११

नमः शिवाय अथैवं तावत् पाशुपतानुसारेण शिवतन्त्रमभिधाय पञ्चरात्रानुसारेण अनन्तरप्राप्तं विष्णुतन्त्रं वक्तुं प्रतिजानीते-

नमस्कृत्य हरिं वक्ष्ये सङ्क्षेपेण क्रियाक्रमं इति स्मृतिमूलत्वात् प्रयोजनं च ख्यापयन् प्रतिज्ञां विवृणोति देवैरित्यादि तीर्थस्नानाव सानिकमित्यन्तेन देवैर्वासुदेवादिभिः मुनिभिर्नारदादिभिराचार्यैः भगवत्पादौदिभिश्च स्फुटोदितं यद्यपि अत्रोत्तरवाल्ये तथापी त्यङ्गीकारात् शङ्का वाक्येपि यद्यपीति प्रयोक्तव्यं एवं स्फुटोदितं यद्यपि तथापि साधकेन्द्राणां क्रियाविधौ स्मरणाय अहं गुरुपूजादि

तीर्थस्नानावसानिकं क्रियाक्रमं क्रियाक्रममिति पूर्वोक्तमनुवर्तते तं वक्ष्ये गुरुपूजां समारभ्य तीर्थस्नानावसानिकमिति पाठे एकमेव वाक्यं प्रथमप्राप्तं गुरुवरणं सङ्गृह्णाति शोधित इति ।
विवृणोति यजमान इति दक्षिणे पाणावित्यन्तेन दक्षिणे पाणावालम्ब्य मन्त्रमेतदुदीरयन् वरयेदिति योजना अत्र अङ्गमूर्तिमन्त्रेषु यैर्मन्त्रैः मूर्तिपसमिज्या प्रयुज्यते तैरेव अर्घ्याद्यभिमन्त्रणं कर्तव्यमिति ख्यापनार्थं मूलेन मूर्तिभिर्वा अङ्गैरभिमन्त्र्येति विकल्पितं सोपि देशिको मृदादिभिः कल्पान्तरकथितैः उर्वीं परीक्ष्य यथोचितां ज्ञात्वा महीं प्राकारपर्यन्तं प्रकल्प्य अत्र मध्ये दिशासु च यथान्यायं गन्धाद्यैरभिपूज्य अनेन मन्त्रेण भूतक्रूरबलिं दद्यात् इति सम्बन्धः ।
कृत्वैवमिति एवं भूत परिग्रहं कृत्वा सामान्यशुद्ध्यर्थं बहुशः इष्टां क्षितिं सुमुहूर्ते खनेत् क्षितिमिति वक्ष्यमाणं क्षितिपदमत्रापि समाकृष्य योज्यम् अथ नव

नववस्त्राद्यलङ्कृतः स्वयं गुरुः विधितेन मन्त्रतो मन्त्रेण करसः सार्वविभक्ति त्वान्मन्त्रत इति तृतीयान्तं पदं ।
शेषं सुगमम् पातालप्रतिष्ठां सङ्गृह्णाति सुमुहूर्त इति ।
कूर्मशिलां न्यसेदिति ।
अन्तेन तत्र प्रथमप्राप्तं विधिं विवृणोति रत्नेत्यादिभिः प्रार्थयेन्मनुनामुनेत्यन्तेन मध्ये गर्तं मध्ये शक्तितो यथाशक्ति मूलेन रत्नहेमादिविन्यस्य पीठाराधन कुम्भसंस्कारादिपुरस्सरं कुम्भेषु न्यस्येत्यर्थः ।
शेषं सुगमं निधिनिधानविधिसमापनपूर्वकं कूर्मशिलान्यासार्थं लिपिपङ्कजमवतारयति गन्धाद्यैरिति ।
लिपिपङ्कजं विशिंषन् तन्मन्त्रानुद्धरति क्षादित्यादिनाद शक्तियुतं मध्य इत्यन्तेन ।

क्षकारश्च तदाद्यास्तु लकारादि शकारान्ताश्च क्षादयः तद्गुणसंविज्ञानो बहुव्रीहिः क्षादयो मूर्तिशिफानालसराकण्टकरन्ध्राणि यस्य तत्तथा अत एव क्षं नमः पराय मूर्त्यात्मने नम इति तन्मन्त्रास्तूद्धारधर्मादि

सहिता अन्तस्था धर्माद्यन्तस्था धर्माद्यन्त स्थाभिर्युक्ता धर्माद्यन्तस्थयुजः धर्माद्यन्तस्थयुजो ग्रन्थयो यत्र तत्तथा ।
अत्र ग्रन्थिपदं सामान्येन आग्नेयपूर्वाद्यष्टग्रन्थिवचनं विवक्षितं तर्हि कथं पूर्वादिग्रन्थिषु बीजवर्णसिद्धिरित्यत आह साऽधर्मादि नपुंसकमिति अधर्मादिभिः सहितानि नपुंसकानि अधर्मादिनपुंसकानि अधर्मादिनपुंसकैः सह वर्तमानं साऽधर्मादिनपुंसकं यं नमः पराय धर्माय आग्नेयग्रन्थ्यात्मने नम इत्याद्याः तन्मन्त्राः पत्रैः पत्ररूपैः त्रिभिस्त्रिभिः काद्यैः ककारादिभकारान्तैः वर्णैः समन्वितं समन्तादनुगतं कर्णिकान्तैः कर्णिकारूपो अन्तो मकारो येषां कादीनां ते तथा कं खं गं नमः पराय पूर्वकेसरात्मने नम इत्याद्या स्तन्मन्त्राः बीजभूतस्पर्शान्तिममकारबीजत्वेन पत्रसमनन्तर विसर्गेति ह्रस्वदीर्घविभाग विभिन्नेषु अष्टसु स्वरवर्णेषु ह्रस्वान्तर्गतेन विसर्गेण दीर्घान्तर्गतबिन्दुना च लिप्ताग्राः पूर्वाः स्वराः

केसराः यस्य तत्तथा अः आं नमः पराय पूर्वकेसरात्मने नमः इत्याद्यास्तन्मन्त्राः अत्र पत्रबीजभूत स्पर्शान्तिममकारबीजत्वेन पत्रसमवगत रसमवतीर्णाया अपि कर्णिकाया वर्णाब्जसमर्चनस्य बहिरङ्गक्रमोत्क्रमात् सम्प्रदायसमधिगत केसरानन्तर समिज्या युज्यत एवं कार्यरूपक्षकारादि वर्णप्राप्तिमभिधाय ओमित्यन्तर्नयति नियताया प्रति प्राणिशब्द इत्याद्युक्तस्वरूपकारण वर्णरूपप्रणवव्याप्तिमाह तारांशेति आत्मविद्या परक्रमात् तारांशत्रितयोपेत प्रोक्त पत्रकेसरकर्णिकासु विष्वक् व्याप्तैरकारादितारांश भूतैरात्मविद्यपरतत्वैः उपेतमित्यर्थः ईं आत्मतत्वात्मने नम इत्याद्याः तन्मन्त्राः ।
अत्र तारांशत्रितयोपेतमिति वचनसामर्थ्यादेव तत्वत्रयसमर्चनात् प्रागेव तदङ्गभूत मण्डलात्मत्रयसमर्चनामपि कैश्चित् स्मर्यते मध्ये कर्णिकायां नादशक्तियुतं अत्र नादशक्तिपदाभ्यां तारांशभूतनादशक्ति तद्बीजभूत हकार

ह्रीङ्कारौ च तन्त्रेणोच्येते ॥
हृन्नमः पराय नादात्मने नमः ह्रीं नमः पराय शक्त्यात्मने नमः इति च तन्मन्त्रौ -

अकारश्चाप्युकारश्च मकारो बिन्दुरेव च नादशक्ती च शान्तं च प्रणवः सप्तधा स्मृतः इत्यादि स्मृतिस्मृत प्रणवांशेषु प्रथमांशत्रथ भूतात्मादिः त्रयस्य उपोत्तमांश द्वयभूतनादशक्त्योश्च ग्रहणादेव तदितरांशभूत बिन्दुशान्तग्रहणमप्यवरुध्यत एवेति बोद्धव्यम् ।
सं नमः पराय बिन्द्वात्मने नमः ओन्नमः पराय शान्तात्मने नमः इति च तन्मन्त्रौः ॥
एवं क्षादिमूर्त्यादिविशेषणविशिष्टं लिपिपङ्कजं कल्पयेदिति सम्बन्धः ॥
तस्मिन् लिपिपङ्कजे कूर्मशिलां न्यसेत् ॥
कूर्मशिला प्रतिष्ठा विवृणोति क्षालितामिति ।
अथ तत्र तस्मिन् लिपिपङ्कजे क्षालितां गन्धपुष्पाद्यैः समभ्यर्च्य अधिवासितां तां कूर्म शिलां अकूबारेति न्यस्त्वा अभ्यर्च्य प्रार्थयेत् कृतसमाधानपूर्वकं तद्गर्तकर्तव्य गणपति दक्षिणामूर्ति परदेवता प्रीणन गर्तपूरणं

चाहेति प्राच्येत्याद्यग्निं तर्पयेदित्यन्तेन ।
अथ गणपतिदक्षिणामूर्ति पूजानन्तरं द्वारदेशे देवेशमभ्यर्च्य अग्निं तर्पयेच्चेति सिंहावलोकन न्यायेन पूरणात् पूर्वकृत्यं समुच्चिनोति ।
इष्टकाधानपूर्वाङ्गभूतं वास्तु बलिं सङ्गृह्णात्यथैशान्यां पूजये द्वास्तुं कुश पुष्पाक्षतौदनैरिति ।
तत्र प्रथमं तत्पुरुषकॢप्तेरुपदेष्टव्यं दर्शयति एकाशीति पदकॢप्तिं वक्ति ।
मध्य इति बहिः पङ्क्तावीशादीनां पदमेकैकं भवेदिति सम्बन्धः प्रोक्तपदपूज्या देवताः प्राह पूज्य इत्यादि विचक्षण इत्यन्तेन ।
नवपदे ब्रह्मा पूज्यः पुनः अनन्तरप्रोक्ते पूर्वषट्के पावककोण द्विकद्वये चार्यसञ्ज्ञिकः सविता सावित्रश्च पूज्यः ।
पूज्य इत्यनुवर्तते विवस्वान् विट्पदे स्थितः दक्षिण इत्यर्थात् इन्द्रजय इन्द्रश्च तथा नैर्-ऋतदिक् द्वय इत्यर्थः मितः पश्चिमदिक् स्थितः ।
रुद्रजयो रुद्रश्च तथा वायव्य दिक्द्वय इत्यर्थः सौम्ये षट्क इति शेषः तत्र महीधरः शार्वे दिक्द्वये आपवत्सः

आपश्च एवं यथाक्रमं पूज्याः इति शेषः कं ईशादिबहिः पङ्क्तिगतैकैकपददेवता आह - ततस्त्वित्यादि कौबेर्यां दिशि संस्थिता इत्यन्तेन ॥
एवं ब्रह्मादिपञ्चचत्वारिंशत् देवताः पदविभागमुक्त्वा शिष्टानामष्टानां स्थानमाह- शर्वस्कन्देत्यादि विचक्षण इत्यन्तेन अत्रापि तद्वहिः कर्तव्य इत्याह - अथ देवग्रहादीनां बलिं दद्यात् यथाक्रममिति यथा प्रोक्तक्रमं प्रदक्षिणक्रमादिति ग्रहान् पठति देवांश्चेति वास्तुबलेरावश्यकद्योतनार्थं ऐतिह्यमाह आसीदिति ।
पुरा जगत् सर्गसमनन्तरं वास्तुसञ्ज्ञको अत्तिव भीषणः असुर आसीत् जगद्दन्दत्यामानः सः देवैः भूमौ निपातितः तैर्देवैः तदुत्थानार्थं तस्य वास्तुपुरुषस्य अङ्गेषु निवेशिता एताः त्रिपञ्चाशत् देवताः उपहारैरीशं यजेदाज्ययुतात्मकैश्चेत्यादि कल्पान्तर कथितैः बलि द्रव्यैः स्वैःस्वैर्नामभिः पूजयेत् ।
उपसंहरति बलिमासां क्रमाद्दत्वा भक्त्या नत्वा क्षमापयेदिति पक्षद्वयोक्तम्बलिङ्क्रमं नियमयति मध्यादिति

शिवभागे खननानन्तरं विष्णुभागे समतलीकरणानन्तरं च वास्तुबलिकथनं उभयोरप्युभयत्र कर्तव्यत्वख्यापनार्थं नान्यतरग्रहाणामिति द्रष्टव्यम् कृतसमाधानपूर्वकमनन्तरकर्तव्यमवतारयत्येवमिति ॥
इष्टकाधानं सङ्गृह्णाति द्वारस्य दक्षिणे पार्श्वे विन्यसेद्विधिपूर्वकमिति उक्तविध्येकदेशभूतं होमं विवृणोति तत्र उत्तर इत्याद्यष्टोत्तरशतमित्यन्तेन वा इन्द्रादि व्याहृतीभिः इन्द्रादिभिश्च रेखा रेखा इत्यनुवर्तते लिखित्वा पश्चात् पीठ पूजाद्यनन्तरं ।
अथवा पश्चात् अग्नेः पश्चिमभागे कृताञ्जलिः पूर्वतोमुखो अग्न्याभिमुखः स्थित्वा अष्टाक्षरं जपेत् जप्त्वेति प्रणतो भक्त्यतिशयेन ननम्यमान मूर्धा प्रभुं प्रपञ्चरूपेण प्रभविष्णुं नारायणं स्मरन्नेवं अष्टकृत्वो जप्त्वा तदनुज्ञां प्राप्येत्यर्थात् ।
एवं कृत्वा तास्विष्टकासु सम्पाताज्यं समर्प्य पावकं चोद्वास्य प्रणतः प्राङ्मुख इष्टकायतनाभिमुखो गुरुः तमग्न्युपाधितया

प्रकृतं प्रभुं ध्यात्वा विराड्विग्रहरूपेण भगवता अष्टप्रकृत्यभिधानद्वारेण अष्टेष्टका व्याप्ता इति सम्भाव्येत्यर्थः एवं ध्यात्वा कोष्ठेषु प्रकल्पितेष्विष्टका यतकोष्ठेषु अष्टभिरक्षरैरग्न्यद्मिन्द्रान्तं अष्टौ ता ता इष्टका विन्यसेत् चतुरश्रे चतुष्कोष्ठे न्यस्याग्न्यनिलकोष्ठयोः सौम्याग्रसूत्रे पूर्वाग्रे तथैव निर्-ऋतीशयोः इत्याद्यागमान्तराभिहितक्रमेण द्विद्विभक्त खण्डचतुष्कोपलक्षितं क्षेत्रं कृत्वा आग्नेयवन्नामाग्नेयखण्डमारभ्य ईशकोष्ठगतपदद्वयेन्द्रपदान्तं विन्यसेदित्यर्थः ॥
तथा च प्रयोगमञ्जर्याम् - अष्टौ सत्यकलाष्टभिश्च विधिवत् संस्थापयेदिष्टकाः प्रादक्षिण्यविधानतः शतमरवादीशान्तमाशास्वपि ॥
इति अग्न्यादीशान्तमिति पाठः समीचीनः तथा च विष्णुसंहितायाम्-

अग्न्यादीशान्तमष्टौ ता इष्टका विन्यसेत्वमात् तत्रापि चतुरश्रे चतुष्कोष्ठ इत्युक्तचतुष्-इत्युक्तचतुष्कोष्ठापेक्षया

अग्न्यादीशान्तं अग्न्यादीशान्तं विन्यासविधिरिति ।
द्रष्टव्यं इष्टका इति एवमिष्टकास्तु विधाय विमलैः गालनादिविशुद्धैः वस्त्रसंस्कृतैः कलशैः पूर्वं पूरितैः रचितैः सम्पातरत्नगन्धाढ्यैः सुगन्धिभिर्वारिभिश्च इष्टकामध्यगर्तं सम्पूर्य तारेण शुभपुष्पाक्षतं न्यस्य आवर्तमीक्षयेत् आवर्तपरीक्षणफलमाहशुभाशुभाविहावर्तौ ज्ञातव्यौ दक्षिणोत्तरौ इति ।
शाल्यादीति ।
ततः तत्रत्यदेवताप्रसादनानन्तरं शाल्यादि क्षेत्रमृत्साभिश्च गर्तं प्रच्छादयेत् ॥
तथा च प्रयोगमञ्जर्यां परिपूरयेच्च शाल्यादिभि क्षेत्रजमृत्तिकाभिरिति ॥
शेषं सुगमम् ।
स्वप्तघ्नप्रयोजनमाह शुभे लाभ इत्यादि ग्रन्थशेषेण ।
प्रकृतसमाधानपूर्वकं अनन्तरकर्तव्यं अवतारयति अनेनेति ।
गर्भपात्रकॢप्तिं प्राह - प्रासादस्येत्यादि तद्विदुरित्यन्तेन प्रासादस्यानुरूपेण चतुष्करमथारभ्य त्वेकसप्तति पश्चिमं प्रासादमेकहस्तादि

प्रासादमेकहस्तादि नवहस्तान्तमेव च लिङ्गं तु गर्भपात्रं च चतुरङ्गुलमायतः ।
कृत्वा हस्तान्तमुद्दिष्टं त्रयं त्रैराशिकैर्नयेत् इति पाशुपते-

अष्टाङ्गुलं चार्धसमुच्छ्रयं च पादोनमूर्ध्वे विहितोच्छ्रयं च ।
हस्तायतं पात्रमथोत्तमं स्यात् त्रैराशिकेनोच्छ्रयमत्र कल्प्यमिति

प्रयोगमञ्जर्यां - अष्टाङ्गुलं तदर्धोनं पादहीनोत्तरच्छदमिति सुमतिसंहितायामागमान्तरेषु च उक्तेन प्रासादस्यानु रूपेण सान्द्रत्वादिविशिष्टं गर्भपात्रं प्रकल्पयेत् - तद्यथाविधि पञ्चगव्यक्षालनादि विध्यनतिवृत्या शोधयेच्च प्रकारान्तरेण पात्रप्रमाणमाह सुगुप्तमिति तद्यथा भित्तौ सुगुप्तं भवेत् तथा भित्तिमनेन भवेद्वेदियोजना भित्तिमाह - भित्तिस्तम्भेत्यादि ग्रन्थशेषेण तत् भित्त्यंशापतितं मानं भित्तिस्तम्भचतुर्धाम त्रिभागैकं भित्तिस्तम्भायामं चतुर्धा

विभज्य तदेकभागं पुनस्त्रिधा विभज्य तदेकभागं विदुः भित्तिस्तम्भायामद्वादशांशमित्यर्थः ।

गुणैः स्तम्भस्य विस्तारं भङ्क्त्वा भागद्वयोन्मितं इति शिव भागोक्तं भित्ति स्तम्भचतुर्भागमिति भागैकं तु तद्विदुरितिहोक्तं चतुरङ्गुलमानतः ।
कृत्वा हस्तान्तमुद्दिष्टमित्यादि स्मृत्यन्तरोक्तं च प्रायस्तुल्यम् एवं गर्भपात्रकॢप्ति मुक्त्वा गर्भस्थापनस्थानमाह द्वारस्येति द्वारस्य भाविप्रासादद्वारस्य दक्षिणे वामेतरे भागे तृतीयांशे भित्तिविस्तारं त्रिधा विभज्य भागद्वयं बहिः कृत्वा परस्मिन्नंशे तत्रापिवीते ।
तृतीयमंशमपि तृतीयमंशमपि त्रिधा विभज्य भागद्वयमन्तः कृत्वा परस्मिन् भागे भित्तिविस्तारं नवधा विभज्य भाग षट्कं बहिः भागद्वयं अन्तश्च कृत्वा परस्मिन् भागे गोमूत्रेण आलुप्ते तस्मिन् द्वारमूलस्य पार्श्वतः द्वारशाखामूलं संश्लिष्य न्यसेत् ॥
गर्भमिति शेषः गर्भपात्रे तत्र द्रव्यन्यासप्रकारमाह- क्षालित इत्यादि हिरण्मयमित्यन्तेन

पञ्चगव्येन क्षालिते धारणाभिश्च परिशोधिते अस्मिन् पात्रे पीठे व्रीह्यादिभिर्विरचिते कृत पीठपूजे च पीठे अक्षतोपरि विन्यस्य कृत्वा सागरमुद्धृतिमिति शिवभागोक्त न्यायेन पीठे विन्यस्तेऽस्मिन् पात्रे पूर्वं सागरमृद्धृतिं कृत्वा यथान्यायं अक्षराम्भोजं ध्यात्वा तस्मिन् सशैलां भोधि दिग्गजमनन्तस्थं भूमण्डलं च ध्यात्वा ध्यात्वेत्यनुवर्तते गिर्यादिभ्य आहता मृदो गायत्र्यादिक्कोणमध्येषु विन्यसेत् कूर्मरूपं कूर्म मूर्तिं कूर्ममित्येवार्थः ।
शेषं सुगमम् उपसं हरत्ये तत्सर्वं समानीय न्यस्तव्यम् गर्भभाजन इति ॥
गर्भहोममाह कृत्वैवमित्यादिना ग्रन्थसन्दर्भेण ।
कृत्वेति एवं कृत्वा द्रव्यविन्यासमिति शेषः ।
द्वादशविद्यया द्वादशार्णविद्यया पञ्चगव्येन प्रोक्ष्य अग्नेर्दक्षिणतः कृत्वा पूर्ववत् क्रमात् जुहुयात् पूर्वोक्तेष्टकाहोमवत् पक्वादिस्विष्टकृदन्त हवनविधिं कुर्यादित्यर्थः तत्र व्यस्तैरष्टाक्षरै रष्टाविद्यादीष्टकाहोमोक्त मन्त्रविशेषस्थापन

होतव्यमन्त्रान्तराण्याह - घृतद्वादशभिः वर्णरीत्यादिभिः वृषभास्तरेत्यन्तेन व्याहत्यन्तमिति ॥
ततो मन्त्रविशेष होमानन्तरं व्याहृत्यन्तं व्याहृतीर्जुहुयात् ।
ततः समिदाज्यचरूनाज्यं गायत्र्या अष्टोत्तरं शतमिति पूर्वोक्तव्याहृति तदन्तचतुर्द्रव्यादिकं च सम्पातहुत्वाज्यं सम्पातहुत्वाज्यं सम्पातमाज्यं समर्प्य विधायाग्रतः स्थितं तत् पात्रं भुवं ध्यात्वा मन्त्रान् होमोक्तमन्त्रान् जप्त्वा निशि सुमुहूर्ते शोभनैर्निमित्तैश्च सार्धं द्विजानुज्ञां प्राप्य प्राङ्मुख परया भक्त्या च युतः स देशिकः स्वकां तनुं हरिं ध्यात्वा समिष्ट विष्टरे गर्भायतने शक्तिं च ध्यात्वा अर्चयित्वा इदमग्रकरे स्थितं गर्भपात्रं अस्थाः शक्तेः गर्भभूतं शुभ्रं पार्थिवं ब्रह्माण्डं स्मरन् अस्मिन् पात्रे पूर्ववत् भूमण्डलमनन्तस्थं सशैलाम्भोधि दिग्गजमिति पूर्वोक्तप्रकारेण उर्वीं च ध्यात्वा शनैः मन्त्रं वक्ष्यमाणमुदीरयन् गृहमूर्तिप्रसूतये प्रासादपुरुषप्रादुर्भावाय यथान्यायं प्रोक्तन्यायानतिवृत्त्या

गर्भं न्यसेत् इति सम्बन्धः ॥
तन्मन्त्रमाह सर्वेति गर्भन्यास फलकीर्तनमुपसंहरति एवमिति ॥
ततः प्रासादन्यस्त गर्भपरिणामरूपं कारयेत् कारुभिरिति शेषः ।

इति क्रियासारव्याख्यायां तत्वप्रकाशिन्यां एकादशः पटलः ॥
११ ॥