०९

एवं प्रासङ्गिकं प्रायश्चित्तं जीर्णोद्धारं चाभिधाय त्रिरात्रं होमदानाद्यैर्नीत्वा तुर्येऽहनि क्रमात् शक्त्या सप्तदशद्रव्यैः स्नानं देवस्य कल्पयेदित्यादि प्रकृतं सूचनं वक्ष्यन् प्रतिज्ञापूर्वं विवक्षितमाविष्करोत्यथ स्नानमित्यादि सप्तदशद्रव्यैरित्यन्तेन अथ स्नानं प्रवक्ष्यामीति प्रतिज्ञावाक्यम स्थापितस्य देवदेवस्य शूलिनः चतुर्थेऽह्नि स्नापनदिनकृत्य वासरे सप्तदशद्रव्यैः शक्त्या शक्यानपेक्षिण्या यथाविधि स्नानं कुर्यात् इति सम्बन्धः अत्र शक्त्येत्यनेन चतुर्थदिवसे स्नापनस्यावश्यकत्वं द्योत्यते ।
अत एव शक्तिमतोऽत्र पञ्चविंशतिद्रव्यस्नपनमप्यपाराध्यतत्येति ध्वन्यते कलशपूरणन्यायं सामान्येनोपन्यस्यति क्रमादित्यादि कलशान्यपीत्यन्तेन क्रमात् तन्तुवेष्टनादि घटीश्रमणान्तं क्रमात् मण्डपं संशोध्य पदानि परिकल्प्य एषु पदेषु धान्यैः पीठं प्रकल्पयेत् ।
कलशान् द्रव्याण्यप्यस्त्रेण अस्त्रप्रोक्षणादिना संशोध्य

संसाद्यान्तः ब्राह्मे बहिर्मानुषे तथा मध्ये दैविके च क्रमात् वक्ष्यमाणक्रमात् घटान् सम्पूरयेत् सम्यक् पीठाराधन कुम्भसंस्कारादि विधिपुरस्सरं पूरयेत् सप्तदशद्रव्यस्नपने विशेषं कर्तुमारभते यदेति ।
तत्र पूर्वप्रकृतां पदकॢप्तिं वक्ति पञ्चविंशदिति पञ्चविंशत्पुरे पञ्चविंशत् कोष्ठे क्षेत्रे प्रागग्राण्युदगग्राणि च षट् षट् सूत्राज्यास्फाल्य पञ्चविंशत् पदानि कृत्वा तत्र मध्ये च नतकं तथा परितो अष्टकं च नवकस्य बहिरष्टदिक्षु एकैकपद कल्पना समुदयेनाष्टकं च निधाय शिष्टा न्यन्तरालगतानि अष्टपदानि मार्जयेत् तेषु पदेषु व्रीहिभिः पीठिकां कृत्वा दर्भान् विन्यसेच्च ।
एवं पदानि वक्ष्य इत्येतत् विवृत्य द्रव्याणि इत्येतत् विवरीतुमवतारयति पूरयेत् कलशान् पश्चादिति ।
तत्र प्रथमं कुम्भसंस्कारं दर्शयति ।
क्षालितानीत्यादि कूर्चान् न्यसेत् क्रमादित्यन्तेन निगदव्या तेन अथ द्रव्यपूरणं सङ्गृह्णाति तत इति ततो मूर्तिपैः द्रव्याणि वक्ष्यमाणानि आनाय्य

आनाय्यानाय्य सम्पूरयेत् ।
ततस्तच्छेषपूरणाय सलिलसम्पादनप्रकारमाह - ईशान्यामिति मन्त्रयेदित्यन्तेन मन्त्रयेत् इमा आप इत्यादिनेत्यर्थात् ।
तेनेति ।
तेन वारिणा उक्तमनुं जपन् ॥
पूरणे द्रव्यविन्यासे मन्त्रं पञ्चाक्षरं स्मृतम् इति स्मृत्यन्तरोक्त मनुं जपन् कुम्भान् पूरयेत् ।

ईशानश्चाथ सावित्री * * सो रुद्रो हुताशनः स्कन्दश्च धनदः सप्त ऋषयो जम्भकान्तकाः वरुणो जलधीनां हि देवताः परिकीतिताः स्मर्तव्या द्रव्यविन्यासे क्रमात् कुम्भेषुदेवताः इत्यादि द्रव्यविन्यासार्थं उक्तानां देवतानां मनुं जपन् कुम्भान् पूरयेदिति केचित् प्रासाद पञ्चार्णपञ्चब्रह्मस्वन्यतमं स्थायित्वेनोक्तं मूलमन्त्रं जपन् इत्येके ॥

निद्राकुम्भं शिरःस्थाने न्यस्य सम्पूरयेदथ आपोहिष्ठेति मन्त्रेणेत्युक्तमन्त्रमित्यपरे ।
तत्र यथाश्रुतमाश्रयितव्यम् ।
एवं पूरणं सङ्गृह्य पूजां सङ्गृह्णाति पूरितानीत्यादि पूजयेदित्यन्तेन ब्राह्मकलशपूरणं विवृणोति मध्य नैवेद्यकैः क्रमादित्यन्तेन ॥

पूर्वं पञ्चविंशतिभिर्दर्भैः ग्रथितमुत्तमं कूर्चं विन्यस्य हेममणिभिर्गन्धोदैश्च मध्यस्थकलशक्षेत्र मध्यगत अष्टदलकमलकर्णिकाम्ध्यस्थं सर्वमन्त्रात्मकं स्वसंस्कारार्थं प्रयुक्त तेजस्त्रयकला सौरचतुरक्षरादि सर्वमन्त्रात्मकं अत एव चरं सर्वोत्तमं परमेश्वरविरुड्विग्रहरूपमित्यर्थः ॥

तं यथाविधि मानसपूरणादिविध्यनतिवृत्या पूरयेत् ।
तस्मिन्निति योगपीठादितः स्वाधारत्वेनाराधितं योगपीठमादौ यस्य स योगपीठादिः सप्तम्यर्थ्ये तसिः तस्मिन् ।
अथवा पूरणानन्तरविहित लिपिकमलमययोगपीठं आदिशब्दोक्तमूर्त्या वाहनादिकं च विधायेत्यर्थः ।
तथात्वेल्यव्लोपपञ्चम्यर्थे तसिः ।
तादृशे तस्मिन् शिव कुम्भे देवदेवं गन्धादिनैवेद्यान्तैः समर्चयेत् इति जप्त्वा कलशं स्पृष्ट्वा अष्टोत्तरसहस्रं मूलमन्त्रं जप्त्वा देवेशमनुज्ञाप्य इतशन् परिकलशान् क्रमात् पूरयेत् ।
तद्विवृणोति पञ्चगव्यं

इत्यादि पूरयेत् क्रमादित्यन्तेन ॥
अत्रक्रम शब्देन बहिरन्तश्च प्रागादि प्रदक्षिणक्रमो विवक्षितः तथा च पाशुपते-

पञ्चगव्यं बहिः प्राच्यामाग्नेयों क्षीरमेव च इत्यामेवचेत्यारभ्य स्वादूदं दर्भजलमिति प्रादक्षिण्येन पूरयेदित्यन्तेन ग्रन्थेनाभ्यधायि जलधिगणनपूर्वकं पूजां स्मारयति क्षारमिति ।
सङ्कल्प्येत्यसाधारणजनदुराहराणि वारिधिवारीणि सङ्कल्प्य तत् प्रतिनिधित्वेन वारुणवारिणा सम्पूर्य पूजयेदिति भावः मङ्गलाङ्कुरादिकमणि तत्र योजयेदित्याह - ततो वीथीरिति ।
पूर्वानुक्तां द्रव्यमन्त्रादिव्यवस्थां प्रस्तापयन् प्रस्तुतमधिवासहोमं प्रपञ्चयति ततो होमानित्यादि परिकीर्तिता इत्यन्तेन ततो गुरुः मूर्तिपैः परितो दिक्षु पूर्वादिदिक्षु तत्पुरुषाद्यैः तत्पुरुषसूक्तेन आदिशब्दोक्तैः अघोरसद्योजात वामदेवसूक्तैश्च कोणेषु अग्न्यादिकोणेषु हृदयादिषु हृदयेन आदिशब्दोक्तैः शिखा कवच शिरोरूपैः सर्व

सर्वज्ञादिब्रह्माङ्गैश्च होमान् कारयेत् अग्निमुखं क्रमात् कृत्वा ईशानेन ईशान सूक्तेन स्वयमाचार्यश्च कुर्यात् ।
नागेशोषेऽथवा गुरोरिति स्मृत्यन्तरोक्तस्वकुण्ड इत्यर्थात् दिक्षु तत्पुरुषाद्यैश्च कोणेषु हृदयादिभिरिति प्रतीकमानोक्तौ कथं दिग्व्यवस्थेत्यत आह पूजेति मन्त्राणां दिग्व्यवस्था पूजा क्रमेण प्रकीर्तिता प्रकटमुक्तागमे त्विति शेषः यस्यां दिशि यो मन्त्रः पूजायां विहितः तस्यां दिशि स एव होमे प्रकीर्तित इत्यर्थः पक्वमिति गायत्र्या पक्वं हुत्वा ततो ब्रह्मादि पूजामन्त्रैः सकृत् घृतमित्युक्तपूजाहोमानन्तरं एभिः वक्ष्यमाणद्रव्यैः क्रमात् पाठक्रमाद्धुनेत् द्रव्याणि गणयति समिदिति ।
पूर्वादिदिक्षु समिधो व्यवस्थापयति पालशि इति ।
अत्र आचार्यकुण्डे पालाशी समिदिति द्रष्टव्यम् होमसङ्ख्यामाह - अष्टोत्तरशतमिति ॥
पृथगष्टोत्तरशतं कुर्यात् जुहुयात् पृथक् पूर्णाहुतिं च दद्यात् पूर्णामन्त्रं स्मारयति व्योमेति सा पूर्णाहुतिः व्योमव्यापिदशार्णेन प्रकीर्तिता

पूर्वमेवास्माभिरिति शेषः होमकलशयोः आनुरूप्यमाह - कलशानामिति ।
कलशानां बाहुल्ये होमबाहुल्यमिष्यते ।
अत्र प्रकृते सप्तदशके पञ्चविंशतौ च कलश एकमेव कुर्वीत इति ॥
अधिवासनं सङ्क्षिपति सम्पातेति सम्पातं समर्प्य कलशानेकीकृत्य तत्वसम्भारादि क्रमेण संस्कृत्य शुद्धा भवन्त्वित्यादिना सम्पाताज्येन सम्प्रोक्ष्य पुनरन्तश्च मूलप्रासादगतं तं देवं तत्र वा स्वाग्रतः कृते कौतुके वा सम्पूज्य तं प्रणम्य अञ्जलिमुद्रया उपलक्षितः सन् देवं विज्ञापयेत् ।
विज्ञापनमन्त्रमाह अधिवास इति इतीति देवेशमिति विज्ञाप्य नृत्तं गीतं बहिः कृत्वा जाग्रदेव निशां नयेदित्युक्तरीत्या निशां नीत्वा उत्तरेद्युः प्रगेतनसमिद्ध्यान्ते द्विजान् पारायणिक मौहूर्तिकादीननुज्ञाप्य मूर्तिपैः सहितोनी नीराजनकलशाभिधारकैः मूर्तिपैः सह विद्वानधिवासदिनस्नपनदिन कर्तव्य क्रियाक्रमा विजानन् स्नपनाय समारभेत् ।

अन्नरिति ।
अन्तः प्रविश्य द्वास्थाभ्यनु ज्ञापनवायुबीजजापकृत कवाटविघटनादिपूर्वकं प्रकटमन्तर्विष्ट्वा निर्माल्यमपकृष्य च ।
चकार समुचिततैलघटेन अभ्यज्य प्रक्षाल्य शिरीषचूर्णोद्वर्तनादि पुरस्सरं प्रकृष्टं क्षालयित्वा अभ्यर्च्य पायसं निवेद्य इत्यर्थात् तदनन्तरं विधिवत् पीठाराधनादि तदर्हविध्युपेतं सादरं तत्वानि न्यस्य मन्त्रन्यासं क्रमात् कृत्वा पाद्यार्घ्ये विनिवेदयेत् ततश्च आचमनं दत्वा तारेण पादयो मूर्ध्नि च दूर्वाक्षतानि विन्यस्य अस्त्रेण सादरं नीराज्य पश्चात् पञ्चगव्यादिभिः कलशैः क्रमात् पूरणोक्तक्रमात् स्नापयेत् स्नपनमन्त्राह पञ्चभिर्ब्रह्मभिरित्यादि मध्यमं व्योमणिद्ययेत्यन्तेन ।
पूर्वं पञ्चगव्यादि द्रव्येषु प्रथमभूतं पञ्चगव्यमित्यर्थः समुद्रज्येष्ठवर्गेण जलधीन् स्नापयेदिति ।
जलधीन् प्रत्येकं समुद्रज्येष्ठवर्गमुक्त्वा स्नापयेदित्यर्थः ।
स्नानकॢप्तिं वक्ति खण्डश इति

खण्डशः खण्डं खण्डं प्रति पूजयित्वा तु तुशब्दद्योति तन्महेशाय मन्त्रेण चान्तरा स्नानमाचरेदित्युक्तमन्तरा स्नानं च कृत्वा परैः इतरखण्डघटैः स्नापयेत् अवसुतेन प्रतिकलशं तच्छेषमेकस्मिन् घटे अवस्राव्य तेन देवस्य परिवारकानिन्द्रादि बलिपरिवारांश्च दिशाहोमादि पूर्वतः कृतप्रतिष्ठितान् प्रोक्ष्य ततो देवं सम्पूजयेत् सम्यक् पूजा बलिपरिवारादि प्रीणनोपेतं पूजयेत् पश्चाद्यजमानः आचार्यं मूर्तिपान् सदस्यांश्च पूजयेत् सप्तदश द्रव्य एव घटपुटादि विस्तारं दर्शयति पञ्चविंशतिभिरित्यादि विस्तारकाम इत्यन्तेन ।
अक्रोध इत्यनेन अस्य जघन्य पक्षाक्षिप्तत्वं सूचितम् सप्तदशद्रव्यस्नपनमुपसंहरति इदमिति आगमचोदितमागमविहितं त एव समुद्दिष्टमस्माभिः सम्यगुदितमिदं स्नानं स्नपनं विचक्षणो जघन्यपक्षत्वेपि मुख्यपक्षविहित फलसम्पादन पदुप्रभावः चतुर्थदिवसे

अन्यत्रापि प्रायश्चित्तादावपि भक्त्या कुर्यादिति ॥
अथ पञ्चविंशतिद्रव्यविधिं वक्तुमारभते अथेति ।
अथ पञ्चविंशतिद्रव्यैरुपलक्षितमसमादिक्रमेण शास्त्रचोदितं च परं स्नपनं प्रवक्ष्यामि ।
अधमपक्षकलशान् दर्शयति पञ्चविंशतिरित्या द्यष्टोत्तरशतकैर्वेत्यन्तेन ।
तदिदानीं तदष्टोत्तरशतकमिदानीं प्रथमं तावन्नि शम्यते तत्रापि उत्तमविधेरीप्सिततमत्वप्रदर्शनाय प्रथममधमोत्तमभूत अष्टोत्तरशतकलशविधिरिति द्रष्टव्यं तत्क्षेत्रकल्पनां दर्शयति षोडशेत्यादि भृशादिष्वित्यन्तेन ॥
एवमिति ॥
एवं प्रोक्तक्रमेण क्षेत्रं परिकल्प्य यथान्यायं पीठाराधन कुम्भसंस्कार द्रव्यविन्यासमानसपूरणादि न्यायानतिवृत्या शिवकुम्भं शिवदेवत्यं ब्रह्मकुम्भम्पूरयेत् पूर्ववत् मध्यस्थं पूरयेत् पूर्वं सर्वमन्त्रात्मकं परमित्यादि पूर्वोक्तप्रकारेण ब्रह्मकलशं पूरयित्वा ततस्तदितरान् पाद्यादिचतुविं

चतुर्विंशतिद्रव्यकुम्भान् पूरयेत् पाद्यादि द्रव्याणि तत्तत्स्थानोद्देशपूर्वकं गणयति पाद्यमित्यादि यथाक्रममित्यन्तेन सक्तुमिश्रितमिति शेषः शिवकुम्भादि देवतापञ्चविंशतिकमाह - ईशान इत्यादि देवता इत्यन्तेन वाक् सरस्वती रुद्र एकादश रुद्राः अग्रजाः ज्येष्ठाः मुनयः सप्त-ऋर्षयः विश्वदेवताः विश्वदेवता इति पाद्यादि सङ्घातद्रव्याणामङ्गानि गणयति ।
दूर्वेत्यादि रत्नमीरितमित्यन्तेन कलशपूजाधिवासादिकं स्मारयत्येतैरित्यादि समारभेदित्यन्तेन स्नानमन्त्रानित्यादि ।
अतः स्नपनप्रक्रियासङ्ग्रहोक्तिसमनन्तरं स्नानमन्त्रान् वक्ष्ये ॥
गुरुः स्वयमन्तर्वक्ष्यमाणमन्त्रैः क्रमात् पञ्चशः पूजयित्वा नीराज्य शेषं तोयशेषं कुम्भावस्रावक्रमात् पूरणोक्रमात् यथा विधि देवं स्नापयेत् तन्महेशायमन्त्रेण अन्तरा स्नानं च आचरेत् स्नानमन्त्रानाह इदं विष्णुरित्यादि व्योमव्यापिक्रमेण त्वित्यन्तेन ।
इदं विष्णुरित्यत्र पाद्य स हो * *

क्रमात् मध्यमं व्योमविद्ययेति ।
शिवकुम्भस्य नियतमन्त्रत्वाच्च पाद्यादि शिवकुम्भान्तं च स्नानक्रमो विवक्षित इति द्रष्टव्यम् उपसंहरति एभिरिति जघन्यतमनिष्ठतया अधस्तानाधमक्षेत्रकॢप्तिं वक्ष्ये का गीतीत्या दिविहितं क्वचिदित्यन्तेन कर्तुरशक्तिः स्याददि यदीत्यर्थात् तर्हि शुद्धाम्बुवर्जितैः पञ्चविंशतिकुम्भैः स्नानम् कुर्यात् अन्यत्र क्वचित् शक्तिलेशसम्भव इत्यर्थः तत्र न विहितं अविहितकरणादीश्वरकोप एव भवेदिति भावः मध्यकलशविधिं सभेदप्रपञ्चमाह विंशत् सूत्रैरित्यादि पञ्चशतं स्मृतमित्यन्त ग्रन्थसन्दर्भं न विंशत्सूत्रैरिति विंशत् सूत्रैरुपलक्षिते शतद्वये बहिर्मानुषे षट्कचतुष्काणि दिक्षु षट्काणि विदिक्षु चतुष्काणि अन्तरालेऽष्टकं अन्तर्देविके अष्ट द्वादश तानि दिग्विदिक् समुदायेन अष्टौ द्वादशकान्यन्तर्नवके ब्राह्मे नवकेऽब्जं कुर्यादिति शेषः सप्तदशाधिक द्विशतमाह - षट्कमिति

विंशत् सूत्रैरित्यनुवर्तते ।
तस्मिन् क्षेत्रेऽन्तर्दैविके क्रमात् दिक्कोणक्रमात् षट्कचतुष्कं च तद्वाह्येतो मानुषे दिग्विदिक्षु क्रमात् द्विषट्कं द्वादशकं अष्टद्वितयं षोडशकं च अन्तरान्तराले अष्टकं च कुर्याद्वा कुर्याद्वेति वक्ष्यमाणमत्राप्याकृष्यते ।
तैः सूत्रैः पूर्वोक्तैः विंशत् सूत्रैः पञ्चविंशति नवकानि कृत्वा पञ्चविंशाधिकं शतद्वयं कुर्याद्वा शतद्वयमिति प्रकरणवशात् सिद्ध्यति पूर्वं षट्कमित्याद्यनन्तर पूर्वोक्तं सप्तदशाधिकं स्यादिति शेषः त्रिपञ्चाशदुत्तरशतद्वय कॢप्तिं वक्ष्ये एकविंशत् पुट इति एकविंशत् पुटे अन्तः ब्रह्मदैविकयोः क्रमेण अम्बुजमष्टौ नवकानि च बहिर्मानुषे कोणेषु नवदिक्षु द्वादशकत्रयं त्रीणि द्वादशकानि दिक्षु अन्तरालेषु च द्वादशकानीत्यर्थः एवं द्विपञ्चाशदुत्तरं शतद्वयं परिकीर्तितम् त्रिशतकॢप्तिं वक्ति क्षेत्रे गोत्रपुटे इति पञ्चाधिकपञ्चशतपदकॢप्तिं वक्तिः क्षेत्रे धीरपुटे इति ।
अन्ततोऽन्तर्दैविके अष्टासु

दिक्षु बाह्ये कोणे च सप्तदशानि सप्तदश कानीत्यर्थः एषां मध्ये बहिः कोणस्थसप्तदशकानां मध्ये त्रीणि पञ्चविंशतिकानि च प्रकल्पयेत् केवलपञ्चविंशतिद्रव्यविधिमुपसंहरति पञ्चविंशतिद्रव्यैरेवं पञ्चविंशता स्मृतमिति ।
अथ तैलादिद्रव्यान्तरसंयुक्तैः प्रोक्तपञ्चविशतिद्रव्यैः कलशोत्तमविधिमभिधास्यन्नमुमवतारयति द्रव्यैरन्यैरित्यर्धग्रन्थेन तत्र प्रथमं त्रिपञ्चाशदुत्तर द्विशतविधिमभिदधाति अष्टोत्तरशतमित्याद्येभिःरेव त्वित्यन्तेन अष्टोत्तरशतमिति चतुर्विंशतिसूत्रै रूप लक्षिते क्षेत्रे।
क्षेत्र इति पूर्वोक्तमनुवर्तते तत्र मध्ये अष्टोत्तरशतं तद्बहिः षोडश नवकानि च कृत्वा मध्यतो मध्ये अष्टशतं तथा यथा पूर्वमुक्तं तथा सम्पूर्य बाह्ये तद्बहिः दिक्षु कोणेषु च तैलादिरूपजलान्तानि द्रव्याणि शर्वाद्यैरष्टमूर्ति मन्त्रैः विषमैरयुग्मसङ्ख्यैः प्रथमतृतीयपञ्चम सप्तमैः समैः युग्मसङ्ख्यद्वितीयचतुर्थ षष्ठाष्टमैश्च सम्पूर्य भृशादिषु

अन्तरालेषु शैवजातिमृदो विद्येश्वरात्मभिर्मन्त्रैः अनन्तरसूक्ष्मादिमन्त्रैर्न्यस्य यथोक्तैरेभिरेव मन्त्रैः क्रमात् पाद्यादिक्रमात् स्थापयेत् इति तत्रैव त्रिशतपदकॢप्तिं वक्ति क्षेत्रे गोत्रपुटे इत्यादि त्रिशतैर्घटैरित्यन्तेन तत्रैव द्रव्यान्तरयुक्त्या विशेषं दर्शयति कृत्वा विंशच्छतमित्यादि शतघटत्रय इत्यन्तेन ।
गोत्रपुट एव क्षेत्रे मध्ये कोणस्थनवकान्वितं नवदिक्ष्वष्टकोणेष्विति पूर्वोद्दिष्टाष्टक द्वितय कोणस्थितैर्नवकैरन्वितं तथा ब्राह्मे च अष्टदलकमलकर्णिका स्थितेन नवकेन च अन्वितं तत्तादृशं विंशच्छतं विंशत्युत्तरशतं नवकविंशत्या वृतं कृत्वा गन्धोदकान्वितैः विंशतिनवकेषु पूर्वदिक्सूत्र दक्षिणपार्श्वादिदिक् सूत्र समनन्तरखण्डगत गन्धोदकान्वितैः द्रव्यैः पूर्वोक्तरूपमृदन्तद्रव्यैः मूलान्तैः गन्धजलविहितमूलान्तैः पूर्वोक्तशिखण्डयन्तैर्मन्त्रैश्च शिवकुम्भान्तैः घटशतत्रयैः स्नानं कुर्यात् ।
प्रोक्तद्रव्यैरेव सविशेषं

विंशत्युत्तरत्रिशत विधिमभिदधाति क्षेत्रे मित्रपुटे इत्यादि त्रिशतं परिकीर्तितमित्यन्तेन विचक्षणः ऊहापोहपटुः गुरुः मित्रपुटे क्षेत्रे मध्ये कृत्वा विंशच्छतं मध्य इत्युक्त पूर्वो दलकलशविरहेण द्वादशोत्तरं शतं कृत्वा तस्य बहिर्दिक्षु द्वादशकं षोडशकानां मध्ये अन्तरा चतुष्टयतयं चतुष्टयानां त्रयं त्रीणि त्रीणि चतुष्टयानित्यर्थः तानि कुर्यात् ।
अथ पूर्वोक्तैर्द्रव्यमन्त्रैः यथाविधि शिवकुम्भादि कूपमृत्कुम्भान्तं तत्तद्द्रव्यदेवतादिप्रयोगानतिवृत्त्या पूरयित्वा मृदां पार्श्वे अविशेषादुभयपार्श्वे स्थितान् चतुष्काणि मूलमन्त्रतो गन्धोदैः पूरयित्वा समाहितः पाद्यादितत्तद्देवतामन्त्र समाधानयुक्तः तैर्गन्धोदैः तेन मूलेन देवमभिषिञ्चेत् चतुष्काण्यपि सर्वाणि प्रादक्षिण्येन पूरयेदिति मृत् पार्श्वद्वयगत गन्धोद क्रमदर्शन परमध्ये वाक्यं मृदां पार्श्वद्वय विहित गन्धोदकविषयणि सर्वाणि चतुष्काणि सत्यान्तरिक्षादि प्रादक्षिण्यक्रमात्

पूरयेत् इत्यर्थः शेषं सुगमम् ॥
अथ उत्तमतमं स्नपनं वक्तुमुपक्रमते चतुर्भिरित्यर्धग्रन्थेन तद्विवृणोति क्षेत्रे कपालपुट इत्यादि स्नापयेत् गुरुरित्यन्तेन ।
कालपुरे एकविंशत् पुटे क्षेत्रे मध्ये अष्टोत्तरशतं तद्बहिः दिग्विदिक् समुदायेन अष्टनवकानि तन्मध्ये दिग्विदिग्विहितनवकानां मध्ये त्रीणि त्रीणि त्रिकानि च कुर्यात् अत्र शिवकुम्भादिरूप मृदन्तं पूर्ववत् पूरयित्वा मृदां पार्श्वद्वयत्रिकं गन्धोदपूरितं कुर्यात् ।
गुरुः तद्बाह्ये अष्टविंशति नवकानि कल्पयेत् अष्टविंशतिनव कपूरणप्रकारमाह कर्पूरेत्यादि प्रदक्षिणमित्यन्तेन अम्बुरुहाय सामित्यत्र मौजवास्वाक्ष इतिवत् प्रत्ययलोपः सात्वतां पतिरित्यादिवत् आर्षो नुडभावः दूध्मः पलाशः पूरयित्वेति ।
गुरुः एवं पूरयित्वा समभ्यर्च्य हुत्वा तैर्देवं स्नापयेत् एवं गुरुकृत्यमुक्त्वा तत्समारम्भकयजमान समाधिमाह - देवमिति गुर्वादीनां पूज्यत्व कथनेन अर्थाक्षिप्त स्तत्प्रयोजको यजमानः स्वाभि

स्वाभिमतसर्वस्वसिद्धये अनुष्ठापितप्रतिष्ठं चातुर्थिकस्नपन विद्योतमान विग्रहं अनुग्रहोन्मुखं देवं सहकारिभिः मूर्तिधरै सह तद्विधायिनं गुरुं क्रियमाण तत्तत्क्रिया समाधान शौण्डान् पण्डितान् पारायण परायणान् ब्राह्मणान् तन्नियोगकरणोद्युक्तान् भक्तान् परिकर्मिणोऽन्यांश्च तत्सहकारिणः पारशवादींश्च सर्वान् अन्नादिभिः समुक्तसर्वजनसाधारणेन अन्ते अन्नादि शब्दवाच्यैर्देवविषयेण नित्यपूजाद्रव्य कल्पनादिपुरस्सर पुष्पाराधनेन गुर्वादि विषये गोभूहिरण्यादि तत्तदर्ह दक्षिणाविशेषैश्च भक्त्या स्वसमाराध्येषु सर्वेषु परमेश्वरभावनारूपया मनोवृत्त्या सम्यगास्ति कय युक्तं पूजयेत् स्नपनविधिमुपसंहरति अवस्तुतेन सम्प्रोक्ता देवस्य परिचारकाः इत्यनूदितचातुर्थिक स्नपनानामनिर्दिष्टप्रतिष्ठानां परिवाराणां प्रतिष्ठामाचष्टे दिशाहोममित्यादि पटलशेषेण ।
मत्विजोऽष्टदिक्ष्वग्निं निधाय अग्निमुखादिकं

च कृत्वा अमीभिरनन्तरवक्ष्यमाणैः मन्त्रैः विधिवत् पञ्चतारानुवचनादितदर्भविध्युपेतं पक्वं जुहुयुः पक्वमन्त्रानाह इन्द्रकृतुमित्यादि त्रियम्बकमित्यन्तेन ।
वाथवे वायुसं बन्धे कोणे पुरः पूर्वं प्रत्येकं प्रतिमन्त्रं पञ्चताराननूद्य पूर्वतः पूर्वां दिशमारभ्य क्रमात् एवं पक्वानि हुत्वा तत इन्द्राद्यैर्मन्त्रैः यथाक्रमं पूर्वचोदितैः समिदाज्यलाजादिना पूर्वमधि वासविहितैरथ चतुर्द्रव्यैर्वा जुहुयुः अत्र पूर्वतः क्रमात् इति वचनेन प्राग्द्वारे प्रत्यग्द्वारे च प्रासादे च दिशाहोमः पूर्वादिक एवेति सूचितम् होमान् समाप्य सम्पाताज्यसमन्वितैः कलशैः पीठिकासु विधिना संस्थाप्य क्रमात् पूजयेत् बलिपीठिकानां दर्भादिक्षावन धारणा शुद्धिपीठपूजा विधिना संस्थाप्य क्रमादिन्द्रादीन् पूजयेत् हविश्शेषेण बलिं च कुर्यादितिभावः ।

इति क्रियासारव्याख्यायां तत्वप्रकाशिन्यां ॥
नवमः पटलः ॥
९ ॥