अथ मण्डपसंस्कारं प्रतिजानीते तथेति ग्रन्थार्धेन मण्डपलक्षणं सङ्क्षिपति मण्डपमिति ॥
तत्संस्कारमाह सूत्राणीत्यादि ।
कुर्यात्तालत्रयादिकमित्यन्तेन ॥
आचम्य वाग्यतः आत्मशुद्धिं कृत्वा आत्मानमलङ्कृत्य यथाविधि सूत्रादिसकलं तत्र सम्भृत्य सूत्रेण दर्भदाम्ना च समन्ततो वेष्टयित्वा चतुर्दिक्षु पूर्वादिचतुर्दिक्षु द्वारदेशे यथाक्रमं अश्वत्थौदुम्बरवट प्लक्षोत्थानि तोरणानि
यथाक्रमं नामान्ते पादक्रमानतिवृत्या प्रयुक्तसुशोभनादि तोरणदेवता नामान्तेन स्योनापृथिवीमन्त्रेण निखानयेदिति सम्बन्धः ॥
पञ्चहस्तानि सर्वाणि तेषां व्यासः करद्वयं इति तोरणलक्षणख्यापनं पृथक् वाच्यम् तोरणदेवता गणयति सुशोभनेति ।
ध्वज देवता गणयति तन्मृद इति ॥
ध्वजलक्षणमाह प्रासाद इति ।
ध्वजस्थानमाह तोरणाभ्यन्तर इति ।
तद्द्वयसपर्यामाह तोरणानीति ।
बलिमिति बलिं दत्वा अन्तः प्रविश्य द्वारदेशे पूर्वादिद्वारदेशे उभयपार्श्वयोः दक्षिणवामपार्श्वयोः सरत्नेषु पद्मरागप्रवालास्वित्यागमान्तरगणित रत्नसहितेषु कलशेषु इमान् पूर्णश्च पुष्करश्चैव तथैवानन्दनन्दनौ वीरसेन सुषेणौ च सम्भवप्रभवौ तथा अर्चयेत् ।
तोरणकलशपूजामाह अथ तोरणमूलेष्विति मन्त्रैः स्वस्वनाममन्त्रैः विदिग्देवताविरहख्यापनार्थं
इन्द्रादीन् पूजयेज्यत्वेनाहदित्याह - इन्द्रमिति स्थलशुद्धिमाह सशलाकैरित्यादि शेषं सन्दर्भेण नृसिंहेन फडन्तेन मण्डपं शक्तिरूपं च सङ्कल्प्य प्रोक्षयेद्वासुदेवेनेति व्यवहितेन सम्बन्धः योजना विकिरेत् वासुदेवेत्यादि सादनविधिस्मारकं पृथग्वाक्यं प्राङ्मुखस्तिष्ठन् तेन प्रकृतेन वासुदेवेनोत्तानपाणिना त्रिधा विकिरान् विकिरेत् शेषं सुगमं कुम्भेशपूजामाह - ऐशान्यामिति ॥
अथ ऐशान्यां धान्यराशिस्थं कुम्भेश रत्नहेमाक्षतोपेतं यथा तथा पूरयेत् ।
तस्मिन् लिपिपद्मपूजादि प्रसिद्धविध्युक्तैरङ्गावरणसंयुक्तं हरिं पूजयेत् तच्चेशत्वेन तरिपूजादिकं च विधाय कुम्भेशपरिभ्रमण सम्पूर्येदानीमित्यादि स्वकुण्डे वाऽथ पश्चिम इत्यन्तं एकं वाक्यं च विधाय संरक्ष्य अग्निं च जनयेदित्याह पार्श्वे सम्पूजयेदित्यादि स्वकुण्डे वाऽथ पश्चिम इत्यन्तेन अच्छिन्नधारया * * * * * र्थां साधकः
ततः ईशानादिभागादारभ्य ईशानान्तं परिश्रम्य परिश्र?मय्य विन्यसेदग्रतो त्रिकामवर्धनीं सर्षपोपरीत्यागमान्तर उक्तन्यायेन सर्षपोपरि स्थापयेत् अग्निमिति ।
पश्चात् कुम्भेशपरिश्रमणानन्तरं स्वकुण्डे गुरुकुण्डे * * थ पश्चिमे वृत्ताकारे प्रतीचीनकुण्डे वा अग्निं सञ्जनयेत् आचार्यकुण्डविरहपक्षे पश्चिम कुण्डे अग्निं जनयेदित्यर्थः ।
तथा च नारदीयपद्धतौ बहुदेवत्ये हरिहरभागेपूर्वं तु संस्कृतं वह्निमवस्थायोभयात्मकं अग्निं दूतं वृणीमह इत्यृचा वृत्त कुण्डगं पूर्वाग्निं प्रणयेत् तस्मादग्निना रयिमित्यृचा त्वमग्ने द्युभिरित्यृचा दक्षिणं पावकं नयेत् अग्निमग्निं हवीमभिरित्युत्तरं पावकं नयेत् चतुष्ट पक्षकुण्डे अयं विशेषः परिवेति प्रकृतमुखमूलविस्तारसमः ।
तस्य कण्ठस्य मध्ये निम्नस्वरौ कल्प्यौ च तन्मध्ये वृत्त गर्त प्रवेशिनीत्युक्तरूपं प्रकल्पयेत् कण्ठदेशे
तावत् सुषिरं प्रणालरूपं च स्यात् यावत् कनीयसी प्रविशेत् शेषं विशिष्टद्वादशाङ्गुलमात्रप्रायं यथारुचि पुनरस्य त्रिभागेन दण्डं गोपुच्छवच्छुभमित्याद्युक्त शोभानतिवृत्या विचित्रितं दण्डं कर्तव्यम् ।
एवं स्रुचं लक्षणोपेतारत्निमात्रं स्रुवं कुर्याद्वर्तुलं द्व्यङ्गुलं मुखं गोष्पदं च यथा मग्नमल्पपङ्के तथा भवेदित्याद्युक्तलक्षणोपेतं स्रुवं चकारात् जुहूं च कृत्वा कर्माग्निजननाख्यं सम्यगारभेत् ।
तद्विवृणोति संशोध्येत्यादि मूलेनाष्टशतं हुनेदित्यन्तेन ।
लक्ष्मीमृतुमतीं तत्र ध्यात्वाऽभ्यर्च्य आश्रमाद्यङ्गयुतेन श्रीबीजेनाभ्यर्च्य गर्भाधानादीति-
गर्भाधानं पुंसवनं सीमन्तं जातनामनी तथान्नप्राशनं चौलं व्रतबन्धमिति क्रमात् इति क्रममङ्गीकृत्य तारेणेकेकं प्रत्येकमाराध्य हृदयादिभिरष्टाङ्गैः अष्टाष्टाज्यं हुत्वा तदन्तरान्तरा मूलेन पूर्णां * * * * वै द्वादशात्मनेत्युक्तपूर्वेण मूलेन विधिवत् पूर्णा
पूर्णाहुतिं हुत्वा गर्भाधानादिकर्माणि कुर्याच्चेति सम्बन्धः ।
एवं अग्निसंस्कारं कृत्वा आवाह्य समर्चयेत् ।
पुनर्मूलेनाष्टाक्षरेण अष्टशतमाज्यं हुनेच्चेति ॥
शय्यामिति भूयः कुम्भेशपरिभ्रमानन्तरं शय्यां कल्पयेत् तद्विवृणोति पूर्वमेवेत्यादि द्वादशाक्षरमन्त्रत इत्यन्तेन शय्यां विधिवत् श्रीबीजेन शय्याराधनादि तदर्हविध्युपेतमाराध्य परितः कलशान् न्यसेत् चक्राब्जविरचनामाह पञ्चहस्तमित्यादि शेषाङ्गं भद्रकोपमं इत्यन्तेन ।
पञ्चहस्तमथवा त्रिभागोनं एकं हस्तं चतुर्धा विभज्य तस्य त्रिभिर्भागैरूनं सपादचतुष्करप्रमाणं वा इत्यर्थः तादृशं पञ्चहस्तं वा चतुरश्रं क्षेत्रं स्वीकृत्य पुनः पूर्वापररूपाणि दक्षिणोत्तरूपाणि च सप्तदशसूत्राण्यास्फाल्य समं षोडशधा विभज्य वहिः पङ्क्तिद्वयं द्वारशोभार्थं द्वारशोभाद्यर्थं क्षिप्त्वा चतुर्थीं वाह्यादारभ्य परितश्च पङ्क्तिं तद्विस्तारेण सप्तधा समं विभजेत् एषां
त्रिभागसंयुक्तं बहिष्ट्यश्र समायुक्तं एकापङ्क्तिः ।
तद्बहिष्ठा तृतीया पङ्क्तिः वीथिका स्यादिति शेषः ।
तां चतुर्थां पङ्क्तिं पञ्चधा विभज्य एकं भागं वीथ्यां योजयेत् इदमनन्तरपूर्वोक्तपञ्चमांशे योजने पञ्चहस्ते स्मृता इतरत् तत्पूर्वोक्तं सप्तभागत्रिभाग योजना ।
त्रिपादोन सपादचतुर्थान्ते स्मृतम् ।
अत्रापि आर्षः सन्धिः शिष्टं वीथ्यन्तःक्षेत्रं श्रमयित्वा वृत्तीकृत्य तन्मध्ये तस्य वर्तुलीकृत क्षेत्रस्य मध्ये कर्णिकामध्यवृत्तयोर्मध्ये सममन्तरंशं बहिरंशं च तुल्यं यथा तथा भ्रामयेत् मध्ये चतुर्धा विभजेदन्तर्भागमिति प्रकृते मध्यभागे त्रिभिस्तेषु चतुर्भागेषु अन्तर्गतैस्त्रिभिर्भागैः पङ्कजमष्टदलमालिख्य ताभिः तदवशिष्ट चतुर्भागेण तत्परिमण्डलरूपानाभिं त्रिधावृत्तैः समं त्रिधा विभज्य लिखेत् च ।
दीपदीपिकायां वाह्यवृत्तं लिखित्वा तन्मध्यं च विभजेत् समं अन्तरर्धे त्रिचत्वारि क्षेत्राणि चान्यतः मिथः समानि सङ्कल्प्य कुर्यान्मध्यत्रिकेऽम्बुजम्
अन्तरर्धचतुर्थांशे लिखेन्नाभित्रयं बुधः इति ।
भूय इति ।
एवं नाभिपर्यन्तावयवविरचनानन्तरं अराणि वाह्यं त्रिधा समं इति प्रकृतविभागे बाह्यभागे तदन्तर्भागद्वयेन अराणि समालिख्य नेमिमरपरिधिमुपनेमिक्षेत्रात्मकं तत्तृतीयांशं द्विधा सुसमं तत्रस्थसूत्रं परिभ्रमय्य अन्तर्वाह्यविभागेन द्विधा विभजेत् ॥
अररचनां विवृणोति अरसन्धावित्यादिना अरसन्धावराणां सन्धौ अन्तराले पञ्च सूत्राणि क्षिपेत् तिरश्चीनमपि द्वादशधा भजेत् तद्वृत्तारूढदिक्सूत्रसन्धिभ्यो मध्यमानतः पार्श्वयोः कॢप्तमध्यस्थ सूत्रभक्तं त्रिधा भजेदित्याद्यभियुक्तसमुक्तनीत्या द्वादश अरक्षेत्राणि परिकल्प्य आदिमध्य सूत्रद्वादशकं च आस्पाल्य अरमध्यसूत्राणां प्रत्येकमन्तराले परितस्तिरश्चीनानि पञ्च पञ्च सूत्राणि क्षिपेदित्यर्थः ।
भ्रामयित्वा तदरक्षेत्रं त्रिधा भ्रामयित्वा अराणां मूलाग्रं मूलमग्रं च द्वयं द्वयं अरमध्यसूत्र
उभयपार्श्वगतैकैक पदान्वयेन द्विद्विपदयुक्तमध्यं अराणां मध्यं तन्मध्यसूत्रोभयपार्श्वगत द्विद्विपदान्नयेन चतुर्भागयुतं च यथा भवेत्तथा कृत्वा यथोपमा यथाकारमरं च कुर्यात् नेमिस्थान् नेमिं तु विभजेत् द्विधेति ।
प्रकृतनेमिस्था प्रथयः प्रधयः कार्याः ।
ताश्च प्रधयोराग्रान्यसन्धयः अन्तस्था द्वादशप्रथयोराग्र सन्धयो वाह्यस्था द्वादशप्रथयो अन्याः सन्धयो अरालमध्यसन्धयश्च ॥
तथा च दीपदीपिकायां -
अराग्रमध्या सूत्रोत्थ सन्धयो द्वादशान्तरा ।
बाह्यास्तत्सन्धिसूत्रोक्त विभागाः प्रथयोपि च ॥
इति ।
एवंरूपत्वात्ताश्चतुर्विंशति सङ्ख्याताश्च स्युः ।
अन्यत्तत् बहिष्ठवीथ्यादिकमन्यत्र प्रसिद्धभद्रकादावुक्तवच्च कार्या स्यादिति शेषः ।
तत्पूरणविशेषणमाह रजोभिः पूरयेदिति शेषाङ्गं भद्रकोक्तवदित्यन्तेन निगदव्याख्यातेन वृत्तोपसंहारपूर्वकं वर्तिष्यमाण बिम्बशुद्धिस्नपनांशमण्डप
मण्डपरचनादि क्रमादेतत् सर्वमित्यादिना कलशानिति ।
अथ स्नानमण्डपस्याग्रे पदानि कृत्वा तेषु सर्वतः सर्वेषु धान्यैः पीठांश्च कृत्वा विधिवत् पीठाराधन कुम्भसंस्कारादि तदर्हविध्युपेतं कलशान् पूरयेदिति योजना तत्पूरणं सङ्गृह्णाति एकाशीतीत्यादि दिग्विदिक्षु प्रपूरयेदित्यन्तेन ॥
एकाशीतिपदेक्षेत्रे मध्यनवके पल्लवादिमृदन्तं तद्रव्यपूरयेत् ।
शिष्टान् बाह्यनवकपरिकलशानित्यर्थः मध्यनवकं सम्पूर्य पल्लवादिद्रव्य नियमपूर्वकं निभजेते ब्रह्मेत्यादि मृदमादाय मध्यत इत्यन्तेन ब्रह्मपलाशादि श्रीवृक्षो विल्व इत्यर्थः ।
चन्दने श्वेत चन्दनरक्तचन्दने जातिर्जातिप्रसूनं तथा च पद्धतौ श्वेतरक्ते च चन्दने जातिकुसुमं कुन्दमेव चेति वायव्ये घट इत्यस्य व्रीहीत्यादि शङ्खस्थं प्रपूरयेदित्यन्तेन ग्रन्थेन सम्बन्धः सौम्ये चोपरि मङ्गलमिति सङ्क्षेपरूपवाक्यं सहदेवीत्यादि तत्पुनरित्यन्तं मङ्गलौषधिगणनपरं पृथग्वाक्यं
सप्तेति सप्त वल्मीकसम्भूतां मृदं संसाद्य सोमाय वनस्पत्यन्तर्गतये नम इति विद्यया मध्यतः कर्णिकास्थकलशे न्यसेत् अथवा प्रोक्तसप्तवल्मीकसम्भूता मृदमादाय मध्यतः संसाध्य एतान्यनन्तर पूर्वोक्तानि पल्लवादि मङ्गलौषध्यन्तानि च ते नैव न्यसेत् इति योजना ॥
तत्र पञ्चगव्य कषाय कलशवर्जं सर्वाः शुद्धजलेन पूरयेत् शेषं सुगमं संसाध्येति एवं कलशान् संसाध्य सम्पाद्य मन्त्रान् लोकपालान् वहिर्ध्यायेत् पञ्चमन्त्रैश्च रक्षयेदिति पूर्वप्रयुक्तान् मन्त्रान् सङ्गृह्य सम्यक् प्रतिमात्मनि विलाप्य तोये अधिवासितां अर्चामुद्धृत्य शुभैर्जलैः क्षालयेदिति सम्बन्धः मूर्तिपैर्धृतां स्वास्थितां स्वाभिमुख्येन वितिष्ठमानां तां तदग्रे दर्भपाणिः स्थितो नमस्त इत्याद्यनुष्टुप् द्वयेन उपतिष्ठेत विज्ञाप्येति जिताधिना धारयित्वा अष्टाक्षरेण सप्तधा सप्तवारं सञ्जप्तं दुकूलादिकृतं कौतुकं प्रतिसरं विघ्नोपशान्तये अष्टाक्षरेण वध्नीयात्
ततस्तामर्चां ब्रह्मयानेन वितानाद्युपशोभितं मण्डपं कारयेदन्यत् इत्यादि प्रकृतं मण्डपं नयेत् अत्र वितानाद्युपशोभितमिति विशेषणबलात् मण्डपमिति विशेष्यमध्याहार्थं तत्र भद्रासने स्नानपीठे समायुक्तमिति प्रकृते समारोप्य सम्यक् त्रीणीति मन्त्रं जपन् समीचीन् प्राङ्मुखमारोप्य भद्रं कर्णेति मन्त्रतो भद्रं कर्णेति मन्त्रं सङ्कीर्त्य गव्येन गोभवेनाज्येन ते जोऽसि मन्त्रेण अभ्यञ्जयेत् तथा च सुमति संहितायां-
त्रीणीति स्थाप्य पीठे तां भद्रं कर्णेति कीर्तयेत् तेजोऽसीति समालिप्य गव्येनाज्येन साधकः इति ।
नारायणात्मके च -
त्रीणीत्यास्थाप्य पीठे तां भद्रं कर्णेति कीर्तयेत् तेजोऽसि शुक्रमन्त्रेण घृतेनालिप्य सर्वतः इति मासूरपिष्टेनोद्वर्त्य सङ्घृष्य वारिणा तथा यथा तल्लेपो यथावदपगच्छेत् तथा प्रक्षाल्य वल्मीकया मृदाऽलिप्य तेन वल्मीकमृण्मयेन कर्णिकास्थकलशपूरितेन
वारिणा समुद्रज्येष्ठमन्त्रेण स्नापयेत् पूर्वादिदलकलशस्नपनक्रमं समन्त्रमाह कषायेत्यादि या दिव्या इति मन्त्रेण इत्यन्तेन मूलैः समूलैः सहदेव्याद्यष्टमं गलैरित्यर्थः ॥
नेत्रोन्मीलनमवतारयति नेत्रे चोन्मीलयेत् बुधः इति ।
विवृणोत्याज्यमित्यादि बुध इत्यन्तेन चित्रं देवानामिति चेत्यत्र चकारः चित्रं देवेत्यृचा चैकमाप्यायस्वेति चापरमित्यादि विष्णुसंहि ताद्युपमा ।
नेत्रोन्मीलमन्त्रान् समुच्चिनोति धेनुरिति मुखपटं त्यक्त्वा प्रदर्शिता धेनुः नेत्रोन्मीलनकृतो गुरोर्दक्षिणा भवेत् इत्यर्थः स्नापयेदिति ।
कलशैराग्नेयादि विदिग्दलस्थैः कलशैः प्रथमोक्त क्रमात् पूरणोक्तक्रमात् स्नापयेत् दिग्दलस्थकलशवत् न पूरणस्नपनयोः क्रमभेदो विदिग्दलस्थकलशेष्वित्यर्थः ।
तद्विवृणोति हंस इति द्वाभ्यां द्रुपदादीति मन्त्रेण बिम्बस्थाधःकाय उद्वर्तनं कुर्यात् शिरसि मानस्तोकेति मन्त्रितं मुरमांसीयुतं
आमलकं दद्यात् पश्चात् गन्धवारिणा दिग्विदिक् खण्डमध्यकलशपूरितेन गन्ध्वारिभिः विष्णोरराटमिति मन्त्रेण स्नापयेत् ततः शुद्धोदकैः घटैः तत्परिकलशैश्च तदा तदेदमापः प्रवहतेत्यृचा च संस्नापयेत् अत्र बुध इत्यन्तेन मध्यकुम्भे सहोच्चार्या सर्वेभ्यो मध्यमं विनेति न्यायवित्वं सूचितम् एवं कलशाभिषेकेण क्रमसंस्कृते बिम्बेदेवं सन्निधापयेत् इत्याह ततश्च आवाहयेदिति तन्मन्त्रमाहेहीति ॥
तदुपहारप्रदादप्रकारमाह हिरण्मयेत्यादि सोत्तरीयं कारयेदित्यन्तेन ।
एवं विधोपहारसमादत्ति समेधि तस्य किञ्चित् रूपादिव्यक्तिमाह - विश्वतश्चक्षुरिति ।
विश्वतश्चक्षुरिति मन्त्रेण केशादिपादान्तं पादतलादिकेशान्तं च व्यापयन् सकलनिष्कलं कुर्यादिति भावः ।
अथ किञ्चित्समुन्मिषित वैभवस्य तस्य उपहारप्रदान प्रकारमाह ओषधयः समित्यादि दीर्घायुष्याथ वर्चस इत्यन्तेन न वनस्पतेः पुष्प इत्यादीनि दीर्घायुष्याय वर्चस इत्यन्तेन मन्त्रेणेत्यर्थः ।
तस्य स्तुतिमवतारयति तत इति ततो अग्रतः स्थित्वेतैः सामभि देवेशं स्तुवीत सामानि दर्शयति ।
रथन्तराख्येनेति ।
पुरुषोत्तमं रथन्तराख्येन अभित्वा शूरनोनुम इत्यादिना वैराजेन पिबा सोममिन्द्रेत्यादिना गायकसाम्ना अग्न आयूंषीत्यादिना च स्तुवीत उत्तिष्ठेति बिम्बं भद्रपीठादुत्तिष्ठेति समुत्थाप्य शुभं ब्रह्मरथं ब्राह्मणमथं रथं कृता अर्थात् तस्मिन्नारोप्य पौरुषेण नयेत् ।
मण्डपमिति शेषः द्वारि अर्घ्यं दत्वा तान् द्वारा प्रवेशयेत् विश्वतश्चक्षुरिति ।
एवं अनन्तरोक्तोपहार समुन्मिषितवैभवं विश्वतश्चक्षुरिति मन्त्रेण व्याप्य सकलीकृत्य सम्पूर्णाङ्गं परिकल्प्य शाययेदित्यर्थः ।
इति क्रियासारव्याख्यायां त्रयोदशः पटलः ॥
१३॥