०६

एवमर्चकेत्यादि श्रुतिश्रुतनित्यपूजादि अधिष्ठानभूत मन्त्रलिङ्गप्रतिष्ठामभिधाय तदेककार्य नित्यपूजोत्सवादिषु अवश्यनित्यकर्तव्यां पूजां वक्तुं प्रतिजानीते अथ

अथ वक्ष्ये इति अथ श्रुतिज्ञातप्रथमकर्मापतितां पूजां समासेन वक्ष्ये वदिष्येऽहं समासेनेति ।
सङ्क्षेपोक्तमनुक्रान्तत्वे पुनः समासकथनानुमननेन आगमान्तरप्रपञ्चितं शङ्खपूरण आत्माराधन उपहारकल्पनादि प्रपञ्चस्य अत्राप्यविरोधो ध्वन्यते आगमान्तरेष्वपि कुहचित् सङ्क्षेपकथनविधानादेतन्मात्रकरणे न कश्चिद्दोष इत्येवमुक्तिः ।
तत्प्रकारमस्माभिः तन्त्रसमुच्चये प्रदर्शित इतीह न प्रदर्श्यतेतिमित्य स्यात् पूजाया प्राथम्यमित्यत आह सर्वाणि सिद्धिदामिति स्नात्वेति तत्र पूजको विधानतः स्नात्वा देवपितृतर्पणं कृत्वा वाग्यतोऽन्तर्मनसि मनसि मुकुन्दस्मरणादित्यादिन्यायात् तच्छुद्ध्यर्थं शिवं स्मरं स्मरन्नेव पुनः स्नानादि शरीरवाङ्मनः शुद्ध्यनन्तरं पूजनार्थं गच्छेत् पूजामण्डपमिति शेषः प्रक्षाल्येति गत्वा च पादौ प्रक्षाल्य आचम्य द्वास्थावभ्यर्च्य तदनुज्ञापूर्वं संविशेत् सम्यक् दक्षिणचरणपूर्वकं विशेत्

पूजामण्डपान्तरित्यर्थात् ॥
करशुद्धिमिति ततो अस्त्रेण करशुद्धिं कृत्वा तेनास्त्रेण तालत्रयादिकं तालत्रयमादिर्यस्य दिग्बन्धस्य तालत्रयादिकस्तादृशं दिग्बन्धं कृत्वा अथ अनन्तरकर्तव्याग्निप्राकारानन्तरं दिक्षु दिगीश्वरान् ध्यात्वा ततस्तदनन्तरं दर्भविष्टरे आसीनः आत्मशुद्धिं आत्मनो जीवस्य सूक्ष्मदेहस्य च शुद्धिं कुर्यात् ॥
तत्र प्रथमं नाडीशुद्धिप्रकारमाह रेचयेदिति रचयित्वेतिः नाडीशुद्ध्यर्थं कुम्भितं वायुमन्योन्यनाडीविनियमेन बहीरेचयित्वा अथ तदनन्तरकर्तव्य प्रणवप्राणायामानन्तरं भूतानि स्वदेहारम्भ सूक्ष्मभूतानि संहृतिक्रमात् शोधयेत् संहारक्रमेण स्वकारणे परमात्मनि विलाप्य शुद्धिं कुर्यात् ।
आत्मन आकाशः सम्भूत इत्यादि श्रुतौ भूतानामेव सृष्टिश्रवणात् तान्येव वा संहरेदिति भावः भूतशुद्धिं विवृणोति पादाग्र इत्यादि यथाविधि इत्यन्तेन हृदयादीति हृदयान्वितैः प्रासाद
प्रासादहृदयभूत हामाद्यक्षरलक्षितैः स्वैस्वैर्मण्डलगैः पृथिव्यादि तत्तद्भूतमण्डलाश्रितैः बीजैः यवस्यहाक्षरैः ह्नां ह्वीं ह्रूं ह्यैं तथा हौडित्येतैः हुं फड् समन्वितैः इति प्रागुक्तरूपैः क्रमात् पञ्चभिश् चतुर्भिश्च त्रिभिर्द् वाभ्यां सकृत् उद्घातावृत्तिभिः संहारप्राणायामापत्तिभिः क्रमात् पादाग्रे नाभिमूले हृदि कण्ठे तालुके च स्थितानीत्यर्थात् तानि भूतानि यथाविधि प्रागुक्तविध्यनतिवर्तनेन शोधयित्वा
वायुना शोषयेत् तनुम् इति वक्ष्यमाणेन सम्बन्धः ।

अत्र वाक्येनोद्धातनिर्वचनादि नादेन शोधनं व्याम्न इत्यन्तेन देहे असञ्चलिते दृढबद्धासनतया सुस्थितेऽपाने च पीडिते स्वच्छन्दगति निरोधेन ऊर्ध्वमुखीकृते च सति ऊर्ध्वयायिन्या प्राणशक्त्या प्राणबलेन अयमुद्घातशब्दोक्तः प्राणायाम ऊर्ध्वं ऊर्ध्व तत्वस्थानं गति यत् तेनायं प्राणायाम उद्घातः कीर्त्यते पञ्चमभूतसंहारमते अङ्गबीजसंयोगविधिना च प्राप्तहकारद्वय प्रसङ्गदोषं

परिहरति नादेनेति नादेन * * प्रासादेन हेनं कारेणेत्यर्थः तेन व्योम्नः शोधनं विहितमिति शेषः एवं स्वाश्रयभूत भूतसंहारक्रम समसंहरणेन स तत्पूर्व कृतप्रणवप्राणायामेन वा आत्मानं जीवात्मानं योगमार्गेण समाधिविधिना च व्योमस्थं कं ब्रह्म खं ब्रह्मेत्यादि श्रुतिश्रुत व्योमा परनाम्नि परमात्मनि स्थितं परिकल्पयेत् इति प्रासङ्गिकमध्ये किञ्चित् प्रपञ्च्य प्रकृत शेषं दर्शयति वायुनेत्यादिना दिव्यमिति प्लावनानन्तरं तत्काठिन्यसुषिरीकरणभूत सृष्ट्यादिक्रमेण दिव्यं देवं समुत्पन्नं ध्यात्वा पुण्यैकसारत्वात् परमेश्वररूपकल्पं देवं समुत्पन्नं ध्यात्वा आत्मानं पूर्वं परमात्मनि संहारेण कलयन् स्वं जीवात्मानं तदध्य क्षतया योजयेत् चकारः संवत्सरपरिणामाद्यभिमर्श प्रदर्शकः कृत्वेति मन्त्रन्या समाचरेत् तत्र करभावनां दर्शयति तलाविति करयोस्तलौ सृष्ठौ च चकारात् पार्श्वौ चास्त्रेण शोधयेत् पुनरुभयोः

करयोः दीप्यह रस्तत्वोत्पत्त्या मूलेन प्रासादेन व्यापकं न्यसेत् ।
मूलमित्यनुवर्तते एवं कृत्वा पुनर्लिपितत्वन्यासानन्तरं अन्तः करणविलासं अन्तःकरणस्य सूक्ष्मशरीर रूपस्य ब्रह्मपञ्चकस्य विन्यासमारभेत् तद्विभजते ते वक्त्र इत्यादिना तदनन्तरं सर्वज्ञत्वादिसिद्धये अङ्गान्यपि न्यसेत् इत्याह हृदयानीति न्यस्त्वेति एवं उक्तप्रकारेण न्यस्त्वा हृदि देवेशं ध्यात्वा यथाविधि ततोऽर्काब्ज खमध्यादप्यूर्ध्वस्थानात् संस्मरेच्युतां गङ्गां भगवतो मूर्ध्नि तेन अमृतजलेन अर्घ्याद्यखिल भोगानां कार्या वै शुभकल्पनेत्याद्युक्त विध्यनति क्रमेण अभ्यर्च्य मन्त्रं जप्त्वा ततः तदैक्य भावनानन्तरं समाहितः समाधिपरमेश्वर भावः पूजां आत्मपूजां देवपूजां च आरभेत् अस्त्रेणेति पात्रं सपादं शङ्खं अस्त्रेण क्षालयेत् मूलेनाम्भः पूरयित्वा कवचेनावकुण्ठयेत् पुनः गालन्या शिखयापूयं नेत्रेण निरीक्ष्य अस्त्रेण संरक्ष्य

तदनन्तरमन्त्रान् सोममन्त्रमूलमन्त्रगङ्गामन्त्रान् न्यसेत् आवाहयेत् एवं शङ्खपूरणात्माराधने समासेनाभिधाय अत्र प्रतिष्ठितमन्त्रलिङ्गे दिनमाराध्य ध्यात्वा तत्पुरोविरचिते तत्स्थानीये स्थण्डिले साम्प्रतिकसपर्यां दर्शयति आधारशक्तिरिति ।
तत्र पीठपूजामाह आधार शाक्तरित्यादि कल्पयेच्च यथाक्रममित्यन्तेन ।
पुनरात्माराधनानन्तरं आधार शक्तिं च ।
चकारात् मूलप्रकृत्या कूर्मादि च पुनरनन्तरं पृथिवीमित्यर्थात् एकं पञ्चकमध्ये तूपरि उपरि विन्यसेत् मनसा कल्पयेत् पुनः यजेच्च यजेदिति वक्ष्यमाणमत्राप्यास्थीयते ।
पुनस्तदनन्तरं अग्न्यादिकोणेषु पीठपादरूपेण धर्मादिकान् पूर्वादिदिक्षु इषारूपेण अधर्मादिकांश्च यजेदित्याह अधर्ममिति अधर्मादिकानिति तद्गुणसंविज्ञानो बहुव्रीहिरतो अधर्माज्ञानावैराग्यानै श्वर्यानीत्यर्थः पुनः पीठावलग्न तन्तुरूपेण

मायाविद्ये तदुपरि देवासनत्वेन पद्मं तालकर्णिकारूपेण नवशक्तीः दलकेसरकर्णिकारूपेण मण्डलात्मत्रयं च पूजयेदित्याह सत्वमित्यादिना नवशक्तीर्वक्ति वामेत्यादि द्वाभ्यां मण्डलात्मत्रयं विभजते तारार्णैरित्यादिना मण्डलानामभेदेन मण्डलस्थानस्थितानीत्यर्थः ।
एवं पीठपूजामुक्त्वा तत्र मूर्त्या वहनमाह - कल्पयित्वेत्यादि समाचरेदित्यन्तेन ततो देवं प्रासादमन्त्रमूर्तिरूपं कर्णिकोपरि स्थितं कल्पयित्वा ओंंशिवमूर्तये नम इत्यनेन कल्पयित्वेत्यर्थः चतुर्भुजादिसंयुक्तं ध्यात्वान्तः करणविन्यासमिति व्यवहितेन सम्बन्धः देवमूर्तौ कर्णिकायां देवमूर्तावन्तःकरणविन्यासं ईशानादिपञ्चकविन्यासं समाचरेत् ।
अथ कल्पितं स्थूलमूर्तिरूपं देवं प्रासादमन्त्रेण चतुर्भुजत्वादिवि शिष्टं ध्यात्वा तत्र हृदयाम्बुजाच्चिद्रूपं तत् साक्षिचैतन्यमावाह्य स्थापयेदित्याहचिद्रूपमिति ॥

अथ मूर्त्यावाहनानन्तरं हृदयाम्भोजात् गुरुः स्वहृदयपद्मात् चिद्रूपं ज्योतिरावाह्य विन्यसेत् स्थापयेत् क्रमादिति आवाहनादिमुद्राप्रदर्शन लिपितत्वन्यासादि क्रमेण मन्त्रन्यासं समाचरेत् एवमावाह्य सकलीकृत्य देवाय पाद्याद्युपहारान् दद्यादित्याह पाद्यमित्यादिना एवमिति एवं पाद्यादिसमर्पणं कृत्वा ततः तस्मिन् देवे शम्भुपक्षमीश्वरशरीरत्वेन अभिमत्रसूत्रवस्त्रादिकं समर्चयेत् तद्विवृणोति मूर्धेत्यादिना हृदयादीनि चेति चकारो अनुक्तवक्त्रायुधादिसमुच्चयार्थः पश्चात् शम्भुपक्षानन्तरं मूर्तिपक्षं समर्चयेत् परिवारमूर्तित्वेनाभीत सद्योजातादि देवताजातमर्चयेदित्यर्थः मूर्तिपक्षपूजां विभजते पश्चिमेत्यादि पद्मं तद्बाह्यतोऽर्चयेदित्यन्तेन ग्रन्थेन अग्नीशरक्षोवाखग्रे हृदयादिनेत्रान्तानि दिक्षु पूर्वादिदिक्षु अस्त्रं चेत्यङ्गानि समर्चयेत् उत्तरादिषु वाय्वन्तासु दिक्षु प्रादक्षिण्येन पूजयेदित्यर्थः ।

गन्धैरिति पुष्पैस्तथा यथा गुर्वागमादि सम्प्राप्त पुष्पावरणादिसंयुतं तथेत्यर्थः ॥
एवमिष्ट्वा निवेद्यान्तरपूजाविधानं विधाय पश्चाज्जुहुयात् पूजाहोमं कुर्यात् अथ भूतेभ्यो नन्द्यादिभ्यः प्रोक्तयुक्त्या वा सर्वान् वह्निसहितान् विभाव्य तत्रैव वा बलिं हरेत् ।
अथाचम्य आचमनीयं च पानीयापरनामधेयं च चकारादविधानीयजलं च दत्वा अन्नं विसर्जयेच्च ।
चकारान्निर्माल्यसात् करोतु च ।
पुनस्तोयः गण्डूषजलमाचमनं च दत्वा ततः क्रमात् गन्धैश्च पुष्पैश्च चकारात् धूपादिभिश्च मुखवासादिभिः पञ्च ताम्बूलकरचन्दनापूपादिभिश्च पूजयेत् अभ्यर्च्येति तदनन्तरं मूलेन किञ्चिदभ्यर्च्य दत्वा ब्रह्मार्पणरूपेण देवायस्वसर्वस्वं समर्प्य स्तुत्वा प्रसाद्य प्रसन्नार्घ्यप्रदानपुरस्सरं प्रसादसलिलेन साकमभिषिच्येत्यर्थात् अवसानार्घ्यं दत्वा विसर्जयेत् उद्वासयेत् तत्रस्थ एव प्रतिष्ठित मन्नलिङ्गं स्वात्मन्येव वा उद्वासयेत् एवं प्रासादमन्त्रपूजामुक्त्वा

प्राणन्यासानुवादपूर्वकं षडक्षरपूजामाह षडक्षरेणेति न्यसिकरन्यासादावर्चने मूर्तिपूजादौ मनादीषत् भेदो भवतीति शेषः ।
क्रमेणेति मन्त्रार्ण बिन्दुसंयुक्तान् मारादिमन्त्रार्णैस्तदनुगत बिन्दुना च संयुक्तां तत्पुरुषाघोरसद्यवामेशमन्त्रकान् मं तत्पुरुषाय नम इत्यादि रूपान् क्रमादुभयोः करयोः युगपत् तर्जनी मध्यकनिष्ठानामिकासु अङ्गुष्ठयोश्चेति अङ्गुलीषु क्रमेण न्यसेत् ।
अत्रापि अङ्गानि पूर्ववर्दगुष्ठादितलान्तं इत्यर्थः ।
एवं न्यास भेदमुदीर्य सपर्याभेदमाह प्रागित्यादिना निगदव्याख्यानेन पूजामुपसंहरतीति शास्त्रचोदितमर्चनमिति सङ्क्षेपतः प्रोक्तं मूलशास्त्रेषु तद्विस्तारो दृश्यतामिति भावः एवं तन्नित्यमहरहः क्रमादात्मशुद्ध्यादि प्रोक्तक्रममाश्रित्य कुर्यात् अग्निहोत्रादिवन्नित्यं कर्तव्यमेवेत्यर्थः स्थापितेषु मन्त्रलिङ्गेषु अशेषतो नित्यं कुर्यात् अन्यथा हि भूतनिरासेन परमेश्वरस्य कोपप्रसङ्गात्

प्रत्यवायो भवतीति भावः अर्चनार्हदोष सम्भवे तद्गतिं दर्शयन् पटलमुपसंहरति अनिमित्त इति अनिमित्ते दोषाभावेन लुप्येत पूजेति शेषः ।
निमित्तं यदि सम्भवेत् ततो योग्यं निष्कृतिं कृत्वैव देवं समर्चयेत् इति ।

इति क्रियासारव्याख्यायां तत्वप्रकाशिन्यां षष्ठः पटलः ॥
६ ॥