एवं नित्यपूजामभिधाय नैमित्तिकप्राप्तपूजालोपप्रसङ्ग परिहाराय तत्प्रायश्चित्तप्रतिपादकं पटलान्तरमारभते निमित्ता इत्यादि ॥
शिवागमे पतनाद्या बहवोनिमित्ता दुर्निमित्तानि प्रोक्ताः ।
अत्र पतनादि शब्देन मन्त्रलिङ्गस्य यादृच्छिकपतनप्रमीति स्वाधिष्ठान नपुंसकशिलातो विच्युतिः कौतुकस्य वाहनतो विच्युतिः तत्कालपातादयश्च तन्त्रेण विवक्ष्यन्ते ।
पतनाद्यं येषां देवतानां ते पतनाद्याः कः परो दहभासस्व दादिप्रतीकयोदेहा स्पृश्य स्पर्शादय श्लेष्मरुधिरादयश्च समासार्थातिषु निमित्तेषु जातेषु देशिकसत्तम तत्तद्दोषबलाबलतारतम्यं
समीक्षादक्षो गुरुः तच्छान्ति कुर्यात् अत्र यद्यप्यधिष्ठानाधिष्ठात्रोः दोषः परस्परं सङ्क्रामति तथापि स्थाने दुष्ट एव द्वयोः शुद्धिः कार्या स्थानिनि दुष्टे तच्छुद्धिरेव कार्या तच्छुद्ध्यैव द्वयोरपि तच्छुद्धिसिद्धेरित्याहस्थान इति स्थाने गर्भगृहादि प्राकारपर्यन्ते दुष्टे मरणजनन रुधिरपातादि दोषदूषिते सति भुवः शुद्धिं खननरूपां स्थानशुद्धिं लिङ्गशुद्धिं क्षालनादिरूपां मन्त्रलिङ्गशुद्धिं च समाचरेत् ॥
लिङ्गे दुष्टे लिङ्गस्य शुद्ध्या अथ तदनन्तरमवस्रावप्रोक्षणमात्रेण शुद्धिर्भविष्यति स्थानस्यापीति शेषः ॥
प्रकृत शुद्धिपौर्वापर्यं दर्शयति स्थानशुद्धिरिति पुनः पूर्वं स्थानशुद्धिः कार्या भवेत् ततः तदनन्तरं लिङ्गशुद्धिः कार्या भवेदिति योजना शुद्धौ खननादिसहितायां केवलायां वा मन्त्रलिङ्गशुद्धौ कृतायां ।
अथ तदनन्तरकार्य सूक्ष्मदेह शुद्ध्यर्थं विधिवत्तद्दोषशान्तिविहित विध्यनुसारेण होमादिकं शङ्करप्रोक्तादिहोमान् आदिशब्दोक्त तत्कल
तत्कलशादिकं च समाचरेत् पूर्वकार्यस्थानशुद्धिं गणयति खननमिति विभजते त्वानयेदित्याह ब्राह्मणान् भोजयित्वेत्यन्तेन वाऽभिरथ्येनास्त्रेण अस्त्रोच्चारणे दुष्टं स्थानं पुरुषमात्रं तदर्धमरत्निमात्रं च खनयेत् ॥
पांसून् खननजनितपंसून् बहिर्नै-ऋत्यां त्यक्त्वा कुशैर्दहेत् ।
अस्त्रेणेत्यनुवर्तते तदग्रे अग्निं निक्षिप्य अस्त्रेण महिलीकृत्य तमग्निं गर्ते कृत्वेति धीः गोमूत्रैरिति दहनानन्तरं तद्भस्माद्यपनीय गोमूत्रैः पूरयित्वा तु ।
तुशब्देन भेदवादिना कज्जलविलयो स्वन्यते ।
पूरिते गोमूत्रे विलीने तु तथा विप्रपादोदकैः पूरयित्वा ब्रह्मभिः पञ्चगव्यैः सर्वत्र तत्र वै तत्रैव वा प्रोक्ष्य पचकारात् पूरयित्वा गोभिराक्रमणं कृत्वा नदीतीर कुशक्षेत्र वल्मीकद्यैनिकाभिः शकृद्भिः प्रपूरयेन नदीमध्यतीर द्वयकुशमूल वल्मीकाद्र्यग्निजाभि रष्टभिरादिशब्दोक्ताभ्यां तीर्थाब्धिजाभ्यां द्वाभ्यां चेति दश मृद्भिः प्रकर्षेण दृढतरं पूरयेत् ॥
एवमिति
एवं यथान्यासं बिम्बपीठगृहानिन्दाङ्कणेषु यथातथं खननादिविधिं कुर्यात् तत्तद्दोषाबलाबलं इत्यादि न्यायानतिवृत्या खननादि पूरणान्तं कृत्वा दृढीकृत्य समृद्भिः पूरयेत् गर्तं हस्तिपादैस्तु याज्ञिकैः गोमूत्रसिक्तमाकोट्य विप्रपादोदकैस्तथेति वक्ष्यमाणरीत्या दृढीकृत्य चकारात् पूरणं गोनिवासनमित्युत्तमगोनि वासनं च कृत्वा तथा च विष्णुभागे स्वयमेव वक्ष्यति गानिवास्याशयेत् विप्रानिति एवं कृत्वा ब्राह्मणान् भोजयित्वा तु एकादशावरान् विप्रान् घृतपायसमित्यादिस्मृत्यन्तं एतान् न्यायेन भोजयित्वा तु शब्देन भेदवादिना भोजनानर्हस्थाने अन्यत्र भोजयित्वा तदुच्छिष्टस्पर्शनमात्रादिं सूच्यते मण्डपं तत्र कृत्वा च मण्डपमित्युक्तन्यायेन मण्डपं कृत्वा कवचेन समालिप्य तदुच्छिष्टशोधनानन्तरे तत्स्थानगुप्त्यै कवचेन गोमयोदकेन आलिप्य मण्डपे गव्याघोरास्त्रशोधिते गव्यैः
अघोरास्त्रेण शोधिते सति उपलक्षणमेतत् मार्जनादि मन्त्रमूर्त्याराधनान्तं स्थानसंस्कारस्य च तथा च पाशुपते अघोरास्त्रेण सम्मार्ज्य गोमयेनोपलिप्य च सिद्धार्थान् विकिरेत्तेन गव्यैः सम्प्रोक्ष्य पञ्चभिः लिखित्वा पञ्कजं तत्र शिवं साङ्गं प्रपूजयेत् इति एवं स्थानशुद्धिं कृत्वा लिङ्गं क्षालनाद्यैर्यथाक्रमं क्षालनं प्लावनं चैवेत्यनन्तरवक्ष्यमाण क्रमानतिक्रमेणेन विधिवत् क्षालनं दर्भमृत्त्वग्भिः तूष्णीं तोयैश्च मार्जनमित्याद्यनन्तरवक्ष्यमाण विध्यर्हं यथा तथा संशोध्य शान्तिहोमादि स्थानदोषशान्तिविशेष प्रोक्तशङ्करप्रोक्त होमादि कारयेत् मूर्तिपैरिति शेषः क्षालनादिलिङ्गशुद्धिर्गणयति क्षालनमिति विवृणोति क्षालनमित्याद्यभिषेक विधिस्मृत इत्यन्तेन क्षालनमिति दर्भमृत्त्वग्भिः तोयैश्च तूष्णीं क्षालनमिति सम्बन्धः ।
भवतीति शेषः गन्धपुष्पाक्षतोपेतैरमन्त्रैः अनुच्चरित वैदिकमन्त्रैः शोधनं प्लावनं शोधनमिति पूर्वोक्त
पूर्वोक्तमनुवर्तते सकूर्चैः पात्रसादनोक्ताग्नीकरणादि क्रमन्यस्त कूर्चचच्चित्रैः द्रव्यसंयुक्तैः फलसुवर्णादि साधारणद्रव्यसंयुक्तैरम्बुभिः मन्त्रवत् स्नानपीठाराधन सकलीकरणादि विधि पुरस्सरं स्नानकाले मन्त्रवत् प्रणवमुप पञ्चब्रह्मादिसंयुक्तं स्नानं कुर्यात् यत् तदिह स्नानं भवेत् कादित्यादि वाक्यशेष उत्तरार्धवाक्यभङ्ग्या सिद्धार्थ पात्रे यदुत्तमसादनोक्त उत्तशिकरणप्रोक्षणादि स्वसमृत्युक्तन्यायानतिवृत्या गन्धपुष्पाक्षासितमापूर्याप इत्यर्थात्
ततः कूर्चाङ्गैः स्नानाङ्गं स्वशेषकरिष्यमाणं पुनः स्नानाङ्गं मार्जनं कुर्यात् तदिह मार्जनं स्नानाङ्गं मार्जनं कुर्यादिति वचने नैव आपोहिष्ठादयः स्मृतियुता मार्जनमन्त्राः सूचिताः एवं शुद्धिं विवृत्य धारां विवृणोति संस्थाप्येत्याद्युद्वास्य वरुणं पुनरित्यन्तेन संस्थाप्येति लोहसम्भवा वारुणंवरुणदेवत्यं पात्रं कटाहादिरूपं ऐशान्यां
धान्यराशिस्थं तथा तथा संस्थाप्य पीठाराधनपात्रसंस्कारादिपुरस्सरं सम्यक्निलं स्थापयित्वा सकूर्चं तच्छुभैः गालनादिपवित्रीकृतै सलिलै आपूर्य अत्र अस्मिन् सलिले सौवर्णराजतौ च मत्स्यौ कूर्मौ च तथा समृणालां सपुष्पां पद्मिनीं च निक्षिपेत् ।
मत्स्यौ कूर्मौ च सौवर्णौ राजतौ चेत्यति चकारद्वितयेष्वपि पुमांसौ सौवर्णौ स्त्रियौ राजताविति मत्स्ययौः सौवर्णराजकत्वे च समुच्चिनुतः ।
तत्र तीर्थं वरुणं च मन्त्रतो ध्रुवासुत्वादिमन्त्रमुक्त्वा वावाह्य पालाशादित्रिपादस्थितं पलाशपिप्पलाद्यन्यतमयार्जितवृक्षविरचित पादत्रयस्थं लोहजं सहेमछिद्रं धारापात्रं अत्र सुवर्णे करजत्वे कूर्मयौः सौवर्ण राजतत्वे सहेमछिद्रत्वं सौवर्णमेव मुख्यमिति भावः ।
तत्पात्रमापूर्य प्रतिमोपरि पीठाराधन सकलीकरणादिक्रमप्राप्त पुनःस्नानसमये याममानं दिने
दिने दिने अच्छिद्रा धारा कर्तव्या ॥
आपूर्येत्येतद्विवृणोति समन्त्रमिति ग्रन्थार्धेन वारुणात् पात्रात् तोयं हृत्वा अस्मिन् धारापात्रे समन्त्रं पञ्चतत्व मूलप्रणवोच्चारणपूर्वकं पूरयेत् ।
धाराजपप्रकारमाह पञ्चेति दर्भपाणिभिः पवित्रहस्तैः दर्भेणपात्रं धारापात्रं स्पृशद्भिः वाग्यतैः विहित मन्त्रेतरव्यावृत्त वाग्भिरव्यग्रैः विषयान्तरप्रत्याहृत मनस्कारैरव्ययं देवं ध्यायद्भिः पञ्चमन्त्राः क्रमात् पञ्चब्रह्माणि पञ्चतत्वानि वा क्रमात् पाठक्रमात् आगमोक्ताः श्रीकण्ठपावमानमञ्जर्याद्यागमोक्ताः वैदिकाः तान्त्रिकाश्च मन्त्राः यथाक्रमं प्रागनुवाकरुद्रसूक्त श्रीसूक्त पावमान पौरुषान्त्यानुवाकादि क्रमानतिक्रमणेन जप्याः धारान्त इति निमित्तं सम्भवेद्यदि-
कृत्वेव निष्कृतिं योग्यां ततो देवं समर्चयेत् इत्यादिविधानात् पूर्वं निमित्तारनिवृतार्चनं देवं धारान्ते ॥
यामोन विहितः ॥
प्रथमदिनधारान्ते पूजयेत् * * * वरुणं पुनरिति पुनर्न चाद्यां वारुणं पात्रं त्रिरात्रं यत्र जप्यत इत्युक्ततृतीयदिनधारान्ते वरुणमुद्वास्य ततस्तत्पूजा समनन्तरं अवगाहं कुर्यात् ॥
अवगाहं विवृणोति पात्रमित्यादि द्विजा इत्यन्तेन प्रमाणतो लिङ्गपरिमाणानुसारेण अन्तरवकाशप्रमाणं परिकल्प्य पात्रमवगाहभाजनं कृत्वा लिङ्गपीठं पूजादि यावत् पुनः स्नानक्रियासम्पन्नं लिङ्गं वासोदर्भैश्च सञ्छाद्य यत्नतो अप्रमादेन निच्छिद्रं पात्रं संस्थाप्य व्यस्तैः समस्तकैश्च गव्यैः पूरयेत् अवगाहसमय जप्यान् मन्त्रान् उद्दिशति पञ्चेत्यादि शोभनमित्यन्तेन द्विजा अभितो मन्त्रलिङ्गमभितो निषद्य गव्यादिपूरणे व्यस्तसमस्तगन्धोपपूरणे पञ्चब्रह्मशिवमन्त्रांस्तदङ्गानि च पञ्चब्रह्मणि वा अङ्गानि व्योमव्यापि शिवं तथा अङ्गमित्यर्थः दशाक्षरं व्योमव्यापिदशाक्षरं श्रीकण्ठं नीलकण्ठं त्र्यक्षरं रुद्रं श्रीरुद्रं अन्यच्च भोजनं शिवं सङ्कल्पादिकांश्चेत्येता
जपेयुः अत्रापि पूजयेद्देवमित्यनुवर्तते एवं सप्तभिर्दिनैः याममात्रं याममात्रमवगाहं पूजां चोक्त्वा अभिषेकरूपां सप्तमीं शुद्धिं विवृणोति पञ्चेत्यादि स्मृत इत्यन्तेन ।
पञ्चकुम्भान् गन्धपुष्पाक्षतादिभिः गन्धपुष्पाक्षतैरादिशब्दोक्तैः तोयैश्च सम्पूर्य सम्यक् पीठाराधनकुम्भसंस्कारादि पुरस्सरं पूरयित्वा देवं गन्धाद्यैः ब्रह्मभिः सम्पूज्य ब्रह्मभिस्त्वभिमन्त्रयेत् तु शब्दो ब्रह्मणामीशानादिकं द्योतयति ।
अथवा तु शब्दः पक्षभेदद्योतकः ।
एके पञ्चतत्वैः पूरणपूजादिकमपि स्मरन्तीति द्योतयति ।
तैरेव जप्तमन्त्रैरेव देवं स्नापयेत् पुनःस्नानसमये स्नापयेत् विपरीति एवं उक्तप्रकारेण संशोध्य सम्पूज्य प्रायश्चित्तं प्रकृतं शङ्करप्रोक्त मनन्तरवक्ष्यमाण शान्तिहोमं समाचरेत् ॥
ततः सप्त शुद्ध्यनन्तरं निमित्तानुसारतो निमित्तानुसारतोऽर्थानुसारतश्च पारायणं
समग्रवेदजपं कुर्यात् वित्तानुसारत इत्यनेन अदक्षिणपारायणे परमेश्वरकोपप्रसङ्गो द्योत्यते प्रथमप्रकृतशङ्कर प्रोक्तहोमं साग्निजननं विवृणोति गेहस्येत्यादि समापयेदित्यन्तेनगेहस्य प्रासादस्य दक्षिणे याम्ये पार्श्वे खण्डेन्दुसन्निभं कुण्डं कृत्वा संशोध्य च मार्जनादिभिः शोषणादिभिश्च शोधयित्वा वज्रेण-
हुं फट्कं तारमध्यस्थं वज्रमन्त्रमुदाहृतं इति पाशुपताद्युक्तेन वज्रमन्त्रेण उल्लिख्य अस्त्रेणोक्षयेच्च ।
विष्टरे प्रोक्षणानन्तरं प्रणवेन न्यस्ते विष्टरे समिष्ट योगविष्टरे च देवीमुमाशक्तिं वामेन च चकारात् भुवनेश्वरीसहितेन कल्पयेत् ।
आवाह्य सकलीकृत्य रत्यर्थिनी मित्याद्युक्तप्रकारेण भावयेदिति भावः हृदाऽघोरेणार्चयेच्च ॥
सद्येनाग्निं समादाय शिवं जप्त्वा क्रव्यादांशनिरासानन्तरं शिष्टसंस्काराय शिवं ईशानं जप्त्वा अघोरेण समुच्चयेत् ।
अथ सद्येनाग्निं निक्षिप्य हृदा अघोरेण समुच्चयेत् शिवेने शानेन वर्मणा ईशानादिपञ्चमन्त्रमय पञ्चाङ्गकल्पनायां सर्वभूततया प्राप्त वर्माख्येन वामदेवेन अघोरपुरुषाभ्यां शिवेन ईशानेन च गर्भाधानादिनामकरणान्तानि पञ्चकर्माणि कृत्वा तथा पाशुपते शाङ्करं जनयेद्वह्निमित्युपक्रम्य ईशवाम प्रशान्ताख्य पुरुषेशान पञ्चभिः गर्भाधानादिका कुर्यात् ।
क्रियानामवसानिका इति एवमग्निजननं कृत्वा अग्निमुखान्तिकं च कृत्वेति चकारात् वक्त्रेण पक्वं जुहुयात् औदुम्बरोत्था मार्गजाश्च समिधो घृतं हविश्च क्रमादेभि अघोरसद्यवामाद्यैर्मन्त्रैः अष्टोत्तरसहस्रकं हुनेत् पश्चादेभिः तिलसर्षपमुद्गैः शालिभिश्चास्येन अष्टोत्तरशतं हुनेत् ॥
अथ दूर्वाभिः वक्त्र मन्त्रेण सहस्रं जुहुयाद्दधि क्षौद्रघृतैरष्टशतं मृत्युञ्जिता हुनेत् उपसंहरति तत इति समापयेत् तत्सम्पातकलशाभिषेकान्तं
कर्म कुर्यादित्यर्थः प्रोक्तप्रायश्चित्तविषयं दर्शयति ।
एषेति मदिरे देवालये मरणादिषु जन्ममरणरुधिरातादिषु दोषेषु सत्सु एषा च चकारात् श्वशान्त्यदिका च निष्कृतिः प्रोक्ता मन्त्रलिङ्ग विषयं शुद्ध्यन्तरं दर्शयति ॥
लिङ्ग इति लिङ्गे स्वेदादिसंयुक्ते स्वेदसंयुक्ते आदिशब्दोक्त्र रोदहासादिसंयुक्त ख श्वदण्डादि दुरिते च सति लिङ्गशुद्धिं क्षालनादिरूपां क्रमात् कृत्वा शान्तिहोमं च चकारात् पूर्वोक्त शङ्करप्रोक्त नन्दिप्रोक्तादिकं च समाचरेत् शान्तिहोमं विवृणोति कृत्वेत्यादि सर्वदोषप्रशान्तये इत्यन्तेन देशिकोत्तम ऐशान्यां तुर्यश्रकं क्रमप्राप्ताष्टाश्रं च त्वशङ्काशमनान्ता तुर्यश्रमिति विशेषणम् तादृशं कुण्डं कृत्वा अग्निं जनयेत् सम्यक् षोडशक्रियाभिर्जनयेत् पश्चात् तत्कलश पूजाद्यनन्तरं अग्निमुखान्तिकं कुर्यात् पक्वहोमात् पुरा पूर्वं पीठमन्त्रैराज्येन वक्त्रेण पक्वं ब्रह्मादिपूजामन्त्रै शम्भुपक्षादिवि
विहितैः ब्रह्मभिरादि शब्दोक्तैः ब्रह्मभिश्च सकृत् घृतं होमयेत् ॥
प्लक्षौदुम्बरवटजाः पैप्पलाः पैप्पलीरित्यर्थः ॥
आर्षो ङीब्भावः ताः समिधः आद्यविद्यया अष्टोत्तरशतं हुनेत् आद्यविद्येति प्रतिवाक्यं सम्बध्यते अनन्नं मधुसंसिक्ता दूर्वाश्च लाजादीनि च लाजं सर्षपांश्च तिलान् यवान् व्रीहीन् सक्तून् पुनश्च आज्यमित्युक्त सप्तद्रव्याणि च आद्यविद्यया होमयेत् तत इति ।
इत्युक्तचतुर्दश द्रव्यहोमानन्तरं स्विष्टकृतं हुत्वा होमशेषं समापयेत् ।
उपसंहरति शान्तीति ॥
एवं अधिष्ठानाधिष्ठातृविषय प्रायश्चित्तमभिधाय क्रियमाणक्रियासु प्रमादप्राप्तयादच्छिकनिमित्त प्रायश्चित्तान्यपि कानिचित् दर्शयति भिन्न इति ॥
पूर्णे स्नपनायाधिवासिते कलशे भिन्ने अपरे पात्रे पूरयित्वा तत्स्थाने अन्यं कलशं संसाद्य यथापूर्वं भिन्नकलशकपालस्थजलैः तदभावे अन्यजलैश्च पूरयित्वा अस्त्रेण शतं होमयेत् अनन्तरं सम्पाताज्येन संस्पृश्य कलशं
स्पृष्ट्वा हुतमन्त्रं तावद्यावत् हुतसङ्ख्यं जपेत् एषा निष्कृतिर्मनीषिभिः कलशे सामान्य कलशवाद उद्दिष्टा भेदवादिना तु शब्दे नात्र ब्रह्मकलशनाशादौ पञ्चतत्व पूर्णाहुत्यादिकं प्रायश्चित्तादिकं द्योत्यते - मन्त्रोत्पात इति ॥
मन्त्रनिमित्त उत्पाते न्यूनातिरिक्तक्षुद्रमन्त्रप्रयोगादिरूपा विद्येशा अनन्तादयो होम्याः अनन्तादिभिः अष्टाष्टसङ्ख्यमाज्यहोमं कुर्यादित्यर्थः ।
अन्य वस्तुन्युपहारद्रव्यादौ निमित्ते वामो होम्यः ॥
अदक्षिणे दक्षिणाभादिवजो होम्यः वस्त्रदाहे सिंहाक्षुरिकामन्त्रेण अयुतं दशसहस्रं होम्यम् उपसंहरति ॥
निगद व्याख्यातमेतत् ॥
इति तत्वप्रकाशिन्यां सप्तमः पटलः ॥
६ ॥