अथ अनन्तरप्राप्तं अधिवासं वक्तुमुपक्रमते अथ अधिवासमिति यथा शास्त्रविनिश्चयमिदमित्थं कर्तव्यमित्यादि रूपं शास्त्रतात्पर्यमनतिक्रम्य वक्ष्य इत्यर्थः ।
अधिवासनं तदावश्यकद्योतनार्थं स्तौति यद्योगादिति यद्योगात् यस्याधिवास कर्मणो योगात् सम्बन्धाद्वात् प्रयोगाद्वा हरिरर्चायां सद तत्समयमाद्ये यावत् जगदवस्थानं सन्निहितो जायते ।
अत्रापि पूर्वं आचार्यभावनां दर्शयत्यात्मानमिति अस्यापि ध्यात्वात्मानं शिवमित्यादि शिव भागोक्तवत् देवार्थाः अप्ययं स्वापादिभूतकार्यकारणादि विनाशेप्यनश्वरत्वमित्यर्थः अथ मन्त्रबिम्बविधेयं समाधिविधिं दर्शयति प्रणवेनेत्यादि प्रजायत इत्यन्तेन प्रणवेनेति अत्रापि प्रागुक्तनीत्या प्रणवेन अर्चाभिमानिनं जीवं समायोज्य सर्वाङ्गतः समाकृष्य हृदये योजयित्वा ततोप्युत्क्राम्य स्वस्मिन् स्वप्रत्यगात्मरूपे सर्वेश्वरे स्वप्रतिबिम्बभूत समस्तजगच्चैतन्योन्मेषनिमेषविधायके हरौ श्रीवासुदेवापरनाम्नि परब्रह्मणि कृत्वा आत्मैकतां नीत्वा प्राणायामादिना परमात्म सामरस्यं प्रणीय
परमीकृत्येत्यर्थः ।
तथा कृत्वा पृथ्वीप्रतिभासमात्र रूपप्रतिमा शरीरं जगतां पृथिवी मरुता शोषण प्राणायामपरामृष्ट वायुबीजसञ्जातमहावायुना संशोष्य सम्यक् नीरसवर्जादिवत् शोषयित्वा बीजान्विताग्निना दहन प्राणायामपरामृष्ट वह्निबीजसञ्जात महाग्निना दग्ध्वा अद्भिः प्लावनप्राणायाम परामृष्टामृतबीजसम्भूताभिरद्भिः सम्प्लाव्य अत्र अद्भिः सम्प्लाव्येत्यनेनैव स्वकारणभूताभिरद्भिः सम्यगेकभावेन प्लावयित्वा विलाप्येत्यर्थोऽपि प्रकटीकृत एव तथा च विष्णुसंहितायां शुष्कदग्धाप्लुतोर्व्यप्सु इति एवं पृथिवीमप्सु संहृत्य वायुष्का उपलक्षणमेतत् स्वकारेण सामरस्योन्त यस्य तथा वायुशुष्का वह्निदग्धाश्च ताः पृथिवीकारणभूता आपः पूर्ववत् वह्नौ विलाप्य वह्निं प्राग्वत् स्वकारणसामरस्य स्वोनयादिपूर्वकं वायौ संहृत्य वायुं तद्वत् आकाशतां नयेत् एवं सङ्क्षिप्त तत्वसंहारं किञ्चित् विशेषपूर्वं समाधाय शेष तत्वसंहारं
दर्शयत्याध्यात्मिकैविल्याद्य व्याकृतैकतामित्यन्तेन आध्यात्मिकाधिदैवैश्च रचना सन्निवेशोऽयं क्ष्मादीनां साधिभूतता बोद्धव्यमधिदैवत्वं सामर्थ्यं यस्य यत्स्वकं तदधिष्ठातृमन्त्राणां अध्यात्मत्वं विधीयते ॥
इति श्रीसात्वतायुक्तैराध्यात्मिकैरपि दैवै कारणैर्विषयैश्च सह घ्राणोपस्थसमायुक्तामुर्वीं भूतगणान्वितां इत्याद्युक्तैः घ्राणादि ज्ञान करणैरुपस्थादि कर्मकरणैः गन्धादिभिः ज्ञानेन्द्रियविषयैः आनन्दादिभिः कर्मेन्द्रियविषयैश्च सह लां नमः पराय पृथिव्यात्मने हुं फडित्यादि स्वस्वमन्त्रप्राणायामेन तन्मात्रसंस्थानि च अन्नमः पराय सर्वात्मने नम इत्यादि स्वस्वमन्त्रव्यापकेन आत्मतत्वेन च योजयित्वा इत्यत्राधिदैवायो दुर्गाविभागे स्वयमेव वक्ष्यतीतीह न प्रतन्यते ।
एवमुक्तक्रमात् संहृत्य नमः पञ्चममाकाशं प्रणवप्राणायामेन उत्तरतत्वसामरस्यं प्रणीय स्वमन्त्रप्राणायामेन शब्दतन्मात्रायां संहृत्य व्यापकेन
व्यापकेन मनसि संहृत्य प्रोक्तरीत्य मनोऽहङ्कृती संहृत्य तमहङ्कारं महति संहृत्य महान्तमात्मानं बुद्धितत्वापरनामधेयमव्याकृतैकतां नयेत् तमव्याकृतं ज्ञानविग्रहे जगत्सर्गाद्यर्थमाया निरीक्षणेन किञ्चिदवैशद्येपि चिदेकरूपे आत्मनि नयेत् ।
तमेव चिदात्मानं शान्तत्वादिलक्षण विशेषणैर्विशिष्टेस्ते स्वपरपक्षोपक्षिप्तदोषोन्मेष शङ्कां शमयति शान्त इति शान्ते मायोपहित स्वप्रतिबिम्बभूत समस्तव्यवहारसाक्षिभावेपि तद्विषयरागादिरहिते अनन्ते क्षणभङ्गुरजगद्रूप स्वप्रतिबिम्बभावेऽप्यनश्वरे कालतो परिच्छिन्न स्वरूपे वा अपरे व्योम्नि समस्तजन्तु सन्तान प्रत्यगात्मभावेन सङ्कुचितवृत्तित्वेपि महाकाशवत् समस्त स्वकार्यव्यापके देशतश्चानवच्छिन्ने वा निष्क्रिये समस्तस्वकाव्यापित्वेपि तत्प्रनाडीप्रसिद्ध्यत् पुष्यपापादि सर्वकर्मनिर्मुक्ते परिणामित्वादिराहित्येन कूटस्थनित्यस्वरूपे वा चिदात्मनि नयेदिति -
स्नानविग्रहमिति ।
एवं किञ्चित् मायासंवलिते चिदात्मनि अव्याहृतं संहृत्य नं ज्ञानविग्रहं चिदात्मानमपि प्रणवप्राणायामकृत इच्छादि संहारपूर्वकं परमानन्दे आनन्दं ब्रह्मणो इत्यादि श्रुतिसिद्धे सच्चिदानन्दघने विशुद्धतरे स्वस्वरूपे संस्थितं सम्यगनन्यपरतया स्थितां ध्यायेत् ॥
इति ।
एवं कार्यविलयमुक्त्वा कारणविलयमाह शान्त इति ॥
अत्र तं ध्यायेत् परमानन्दं इत्यन्तस्तमिति पदमवष्टाप्य अकृतात्मपरामर्शपरतया योजयेद्वा तथा च तातमव्या कृतात्मानं निष्क्रिये निरस्तक्रिये विश्वसंसारनिमित्त मायाविलासविहितमुपाधौ न नीत्य निजक्रियानिर्मुक्त इत्यर्थः शान्ते प्रशमितरागे मायाविलास बीजवीक्षा व्यपेते नित्यशुद्धे इत्यर्थः अनन्ते स्वापाधि भूतविश्वविलयेप्यनश्वरेऽनवच्छिन्ने परे व्योम्नि उपाधिविरहेण स्वभा * * विनाशे महाकाशवत् व्याप्ततरे देशतोऽपरिच्छिन्ने सतामात्रैकलक्षणे ज्ञानविग्रहे चिदात्मनि नयेत् ।
न शान्तविग्रहं तं प्रशमितसमस्तोपाधितं चिदात्मानमपि परमानन्दे संस्थितमित्यर्थः तं शान्तविग्रहं प्रशमितसमस्तोपाधिं चिदात्मानमपि परमानन्दे संस्थितं ध्यायेत् एवं सकारणविश्वविलयमभिधाय एवं लीने जगत्यस्मिन् पुनः सृष्टौ प्रवर्तते जन्तूनामुपकाराय क्रीडया परमेश्वरः इति समुक्तनीत्या जगत्सर्गं विवक्षुः जगत्सर्गादिविधायकं तदैक्षतेत्यादि श्रुतिसिद्धमायानिरीक्षणेन किञ्चिन्मायासंवलितं प्रत्यग्रूपं प्रपञ्चसर्गादिप्रभुं चिदात्मानं परामृशति - यस्मिन्निति अव्याकृतमूल कारणं यस्मिन् किञ्चित् स्वायासंवलिते चिदात्मनि लीनं लीनं च सम्यक् संस्थां यस्मिन् उत्तरसर्गार्थं निखिलप्राणि कर्मपरिपाक प्रतीक्षमाणं वासनारूपेण स्थितं तथा स्थितं सद्यत् स्वरूपं चिदात्मानं पृथक्त्वेन वस्तु तया निर्वर्तुमशकयत्वात् मरीचिकादिवत् यत् स्वरूपमेव च तं मायासंवलितं चिदात्मानं परस्य शुद्धतरस्य ब्रह्मणः शक्तिं विश्वसर्गादि
सामर्थ्यरूपं परमेष्टिनं अपरब्रह्म विदुः ॥
स तु योऽयमेवं रूपः परमेष्टी सञ्ज्ञानहेतुकोपि शुद्धज्ञानरूप ब्रह्मविवर्तत्वात् तद्धेतुको अत एव परापरविकल्पस्वरूपः स्वस्वरूपलक्षणनिरीक्षणेनायं परो वा मायास्वरूप निरीक्षणेनायं अपरो वा इति विकल्प एक एव स रूपात्मा यस्य सः वासुदेवा परनामधेयः परमेष्टी प्रभुरितर कारणानपेक्षं जगत्सर्गादिकं तत् सृष्ट्वा तदेवानुप्राविशदित्यादि श्रुत्यनुसृत्या सर्वकृत् सर्वप्रपञ्चस्रष्टा सर्वात्मा सर्वजगज्जीवरूपश्च विज्ञेयः ।
एवं साष्टृत्वेन परामृष्टस्य तस्य सृष्टिक्रमं दर्शयति तामिति स वासुदेवः सिसृक्षया समुचितेच्छादि शक्तित्रयसम्पन्नः तान् स्वात्मनि निलीनां स्वां वस्तुतः स्वानन्यां अव्याकृतिं सकलप्रपञ्चभूतां मायां अधिष्ठाय नादात्मा शब्दतन्मात्र शरीरः सन् स्पर्शसञ्ज्ञिकीं पौरुषीं पुरुषतत्वमयीं मूर्तिमजनयत् स सृष्टः पुरुषः सङ्कर्षणश्च कथ्यते इति विज्ञेयः पुनरिति
पुनरपि प्रभुः सः जगत्पतिः सङ्कर्षणरूपेण वर्तमानो व्याकृतिं मायां क्षोभयित्वा तेजो मयं रूपं रूपतन्मात्रात्मकं विश्वं विश्वतत्वरूपं प्रद्युम्नमसृजत् पुनः प्रद्युम्नरूपेण वर्तमानः सः ईश्वरस्तेजोमयीं रूपतन्मात्रात्मिकां स्वां प्रकृतिं विलोड्य विश्वाह्लादकरैः विश्वाह्लादकरीभिः शान्तैः शान्ताभिरल्पमात्राभिः निवृत्तिसञ्ज्ञां निवृत्तितत्वापरनामधेयां मन्मयीं अपरां तनुमकरोत् ।
तं जलो दरशयं क्षीरार्णवशायिनं अनिरुद्धाख्यं हरिं विदुः पुनः अनिरुद्धात्मना वर्तमानो श्रीहरिरव्याकृतिं मायां विक्षोभ्य गन्धतन्मात्रकां गन्धतन्मात्रामात्रशरीरं सर्वात्मानं सर्वतत्वरूपं देवं नारायणापरनामधेयं प्रजापतिं अखिलप्रजा सर्गनिसर्ग निष्ठत्वात् कृतप्रजापतिसञ्ज्ञकमकरोत् अत्रापि अकरोदिति पूर्वोक्तमनुवर्तते पञ्चेति परस्पपरमात्मनः एताः परमेष्ट्यादि रूपाः पञ्चशक्तयः ऐशेयाभिरेष परो देवः परमव्योम्नि तिष्ठतीत्यादि स्मृतिस्मारिते
पारमेश्वरे पदे व्यवस्थिताः व्यवस्थया निस्सङ्कीर्णतया स्थिताः प्रोक्ताः अशेषजगदाधाराः सुरनरसूकरादिभिदा प्रपञ्च्यमान समस्तप्रपञ्च जीवसमाश्रय सूक्ष्मशरीरात्मक तन्मात्रारूपत्वात् अशेषजगदधिष्ठानभूताश्च प्रोक्ताः एतमेवार्थं विद्वत्संवादेन दृढयति आध्यात्मिकेति वेदवादिभिः पञ्चैताः शक्तयः इत्यनुवर्तते एताः पञ्चशक्तयो वेदवादिभिः आध्यात्मिकाधिभूताधिदैवत भेदस्वाध्यात्मिकस्यात्मनि वर्तमानस्य श्रोत्रवागादिरूपस्य प्राणादिरूपस्य वाऽधि भूत स्वभूतेषु वर्तमानस्य आकाशदिरूपस्य श्रोतव्यवक्तव्यत्वादिरूपस्य वा अधिदैवस्य देवेषु वर्तमानस्य सदाशिवादिरूपस्य दिगन्वादिरूपस्य वा भेदस्य भेदजातस्य कारणहेतुभूताः पञ्च तन्मात्रशब्देन कीर्तिताः अथ समुत्पन्नस्य प्रजापतेः विश्वसर्ग प्रकारं दर्शयति स हि सर्वात्मना प्रजापतिरित्यनन्तर पूर्वप्रकृतः सर्वात्मको ब्रह्मा विविधं जगत् सिसृक्षुः साधारणं
सर्वकार्यसामान्योपादानभूतं अपृसञ्ज्ञकं तदपूर्वं अखिलप्राणिकर्मसंस्कारं व्याकरोत् स्वाव्यक्तप्रथमकार्यतया अकरोत् ताभिरिति ।
तन्मात्रभूताभिः स्वकारण रसतन्मात्रकार्यभूताभिस्ताभिः अपृसञ्ज्ञमिति प्रकृताभिरद्भिरथ तस्मिन् शक्तिं न्यसेत् पश्चात् पार्थिवीं बीजसञ्ज्ञिकीमित्यादि उक्तपृथिवीशक्तिप्रवेशाद्यनन्तरं अण्डमसृजत् तदिति ।
तत्सृष्टमण्डं पञ्चभूतात्मभूतं पञ्ची कृत महात्मभूतात्मकं ।
अत एव पृथिवी वीर्योपबृंहणात् हिरण्मयं अत एव शुभं भासमानं भवतीति शेषः ॥
अत्र तां स्वामव्याकृतमायामित्यादि तदर्धं पञ्च भूतात्मकमित्यन्तेन ग्रन्थसन्दर्भेण इच्छादि शक्तित्रयसृष्ट्यर्थ प्रणवप्राणायामाः परेमेष्टयादि सृष्ट्यर्थ पञ्चतत्वप्राणायामाः अपूर्वाम्भः सृष्ट्यर्थ प्रणवप्राणायामं तत् काठिन्याद्यर्थ पृथिवीबीजादि प्राणायामः समुत्पन्नः ब्रह्माण्ड पञ्चभूतात्मकतार्थपञ्चतत्वप्राणायामाश्च क्रमेण सूचिताः इति
वेदितव्यम् तत्रेति तत्र तस्मिन् ब्रह्माण्डात्मके बिम्बे आत्मनि संहृता उत्क्राम्यात्मैकतां नीत्वेत्युक्तक्रमेण स्वात्मनि विलापिता तन्मात्र पञ्चकाधारास्व नित्यपूर्वशरीरात्मक तन्मातपञ्चकावलम्बना संहताशेषवृत्तिकास्व संलीनभावि प्राणास्य परतस्तत्वसंयोगजन्यवृत्तिका जीवशक्तिः सङ्क्रमते तस्मिन् तादृशीं जीववृत्तिं सङ्क्रमयेदित्यर्थः ।
तदा जीवसङ्क्रमणसमनन्तरमेव जीवेनाधिष्ठितं प्राणो लब्धवृत्तिः समुन्मिषितोर्ध्व वृत्त्यादिदशविधवृत्तिर्भवेत् सहि नयेदव्याकृतैकतामिति प्रकृतः स एव पदार्थो आध्यात्मिकोऽध्यात्मधिदेहं वर्तमानः प्राणः प्राणापरनमिष्यते परमात्माश्रयतया व्याकृतसञ्ज्ञो जीवाश्रयतया वर्तमाणः प्राणात्मना चेष्यत इत्यर्थः अतो अस्मात् प्राणतत्वात् गुणत्रयमयी प्रकाशत्वादि समुन्मावाऽत एवाष्टवृत्तिकी सत्वादिसमुदीरित धर्माद्यष्टवृत्तिमति बुद्धिर्जायते ॥
ततः स्ववृत्त्यनन्तरं तस्मात्
बुद्धितत्वात् कर्तृशक्तिरात्मनः कर्तृत्वाभिमानसम्पादक मायासामर्थ्यबानहङ्कारो जायते वृत्तिः तस्याहङ्कारस्य वृत्तिः शब्दाद्यर्थमयी शब्दाद्यर्थप्रवर्तिका स्यात् मनस्तु समनन्तरं तस्मादहङ्कारात् सङ्कल्पादिमय सङ्कल्पविकल्प वृत्तिकं मनस्तु जायते तस्मान्मनसः शब्दः स्पर्शश्च रूपं च रसो गन्ध इतीरिताः पञ्चार्थाः पञ्चपदार्थाः प्रजज्ञिरे ।
तैरर्थैः ज्ञानकर्मशक्तीनि ज्ञानशक्तिमन्ति कर्मशक्तिमन्तीनि च खानीन्द्रियाण्यारब्धानि तानि द्वितयानि दर्शयति श्रोत्रमित्यादि कर्मसञ्ज्ञानीत्यन्तेन ।
अतः परं तैरर्थैः पञ्चभूतान्यारब्धानीति शेषः भूतानि पठन्ति व्योमेति ॥
एभिर्भूतैः श्रोत्रा द्युपलक्षणं चैतत् ॥
तथा च सुमति -
कार्य षोडशकं स्थूलं सूक्ष्मं बुद्ध्यादिमात्रजं इत्याद्युक्तश्रोत्रादेः तैः सर्वाधारं स्वार्जित सर्वकर्म भोगाधारं स्थूलशरीरं प्रजायते एभिः स्थूलशरीरं तु सर्वाधारं प्रजायते ॥
इत्युपसंहारवचनेनैव तत्वसृष्ट्यर्थ तत्तन्मन्त्रप्राणायाम संवत्सरपरिपाक अण्डभेदादिक्रमश्च सूचितः ।
इह तावत् भूमिरापोऽनलोवायुः रवं मनो बुद्धिरेव च अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधाः इति श्रीभगवदनुदितकारणत्वस्य मनसो मूलप्रकृतिरविकृतिः महदाद्याः प्रकृति विकृतयः सप्त षोडशकं च विकारो न प्रकृतिर्न विकृतिः पुरुष इत्याद्युक्त कार्यकोट्यन्तर्भाव शङ्कया वैकारिकादहङ्कारात् पञ्चबुद्धीन्द्रियाणि तु कर्मेन्द्रियाणि पञ्चैव कर्मार्थानि च तैजसान्मनी जातं द्विरूपं च ततः सङ्कल्पसाधनं भूतादेः पञ्चभूतानि तन्मात्राणि यथाक्रममित्याद्युक्त प्रकारेण अहङ्कारादखिलात्मादि सर्वाङ्गीकरणं न रमणीयम् ।
सर्गविसर्गयोः भिन्नकारणत्व प्रसङ्गात् अङ्गीकारे तु आध्यात्मिकाधिदैवैस्तु करणैर्विषयैस्सह तन्मात्रसंस्थितानीत्युक्तं इन्द्रियाणां तन्मात्रानुसंहरणं नभो मनसि संहृत्येत्युक्तं नभो
नभो मात्रायां मनसि संहरणं च न सङ्गच्छतेतरां तत्रः प्रभृति कारणत्वमेव युक्तमिति स्थितं प्रोक्ततत्वबीजादिकं वक्तुं प्रतिजानीते एतेषामिति न्यासस्थानोक्तियुक्तं तदुद्धरितमकारमिति मकारं मकारात्मकं वाच्यवाचकयोरभेदव्यपदेशात् तादृशं जीवतत्वमन्नमः पराय जीवात्मने नमः इति मन्त्रेण शरीरे सर्वाङ्गे व्यापकं न्यसेत् ।
भकारं भकारबीजवाच्यं जीवौपाधिः प्रणवं तथा सर्वाङ्गतया व्यापकं न्यसेत् बुद्ध्यादित्रयलक्षणं तत्स्थानं चाह वकारमिति मात्रापञ्चकमन्त्रस्थानानि दर्शयति नकारमिति श्रोत्रादीतिणादिचान्तं णकारादिचकारान्ताक्षरदशकात्मकं श्रोत्राद्युपस्थपर्यन्तमिन्द्रियदशकं क्रमान्न्यसेत् ।
तत्तदभिधानाभिधेयस्थान इति भावः ।
तथा चागमः श्रोत्रादीन्द्रियवर्ग मात्मविषय इति विन्यस्येति विशेषैर्नादि कान्ताक्षरैर्युक्तं व्योमाद्यवनिपश्चिमं विन्यस्य स्थूलदेहं प्रकल्पयेत् ।
तन्न्यासस्थानमाह शिर इति सृष्टिन्यासं इति ।
इदं डादिकान्ताक्षरैः युक्तं व्योमाद्यवनिपश्चिममित्येतत् सृष्टिन्यासं क्वचित् ।
ब्राह्मं तु विन्यसेद्बीजं मस्तके तत्वरूपकं आद्यद्वितीयं वक्त्रे वै तृतीयं नाभिदेशतः ॥
इत्यादिरूपे क्वचिदागमान्तरे ।
अन्यथा ङादिकान्ताक्षरैरित्युक्त बीजकमविपरीतकादि ङान्ताक्षरक्रमतया च प्रोक्तः किल ।
किलशब्देन तत्र उपपत्तिचिन्तना सूच्यते ।
एवं प्रकृततत्वन्यासमुपन्यस्य प्रासङ्गिक हृत्पुण्डरीकादिकमाह- हृत्पुण्डरीकमिति ॥
अत्र हृत्पदेनैव तन्न्यासस्थानं च सूचितं हं सूर्यं द्वादशात्मकं स्वरोचिषा द्वासप्ततिसहस्राणि नाडीर्वाच्यव्यवस्थितं हृत्पुण्डरीकमध्यमध्यासीनं विद्यात् तन्मध्ये सूर्यमण्डलमध्ये सं सं बीजं सोमं विचिन्तयेत् ।
तन्मध्ये सोममण्डलमध्ये दीप्तं बिन्दुं अग्नीषोमौ प्रकृतिपुरुषौ बिन्दुनादौ च नित्यावित्याद्युक्त परस्परात्मत्व बिन्दुपदलक्ष्य वह्निबीजं बीजमिति भावः तादृशं
वह्निमण्डलं चिन्तयेत् वैकारस्तस्य दशकलात्मत्वप्रसिद्धिद्योतनार्थः ॥
एवं चिदात्मसंयोग विकृताव्याकृत तत्कार्यरूप प्राणादि पृथिव्यन्तिम तत्वमयं शरीरं तस्मिन्नपि तस्य विशेषनित्यास्थानभूतं हृत्पुण्डरीकादिकं च तत्तन्मन्त्रन्यासेन प्रकटीकृत्य तदधिष्ठि तस्यात्मनः पारमैश्वर्यादिसकलगुणसम्पूर्णता सिद्धये परमेष्ट्यादि न्यासमपि कुर्यादित्याह जीवमिति मैवं निष्पन्नप्राकृतप्राय शरीरमध्यमध्यासीनं जीवमीशभावस्थमाजानसिद्धपारमैश्वर्ये जाग्रतं परिकल्प्यषां बीजेन षोङ्कारबीजयुक्तेन परमेष्टिना योजयेत् परमेष्टिन्यासेन परमैश्वर्यजागरूकं भावयेदित्यर्थः भावः ततों यं बीजेन यं बीजयुक्त पुरुषतत्वेन न्यस्य पौरुषं भावं पुरुषसम्बन्धिनं भावं किञ्चिन्मायावीक्षणेन पुरुषत्वाभिमानमाश्रितं ध्यायेत् सविसर्गेण विसर्गान्तेन वेन वः इति बीजेन न्यस्य अनुग्रहकरं तत्तत्कर्मफलप्रदान रूपान्नुग्रहकरं उपरि रागद्वेषादिकानि
दिवृत्ति सञ्ज्ञभावाश्रितं ध्यायेत् ।
आश्रितं ध्यायेदिति प्रोक्तमनुवर्तते ।
लां बीजेन न्यस्य सर्वसम्भूतिकर्तारं मायातत्कार्यप्रेरणा द्वारेण प्रोक्तलक्षणसकलं तु सन्तानतद्भोगद्रव्य सम्पत्तिकर्तारं सर्वात्मना पुनः स्मरेत् परमेष्ट्यादि न्यासस्थानं च-
पञ्चैताः शक्तयः प्रोक्ताः परस्य परमात्मनः पञ्चतन्मात्रशब्देन कीर्तिता वेदवादिभिः ॥
इत्यभेदकथनात् तत्स्थानकथनेनैव कथमिति द्रष्टव्यम् एवं प्राप्तप्रत्यग्भावस्य आत्मनः स्वस्वरूपप्रत्यभिज्ञानाय कोपतत्वं च न्यसेदिति आह - तत इति पूर्वभावसंहृतिकारणं स्वतः स्वाध्यस्त समस्तप्रपञ्च संहरणकारणं क्षं क्षं बीजं कोपतत्वं सर्वसंयमकारणं स्वाश्रयमाया प्रचार सर्वस्वोपशमनकारणं चिन्तयेत् सर्वेन्द्रियसंयमनाय सर्वाङ्ग व्याप्ततयेत्यर्थात् उक्तमर्थं सङ्गृह्णाति कर्तारमित्यादि ज्ञानशक्तिभिरित्यन्तेन सूक्ष्मतनुं अमूर्तरूपं ज्ञानाभासं चिद्रूपं सुरेश्वरं
समस्तजगत्साक्षिभूतं विष्णुं व्याप्ततरं श्रीहरिमेवं प्रोक्तप्रकारेण कर्तारं तां स्वा मव्याकृतमायां अधिष्ठायेत्याद्युक्त प्रकृतिप्रेरणद्वारेण कर्तारं विकर्तारं जीवेनाधिष्ठितः प्राणो लब्धवृत्तिस्तदा भवेत् इत्युक्त स्वनिरीक्षणविक्रियमाण स्वाधिष्ठितप्रकृतिद्वारेण विकर्तारं सर्वाधारं एवं स्थूलशरीरं तु सर्वाधारं प्रजायते इत्युक्ततत्कार्यरूप पृथिव्यन्त तत्वद्वारेण सर्वाधारमाभिरनन्तरपूर्वोक्ताभिः परमेष्ठ्यादि ज्ञान शक्त शक्तिभि चिच्छक्तिभिः वाच्यवाचकसम्भेद विभक्ताशेषमण्डलं वाच्यसम्भेदेन तत्वकला भुवनाध्वना वाचकस्य भेदेन वर्णपदमन्त्रात्मना च विभक्ताशेषमण्डलं अखण्डमण्डलरूपं स्वविराट् शरीरं सम्यक् तादात्म्येन व्याप्य चेतनीकृत्य संस्थितं स्वस्वरूपजागरूकतया स्थितं चिन्तयेत् वाच्यवाचकसम्भेद विभक्ताशेषमण्डलमित्यन्तेन एवं सृष्टस्य मन्त्रबिम्बस्य षडध्वन्यासेन षड्विधप्रपञ्च
ग्रहत्वं च कल्पयेदिति च द्योतितं ध्यात्वेति अथ तमुपहारार्पणै चोद्वयेदित्याह तत इति सुभाहितः सुसम्पन्न भक्तिः अथ अप्रतिष्ठितमन्त्रबिम्बे परिवारव्यवस्थित्ययोग्यतया तद्विभूति स्फूर्तये मण्डलेज्यां कुर्यादित्याह - प्रभूतैरिति याज्ञिकैः पूजार्हैः आराध्य अधिष्ठानभावनाप्रकारमाअह आसनमिति ।
तत्र तस्मिन् चक्राब्जमण्डले सगात्रं अत्र गात्रपदं पदाद्युपलक्षणं तथा च आधारशक्त्याद्युपरि लसद्धर्माधर्मादि पादगात्रयुतं सपरिच्छदं सत्वाद्युपरिलसन्मायाविद्यादि रूपा स्तरणयुतं आसनं ध्यात्वा सम्पूज्य तस्योरसि तस्य पीठस्योपरि स्वक्षं त्रिनाभिं द्वादशारं द्विनेमिं सर्वतत्वसमन्वितं चतुर्विंशकतत्वरूपं चतुर्विंशति प्रथिसमन्वितं शोभं चक्रं विचिन्तयेत् यष्ठुं विचिन्तयेत् पुनर्यजेच्चेति भावः अथ तद्विवृणोति पूर्वादीति ।
प्राज्ञो गुरुः अधरोत्तरसंस्थितेषु पूर्वादिप्रथिषु
प्रकृत्यादीनि प्रणादि पृथिव्यन्तानि तत्वानि क्रमयोगतो अधरप्रथौ प्राणतत्वं उत्तरप्रथौ बुद्धितत्व मनन्तराधः प्रथौ अहङ्कारतत्वमित्यादि क्रमयोगमाश्रित्य एकावृत्या विन्यसेद्यजेच्च ।
सूर्यमिति अत्र सूर्यपदेन देवतात्मा सूर्यः तन्मन्त्रबीजभूतोऽहङ्कारश्च उच्येते ।
तत एवं योजनाः संवृतस्वर वर्जितैः द्वादशभिः स्वरैः अकारादिविसर्गान्तैः अजभिः सम्यक् द्वादशधा भक्तं सूर्यं हकारं हं हमित्यादिरूपं तथा सूर्यं द्वादशधा भक्तं धातर्यमित्र वरुणांश भगेन्द्र विवस्वत् पूष पर्जन्य त्वष्ट्ट नाम द्वादशमूर्ति विभक्तात्मकं सूर्यदेवतात्मानं च अरेषु विनिवेशयेत् ।
ॐ हं नमः पराय सूर्याय मेषात्मने धान * * * न्नमः इत्यादि मन्त्रैः अरमध्येषु विनिवेश्य पूजयेदित्यर्थः ।
बिन्द्वन्तैरिति ।
शुक्ले पक्षे बिन्द्वन्तै रकारादिबिन्द्ववसानैः क्रमपठितैः पञ्चदशभिः अर सिते पक्षेऽन्यथा व्युत्क्रमपठितैः विसर्गाद्यैराकारान्तैः पञ्चदशभिश्च
स्वरैर्विभक्तं सोमं सोमबीजं सकारं शुक्लेतरविभागतः तिथिरूपाभिः सर्वकलाभिर्विभक्तं सोमं देवतात्मानं सोममेकैकस्मिन्तन्तरे विचिन्तयेदारोहवृत्त्या पार्श्वदये पर्ययण क्रमेणेत्यादि दीपदीपिकाद्युक्तोपपत्त्या मूलादग्रान्तं अग्रान्मूलान्तं च विभज्य सं नमः शुक्लप्रतिपदात्मने नम इत्यादि मन्त्रैः चिन्तयेत् आद्येन स्वरेणाकलाः मध्यतोऽर मध्ये च सं नमः परायामाकलात्मने नमः इति मन्त्रेण च चिन्तयेत् नाभावन्तरादि नाभित्रितये अन्नमः पराय प्रातःसवनात्मने नमः इत्यादिरूपेण स्वनाम्नैव सवन त्रितयं विचिन्तयेत् ।
तथा मं नमः पराय कोपतत्वात्मने नमः इत्यनेन स्वनाम्नैव कोपं कोपतत्वमक्षसंस्थं कर्णिकास्थानसंस्थं विचिन्तयेत् ।
तन्मध्ये तस्य समर्चितपद्मस्य मध्ये नाभ्यन्तः प्रदेशे पङ्कजामारं पङ्कजमित्युपलक्षणं पद्मादिसमष्ट्यन्तस्य पीठशेषस्य तच्चात्र स्मरेत् तन्मध्ये पङ्कजमध्ये पौरुषीं शक्तिं मन्नमः
स्वरैर्विभक्तं सोमं सोमबीजं सकारं शुक्लेतरविभागतः तिथिरूपाभिः सर्वकलाभिर्विभक्तं सोमं देवतात्मानं सोममेकैकस्मिन्तन्तरे विचिन्तयेदारोहवृत्त्या पार्श्वदये पर्ययण क्रमेणेत्यादि दीपदीपिकाद्युक्तोपपत्त्या मूलादग्रान्तं अग्रान्मूलान्तं च विभज्य सं नमः शुक्लप्रतिपदात्मने नम इत्यादि मन्त्रैः चिन्तयेत् ।
आद्येन स्वरेणाकला मध्यतोऽर मध्ये च सं नमः परायामाकलात्मने नमः इति मन्त्रेण च चिन्तयेत् नाभावन्तरादि नाभित्रितये अन्नमः पराय प्रातःसवनात्मने नमः इत्यादिरूपेण स्वनाम्नैव सवनत्रितयं विचिन्तयेत् ।
तथा मं नमः परायकोपतत्वात्मने नमः इत्यनेन स्वनाम्नैव कोपं कोपतत्वमक्षसंस्थं कर्णिकास्थान संस्थं विचिन्तयेत् ।
तन्मध्ये तस्य समर्चितपद्मस्य मध्ये नाभ्यन्तः प्रदेशे पङ्कजामारं पङ्कजमित्युपलक्षणं पद्मादिसमष्ट्यन्तस्य पीठशेषस्य तच्चात्र स्मरेत् तन्मध्ये पङ्कजमध्ये पौरुषीं शक्तिं मन्नमः
मं नमः पराय जीवात्मने नमः इत्यनेन जीवशक्तिं ध्यात्वा क्रमेण आधारशक्त्यादि जीवतत्वान्तं तत्तद्वत् क्रमेण जपादिभिरभ्यर्च्य विद्वान् अष्टोत्तरादि मन्त्रकल्प विशेषः वि * र्चायां अधिवासितमन्त्रबिम्बे यातु विन्यस्ता मन्त्रमयीं तां मूर्तिं तत्र ध्यात्वा क्रमात् साङ्गं सावरणं कल्पयेत् ।
आवरणकल्पनायां चातिक्रमावरणविशेषं दर्शयति द्वादशाक्षरबीजैरिति ।
सदाष्टाक्षरषडक्षरद्वादशाक्षरादि मूलमन्त्रभेदेपीत्यर्थः ।
मान्त्रिकमावरणयोगं दर्शयति वैनतेयादिकानीति एवमिष्ट्वा गुरुर्वा मग्नावाचार्य कुण्डजनितजातवेदसि जननादिक्रमात् जीवादि कोपान्तसमुक्तकॢप्त्या तत्वानि हुत्वा तत्वान्यधिकृत्य घृतेन प्रत्येकं यथोक्तसङ्ख्यं हुत्वा शान्तितोयं प्रणीताजलमादाय बिम्बस्य मूर्धनि बिम्बस्य मूर्धनि सिञ्चेत् शान्तितोयमित्युपलक्षणम् सम्पातस्यापि एवं प्रधानभूत प्रतिमाधिवासनमभिधाय गुणभूत पुराद्यापीठाद्यधिवासनमाह-
पीठमिति शोधयित्वा त्वग्भिर्मृद्भिः ततो दर्भैः सङ्घृण्य क्षालयेज्जलैरित्याद्युक्तनीत्या शोधयित्वेत्यर्थः एवं पीठादिकमप्यधिवास्य दिक्षु मूर्तिधरांश्च चकारात् कुण्डे आचार्यश्च विधिवत् होमान् कुर्यात् ।
विधिवत् पदसूत्रितमर्थं विवृणोति तत इति प्रणयनमाह तत इति पश्चिमे अग्निप्रणयने पाक्षिकला मत्रयमाह अग्निं दूतमिति होमं विवृणोति कृत्वेति प्रधानमों तत् प्रधानहोमः पक्वहोमोऽन्तो यस्येध्मार्धि?धानादि पीठमन्त्रहोमान्तस्य कर्मणः तत् प्रधानहोमान्तं पक्वहोमः दर्वाचीनं कर्म कृत्वेत्यर्थः वेदाद्यैरग्नि मीलेत्यृचा इषे त्वोर्जे वायवस्थोपायवस्थेषा अग्न आयाहीति साम्ना शन्नोदेवीरित्यथर्वणेन चेति वेदादिमन्त्रैर्वाग क्रुद्धोत्कादि द्युत्कान्तैरङ्गमन्त्रैर्वा मूर्तिभिर्वासुदेवाद्यनिरुद्धान्मादिभिर्वा क्रमात् पूर्वादिदिगोपान्तैरेषु त्रिविधमन्त्रेष्वन्यतमैर्मन्त्रैः समिदादीनि द्रव्याणि जुहुयुः द्रव्याणीत्यादि व्रीहीनां चाष्टशतमित्यन्तं एकं वाक्यं इदमिति
गुरुः स्वकुण्डे मूलेन समिदाद्या * * अत्र नारायणात्मके त्वमग्ने द्युभिरित्येवं दक्षिणं पश्चिमं पुनः अग्न आयाहि मन्त्रेणाप्यग्निमग्निमथोत्तरे इति ।
सारस्वते त्वमग्ने द्युभिरित्येवं दक्षिणे वारुणे ततः अग्निं दूतमित्यृचा सौम्ये त्वग्निमग्निं हवीमभिरिति चोक्तत्वात् ध्यातं द्रव्यनवकं हुत्वा ।
अथ अनन्तरं घृतेन दध्नामधुना पयसा च चकारात् सर्वद्रव्येण च यथाक्रमं शान्तिं हुनेत् तत्सम्पातार्पणस्थानमाह स्पृशेदिति घृतं हुत्वा पादं स्पृशेत् स्रुवार्पितेन तत्सम्पातेनेति शेषः ।
तथा च सुमतिः स्रुवेण द्वव्ययुक्तेन स्पर्शनं च प्रकीर्तितमिति दधिनात्वानन्तरं दधि हुत्वा नाभ्यन्तरं स्पृशेत् मधुना हुत्वा मूर्धानं स्पृशेत् पञ्चोपनिषदेरिति ।
एवं पञ्चोपनिषदैः यथाक्रमं शान्तिं हुत्वा प्रकृताधिवासहोमसिद्धैः अशेष भस्मसम्पातैः संस्पृश्य देवं कुसुमैर्यजेत् एवमधिवासमभिधाय हविः सम्पातपूर्वं तत्सपर्याम्माह चतस्र इत्यादिना तद्रक्षिणं द्वारदेशत उत्तराभिमुखाः पृथक् पृथक्
ग्रन्थ्युबद्धा गङ्गा च यमुना चैव तथा गोदा सरस्वती चतस्रो धेनवः स्थाप्याः स्वनामभिः पूज्याश्चेत्यर्थात् तथा च समतिः-
नामभिः पूजनीयास्ताः गन्धपुष्पैर्यथाक्रमम् इति ।
दोहनादि मन्त्रमाह दुहेच्च विष्णुगायत्र्या इति ।
तया विष्णुगायत्र्यैव मन्त्रबिम्बमण्डल योः कृतसन्निधानाय देवेशाय चरुं निवेदयेत् ।
मण्डपात्तु बहिर्दिक्षु प्रथमं दिक्षु पुनर्विदिक्षु अनन्तरं पूर्वाद्यष्टदिक्षु च गन्धपुष्प जलान्वितं बलिं हरेत् ।
दिक्षु बलिमन्त्रमाह आद्याश्चेति ।
विदिक्षु मन्त्रमाह वृक्षेष्विति अष्टदिक्षु मन्त्रमाह विनायकास्त्विति शेषं सुगमं ।
उपसंहरते एवं कृत्वेति ॥
॥
इति क्रियासारव्याख्यायां चतुर्दशः पटलः ॥
१४ ॥