनादौ सकारः पश्चात् हकारः ।
यद्वा, निरित्यनेनैव आद्यबीजस्यापि बिन्दोरुद्धृतत्वात् अनिशं हकाररहितं शशाङ्कसदनम् शशाङ्कः सकारः
सदने स्थाने यस्य ।
अनेन हकारस्य स्थाने सकारः तदधो हस्त्वर्थायातः ।
उक्तञ्च—-
भैरवीयमुदिताऽकुलपूर्वा देशिकैर्यदि भवेत् कुलपूर्वा ।
सैव शीघ्रफलदा भुवि विद्येत्युच्यते पशुजनेष्वतिगोप्या ॥ इति ।
अनेनास्य मन्त्रत्वं विद्यात्वमप्युक्तम् ।
यत् पिङ्गलामते—-
शक्त्याद्या तु भवेद् विद्या शिवाद्यो मन्त्र उच्यते ।
दीक्षाभिषेकपूजा तु प्राणिनां भुक्तिमुक्तिदा ॥ इति ।
अन्यदपि बीजत्रयसामान्यविशेषणमाह पञ्चाशदर्णैरुपलक्षितमित्यर्थः ।
अनेन सर्वस्य मन्त्रस्य मातृकान्तरितत्वेन जप उक्तः ।
यदाहुः—-
मन्त्रराजममुं समस्तजगद्विमोहनकारणम् ।
मातृकान्तरितं जपेदनुलोमतोऽपि विलोमतः ॥ इति ।
अथवा अनेन विशेषणेन च हहसैं सहसैम् इत्यादि " हसकलह्री� सहकलह्री� " इत्यादि अहसौः आहसौः
इत्याद्यन्तर्मातृकान्यासोऽपि सूचितः ।
यदाहुः—-
क्रमेण षट्चक्रवर्णान् तद्दलेषु प्रविन्यसेत् ।
चक्रद्वयक्रमेणैव देवीरुद्धांश्च मन्त्रवित् ॥ इति ।
अन्यत्रापि मूलाधारकथनप्रस्तावे
चतुर्ष्वब्जपत्रेषु देवीनिरुद्धान् जलेन्द्राग्निवायून् न्यसेत् केवलान् वा ।
सबिन्दूनमन्दप्रभावान् प्रसिद्धान् ।
इति ।
अथवा पञ्चाशच्छब्देन सामीप्यसम्बन्धेन लक्षणया एकपञ्चाशद्ग्रहणे तैरूप- लक्षितमित्यनेन
बीजत्रयस्यापि दीपिन्युद्धारः सूचितः ।
तत्र प्रथमबीजदीपिनी तु व्यञ्जनस्वरैः पृथक्कृतैः सप्तदशवर्णात्मिका ।
द्वितीयबीजदीपिनी तु पूर्ववदेव पञ्चविंशत्यक्षरा।
तृतीयबीजदीपिनी पूर्ववन्नवाक्षरा ।
एवमेकपञ्चाशद्वर्णात्मिका ।
तत्र द्वितीयतृतीययोः क्षकारस्य सत्त्वात् तस्य चैकमेव व्यञ्जनं गृहीतम् ।
मातृकायां पृथगुपदेशात् ।
यद्ययं व्यञ्जनद्वयात्मैव स्यात् तदा क्षवदस्यापि पृथगुपदेशो न स्यात्।
तयोरेव बिन्दुद्वयमस्ति तदपि न पृथग्गणितम् ।
तादृशस्यैव पञ्चदशस्वरत्वात् ।
प्रणवेऽपि बिन्दुः प्रणवान्तर्गत एवेति न पृथग्गणित इति सर्वमनवद्यम् ।
अयञ्च दीपिन्युद्धारो ग्रन्थकृताऽत्र सूचितः ।
मया तु भैरवीपटले (१२) स्फुटीकरिष्यते ।
अथवा बालामन्त्रोद्धारो ग्रस्थकृतोऽभिप्रेत इति ।
यतो भैरव्यादीनामपि स एव मूलभूतः ।
यदाहुः बालामुक्त्वा—-
विद्यामूलोत्पत्तिरेषा मयोक्ता ज्ञातव्येयं देशिकैः सिद्धिकामैः ।
इति ।
तद्यथा—-वाचामधीशमिति वाग्भवम् ।
अन्तर्मध्यं मध्यस्थम् ।
क्रमात् कश्च रश्च मा लक्ष्मीः तेन ईकारः ।
रेण पूर्ववल्लस्य ग्रहणम् ।
निरिति बिन्दुः ।
एवं मध्यमं बीजम्, शशाङ्कः सकारः, सत् ओङ्कारः ।
अकारो नकारश्च शून्यद्वयं तेन विसर्गः ।
" नेञे च शून्यं ज्ञेयं तथा स्वरे केवले कथिते " इत्युक्तेः ।
सच्छब्देन कथमोङ्कारग्रहणमिति चेदुच्यते ।
ओङ्कारस्य तावत् " ॐ तत्सदिति निर्द्देशो ब्रह्मण- स्त्रिविधः स्मृतः " इत्युभयोः ब्रह्मवाचकत्वात् " सदोङ्कारो
निगद्यते " इत्युक्तेश्च सच्छब्द- वाचकता, सोऽत्राकृतपररूप एव केवलं विवक्षितः ।
स च सामीप्यसम्बन्धेन अग्रिमस्य लक्षकः।
यद्वा " तस्यैवोकारयोगेन स्यादौकाराक्षरं तथा " इति आचार्येक्तेः ओकार एव स्वजन्यस्य
औकारस्य लक्षकः ।
यद्वा शशो रूपमस्मिन् इति मत्वर्थीयोऽच् ।
तेन शशश्चन्द्रः, तेन सः, शशन् गमनशीलः, शशो हंसः, तेन वा सः ।
अङ्कशब्देन पिण्डन्यायात् अकारः ।
यथा " स वामदृक् पवनगुणान्वितः करः " इत्यत्र करशब्देन ककारः ।
यथा " हरिहयषष्ठवत् " वनम् इत्यत्र वनशब्देन वकारः ।
सच्छब्देन ओकार एव ।
तस्य पूर्वेन सह सन्धौ औकारः ।
अनाभ्यां विसर्गः ।
ननु प्रणवस्य सबिन्दु- कत्वात् बालान्त्यबीजे ग्रन्थकारो विसर्गमात्रं वक्ष्यति ।
अत्र च बिन्दुविसर्गावुद्धृताविति विरोध इति चेन्न ।
बालाया मन्त्रभेदेषु क्वचिद् बिन्दुः क्वचिद् विसर्गः क्वचिद्विन्दु- विसर्गावप्युद्धृतौ ।
तदपि सूचयितुमत्रेदृश उद्धारः कृतः ।
यदाहुः सनत्कुमारे—-
अष्टमस्य तृतीयन्तु चतुर्द्दशसमन्वितम् ।
दण्डकुण्डलमेतद्धि सारस्वतमुदाहृतम् ॥ इति ।
अन्यत्र तु—-दन्तान्तेन युतं तु दण्डिसकलं सम्मोहनाख्यं कुलम् ।
इति ।
अन्यत् पूर्ववदिति सङ्क्षेपः ।
एतच्च व्याख्यानद्वयं गुरुवचननियन्त्रितेन मया कृतमिति क्षन्तव्यं देशिकेन्द्रैः ॥ १ ॥
अन्तःस्मितोल्लसितमिन्दुकलावतंस-
मिन्दीवरोदरसहोदरनेत्रशोभि ।
हेतुस्त्रिलोकविभवस्य नवेन्दुमौले-
रन्तःपुरं दिशतु मङ्गलमादराद् वः ॥ २ ॥
यदुपहितस्य शिवस्य सृष्टिकर्त्तृत्वं तामुपस्तौति—-अन्तरिति ।
नवेन्दुमौलेरन्तःपुरं वो मङ्गलमादराद् दिशत्विति योजना ।
अत्रापि वो मङ्गलं दिशतु इत्यनेन शिष्यकृपा सूचिता ।
यद्यपि तत्त्वतः शैवदर्शने—-
न शिवेन विना शक्तिर्न शक्तिरहितः शिवः ।
न तत्त्वतस्तयोर्भेदश्चन्द्रचन्द्रिकयोरिव ॥ इति
शक्ति-शिवयोरैक्यमेव तथापि द्वितीयेन विना सृष्ट्यनुपपत्तेः लीलागृहीतं रूपं स्त्रीस्वरूपं वर्ण्यते ।
एतेन मैथुनसृष्टिः सूचिता ।
तस्या जगत्कारणतामाह—-त्रिलोकविभवस्य हेतुरिति ।
चराचरात्मकत्वेन विस्तारो विभवः ।
कीदृशम् अन्तः- स्मितोल्लसितं कल्पितमिदं जगद् विलसतीति हास्यकारणम् ।
ईश्वरे साभिलाषतया वा हासः ।
एतेनास्या ईश्वरक्षोभकता सूचिता ।
किञ्च " यत्रानुकूल्यं दम्पत्योस्त्रि- वर्गस्तत्र वर्द्धते "
इति स्मृतेः दम्पत्यानुकूल्यतो विचित्रजगन्निर्माणं सूचितम् ।
पुनः कीदृक् इन्दुकलावतंसम् ।
अत्रावतंसशब्देन मुकुटाभरणमुच्यते ।
तथा नामलिङ्गानुशासने—-
" पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे " इति ।
पुनः कीदृक् ।
इन्दीवरोदरसहोदरनेत्रशोभि ।
एतेन सर्वातिशायि सौन्दर्यं वणीतम् ।
यद्वा नवेन्दुमौलेरित्यनेन भुवनेशीमन्त्र उक्तः ।
विशेषणैस्तदुद्धारः ।
त्रिलोकविभवस्य हेतुः शिवस्तेन हकारः ।
अन्तः स्मितं प्रकाशो यस्यासावन्तः- स्मितोऽग्निः रेफः तेनोल्लसितं युतम् ।
इन्दुकलावतंसमिति बिन्दुः ।
इन्दीवरोदर- सहोदरे नेत्रे यस्याः सा लक्ष्मीः तेन दीर्घ ईकारः ।
यद्वा इन्दीवरोदरस्य सहोदरं सुहृत् यन्नेत्रं चन्द्ररूपं तच्च वाममिति दीर्घ ईकारः तेन शोभि युक्तम् ।
एवं मिलित्वा भुवनेशीबीजम् ॥ २ ॥
संसारसिन्धोस्तरणैकहेतून्
दधे गुरून् मूध्नी शिवस्वरूपान् ।
रजांसि येषां पदपङ्कजानां
तीर्थाभिषेकश्रियमावहन्ति ॥ ३ ॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥
इत्यागमात् परदेवताभक्तिवद् गुरुभक्तेरपि विद्याप्राप्तावन्तरङ्गसाधनत्वावगमात् परदेवतायाः
स्मरणानन्तरं गुरुनमस्कारमाह—-संसारेति ।
शिवस्वभावान् गुरून् मूध्नी दधे इत्यन्वयः ।
शिवस्वभावान् शिवस्वरूपानित्यर्थः ।
एतेन गुरुध्यानं तत्तद्देवता- रूपतया कर्त्तव्यमित्युक्तं भवति ।
तदुक्तम्—-
गुरुं न मर्त्त्यं बुध्येत यदि बुध्येत तस्य तु ।
कदापि च भवेत् सिद्धिर्न मन्त्रैर्देवपूजनैः ॥ इति ।
अन्यत्रापि—- तस्मादेवं विदित्वा तु गुरुं देवञ्च नान्यथा ।
त्रिकालप्रणिपातेन ध्यानयोगेन संयजेत् ॥ इति ।
अन्यत्रापि—- ललाटे नयनं चान्द्रीं कलामपि च दोर्द्वयम् ।
अन्तर्निधाय वक्ष्यामि गुरुर्मर्त्त्ये महीयते ॥ इति ।
मूध्नी दधे इत्यनेन गुरुध्यानं मूर्द्धनि कर्त्तव्यमित्युक्तं भवति ।
तदुक्तम्—- प्रातः शिरसि शुक्लेऽब्जे द्विनेत्रं द्विभुजं गुरुम् ।
प्रसन्नवदनं शान्तं स्मरेत्तन्नामपूर्वकम् ॥ इति ।
अन्यत्रापि—- श्रीमद्गुरुपदाम्भोजं मूर्द्धन्येव सदास्थितम् ।
यः स्मरेत् सात्त्विकैर्भावैः सोऽचिरात् खेचरो भवेत् ॥ इति ।
गुरूनिति बहुवचनं पूजार्थं गुरु-परमगुरु-परापरगुरु-परमेष्ठिगुर्वपेक्षया वा ।
तथा च ग्रन्थकृद्गुरुपङ्क्तिः ।
" श्रीकण्ठं वसुमन्तं श्रीसोमानन्दमुत्पलाचार्यान् " इति ।
" लक्ष्मणमभिनवगुप्तं वन्दे श्रीक्षेमराजञ्च " इति तच्छिष्याः ।
कीदृशान् संसारसिन्धोस्त- रणैकहेतून् ।
अनेन विना गुरूपदेशं संसारतरणमशक्यमित्यप्युक्तम् ।
तथाच श्रुतिः—-
" आचार्यवान् पुरुषो वेद " " स गुरुमेवाभिगच्छेत् " इति ।
आगमश्चअज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ॥ इति ।
गुरुप्रणाममाहात्म्यमाह रजांसीति ।
एतेन पादोपसङ्ग्रहणपूर्वकं गुरुनमस्कारः कर्त्तव्य इत्युक्तं भवति ॥ ३ ॥
सारं वक्ष्यामि तन्त्राणां शारदातिलकं शुभम् ।
धर्मार्थकाममोक्षाणां प्राप्तेः प्रथमकारणम् ॥ ४ ॥
शब्दार्थसृष्टिर्मुनिभिश्छन्दोभिर्दैवतैः सह ।
विधिश्च यन्त्रमन्त्राणां तन्त्रेऽस्मिन्नभिधीयते ॥ ५ ॥
सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते ।
शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥
इत्युक्तेः शिष्यबुद्ध्यनुकूलनार्थं ग्रन्थमाहात्म्यं प्रकाशयन् श्रोतृप्रवृत्तिनिमित्त- भूतान्
विषय-प्रयोजन-सम्बन्धाधिकारिणो दर्शयति सारमित्यादिश्लोकद्वयेन ।
तन्त्राणां सारं श्रेष्ठं सङ्ग्रहरूपञ्च इत्यनेनास्योपादेयताऽतिसङ्क्षिप्तता चोक्ता ।
तत्र तन्त्राणामिति वैष्णव-शैव-शाक्त-गाणपत्य-सौराणां यतः सारम् अतएव शुभम् ।
शब्दसङ्क्षेपेऽप्याकाङ्क्षित सकलार्थप्रतिपादकत्वमेव शुभत्वम् ।
धर्मार्थकामेत्यादि वक्ष्यति ।
तदुपयिको नामनिर्द्देशः शारदातिलकमिति ।
शीर्यत इति शारं स्थूलं कर्मफलं तद्ददातीति शारदा।
तत्तत्कारणत्वेन ब्रह्मविद्याधिरूढा सती द्यति खण्डयतीति वा शारदा चिच्छक्तिः ।
यद्वा शरः स्वतन्त्रं तस्य भावः शारं स्वातन्त्र्यां तद्ददातीति अनाद्यविद्यां परिछेद्यजीवभावनिरासेन
परमैश्वर्यप्रदायिका ।
तदुक्तं गौतमेन तन्त्रव्याकरणे—-
शरः स्वतन्त्रं हृदयं स्फुरत्ता परमेशिता ।
शारश्चेत्युदिताः शब्दाः पर्यायाः स्वार्थवाचकाः ॥ इति ।
तस्यास्तिलको भूषणम् ।
अनेनोत्कृष्टता दशीता ।
तत्रापि भूषणान्तरं न भवति किन्तु तिलकरूपः ।
तेन यथा मुखे वर्त्तमानस्तिलकाः सर्वतः प्रथमं दृश्यो भवति तद्वदयमपीत्यभिप्रायः ।
प्रथमं कारणं मुख्यकारणम् ।
यथा चास्य मुख्यत्वं तथा ग्रन्थसङ्गतिकथनप्रस्तावेऽस्माभिः पूर्वमेव प्रपञ्चितम् ।
शब्दार्थसृष्ट्यादि विषयः ।
चतुर्वर्गः फलम् ।
अनयोः प्रतिपाद्य-प्रतिपादकभावः सम्बन्धः ।
तदर्थी चाधिकारी ।
अस्य शास्त्रस्य च व्युत्पाद्य-व्युत्पादकभावः सम्बन्धः ।
शास्त्रविषयस्य फलस्य च साध्यसाधनभावः सम्बन्धः ।
इत्याद्यन्योऽपि यथायथमूहनीयः ।
सहेति त्रिभिः सम्बध्यते ।
मुनिभिः तपोयोगबलेन मन्त्रप्रथमज्ञातृभिः प्रथमाराधकैः ।
तदुक्तं गौतमेन—-महेश्वरमुखाज्ज्ञात्वा गुरुर्यस्तपसा मनुम् ।
संसाधयति शुद्धात्मा पूर्वं च ऋषिरीरितः ॥ इति ।
तथाऽन्यत्र—- येन यदृषिणा दृष्टं सिद्धिः प्राप्ता च येन वै ।
मन्त्रेण तस्य तत् प्रोक्तमृषेर्भावस्तदार्षकम् ॥ इति ।
छन्दः शब्दव्युत्पत्तिरुक्ताऽन्यत्र—-
छादनाच्छन्द उद्दिष्टं वाससी इव चाकृतेः ।
आत्मनाच्छादितो देवैर्मृत्योर्भीतैस्तु वै पुरा ।
आदित्यैर्वसुभी रुद्रैस्तेन च्छन्दांसि तानि वै ॥ इति ।
तथाऽन्यत्रापि—- मृत्युभीतैः पुरा देवैरात्मनश्छादनाय च ।
छन्दांसि संस्मृतानीह छादितास्तैस्ततोऽमराः ।
छादनाच्छन्द उद्दिष्टं सर्वं छन्दोभिरावृतम् ॥ इति ।
तत्तु गायत्र्यादि प्रसिद्धम् ।
दैवतं तत्तन्मन्त्रोद्दिष्टम् ।
यदाहुः—-
यस्य यस्य च मन्त्रस्य उद्दिष्टा या तु देवता ।
तदाकारं भवेत्तस्य देवत्वं देवतोच्यते ॥ इति ।
दैवतैरिति विनियोगस्याप्युपलक्षणम् ।
तत्स्वरूपमुक्तमन्यत्र—-
पुराकल्पे समुत्पन्ना मन्त्राः कर्मार्थमेव च ।
अनेन चेदं कर्त्तव्यं विनियोगः स उच्यते ॥ इति ।
अन्यत्रापि—- धर्मार्थकाममोक्षेषु शास्त्रमार्गेण योजनम् ।
सिद्धमन्त्रस्य सम्प्रोक्तो विनियोगो विचक्षणैः ॥ इति ।
तज्ज्ञानाभावे दोष उक्तोऽन्यत्र—-
दौर्बल्यं याति तन्मन्त्रो विनियोगमजानतः ॥ इति ।
छन्द-ऋषि-देवताज्ञानं मन्त्रसाफल्यार्थमवश्यमपेक्षितम् ।
तदुक्तं छन्दोगानामार्षेयब्राह्मणे—-
यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्छति गर्त्तं
वा पद्यति प्र वा मीयते पापीयान् भवति ।
यातयामान्यस्य छन्दांसि भवन्ति ।
अथ यो मन्त्रे मन्त्रे वेद सर्वमायुरेति श्रेयान् भवति अयातयामान्यस्य छन्दांसि भवन्ति ।
तस्मादेतानि मन्त्रे मन्त्रे विद्यादृषीणां संस्थानो भवति संस्थानो भवति ब्रह्मणः स्वर्गे लोके महीयते
स्मरन्न जायते पुनरिति ।
कात्यायनोऽपि—-एतान्यविदित्वा योऽधीतेऽनुब्रूते जपति जुहोति यजते याजयति वा तस्य ब्रह्मवीर्यं यातयामं भवति ।
अनुविज्ञायैतानि योऽधीते वीर्यवत्तरं यो यथार्थवित् तस्य वीर्यवत्तमं भवति ।
जपित्वा हुत्वेष्ट्वा फलं प्राप्नोतीति ।
" यश्च जानाति तत्त्वेन आर्षं छन्दश्च दैवतम् ।
" इत्यादिना आगमेऽपि ।
याज्ञवल्क्योऽपि—- आर्षं छन्दश्च दैवत्यं विनियोगस्तथैव च ।
वेदितव्यं प्रयत्नेन ब्राह्मणेन विशेषतः ॥
अविदित्वा तु यः कुर्याद्यजनाध्ययनं जपम् ।
होममन्यच्च यत् किञ्चित् तस्य चाल्पं फलं भवेत् ॥ इति ।
विधिरिति ।
न्यास-जप-पूजा-होम-तर्पणाभिषेकसम्पातपातादिः ।
चकारः शब्दसृष्ट्यादेः प्रधानाप्रधानस्य समुच्चये ।
मन्त्रयन्त्राणामित्येकपदोपादानेऽपि मुन्या- दीनां यथायोगं सम्बन्धः ।
तत्र मुनिच्छन्दसी होमतर्पणे च मन्त्र एव ।
देवतादीनि अन्यान्युभयत्रापि ।
सम्पातपातस्तु यन्त्रे तदुपलक्षितेषु प्रतिकृतिकुम्भशिलाप्रति- माङ्गुलिकातैलघृतादिषु सम्बध्यते ।
एतानि देवतोपासकस्य स्थूलरूपतयोक्तानि ।
येषां सूक्ष्मरूपं यथा ।
यदाहुः—-
स्वात्मैव देवता प्रोक्ता मनोज्ञा विश्वविग्रहा ।
न्यासस्तु देवतात्मत्वात् स्वात्मनो देहकल्पना ॥
जपस्तन्मयतारूपभावनं सम्यगीस्तिम् ।
पूजा तु चञ्चलत्वेऽपि तन्मयत्वाप्रमत्तता ॥
होमो विश्वविकल्पानामात्मन्यस्तमयो मतः ।
एषामन्योन्यसम्मेलभावनं तर्पणं स्मृतम् ॥
अभिषेकस्तु विद्या स्यादात्मैव स्वाश्रयो महान् ।
प्रयोगाः स्युरुपाधीनां हेतोः स्वात्मविमर्शनम् ॥
सन्ध्यासु भजनं तासामादिमध्यान्तवर्जनम् ।
मोहाज्ञानादिदुःखानामात्मन्यस्तमयो दृढम् ॥ इति ॥ ४-५ ॥
निर्गुणः सगुणश्चेति शिवो ज्ञेयः सनातनः ।
निर्गुणः प्रकृतेरन्यः सगुणः सकलः स्मृतः ॥ ६ ॥
सृष्टिं वक्तुमुपोद्घातमाह निर्गुण इति ।
सनातनो नित्यः शिवो निर्गुणः सगुणश्च ज्ञेयः ।
आद्यस्य स्वरूपमाह निरिति ।
प्रकृतेरन्यः तत्सम्बन्धशून्यः ।
षष्ठ्या एवात्र प्राधान्येनोद्देश्यत्वात् ।
तेन सूक्ष्म इत्यर्थः ।
अतएवान्यशब्दार्थाभावात् न पञ्चमीयम् ।
तथा सत्यनुवादे पर्यवसानं स्यात् ।
यदुक्तं प्रयोगसारे—-
नित्यः सर्वगतः सूक्ष्मः सदानन्दो निरामयः ।
विकाररहितः साक्षी शिवो ज्ञेयः सनातनः ॥ इति ।
नारायणीयेऽपि—- निष्क्रियं निर्गुणं शान्तमानन्दमजमव्ययम् ।
अजरामरमव्यक्तमज्ञेयमचलं ध्रुवम् ॥
ज्ञानात्मकं परं ब्रह्म स्वसंवेद्यं हृदिस्थितम् ।
सत्यं बुद्धेः परं नित्यं निर्मलं निष्कलं स्मृतम् ॥ इति ।
द्वितीयस्य स्वरूपमाह स इति ।
सगुणः सकलः कला प्रकृतिः तत्संहितः ।
साङ्ख्यमते सत्त्वरजस्तमसां साम्यावस्था प्रधाना परपर्याया प्रकृतिः ।
अतएव सगुण इत्युक्तिः ।
वेदान्तनये तु अविद्या ।
शिवतन्त्रे शक्तिः ।
उक्तञ्च नारायणीयप्रयोगसारयोः—-
तच्छक्तिभूतः सर्वेशो भिन्नो ब्रह्मादिमूत्तीभिः ।
कर्त्ता भोक्ता च संहर्त्ता सकलः स जगन्मयः ॥ इति ॥ ६॥
सच्चिदानन्दविभवात् सकलात् परमेश्वरात् ।
आसीच्छक्तिस्ततो नादो नादाद् बिन्दुसमुद्भवः ॥ ७ ॥
सृष्टिमाह सदिति ।
तस्याविद्याशबलितत्वेन जडत्वे कथं सृष्टिकर्त्तृत्वम् इति शङ्कां वारयति सच्चिदानन्दविभवादिति ।
अनेनाविद्योपहितत्वेऽपि तस्य न स्वरूपहा- निरित्यर्थः ।
सकलाच्छक्तिरासीदिति योजना ।
शक्तिसहितादेव पुनः शक्तिः कथमासीदिति चेत् सत्यम् ।
या अनादिरूपा चैतन्याध्यासेन महाप्रलये सूक्ष्मा स्थिता तस्या
गुणवैषम्यानुगुणतया सात्त्विक-राजस-तामसस्रष्टव्यप्रपश्चकार्य साधने उच्छूना- वस्थात्वमेव उपचारादुत्पत्तिः।
इयञ्च सदुत्पत्तिवादिसाङ्ख्यमतमाश्रित्य ग्रन्थकारस्योक्ति- रिति ज्ञेयम् ।
तदुक्तं प्रयोगसारे—-
तस्माद् विनिर्गता नित्या सर्वगा विश्वसम्भवा ।
इति ।
वायवीयसंहितायामपि—-शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता ।
ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥ इति ।
पञ्चरात्रेऽपि—-एवमालोक्य सर्गादौ सच्चिदानन्दरूपिणीम् ।
समस्ततत्त्वसङ्घात्मस्फुर्त्त्याधिष्ठानरूपिणीम् ।
व्यक्तां करोति नित्यां तां प्रकृतिं परमः पुमान् ॥ इति ।
तस्या एव नादबिन्दू सृष्ट्युपयोगावस्थारूपौ ।
तदुक्तं प्रयोगसारे—-
नादात्मना प्रबुद्धा सा निरामयपदोन्मुखी ।
शिवोन्मुखी यदा शक्तिः पुंरूपा सा तदा स्मृता ॥
सैव सर्गक्षमा तेन ।
इति ।
आचार्यास्तु-सा तत्त्वसञ्ज्ञा चिन्मात्रज्योतिषः सन्निधेस्तदा ।
विचिकीर्षुर्घनीभूता क्वचिदभ्येति बिन्दुताम् ॥ इति ।
अन्यत्रापि—- अभिव्यक्ता परा शक्तिरविनाभावलक्षणा ।
अखण्डपरचिच्छक्तिर्व्याप्ता चिद्रूपिणी विभुः ॥
समस्ततत्त्वभावेन विवर्त्तेच्छासमन्विता ।
प्रयाति बिन्दुभावञ्च क्रियाप्राधान्यलक्षणम् ॥ इति ।
अतएव वक्ष्यमाणशैवतत्त्वेषु शुद्धानां पञ्चानामेव ग्रहणम्।
अत्र यद्यप्यन्यैर्ग्रन्थ- कृद्भिर्नादावस्था नोक्ता तथापि ग्रन्थकृता तारस्य सप्तात्मकत्वं
सूचयितुमेतदुक्तिः कृता ।
कालं प्रस्तुवद्भिराचार्यैः सूचितैव नादावस्था ।
यदाहुः—- " रवात्मन्यथो काल- तत्त्वे " इति ।
भुवनेशीस्तुतावप्याचार्याः " नमस्ते रवत्वेन तत्त्वाभिधाने " इति ॥ ७ ॥
परशक्तिमयः साक्षात् त्रिधाऽसौ भिद्यते पुनः ।
बिन्दुर्नादो बीजमिति तस्य भेदाः समीरिताः ॥ ८ ॥
बिन्दुः शिवात्मको बीजं शक्तिर्नादस्तयोमीथः ।
समवायः समाख्यातः सर्वागमविशारदैः ॥ ९ ॥
इच्छाशक्त्या(सत्त्वा)दिरूपतया बिन्दोस्त्रैविध्यमाह परेति ।
साक्षात् परशक्ति- मयः अतः पश्चात्तदवस्थात्मकत्वमेवोक्तम् ।
अथवा परः शिवः तन्मयः शक्तिमयः एवमुभयात्मकः ।
" बिन्दुः शिवात्मकः " इति वक्ष्यमाणत्वात् ।
असौ त्रिधा भिद्यते ।
एतौ नादबिन्दू प्रथमोक्तनादबिन्दुभ्यामन्यौ तत्कार्यरूपौ ज्ञेयौ ।
तदुक्तं " स बिन्दुर्भवति त्रिधा " इति ॥ ८ ॥
बिन्द्वादेर्भेदत्रयस्य परम्परास्वरूपमाह बिन्दुरिति ।
धमीणावुक्त्वा तत्
सम्बन्धो वाच्य इत्यभिप्रायेण व्युत्क्रमः शक्त्युत्पत्त्यनुरोधात् पूर्वत्र तथाक्रमः ।
समवायः सम्बन्धः क्षोभ्यक्षोभकरूपः सृष्टिहेतुः ।
उक्तेऽर्थे प्रमाणमाह सर्वागम- विशारदैरिति ॥ ९ ॥
रौद्री बिन्दोस्ततो नादाज्ज्येष्ठा बीजादजायत ।
वामा ताभ्यः समुत्पन्ना रुद्रब्रह्मरमाधिपाः ॥ १० ॥
रौद्रीति ।
ततस्तस्माद् बिन्दो रौद्री यतस्तस्य शिवमयत्वम् अतोऽन्वर्थतापि ।
नादात् ज्येष्ठा इति मध्योच्चारितत्वे तत्त्वेनान्वर्थत्वं ज्ञेयम् ।
बीजाद् वामा अजायतेति सम्बन्धः ।
तस्य शक्तिमयत्वादन्वर्थत्वम् ।
तदुक्तं प्रयोगसारे—-
बिन्दुः शिवात्मकस्तत्र बीजं शक्त्यात्मकं स्मृतम् ।
तयोर्येगे भवेन्नादस्तेभ्यो जातास्त्रिशक्तयः ॥
रौद्री बिन्दोः समुद्भूता ज्येष्ठा नादादजायत ।
वामा बीजादभूच्छक्तिस्ताभ्यो देवास्त्रयोऽभवन् ॥ इति ॥ १० ॥
सञ्ज्ञानेच्छाक्रियात्मानो वह्निद्वर्कस्वरूपिणः ।
भिद्यमानात् पराद् बिन्दोरव्यक्तात्मा रवोऽभवत् ॥ ११ ॥
सञ्ज्ञाने इति ।
सञ्ज्ञाने इच्छाक्रियो तदात्मानः तेन रुद्रब्रह्मरमाधिपाः क्रमेण इच्छाशक्ति-क्रियाशक्ति-ज्ञानशक्तिस्वरूपाः ।
क्वचित् ते ज्ञानेच्छेति पाठः सः असाम्प्रदायिक एव ।
एते वह्नीन्द्वर्कस्वरूपिणो रुद्रब्रह्मरमाधिपाः शब्दसृष्ट्यन्तर्गताः निरोधिकार्द्धेन्दु बिन्दुरूपाः
शक्तेरेवावस्थाविशेषा ज्ञेयाः ।
एषामिच्छाक्रियाज्ञानात्मत्वं शक्तित उत्पन्नत्वात् ।
वक्ष्यति च—- " इच्छाज्ञानक्रियात्माऽसौ " इति ।
ईश्वरप्रत्यभिज्ञायामपि—-
यत इच्छन्ति तज्ज्ञातुं कर्त्तुं वा स्वेच्छया क्रियाः ।
अनन्तरं हि तत्कार्यज्ञानदर्शनशक्तिता ॥
ज्ञानशक्तिस्तदर्थं हि योऽसौ स्थलः समुद्यमः ।
सा क्रियाशक्तिरुदिता ततः सर्वं जगत् परम् ॥ इति ।
यतः पुनस्तेषां वक्ष्यमाणत्वात् ततो रुद्रसमुद्भवस्ततो विष्णुस्ततो ब्रह्मा इति ।
अन्यथा पूर्वापरविरोधोऽपि स्यात् ।
यतो ग्रन्थकृत् तस्यां सूर्येन्दुपावकान् " प्रणवस्य त्रिभिर्वर्णैरिति " वक्ष्यति ।
तत्र प्रणवांशा अकारोकारमकारा ब्रह्मविष्णु रुद्रात्मकाः ।
" अकाराद् ब्रह्मणोत्पन्नः " इत्यादेर्वक्ष्यमाणत्वात् ।
आगमान्तरे च—-ब्रह्मविष्ण्वीश्वरा- स्तत्तन्मण्डलेषु व्यवस्थिताः ।
इति ।
तेन तत्र सूर्यरूपः अकारो ब्रह्मा अत्र च सूर्यरूपो विष्णुरिति ।
अतो वक्ष्यमाणक्रमोऽर्थसृष्ट्यनुसारेणानुसन्धेयः ।
ग्रन्थकृच्च वक्ष्यति—-
शब्दार्थभाविभुवनं सृजतीन्दुरूपा या तद्विभत्ती पुनरर्कतनुः स्वशक्त्या ।
वह्न्यात्मिका हरति तत् सकलं युगान्ते तां शारदां मनसि जातु न विस्मरामि ॥ इति।
गोरक्षसंहितायामपि—-
इच्छा क्रिया तथा ज्ञानं गौरी ब्राह्मी तु वैष्णवी ।
त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरोमिति ॥
आचार्या अपि—-आद्यैस्त्रिभेदै स्तपनान्तिकैर्यत् ।
इति—-
शब्दब्रह्मण उत्पत्तिमाह भिद्यमानादिति ।
पराद् विन्दोरित्यनेन शक्त्यवस्था- रूपो यः प्रथमो बिन्दुस्तस्मादव्यक्तात्मा वर्णादिविशेषरहितोऽखण्डो नादमात्र
उत्पन्नः ॥ ११ ॥
शब्दब्रह्मेति तं प्राहुः सर्वागमविशारदाः ।
शब्दब्रह्मेति शब्दार्थं शब्दमित्यपरे जगुः ॥ १२ ॥
न हि तेषां तयोः सिद्धिर्जडत्वादुभयोरपि ।
चैतन्यं सर्वभूतानां शब्दब्रह्मेति मे मतिः ॥ १३ ॥
तत्स्वरूपमाह शब्देति ।
सर्वागमविशारदाः सर्वश्रुत्यर्थविदः।
तदुक्तमाचार्यैः—-
स रवः श्रुतिसम्पन्नैः शब्दब्रह्मेति कथ्यते।
इति ।
सृष्ट्युन्मुखपरमशिवप्रथमो- ल्लासमात्रम् अखण्डोऽव्यक्तो नादबिन्दुमय एवं व्यापको ब्रह्मात्मकः शब्दः
शब्दब्रह्मेत्यर्थः ॥ उक्तञ्च—-
क्रियाशक्तिप्रधानायाः शब्दः शब्दार्थकारणम् ।
प्रकृतेवीन्दुरूपिण्याः शब्दब्रह्माऽभवत् परम् ॥
अथान्तरस्फोटवादिमतं जातिव्यक्तिस्फोटात्मकं वा बाह्यस्फोटमतञ्च दूषयितु- मुपक्रमते शब्देति ।
एके आचार्याः शब्दार्थमान्तरस्फोटं शब्दब्रह्मेत्याहुः ।
यथाहि—-
" निरंश एवाभिन्नो नित्यो बोधस्वभावः शब्दार्थमयान्तरः स्फोटः " इति ।
अपरे वैयाकरणाः पूर्ववर्णेच्चारणाभिव्यक्तं तत्तत्पदसंस्कारसहायचरमपदग्रहणोद्बुद्धं
वाक्यस्फोटलक्षणं शब्दमखण्डैकार्थप्रकाशकं शब्दब्रह्मेति वदन्ति ।
यदाह—-
" एक एव नित्यो वाक्याभिव्यङ्ग्योऽखण्डो व्यक्तिस्फोटो जातिस्फोटो वा वहोरूपः " इति ॥ १२ ॥
तदुभयमतं दूषयन् स्वमतमाह नहीति ।
तेषां वादिनां मते तयोः शब्द- शब्दार्थयोः सिद्धिः शब्दब्रह्मत्वसिद्धिर्न ।
उभयोस्तयोर्जडत्वात् ।
यदि शब्दार्थः शब्दो वा शब्दब्रह्मेत्युच्यते तदा ब्रह्मपदवाच्यत्वं नोपपद्यते ।
यतः सच्चिदानन्दरूपो ब्रह्म- पदार्थः ।
तौ च जडौ ।
तदुक्तं भर्त्तृहरिणा—-
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ इति ।
अन्यत्रापि—- शब्दब्रह्मेति शब्दावगम्यमर्थं विदुर्बुधाः ।
स्वतोऽर्थानवबोधत्वात् प्रोक्तो नैतादृशो रवः ॥
स तु सर्वत्र संस्यूतो जाते भूताकरे पुनः ।
आविर्भवति देहेषु प्राणिनामर्थविस्तृतः ॥ इति ।
तेन सर्वागमविशारदा इत्यनेन सहैकवाक्यतैवास्य ।
तद्बन्दुरूपरवस्यैव सर्वशरीरेष्वाविर्भूतत्वेन वक्ष्यमाणत्वात् ।
यदुक्तं प्रयोगसारे—-
सोऽन्तरात्मा तदा देवी नादात्मा नदते स्वयम् ।
यथासंस्थानभेदेन स भूयो वर्णतां गतः ।
वायुना प्रेर्यमाणोऽसौ पिण्डाद् व्यक्तिं प्रयास्यति ॥ इति ।
केचित्तु शब्दब्रह्मेति शब्दस्यार्थं शब्दमेवाहुरिति योजनां कृत्वा सर्वागम- विशारदा इत्येकः पक्षः ।
अपरे बिन्दुरिति द्वितीयः, तयोर्दूषणमित्याहुः ।
तन्न ।
जडत्वादिति हेतुः प्रथमपक्षे न सम्भवति आचार्यमतविरोधश्चापद्येत ।
तेन सर्वागम- विशारदा इत्ययमेवपक्षो ग्रन्थकृदभिमत इति ॥ १३ ॥
तत् प्राप्य कुण्डलीरूपं प्राणिनां देहमध्यगम् ।
वर्णात्मनाऽविर्भवति गद्यपद्यादिभेदतः ॥ १४ ॥
एवं परां तां शब्दसृष्टिमुक्त्वा सामान्यतः समापयति तत् प्राप्येति ।
प्राणिनां
देहमध्यगं कुण्डलीरूपं कुण्डलिनीस्वरूपं तच्चैतन्यं गद्यपद्यादिभेदतो वर्णात्मना आविर्भवतीति सम्बन्धः ।
किं कृत्वा ।
प्राप्य कण्ठादिकरणानीति शेषः ।
अतएव वक्ष्यमाणा सृष्टिः कुण्डलिनीत इति ज्ञेयम् ॥ १४ ॥
अथ बिन्द्वात्मनः शम्भोः कालबन्धोः कलात्मनः ।
अजायत जगत्साक्षी सर्वव्यापी सदाशिवः ॥ १५ ॥
सदाशिवाद् भवेदीशस्ततो रुद्रसमुद्भवः ।
ततो विष्णुस्ततो ब्रह्मा तेषामेवं समुद्भवः ॥ १६ ॥
एवं प्राधान्यद्योतनाय प्रथमोद्दिष्टां परां तां शब्दसृष्टिमुक्त्वा पश्यन्त्यादीनां शरीरसृष्टिव्यतिरेकेण
वक्तुमशक्यत्वात् तां वक्तुमर्थसृष्टिमारभते अथेति ।
कला माया तदात्मनः तत उत्पन्नत्वात् ।
बिन्दुरपि तस्यैवावस्थान्तरम् ।
तदात्मन इत्युभयत्र कार्ये कारणोपचारात् ।
तदुक्तम्—-
सर्वज्ञादिगुणोपेतामभिन्नामात्मनः सदा ।
इति ।
यद्वा कला निवृत्त्याद्या अधिष्ठातृसदाशिवादीनां प्रातिलोम्येनोत्पादिकाः तदात्मनः।
कालबन्धोरिति ।
अनाद्यनन्ते काले सृष्टिरूपकालसहायान्नादात्मन इत्यर्थः।
शम्भोः परमशिवात् सृष्टिस्थितिध्वंसनिग्रहानुग्रहकार्यपञ्चककर्त्ता, अतएव जग- न्निर्माणबीजरूपो
जगत्साक्षी सदाशिवो जातः ।
अथ च कालबन्धोः, अतएव कालात्मन इति हेतुहेतुमद्भावेन योजना ।
" सा तु कालात्मना सम्यक् मयैव ज्ञायते सदा " इति आचार्येक्तेः ।
अनेन विशेषणद्वयेन प्रकृतेः कालस्य च महाप्रलयेऽप्यवस्थानमुक्तम् ।
अतएव अनयोरापेक्षकनित्यता ।
स्वतो नित्यत्वं पुरुषस्यैव ।
सर्वविनाशस्य पुरुषावधित्वाद- न्यथाऽनवस्थानादित्यादियुक्तिः द्रष्टव्या ।
अथ च कालबन्धोरिति बन्धुशब्देन कालस्य निमित्तत्वं सूचितम् ।
यदाहुः—-
लवादिप्रलयान्तोऽयं तमः शक्तिविजृम्भितः ।
निमित्तभूतः कालोऽयं भावानां जन्मनाशयोः ॥ इति ।
अन्यत्रापि—-अनादिर्भगवान् कालो नान्तोऽस्य द्विज विद्यते ।
अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ॥ इति ।
कालबन्धोरित्यनेन अपरो लवादिप्रलयान्तः कालोऽपि सूचितः ।
तेनैव परकालस्योक्तत्वात् ।
स च—-
" नलिनीपत्रसंहत्या सूक्ष्मसूच्यभिवेधने ।
दले दले तु यः कालः स कालो लवसञ्ज्ञकः ॥
लवैस्त्रुटिः स्यात् त्रिंशद्भिः " इत्यादिना
" तवायुर्मम निश्वासः कालेनैव प्रचोद्यते ।
"
इत्यन्तेन ग्रन्थसन्दर्भेणाचार्यैः विवेचितः ।
अस्माभिस्तु ग्रन्थगौरवभयात् नोक्तः ।
अन्ये त्वेवं व्याचक्षते कालबन्धोः कालात्मनः कश्च लश्च इति प्रत्याहारेण व्यञ्जनानि गृहीतानि ।
अश्चेत्यनेन स्वरा अपि गृहीताः ।
तदात्मन इति ।
अन्ये त्वन्यथा व्याचक्षते—-कश्च लश्च आत्मा दीर्घेकारः ।
चतुर्णामात्मनां चतुर्थ इत्युक्तेः ।
कालशब्देनार्कस्तेन मः ।
यद्वा कालशब्देन महाकालो मकारस्य रुद्रमूत्तीगृहीता ।
भीमो भीमसेन इतिवत् ।
तेन मकारः।
एवं मिलित्वा कामबीजमुद्धृतम् ।
तस्मादित्युक्तं भवति ।
तस्य जगन्मूलत्वात् शम्भोः भ्रमन्तं
योन्यन्तःस्फुरदरुणबन्धककुसुमप्रभं कामं ध्यायेज्जठरशशभृत्कोटिशिखरम् ।
इत्यादिना शरीरे मूलाधारे तेजस्त्रयरूपस्य तस्यैवोक्तत्वात् शक्तिरूपत्वाच्च बिन्द्वात्मन इति ।
तदुक्तम्—-
विश्वं भूतेन्द्रियान्तःकरणमयमिनेन्द्वग्निरूपं समस्तं
वर्णात्मैतत् प्रधाने कमलनयनमये बीजरूपे क्रमेण ।
नीत्वा तां पुंसि बिन्द्वात्मनि तमपि रवात्मन्यथो कालतत्त्वे
तं वै शक्तौ चिदात्मन्यपि नयतु च तां केवले धाम्नि शान्ते ॥ इति ।
अन्ये तु शम्भोः हकारात् कलाऽर्द्धेन्दुरात्मा ईकारः बिन्दुः बिन्दुरेव कालोऽग्निः प्रलये सर्वविनाशकत्वात् ।
एवं मायाबीजमुद्धृतम् ।
तस्मादित्युक्तम् अस्य जगन्मूलबीजभूतत्वं प्रसिद्धमेव ।
इदञ्च व्याख्यानमाचार्यचरणसम्मतमिति ।
तदुक्तमाचार्यैः—-
स्वामिन् प्रसीद विश्वेश के वयं केन भाविताः ।
किं मूलाः किं क्रियाः सर्वमस्मभ्यं वक्तुमर्हथ ।
इति पृष्टः परं ज्योतिरुवाच प्रमिताक्षरम् ॥
इत्यस्य पद्यस्य व्याख्याने पद्मपादाचार्यैर्व्याख्यातम्—-सर्वेश्वर उपादानादिकं सङ्ग्रहेणोक्तवान्
इत्याह—-इति पृष्टेति ।
प्रकर्षेण मीयते ज्ञायते इति प्रमिता प्रकृतिः प्रमिनोति जानातीति प्रमितः पुरुषः प्रमिनोति
परिच्छिनत्तीति प्रमितः कालः ।
तेषां प्रमितानां वाचकमक्षरं तदभिन्नं प्रमिताक्षरम् ।
परा वाक् सतत्त्वं हकार इत्यर्थः ।
तस्य बीजबिन्दुनादरूपेण प्रकृत्यादिवाचकत्वं द्रष्टव्यम् ।
एतेन इत्युत्तरमुवाचेत्यर्थः ।
सङ्ग्रहेणोक्तस्याप्रतिपत्तिमालक्ष्य तदेव विवृणोति—-
यूयमक्षरसम्भूताः सृष्टिस्थित्यन्तहेतवः ।
इति ।
न क्षरत्यश्नुते वेति व्युत्पत्त्या " अक्षरात् सम्भवतीह विश्वम् " इत्यादिना ।
तेषामिति ।
शब्दसृष्टौ तेषामुद्भव उक्त एव ।
तेषामेवं समुद्भवः अर्थसृष्टा
वित्यर्थः ॥ १५-१६ ॥
मूलभूतात् ततोऽव्यक्ताद् विकृतात् परवस्तुनः ।
आसीत् किल महत्तत्त्वं गुणान्तः करणात्मकम् ॥ १७ ॥
एवं प्रकृतायामर्थसृष्टौ तत्त्वसृष्टिं वक्तुमारभते मूलेति।
मूलभूतात् सर्वसृष्टिमूल- रूपादतएव परवस्तुनः अव्यक्ताद् बिन्दुरूपात् ।
यद्वा शब्दब्रह्मणः विकृतात् सृष्ट्युन्मुखात् महत्तत्त्वं महन्नामपदार्थः आसीत् उत्पन्नः ।
यस्य शैवमते बुद्धितत्त्वमिति सञ्ज्ञा ।
किं रूपं सत्वरजस्तमोगुणात्मकम् मनोबुद्ध्यहङ्कारचित्तस्वरूपम् ।
अन्तः- करणचतुष्टयात्मकता तु तत्कारणत्वेन कार्ये कारणोपचारात् ।
एवं शैव- सिद्धान्तविदः ।
तदुक्तमीशानशिवेन—-
बोद्धव्यलक्षणा सैव प्रकृतिः शक्तिजृम्भिता ।
बुद्धितत्त्वं भवेद्व्यक्तं सात्त्विकं गुणमाश्रिता ।
सैव बुद्धिर्महन्नाम तत्त्वं साङ्ख्ये निगद्यते ॥ इति ।
वामकेश्वरेऽपि—-
अव्यक्तविग्रहाच्छब्दब्रह्मणः सर्वकारणम् ।
व्यक्तसत्त्वगुणं व्यक्तं बुद्धितत्त्वमजायत ॥ इति ।
साङ्ख्यमते तु—-सत्त्वरजस्तमसां साम्यावस्थारूपं प्रकृतिः प्रधानापरपर्यायम- व्यक्तशब्देनोच्यते ।
तत् परवस्तु सर्वमूलभूतम् ।
गुणन्यूनातिरेकेण विकृतात्तस्मात् महानुत्पन्नः ।
स कीदृशः ।
गुणान्तःकरणात्मा ।
गुणाः शब्दस्पर्शरूपरसगन्ध- तन्मात्राणि ।
येषामन्तःकरणचतुष्ट्यस्यापि कारणरूपः ।
उपचारादुभयात्मकः ।
तथा तत्सृष्टिक्रमोऽपि प्रकृतेर्महान् महतोऽहङ्कार इति ॥ १७ ॥
अभूत्तस्मादहङ्कारस्त्रिविधिः सृष्टिभेदतः ।
वैकारिकादहङ्काराद्देवा वैकारिका दश ॥ १८ ॥
दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः ।
तैजसादिन्द्रियाण्यासंस्तन्मात्राक्रमयोगतः ॥ १९ ॥
अभूदिति ।
तस्मान्महतस्त्रिविधोऽहङ्कारः सृष्टिभेदतो जातः ।
वैकारिका- स्तैजसो भूतादिश्चेति ।
तदुक्तम्—-
अव्यक्तमेव तु व्यक्तं तन्महन्नामलक्षणम् ।
ततोऽहङ्कारतत्त्वं स्यात् सत्त्वादिगुणभेदकम् ॥
सोऽहङ्कारस्त्रिभेदः स्यात् पृथक् सत्त्वादिभेदतः ।
वैकारः सात्विको नाम तैजसो राजसः स्मृतः ।
भूतादिस्तामसस्तेऽपि पृथक् तत्त्वान्यवासृजन् ॥ इत्यादि ।
तत्तत्कार्यं वदन्नेवं त्रैविध्यमुन्मीलयति वैकारिकादित्यादिना।
शक्तिसामरस्य- विकृतपरमेश्वरादुत्पन्नत्वात् वैकारिकत्वमस्य ।
तदुत्पन्नत्वाद् देवानामपि तथात्वम् ।
साङ्ख्यमतेऽपि गुणोद्रेकविकृतप्रधानोत्पत्तेस्तादृक्त्वम् ॥ १८ ॥
तानेवाह दिगित्यादि ।
अश्वीत्यश्विनीकुमारौ यद्यप्येतौ द्वौ तथापि सह- चारित्वात् सहजातत्वादेकत्वेनोक्तिः ।
उपेन्द्रो विष्णोरेकामूत्तीः ।
मित्रस्तृतीयः सूर्यः ।
तदुक्तं " मित्रो भानुस्तृतीयकः " इति ।
को ब्रह्मण एका मूत्तीः ।
चन्द्रोऽपि ज्ञेयः ।
एते इन्द्रियाधिष्ठातृदेवा इति ज्ञेयम् ।
यदाहुः—-
वैकारिका दिगाद्या ये चन्द्रेणैकादश स्मृताः ।
इन्द्रियाणामधिष्ठातृदेवास्ते परिकीत्तीताः ॥ इति ।
तैजसादिति ।
तैजसादहङ्कारादिन्द्रियाणि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि मनश्च ।
तदुक्तम्—-
यच्चापरं मनस्तत्त्वं ससङ्कल्पविकल्पकम् ।
तैजसादेव सञ्जातम् ।
इति ।
अन्यत्रापि—-तैजसतस्तत्र मनो वैकारितो भवन्ति चाक्षाणि ।
भूतादेस्तन्मात्राण्येषां यत् सर्गेऽयमेतस्मात् ॥ इति ।
अक्षाणि अक्षाधिष्ठातृदेवताः ।
साङ्ख्यमते वैकारिकादहङ्कारात् तैजसाहङ्कार- मिलितात् इन्द्रियाण्यासन्निति ।
एवं तैजसाहङ्कारसहिताद् भूतादेरपि तन्मात्रोत्पत्तिः ।
तदुक्तम्—-
सात्त्विक एकादशकः प्रवर्त्तते वैकारिकादहङ्कारात् ।
भूतादेस्तन्मात्रः स तामसः तैजसादुभयम् ॥ इति ॥ १९ ॥
भूतादिकादहङ्कारात् पञ्चभूतानि जज्ञिरे ।
शब्दात् पूर्वं वियत् स्पर्शाद् वायू रूपाद्धुताशनः ॥ २० ॥
रसादम्भः क्षमा गन्धादिति तेषां समुद्भवः ।
स्वच्छं वियन्मरुत् कृष्णो रक्तोऽग्निवीशदं पयः॥ २१ ॥
पीता भूमिः पञ्चभूतान्येकैकाधारतो विदुः ।
शब्दस्पर्शरूपरसगन्धा भूतगुणाः स्मृताः ॥ २२ ॥
भूतेति ।
भूतादिकादहङ्कारात्तन्मात्राक्रमयोगतः पञ्चभूतानि जज्ञिरे इति सम्बन्धः ।
कः स्वाथीकः ।
तत्रादौ आकाशादीनां कारणभूताः पञ्चतन्मात्रा जाताः ।
शब्दतन्मात्रास्पर्शतन्मात्रा-रूपतन्मात्रा-रसतन्मात्रा-गन्धतन्मात्राः ।
एताभ्य आकाश- वायुतेजोजलपृथिवीरूपाणि पञ्चभूतान्युत्पन्नानि ।
उक्तञ्च—-
शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च पञ्चमः ।
तन्मात्राण्येव विषया भूतादेरभवन् क्रमात् ॥
ततः समभवद्व्योम शब्दतन्मात्ररूपकम् ।
स्पर्शात्मकस्ततो वायुस्तेजोरूपात्मकं ततः ॥
आपो रसात्मिकास्तस्मात् ताभ्यो गन्धात्मिका मही ।
ततः स्थूलानि भूतानि पञ्च तेभ्यो विराडपि ॥ इति ।
तत्र भूतोत्पत्तिप्रकारमाह शब्दादिति ।
शब्दतन्मात्रात् आकाशः स्पर्शतन्मात्रातो वायुः रूपतन्मात्रातोऽग्निः रसतन्मात्रातो जलं गन्धतन्मात्रातः पृथिवी ।
केचित् पूर्वपूर्वानुविद्वानामेषां कारणत्वमाहुः पूर्वशब्दसामर्थ्यात् ।
तदुक्तम्—-
शब्दाद्व्योम स्पर्शतस्तेन वायुस्ताभ्यां रूपाद्वह्निरेभ्यो रसाच्च ।
अम्भांस्येभिर्गन्धतो भूः ।
इति ।
पञ्चभूतवर्णानुपदिशति स्वच्छमिति ।
स्वच्छं श्वेतम् ।
अत्र केषाञ्चिदरूपि द्रव्याणां वर्णकथनम् उपासनार्थं स्वशास्त्रानुरोधेन ।
तेषां स्वरूपमन्यत्रोक्तम्—-
खमपि सुषिरचिह्नमीरणः स्याच्चलनपरः परिपाकवान् कृशानुः ।
जलमपि रसवद् घना धरा ।
इति ।
एतैस्तानि ज्ञायन्ते इत्यर्थः ।
एकैकाधारत इति ।
स्वस्वकारणा- धाराणीत्यर्थः ।
तदुक्तम्—- परस्परानुप्रविष्टैर्महाभूतैश्चतुवीधैः ।
व्याप्ताकाशैर्जगत् सर्वं दृश्यं निष्पाद्यतेऽखिलम् ॥ इति ।
अन्यत्रापि—-व्योम्नि मरुदत्र दहनस्तत्रापस्तासु संस्थिता पृथ्वी ।
इति ।
भूतगुणाः तत्तद्विशेषगुणा इति नैयायिकाः ।
यद्वा शब्दो गुणो वियतः ।
शब्दस्पर्शौ वायोः ।
तौ रूपञ्चाग्नेः ।
रसेन सह तानि जलस्य ।
गन्धेन सह पञ्च पृथिव्या इति साङ्ख्याः ।
इदमेव स्फोटयितुमेकैकाधारत इत्युक्तिः ।
उक्तञ्च ईशान- शिवेनशब्दैकगुण आकाशः शब्दस्पर्शगुणो मरुत् ।
शब्दस्पर्शरूपगुणैस्त्रिगुणं तेज इष्यते ॥
शब्दस्पर्शरूपरसगुणैरापश्चतुर्गुणाः ।
शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा मही ॥ इति ॥ २०-२२ ॥
वृत्तं दिवस्तत् षड्बिन्दुलाञ्छितं मातरिश्वनः।
त्रिकोणं स्वस्तिकोपेतं वह्नेरर्धेन्दुसंयुतम् ॥ २३ ॥
अम्भोजमम्भसो भूमेश्चतुरस्रं सवज्रकम् ।
तत्तद्भूतसमाभानि मण्डलानि विदुर्बुधाः ॥ २४ ॥
भूतमण्डलान्याह—-वृत्तमिति ।
दिवः आकाशस्य वृत्तम् ।
तद्धृत्तमेव समभागेन वृत्तपरिधिरेखामध्ये षड्बिन्दुलाञ्छितं मातरिश्वनः वायोः ।
त्रिकोणमूर्द्धाग्रम् ।
" ऊर्द्धं वह्निरधः शक्तिः " इत्युक्त्वात् ।
अन्यत्रापि—-
इन्द्रराक्षसवायव्यकोणैस्तद्वह्निमण्डलम् ।
इति ।
स्वस्तिकोपेतं त्रिकोणसम्पातरेखाः सम्वर्द्ध्य तत्र स्वस्तिकाकारं कुर्यादित्यर्थः ।
तदुक्तम्—-हृदि त्रिकोणं निर्गच्छत् स्वस्तिके रक्ततेजसि ।
इति ।
स्वस्तिकं नाम परस्परसम्बद्धं विदिग्गतचतुर्वक्त्रं रेखाद्वयम् ।
वह्नेरिति पूर्वेणान्वयेति ।
अर्द्धेन्दुसंयुतम् अम्भोजमम्भस इति सम्बन्धः ।
अर्द्धेन्दौ संयुतम् अर्द्धेन्दुसंयुतमिति ।
सप्तमीति योगविभागात् समासः ।
यद्वा अर्द्धेन्दु अम्भोजं संयुतम् उभयं मिलितम् अम्भसो मण्डलं तेनार्द्धेन्दु कृत्वा तदुभयभागे
सरोजद्वयं कुर्यादिति ।
यदुक्तमाचार्यैः—-अब्जोपेतार्द्धेन्दुमद् बिम्बमाप्यम् ।
इति ।
अन्यत्रापि—-अर्द्धचन्द्रं द्रवं सौम्यं शुभ्रमम्भोजसंयुतम् ।
इति ।
प्रयोगसारेऽपि—-अब्जाङ्कोऽर्द्धेन्दुरम्भसः ।
इति ।
अन्यत्रापि—- तेषां क्रमेण शशिबिम्ब समन्तदेव
षड् बिन्दुमद्दहनशस्त्रयुतं त्रिकोणम् ।
अम्भोजयुग्मशशिखण्ड समानरूपं
वेदास्रकं सदशनन्त्विह मण्डलानि ॥ इति ।
मन्त्रतन्त्रप्रकाशेऽपि—-चन्द्रार्द्धमण्डलं वापि श्वेतं पङ्कजयुग्मयुक् ।
इति ।
स्वायम्भुवे नारसिंहेऽपि—-आप्यमर्द्धेन्दुपद्माङ्कितम् ।
इति ।
यस्तु अष्टदलपद्मं कृत्वा तद्दलाग्रेषु अर्द्धचन्द्राकारान् कुर्यात् इति वदति स्म स भ्रान्त एव ।
अन्ये तु अर्द्धचन्द्रं कृत्वा तन्मध्ये पद्मं लिखेदिति वदन्ति ।
तदपि भूतलिपिपटले वक्ष्यमाणत्वात् अत्र न वाच्यम् ।
सवज्रकं चतुरस्रं भूमेरिति सम्बन्धः।
चतुरस्रसम्पातरेखाः सम्वर्द्ध्य अष्टवज्राणि कुर्यादिति केचित् ।
सम्प्रदायविदस्तु चतुरस्ररेखास्वेव अष्टवज्राणि कार्याणीति वदन्ति ।
तदुक्तम् शौनककल्पे—-
भूग्रहं चतुरस्रं स्यादष्टवज्रविभूषितम् ।
इति ।
हिरण्यगर्भसंहितायामपि—-बाह्ये वज्राष्टभूषितं चतुष्कोणं शुभमथो ।
इति ।
आचार्यास्तु—- " वसुकुलिशगम् " इति ।
ग्रन्थकारोऽपि—- " वज्रेष्वष्टसु " इति ।
अन्योन्याभिमुखतया त्रिवक्त्त्रं रेखाद्वयं परस्परसम्बद्धं वज्रम् ।
परस्परसम्बद्धमध्यं रेखाद्वयमिति केचित् ।
मण्डलध्यानमाह तत्तदिति ।
अनेन भूम्यादौ मण्डललिखने तत्तद्वर्णरजोभिश्च पूरणमप्युक्तं भवति ॥ २३-२४ ॥
वर्णैः स्वैरञ्चितान्याहुः स्वस्वनामावृतान्यपि ।
धरादिपञ्चभूतानां निवृत्त्याद्याः कलाः स्मृताः ॥ २५ ॥
निवृत्तिः सप्रतिष्ठा स्याद् विद्या शान्तिरनन्तरम् ।
शान्त्यतीतेति विज्ञेया नाददेहसमुद्भवाः ॥ २६ ॥
वर्णैद्वीतीये वक्ष्यमाणभूतवर्णैः ।
स्वस्वनामावृतान्यपीत्यस्याप्ययमर्थः ।
वक्ष्य- माणभूतलिपियन्त्रेषु यः कणीकालिखितो मन्त्रस्तेनावृतानीति ।
साम्प्रदायिकाश्चैवं मन्यन्ते ।
" कलात्मनः " इति पूर्वमुक्तेः भूतकारणभूताः बिन्दुतत्त्वनिर्गताः शक्तीः ।
संहारक्रमेण प्रयोगाद्यर्थमाह धरेति ।
धरादिपञ्चभूतानामुत्पादिका इति शेषः ।
तदुक्तं वायवीयसंहितायाम्—-
शक्तिः प्रथमसम्भूता शान्त्यतीतपदोत्तरा ।
शान्त्यतीतपदं शक्तेस्ततः शान्तिपदं क्रमात् ॥
ततो विद्यापदं तस्मात् प्रतिष्ठापदसङ्ग्रहः ।
निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः परम् ॥
एवमुक्ता समासेन सृष्टिरीश्वरचोदिता ।
आनुलोम्यादथैतेषां प्रातिलोम्येन संहृतिः ॥
अस्मात् पञ्चपदोद्दिष्टान्न सृष्ट्यन्तरमिष्यते ।
कलाभिः पञ्चभिर्व्याप्तं यस्माद् विश्वमिदं जगत् ॥ इति ।
नादेति ।
नादाद् देहो यस्य स नाददेहो बिन्दुः तत्समुद्भवा इति ।
यद्वा तासां स्थूलवाचकांशमाह नाददेहसमुद्भवा इति ।
नादो हकारः नादस्य ध्वनेर्देह उत्पत्ति- र्यस्मात् स नाददेहो वायुस्तेन यः ।
धर्मधमीणोरभेदात् देहशब्देनोत्पत्तिरुक्ता ।
" मारुत- स्तूरसि चरन् मन्द्रं जनयति ध्वनिम् " इत्युक्तेर्नादोत्पत्तिहेतुत्वं तस्य ।
समुद्दीप्यमाना भा दीप्तिर्यस्येति समुद्भोऽग्निस्तेन रः ।
व स्वरूपम् ।
तत्र हयरवलानां क्रमेण ग्रहणे कर्त्तव्ये यच्चतुर्णामेव ग्रहणं कृतवान् तेन लकारोऽप्यस्तीति ज्ञेयम् ।
प्रथमतो नादग्रहणाद् बिन्दुयोगोऽप्येषां ज्ञेयः ।
एतानि विलोमेन तन्मात्राबीजानि ।
अथवा नादो हकारस्तस्य देहः स्वरूपं तत्र समुद्भवः स्थितिर्येषाम् एवम्भूता आईकारादयः आ ई ऊ ए औकाराः ।
एषां सबिन्दुकत्वञ्च ज्ञेयम् ।
तदुक्तं त्रिकोणोत्तरे—-
नादाख्यं यत् परं बीजं सर्वभूतेष्ववस्थितम् ।
मूत्तीदं परमं दिव्यं सर्वसिद्धिप्रदायकम् ।
शान्तं सर्वगतं शून्यं मात्रापञ्चकसंस्थितम् ॥ इति ।
केचन क्रमेण एषां ल व र य ह योगमाहुः ।
तद्यथा—-ह्रा� ह्री� ह्रू� ह्रै� ह्रौ� ।
एतानि अपञ्चीकृतभूतबीजानि ।
अथवा नादो हकारः ।
शरीरस्य पृथिव्यंशाधिक्याद् देहशब्देन लकारस्तस्य समुद्भवः स्थितिर्यत्र स नाददेहसमुद्भवः ।
येषु आकारादिषु ते नाददेहसमुद्भवाः ।
अत्र क्रमेण लवरयह योगमाहुः ।
तद्यथा—-ह्लां ह्ल्वीं र्ह्लं ह्ल्यैं ह्लौम् ।
एतानि पञ्चीकृतभूतबीजानि ।
भूतबीजानामेव तदभिमानिनिवृत्त्यादिबीजत्वं ज्ञेयम् ।
तदुक्तमाचार्यैः " नादकलादिभूता " इति ॥ २५-२६ ॥
पञ्चभूतात्मकं सर्वं चराचरमिदं जगत् ।
अचरा बहुधा भिन्ना गिरिवृक्षादिभेदतः ॥ २७ ॥
एवं भूतान्युक्त्वा जगतस्तदात्मकत्वमाह पञ्चेति ।
एतेन त्रिवृत्करणपक्षः पञ्चीकरणपक्षोऽपि सूचितः ।
तत्र ये तैजसा देवाः तेषामपि शरीरार्द्धे भागः तैजसः पृथिव्याश्चतुर्थांशः चतुर्थांशो जलस्येति
त्रिवृत्करणपक्षः ।
पञ्चीकरणपक्षे तु पृथिव्याश्चत्वारोऽंशा अन्येषामष्टमोऽष्टमोऽंशः ।
एवमन्यत्रापि ।
तदुक्तम्—-
द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः ।
स्वस्वेतर द्वितीयांशैर्येजनात् पञ्च पञ्च ते ॥ इति ।
अथवा—-षडंशास्तेजसः पृथिवीजलवाय्वाकाशानां दशमो दशमोऽंशः ।
एवं पाथीवे अस्मदादिशरीरेऽपि षड्भागाः पृथिव्याः अन्येषां दशमो दशमोऽंशः ।
एवं वरुणादिलोकनिवासिनामाप्यादिशरीराणामपि अवगन्तव्यम् ।
तदुक्तम्—-
पृथिव्यादीनि भूतानि प्रत्येकं विभजेद् द्विधा ।
एकैकं भागमादाय पञ्चधा विभजेत् पुनः ॥
एकैकभागमेकैकं भूते संवेशयेत् क्रमात् ।
तत आकाशभूतस्य स्वभागाः षड् भवन्ति हि ॥
वाय्वादिभागाश्चत्वारो वाय्वादिष्वेवमादिशेत् ।
पञ्चीकरण मेतत्स्यादित्याहुस्तत्त्ववेदिनः ॥ इति ।
अन्यत्र विशेषः—-
अस्थि मांसं त्वचं स्नायु रोम एव तु पञ्चमम् ।
इति पञ्चविधा प्रोक्ता पृथिवीं कठिनात्मिका ॥
लाला मूत्रं तथा शुक्रं शोणितं मज्ज पञ्चमम् ।
अपां पञ्च गुणा एते द्रवरूपाः प्रकीत्तीताः ॥
क्षुधा तृष्णा भयं निद्रा आलस्यं क्षान्तिरेव च ।
ऊष्णात्मका गुणा एते तेजसः परिकीत्तीताः ॥
धावनं वल्गनं भुक्तिराकुञ्चनं प्रसारणम् ।
एते पञ्च गुणा वायोः क्रियारूपा व्यवस्थिताः ॥
रागद्वेषौ तथा लज्जा भयं मोहस्तथैव च ।
व्योम्नः पञ्चगुणा एते शून्याख्ये सुषिरात्मनि ॥ इति ।
चरं जङ्गमम् ।
अचरं स्थावरम् ।
चरेषु बहुवक्तव्यत्वात् प्रथमोद्दिष्टं तं विहायाचरानाह अचरा इति ।
तत्र ते चराः स्वेदाण्डजजरायुजा इति वक्ष्यति ।
तेन शिष्टत्वादेषामौद्भिदत्वमुक्तम् ।
यदाहुः—-
देहश्चतुवीधो ज्ञेयो जन्तोरुत्पत्तिभेदतः ।
उद्भिज्जः स्वेदजोऽण्डोत्थश्चतुर्थस्तु जरायुजः ।
उद्भिद्य भूमिं निर्गच्छेदौद्भिदः स्थावरस्तु सः ॥ इति ।
एषामुत्पत्तिप्रकारोऽन्यत्रोक्तः—-
उद्भिदः स्थावरा ज्ञेयास्तृणगुल्मादिरूपिणः ।
तत्र सिक्ता जलैर्भूमिरन्तरूष्मविपाचिता ॥
वायुना व्यूह्यमाना तु बीजत्वं प्रतिपद्यते ।
तथा चोप्तानि बीजानि संसिक्तान्यम्भसा पुनः ॥
उच्छूनत्वं मृदुत्वञ्च मूलभावं प्रयान्ति च ।
तन्मूलादङ्कुरोत्पत्तिस्तस्मात् पर्णसमुद्भवः ।
पर्णात्मकं ततः काण्डं काण्डाच्च प्रसवः पुनः ॥ इति ॥ २७ ॥
चरास्तु त्रिविधाः प्रोक्ताः स्वेदाण्डजजरायुजाः ।
स्वेदजाः क्रिमिकीटाद्या अण्डजाः पन्नगादयः ॥ २८ ॥
विभागपूर्वकं चरानुद्दिशति चरास्त्विति ।
जनेः प्रत्येकं सम्बन्धं दर्शयन् तद्विशेषानाह खेदजा इत्यादिना ।
कृमिकीटाद्या इति उभयोरपिदंशकत्वादंशकत्वाभ्यां भेदः ।
आदिशब्देन पतङ्गादीनां ग्रहणम् ।
यदाहुः—-कृमिकीटपतङ्गाद्याः स्वेदजा नाम देहिनः ।
इति ।
तदुत्पत्तिप्रकारोऽन्यत्र दशीतः—-
स्वेदजं स्विद्यमानेभ्यो भूवह्न्यद्भ्यः प्रजायते ।
इति ।
तेनैषामयोनिजत्वमुक्तम् ।
यदुक्तं प्रयोगसारे-
किन्त्वत्र स्वेदजा ये तु ज्ञेयास्ते चाप्ययोनिजाः ।
स्थिरा विवायवो भिन्नाश्चत्वारिंशत्सहस्रधा ॥ इति ।
पन्नगादय इत्यादिशब्देन पक्षिकच्छपादिग्रहणम् ।
यदाहुः—-
अण्डजाः पक्षिणः सर्वे नक्रमत्स्याश्च कच्छपाः ।
इति ।
तदुत्पत्तिप्रकारोऽपि—-
अण्डजो वर्त्तुलीभूताच्छुक्रशोणितसंयुतात् ।
कालेन भिन्नात्पूर्णात्मा निर्गच्छन् प्रक्रमिष्यति ॥ इति ॥ २८॥
जरायुजा मनुष्याद्यास्तेषु नॄणां निगद्यते ।
उद्भवः पंस्त्रियोर्येगात् शुक्रशोणितसंयुतात् ॥ २९ ॥
बिन्दुरेको विशेद् गर्भमुभयात्मा क्रमादसौ ।
रजोऽधिके भवेन्नारी भवेद्रेतोऽधिकः पुमान् ।
उभयोः समतायान्तु नपुंसकमिति स्थितिः ॥ ३० ॥
जरायुर्गर्भाशयो जालिकारूपः ।
मनुष्याद्या इत्यादिशब्देन पश्वादयः ।
एषां सङ्ख्योक्ता प्रयोगसारे—-
योनिजाः प्राणिनो भिन्नाश्चतुःषष्टिसहस्रधा ।
इति ।
तेषु नृणां निगद्यते उद्भव इति सम्बन्धः ।
यतः सर्वशास्त्रस्य मनुष्या- धिकारित्वात् ।
शोणित संयुतादित्यनेन तस्याप्रधानतोक्ता ।
अतः पुत्रः पितृजात्यादियुक्तः ।
तथाच महाभारते—-माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।
इति ।
भस्त्रा वाय्वाधारं चर्ममयम् ।
उभयात्मा शुक्रशोणितात्मा अतएवाग्नीषोमात्मा एको बिन्दुर्गर्भं विशेत् ।
क्रमादसावित्युत्तरेण सम्बध्यते ।
असौ बिन्दुः रजोऽधिकः क्रमान्नारी भवेत् ।
रेतोऽधिकः क्रमात् पुमान् भवेदिति योजना ।
अत्राधिक्यमुक्त प्रमाणतो ज्ञेयम् ।
उक्तप्रमाणसाम्ये नपुंसकोत्पत्तिरित्यपि ज्ञेयम् ।
यदाहुः—-
द्वाविंशती रजोभागाः शुक्रमात्राश्चतुर्द्दशः ।
गर्भसञ्जनने काले पुंस्त्रियोः सम्भवन्ति च ॥
नारी रजोऽधिकेऽंशे स्यान्नरः शुक्राधिकेऽंशके ।
उभयो रुक्तसङ्ख्यायां स्यान्नपुंसकसम्भवः ॥ इति ।
क्रमादित्यनेन नैतदुक्तं भवति ।
स एवं बिन्दुर्वायुना पृथग् भिन्नः बह्वपत्यतां जनयतीति ।
यदाहुः—-वाग्भटे शारीरस्थाने—-शुक्रार्त्तवे पुनः पुनः ।
वायुना बहुशो भिन्ने यथास्वं बह्वपत्यता ॥
वियोनिविकृताकारा जायन्ते विकृतैर्मलैः ।
पूर्णषोडशवर्षा स्त्री पूर्णविंशेन सङ्गता ॥
शुद्धे गर्भाशये मार्गे रक्ते शुक्रेऽनिले हृदि ।
वीर्यवन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः ॥
रोग्यल्पायुरधन्यो वा गर्भे भवति नैव वा ॥ इति ॥ २९-३०॥
पूर्वकर्मानुरूपेण मोहपाशेन यन्त्रितः ।
कश्चिदात्मा तदा तस्मिन् जीवभावं प्रपद्यते ॥ ३१ ॥
तस्मिन् बिन्दौ जीवसञ्चारमाह पूर्वेति ।
पूर्वजन्मशतसञ्चितकर्मणां मध्ये फलदानोन्मुखं प्रबलमेकं
पुण्यपापात्मकं सुखदुःखोभयात्मकफलकं मनुष्यशरीरो- पभोगयोग्यं
यत् कर्म तदनुरूपेण मोहपाशेन अविद्यारूपेण यन्त्रितो बद्धः उत्पद्यते ।
एतेन नित्यस्यात्मनोऽनुत्पत्तिरुक्ता ।
गृहमिव देहमात्मा प्रविष्ट इत्यर्थः ।
कश्चिदिति ।
" नानात्मानो व्यवस्थातः " इति कणादसूत्रानुसारात् ।
" पुरुषबहुत्वं सिद्धम् " इति साङ्ख्योक्तेश्च ।
वेदान्तनये तु अविद्याकल्पितो भेदोऽङ्गीकर्त्तव्यः ।
अन्यथा यद्यात्म- ज्ञानेनाविद्या नष्टा तदा—-
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन ।
इति वचनात् पूर्वसञ्चितकर्मणां फलदानासामर्थ्यादग्रिमकर्मनिर्लेप एव नास्ति ।
न लिप्यते कर्मभिः स पद्मपत्रमिवाम्भसा ।
इति वचनात् तस्यैकत्वात् मुक्तत्वाच्च अवतार एव न स्यात् ।
इत्यवतार- कारणं मोहपाशेनेत्युक्तम् ।
तदुक्तमध्यात्मविवेके—-
अस्ति ब्रह्म चिदानन्दं स्वयञ्ज्योतिर्निरञ्जनम् ।
सर्वशक्तिः च सर्वज्ञं तदंशा जीवसञ्ज्ञकाः ॥
अनाद्यविद्योपहिता यथाग्नेवीस्फुलिङ्गकाः ।
दीर्घाद्युपाधिसम्भिन्नास्ते कर्म्भभिरनादिभिः ॥
सुखदुःखप्रदैः पुण्यपापरूपैर्नियन्त्रिताः ।
तत्तज्जातियुतं देहमायुर्भेगञ्च कर्मजम् ॥
प्रतिजन्म प्रपद्यन्ते ।
इति ॥ ३१ ॥
अथ मात्राहृतैरन्नपानाद्यैः पोषितः क्रमात् ।
दिनात् पक्षात् ततो मासाद् वर्द्धते तत्त्वदेहवान् ॥ ३२ ॥
अथेति ।
अत्र प्रकारो योगार्णवे—-
आविश्य भुक्तमाहारं स वायुः कुरुते द्विधा ।
सम्प्रविश्यान्त्रमध्यस्थं पृथक् किट्टं पृथग् जलम् ॥
अग्नेरूर्द्धं जलं स्थाप्य तदन्नञ्च जलोपरि ।
जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः ॥
वायुना व्यूह्यमानोऽग्निरत्युष्णं कुरुते जलम् ।
अन्नं तदुष्णतोयेन समन्तात् पच्यते पुनः ॥
द्विधा भवति तत् पक्वं पृथक् किट्टं पृथग् रसम् ।
रसेन तेन ता नाडीः प्राणः पूरयते पुनः ॥
प्रतर्पयन्ति सम्पूर्णास्ताश्च देहं समन्ततः ।
मातू रसवहा नाडी मनुविद्धा पराभिधा ॥
नाभिस्थनाडीगर्भस्य मात्राहृतरसावहा ।
इति ।
दिनादिति ।
तदुक्तम्—-
त्रसरेणुद्वयं जन्तुः क्षणमात्रेण वर्द्धते ।
नाडिकामात्रतो यूका युगलञ्च मुहूर्त्ततः ।
यूकानां वेदसङ्ख्यञ्च दिनमात्राद् यवद्वयम् ॥ इति ।
योगार्णवे च—- कललं चैकरात्रेण पञ्चरात्रेण बुद्बुदम् ।
शोणितं दशरात्रेण मांसपेशी चतुर्दशे ॥
घनमांसञ्च विंशाहे पिण्डीभावोपलक्षितम् ।
पञ्चविंशति पूर्णाहे पलं सर्वाङ्कुरायते ॥
एकमासे तु सम्पूर्णे पञ्चभूतानि धारयेत् ।
मासद्वये तु सम्प्राप्ते शिरोमेदः प्रजायते ॥
मज्जास्थि च त्रिभिर्मासैः केशाङ्गुल्यश्चतुर्थके ।
कर्णाक्षिनासिकानाञ्च रन्ध्रं मासे तु पञ्चमे ॥
आस्यरन्ध्रोदरं षष्ठे पायुरन्ध्रञ्च सप्तमे ।
सर्वाङ्गसन्धि सम्पूर्णं मासैरष्टभिरिष्यते ॥ इति ।
अध्यात्मविवेके तु विशेषः—-
द्रवत्वं प्रथमे मासे कललाख्यं प्रजायते ।
द्वितीये तु घनः पिण्डः पेशी षड्घनमर्वुदम् ॥
पुंस्त्रीनपुंसकानां तु प्रायोऽवस्थाः क्रमादिमाः ।
तृतीये त्वङ्कुराः पञ्च कराङ्घिरशिरसो मताः ॥
अङ्गप्रत्यङ्गभागाश्च सूक्ष्माः स्युर्युगपत्तदा ।
विहाय श्मश्रुदन्तादीन् जन्मानन्तरसम्भवान् ॥
एषा प्रकृतिरन्या तु विकृतिः सम्मता सताम् ।
चतुर्थे व्यक्तता तेषां भावानामपि जायते ॥
मातृजञ्चास्य हृदयं विषयानभिकाङ्क्षति ।
अतो मातुर्मनोऽभीष्टं कुर्याद् गर्भविवृद्धये ॥
ताञ्च द्विहृदयां नारीमाहुर्देहदिनीं बुधाः ।
अदानाद्दोहदानां स्युर्गर्भस्य व्यङ्गतादयः ॥
मातुर्यद्विषयालाभस्तदार्त्ते जायते सुतः ।
गर्भः स्यादर्थवान् भोगी दोहदाद् राजदर्शने ॥
अलङ्कारे सुललितो धमीष्ठस्तापसाश्रमे ।
देवतादर्शने भक्तो हिंस्रो भुजगदर्शने ॥
गोधाशने तु निद्रालुर्बली गोमांसभक्षणे ।
माहिषेण तु रक्ताक्षं लोमशं सूयते सुतम् ॥
प्रवृ(बु)द्धं पञ्चमे पिण्डं (त्तं) मांसशोणितपुष्टता ।
षष्ठेऽस्थिस्नायुनखरकेशरोमविविक्तता ॥
बलवर्णौ चोपचितौ सप्तमे त्वङ्गपूर्णता ।
अष्टमे त्वक्श्रुती स्यातामोजश्चेतश्च हृद्भवम् ॥
शुद्धमापीतरक्तञ्च निमित्तं जीविते मतम् ।
पुनरम्बां पुनर्गर्भं चञ्चलं तत् प्रधावति ॥
अतो जातोऽष्टमे मासे न जीवत्योजसोज्झितः ॥ इति ।
याज्ञवल्क्योऽपि—- पुनर्धात्रीं पुनर्गर्भमोजस्तस्य प्रधावति ।
अष्टमे मास्यतो गर्भे जातः प्राणैवीयुज्यते ॥ इति ।
एवं यदा ओजो बाले भवेत्तदा माता न जीवतीति ज्ञेयम् ।
यदा तूभयोर्हृदि तदोजो न स्यात् तदोभयोरपि जीवनं नेति ज्ञेयम् ।
तत्त्वदेहवान् चतुवींशति तत्त्वात्मकशरीरः ।
तत्त्वान्यनन्तरमेव वक्ष्यति ॥ ३२ ॥
दोषैर्दूष्यैः सुखं प्राप्तो व्यक्तिं याति निजेन्द्रियैः ।
वातपित्तकफा दोषा दूष्याः स्युः सप्त धातवः ।
त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि तान् विदुः ॥ ३३ ॥
दोषैरिति ।
सुखं यथा स्यात् तथा दोषैः दूष्यैः प्राप्तः निजेन्द्रियैर्व्यक्तिं याति ।
अनेनाष्टममासपर्यन्तं वृद्धिरुक्ता ।
दोषादीनेवाह वातेति ।
तानिति धातून् ।
एषां पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणता ज्ञेया ।
तदुक्तं सुश्रुते—-
रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।
भवन्त्यन्योन्यतः सर्वे प्रचिताः पित्ततेजसा ॥ इति ।
ननु कथं त्वचोऽसृजं प्रति कारणता इति चेत् सत्यम् ।
त्वगसृजी तु रसत उत्पन्ने ।
तदुक्तम्—- रसः न नाडीमध्यस्थः शारीरेणोष्मणा भृशम् ।
पच्यते पच्यमानाच्च भवेत् पाकद्वयं पुनः ।
चर्मावेष्ट्य समन्ताच्च रुधिरञ्च प्रजायते ॥ इति ।
अन्यत्रापि—- त्वगसृङ्मांसमेदोऽस्थिः मज्जशुक्राणि धातवः ।
सप्त स्युस्तत्र चोक्ता त्वक् रक्तं जाठरवह्निना ॥
पक्वाद्भवेदन्नरसादेवं रक्तादिभिस्तथा ।
स्वस्वकोशाग्निना पक्वैर्जन्यन्ते धातवः क्रमात् ॥ इति ।
नारायणीये तु त्वगित्यादि पठित्वा रसासृगिति पठन्त्येके इत्युक्तम् ॥ ३३ ॥
ज्ञानेन्द्रियाणि श्रोत्रं त्वग् दृग् जिह्वा नासिका विदुः ।
ज्ञानेन्द्रियार्थाः शब्दाद्याः स्मृताः कर्मेन्द्रियाण्यपि ॥ ३४ ॥
वाक्पाणिपादपाय्वन्धुसञ्ज्ञान्याहुर्मनीषिणः ।
वचनादानगतयो विसर्गानन्दसंयुताः ॥ ३५ ॥
कर्मेन्द्रियार्थाः सम्प्रोक्ता अन्तःकरणमात्मनः ।
मनोबुद्धिरहङ्कारश्चित्तञ्च परिकीतीतम् ॥ ३६ ॥
व्यक्तिं याति निजेन्द्रियैरित्युक्तम् ।
तानीन्द्रियाणि तत्प्रसङ्गात्तेषां विषयानप्याह ज्ञानेति ।
अर्थशब्दो विषयवाची उभयत्रापि ।
शब्दाद्याः शब्दस्पर्शरूपरसगन्धाः ।
पूर्वं भूतगुणेषु उक्तेरत्रादिनोक्तिः इत्यवधेयम् ।
अन्धु लिङ्गम् ।
आत्मनः ग्राहकमिति शेषः।
तेन मनसो विषय आत्मा इत्युक्तं भवति ।
अन्तःकरणस्यैव चातुवीध्यमाह मन इत्यादिना ।
तत्र सङ्कल्पविकल्पात्मकं मनः ।
सर्वभावनिश्चयकारिणी बुद्धिः ।
ज्ञात्रभिमानयुक्तोऽहङ्कारः ।
निवीकल्पकं चित्तम् ।
इत्येतेषां भेदः ।
तदुक्तम्—-
एषा शक्तिः परा जीवरूपिणी प्रोक्तलक्षणा ।
सङ्कल्पञ्च विकल्पञ्च कुर्वाणा तु मनो भवेत् ॥
बुद्धिरूपा तथा सर्वभावनिश्चयकारिणी ।
ज्ञात्र्यस्मीत्यभिमानाद्या सैवाहङ्कारसञ्ज्ञिता ॥
निवीकल्पात्मिका सैव खलु चित्तस्वरूपिणी ।
एवमेकैव बहुधा नर्त्तकीव प्रतीयते ॥ इति ॥ ३४-३६ ॥
दशेन्द्रियाणि भूतानि मनसा सह षोडश ।
विकाराः स्युः प्रकृतयः पञ्च भूतान्यहङ्कृतिः ॥ ३७ ॥
अव्यक्तं महदित्यष्टौ तन्मात्राश्च महानपि ।
साहङ्कारा विकृतयः सप्त तत्त्वविदो विदुः ॥ ३८ ॥
एवं पूर्वं भूतानि इन्द्रियाण्यप्युक्त्वा तेषां मिलितानां सञ्ज्ञान्तराण्यप्याह दशेति श्लोकद्वयेन ।
अथवा तत्त्वदेहवानित्युक्तं तानि तत्त्वान्याह दशेति ।
विकारादि सञ्ज्ञास्तत्प्रसङ्गसङ्गत्या उक्ता इति ज्ञेयम् ।
यद्वा सूचीकटाहन्यायेन दोषान् दूष्यानुक्त्वा तत्त्वदेहवानित्युद्दिष्टानि तत्त्वानि ।
तानि कानीत्यपेक्षायामाह ज्ञानेत्यादि ।
कर्मेन्द्रियार्थाः सम्प्रोक्ताः पृथिव्यादय इत्यर्थः ।
तेन पञ्चभूतानि दशेन्द्रियाणि दशेन्द्रियार्था एवं पञ्चविंशतितत्त्वानि ।
यदाहुः—-
भूतेन्द्रियेन्द्रियार्थैरुद्दिष्टस्तत्त्वपञ्चविंशतिकः ।
इति ।
अथच विसर्गानन्दसंयुता इति भिन्नपदकरणेन पायूपस्थयोः विसर्गस्यैव कार्यत्वात्
आनन्दरहितत्वेन चतुवींशतिरेव तत्त्वमुक्तं भवति ।
यदाहुः—-
व्यानन्दकैश्च तैरपि तत्त्वचतुवींशतिस्तथा प्रोक्ता ।
इति ।
मनोबुद्धिरहङ्कारश्चित्तञ्च इत्यनेन वचनादिव्यावर्त्तनेन एतच्चतुष्टययुक्तत्वेन चतुवींशतिर्वा
तत्त्वानि इत्युक्तं भवति ।
यदाहुः—-
करणोपेतैरेतैस्तत्त्वान्युक्तानि रहितवचनाद्यैः ।
इति ।
साङ्ख्यमतोक्तचतुवींशतितत्त्वानि वदन् तेषां कियतामपि तत्प्रसिद्धाः सञ्ज्ञा अप्याह दशेति ।
अनेन दशेन्द्रियाणि पञ्चभूतानि पञ्चतन्मात्राः मनः अहङ्कारः बुद्धिः प्रधानं प्रकृतिरिति
चतुवींशतितत्त्वानि इत्युक्तम् ।
ग्रन्थकृदेव पञ्चमे वक्ष्यति—-
पञ्च भूतानि तन्मात्रा इन्द्रियाणि मनस्तथा ।
गर्वे बुद्धिः प्रधानञ्च मैत्राणीति विदुर्बुधाः ॥ इति ।
विकाराः स्युरित्येषां नित्यकार्यरूपत्वेन विकारता ।
अष्टौ प्रकृतय इति सम्बन्धः ।
उत्तरोत्तरं प्रतिकारणत्वादेषां प्रकृतित्वम् ।
अत्र भूतानीति भूतशब्देन तन्मात्रा उच्यन्ते ।
कारणे कार्येपचारात् ।
भूतानां केवलकार्यत्वेन विकारेषूक्तत्वात् ।
अग्रे तन्मात्रा इति परामर्शाच्च ।
यदाहुः—-
अप्राकृतिकानि सप्त प्रकृतिविकृतिसञ्ज्ञकानि स्युः ।
इति ।
अव्यक्तं प्रधानापरपर्याया प्रकृतिरित्यर्थः ।
अव्यक्तं महदिति ।
छन्दोऽनुरोधाद् गोपनार्थं वा व्यत्ययः ।
साव्यक्तं महदिति वा पाठः ।
यतोऽत्र संहारक्रमो विवक्षितः।
यदाहुः—-चतुवींशतितत्त्वानि प्रकृत्यन्तानि सञ्जगुः ।
इति ।
अन्यत्र सृष्टिक्रमापेक्षयोक्तम् अव्यक्तं महदहङ्कृतिभूतानीति ।
तन्मात्राश्च इति।
साहङ्कार इति तन्मात्रविशेषणं तेन व्यत्ययः ।
चकारेण प्रकृतय इत्यस्य समुच्चयः ।
तेनैते सप्तप्रकृतिविकृतिशब्दवाच्या इत्यर्थः ।
उत्तरोत्तरं प्रति पूर्वपूर्वस्य प्रकृतिभूतत्वात्
पूर्वपूर्वं प्रति उत्तरोत्तरस्य विकृतिभूतत्वादेषां प्रकृतिविकृतित्वम् ।
यदाहुः—- मूलप्रकृति रविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ इति ।
उपसंहरति तत्त्वविदो विदुरिति।
अयमर्थः ।
ज्ञानेन्द्रियाणीत्यादि एतदन्तं यत्तत्त्वनिरूपणं मया कृतं तत् तत्त्वविदामपि सम्मतमिति ।
अथ वा तत्त्वविदो विदुरित्यनेन पूर्वप्रकारत्रयोक्ततत्त्वानि नास्मत्सम्मतानि ।
अपितु एतानि प्रकृत्यन्तान्येव चतुवींशतितत्त्वानि ।
पुरुषान्तानि पञ्चविंशतिः ।
परान्तानि षड्विंशतिः अस्मत्सम्म- तानीत्युक्तं भवति ।
इयं योजना साम्प्रदायिकी ।
तदुक्तं वायवीयसंहितायाम्—-
त्रयोविंशतितत्त्वेभ्यः परा प्रकृतिरुच्यते ।
प्रकृतेस्तु परं प्राहुः पुरुषं पञ्चविंशकम् ॥
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ।
तदधीनप्रवृत्तित्त्वात् प्रकृतेः पुरुषस्य च ॥ इति ।
केचनान्यथा योजयन्ति ।
भूतादिकाहङ्कारसृष्टिमुक्त्वा तैजसादिन्द्रियाण्यासन् इत्युद्दिष्टानीन्द्रियाणि तत्प्रसङ्गात्तेषां विषयानप्याह
ज्ञानेत्यादि परिकीत्तीतमित्यन्तेन ।
उत्तरव्यवहारशेषतया केषाञ्चिन्मन्त्राणां वर्णतत्त्वन्यासयोगादिशेषतया च विकारादि दर्शयति दशेत्यादि ।
तत्त्वविद इदं विदुः ।
एषां तत्रान्तर्भावात् तत्त्वविद्भिरेताः सञ्ज्ञाः कृता इत्यर्थः ॥ ३७-३८ ॥
अग्नीषोमात्मको देहो बिन्दुर्यदुभयात्मकः ।
दक्षिणांशः स्मृतः सूर्ये वामभागो निशाकरः ॥ ३९ ॥
एवं प्रासङ्गिकमुक्त्वा प्रकृतमाह अग्नीति ।
देहः अग्नीषोमात्मकः ।
कुत इत्यपेक्षायां हेतुमाह यद् यस्मात् कारणादुभयात्मको बिन्दुः ।
शुक्रमग्निरूपं रक्तं सोमरूपम् एतदात्मकः ।
यदाहुः—-
कलाषोडशकश्चन्द्रः स्याद् द्वादशकलो रविः ।
कलादशयुतो वह्निः कलाष्टत्रिंशदंशभुक् ॥
सप्त(अष्ट)त्रिंशद् भवन्तीह गर्भाधानस्य हेतवे ।
अग्नीषोमात्मकं तेन गीयते सचराचरम् ॥
कलांशकेन योगेन भूयाद् गर्भस्य सम्भवः ॥ इति ।
एवमप्यग्नीषोमात्मकत्वमित्यर्थः ।
अग्नीषोमात्मको देहः इत्युक्तम् ।
तयोः प्रयोगादिविशेषतया देशविशेषे व्यवहाराय स्थितिमाह दक्षिणांश इति ।
अत्र शास्त्रे दक्षिणभागः क्वचिदग्निशब्देन क्वचित् सूर्यशब्देनापि व्यवह्रियते ।
" अग्नेर्ये दक्षिणो भागः " इत्युक्तेः ।
वायवीयसंहितायामपि—-
द्विधा वै तैजसी वृत्तिः सूर्यात्मा चानलात्मिका ।
इति ॥ ३९ ॥
नाडीर्दश विदुस्तासु मुख्यास्तिस्रः प्रकीत्तीताः ।
इडा वामे तनोर्मध्ये सुषुम्णा पिङ्गला परे ॥ ४० ॥
पूर्वेक्तसूर्यनिशाकरयोः स्थितिमुपपादयितुं शरीरे नाडीराह नाडीरिति ।
तासु अनन्तासु दशनाडीः मुख्या विदुरित्यन्वयः ।
नाड्योऽनन्ता इति वक्ष्यमाणत्वात् ।
तासु दशस्वपि तिस्रो मुख्याः प्रकीत्तीताः ।
तासु मुख्या इति पदस्य चावृत्त्या योजना ।
प्रकीत्तीता इत्यस्योपादानमन्यथा विदुरित्यनेनैव गतार्थत्वात् ।
उक्तञ्च तत्राद्यास्तिस्रः ।
अत्रावृत्तिकरणं मुख्यतमाः स्मृता इति ।
तासामेव स्थितिमाह इडेति ।
तनोरिति त्रिषु स्थानेषु सम्बध्यते ।
वामे इडा वाममुष्कोत्था धनुर्वक्रा सती वामनासापर्यन्तं गतेत्यर्थः।
तनोर्मध्ये पृष्ठवंशान्तर्गता सुषुम्णा ।
" या मुण्डाधारदण्डान्तरविवरगता " इत्युक्तेः ।
परे दक्षिणे दक्षिणमुष्कोत्था धनुर्वक्रा दक्षिणनासापर्यन्तं गतेत्यर्थः ।
यदाहुः—-
या वाममुष्कसम्बद्धा सा श्लिषन्ती सुषुम्णया ।
दक्षिणं बृक्कमाश्रित्य धनुर्वक्रा हृदि स्थिता ॥
वामांशजत्र्वन्तरगा दक्षिणां नासिकामियात् ।
यथा दक्षिणमुष्कोत्था नासाया वामरन्ध्रगा ॥ इति ।
तन्त्रान्तरेऽपि—- सुषुम्णाकल्पिता याता मुष्कं दक्षिणमाश्रिता ।
हृद्गता वामभागस्य जत्रुमध्यं समाश्रिता ॥
दक्षिणं नासिकाद्वारं प्राप्नोति गिरिजात्मजे ।
वाममुष्कसमुद्भूता तथाऽन्या सव्यनासिकाम् ॥ इति ।
अनयोः स्वरूपमुक्तं योगार्णवे—-
इडा च शङ्खकुन्दाभा तस्याः सव्ये व्यवस्थिता ।
पिङ्गला सितरक्ताभा दक्षिणं पार्श्वमाश्रिता ॥ इति ।
अनेन पिङ्गलेडयोः क्रमेण सूर्याचन्द्रमसोः स्थितिरुक्ता भवति ।
" इडायां सञ्चरेच्चन्द्रः पिङ्गलायां दिवाकरः " —-इत्युक्तेः ॥ ४० ॥
मध्या तास्वपि नाडी स्यादग्नीषोमस्वरूपिणी ॥ ४१ ॥
सुषुम्णाया मुख्यत्वं वदन् तत्स्वरूपमाह मध्येति ।
तास्वपीत्यपिशब्दात् मुख्येत्यनुषज्यते ।
तासु तिसृषु मध्या सुषुम्णा मुख्या ।
" सुषुम्णैव च तासु नाडी " इत्युक्तेः ।
सा कीदृशी अग्नीषोमस्वरूपिणी ।
मुख्यत्वे हेतुत्वेन योज्यम् ।
यतः पूर्वेक्तसोमाग्निरूपयोरिडापिङ्गलयोः अत्रैव लयात् ।
तदुक्तं—- " राहोरास्यगतः " इति।
अनेनास्या ब्रह्मरन्ध्रपर्यन्तं स्थितिरित्यप्युक्तम् ।
यदाहुः—-
तयोः पृष्ठवंशमाश्रित्य मध्ये सुषुम्णा स्थिता ब्रह्मरन्ध्रं तु यावत् ।
इति ॥ ४१ ॥
गान्धारी हस्तिजिह्वा च सुपूषालम्बुषा मता ।
यशस्विनी शङ्खिनी च कुहूः स्युः सप्तनाडयः ॥ ४२ ॥
शिष्टानां सप्तानां नामान्याह गान्धारीति ।
आसां स्थितिस्वरूपञ्चोक्तम् योगार्णवे—-
इडापृष्ठे तु गान्धारी मयूरगलसन्निभा ।
सव्यपादादिनेत्रान्ता गान्धारी परिकीत्तीता ॥
हस्तिजिह्वोत्पलप्रख्या नाडी तस्याः पुरःस्थिता ।
सव्यभागस्य मूर्द्धादिपादाङ्गुष्ठान्तमाश्रिता ॥
पूषा तु पिङ्गलापृष्ठे नीलजीमूतसन्निभा ।
याम्यभागस्य नेत्रान्ताद् यावत् पादतलं गता ॥
अलम्बुषा पीतवर्णा कण्ठमध्ये व्यवस्थिता ।
यशस्विनी शङ्खवर्णा पिङ्गलापूर्वदेशगा ॥
गान्धार्याश्च सरस्वत्या मध्यस्था शङ्खिनी मता ।
सुवर्णवर्णा पादादि कर्णान्ता सव्यभागके ॥
पादाङ्गुष्ठादिमूर्द्धान्तं याम्यभागे कुहूर्मता ।
इति ।
अन्यैस्तु वारणा सरस्वती विश्वोदरा पयस्विनी एता अपि मुख्यत्वेनोक्ताः ।
यदाहुः—-
ताश्च भूरितरास्तासु मुख्याः प्रोक्ताश्चतुर्दशः ।
सुषुम्णेडापिङ्गला च कुहूरथ सरस्वती ॥
गान्धारी हस्तिजिह्वा च वारणा च यशस्विनी ।
विश्वोदरा शङ्खिनी च ततः पूषा पयस्विनी ॥
अलम्बुषा ।
इति ।
अन्यत्रापि—-चतुर्दशात्र यद्देहे प्राधाना नाडयः स्मृताः ।
इति ।
आसां ध्यानं संस्थानञ्च ग्रन्थगौरवभयान्नोक्तम् ।
मुख्या इत्यनेनैव सूचिताः ॥ ४२ ॥
नाड्योऽनन्ताः समुत्पन्नाः सुषुम्णापञ्चपर्वसु ।
मूलाधारोद्गतप्राणस्ताभिर्व्याप्नोति तत्तनुम् ॥ ४३ ॥
एवं मुख्या नाडीरुक्त्वा सामान्या आह नाड्य इति ।
सुषुम्णापञ्चपर्वसु अनन्तानाड्यः समुत्पन्नाः ।
पञ्चपर्वाणि स्वाधिष्ठानमणिपूरकानाहतविशुद्धाज्ञान्तानि ।
तत्राधोधोग्रन्थिमारभ्योर्द्धेर्द्धग्रन्थिपर्यन्तं पर्वसमाप्तिः ।
यद्यपि " ग्रन्थिर्ना पर्वपरुषी " इति कोशः " इक्षुपर्वावधिः स्मृतः " इति व्यवहारश्च तथाप्यत्र षण्णां
ग्रन्थीनां सत्त्वादेवं व्याख्यातम् ।
आश्वलायनश्रौतसूत्रभाष्यकारेण " पर्वण्यं जपेत् " इत्यत्र पर्वशब्दस्यैवं व्याकृतत्वात् ।
एतदभिप्रायेणैव वक्ष्यति " मध्वमाङ्गुलिपर्वणि " इति ।
सुषुम्णायामेतेषु पर्वसु इडापिङ्गलयोर्येगो भवतीति ज्ञेयम् ।
अनन्ता इति गणयितुमशक्यत्वादानन्त्यम् ।
यदाहुः—-
पूर्वेक्तायाः सुषुम्णाया मध्यस्थायाः सुलोचने ।
नाभिहृत्कण्ठदेशभ्रू मध्यपर्वसमुद्भवाः ॥
अधोमुख्यः शिराः काश्चित् काश्चिदूर्द्धमुखास्तथा ।
परास्तिर्यग्गतास्याश्च तत्र लक्षत्रयाधिकाः
नाड्योऽर्द्धलक्षसङ्ख्याताः प्रधानाः समुदीरिताः ।
तासु सर्वासु बलवान् प्राणो वायुः समन्ततः ॥
संस्थितः सर्वदा व्याप्तः ।
इति ।
अध्यात्मविवेके तु विशेषः—-
अस्थ्नां शरीरे सङ्ख्या स्यात् षष्टियुतं शतत्रयम् ।
त्रीण्येवास्थिशतान्यत्र धन्वन्तरिरभाषत ॥
द्वे शते त्वस्थिसन्धीनां स्यातामत्र दशोत्तरे ।
पेशीस्नायुशिरासन्धिः सहस्रद्वितयं मतम् ॥
नव स्नायुशतानि स्युः पञ्चपेशीशतान्यपि ।
अधिका विंशतिः स्त्रीणां स्तनयोदीग् भगे दश ॥
शिराधमनिकानान्तु लक्षाणि नवविंशतिः ।
सार्द्धानिस्युर्नवशती षट्पञ्चाशद्युता तथा ॥ इति ।
तन्नाडीनां फलमाह मूलेति ।
वक्ष्यमाणेभ्यो भिन्नो मुख्यो देहधारकप्राणाभिधो वायुः ।
यदाहुः—-
राजसः प्राणसञ्ज्ञस्यान्मुख्यो देहस्य धारकः ।
तद्भेदा दश विख्याता यैर्व्याप्तं स्याच्छरीरकम् ॥ इति ।
सा चासौ तनुश्च ताम् पूर्वेक्तं शरीरम् ॥ ४३ ॥
वायवोऽत्र दश प्रोक्ता वह्नयश्च दश स्मृताः ।
प्राणाद्या मरुतः पञ्च नागः कूर्मे धनञ्जयः ॥ ४४ ॥
कृकलः स्याद् देवदत्त इति नामभिरीरिताः ।
अग्नयो दोषदूष्येषु संलीना दश देहिनः ॥ ४५ ॥
तद्भेदान् वदन् प्रसङ्गादग्नीनप्याह—-वायवोऽत्रेति ।
तन्नामान्येवाह प्राणाद्या इति ।
आदिशब्देनापानव्यानोदानसमानाः प्रसिद्धत्वेनादिनोक्तिः ।
तत्र विशेषो योगार्णवे—-
इन्द्रनीलप्रतीकाशं प्राणरूपं प्रकीत्तीतम् ।
आस्यनासिकयोर्मध्ये हृन्मध्ये नाभिमध्यगे ॥
प्राणालय इति प्राहुः पादाङ्गुष्ठेऽपि केचन ।
अपानयत्यपानोऽयमाहारञ्च मलायितम् ॥
शुक्रं मूत्रं तथोत्सर्गमपानस्तेन मारुतः ।
इन्द्रगोपप्रतीकाशः सन्ध्याजलदसन्निभः ॥
स च मेढ्रे च पायौ च ऊरुवङ्क्षणजानुषु ।
जङ्घोदरे कृकाट्याञ्च नाभिमूले च तिष्ठति ॥
व्यानो व्यानशयत्यन्नं सर्वव्याधिप्रकोपनः ।
महारजतसुप्रख्यो हानोपादानकारकः ॥
स चाक्षिकर्णयोर्मध्ये काट्यां वै गुल्फयोरपि ।
घ्राणे गले स्फिगुद्देशे तिष्ठत्यत्र निरन्तरम् ॥
स्पन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपनः ।
उद्वेजयति मर्माणि उदानो नाम मारुतः ॥
विद्युत्पावकवर्णः स्यादुत्थानासनकारकः ।
पादयोर्हस्तयोश्चापि स तु सन्धिषु वर्त्तते ॥
पीतं भक्षितमाघातं रक्तपित्तकफानिलान् ।
समं नयति गात्राणि समानो नाम मारुतः ॥
गोक्षीरसदृशाकारः सर्वदेहे व्यवस्थितः ।
उद्गारे नाग इत्युक्तो नीलजीमूतसन्निभः ॥
उन्मीलने स्थितः कूर्म्मा भिन्नाञ्जनसमप्रभः ।
कृकरस्तु क्षुते चैव जवाकुसुमसन्निभः ॥
विजृम्भने देवदत्तः शुद्धस्फटिकसन्निभः ।
धनञ्जयस्तथा घोषे महारजतवर्णकः ॥
ललाटे चोरसि स्कन्धे हृदि नाभौ त्वगस्थिषु ।
नागाद्या वायवः पञ्च सहैव परिनिष्ठिताः ॥ इति ।
आचार्यास्तुधनञ्जयाख्यो देहेऽस्मिन् कुर्यात् बहुविधान् रवान् ।
स तु लौकिकवायुत्वान्मृतञ्च न विमुञ्चति ॥ इति ।
अन्यैस्तु चत्वारो वायवोऽधिका उक्ताः ।
वैरम्भणः स्थानमुख्यः प्रद्योतः प्रकृतस्तथा ।
वैरम्भणादयस्तत्र सर्ववायुवशङ्गताः ॥ इति
अग्नीनां स्थितिमाह अग्नय इति ।
तेषां नामान्यन्यत्रोक्तानि—-
ते जातवेदसः सर्वे कल्माषः कुसुमस्तथा ।
दहनः शोषणश्चैव तपनश्च महाबलः ॥
पिठरः पतगः स्वर्णस्त्वगाधो भ्राज एव च ।
इति ।
अन्यत्र तु नामान्तराण्युक्तानि—-
जृम्भको दीपकश्चैव विभ्रमभ्रमशोभनाः ।
आवस्थ्याहवनीयौ च दक्षिणाग्निस्तथैव च ॥
अन्वाहार्ये गार्हपत्य इत्येते दश वह्नयः ।
इति ।
अन्यैरन्यथोक्तानि—- भ्राजको रञ्जकश्चैव क्लेदकः स्नेहकस्तथा ।
धारको रन्धकश्चैव द्रावकाख्यश्च सप्तमः ॥
व्यापकः पावकश्चैव श्लेष्मको दशमः स्मृतः ।
इति ।
दोषा वातपित्तकफाः ।
दूष्याः सप्त धातव इति प्रागेवोक्तम् ॥ ४४-४५ ॥
बुभुक्षा च पिपासा च प्राणस्य मनसः स्मृतौ ।
शोकमोहौ शरीरस्य जरामृत्यू षडूर्मयः ॥ ४६ ॥
एवं प्राणमुक्त्वा तस्य विशिष्टे अवस्थे वदन् प्रसङ्गात् मनःशरीरयोरप्याह बुभुक्षेति ।
ऊमीर्नाम आर्त्त्युत्पादकः अवस्थाविशेषः ॥ ४६ ॥
स्नाय्वस्थिमज्जा शुक्रात् त्वङ्मांसास्राणि शोणितात् ।
षाट्कौशिकमिदं प्रोक्तं सर्वदेहेषु देहिनाम् ॥ ४७ ॥
षडूमीप्रसङ्गात् षाट्कौशिकं वदन् शुक्रशोणितकार्याणि विविच्याचष्टे स्नाय्विति।
शुक्रात् पितुः शुक्रात् स्नाय्वादि ।
शोणितात् मातुः शोणितात् त्वगादि ।
तदुक्तम्—- मातृतस्त्रीणि पितृतस्त्रीणि ।
इति ।
अन्यत्र तु—- मृदवः शोणितं मेदो-मांसं-प्लीहा-यकृद्-गुदः ।
हृन्नाभीत्येवमाद्यास्तु भावा मातृभवा मताः ॥
श्मश्रुलोमकचाः स्नायुशिराधमनयोनखाः ।
दशनाः शुक्रमित्यादि स्थिराः पितृसमुद्भवाः ॥ इति ॥ ४७ ॥
इत्थम्भूतस्तदा गर्भे पूर्वजन्मशुभाशुभम् ।
स्मरंस्तिष्ठति दुःखात्मा च्छन्नदेहो जरायुणा ॥ ४८ ॥
गर्भाशये तत्स्थिति प्रकारमाह इत्थम्भूत इति ।
इत्थम्भूत ऊर्वन्तरितहस्तबद्धश्रोत्रः मातृपृष्ठमाश्रितो मोक्षोपायमभिध्यायन्नित्यर्थः ।
यदाहुः—-
पाल्यन्तरितहस्ताभ्यां श्रोत्ररन्ध्रे पिधाय सः ।
उद्विग्नो गर्भसंवासादास्ते गर्भे भयान्वितः ॥
स्मरन् पूर्वानुभूताः स नानायोनीश्च यातनाः ।
मोक्षोपायमभिध्यायन् वर्त्ततेऽभ्यासतत्परः ॥ इति ।
अन्यत्र विशेषः—- कृताञ्जलिर्ललाटेऽसौ मातृपृष्ठमभिश्रितः ।
अध्यास्ते सङ्कुचद्गात्रो गर्भे दक्षिणपार्श्वगः ॥
वामपार्श्वाश्रिता नारी क्लीबं मध्याश्रितं मतम् ।
इति ॥ ४८॥
कालक्रमेण स शिशुर्मातरं क्लेशयन्नपि ।
सम्पिण्डितशरीरोऽथ जायतेऽयमवाङ्मुखः ॥ ४९ ॥
क्षणं तिष्ठति निश्चेष्टो भीत्या रोदितुमिच्छति ॥ ५० ॥
कालक्रमेणेति ।
कालक्रममाह याज्ञवल्क्याः—- " नवमे दशमे वापि " इति ।
अन्यत्रापि—-समयः प्रसवस्याथ मासेषु नवमादिषु ।
इति ।
सम्पिण्डितशरीरः सङ्कुचद्गात्रः अवाङ्मुखः अधोमुखः सन् जायते उत्पद्यते।
सूतिमारुतैर्नून्न इति शेषः ।
यदाहुः—-
नवमे दशमे मासि प्रबलैः सूतिमारुतैः ।
निःसार्यते वाण इव जन्तुश्छिद्रेण सज्वरः ॥ इति ।
अन्यत्रापि—- क्रियतेऽधःशिराः सूतिमारुतैः प्रबलैस्ततः ।
निःसार्यते रुजद्गात्रो योनिच्छिद्रेण बालकः ॥ इति ।
क्षणं निश्चेष्टस्तिष्ठति भूमाविति शेषः ॥ ४९-५० ॥
ततश्चैतन्यरूपा सा सर्वगा विश्वरूपिणी ।
शिवसन्निधिमासाद्य नित्यानन्दगुणोदया ॥ ५१ ॥
एवं शरीरोत्पत्तिपर्यन्तामर्थसृष्टिमुक्त्वा " तत् प्राप्य " (१। १४) इति सामान्यत उक्तां शब्दसृष्टिं विविच्य
वक्तुं भीत्या रोदितुमिच्छति इत्युक्तरोदनस्याप्यव्यक्त- वर्णात्मकत्वाद् वर्णेत्पत्तिप्रकारञ्च वदन्
सर्वमन्त्राणां सामान्यतः कुण्डलीत उत्पत्तिमाह तत इत्यादि ।
तदुक्तम्—-
मूलाधारात् प्रथममुदितो यस्तु भावः पराख्यः
पश्चात् पश्यन्त्यथ हृदयगो बुद्धियुङ्मध्यमाख्यः ।
वक्त्रे वैखर्यथ रुरुदिषोरस्य जन्तोः सुषुम्णा
बद्धस्तस्माद्भवति पवनप्रेरितो वर्णसङ्घः ॥
स्रोतोमार्गस्याविभक्तत्वहेतोस्तत्रार्णानां जायते न प्रकाशः ।
इति ।
तत्र ततः शरीरोत्पत्त्यनन्तरं चैतन्यरूपा, अतएव शब्दब्रह्ममयी सा देवी कुण्डली परदेवता
सर्वगात्रेण गुणिता, अतएव विश्वात्मना सर्वात्मना प्रबुद्धा जातप्रबोधा मन्त्रमयं जगत् सूते
इति दूरेण सम्बन्धः ।
तत्र मूलाधारे कुण्डलीभूत- सर्पवन्नाडी वर्त्तते।
तन्मध्ये वायुवशादस्याः सञ्चरणमेव गुणनम् ।
तत्र चैतन्यरूपा इति स्वरूपाख्यानम् ।
सा प्रसिद्धाः ।
सर्वगेति सामान्यतो व्याप्तिर्दशीता ।
विश्वरूपिणीति विषयव्याप्तिः ।
शिवसन्निधिमासाद्य स्थितेति शेषः ।
अनेन शैवसिद्धान्ते शक्ति- शब्दवाच्येयमित्युक्तम् ।
सन्निधिशब्द औपचारिकः।
तन्मते शिवशक्त्योरभेदात् ।
तदुक्तमभिनवगुप्तपादाचार्यैः-
शक्तिश्च शक्तिमद्रूपाद् व्यतिरेकं न वाञ्छति ।
तादात्म्यमनयोर्नित्यं वह्निदाहिकयोरिव ॥ इति ।
यद्वा सम्यङ्निधिः स्वरूपं शिवस्वरूपं प्राप्य इत्यर्थः ।
वक्ष्यति च—- " पिण्डं भवेत् कुण्डलिनी शिवात्मा " इति ।
गुणानां सत्त्वरजस्तमसाम् उदयो यस्यां सा ।
नित्यानन्दा चासौ गुणोदया च सा ।
नित्यानन्देत्यनेन कुण्डलिनीस्वरूपमुक्तम् ।
गुणोदयेत्यनेन साङ्ख्यमते प्रकृतिवाच्येत्युक्तम् ।
यदाहुः—-
प्रधानमिति यामाहुर्याशक्तिरिति कथ्यते ।
इति ॥ ५१ ॥
दिक्कालाद्यनवच्छिन्ना सर्वदेहानुगा शुभा ।
परापरविभागेन परशक्तिरियं स्मृता ॥ ५२ ॥
योगिनां हृदयाम्भोजे नृत्यन्ती नित्यमञ्जसा ।
आधारे सर्वभूतानां स्फुरन्ती विद्युदाकृतिः ॥ ५३ ॥
शङ्खावर्त्तक्रमाद् देवी सर्वमावृत्य तिष्ठति ।
कुण्डलीभूतसर्पाणामङ्गश्रियमुपेयुषी ॥ ५४ ॥
सर्वदेवमयी देवी सर्वमन्त्रमयी शिवा ।
सर्वतत्त्वमयी साक्षात् सूक्ष्मात् सूक्ष्मतरा विभुः ॥ ५५ ॥
इदानीमाध्यात्माधिभूताधिगुणाधिविषयाधिज्यौतिषक्रमेण तस्या व्याप्तिमाहदि- क्कालेति ।
सर्वदेहानुगेति देहव्याप्तिः ।
परापरविभागः ।
काचन परशक्तिः तद्विभागेनापि इयं परशक्तिरेव ।
यदाहुः—-
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ इति
यद्वा परः स्थूलः अपरो महास्थूलः महदादिः तद्विभागेन परशक्तिः स्थूला शक्तिः।
" स्थूलात् स्थूला " इत्युक्तेः ।
अनेन महदादिव्याप्तिः ।
यद्वा सर्वदेहानुगेत्यनेन शब्दतोऽर्थतश्च पुंस्त्रीनपुंसकलिङ्गव्याप्तिर्दशीता ।
शब्दतो यथा शिव इत्युच्यते कुण्डलिनीत्युच्यते प्रधानमित्युच्यते ।
एवम्भूतापि सा स्त्रीत्वेनैव निदीश्यते इत्याह परापरेति ।
परा प्रकृतिः अपरं पुन्नपुंसकप्रकृतिः तद्विभागेन तत्त्यागेन इयं परशक्तिः स्मृता ।
अयमर्थः ।
यद्यपि लिङ्गत्रयवाच्या तथापि तूर्णमेवाचलभक्तिभारपरिश्रान्त- भक्तजनसमस्ताकाङ्क्षाकल्पवल्ली
परशक्तिशब्दवाच्येति ।
अत एव शुभा रमणीया ।
यदाहुराचार्याः—-
पुन्नपुंसकयोस्तुल्याऽप्यङ्गनासु विशिष्यते ।
इति ।
नित्यक्लिन्नाम्नायेऽपि—-
सर्वत्रापि स्थिता ह्येषा कामिनीषु विशेषतः ।
प्रकाशते ततस्तासामतिवृत्तिं न कारयेत् ॥ इति ।
अञ्जसा तत्त्वेन ।
योगिनां हृदयाम्भोजे नृत्यन्ती नित्यमित्यनेन तैरेव गुरूपदेशेन ज्ञायत इत्यर्थः ।
" दृश्या देशिकदेशितैः " इत्युक्तेः ।
सर्वभूतानां सर्वजन्तूनाम् आधारे मूलाधारचक्रे स्फुरन्तीत्यनेन स्थाननिर्देशः ।
विद्युदाकृतिरित्यनेन ध्यानमुक्तम् ।
यदाहुः—- तडित्कोटिप्रख्यां स्वरुचिजितकालानलरुचिम् ।
इति ।
अथवा अनेनानेकशब्दोत्पत्तिहेतुत्वेनानेकविलासवतीत्युक्तम् ।
शङ्खमध्ये य आवर्त्तः स यशा शङ्खमावृत्य तिष्ठति तद्वदियमपि देवीत्यर्थः ।
इदमवान्तरवाक्यं भिन्नमेव ।
शङ्खेति कुण्डलीत्यनयोः हेतुहेतुमद्भावेन योजना ।
कुण्डलीभूताः कुण्डलाकारतां प्राप्ता ये सर्पास्तेषाम् ।
केचन कुण्डलीति भिन्नं पदं वर्णयन्ति ।
भूतानि सर्पाश्च एते तथा कुटिलगतयः तद्वदियमपीत्यर्थ इति ।
तन्न ।
कुण्डली परदेवतेत्यनेन पुनरुक्तेः ।
सर्वदेवमयीति देवव्याप्तिः ।
दिव्यतीति देवी तेजोरूपेत्यर्थः।
अनेन तेजोव्याप्तिः ।
सर्वमन्त्रमयीति मन्त्रव्याप्तिः ।
शिवा शिवरूपेत्यर्थः ।
यद्वा शिवा कल्याणरूपा ।
अनेन कल्याणव्याप्तिः ।
साक्षात् सर्वतत्त्वमयीति तत्त्वव्याप्तिः ।
सूक्ष्मात् सूक्ष्मतरा विभुः इति विरोध परिहारस्तु सूक्ष्मतरा दुर्ज्ञाना ।
यद्वा सूक्ष्मात् त्रसरेणोरपि सूक्ष्मतरा अन्तःस्थितत्वात् सूक्ष्मतरा अणुतरा ।
अनेन अण्वादिव्याप्तिर्दशीता ।
तदुक्तम्—-
बालाग्रस्य सहस्रधा विदलितस्यैकेन भागेन या
सूक्ष्मत्वात् सदृशी त्रिलोकजननी ।
इति ।
विभुः इयत्तया ज्ञातुमशक्या ॥ ५२-५५ ॥
त्रिधामजननी देवी शब्दब्रह्मस्वरूपिणी ।
द्विचत्वारिंशद्वर्णात्मा पञ्चाशद्वर्णरूपिणी ॥ ५६ ॥
गुणिता सर्वगात्रेषु कुण्डली परदेवता ।
विश्वात्मना प्रबुद्वा सा सूते मन्त्रमयं जगत् ॥ ५७ ॥
त्रिधामेति सोमसूर्याग्निरूपम् ।
यद्वा त्रिधामेति स्थानत्रयम् ।
पातालभूस्वर्ग- रूपम् ।
अनेन स्थानव्याप्तिर्दशीता ।
द्विचत्वारिंशद्वर्णात्मेति भूतलिपिमन्त्रमयी ।
पञ्चाशद्वर्णरूपिणीति मातृकामयी ॥ ५६-५७ ॥
एकधा गुणिता शक्तिः सर्वविश्वप्रवत्तीनी ।
वेदादिबीजं श्रीबीजं शक्तिबीजं मनोभवम् ॥ ५८ ॥
प्रासादं तुम्बुरुं पिण्डं चिन्तारत्नं गणेश्वरम् ।
मार्त्तण्डभैरवं दौर्गं नारसिंहवराहजम् ॥ ५९ ॥
वासुदेवं हयग्रीवं बीजं श्रीपुरुषोत्तमम् ।
अन्यान्यपि च बीजानि तदोत्पादयति ध्रुवम् ॥ ६० ॥
एवं सामान्यत उत्पत्तिमुक्त्वा एकद्वयादिविशेषाकारेण शब्दसृष्टिं वदन् प्रसङ्गादन्तरं
तज्जगच्छब्दसूचितामर्थसृष्टिमप्यभिधातुमुपक्रमते एकधेति ।
सर्वं विश्वं शब्दार्थरूपं तत्प्रवत्तीनी तदुत्पादिका शक्तिः ।
एकधा गुणिता वेदादिबीजमुत्पादयतीति सम्बन्धः ।
एवमग्रेऽपि बोद्धव्यम् ।
वेदादिबीजं प्रणवम् अन्त्ये वक्ष्यति ।
श्रीबीजम् अष्टमे ।
शक्तिबीजं नवमे।
मनोभवं सप्तदशे।
प्रासादम् अष्टादशे ।
तुम्बुरुमेकोनविंशे।
पिण्डमुपान्त्ये ।
चिन्तारत्नमेकोनविंशे ।
गणेश्वरं त्रयोदशे ।
मार्त्तण्डभैरवं चतुर्दशे ।
दौर्गम् एकादशे ।
नारसिंहं षोडशे ।
वाराहं पञ्चदशे ।
वासुदेवं ग्लौम् ।
इदं गोपाल- बीजत्वेनोद्धृतम् ।
तद्वासुदेवशब्देनोक्तम् ।
तत् सप्तदशे ।
नारदपञ्चरात्रोक्तं वियन्मात्रं वासुदेवबीजं वा ।
हयग्रीवं पञ्चदशे ।
श्रीपुरुषोत्तममिति श्रीयुक्तपुरुषोत्तममित्युक्तत्वात् शक्तिशक्तिमतोरभेदात् पुरुषोत्तमशक्तिबीजं
श्रीपुरुषोत्तमबीजशब्देनोक्तम् ।
तत् सप्तदशे ।
अत्र कामबीजमेव पुरुषोत्तमबीजत्वेनोक्तम् ।
यदाहुः—- धरयालिङ्गितो ब्रह्मा मायाबिन्दुविभूषितः ।
पुरुषोत्तमसञ्ज्ञोऽत्र देवो मन्मथविग्रहः ॥ इति ।
अन्यान्यपीति चन्द्रबीजबिम्बबीजादीनि ॥ ५८-६० ॥
यदा भवति सा संवित् द्विगुणीकृतविग्रहा ।
हंसवर्णौ परात्मानौ शब्दार्थौ वासरक्षपे ॥ ६१ ॥
सृजत्येषा परा देवी तदा प्रकृतिपुरुषौ ।
यद्यदन्यज्जगत्यस्यां युग्मं तत्तदजायत ॥ ६२ ॥
त्रिगुणीकृतसर्वाङ्गी चिद्रूपा शिवगेहिनी ।
प्रसूते त्रैपुरं मन्त्रं मन्त्रं त्रैपुटं चण्डनायकम् ॥ ६३ ॥
सौरं मृत्युञ्जयं शक्तिसम्भवं विनतासुतम् ।
वागीशीत्र्यक्षरं मन्त्रं नीलकण्ठं विषापहम् ॥ ६४ ॥
हंसवर्णौ चतुर्दशे ।
परात्मानौ वर्णाविति सम्बध्यते ।
परमात्मवाचकावित्यर्थः ।
तौ सोहंरूपावन्त्ये ।
प्रकृतिपुरुषाविति ।
यद्यपि पुरुषोऽनादिस्तथापि मायाशबलि- तत्वेनात्र प्रादुर्भाव उपचारात् ।
अन्यद्युग्मं यद्जगति अस्याः सकाशादजायतेति सम्बन्धः ।
तच्च ज्योतिर्मन्त्रादि ।
त्रैपुरं मन्त्रद्वयं द्वादशे ।
शक्तिविनायकं त्रयोदशे ।
यद्यप्यग्रे नवाक्षरयोगाद् द्वादशाक्षरस्तथापि बीजत्रयात्मकत्वं त्रयाणां बीजरूपत्वेन प्राधान्यात् ।
ह्री� श्री� ह्री� इति तन्त्रान्तरोक्तो वा ।
पाशाद्यं नवमे ।
त्र्यक्षरमिति त्रिकण्टकीद्वयं दशमे ।
विशेषणविशेष्यभावो वा ।
त्रैपुटं दशमे ।
चण्डनायकं चण्डेश्वरं विंशे ।
सौरं चतुर्दशे ।
मृत्युञ्जयमष्टादशे ।
शक्तिसम्भवं मन्त्रद्वयं नवमे ।
शाक्तं शाम्भवमिति पाठे शाम्भवं तन्त्रान्तरोक्तं प्रणवमायाबीजप्रासादात्मकम् ।
विनतासुतं क्षिप ॐ इति तन्त्रान्तरोक्तम् ।
वागीशीत्र्यक्षरं सप्तमे ।
वागीशमिति पाठे त्र्यक्षरमिति नवमस्थं शाक्तमेकम् ।
विषापहं नीलकण्ठमेकोनविंशे ॥ ६१-६४ ॥
यन्त्रं त्रिगुणितं देव्या लोकत्रयं गुणत्रयम् ।
धामत्रयं सा वेदानां त्रयं वर्णत्रयं शुभम् ॥ ६५ ॥
त्रिपुष्करं स्वरान् देवी ब्रह्मादीनां त्रयं त्रयम् ।
वह्नेः कालत्रयं शक्तित्रयं वृत्तित्रयं महत् ।
नाडीत्रयं त्रिवर्गं सा यद्यदन्यत् त्रिधा मतम् ॥ ६६ ॥
यन्त्रं नवमे ।
गुणत्रयं धामत्रयं चतुर्थे ।
यद्यप्यथर्ववेदोऽस्ति तथापि होत्र- ध्वर्यूद्गातृरूपपदार्थत्रयेण यज्ञनिष्पादनात् वेदत्रयमित्युक्तम् ।
श्रुतिरपि—- " सैषा त्रयी विद्या यज्ञे " इति ।
वर्णत्रयं प्रणवस्य अकारोकारमकाराः ।
त्रिपुष्करं तीर्थत्रयम् ।
तस्य ज्येष्ठमध्यमकनीयस्त्वेन त्रित्वम् ।
स्वरान् उदात्तानुदात्तस्वरितान् ।
देव्यः गायत्री- सरस्वतीसावित्र्यः ।
ब्रह्मादीनां ब्रह्मविष्णुमहेश्वराणां त्रयं नवमे ।
देवीति भिन्ने पदे कुण्डलीविशेषणम् ।
वह्नेस्त्रयं दक्षिणाग्निगार्हपत्याहवनीयम् ।
कालत्रयम् अतीत- वर्त्तमानभविष्यद्रूपम्, प्रातर्मध्याह्नसायङ्कालरूपं वा ।
शक्तित्रयं रौद्रीज्येष्ठावामात्मकं तदाद्ये ।
प्रभावोत्साहमन्त्ररूपं वा ।
वृत्तित्रयं यजनाध्यापनप्रतिग्रहरूपम् ।
" त्रीणि कर्माणि जीविकेति " स्मरणात् ।
कृषिपाशुपाल्यवाणिज्यं वा वृत्तित्रयम् ।
महदिति पाठे नाडीत्रयस्य विशेषणत्वेन महदिति योज्यम् ।
नाडीत्रयम् इडापिङ्गलासुषुम्णा- रूपमाद्ये ।
त्रिवर्गं धर्मार्थकामाः ।
" त्रिवर्गी धर्मकामार्थैः " इत्युक्तेः ।
अन्यदिति दोषत्रयादि ॥ ६५-६६ ॥
चतुः प्रकारगुणिता शाम्भवी शर्मदायिणी ।
तदानीं पद्मिनीबन्धोः करोति चतुरक्षरम् ॥ ६७ ॥
चतुरर्णं महादेव्या देवीतत्त्वचतुष्टयम् ।
चतुरः सागरानन्तःकरणानां चतुष्टय ॥ ६८ ॥
पद्मिनीबन्धोरिति ।
तन्त्रान्तरोक्तः प्रणवमायाहंसवर्णात्मकः ।
महादेव्या महा- लक्ष्म्या अष्टमे ।
देवीतत्त्वचतुष्टयम् आत्मतत्त्वं विद्यातत्त्वं शिवतत्त्वं सर्वतत्त्वञ्चेति।
चतुरः सागरानिति ।
प्रागादिदिगपेक्षया चतुष्ट्यं वस्तुतस्तस्यैकत्वात् ।
अन्तःकरणानि मनोबुद्ध्यहङ्कारचित्तरूपाणि ॥ ६७-६८ ॥
सूक्ष्मादींश्चतुरो भावान् विष्णोर्मूत्तीचतुष्टयम् ।
चतुष्टयं गणेशानामात्मादीनां चतुष्टयम् ॥ ६९ ॥
ओजापूकादिकं पीठं धर्मादीनां चतुष्टयम् ।
दमकादीन् गजान् देवी यद्यदन्यच्चतुष्टयम् ॥ ७० ॥
सूक्ष्मादीनिति आद्ये—-सूक्ष्मा परा ।
आदिशब्देन पश्यन्तीमध्यमावैखर्यः ।
तदुक्तम्—- वैखरी मध्यमा चैव पश्यन्ती चापि सूक्ष्मया ।
व्युत्क्रमेण भवन्त्येताः कुण्डलिन्यादितः क्रमात् ॥ इति ।
भावान् अवस्थाविशेषान् जाग्रत्स्वप्नसुषुप्तितुरीयान् ।
विशेषणविशेष्यभावो वा ।
विष्णुमूत्तीरष्टमे ।
गणेशानामिति त्रयोदशे ।
आत्मादीनामिति चतुर्थे ।
पीठमिति ओडडीयानजालन्धरपूर्णगिरिकामरूपाणि ।
धर्मादीनामिति चतुर्थे ।
अधर्मादीनामप्युप- लक्षकम् ।
धर्मार्थादीनां वा तदाद्ये ।
गजान् इत्यष्टमे ।
अन्यदिति सिद्धादिमण्डलदीक्षा हेरम्बमन्त्र देवीदूतीबीजादि ॥ ६९-७० ॥
पञ्चधा गुणिता पत्नी शम्भोः सर्वार्थदायिनी ।
त्रिपुरापञ्चकूटं सा तस्याः पञ्चाक्षरद्वयम् ॥ ७१ ॥
पञ्चरत्नं महादेव्याः सर्वकामफलप्रदम् ।
पञ्चाक्षरं महेशस्य पञ्चवर्णं गरुत्मतः ॥ ७२ ॥
सम्मोहनान् पञ्च कामान् बाणान् पञ्च सुरद्रुमान् ।
पञ्च प्राणादिकान् वायून् पञ्च वर्णान् महेशितुः ॥ ७३ ॥
मूर्त्तीः पञ्च कलाः पञ्च पञ्च ब्रह्मऋचः क्रमात् ।
सृजत्येषा पराशक्तिर्वेदवेदार्थरूपिणी ॥ ७४ ॥
पञ्चधेति ।
क्रमात् पञ्चकूटादिकम् एषा सृजतीति ।
क्रमस्तु वक्ष्यमाणः शक्तिध्वन्यादिकः ।
एवमग्रेऽपि षट्क्रमादिति पदानि शब्दसृष्टौ संयोज्य अयमेवार्थ- स्तेषां व्याख्येयः ।
पञ्चकूटमिति ।
ह स क ल र एते पञ्चवर्णाः एकीकृताः कूट शब्देनोच्यन्ते ।
तस्याः पञ्चाक्षरद्वयमिति ।
एकः पञ्चकामैरपरे वाणबीजैरेतानि द्वादशे।
तदुक्तं दक्षिणामूत्तीसंहितायाम्—-
त्रिपुरेशी मन्त्रमध्ये वाणाः प्रोक्ता महेश्वरिः ।
तैरेव पञ्चभिर्वाणैवीद्या पञ्चाक्षरी भवेत् ॥
पूर्वेक्तपञ्चकामैस्तु पञ्चकामेश्वरी भवेत् ।
इति ।
पञ्चरत्नमिति ।
ग्लुं स्लुं म्लुं प्लुं न्लुम् इति मन्त्रपञ्चकं तन्त्रान्तरोक्तम् ।
सिद्धाद्या विजया श्यामा वाराही सुन्दरीत्यपि ।
इति ।
महेशस्येत्यष्टादशे ।
गरुत्मत इति चतुवींशे ।
समोहनानिति बहुवचनमाद्यर्थं समोहनादीन् ।
कामान् वाणान् द्वादशे ।
सुरद्रुमान् मन्दारपारिजातसन्तानकल्प-
द्रुमहरिचन्दनान् ।
वायून् आद्ये ।
वर्णान् शुक्लादीन् तृतीये ।
महेशितुरिति
अग्रिमेण सम्बध्यते ।
मूर्त्तीरष्टादशे ।
कला निवृत्त्याद्या आद्ये ।
ब्रह्मऋच ईशानाद्या अष्टादशे ।
अन्यदिति ज्ञेयम् ।
तच्च भूतप्रणवभेदादित्यमूत्तीपञ्चगव्यादि धत्ते विधत्ते करोतीत्यर्थः ॥ ७१-७४ ॥
षोढा सा गुणिता देवी धत्ते मन्त्रं षडक्षरम् ।
षट्कूटं त्रिपुरामन्त्रं गाणपत्यं षडक्षरम् ॥ ७५ ॥
षडक्षरं हिमरुचेर्नारसिंहं षडक्षरम् ।
ऋतून् वसन्तमुख्यान् षडामोदादीन् गणाधिपान् ॥ ७६ ॥
कोशानूर्मीन् रसान् शक्तीः शाकिन्याद्याः षडध्वनः।
यन्त्रं षड्गुणितं शक्तेः षडाधारानजीजनत् ।
षड्विधं यज्जगत्यस्मिन् सर्वं तत् परमेश्वरी ॥ ७७ ॥
षडक्षरं राममन्त्रं पञ्चदशे ।
षट्कूटमिति त्रिपुरार्णवोक्तम् ।
षट्कूटं मध्यबीजम्।
तदुक्तम्—-
कान्तान्तवान्ताकुललान्तवाम नेत्रान्वितं दण्डिकुलं सनादम् ।
षट्कूटमेतत् त्रिपुरार्णवोक्तमत्यन्तगुह्यं स्मर एव साक्षात् ॥ इति ।
गाणपत्यं तन्त्रान्तरोक्तं चतुर्थ्यन्तं वक्रतुण्डं वर्मान्तम् ।
षडक्षरं शैवमष्टादशे ।
षडक्षरं कृष्णमन्त्रं सप्तदशे ।
विशेषणविशेष्यभावो वा ।
हिमरुचेः षडक्षरं चतुर्दशे ।
नारसिंहं षोडशे ।
षडक्षरं पाशुपतास्त्रं विंशे ।
विशेषणविशेष्य भावो वा ।
ऋतूनिति त्रयोविंशे ।
आमोदादीनिति त्रयोदशे ।
कोशानूर्मीनाद्ये ।
रसान् मधुरादीन् ।
शक्तीरामो- दादीनां त्रयोदशे ।
शाकिन्याद्या इति विंशे ।
शक्तिः शाकिन्याद्या इति विशेषण- विशेष्यभावो वा ।
षडध्वनः पञ्चमे ।
यन्त्रं नवमे ।
आधारान् पञ्चमे ।
जगति यत् सर्वं षड्विधं षडङ्गसीतामन्त्रषट्कर्मासनादि ॥ ७५-७७ ॥
सप्तधा गुणिता नित्या शङ्करार्धशरीरिणी ।
सप्तार्णं त्रिपुरामन्त्रं सप्तवर्णं विनायकम् ॥ ७८ ॥
सप्तकं व्याहृतीनां सा सप्तवर्णं सुदर्शनम् ।
लोकान् गिरी स्वरा धातू मुनी द्वीपा ग्रहानपि ॥७९॥
समिधः सप्त सङ्ख्याता सप्त जिह्वा हविर्भुजः ।
अन्यत् सप्तविधं यद्यत् तदस्याः समजायत ॥ ८० ॥
सप्तार्णमिति ।
सप्तवर्णं पद्मावतीमन्त्रं दशमे ।
त्रिपुरामन्त्रमिति मायाबीजा- द्यनुलोमविलोमभैरवीमन्त्रः ।
सप्तवर्णं शङ्खमन्त्रं सप्तदशे ।
विनायकं सुब्रह्मण्यं त्रयोदशे।
यद्वा सप्तार्णं त्रिपुरामन्त्रं विनायकं सप्तवर्णमिति विशेषणविशेष्य भावः ।
व्याहृतीनामिति एकविंशे ।
सप्तवर्णमिति अङ्कुशमन्त्रं सप्तदशे ।
सुदर्शनं षोडशे ।
विशेषणविशेष्यभावो वा ।
लोकान् भूरादिकान् ।
गिरीन् विन्ध्यपारियात्रसह्यऋक्ष- मलयमहेन्द्रशुक्तिमतः ।
स्वरान् षड्जऋषभगान्धार मध्यमपञ्चमधैवतनिषादान् ।
धातून् त्वगादीन् आद्ये ।
मुनीन् वशिष्ठकश्यपात्रिजमदग्निगौतमविश्वामित्रभरद्वाजान् वैवस्वतमन्वन्तरे अत एव ऋषयः सप्तः ।
द्वीपान् जम्बूप्लक्षशाल्मलीकुश- क्रौञ्चशाकपुष्करान् ।
ग्रहानिति ।
केषाञ्चिन्मते राहुकेत्वोर्ग्रहत्वाभावात् सप्तेत्युक्ताः तान् षष्ठे ।
तथा च वराहमिहिराचार्यैः—-
अमृतास्वादविशेषात् छिन्नमपि शिरः किलासुरस्येदम् ।
प्राणैरपरित्यक्तं ग्रहभावं नैवमाप्नोति ॥ इत्यादिना ।
एवमुपरागकारणमुक्तमिदं दिव्यदृग्भिराचार्यैः ।
राहुरकारणमस्मिन्नित्युक्तः शास्त्रसद्भावः ॥
योऽसावसुरो राहुस्तस्य वरो ब्रह्मणा पुरा दत्तः ।
आप्यायनमुपरागे दत्तहुतांशेन ते भवितेति ॥
इत्यादिना च बहुना ग्रन्थसन्दर्भेण राहुकेत्वोः ग्रहता निरस्ता ।
अपिशब्दादजी- जनदिति क्रियाऽनुषज्यते ।
समिध इत्युत्तरपदमुत्तरक्रिययाऽन्वेति ।
हविर्भूजः समिधः सप्त श्रुत्युक्ताः ।
तथाच श्रुतिः—-
सप्त ते अग्ने समिधः सप्तजिह्वाः सप्तऋषयः सप्तधाम प्रियाणि ।
इति ।
सप्तग्रहाणां वा—-
अर्कः पलाशः खदिरोऽप्यपामार्गेऽथ पिप्पलः ।
औडुम्बरः शमी ।
इति ।
तदा हविर्भुज इत्यत्र न सम्बध्यते ।
सप्तजिह्वास्त्रिविधा अपि पञ्चमे ।
अन्यदिति प्रकृतिविकृतित्रिपुरातत्त्वगरुडमन्त्रयन्त्रपटलमन्त्रद्वयवैवस्वतमन्त्रादि ॥ ७८-८० ॥
अष्टधा गुणिता शक्तिः शैवमष्टाक्षरद्वयम् ।
विष्णोः श्रीकरनामानं मन्त्रमष्टाक्षरं परम् ॥ ८१ ॥
अष्टाक्षरं हरेः शक्तेरष्टाक्षरयुगं परम् ।
भानोरष्टाक्षरं दौर्गमष्टार्णं परमात्मनः ॥ ८२ ॥
अष्टार्णं नीलकण्ठस्य वासुदेवात्मकं मनुम् ।
यन्त्रं कामार्गलं दिव्यं देवीयन्त्रं घटार्गलम् ॥ ८३ ॥
गन्धाष्टकं शुभं देवीदेवानां हृदयङ्गमम् ।
ब्रह्माद्या भैरवान् सर्पान् मूर्त्तीराशा वसूनपि ॥ ८४ ॥
अष्टपीठं महादेव्या अष्टाष्टकसमन्वितम् ।
अष्टौ सा प्रकृतीवीघ्नवक्रतुण्डादिकान् क्रमात् ॥ ८५ ॥
अणिमादिगुणान् नागान् वह्नेर्मूर्त्तीर्यमादिकान् ।
अष्टात्मकं जगत्यस्मिन् सर्वं वितनुते यदा ॥ ८६ ॥
शैवं द्वयमप्येकोनविंशे ।
विष्णोः श्रीकरनामानं परमष्टाक्षरं कृष्णस्य द्वावपि सप्तदशे ।
हरेरिति पञ्चदशे ।
शक्तेरिति नवमे युगलमपि ।
भानोरिति चतुर्दशे ।
दौर्गद्वयमप्येकादशे ।
परमात्मन इति षष्ठे ।
नीलकण्ठस्येति ।
नीलकण्ठशब्देन क्षेत्रपालमन्त्रो गृहीतः, स विंशे ।
तन्त्रान्तरोक्तो वा " ॐ नीलकण्ठाय स्वाहा " इति ।
वासुदेवात्मकं मनुं मन्त्रम् ।
आगमशास्त्रे मनुशब्दो मन्त्रस्य सञ्ज्ञा ।
" ॐ नमो वासुदेवाय " इति तन्त्रान्तरोक्तम् ।
कामार्गलं सप्तदशे ।
तस्य कामार्गलत्वेन प्रसिद्ध्यभावात् तन्त्रान्तरोक्तं कामार्गलम् ।
व्योम ब्रह्मेन्द्रलोकेशवह्निवामाक्षिबिन्दुमत् ।
कणीकायां लिखेत् साध्यं कामिनीञ्च दलाष्टके ॥
मूलं मासकलापत्रेष्वालिखेत् स्वरभेदितम् ।
दन्तपत्रेषु तद्भिन्नवर्णैः सान्तैश्च कादिभिः ॥
वेष्टयेन्मन्दिरेणैतत् वहिः शक्त्याङ्कुशेन च ।
यन्त्रं घटार्गलेनैतत्तुल्यं कामार्गलं विदुः ॥ इति ।
दिव्यं यमार्गलमित्यर्थः ।
" दिव्यं यमार्गलं यन्त्रम् " इत्युक्तेः ।
इदं चतुवींशे ।
देवी भुवनेशी ।
" हृल्लेखा शक्तिदेव्याख्या " इत्युक्तेः ।
तस्या यन्त्रं घटार्गलं नवमे ।
गन्धाष्टकं त्रिविधमपि तूर्ये ।
देवो विष्णुः देवः शिवश्च देवौ ।
देवी च देवौ च देवाः तेषाम् ।
क्वचिद् दिव्यमिति पाठः ।
तदा देवानामिति सामान्येन ।
ब्राह्म्याद्याः षष्ठे ।
अष्टौ भैरवान् नवमे ।
सर्पांस्त्रयोविंशे ।
अष्टमूर्त्तीवींशे ।
आशाः पूर्वादिदिशः ।
वसूनिति—-
धरो ध्रुवश्च सोमश्च आपश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च अष्टौ ते वसवः स्मृताः ॥ इति ।
अष्टाष्टकसमन्वितमष्टपीठं चतुःषष्टिविधं यथा—-
मायामङ्गलनागवामनमहालक्ष्मीचरित्राभृगु-
च्छायाछत्रहिरण्यहस्तिनमहेन्द्रोडडीश चम्पापुरम् ।
षष्ठक्षीरक मञ्जनेश्वरपुरैलाश्चन्द्रपूः श्रीगिरिः
कोलाकुल्लक पूर्णपर्वत कुरुक्षेत्रैकलिङ्गार्बुदाः ॥
काश्मीरैकाम्रकाञ्चीमलयगिरिवरैकारकन्धूतदेवी
कोट्टाम्रातेशजालन्धरसुरभिमनीषाद्रिकाशीप्रयागाः ।
त्रिस्रोतः कामकोट्टोज्जयिनि समथुरं कोशलाकान्यकुब्जो-
ड्यानौङ्काराट्टहासाविरज इह ततः कुण्डिनं राजगेहम् ॥
नेपालपुण्ड्रवर्द्धनमालवपरसीर कामरूपकेदाराः
विन्ध्यमहामठगोश्रुति काम्पिल्यश्रीपीठमरुदीशाः ॥ इति ।
प्रकृतीराद्ये ।
विघ्नान् वक्रतुण्डांश्च त्रयोदशे ।
अणिमादीति ।
अणिमा महिमा चैव गरिमा लघिमा तथा ।
ईशित्वञ्च वशित्वञ्च प्राकाम्यं प्राप्तिरेव च ॥ इति ।
नागान् गजान् अष्टमे ।
वह्नेरिति पञ्चमे ।
यमादिकान् अन्त्ये ।
अन्यदिति श्रीवाणरतिप्रिय धूमावतीमन्त्रादि ॥ ८१-८६ ॥
गुणिता नवधा नित्या सूते मन्त्रं नवात्मकम् ।
नवकं शक्तितत्त्वानां तत्त्वरूपा महेश्वरी ॥ ८७ ॥
नवकं पीठशक्तीनां शृङ्गारादीन् रसान् नव ।
माणिक्यादीनि रत्नानि नववर्गयुतानि सा ॥ ८८ ॥
नवकं प्राणदूतीनां मण्डलं नवकं शुभम् ।
यद्यन्नवात्मकं लोके सर्वमस्या उदञ्चति ॥ ८९ ॥
नवधेति ।
जगति यावान् नवात्मको नवाक्षरो मन्त्रस्तं सूते ।
सशार्ङ्ग- नवार्णगोपालमन्त्रादि ।
सेत्यन्तं पूर्वक्रियया उत्तरपद्यमुत्तरक्रियया सम्बध्यते ।
शक्ति- तत्त्वानामिति प्रकृतिर्नादो बिन्दुः बिन्दुर्नादो बीजं रौद्री ज्येष्ठा वामेति नवशक्तितत्त्वानि आद्ये ।
वक्ष्यमाणानि दश सदाशिवव्यतिरिक्तानि नवेत्यन्ये ।
पीठशक्तीनामिति तत्त- न्मन्त्रेष्वपि तत्र तत्र ।
शृङ्गारादीन् ।
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।
बीभत्सरौद्रशान्ताश्च नव काव्ये रसाः स्मृताः ॥ इति ।
रत्नानि नव वर्गाश्च षष्ठे ।
प्राणदूतीनामिति त्रयोविंशे ।
मण्डलं नवनाभं तृतीये ।
यद्यदिति ।
नवकुण्डनवग्रहकूर्मचक्रनवकोष्ठादि ॥ ८७-८९ ॥
दशधा विकृता शम्भोर्भामिनी भवदुःखहा ।
दशाक्षरं गणपतेस्त्वरिताया दशाक्षरम् ॥ ९० ॥
दशाक्षरं सरस्वत्या यक्षिण्याः सा दशाक्षरम् ।
वासुदेवात्मकं मन्त्रमश्वारूढादशाक्षरम् ॥ ९१ ॥
त्रिपुरादशकूटं सा त्रिपुराया दशाक्षरम् ।
नाम्ना पद्मावतीमन्त्रं रमामन्त्रं दशाक्षरम् ॥ ९२ ॥
दशकं शक्तितत्त्वानां तत्त्वरूपा महेश्वरी ।
नाडीनां दशकं विष्णोरवतारान् दश क्रमात् ।
दशकं लोकपालानां यद्यदन्यत् सृजत्यसौ ॥ ९३ ॥
गणपतेरिति ।
क्षिप्रप्रसादनस्य त्रयोदशे ।
त्वरिताया इति दशमे मायाहीनम् ।
तदुक्तम्—- वर्म खे च तदन्त्यः शिवयुक् चरमोऽङ्गनाद्यु सावीलवम् ।
अन्त्यः सयोनिरस्त्रान्तिकः सतारो मनुर्दशार्णयुतः ॥ इति ।
वर्मेति ।
वर्म हुम् ।
खे स्वरूपम् ।
च स्वरूपम् ।
तदन्त्यः छः शिवयुगेकारयुतः छे ।
चरमः क्षः ।
अङ्गना स्त्री� ।
द्यु हकारः सावीलवम् उकारानुस्वारयुतं तेन हुम् ।
अन्त्यः क्षः सयोनिरेयुतः क्षे ।
अस्त्रं फट् तदन्तः ।
सतारः प्रणवयुक् आदौ ।
इति त्वरितादशाक्षरोद्धारः ।
नारायणीयेऽपि—-
भुवनेशो भूतदण्डी कलान्तान्त्यं सयोनिकम् ।
तत्पञ्चमं तदन्तं सरुद्रं सामन्तान्तालयम् ॥
वामाख्या दीर्घमाद्यञ्च कोपतत्त्वं हरान्तयुक् ।
एतत् फडन्तं तारादि मन्त्रं विद्याद्दशाक्षरम् ॥ इति ।
भुवनेति ।
भुवनेशो हः भूत उः दण्डोऽनुस्वारः तेन हुम् ।
कलाः स्वराः तदन्तः कः तदन्त्यः खः सयोनिकम् एकारयुतं तेन खे ।
तत्पञ्चमं च तदन्तं छः ।
सरुद्रम् एकारयुतं तेन छे ।
सामन्तान्तः विसर्गान्तः ।
आलयं क्षकारः ।
वामाख्या स्त्री� ।
आद्यं हुं तद्दीर्घं हूम् ।
कोपतत्त्वं क्षः ।
हरेण एकारेण अन्ते युक् क्षे ।
एतत् फडन्तं प्रणवादिकं दशवर्णम् ।
सरस्वत्या इति सप्तमे ।
यक्षिण्या इति तन्त्रान्तरोक्तं " श्री� श्री� यक्षिणि हं हं हं स्वाहा " इति ।
वासुदेवात्मकमिति गोपालं सप्तदशे ।
अश्वारुढेति बीजत्रयं मुक्त्वा दशमे ।
तन्त्रान्तरे दशाक्षर्या एव उद्धृतत्वात् ।
तदुक्तम्—-
आद्यस्त्रयोदशो दण्डी ततस्त्वेकादशः परम् ।
अष्टमस्य तृतीयं स्यादाद्यतार्त्तीयसंयुतम् ॥
षष्ठाद्यं सप्तमस्यापि द्वितीयं षष्ठपञ्चमम् ।
आद्यैकादशसंयुक्तं पश्चात् सप्तम पञ्चमम् ॥
तत्तूर्येण युतं पश्चात् सप्तमस्य द्वितीयकम् ।
आद्यतार्त्तीयसंयुक्तं द्विठः प्रोक्ता दशाक्षरी ॥ इति ।
दशकूटमिति मध्यबीजस्य षट्कूटत्वमाद्यन्तबीजयोः क्रमेण कूटद्वयम् ।
कूटद्वयमिति मिलित्वा दशकूटं त्रिपुराया इति तन्त्रान्तरोक्तम् " ए� स्हैं स्हीं स्हौं त्रिपुरायै नमः " इति ।
पद्मावतीमन्त्रं तन्त्रान्तरोक्तं " ॐ ह्नें पद्मे पद्मावति स्वाहा "
इति ।
रमामन्त्रमष्टमे ।
राममन्त्रमितिपाठे पञ्चदशे ।
शक्तितत्त्वानामिति पञ्चमे ।
नाडीनामित्याद्ये ।
अवतारानिति सप्तदशे ।
लोकपालानामिति तूर्ये ।
अन्यदिति अग्निमन्त्रसंस्कार जयदुर्गामन्त्रादि ॥ ९०-९३ ॥
एकादशक्रमात् संविद् गुणिता सा जगन्मयी ।
रुद्रैकादशनीमाद्यशक्तेरेकादशाक्षरम् ।
एकादशाक्षरं वाण्या रुद्रानेकादश क्रमात् ॥ ९४ ॥
रुद्रैकादशनीमिति ।
षडङ्गरुद्रैकावृत्ती रुद्राध्यायस्य तादृशः ।
एकादश तु रुद्रस्य रुद्रैकादशनी त्विति ॥
षडङ्गरुद्रस्तु—- " यज्जाग्रतः षट् " सहस्रशीर्षा द्वाविंशतिः " ततः " आशुःशिशानो " " विभ्राट् "
इत्यनुवाक्द्वयम् शतम्।
सहस्रशीर्षेति षोडशभिद्वीतीयम्।
षड्भिस्तृतीयम्।
शतमिति ।
शतरुद्रीयेणास्त्रम् ।
शतरुद्रस्तु—-
षट्षष्टिर्नीलसूक्तञ्च पुनः षोडशऋग्जपः ।
एष ते हे नमस्ते द्वे नतं विद्वयमेव च ॥
मीढुष्टमचतुष्कञ्च एतत्तु शतरुद्रीयम् ।
इति ।
आद्यशक्तेः सरस्वत्या एकादशाक्षरं सप्तमे ।
यद्वा आद्यशक्तेः नित्यक्लिन्ना- यास्तन्त्रान्तरोक्तम् ।
" ह्री� नित्यक्लिन्ने मदद्रवे स्वाहा " इति ।
आद्या इति पाठे देवीविशेषणम् ।
वाण्या अयमपि सप्तमे ।
रुद्रानिति—-
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ।
वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ॥
मृगव्याधश्च शर्वश्च कापालीति शिवा मताः ।
इति ।
अत्राप्यन्यदिति ज्ञेयम् ।
तच्च शक्तिविनायकमन्त्रादि ॥ ९४ ॥
समुद्गरति सर्वात्मा गुणिता द्वादशक्रमात् ।
नित्यामन्त्रं महेशान्या वासुदेवात्मकं मनुम् ॥ ९५ ॥
राशीन् भानून् हरेर्मूर्त्तीर्यन्त्रं सा द्वादशात्मकम् ।
अन्यदेतादृशं सर्वं यत् तदस्यामजायत ॥ ९६ ॥
समुद्गिरतीति क्रिया काकाक्षिगोलकन्यायेन पूर्वेत्तरवाक्ययोः सम्बध्यते।
अन्त्याद्यो निर्बन्धनात् सर्वेत्तरवाक्ये अन्यदित्यन्तं सम्बध्यते ।
इत उत्तरं भिन्नमेव वाक्यम् ।
नित्यामन्त्रं महेशान्या वज्रप्रस्तारिण्याश्च दशमे ।
वासुदेवं पञ्चदशे ।
राशीनष्टमे ।
भानून् हरेर्मूर्त्तीश्च पञ्चदशे ।
यन्त्रं नवमे ।
अन्यदिति खड्गमन्त्रादि ।
एतादृशमित्यनेनैतदुक्तं भवति ।
त्रयोदशधागुणिता वागीश्वर्यश्वारूढामन्त्रं विश्वेदेवादिकम् ।
चतुर्दशधा लक्ष्मीवासुदेवगोपालमन्त्र- भुवनादिकम् ।
पञ्चदशधा नित्याशूलिनीमन्त्रतिथ्यादिकम् ।
षोडशधा चक्रमन्त्रस्वर- कलादिकम् ।
सप्तदशधा लघुपञ्चमीतारादिविद्यामन्त्रादिकम् ।
अष्टादशधा कृष्णवामनमन्त्रमग्निसंस्कारादिकम् ।
ऊनविंशतिधा कृष्णधरामन्त्रादिकम् ।
विंशतिधा हल- धरोमामहेस्वरमन्त्रादिकम् ।
एकविंशतिधा वटुकनाममन्त्रतद्यन्त्रादिकम् ।
द्वाविंशतिधा कृष्णान्नाधिपतिसुमुखीमन्त्रादिकम् ।
त्रयोविंशतिधा लघुश्यामा पुरुषोत्तमहृदङ्ग- मन्त्रादिकं सूत इति ॥ ९५-९६ ॥
चतुवींशतितत्त्वा सा यदा भवति शोभना ।
गायत्रीं सवितुः शम्भोः गायत्रीं मदनात्मिकाम् ॥ ९७ ॥
गायत्रीं विष्णुगायत्रीं गायत्रीं त्रिपदात्मनः ।
गायत्रीं दक्षिणामूर्त्तेर्गायत्रीं शम्भुयोषितः ॥ ९८ ॥
चतुवींशतितत्त्वानि तस्यामासन् परात्मनि ॥ ९९ ॥
यद्यपि त्रयोदशविश्वेदेवात्मिका चतुर्दशभुवनात्मिका पञ्चदशतिथ्यात्मिकापि सृष्टेर्भगवत्युत्पादितैव
तथापि परार्द्धपर्यन्तं तस्याः सत्त्वात् वह्वीनां वक्तुमशक्यत्त्वात् प्रधानभूता आह चतुरिति ।
चतुवींशतिस्तत्त्वस्वरूपं तद्रूप आत्मा यस्याः सा चतुवींशतिधा गुणितेत्यर्थः ।
सवितुरित्येकविंशे ।
शम्भोरिति तन्त्रान्तरोक्ता ।
तत् " महेशाय विद्महे वाग्विशुद्धाय धीमहि ।
तन्नः शिवः प्रचोदयात् " इति ।
मदनात्मिका सप्तदशे ॥ ९७ ॥
विष्णुगायत्री अपि सप्तदशे ।
पुरुषोत्तमगायत्री च विष्णुगायत्रीशब्देनोक्ता तन्त्रान्तरोक्ता वा ।
" नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् " इति ।
त्रिपदात्मनस्त्रिपुरायाः सा द्वादशे ।
दक्षिणामूर्त्तेरिति ।
" दक्षिणामूर्त्तये विद्महे ध्यानस्थाय धीमहि ।
तन्नो घोरः प्रचोदयात् " इति ।
शम्भुयोषित इति ।
" सर्वमोहिन्यै विद्महे विश्वजनन्यै धीमहि ।
तन्नः क्लिन्ने प्रचोदयात् " इति ।
तत्त्वानि आद्ये ।
एता गायत्र्यस्तत्त्वान्यप्यस्यामासन्नुत्पन्नानि ।
अत्राप्यन्यदिति ज्ञेयम् ।
तच्चाग्निसमृद्धाग्नि- दक्षिणामूत्तीचिटिमन्त्रवक्रतुण्डदुर्गात्वरिताग्निनृसिंहगरुडहयग्रीवगायत्र्यादि ॥ ९७-९९ ॥
द्वात्रिंशद्भेदगुणिता सर्वमन्त्रमयी विभुः ।
सूते मृत्युञ्जयं मन्त्रं नारसिंहं महामनुम् ॥ १०० ॥
लवणाख्यं मनुं मन्त्रं वरुणस्य महात्मनः ।
हयग्रीवं मनुं दौर्गं वाराहं वह्निनायकम् ॥ १०१ ॥
गणेशितुर्महामन्त्रं मन्त्रमन्नाधिपस्य सा ।
मन्त्रं श्रीदक्षिणामूर्त्तेर्मालामन्त्रं मनोभुवः ॥ १०२ ॥
त्रिष्टुभं वनवासिन्या अघोराख्यं महामनुम् ।
भद्रकालीमनुं लक्ष्म्या मालामन्त्रं यमात्मकम् ॥ १०३ ॥
मन्त्रं सा देवकीसूनोर्मन्त्रं श्रीपुरुषोत्तमम् ।
श्रीगोपालमनुं भूमेर्मनुं तारामनुं क्रमात् ॥ १०४ ॥
महामन्त्रं महालक्ष्म्या मन्त्रं भूतेश्वरस्य सा ।
क्षेत्रपालात्मकं मन्त्रं मन्त्रमापन्निवारणम् ।
सूते मातङ्गिनीं विद्यां सिद्धविद्यां शुभोदयाम् ॥ १०५ ॥
मृत्युञ्जयं वैदिकं त्रयोविंशे ।
नारसिंहं षोडशे ।
महामनुं मन्त्रराजमिति पूर्वविशेषणम् ।
लवणाख्यं द्वाविंशे ।
वरुणस्येति श्रुत्युक्तम् ।
महात्मन इति विशेषणम्, तेन महावारुणमित्यर्थः ।
हयग्रीवं पञ्चदशे ।
दौर्गं श्रुत्युक्तम् ।
" अम्बिके अम्बालिके " इत्यादिकम् ।
वाराहं पञ्चदशे ।
वह्निनायकम् अग्न्युपस्थानमन्त्रं पञ्चमे ।
गणेशितुर्हरिद्रागणेशस्य " ॐ हु� गं ग्लौं हरिद्रागणपतये वरवरद सर्वजनहृदयं
स्तम्भय स्तम्भय स्वाहा " ।
आथर्वणिको वक्रतुण्डस्य वा—-
रायस्पोषप्रदाता च निधिदो रत्नदो मतः ।
रक्षोहणो वलाहनो वक्रतुण्डाय हूं नमः ॥
महामन्त्रमित्युक्तेः अत्रैव वक्ष्यमाणो महागणपतिमन्त्रो वा ।
सम्प्रदायेन तस्य द्वात्रिंशदक्षरत्वात् ।
अन्नाधिपस्य तन्त्रान्तरोक्तः " ॐ ह्री� अन्नरूप रसचतुष्टयरूप नमो नमः अन्नाधिपतये ममान्नं प्रयच्छ
स्वाहा " इति दक्षिणामूर्त्तेरेकोनविंशे ।
मालामन्त्रं द्वात्रिंशदक्षरं मनोभुवस्तन्त्रान्तरोक्तम् ।
त्रिष्टुभमिति तदन्तर्गतोक्तोपचारात् द्वात्रिंशदक्षर उच्यते।
तदन्तर्द्वासप्ततिमन्त्राणामुद्धृतत्वात् ।
तन्मध्ये द्वात्रिंशदक्षराणामपि सत्त्वात् ।
अघोराख्यं तन्त्रान्तरोक्तम् ।
ग्रन्थकारोक्तस्यैकपञ्चाशदक्षरत्वात् ।
यदाह—-
नकारस्ततो दन्तसम्भिन्नकालं भगस्यान्ततो वाथ ते तस्य चान्ते ।
ततोऽघोररूपा यकारस्य चान्ते हनद्वन्द्वतोऽथो दहद्वन्द्वतश्च ॥
पचाभ्यासमुक्त्वा तथा भ्रामय स्यात् शिरोऽन्तञ्च वर्मादिकं फट्पदञ्च ।
इति ।
नकारेति ।
" नमो भगवते अघोररूपाय हन हन दह दह पच पच भ्रामय भ्रामय हु� फट् स्वाहा " ।
चतुस्त्रिंशदर्णेऽघोरमन्त्रः अघोरानुष्टुप् अघोरामुनाद्याः (६, ६, ८, १०, २, २=३४) षडङ्गम् ।
भद्रकालीमनं चतुवींशे ।
महालक्ष्म्या दशमे ।
सर्वतोभद्ररूपं यमात्मकमिति मन्त्रद्वयं चतुवींशे ।
देवकीसूनोरिति सुकीर्त्त्यादिकं सप्तदशे ।
श्रीपुरुषोत्तममन्त्रं तन्त्रान्तरोक्तम्—- " ॐ नमो भगवते वासुदेवाय पुरुषोत्तम आयुर्मे देहि विष्णवे
प्रभविष्णवे नमः " ।
श्रीगोपालमनुं यन्त्राङ्गद्वयमपि सप्तदशे ।
भूमेर्मनुम्—-
उद्धृताऽसि वराहेण कृष्णेन शतबाहुना ।
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥
इति तन्त्रान्तरोक्तम् ।
तारामनुं तन्त्रान्तरोक्तम्—- " ॐ ह्री� हौं� हूं नमस्तारायै महातारायै सकलदुस्तरांस्तारय तारय
तर तर स्वाहा " इति ।
महालक्ष्म्या महामन्त्रं श्रीसूक्तलक्षणम् ।
भूतेश्वरस्य मन्त्रं तन्त्रान्तरोक्तम्—-
" ॐ नमो भगवते रुद्राय सर्वभूताधिपतये भूतप्रेतपिशाचिनीर्नाशय नाशय " इति ।
क्षेत्रपालात्मकं तन्त्रान्तरोक्तम् —- " एह्येहि विदुषि विमुखि नर्त्तय नर्त्तय
विघ्नमहाभैरव क्षेत्रपाल
इमं बलिं गृह्ण गृह्ण स्वाहा " इति ।
आपन्निवारणं तन्त्रान्तरोक्तम् ।
अत्र एकविंशत्यक्षरस्य वक्ष्यमाणत्वात्।
मातङ्गिनीं तन्त्रान्तरोक्तम्—- " ॐ ह्री� ए� श्री� नमो भगवति उच्छिष्टचाण्डालि श्रीमातङ्गेश्वरि
सर्वजनवशङ्करि स्वाहा " इति ।
सिद्धविद्यां तन्त्रान्तरोक्ताम् ।
पूर्वेक्ताया एव सिद्धेत्यादि विशेषणद्वयं वा ।
अन्यदित्यपि ज्ञेयम् ।
तच्च वैष्णवतत्त्वशैवव्यापक- मन्त्रादि ॥ १००-१०५ ॥
अनेन क्रमयोगेन गुणिता शिववल्लभा ।
षट्त्रिंशतञ्च तत्त्वानां शैवानां रचयत्यसौ ॥ १०६ ॥
अनेनेति ।
अनेन क्रमयोगेन गुणिता षट्त्रिंशद्वारगुणिता इत्यर्थः ।
शैवानामिति पञ्चमे ॥ १०६ ॥
अन्यान् मन्त्रांश्च यन्त्राणि शुभदानि प्रसूयते ।
द्विचत्वारिंशता मूले गुणिता विश्वनायिका ॥ १०७ ॥
अन्यान्मन्त्रानिति ।
तन्त्रान्तरोक्तोच्छिष्टगणपति पुरुषोत्तमव्यापक मन्त्रादीन् ।
पूर्वे यथा—– " ॐ नमो भगवते एकदंष्ट्राय हस्तिमुखाय लम्बोदराय उच्छिष्टमहात्मने क्रो� ष्टुं ह्री� हूं
घे घे स्वाहा " इति ।
तृतीयं सप्तदशे ।
यन्त्राणीति यन्त्रपटल- प्रोक्तकोष्टात्मकयन्त्राष्टमपटलप्रोक्तमहालक्ष्मीयन्त्रादीनि ।
अनेन क्रमयोगेनेति सामा- न्योक्तेर्मन्त्रान् यन्त्राणीति च तथोक्तेरष्टत्रिंशता गुणिता अष्टत्रिंशत्कला
मन्त्रास्तद्- बीजादि ।
(वन) नवदुर्गापुरुषोत्तमनेत्राङ्गमन्त्रादीन् यन्त्राणि वृद्धश्यामा वराहनृसिंह- यन्त्रादीनि सूते इति सूचितम् ॥
द्विचत्वारिंशतेति ।
मूले मूलाधारे द्विचत्वारिंशता गुणिता विश्वनायिका कुण्डलिनी अनेन क्रमेण अकारादिसकारान्तां
द्विचत्वारिंशदात्मिकां भूतलिपि- मन्त्रात्मिकां वर्णमालिकां सृजतीति सम्बन्धः ॥ १०७ ॥
सा प्रसूते कुण्डलिनी शब्दब्रह्ममयी विभुः ।
शक्तिं ततो ध्वनिस्तस्मान्नादस्तस्मान्निरोधिका ॥ १०८ ॥
ततोऽर्धेन्दुस्ततो बिन्दुस्तस्मादासीत् परा ततः ।
पश्यन्ती मध्यमा वाचि वैखरी शब्दजन्मभूः ।
इच्छाज्ञानक्रियात्माऽसौ तेजोरूपा गुणात्मिका ॥ १०९ ॥
क्रमेणानेन सृजति कुण्डली वर्णमालिकाम् ।
अकारादिसकारान्तां द्विचत्वारिंशदात्मिकाम् ॥ ११० ॥
पञ्चाशद्वारगुणिता पञ्चाशद्वर्णमालिकाम् ।
सूते तद्वर्णतोऽभिन्ना कला रुद्रादिकान् क्रमात् ॥ १११ ॥
तमेव क्रममाह शक्तिमिति ।
सा कुण्डलिनी शक्तिं प्रसूते ।
( शक्तिर्नाम मूलकारणस्य शब्दस्योन्मुखीकरणावस्थेति गूढार्थदीपिकाकारः)।
ततः शक्तेर्ध्वनिः ।
ततः तस्माद् ध्वनेरित्यादि ज्ञेयम् ।
अयञ्च क्रमो ग्रन्थकृता सर्वशेषे उक्तोऽपि एकाद्य- क्षरोत्पत्तावप्यनुसन्धेयः ।
तत्र सत्त्वप्रविष्टा चिच्छक्तिवाच्या परमाकाशावस्था, सैव सत्त्वप्रविष्टा रजोऽनुविद्धा सती
ध्वनिशब्दवाच्या अक्षरावस्था, सैव तमोऽनुविद्धा नाद शब्दवाच्या अव्यक्तावस्था,
सैव तमःप्राचुर्यान्निरोधिकाशब्दवाच्या, सैव सत्त्वप्राचुर्या- दर्द्धेन्दु
शब्दवाच्या तदुभयसंयोगाद् बिन्दुशब्दवाच्या ।
यदाहुः—-
इच्छाशक्तिबलोत्कृष्टो ज्ञानशक्तिप्रदीपकः ।
पुंरूपिणी च सा शक्तिः क्रियाख्यां सृजति प्रभुः ॥ इति ।
असावेव बिन्दुः स्थानान्तरगतः पराद्याख्यो भवति ।
तस्मादिति बिन्दोः ।
परा मूले, पश्यन्ती स्वाधिष्ठाने, मध्यमा हृदये, वैखरी मुखे ।
तदुक्तम्—-
सूक्ष्मा कुण्डलिनीमध्ये ज्योतिर्मात्रात्मरूपिणी ।
अश्रोत्रविषया तस्मादुद्गच्छत्यूर्द्धगामिनी ॥
स्वयम्प्रकाशा पश्यन्ती सुषुम्णामाश्रिता भवेत् ।
सैव हृत्पङ्कजं प्राप्य मध्यमा नादरूपिणी ॥
ततः सञ्जल्पमात्रा स्यादविभक्तोर्द्धगामिनी ।
सैवोरः कण्ठतालुस्था शिरोघ्राणरदस्थिता ॥
जिह्वामूलौष्ठनिस्यूतसर्ववर्णपरिग्रहा ।
शब्दप्रपञ्चजननी श्रोत्रग्राह्या तु वैखरी ॥ इति ।
कादिमतेऽपि—- स्वात्मेच्छाशक्तिघातेन प्राणवायुस्वरूपतः ।
मूलाधारे समुत्पन्नः पराख्यो नाद उत्तमः ॥
स एवोर्द्धं तया नीतः स्वाधिष्ठाने विजृम्भितः ।
पश्यन्त्याख्यामवाप्नोति तयैवोर्द्धं शनैः शनैः ॥
अनाहते बुद्धितत्त्वसमेतो मध्यमाभिधः ।
तथा तयोर्द्धं नुन्नः सन् विशुद्धौ कण्ठदेशतः ॥
वैखर्याख्यस्ततः कण्ठशीर्षताल्वोष्ठदन्तगः ।
जिह्वामूलाग्रपृष्ठस्थस्तथा नासाग्रतः क्रमात् ॥
कण्ठताल्वोष्ठकण्ठौष्ठाद्दन्तौष्ठद्वयतस्तथा ।
समुत्पन्नान्यक्षराणि क्रमादादिक्षकावधि ॥
आदिक्षान्तरतेत्येषामक्षरत्वमुदीरितम् ॥ इति ।
तथाच श्रुतिः—-
चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।
गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥
इति ।
अथ वा चिच्छक्तिरेव पराख्या चैतन्याभासविशिष्टतया प्रकाशिका माया निष्पन्दा परा वागित्यर्थः ।
सस्पन्दावस्थाः पश्यन्त्याद्याः ।
तत्र सामान्यप्रस्पन्द- प्रकाशरूपिणीं बिन्दुतत्त्वात्मिकां मूलाधारादिनाभ्यन्तरव्यक्तिस्थानां
पश्यन्तीमाह पश्यन्तीति ।
ज्ञानात्मकत्वात् पश्यन्तीत्यर्थः ।
बाह्यान्तःकरणात्मिकां हिरण्यगर्भ- रूपिणीं नादबिन्दुमयीं नाभ्यादिहृदयान्ताभिव्यक्तिस्थानां
विशेषसङ्कल्पादिसतत्त्वां मध्यमामाह मध्यमेति ।
मध्ये मा बुद्धिर्यस्या इति विग्रहः ।
विराड्रूपिणीं बीजात्मिकां हृदयाद्यास्यान्ताभिव्यक्तिस्थानां शब्दसामान्यात्मिकां वैखरीमाह वाचीति ।
विशेषेण खरत्वात् वैखरीत्यर्थः ।
तद्वर्णत इति ।
ते च ते वर्णाश्च तः अभिन्ना याः कलाः ताः सूते ।
रुद्रादिकान् सूते ।
आदिशब्देन तच्छक्तयः विष्णवः विष्णुशक्तयः पञ्चाशदोषधयश्च पञ्चाशत् कामाः तच्छक्तयश्च
पञ्चाशद्गणेशास्तच्छक्तयः पञ्चाशत् क्षेत्रपालास्तच्छक्तयश्च ।
अत्र पञ्चाशदोषधयो यथा—-
चन्दनकुचन्दनागुरुकर्पूरोशीररोगजलघुसृणाः ।
कक्कोलजातीमांसीमुरचोरग्रन्थिरोचनापत्राः ॥
पिप्पलबिल्वगुहारुणतृणकलवङ्गाह्वकुम्भिवन्दिन्यः ।
सौदुम्बरी काश्मरिका स्थिराब्जदरपुष्पिकामयूरशिखाः ॥
प्लक्षाग्निमन्थसिंही कुशाह्वदर्भाश्च कृष्णदरपुष्पी ।
रोहिणढुण्ढु कबृहती पाटलिचित्रा तुलस्यपामार्गाः ॥
शतमखलता द्विरेफा विष्णुक्रान्तामुसल्यथाञ्जलिनी ।
दूर्वाश्रीदेविसहे तथैव लक्ष्मीसदाभद्रे ॥
आदीनामिति कथिता वर्णानां क्रमवशादथौषधयः ।
गुलिकाकषायभसितप्रभेदतो निखिलसिद्धिदायिन्यः ॥ इति ।
आसामोषधीनां प्रयोजनान्तरमप्युक्तं कादिमते—-
यो यो मन्त्रस्तस्य तस्य वर्णौषधिविनिमीताः ।
तत्तद्वर्णेत्थसङ्ख्याभिर्गुलिका मन्त्रसिद्धिदा ॥
तयाभिषेकस्तद्धारणं तत्स्वादस्तद्विलेपनम् ।
तत्पूजा च तथा सिद्धिलाभाय स्यान्न चान्यथा ॥ इति ।
पञ्चाशत् कामास्तच्छक्तयश्च यथा—-
कामकामदकान्ताश्च कान्तिमान् कामगस्तथा ।
कामाचारश्च कामी च कामुकः कामवर्द्धनः ॥
रामो रमश्च रमणो रतिनाथो रतिप्रियः ।
रात्रिनाथो रमाकान्तो रममाणो निशाचरः ॥
नन्दको नन्दनश्चैव नन्दी नन्दयिता पुनः ।
पञ्चवाणो रतिसखः पुष्पधन्वा महाधनुः ॥
भ्रामणो भ्रमणश्चैव भ्रममाणो भ्रमोऽपरः ।
भ्रान्तश्च भ्रामकश्चैव भ्रान्ताचारो भ्रमावहः ॥
मोहको मोहनो मोहो मोहवर्द्धन एव च ।
मदनो मन्मथश्चैव मातङ्गो भृङ्गनायकः ॥
गायनो गीतिजश्चैव नर्त्तकः खेलकस्तथा ।
उन्मत्तो मत्तकश्चैव विलासो लोभवर्द्धनः ॥
दाडिमीकुसुमाभाश्च वामाङ्के शक्तिसंयुताः ।
सौम्या रक्ताम्बराः सर्वे पुष्पबाणेक्षुकार्मुके ॥
विभ्राणाः सर्वभूषाढ्याः कामाः पञ्चाशदीरिताः ।
रतिः प्रीतिः कामिनी च मोहिनी कमलप्रिया ॥
विलासिनी कल्पलता (का) श्यामला च शुचिस्मिता ।
विस्मिताक्षी विशालाक्षी लेलिहाना दिगम्बरा ॥
वामा कुब्जा धरा नित्या कल्याणी मोहिनी तथा ।
मदना च सुरश्रेष्ठा लापिनी मदीनी तथा ॥
कलहप्रिया चैकाक्षी सुमुखी नलिनी तथा ।
जपिनी पालिनी चैव शिवा मुग्धा रसा भ्रमा ॥
चारुलोला चञ्चला च दीर्घजिह्वा रतिप्रिया ।
लोलाक्षी भृङ्गिणी चैव पाटला मादनी तथा ॥
माला च हंसिनी विश्वतोमुखी नन्दिनी तथा ।
रमणी च तथा कान्तिः कलकण्ठी वृकोदरी ॥
मेघश्यामा मदोन्मत्ता एताः पञ्चाशदीरिताः ।
शक्तयः कुङ्कुमनिभाः सर्वाभरणभूषिताः ।
नीलोत्पलकरा ध्येयास्त्रैलोक्याकर्षणक्षमाः ॥ इति ।
पञ्चाशद्गणेशास्तच्छक्तयश्च यथा—-
विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ ।
विघ्नकृद् विघ्नहर्त्ता च गणैकद्विसुदन्तकाः ॥
गजवक्त्रनिरञ्जनौ कपर्दी दीर्घजिह्वकः ।
शङ्कुकर्णश्च वृषभध्वजश्च गणनायकः ॥
गजेन्द्रः सूर्पकर्णश्च स्यात् त्रिलोचनसञ्ज्ञकः ।
लम्बोदरमहानन्दौ चतुर्मूत्तीः सदाशिवः ॥
आमोददुर्मुखौ चैव सुमुखश्च प्रमोदकः ।
एकरदो द्विजिह्वश्च शूरवीरसषण्मुखाः ॥
वरदो वामदेवश्च वक्रतुण्डो द्विरण्डकः ।
सेनानीर्ग्रामणीर्मत्तो विमत्तो मत्तवाहनः ॥
जटी मुण्डी तथा खड्गी वरेण्यो वृषकेतनः ।
भक्षप्रियो गणेशश्च मेघनादकसञ्ज्ञकः ॥
व्यापी गणेश्वरः प्रोक्ताः पञ्चाशद् गणपा इमे ।
(ध्यानम्) तरुणारुणसङ्काशा गजवक्त्रास्त्रिलोचनाः ॥
पाशाङ्कुशवराभीतिहस्ताः शक्तिसमन्विताः ।
(५० शक्तयः) श्रीर्ह्नीश्च पुष्टिशान्ती च स्वस्तिश्चैव सरस्वती ॥
स्वाहामेधाकान्तिकामिन्यो मोहिन्यपि वै नटी ।
पार्वती ज्वालिनी नन्दा सुपाशा कामरूपिणी ॥
उमा तेजोवती सत्या विघ्नेशा विघ्नरूपिणी ।
कामदा मदजिह्वा च भूतिः स्याद्भौतिका सिता ॥
रमा च महिषी प्रोक्ता भञ्जिनी च विकर्णपा ।
भ्रूकुटिः स्यात्तथा लज्जा दीर्घघोणा धनुर्धरा ॥
यामिनी रात्रिसञ्ज्ञा च कामान्धा च शशिप्रभा ।
लोलाक्षी चञ्चला दीप्तिः सुभगा दुर्भगा शिवा ॥
भर्गा च भगिनी चैव भोगिनी सुभगा मता ।
कालरात्रिः कालिका च पञ्चाशच्छक्तयः स्मृताः ॥
सर्वालङ्करणोद्दीप्ताः प्रियाङ्कस्थाः सुलोचनाः ।
रक्तोत्पलकरा ध्येया रक्तमाल्याम्बरारुणाः ॥ इति ।
पञ्चाशत् क्षेत्रपालाः क्षेत्रपालमन्त्रे वक्ष्यन्ते ॥ १०८-१११ ॥
निरोधिका भवेद्वह्निरर्द्धेन्दुः स्यान्निशाकरः ।
अर्कः स्यादुभयोर्येगे बिन्द्वात्मा तेजसां निधिः ॥ ११२ ॥
जाता वर्णा यतो बिन्दोः शिवशक्तिमयादतः ।
अग्नीषोमात्मकास्ते स्युः शिवशक्तिमयाद्रवेः ।
येन सम्भवमापन्नाः सोमसूर्याग्निरूपिणः ॥ ११३ ॥
॥ इति श्रीमद्लक्ष्मणदेशिकेन्द्रविरचिते शारदातिलके
प्रथमः पटलः समाप्तः ॥ १ ॥

  वर्णानामग्नीषोमात्मकत्वं सोमसूर्याग्निरूपत्वञ्च अग्रे उपयोगीति तद्विविक्ष्याह निरोधिकेति ।  

निरोधिकाया अग्निरूपत्वात् शिवस्वरूपत्वम् ।
अर्द्धेन्दोः सोमरूपत्वात् शक्तिस्वरूपत्वम् ।
येन कारणेन शिवशक्तिमयाद्रवेः सम्भवमापन्नाः ।
रवेः शिव- शक्तिमयत्वम् ।
अर्कः स्यादुभयोर्येगे इत्युक्तेः ।
तेन सोमसूर्याग्निरूपिणो भवन्ति ।
कार्यकारणयोरभेदात् ॥ ११२-११३ ॥
॥ इति श्रीराघवभट्टविरचित-शारदातिलकटीकायां सत्सम्प्रदायकृतव्याख्यायां
पदार्थादर्शाभिख्यायां प्रथमः पटलः ॥ १ ॥