एवं परिवारप्रतिष्ठानिष्ठमनुष्टानकालमभिधाय
सकलपरिवारपरिवृत परमेश्वरप्रीणनात्मकं उत्सवापरपर्याय सपर्याविशेषं वक्ष्यन् विवक्षितमाविष्कं रोति उत्सवमिति ॥
ततः समस्तपरिवारप्रतिष्ठानन्तरं अन्नाद्यबलिभूयिष्ठ द्विजादि सकलजन्तुसन्तानमन्नं द्वास्थादि सकल परिवारविषयो बलिं च भूयिष्टो यस्मिंस्तं नानावादित्रसङ्कुल नानाविधैरानकादि पञ्चविधैर्वादित्रैः वाद्यैः सङ्कुलं तथा नृत्तगीतसमन्वितं च तत्तादृशमुत्सवं च कुर्यात् तत्रादावङ्कुशर्पणं ध्वजस्थापनं च कुर्यादित्याह बीजाङ्कुरमिति बीजाङ्कुरं कृत्वा सर्वतो महाध्वज दुर्गादि बलि देवतास्थानचत्वरादिषु सर्वत्र क्रमात् ध्वजान् संस्थाप्य शुभाः पताकाश्च न्यस्त्वा गन्धपुष्पैः पूजयेत् महाध्वजपताकोपस्थापनमन्त्रमाह नमस्ते इति तत्र सर्वत्र प्राकारान्तर्बहिः रथ्याचत्वरादि देवयात्रास्थानेषु च सर्वत्र सम्मार्ज्य आलिप्य कुसुमाक्षतैः विकिरेत् अयम्पूराद्यैरगुरु गुल्गुल्वाद्यैः
सन्धूप्य ततः क्षेत्रपरिष्कारानन्तरं शिवं सम्पूजयेत् पूजासम्यक्त्वं दर्शयति संस्कार स्नाप्येत्यादि क्षमापयेदित्यन्तेन विधिवत् पीठपूजादि तदर्हविध्युपेतं स्नानकाले शुद्धतोयैः पयोदध्याज्य गव्यकैर्गन्धोदैः नालिकेशद्भिः पुनः स्नानसमये कलशैश्च संस्नाप्य यथोज्वलं गन्धैरष्टगन्धैर्विलिप्य वासोभिः परिधाप्य पूजयित्वा पूजा परिवारसर्वस्वमेतं पूजयित्वा भक्ष्यभोज्यादिसंयुतं अन्नं निवेद्येत्येतावत् उक्त्वा ततो हुत्वा बलिं दत्वा स्वयं गुरुरिति पूजाशेषं वक्ष्यन् प्रसङ्गान्मध्ये मुखनिवेद्य विधिमवतार्य दर्शयति ईशाद्यास्येष्वित्यादि सर्वमेवं त्वित्यन्तेन कृसरतिलोदनं प्रकृतमनुसन्धानपूर्वं पूजाशेषमाह निवेद्येति एवं मुखनिवेद्य हृद्यं निवेद्य ततो धेनुमुद्रां च सन्दर्श्य दिक्षु रक्षां विधाय चेति स्मृत्यन्तरोक्त सुधांशुसमर्पणाद्यनन्तरं हुत्वा अग्निमभ्यर्च्य मूलेन कृत्वा च परिषेचनं अष्टोत्तरसहस्रं वा शतमष्टाधिकं हुनेत् ।
मूर्त्यङ्गैस्तद्दशांशं तु विद्येशाद्यैः सकृत् सकृत् ।
परिषिच्य पुनर्जप्त्वा होमशेषं समाप्य चेति स्मृत्यत्तर स्मृतन्यायेन निवेद्यशेषहविषा अ* * बाग्नौ हुत्वा बलिं दत्वा नवेवानले पीठे द्वारयोग्यं बलिं हरेदित्युक्त न्यायेन बलिं दत्वा आचम्य गुरुः स्वयं प्राप्तभावनया प्राप्तपरमेश्वरभाव आचार्यः आचमनविधानीया परनामजलं तु तुशब्दद्योति मुखाविलापन पूर्वं दत्वा अन्नं विसृजेत् पुनः अन्नशेषेण निर्माल्यचण्डेश्वराय निवेदयेत् ।
तदनन्तरं पानीयं गण्डूषापरनामकं मुखवासं पञ्चताम्बूलादिरूपं दत्वा किञ्चित् सम्पूज्य सम्यक् प्रकृतिविलापनादि समीचीनं पुष्पाञ्जलिभूयिष्ठं च पूजयित्वा जप्त्वा शिवहस्तं ततो मूर्ध्नि कृत्वा जप्त्वेति आगमान्तरोक्तरीत्या जप्त्वा स्तुत्वा नमस्कृत्य क्षमापयेत् परमेश्वरं पूर्वावस्थावस्थितं भावयेत् ॥
बलिपरिवारसपर्यामुदीरयेत् प्रथमं भूतबलिमवतार्य विवृणोति निशीत्यादि यथाक्रममित्यन्तेन ॥
कौतुक इति
कौतुके बलिबिम्बे देवं मूललिङ्गस्थमाराध्य आवाह्य पूजयित्वा शिष्यस्य शिरसि न्यसेत् ततः स्वस्ति जप्त्वा तेन सह बहिर्गत्वा गर्भ गृहात् बहिः निरेत्य द्वास्थादिभ्यो द्वास्थादि क्षेत्रपालान्तं बलिदेवताभ्यो बलिं हरेत् द्वास्थादि बलिदेवता गणयति नन्दिनमित्यादि पूजयेत् क्रमादित्यन्तेन नन्द्यादीनि इत्यत्र आदिशब्दः क्षेत्रपालान्त बहिः परिवारवाचकः बलिप्रक्रियामाह वाद्यमिति नृत्तं गीतं च वादित्रं कृत्वा कृत्वा कारयित्वा तथा च वक्ष्यति -
समाप्यैवं बलिं तत्र नृत्तगीतादि कारयेत् इति एवं बलिं कृत्वा बलिमुद्राश्च दर्शयेदिति सम्बन्धः ।
तत्र उत्सवबलौ विशेषं दर्शयति तेषामित्यादि ।
तेषां प्रकृतानां द्वास्थादिपरिवाराणां पूर्वं पार्श्वमण्डले तत्तत् वामपार्श्वस्थण्डिले परिषदां च बलिं दत्वा ततो दिक्पालपरिषदनन्तरं तद्बहिः दिक्षु कोणेषु मालामन्त्रैः ओन्नमो भूतेभ्यो इत्यादिभिः बलिं दद्यात् दिक्षु कोणेष्विति
पृथक् करणं कोणेषु बलिमन्त्रन्यूनत्व सूचनार्थं न दिग्विदिक् क्रमप्रदर्शनार्थं इति ।
वेदितव्यम् दिक्पालादिबलौ विशेषमाह - दिक्पानिति दिक्पान् वाहनं च चकारात् तदनन्तरं पूर्वोक्तद्वास्थौ च पूर्वं अर्चनात् पूर्वं उपस्थानमन्त्रैरुपस्थाय ततो अर्चयेत् इति आगमेत्विति आह आगमेषूद्धृतान् तारशक्त्यारव्ययोरन्ते स्फुर स्फोटय हुं वदेदित्यादि स्मृत्यन्तरोद्धृतान् मन्त्रान् समासतः सङ्क्षेपोक्तिनिमित्ततो लिख्ये लिखामि ।
एभ्य इह एभ्यो नन्द्यादिभ्यो दिक्षु बहिर्दिक्षु बलिं दत्वा तत्तत् पार्श्वमण्डले यथाविधि महाकालादिविंशत् गणनाममन्त्रप्रयोगादि विद्ध्यनतिवृत्त्या बलिं दद्यात् विंशत्भूतगणान् गणयति महाकाल इत्यादि पातालास्ते नमो नमः इत्यन्तेन बलिपीठ इति पीठान्तिकैः स्वाहाद्यैः भूतिदाद्यैः बलिपीठे बलिं दद्यात् ।
भूतिदादिगणनपूर्वं तत्स्थानकॢप्तिं वक्ति भूतिद इति मन्त्रविशेषान्
लिख्यति ॐ महाबलाय नम इत्यादि इतीति इति लिखितैरेतैः पञ्चमन्त्रैः पीठिकायां बलिं दत्वा तद्बहिः प्रक्रियावरणे एभिरनन्तरलिख्यमानैः ये समस्तं ॐ नमो भूतेभ्यो गृह्णन्त्वित्यादिभिस्त्रिभिः मन्त्रैः एकावृत्या बलिं दद्यात् ।
तद्बहिः ग्रहाणामपि बलिं दद्यात् ।
ग्रहानाह देवाश्चेति बलिमुपसंहरति ।
एषामित्यादि एषां ग्रहाणां दिक्षु क्षेत्रपालायोत्तरे बलिं दत्वा एवं समाप्य तत्र क्षेत्रपालाग्रतो नृत्तगीतादि कारयेदिति ।
बहिर्बलौ पक्षान्तरमाह अन्यथेति ॥
पूर्वं प्रथमावरणे मालामन्त्रैः ओन्नमो भूतेभ्य इत्याद्यैस्त्रिभिर्मन्त्रैः अनन्तरं तदनन्तरं द्वितीयतृतीय चतुर्थावरेणेषु क्रमेण नन्द्यादीनां गणानां विंशत् भूतगणानां ग्रहाणां च बलिं दत्वेति शेषः ।
एवं कृत्वा भूतिदाद्यैः बलिपीठपठितैः समापयेदिति दिवेति शेषेष्वारम्भदिवस समनन्तरदिवसेषु दिवापि च चकारात् रात्रौ च बलिं उत्सवबलिं
भूतबलिं वा दद्यात् पूर्वेद्युरिति ।
आचार्यः तीर्थयात्रायाः पूर्वेद्युः निशि महाबलिं ग्राम बलिं दत्वा समस्तजन्तुसन्तानमनुमान्य तदनन्तरं क्षुद्रविद्रावणरूप मृगयाद्यनन्तरं अन्तः प्रविश्य देवं प्रार्थयेत् प्रार्थनामन्त्रमाह - तीर्थयात्रेति इति प्रार्थ्य स्नानाचमनात्म भावनाद्यनन्तरं अङ्कुरपात्राद्यैर्दीपैः अष्टमङ्गलैश्च समलं कृते मण्डपे शय्यामास्तीर्य तामभ्यर्च्य आचार्योऽन्तः प्रविश्य यथान्यायं भूरादिभिः अश्वत्थपत्रन्यस्त घृतदूर्वाग्राद्यालभनन्यायानतिवृत्या घृतारोपणं कृत्वा विश्वव्याप्तिं विश्वेश्वरे विलाप्य मूर्तिपैः सह पुण्याहं क्षौमे समौक्तिकं हेमं निक्षिप्य ऊर्णासूत्रेण बहुरूपेण अघोरेण पाणिभ्यां देवस्य दक्षिणे भुजे कौतुकबन्धं च कुर्यात् ।
ततो धारणाभिः कर्मबिम्बसंशोधनाद्यनन्तरं कौतुके कर्मबिम्बे देवमावाह्य अखिलमङ्गलैः समस्तैर्वाद्यैश्च सहितं देवं मण्डपे संस्थाप्य प्रासादसम्मुखं
स्थापयित्वा सम्पूज्य तदर्होपहार समीचीनं पूजयित्वा निस्स्वपन्तां निशां नयेत् अस्वपंस्तां निशां नयेदित्यनेनैव यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेरिति स्मृत्यन्तरस्मृतां तां लोकयात्रा?रूपमहारात्रिं नयेत् स्वकारणे परब्रह्मणि विलीनां भावयेदिति च ध्वन्यते पञ्चमन्त्रमूलप्रणवव्यापकैः जाग्रदाद्यवस्थात्रयं संहृत्य सदानन्दचिद्रूप स्वस्वरूपानुभवेपरं भावयेदिति भावः ततो गुरुः प्रातः स्नात्वा सन्ध्यामुपास्य विधिवत् प्रणवमूल पञ्चमन्त्रव्यापक प्रबोधनोत्थापन मङ्गल दर्शनार्घ्यदान शय्योद्वासन पीठपूजा वाहन सकलीकरण पाद्यादिसमर्पण दन्तधावन जिह्वोल्लेखन गण्डूषदान स्नपन मध्वाज्यासेचन उद्वर्तन पुनःस्नान वस्त्रदूर्वा पुष्पचन्दनाञ्जनागरु समर्पणभूषण दर्पण यवसादनेतिहास पुराणादिश्रवण नित्यदानसमर्चनादि तदर्हविद्द्युपेतं तत्काल योग्यमखिलं कृत्वा शिवं सम्पूजयेत्
कौतुकं गेहे प्रवेश्य देवे मूलबिम्बस्थ देवे देवं कौतुकस्थं नियोज्य च चकारात् सम्पूजयेच्च ॥
सम्पूजयेदिति पूर्वोक्तमनुवर्तते अथ उद्वर्तनार्थं चूर्णानि कारयेदित्याह उलूखल इति ॥
हरिद्वामुद्वसंयुक्तैः माषशालियवादिभिः नवे शुद्ध उलूखले पिष्टचूर्णानि कारयेत् होमादि चूर्णैः सहितं पात्रे विनिक्षिपेच्च तत्तच्चूर्णमूलेन पूजयित्वा देवं मूलबिम्बस्थं स्नानसमये वारिभिः संस्नाप्य माजिकाज्वाभ्यां अभ्यज्य तच्चूर्णेन तेन चूर्णेन पुनः स्नानसमये अभिषेचयेत् ॥
पञ्चमन्त्रैरित्यर्थात् तेन मन्त्रलिङ्गं सर्वतः सम्मृज्य भक्तानां मूर्ध्नि दापयेत् तच्चूर्णमित्यर्थः पुनः संस्नाप्य विधिवदभ्यर्च्य यथाविधि होमं यात्राहोमं कुर्यात् ।
यात्राहोमं विवृणोति कृत्वा चाग्निमुखमित्यादि पूर्णाहुतिं ददेदित्यन्तेन ।
अत्र शाकुनस्वस्ति सूक्ताभ्यां आज्याहुतीर्ददेत् हुनेदित्यर्थः ।
एवं प्रतिवाक्यं ददेत् पदेनान्वयो द्रष्टव्यः हृदा प्रासादेन चेत्यर्थः पुण्याहमिति पुण्याहं
वाचयित्वा कौतुकं संहृत्योत्पाद्याथ कर्मार्चातीर्थयातार्थमिति प्रार्थनानन्तरं यात्रा होमसम्पात समर्पणानन्तरं च आवाह्य मूलबिम्बात् कर्मार्चायामावाह्य न्यस्य वस्त्राभ्यां परिवेष्ट्य च चकारात् मूलबिम्बं च संरक्ष्य सम्पाताज्येन शिष्टेनेत्यर्थात् तेन संस्पृश्य तं कौतुकस्थं देवमादाय बहिःगर्भगृहात् बहिर्व्रजेत् देशिको द्वारि प्रासादद्वारे मङ्गलवादं जगन्निर्माणेत्यादि रूपमङ्गलस्तोत्रपाठं च कृत्वा निर्गत्य बलिं दत्वा द्वास्थादिबलिपीठान्तं अन्तर्बहिश्चैकावृत्या बलिं दत्वा गोपुरात् बहिर्गत्वा यानं गजादि रूपमासाद्य तं पुनर्वाहनं परमेश्वरवाहनभूतमृषभं ध्यात्वा ध्वजबलिं दत्वा तत्स्थ मृषभं वाहने संयोज्य यानं तद्रूपं भावयित्वेति अर्थ तथा कृत्वा परमेश्वरं तमारोप्य अखिलवाद्यादिभि वृतो जलगन्धादिभिः उपहारैर्युक्तो योजनादर्वाक् नदीं अन्यजलाशयं वा व्रजेत् तत्पार्श्वे तीर्थपार्श्वे सुगुप्तं स्थण्डिलं कृत्वा तस्मिन् समर्पित
भद्रपीठे शिवं न्यसेत् ।
न्यस्तं शिवं मन्त्रावाहनादिपूर्वं पाद्याद्यैः पूजयित्वा तु तीर्थमावाह्य धारणादिभिः संस्कृते तीर्थे गङ्गामन्त्रेण तीर्थमावाह्य सन्निधाप्य मज्जयेत् तस्मिन् तीर्थे देवमित्यर्थः ।
अथ चूर्णोद्वर्त न पुनः स्नानाद्यनन्तरं तं देवं स्थण्डिले नियोज्य समभ्यर्च्य भक्ष्यादिभिः समोपेतं तत्र शृतं महद्धविर्निवेदयेत् अथ तीर्थ सन्निधापनानन्तर समर्प्य सम्पाताद्यर्थं तत्पूर्वमेव कर्तव्यं होमं स्मारयति अष्टोत्तर शतमिति ।
अथ शब्दोक्त चूर्णोद्वर्तनादिकं प्रकटयति पुण्याहमिति ॥
सज्जनैः सार्धं पुण्याहमभिकल्प्य चूर्णैरुद्वर्त्य सादरं अघमर्षणादिसूक्तमित्यर्थः तथा संस्नाप्य समभ्यर्च्य आदाय यथाविधीति पूर्वोक्त पूजानुवादः ।
एवं कृत्वा तीर्थे तस्मिन्नित्यादि मन्त्रप्रार्थन तीर्थोद्वासनादिपुरस्सरं देवमादाय यानमारोप्य द्रुततरं गृहं मूलालयं गच्छेत् द्रुततरगमन तात्पर्यं दर्शयति यात्राह्मेवेति ।
यथान्यायं यात्राबलिकृतक्रम गर्भगनुक्तये
पूर्वोद्दिष्टक्रमप्राप्त न्यायानतिवृत्या रात्रौ भूतबलिं हरेत् रवोभूते उत्तरेद्युरुदिते यात्रादोषशान्तये यथाक्रमं उत्तमादिस्नपनं कुर्यात् उपलक्षणं चैतत् यथाविभवं महेश्वरार्चन स्यावावसिक्तपरिषत् पूजनस्य च एवं वरणानन्तरप्राप्त गुरुकृत्यमुक्त्वा यजमानकृत्यमाह आचार्यमूर्तिपालेभ्य इति अत्र तत् कुर्यात् यथान्यायं तीर्थस्नानावसानिकमिति चोदिते कर्मणि समापिते सति आचार्यमूर्तिपालेभ्यो दक्षिणां च दद्यादेव अन्यथा ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मया इत्यादिन्यायात् परमेश्वरकोपात् कुलनाशादिदोष सम्भवतीत्येकारः सूचयतिः अन्यान् परिकर्मि पारायणिकवारी शवादीन् सर्वानपि भक्तिसंयुतो यथाशक्ति पूजयेत् उपसंहरतीति
स्वनिबन्धनस्य विरोधनद्वारेण शिष्ट विषयत्वमाशास्ते एतदित्यादिग्रन्थार्धेन तस्य दुष्टाविषयत्वं प्रार्थयते रक्षितव्यमित्याद्युत्तरार्धेन ॥
दस्युभ्यः चोरविद्याचुञ्चुभ्य
एवमेव शिवं समधिगच्छतीति भावः किञ्चित् प्रपञ्च शिवभावमितीह तन्त्रे व्याकारिषं गुरुवराय गृहीतरीत्या नीत्यानयैव निपुणा विवृणोतु शेषं तत्रापि दुर्ग्रह विभागविधौ यतिष्ये
इति क्रियासारव्याख्यायं तत्वप्रकाशिन्यां दशमः पटलः ॥
१० ॥