०८

एवं प्रासङ्गिकं निष्कृतिलक्षणमभिधाय तत्समानजातीयं जीर्णोद्धारं वक्ष्यन् विवक्षितं प्रतिजानीते जीर्णोद्धारमिति निगदव्याख्यातेन ग्रन्थार्धेन जीर्णोद्धारस्य आवश्यकत्वं

आह- विधिनेति विधिना ध्यानाधिवास जीवन्यासादिनेश्वरस्य नित्यदृढसन्निधानसाधनेन विधिना उपलक्षितं स्थापितं स्थापितं लिङ्गमीश्वरस्य लिङ्गशरीररूपं मन्त्रलिङ्गं तत्स्थूलशरीररूपं गेहं प्रासादं वा जीर्यते यदि तदैव कालक्षेपमकुर्वन्नेव ।
एवमनन्तर वक्ष्यमाण प्रकारेण विधिना तदुद्धरेत् आयतनादुत्खनेत् तत्स्थाने अन्यदुद्धरेत् उद्वहेच्च विधिना सान्निधापितस्य ईश्वरस्य विधिनोद्वासं विना मन्त्रलिङ्गं विश्लेषविरहाद्दुष्टलिङ्गं दुःस्थितिनिमित्त कोपोपशमनायोद्धृतिरवश्यं कार्येति भावः तत्र प्रथमं प्रासादजीर्तौ उद्धारं दर्शयति ऐन्द्रेशानेत्यादि स्नानं समाचरेदित्यन्तेन ग्रन्थेन प्राकारबाह्यतो मध्यहाराबाह्यतो मूलप्रासादस्यानुरूपतो विभक्ते सुषिरै गेहे पूर्वनिमिते अल्पबिम्बं नवं गेहं भूतांशैः परिकल्पयेदित्यादि न्यायेन मूलप्रासादस्यानुरूपतः प्रासादाभिमुखद्वारं

मूलप्रासादाभिमुखद्वारं अत एव तदन्ययोनिकं काष्ठमयमल्पं गेहं तदग्रे चतुरश्रं शुभं तन्मध्ये वेदिकान्वितं यथान्यायं ध्वजतोरणकुण्डादि मत्व न्यायान्यायानतिवृत्य मण्डपं च कृत्वा अथ अङ्कुरारोपणाल्प बिम्ब जलाधिवासनाद्यनन्तरं गेहं अल्पप्रासादं विधिवत् तन्तुवेष्टनादि वास्तुजुण्याहान्तं स्तदगोपेत विधिसंयुक्तं मण्डपं मल्लमण्डपं तन्तुवेष्टनादि घटीश्रमणादि विधि संयुक्तं च शोधयित्वा मूलप्रासादेपि रक्षोघ्नादि विधिं कृत्वा शिवमूललिङ्गकृत सन्निधानं देवं संशोध्य क्षालनादि सप्तशुद्धिप्रायश्चित्त नवद्रव्यकलशाभिषेकादिभिः सम्यक् शोधयित्वा अभ्यर्चयेत् ।
तत्र तत्र मूलप्रासादे पारिषदांश्च सम्पूज्य तेभ्यो बलिं प्रदाय च ।
चकारात् शृण्वन्त्वित्यादिना प्रार्थ्य तत्र अल्पमण्डपे स्वस्तिकं कृत्वा तत्र शय्यां समास्तरेत् गुरुः लिङ्गं अल्पलिङ्गं कृत्वा विधानेन जलाधिवासादि विध्युपलक्षितं कलशादिभिः बिम्बशुद्धिकलशैः

आदिशब्दोक्त पुण्याहादिभिश्च संशोध्य शय्यामारोप्य विधिवत् पूर्वोक्त संयुक्तं तस्यान्तर्लिङ्गं शाययेत् ॥
देवमिति ॥
साधकोत्तमो यत्नेन भाविचिरकाल पूजाविच्छेदानुमत्यै भूरिनिवेद्य सम्पादनादि यत्नोपलक्षितं मूलप्रासादस्थं देवं आराध्य अग्रे देवाग्रे लोहसम्भवं सुवर्णसुर्वर्णादि लोहसम्भवं शोधित मन्त्रक्षालानादिना शोषणादिना दर्भन्यासादि ना च यथावत् संस्कृतं कुम्भं साधयेत् तत्र कूर्चात्मकांश्च दूर्वाकुशान्वितं रत्नानि च निक्षिप्य गालितैर्गालिताभिः मूलमन्त्रतः पूरयेत् पूर्वं कलशमूर्तिसुषुम्नारूपं याक्षतं कूर्चं प्रणवेन निक्षिप्य जीवबुद्ध्या दूर्वाकुशान्वितं रत्नानि च निक्षिप्य मानसपूरणानन्तरं गालितजलैः मूलमन्त्रतः पूरयेदिति भावः पूरयेदित्यनेनैवात्र पूजा मूर्त्यावहन मन्त्रावाहनादि साम्प्रतिकं प्रसिद्धं विधानमनूदितमेव ॥
एवमिति एवं उद्वासनार्थं कलशसादनं कृत्वा बहिर्गत्वा

प्रासादबहिर्विरचित बालालयाग्रमण्डपं गत्वा लिङ्गं तच्छायितमल्पलिङ्गं क्रमात् तत्वसंहारक्रमात् शोधयेत् संशोध्य पुनः शोषणादिभिः संशोध्य तत्वानि न्यस्य उत्पाद्य विन्यस्य रक्षां कृत्वा मन्त्रावाहन पूजनाद्यनन्तरं रक्षां कृत्वा बहिर्व्रजेत् ।
अथ उद्वासयितुमारभेदित्याह - कर्तृनितिः कर्तॄन् कालावधिं पृच्छेत् तैरुक्तं तत् निवेदयेद्देवायेति शेषः ।
तदनुज्ञापनमन्त्रमुद्दिशति भगवन्निति उद्वासनाप्रकारमाहेतीत्यादि पूजयेदित्यन्तेन देवेशमिति विज्ञाप्य तेभ्यो हेमवस्त्रादिकं शक्त्या दत्वा प्रयत्नतो यथैव देवपूजायामित्यादिवाक्य प्रयत्न विज्ञापनमाश्रित्य ब्राह्मणानामनुज्ञया क्रियतामित्युक्तिरूपया ततो देवताभिः क्षेत्रपालादि बलिपरिवारदेवतादींश्च समन्वितं तत्वानि संहृत्य संहारतत्वहोमादिना संहृत्य सकलं परिवारदेवतासमन्वितं मन्त्रशरीरारम्भकतत्वजातं सर्वं लिङ्गे निवेश्य संहारतत्वकलशासेचनपूर्वकं च

लिङ्गशरीरे सङ्कोच्य एनं लिङ्गस्थं परमेश्वरं वेद शिवतत्वरूपं प्रणवाद्यन्तैः प्रणवपुटितैः बिन्दुनादान्तदीपितैः बिन्दुना बिन्द्वात्मना भुवनपतिना नादेन प्रासादेन अनन्तेन प्रणवशक्तिप्रासादान्तःस्थितेन पञ्चाक्षरेण च ।
शिवाष्टाक्षरेणेति यावत् तेन दीपितैः पुटितैरित्यर्थः ।
तादृशैः पञ्चब्रह्मभिः आवाहनविधिं नयेत् मूललिङ्गात्तदग्रयादितकलशे जीवावाहनन्यायेन आवाहयेदिति भावः ।
अत्र विधिपदेन साम्प्रदायिकं तद्विधिविशेषं सूच्यते ।
आवाह्य कलश एवमावाह्य न्यस्य साम्प्रदायिक पञ्चमन्त्रन्यासादि कृत्वा मन्त्रावाहनपूर्वकं सकलीकृत्य पूजयेत् गुरुस्ततो मूलबिम्ब रक्षानन्तरं तत् सुवाससा सञ्च्छाद्य कलशं वस्त्राभ्यां संवेष्ट्य आदाय वाग्यतः शिवं संस्मरंश्च मन्दिरात् बहिर्व्रजेत् गेहं ।
मूलालय मल्पमण्डपं चाप्रदक्षिणीकृत्य नीत्वा तं कलशं शय्यायां निवेशयेत् ततो देवेशं लिङ्गे च पूर्वसंस्कृते अल्पलिङ्गे कलशे

जीवकलशे च चकारात् मण्डपे च क्रमात् सम्पूज्य परितो मूर्तिपाश्च चकारादाचार्यैश्चते सर्वे अधिवासवज्जुहुयुः ।
अल्पलिङ्गप्रतिष्ठा प्रकारमाह गेहमित्यादि विधि नैवत्वित्यन्तेन अल्पगेहं तु होमसंयुतं विधिवत् संशोध्य पुण्याहान्तं वास्तुपुण्याहान्तं विधानं विधाय ।
अथ पीठप्रतिष्ठाद्यनन्तरं तस्मिन् अल्पगेहे देवं लपलिङ्गजीवकलशादिरूपं प्रवेशयेत् मुहूर्ते लिङ्गं स्थापयेत् प्रतिष्ठापयेत् तस्मिन् लिङ्गे कलशस्थं नियोजयेत् जीवावाहनकाले तु जीवाद्भिरभिषेचयेत् इत्युक्तरीत्या योजयेत् ततो जीवावाहनविहितक्रियान्ते मन्त्रन्यासमन्त्रावाहनतन्न्यासादिकं कृत्वा समर्चयेत् पुनः परिवारकल्पनादि चतुर्थदिवसस्नापनान्तं प्रथमप्रतिष्ठान्यायेन कुर्यादित्याह परिवारानित्यादि विधिनैव त्वित्यन्तेन निगदव्याख्यानेन ग्रन्थेन एवं निष्क्रामणप्रक्रियामुदीर्य मूलालयप्रणयनप्रकारं दर्शयति गेहसमाचरेदित्यन्तेन ।

शिल्पिभिः गेहं यथा न्यायं पूर्वकल्पित भूम्याकारादि कल्पनान्यायानतिवृत्या कृत्वा तस्मिन् मुक्तमानके क्षुद्रप्रवेशादिनिमित्तकालक्षेपमकुर्वन्नेव यत्नेन कारुपेक्षित कपालशकलचीवरादिपरिहाररूपेण मार्जनादिरूपेण च व्यापारेण मूलगेहं मूलप्रासादं क्षालनादिभिः क्षालनजलाधिवास बिम्बकलशाभिषेकैः क्षालनप्लावनादिभिः लिङ्गं च संशोध्य अल्पमन्दिरगं देवं क्रमात् प्रासदशुद्धिबिम्बशुद्धि क्रम शुद्धि संहारतत्वहोमादिसूत्रछेद वक्ष्यमाणक्रमात् कलशे आवाह्य मण्डपे च चकारात् मूलप्रासादे च जीवकलशमन्त्रलिङ्गं च अधिवास्य अथोत्तरेद्युः परावाहनादिपूर्वकं मूललिङ्गप्रतिष्ठाभावनानन्तरं जीवावाहनकाले तु जीवाद्भिरभिषेचयेदित्युक्तरीत्या जीवकलशस्थं देवं मूललिङ्गे नियोजयेत् ।
ततः प्रायश्चित्तादिकं प्रायश्चित्तं शङ्करप्रोक्तादिकं आदिशब्दोकततत्वहोमं च सर्वं कृत्वा त्रिरात्रं होमदादानाद्यैः

नीत्वा तुर्येऽहनि क्रमाच्छक्त्या सप्तदशद्रव्यैः देवस्य स्नानं कल्पयेत् इत्युक्त स्नपनं च समाचरेत् ।
एवं प्रासादजीर्णोद्धारमभिधाय बिम्बजीर्णोद्धारं दर्शयति लिङ्गमित्यादि प्रणामप्रार्थनादिभिरित्यन्तेन ग्रन्थेन ।
लिङ्गं जीर्णं यदि भवेत्तत्रापि तदवस्थायामपि सूत्रछेदविधानेन सर्वतत्वान्यपि अपिशब्देन वास्तोष्पत्यादिकमपि हुत्वा एवं विधाय च एवं प्रासादजीर्त्युक्तप्रकारेण जीवोपासाद्यल्पलिङ्गप्रतिष्ठा जीवकलशाभिषेकान्तं विधाय चास्यानुदितविधेः कृत्वा पूर्वसममिति व्यवसितेन सम्बन्धः आवाह्यात्मनीत्यादि स्वयमेवेत्यन्तं सूत्रछेदविशेषदर्शन परम्मध्येवाक्यं आवाह्येति तत्तत्वं तस्मिन् लिङ्गे स्थिततत्वावासनामात्र रूपं दूर्वा शान्तिकलशाभिषेकादिपूर्वं आत्मनि मार्ताण्डमण्डलवर्तिनि स्वस्वरूप आवाह्य स्वयं चण्डेश्वरो भूत्वा तल्लिङ्गं विधिवदुत्पाद्य शकटे निधाय वृषाभ्यां सलिलं नीत्वा तस्मिन् पीठाराधनादिपूर्वकं चण्डेश्वरं

स्मरन् तन्मन्त्रेण अप्सु निक्षिपेत् अथ ।
तदनन्तरं स्नानतर्पणाद्यनन्तरं स्नात्वा गेहं मूलप्रासादं व्रजेत् ।
तत्र न्यस्तानि रत्नानि स्वयमेव वा दद्यात् इति ॥
अथ निर्मितमूललिङ्ग संस्कारस्थापन निष्क्रान्त जीवप्रत्यर्पणादिकं पूर्वोक्तन्ययानुसारेण दर्शयति कृत्वा पूर्वसमं लिङ्गमित्यादि प्रायश्चितान्यशेषाणि कारयेच्च प्रयत्नन इत्यन्तेन निगदव्याख्यातेन ग्रन्थेन ।

पीठजीर्णोद्धारं दर्शयति पीठे जीर्ण इत्यादि प्रणामप्रार्थनादिभिरित्यन्तेन पीठे जीर्णे तत्रस्थां शक्तिं यथाविधि प्रासादजीर्त्युक्त संहारतत्वहोम कलशाभिषेध ध्यान सङ्कोचादि विध्यनुवर्तनेन पीठसंहारान्तं कृत्वा हुं फडन्तपञ्चतत्व पृथक् सिद्धसम्पात समर्पणपूर्वं तत्रस्थां पीठस्थां शक्तिं देवे नियोज्य देवं तत्कलश आवाह्य परिपूज्य मण्डपेऽधिवास्य च चकारात् ततो जीर्णपीठ परित्यागानन्तरं ग * क्षालनाद्यैः शोधयित्वा अधिवास्य एतत् पीठं जलाधिवासस्यानाधिवासादि संस्कृतं

नवं पीठं यत्नतोऽप्रमादेन प्रतिष्ठाप्रोक्तरीत्या संस्थाप्य तेन जीवकलशेनाभिषेचयेत् तेन पीठगतां शक्तिं यथाविधि पूर्वोक्त पीठप्रतिष्ठाविध्यनतिवृत्या स्थाप्य परम्परया स्थाप्य अष्टबन्धं च निक्षिप्य कल्पवर्त्मना पूजयेत् ।
अथ प्रतिष्ठितन्यायोक्तिपूर्वकं उपसंहारकशान्तिहोमादीति ॥
एवं बालालयप्रतिष्ठानिरपेक्षं निष्क्रामणमुपन्यस्य निष्क्रामणानपेक्षं प्राक्रमिकं प्रासादविधिं दर्शयति गेहे जीर्ण इति अथ गेहे जीर्णे देवेशे देवताः परिवारदेवता सकलानि तत्वान्यपि समायोज्य सम्यक् संहारतत्वहोमानि सङ्कोचनादिभिराकृष्य योजयित्वा सङ्कोचं समाचरेद्वा ॥
उपसंहरति जीर्णोद्धृतिरिति अत्र समासेनेति वचनतत्वहोमध्यानसङ्कोचानां आगमान्तरगम्यत्वद्योतनार्थं अल्पमन्दिरस्थापितलिङ्गे ततः परं किं कर्तव्यमित्यत आह अल्पमन्दिर इति ।
अल्पमन्दिरस्थापि लिङ्गं शैलं चेत् अप्सु निक्षिपेत् दारवं चेद्दहेत् ।
अत्रापि

गुरुप्रीणनादि कार्यमेवेत्याह - गुरुमिति जीर्णोद्धारस्य प्रथमप्रतिष्ठातो गैशिष्ट्यं तत्प्रवृत्तये दर्शयत्येवमिति ग्रन्थार्धेन एवम्मूलागमविहित प्रासादादिजीर्णोद्धारमभिधाय तत्तुल्यन्यायसमुन्नेयाष्टबन्धविधिं दर्शयति अतः परं आपटलसमाप्तेर्ग्रन्थसन्दर्भेण अष्ट बन्धविनाशेपित्तापत्तिवत् पूजालोप प्रसङ्गेन तदावश्यकत्वमाह अष्टबन्ध इति पूजालोपो निमित्तानां निमित्तं तु महत्तरमित्यादिवचनेन अष्टबन्धजीर्णनिर्वर्त्यमानस्य पूजनस्य ईश्वरापरिग्रहात् सर्वानर्थमूलमासुरत्वं प्रसज्यते चेत्याह तद्विशीर्ण इति तद्विशीर्णे तद्विशरणे भावेक्तः अष्टबन्धं दर्शयति तस्मादित्यादि स्नपनं च समाचरेदित्यन्तेन ।
तस्मात् एवं रक्षःप्रणवशादि सम्भवो यस्मात् इत्यर्थः ।
तत्र त्वस्ति अष्टबन्धनिबन्धने उचितेन एकदेशनाशः सर्वनाश चिरकालनाशाद्युपपद्येतेत्यर्थः नालमिति यत्नेन पुराणाष्ट बन्धपरिहारादिरूपेण यत्नेन नालं संशोध्य सम्यक् संहारशक्तिहोम सम्पातसमर्पणपूर्वकं

तत्किं देवे विलाप्य नालं शोधयित्वा होम कर्म समारभेत् ।
अत्र नालशोधनान्तरं होमारम्भण्णवचनं सृष्टिसंहारहोमयोः पृथक्करणं मुख्यमिति ख्यापयितुं होमं विवृणोति कृत्वेत्यादि ।
स्विष्टकृदादिकमित्यन्तेन ।
अष्टबन्ध विधिं दर्शयति पीठमिति गन्धपुष्पादिभिः पीठः आधारशक्त्यदिसमष्ट्यन्तं मन्त्रान् क्रमात् विधिवत् पीठाराधनसमनन्तरं शक्तिपीठसमावाहितां सकलातां प्रकृतिं प्रकल्प्य पाद्यादिस्नानान्तं तदर्हविध्युपे तमाराध्य देवमावाह्य सकलीकृत्य स्नानान्तमर्चयेत् ततः शक्त्या नान्दीमुखं कृत्वा अष्टबन्धं च सिकतां वसनाद्यं वसनमाद्य शब्दोक्त मणिहिरण्यादिकं च निधाय निकटे कृत्वा पुण्याहमाचरेत् स्नानाङ्गकृत पुण्याहानन्तरं वस्त्राद्युपहारशेषं प्रदाय पूजयेदित्याह गन्धैरित्यादि ससुवर्णकैरित्यन्तेन नालं पीठविवरं मूलेन ससुवर्णकैः सिकतैः सम्पूर्य गन्धैरष्टगन्धैः पीठं लिङ्गं च मूलेन शक्तिबीजेन षडर्णेन च

सादरं विलिप्य अहतवाससा पीठं वस्त्राभ्यां देवं च वेष्टयेत् ।
उपलक्षणं चैतत् भूषणादिप्रदीपान्त शेषोपहारसमर्पणस्य अष्टबन्धद्रव्यकॢप्तिं दर्शयति शङ्खे स्यादेतदित्यन्तेन ।
शङ्खस्वर्णाभया लाक्षाः क्रमेण षट् चतुर्थ्यैकभागिकाः ।
शङ्खः षट्भागं षट्भागा यस्य स षड्भागः एवं चतुर्भागं स्वर्णं दिभागिकाभया एकभागिका लाक्षा ।
कार्पासोपलवालुका एकैकं लाक्षया तुल्याः ॥
धात्री लाक्षाभागमिता एकभागिका इत्यर्थः ।
सर्वं प्रोक्तद्रव्यं ज्ञनीकृत्य समुदितं तैलेन पेषयेत् ।
एतत्तैलन वमं द्रव्यजातं नवशक्तिमयं विद्यात् सम्पातसंयुतमिति ॥
एतत् धारणादिभिः शोद्ध्य प्रणवेन समर्च्य नवशक्तिभिः समर्पित सम्पातमेतत् शक्तिभिः नवशक्तिभिः मूलमन्त्रेण प्रकृतिमूलेन भूतपतिना देवमूलेन षडक्षरेण च जप्त्वा शक्तितो दानं दत्वा देवं देवीं यथात्मानं यथाविधि पुरुषः प्रकृतिश्चोभौ नित्यौ कालं च सत्तमेत्यादिविहितविधानेन

ध्यात्वा धिया देवं देवीं तथा देवं देवीं च स्मरन् अधिष्ठानाधिष्ठेयभावेन परस्परसम्पिण्डितौ स्मरन् शक्तिभिर्मूलमन्त्रेणेति पूर्वोक्तमनुवर्तते ।
तैरेतत् सुलग्ने निक्षिपेदित्यर्थः ॥
तत् ध्रुवाद्यौरिति कीर्तयन् सुदृढं श्लक्ष्णं च कुर्यात् ततः प्रणवव्यापक कल्पित परस्परसम्मेलन मन्त्रावाहन सकलीकरणाद्यनन्तरं देवं परिषद्भिः परिवारैः समन्वितं प्रतिष्ठापयेत् सम्यक् प्रतिष्ठासमयदर्शितरीत्या पूजयेत् ब्राह्मणानन्नाद्यं भोजयेत् सार्ववर्णिकं सर्वज्ञानपि स्वार्थे तद्धितः ।
अन्नाद्यं भोजयेदित्यनुवर्तते ॥
पुनः प्रतिष्ठा न्यायेन चतुर्थदिनस्नपनादिकं च कुर्यादित्याह प्रायश्चित्तादिकमिति अस्यान पेक्ष्यत्वमाह एतदिति ।
सङ्क्षेपाक्षेपानुक्त कुण्डादिलक्षणानपेक्ष्यत्वमाह कुण्डानामित्यादि विचक्षण इत्यन्तेन ॥
अष्टबन्धविधिमुपसंहरति अष्टबन्धमिति ॥

इति क्रियासारव्याख्यायां तत्वप्रकाशिन्यां अष्टमः पटलः ॥
८ ॥