१२

श्रीविष्णुबिम्ब प्रतिष्ठापरिकर सम्पादनमभिधाय प्रतिष्ठा पूर्वरङ्गभूतं मङ्गलाङ्कुररोपणादिकं कर्मकलापं वक्तुं प्रारभमाणः प्रथमं अङ्कुरार्पणं वक्तुं प्रतिजानीते ।
अथ वक्ष्यामीति अथ भूति(मि) प्रासादादि सम्पादन कथनानन्तरं सङ्क्षेपात् मङ्गलाङ्कुरारोपणं वक्ष्यामि सङ्क्षेपग्रहणं तात्पर्यं शिवभोगे वोचामं मन्त्रबिम्बप्रतिष्ठामहाध्वर दीक्षा दीक्षणीयरूपं मङ्गलबीजवापं तु तत्समयं सङ्कल्प्य सप्ताहादि दीक्षादिवसापेक्षयादि * * धि वासशेष तया च तत्तत्समयसमापनीय निद्ध्यादिवत् न तावन्मात्र मवसिद्ध्या प्रारभेतेति नियम यति प्रासादे तु कृते कुर्यान्मुहूते कल्पिते सुधीसुधीर्दीक्षाभिषेकादि विधिशुद्धबुद्धिः आचार्यवर्यः

प्रासाद प्रसीदत्यस्मिन् निषद्येश्वर इति प्रासादो देवगृहं मन्त्रबिम्बं वा तस्मिन् कृते मुहूर्ते कल्पिते तु कल्पित एव कुर्यात् मङ्गलाङ्कुररोपणमित्यर्थात् सङ्कल्पित विधिरिति एकं कालमाह उत्तर इति ।
तत्र प्रथमाव * * ते सुनिर्मले गुरुमौढ्यादिदोषादूषिते उत्तरे त्वयने काले उत्तरायण एव काले तत्रापि शुक्लपक्षे शुभे वारे तिथौ दिने अत्र दिनशब्देन नक्षत्रमपेक्ष्यते * * * शुभत्वविशिष्टत्वं वारादित्रयसाधारणं अथवा दिनशब्देन अहरुच्यते तथा च प मः तत्र पूर्वं तदुचितानि नक्षत्राणि गणयन्ति पुनर्वस्विति भरणीषु चेति ।
चकार उत्तरार्धपठित रेवत्यादीनां जघन्यत्वं सूचयन् अन्त्यपरिपठित भरण्या अत्यन्तजघन्यत्वं सूचयति तिथीर्गुणयति प्रतिपच्चेति ॥
वारानाह सोम इति लग्नशुभत्वमाह उदयनिरीक्षणेति ग्रन्थांशेन अवश्यपरिहार्य मुहूर्तदोषमाह द्वादशस्थमिति दुर्बलो भौमो द्वादशस्थं रविं पश्येद्यथा आचार्यश्चिरेण

अन्धः स्यादित्यर्थः निरूप्येति एवं मुहूर्तं निरूप्य तत्प्राक् मुहूर्तदिवसात् प्राक् सप्तमान्नवमात् पञ्चमाद्वा अह्नः प्राक् अह्न इत्यर्थात् अत्र प्राक्पदं पृथक् कृत्य सप्तमादिपदैश्च प्रत्येकं सम्बन्धनीयं तदपेक्षश्चायं सप्तमा सप्तमादित्यादि पञ्चमीप्रयोगः तथा च सुमतिसंहितायां-

सप्तमान्नवमाद्वापि प्रागेव स्याच्छुभेऽहनि इत्यादि शिवभागे स्वयं चाचीकथत् अष्टमेऽह्नि प्रतिष्ठायाः प्राक्कुर्यादङ्कुरार्पणं इति एवं प्रोक्त सप्तमादिदिवसात् प्राक् शुभे अहनि मङ्गलाङ्कुरारोपनं कुर्यात् ।
बीजावापोऽपि शुभसमयसाधनीय इत्याह शुभेऽहनीति तद्विवक्षया वाऽयं कालविकल्पविधिः वापकालं विधाय तत्सम्बन्धदीक्षाहः कृत्यमाह-

बीजाङ्कुरविधिस्त्वत्र त्रिकालोक्तार्चनान्वित इति ।
पात्रादिकथनपूर्वकं बीजावापविधिं प्रपञ्चयति त्रिविध इत्यादि अवहितो गुरुः इत्यन्तेन ग्रन्थसन्द * * * * ।
सर्वकर्मसु

प्रतिष्ठाकलशोत्सवादिषु सर्वशुभकर्मसु व्रीहिकूर्चकैः पीठिकाः कृत्वा मृदादिपूरितानि पात्राणि तारेण विन्यस्य बीजानि शोधयेदिति सम्बन्धः ॥

प्रियङ्गुसर्षपश्यामराजमाषाढकीयुतम् यवमुद्राषशिम्ब कुलस्थका इति पृथक् वाक्यं बीजानि स्युरिति वाक्यशेषः शेषं सुगमम् प्रोक्षणमन्त्रमाह - जितन्त इति प्रोक्षणप्रक्रियामाह - त्रितारेति पूजनप्रक्रियामाह - देवतेत्यादि ग्रन्थार्धेन तानि बीजानि देवतानामभिः -

यवसर्षपमुद्रेषु ब्रह्मा रुद्रो हरिः क्रमात् वायुः पूज्यस्तु निष्पावे स्कन्दः पूज्यः प्रियङ्गुके माषे ष * * न्द्रः कुलस्थेऽग्निः शालिष्वर्को यमस्तिले वरुणो राजमाषे श्री राढक्यां श्यामगः शशी इत्यादि स्मृत्यन्तरोक्त देवतामन्त्रैः इत्यर्थः तैस्तानि बीजान्यनुसवनमर्चयेदिति भावः तथा चागमान्तरे

सबीजपात्रिका पीठदेवतार्चनमन्वहं सवनेष्वच्युतोऽभ्यर्च्यः सेकान्ते सलिलादिभिः

इति ।
तानि देवतानामभिश्च चकारं मूलेन च गन्धपुष्पैः गन्धपुष्पादिभिरर्चयेदिति बलिप्रक्रियामाह - मण्डलेष्वित्यादि तत्तन्मन्त्रमुदीरयन्नित्यन्तेन बलिद्रव्याण्याह पललमित्यादि नवरत्नं तथेत्यन्तेन पललं भर्जिततिलाधानं भर्जिततण्डुलं उडुम्बं मुकुलं लाजाः फुल्ला भर्जितशालिजाः चरमदिन बलिकालमाह - प्रातरित्यादि ग्रन्थशेषेण कृतसमाधानपूर्वकस्य ध्वजस्थापनमाह एवमिति विधिवत् कृतं धारणादिभिः विधिवत् संस्कृतं वाहनमन्त्रोद्धारपुरस्सरं तत्सपर्यामाह - तारेति सम्बुद्ध्या पक्षिराजपदान्तसिद्धया सम्बुद्धि विभक्त्या पक्षिराज आगच्छागच्छेत्येवं रूपया वा स्थाप्य तेन पक्षिराजाष्टाक्षरेणैव गन्धादिभिर्यजेत् भूयो बीजाङ्कुरोदितमिति शिवभागे ग्रन्थोक्तमुद्धारयति तन्मूल इत्यादिग्रन्थशेषेण निगदव्याख्यातमेतत् एवं बीजावापादिकं विधाय प्रतिष्ठाप्य बिम्बसंस्कारं सङ्गृह्णात्यथेति अथ

बीजावापादि तदुचित प्रारम्भानन्तरं यथान्यायं पूर्वमेव शिलापरिग्रहादि बिम्बसम्पादन विहितन्यायानति वृत्त्या कारुभिः बिम्बं लक्षणावृतं ग्रीवाहृन्नाभिमेढ्रान्तं मुखमानेन कल्पयेदित्यादि समुक्तलक्षणलक्षितं क्रीतं शिलापरिग्रहादि वर्जं तत् कारोः केवलं द्रव्यादानेन न क्रीतं बिम्बं वा काले समायाते त्रिरात्रमश्मनो लोहमेकरात्र मणिनिगामित्यादि द्रव्यभेदविशेषविहिते काले सम्प्राप्ते जले अधिवासयेत् लक्षणान्वितमित्युक्तलक्षणेषु प्रधानलक्षणकल्पनमाह नयनोन्मीलनमिति ।
शिल्पिभिश्च चकारात् पूर्वमेवाचार्येण स्वयं साधरणी दृष्टिः स्यात् चश्चतां नाध ऊर्ध्वगेभ्यां आगमान्तरप्रोक्त प्रकारेण नयनोन्मीलनं कार्यं तद्विधिं बिम्बकलशविधौ स्वयमेव वक्ष्यति प्रतिमापरिग्रहं सङ्गृह्णाति प्रतिमामिति विवृणोति प्रणवेनेति कर्तृकविरहसमनन्तरमेव साम्प्रतिकशुद्धिमाह प्रक्षाल्येति पूर्वं वारिभिः प्रक्षाल्य सर्वतो दर्भैरर्थात् मृद्भिश्च

दर्भैश्च त्वग्भिश्च सङ्घृष्य सङ्क्षाल्य गोवालैश्च स्पृष्ट्वा घृतात्तामेनामथ मसूरचूर्णोद्वर्तनानन्तरं क्षालयेत् तस्या विराड् विग्रह स्फूत्यर्थं होमं च कुर्यादित्याह - शमीपल्लवेत्यादि सम्पाताज्यं समर्पयेदित्यन्तेन अग्रतोऽनले संस्कार्यत्वेन प्रतिमां परिकल्प्य तदग्निं सन्धाय तस्मिन्नित्यर्थः तद्रक्षार्थं नीराञ्जनं च कुर्यादित्याह नीराञ्जनमिति विप्रैरिति ।
अथ पराह्णे पीठपूजाद्यनन्तरं वरुणं सम्पूज्य योगपीठ जलनिधिफलको परि योगपीठं च संस्मरन् बिम्बं सागरमार्गतो घ्राणोपस्थसमायुक्तमित्यादि वक्ष्यभार्गमनुसृत्य संहृत्य अग्निमयं ध्यात्वा ज्योतिबिम्बात् ज्योतिरूपं बिम्बं अप्सु निवेशयेत् बहिर्मन्त्रपञ्चकमन्त्रार्चि बहिःलोकपालान् ध्यात्वा पञ्चमन्त्रैः पूर्वादिदिग्गतैः वासुदेवादिभिः शिष्टदिग्गतेन अन्त्येन च चकारादस्त्रेण च रक्षयेत् मूर्तिपञ्चकल्पनानन्तरं तद्बहिः लोकपालांश्च तद्रक्षणपरत्वेन कल्पयेदित्यर्थः द्रव्यतारतम्यावगम्य

जलाधिवासकालावधिमाह त्रिरात्रमिति आत्मनः श्रीविष्णुबिम्बत्वेन कल्पितानन्त्य विशेषान् त्रिरात्रं तथा कल्पितं लोहमेकरात्रं एकाहोरात्रमात्रं अह्नि निशां च अप्सु अधिवासयेदिति शेषः उपसंहरति प्राक्शिर इति एवं बिम्बजलाधिवासमभिधाय तत्समयसमकर्तव्यां प्रासादशुद्धिं अवतारयति अथेति अतन्द्रित इत्यनेन प्रतिष्ठाप्ये विष्णुबिम्बे प्रारब्धशुद्धिक्रमे प्रासादे तु कृते सम्यगित्यनूक्त शिल्पकर्म समाप्तिकं तत्प्रतिष्ठाधिष्ठानभूतं स्थूल प्रासादशरीरमपि कालापेक्षया क्षुद्ररक्षप्रवेशाच्च दूषितमकार्षीदिति सूच्यते विवृणोति मूर्तिपैरित्यादिना ॥
मूर्तिपैः सार्धं सप्रदक्षिणं प्रासादमागम्य गेहदक्षिणे प्रासादस्य याम्ये पार्श्वे आसीनो गुरुः मन्त्र न्यासादिकं मन्त्रन्यासात्माराधन गणाधीश प्रीणन शुद्धिसाधनसादनादिकं क्रमात् कुर्यात् भूयः तक्षकैर्मुक्तमात्रं तु मुक्तमात्रमेव प्रासादं शोधयेत् शोधनं विवृणोति सूत्रै

सूत्रैरित्यादि तालतयादिकमित्यन्तेन गर्भागारं तदर्थात् बहिश्च अस्त्रदृष्ट्या समालोक्य समन्ततः सूत्रैश्च दर्भदाम्ना च वेष्टयित्वा पुनः सम्मार्ज्य गोमयेन प्रोक्ष्य सङ्क्षाल्य उपलेपयेत् अस्त्रमन्त्रतः सर्षपाक्षतदूर्वाभिर्विकिरेच्च ॥

सम्मार्ज्य शकृतालिप्य गन्धोदैश्च प्रविलिप्य चकारात् गव्यैश्च प्रोक्ष्य पञ्च शक्तिभिः परमेष्टयादिभिः दूर्वाक्षतकुशाद्यैश्च विकिरेत् अष्टाक्षरेण सर्वत्र सदीपकं धूपं च दद्यात् अथ धान्यानीति ॥
अथ शाङ्कराग्नेय वायव्यानां अन्यतमकोणे * * * चर्य तत्र धान्यानि प्रविकीर्य पूर्णकुम्भमस्त्रकलशं च विन्यसेत् पञ्चगव्येन पञ्चगव्यशेषेण कृणुष्वेत्यादिभिश्चक्रमन्त्रेण सर्वतः प्रोक्ष्य तालत्रयादिकं कुर्यात् ।
अत्र अनन्तरपञ्चगव्यप्रोक्षणं साम्प्रदायिकमित्यवगन्तव्यम् ।
रक्षोघ्नहोममाह - आग्नेय्यामिति ।
रक्षोहणादिमन्त्राभ्यां पक्वं पश्चात् कृणुष्वेत्यादिभिः ये देवाद्यैश्च पञ्चभिर्दुर्गाभिः व्याहृतीभिश्चाज्यं च

हुत्वा चतुर्द्रव्याणि होमयेदिति सम्बन्धः चतुर्द्रव्यहोमं विवृणोति अपामार्गेति ।
चक्रमन्त्रेण अपामार्गसमित् हविराज्यं च प्रत्येकमष्टशतं हुत्वा समापयेद्धोममिति शेषः सम्पातसमर्पणादि तद्विशेषमपामार्गेत्यादि श्वश्रं च पूरयेदित्यन्तेन श्वश्रं प्रतिष्ठागर्तं पूरयेद्धान्यैरिति शेषः वास्तुहोममवतारयति एवमिति तमेवेति ईशे तमेव राक्षोघ्नहोमाङ्गीकृतमेव अग्निं निधाय तत्पूर्वे व्रीहितण्डुलैः कॢप्ते वस्त्रास्तीर्णे स्थण्डिले कुशदूर्वा शमीपर्ण कूर्चस्थौ क्रमेण तण्डुलाम्बुभिः पूरितौ घटौन्यसेत् ।
ततस्तण्डुले तण्डुलपूर्णकलशे हेमं न्यस्य गणो देवीत्यृचैव एवकारसूचिता न्यनिरपेक्षत्व प्राप्तद्विरावर्तित स्वपादाङ्गया शन्नो देवीत्यृचा वार्ध्यदिभिः क्रमात् शान्तिमर्चयेत् परिधिस्थापनात् पूर्वं एवं कृत्वा अथ वास्तोष्पतेति द्वाभ्यां मन्त्राभ्यां पक्वं होमयेत् वास्तोष्पते ध्रुवे त्याद्यैः षड्भिः ज्ञातादिपञ्चभिः शन्नवर्गैः पुनः

तथा व्याहृतीभिश्च घृताहुतीर्जुहुयात् कुर्यात् तया शन्नो देवीत्यृचा शमीसमित् घृतान्नाज्यं अथ मूलेन गव्याक्ताभिर्दूर्वाभिश्च होमयेत् अष्टोत्तरशतं हुत्वेति शिवभागोक्तं अत्राप्यनुवर्तते ।
समापयेद्धोममिति शेषः ।
अथ हवि वास्तुवलिसम्पात समर्पणादिकं च कुर्यादित्याह होमावसान इत्यादि शिवांवास्त्विति वाचयेदित्यन्तेन निगदव्याख्यानमेतत् ।

इति क्रियासारव्याख्यायां तत्वप्रकाशिन्यां द्वादशः पटलः ॥
१२ ॥