अथ संस्कृतस्य लिङ्गस्य प्रतिष्ठाप्रकारमाह स्नात्वेति ।
प्रभाते स्नात्वा पाशुपताद्युक्तक्रमेण स्नात्वा विधिवदात्मभावनादि तदर्ह विधिपुरस्सरं महेश्वरं मन्त्रलिङ्गे मण्डले च कृतसविधानं पूजयित्वा प्रतिष्ठाप्यस्य देवस्य वीर्यवत्तासिद्धये दध्याज्यमधु संयुक्तं पायसं च चकाराद्धरिद्रादीनि च निवेदयेत् ।
साम्प्रतिक सपर्याकाले प्रागादिदिक्स्था
देवग्रहभूतग्रहादयो बलिकाङ्क्षिण(न्त) इत्याह - देवेति ॥
तेभ्य इति मण्डपस्य परितोऽष्टदिक्षु तेभ्यः प्रधानद्वारस्थ ग्रहपूर्वेभ्यः तच्छेषेण बलिं दत्वा रत्नन्यासं समाचरेत् तत्र प्रथमं प्रासादचर्चया प्रासादपुरुषप्रतिष्ठां सूचयति सामर्थ्येत्यादिना तद्वत् यद्वदाप्तागमवचनं तद्वदित्यर्थः ॥
प्रासादं संस्कृत्य पीठपूजापुरस्सरं प्रणवोपचार मूलपञ्चतत्व प्रासादमन्त्रानुच्चार्य प्रासादपुरुषं प्रतिष्ठाप्य सकलीकृत्य सम्पूज्य प्रासादात्मना भावयेत् इति भावः तथा च पाशुपते गृहयागं पुरा कृत्वा पश्चियां स्थाप्य देशिकः इति मात्वा वक्ष्यमाणप्रकारेण प्रमाय स्थानं प्रतिष्ठास्थानं कल्पयेत् * * पञ्चोत्तरेति गर्भ गेहस्य पञ्चोत्तरशतांशं तत् गर्भगेहस्य प्राक् प्रत्यग्गतविस्तारे पञ्चोत्तरशतांशतया विभक्ते तदेकोशमानयेत् मध्यतो गर्भगेहस्य मध्यात् तावत् पृष्ठतः पृष्ठे नीत्वा तत्र दक्षिणोत्तरगतं सूत्रपातं प्रकल्पयेत् * * एवं पृष्ठगत व्यवस्थां प्रकल्पयेत् ।
भुवं गमस्येति भुवं गमस्य द्वाराधस्तन फलकस्य षड्विंशच्छतांशं द्वारविस्तारे षड्विंशदुत्तरशतधा भक्ते तदेकांशो यावान् तावन्तमंशमुत्तरे गर्भगेहस्य मध्यादुत्तरे नयेत् तत्र च प्राक्प्रत्यग्गतं सूत्रपातं प्रकल्पयेत् देवं सौम्यदिग्मनुव्यवस्था एवं कल्पितदक्षिणोत्तरसूत्रस्य पूर्वा परसूत्रस्य च सङ्गमे कोणसूत्रं प्रकल्प्य तस्मिन् कोणसूत्रतः कोणसूक्ते ऐशान्यां यवांशं नीत्वा स्थानं प्रकल्पयेत् स्थानं प्रकल्पयेदिति पूर्वोक्तमनुवर्तते तत्र तत्संस्थाने सम्यगपितां प्रणवेन कृतपूजां नपुंसकशिलां अमुना अनन्तरवक्ष्यमाणेन स्थिलीत्यादिना मनुना विन्यसेत् प्रतिष्ठापयेत् ।
कल्पितस्थाने नपुंसकशिला मध्यं यथा भवति तथा विन्यसेदित्यर्थः ॥
स्थापनामन्त्रमुद्दिशति स्थितमिति प्रार्थनामन्त्रमुद्दिशति त्वमेवेति प्रार्थ्येति एवमनकर पूर्वोक्तमन्त्रेण प्रार्थ्य प्रतिष्ठानन्तरं प्रणवेन सम्पूज्य प्राथ्येत्यर्थः तदनन्तरं
गर्तनपुंसकशिलोपरितनगर्तं गन्धोदैश्च चकारात् तत्पूर्वं पञ्चगव्यैश्च प्रयत्नतः प्रयत्नात् प्रतिष्ठास्थैर्यसिद्धये तदन्तर्गत शिलाशकलादिकं परिहृत्य शोधयेत् ततः तत्र गर्ते रत्नन्यासं कुर्यात् इति सङ्ग्रहः तत्र तत्पूर्वकर्तव्यं च्छायेति हुत्वेति गायत्र्या अष्टोत्तरशतं घृतं हुत्वा भूयस्तत्सम्पातसमर्पणानन्तरं तया गायत्र्या तानि रत्नान्यभि मन्त्रयेत् अभिमृश्य मन्त्रयेत् सद्योजातकलाभिरष्टाभिः ऐन्द्रादिकं योगतः प्रागादिप्रदक्षिणक्रमयुक्त्या तान्यनन्तरवक्ष्यमाणानि यन्त्रादीनि रत्नादीनि न्यसेत् ।
न्यसेदिति पद्मरागं न्यसेन्मध्य इत्यतः समाक्षिप्यात्रापि योज्यः ।
रत्नानि गणयति वज्रमिति ।
नीलं शत्रक्रतोः इन्द्रनीलमित्यर्थः ।
गारुडं मरतकमित्यर्थः तथा च पाशुपते वैडूर्यं मरताह्वयमिति ।
गारुडतकं मरतकं अश्मगर्भं हरिन्मणिरिति चामरसिंहः तद्द्वितीयावरणस्य धातून् गणयति मनःशिलामिति वामदेवस्य कलाभिरों बल इत्यन्तादिभिः अष्टाभिरित्यर्थः ।
माक्षिकं तथेति ।
तथाशब्देन आगमान्तरोक्तमध्यद्रव्यमन्त्रा धनुवादो वा विवक्षितः शेषं सुगमम् पुण्याहमिति रत्नन्यासात् पूर्वमेव कर्तव्यम् पुण्याहं कालनियमपूर्वमाह पुण्याहमिति विधाय चेति चकारः एवं तु सुसमं न्यस्त्वा पुनः पीठं प्रपूजयेत् इति पाशुपताद्युक्तां पीठपूजां समुचिनोति तत इति ।
मण्डपमासाद्य मणिस्थं मण्डलस्थितं च चैतन्यं देवे उद्वास्य संयोज्य सम्यगेकीभावेन योजयित्वा तोरणध्वजादि बहिरङ्गक्रमेण विद्येश्वरकलशान्तं देवे संयोज्य विद्येश्वरघटो महेकः प्रोक्ष्य विधिवत् अस्त्राद्युष हारविधानपुरस्सरं अर्घ्यं दत्वा प्रणिपत्य सावधानमना उत्थाप्य उत्तिष्ठमन्त्रेणोत्थाप्य वामदेवेन यानमारोरोप्य (२) मूर्तिपैः नीरजनकर्करी द्रोणकुम्भकुम्भेशछत्रचामरादिवारिभिः यानधारिभिश्च मूर्तिपैः सह अङ्गं प्रदक्षिणीकृत्य देवालयं प्रति नयेत् प्रणयनक्रममाह अर्घ्य हस्त इत्यादि ॥
द्वाभ्यां द्वारेति द्वारदेशे
अध्वश्रमापनोदनाय अर्घ्यं प्रदाय दत्वा यत्नादप्रमादेन देवं अन्तः प्रवेशयेत् तत्र तस्यां कृतपीठपूजायां नपुंसकशिलायां विधिवत् न्यस्य गुरुः सम्प्रदायसमधिगत परावाहनमन्त्र मूर्तिभावनादिकः दर्शविध्युपेतं यथा तथा सद्येनादाय तल्लिङ्गं वामेन स्थाप्य यत्नत इति स्वयं स्मारयिष्यमाणविद्ध्युपेतं च यथा तथा विन्यस्य प्रतिष्ठाप्य आधाराधेयसम्मेलनं विभाव्य मन्त्राराधनपूर्वकं विधाय तस्य वैश्वात्म्यप्रतिपत्त्यर्थं षडध्वन्यासपूर्वकं सद्येनादाय वामदेवेन प्रविश्य शिवाघोरविद्यया सुदृढं स्थाप्य वज्रेण प्रणम्य शिवविद्यया गन्धपुष्पैः समभ्यर्च्य ध्यात्वा आत्मानं प्रकल्पयेदिति स्मृत्यन्तरोक्तषडध्वन्यासं पूर्वं कृत्वा तदनन्तरमचलत्वादि लक्षणलक्षितं चिद्रूपं चैतन्यैकस्वरूपं परं तत्वमावाहयेत् जीवावाहनं कुर्यादित्यर्थः किमीश्वरचैतन्यमपि अस्मदादिचैतन्यवत् सङ्कुचितवृत्या गमनागमनयोग्यत्वा दावाहनार्हमित्यत आह
अचलं हिषुश्च परिपूर्णत्वान्दप्राप्त देशप्रवेशकारणं चलनानर्हं देशतो परिच्छिन्नमित्यर्थः ध्रुवं शाश्वतं कालतश्चापरिच्छिन्नमित्यर्थः आत्मानन्दं आत्मा आनन्दो यस्य तदात्मानन्दं स्वानुभावरसपरमनन्यसिद्धपरमानन्दमित्यर्थः ।
अनौपम्यं असाधारपरमैश्वर्यात् अविद्यमानौपम्यं तथा चानेकार्कायुतप्रभं अनेकार्कायुता रूपोपमा ।
अतिप्रकाशरूपमितिभावः तत्तदृशपरमात्मा तत्कार्योत्तीर्नं तत्वं परमार्थभूतं चिद्रूपं परमैश्वरचैतन्यं प्रतिष्ठिते मन्त्रलिङ्गे जीवरूपेण आवाहयेदिति भावः जीवावाहनां विवृणोति आदायेति साधकेश्वरः साधक एवेश्वरः साधकेश्वरः स्वहृदयाम्भोजातः स्वहृदयपुण्डरीकात् नादानन्दमित्यन्तर्नाद नियतं यत् प्रति प्राणिशब्द इत्याद्युक्तस्वरूपेण प्राणेन सा रौति सततं देवी शृङ्गी सङ्गीतकध्वनिरित्यादि उक्तस्वरूपेण भुवनपतीनायनादनामधेयेन प्रासादेन च प्रतीकग्रहणगृहीतनादनिरूपितेन
अष्टाक्षरेण कबलीकृत पञ्चब्रह्मणा चेति द्रष्टव्यम् तेन मन्त्रेण प्रणवाद्यन्तरुद्धैस्तु बिन्दुनादान्तदीपितैः पञ्चब्रह्मभिरेवैन मावाहनविधिं नयेदिति वक्ष्यमाणरीत्या प्रोक्तरूपं परचैतन्यं श्वाससंयुतं तत्कालवहन्नासापुटनिस्सरन्निश्वासागतमादाय सकले षडध्वन्यास सकलीकृते यथावत् देहदेहिभावेन अतिश्लिष्टतरं योजयेत् ततस्तदन्तरन्तर्लिङ्गं ज्ञानानन्दमयं ज्ञानमयमानन्दमयं च तथा सर्वकारणकारणं सर्वकारणस्य प्रकृतेरपि रविकारणं साक्षात् परमेश्वरं ध्यात्वा तच्चैतन्यविन्यासेन तन्मयमेव ध्यात्वा मन्त्रान् जीवन्यासादिमन्त्रान् अङ्गानङ्गान्यपि क्रमात् न्यसेत् अथ तमभीष्टस्थूलमन्त्ररूपेण तत्परिवारां सर्वस्वपरिवृतं कल्पयेदित्याह ध्यायेत्तमित्यादि सर्वदेवनमस्कृतमित्यन्तेन एवं अभीष्टमन्त्रमूर्तिरूपेण परिकल्प्य तस्य समस्तैश्वर्य वत्तासिद्धये स्तोत्रावाहनं
कुर्यादित्याह - ध्यात्वैवमिति एवं सकलं ध्यात्वा प्रणिपत्य पुरःस्थितो विद्वानावाहनात्मवित् पश्चात् स्तोत्रपुरस्सरैः न्यस्य सिंहेत्यादिस्तोत्रपूर्वैरेभिः वक्ष्यमाणैर्मन्त्रैः आगच्छतु भगवानित्यादि मन्त्रैः आवाहयेदिति ॥
मूलाङ्गन्यासादिभिः सकलीकुर्याच्चेत्यर्थात् ॥
एवं स्तोत्रावाहनावसाने प्रातिष्ठिकाविधि मभिधाय विधिवत् पदसूचितविध्येकदेशं प्रकाशयति सद्येनेति तल्लिङ्गं प्रथितपरावहनादि प्रकटेश्वरभावं लिङ्गं सद्येनाधायावाहनरीत्या उन्नीय यत्नतोऽप्रमादेन वामेन स्थाप्य परब्रह्मात्मक नपुंसकशिलोपरि तद्बिम्ब रूपेण आकल्पान्तं स्थास्नुतया प्रतिष्ठाप्य भीमेनाघोरेण निरोधनं स्ववीर्यगुप्तिं मुखविद्यया सान्निध्यमाकल्पान्तं मन्त्रलिङ्गे विशेषसन्निधानं च यथान्यायं तत्तन्मुद्राबन्धनादि न्यायानतिवृत्त्यर्थ ईशानेन प्रार्थयित्वा यावत्सन्निधानं सम्पद्यमानोपहारभावेन पुष्पाञ्जलिञ्च
विधाय रत्नादिन्यासानतिवृत्या प्रार्थयित्वा मूर्धनि मन्त्रलिङ्गोपरिभागे हेमं विन्यस्य परमात्मभावेन सुहिरण्यं विन्यस्य विधानतः कुम्भेशाभिषेकादि विध्युपेतं द्रोणकुम्भाम्भसा देवमभिषिच्य विधानतो जीवावाहनादि स्तोत्रावाहनान्तं विधानं विधाय तल्लिङ्ग मूलमन्त्रावाहनादिकृतसकलीक्रियं लिङ्गं शय्योपान्तसादित पाद्यार्घ्यादि दानपुरस्सरं स्नानकाले घृतगन्धपयोभिः सामान्यसिद्धैर्वा पार्श्वयोर्विन्यसेत् स्थिरमसीति पूर्वोक्तै देवं धृत्वा त्मस्वपरिचर्यायेण घृतेन वा गन्धपयोभिः गन्धप्रधानक्षीरेण च वा तल्लिङ्गमप्यशेषविधिं विधाय गन्धपुष्पाद्यैः गन्धैः पुष्पैः आदिशब्दोक्त धूपदीपनिवेद्यादिभिश्च अभ्यर्च्य मूर्धनि लिङ्गशिरसि हस्तं शिवहस्तं विन्यस्य साङ्गं व्योमव्यापि शिवं पञ्चब्रह्माण्यङ्गानि च कारयेत् ।
साङ्गं अभीष्टमूलमन्त्रं च अष्टोत्तरशतं जपेत् अतः परं मृत्युञ्जयमन्त्रं पाशुपतं रुद्रं श्रीरुद्रं चावृत्य यत्नतो जपेत् यत्नेन इत्यनेन
आवृत्त्य जपाधिकये सान्निध्याधिकयं सूच्यते प्रार्थयित्वा यथान्यासं हेमं विन्यस्य मूर्धनि इत्यत्र यथान्यायवचनेन -
औमेनाथ च वामेन ध्रुवाद्यौरिति पीठिकां रत्नैर्हेम्ना च सम्पूर्य वालुकैर्नवशक्तिभिः सुदृढं वज्रलेपेन निच्छिद्रं बन्धयेत्पुनः ध्रुवा द्यौरिति जप्त्वास्य मूर्ध्नि बिम्बस्य काञ्चनं इति पाशुपताद्युक्तं पीठप्रतिष्ठादिकं विवञ्चितमित्येके मन्यन्ते ।
सर्वं स्वगुरुपदेश गम्यमेव यत्नादिति अत्र प्रोक्तक्रियान्ते पीठं यत्नात् प्रतिष्ठितं लिङ्गं क्षोभादिपरि हाराय यत्नमाश्रित्य निधाय प्रतिष्ठाप्य तत्पीठं पीठमन्त्रैः भुवनेश्वर्या चेष्ट्वा देवं मन्त्रलिङ्गसन्निहितं अर्चयेत् वस्त्राभ्यां तत्काले वेष्टयित्वा प्रयत्नतो रत्नहेमसिक तादिभि नालं दृढीक्रियादि प्रयन्तं विधाय अष्टगन्धमचलं क्षिप्त्वा अथाधाराधेयसम्मेलन मन्त्रावाहनाद्यनन्तरं अङ्गैरावरणैः सह पूजयित्वा जलगन्धादि नैवेद्यान्तं देवं पूजयित्वा निर्गत्य परमविधाय पावक
पावकप्रीणनानन्तरं स्वैर्मन्त्रैः परिवारान् द्वास्थादिकान् बलिपरिवारान् प्रकल्पयेत् प्रकर्षेण यावन्मन्त्रलिङ्गावस्थानं तावत् तत्परिपालनपरतया स्थितान् प्रकल्पयेत् परिवारकल्पनाक्रममाह द्वास्थाविति एवं रुद्रपार्षदान् सर्वान् स्वेषु स्थानेषु कल्पयेत् कल्पयित्वा समाराध्य यथाविधि दिशाहोमादिविध्युपेतं समाराध्य बलिं दत्वा नमस्कृत्यार्थात् यावदन्तेत्यादिना पार्थ्य आचम्यान्तः प्रविंश्य गुरुकृतरेवोपहार आचार्यो मूलमन्त्रं जपेत् विविधैः स्तोत्रैः च चकारात् शिवसङ्कल्पादिमन्त्रैश्च स्त्वुत्वा देवं प्रसाद्य अभिलषितसिद्धिं सम्प्रार्थ्य प्रार्थनादोषनिवृत्त्यर्थं अज्ञातदोषनिवृत्यर्थंवा मात्वा सोमस्य मान एकस्मिन्नित्यादिभिः क्षमापयेत् विधिवद्दिशाहोमं च कृत्वा देवं क्षमापयेदिति पूर्वेण सम्बन्धः एवं प्रतिष्ठामुक्त्वा कारयितुर्यजमानस्य कृत्यमुद्दिशति समर्चयेदिति सर्वान्
त्रैवर्णिकान् शूद्रपारिशवादीन् इतरांश्च क्रमात् धनधान्यादिभिः वस्त्रैः पुष्कलैरन्नदानैश्च समर्चयेत् तत्रापि ब्राह्मणान् धनैर्हिरण्यादि तदास्थान्यादि द्रष्टव्यम् पश्चात् तदनन्तरं मूर्तिपैः सहितं गुरुं सम्पूजयेत् इत्यर्थात् तस्मै तेभ्यश्च शक्तिततो दक्षिणां दद्यात् ॥
निरात्रमिति होमदानादिभिस्त्रिरात्रं अहोरात्रत्रयं मण्डलाराधन पूजाहोम विप्रभोजनदानाद्यैर्नीत्वा तुर्येऽहनि क्रमात् प्रायश्चित्त शान्ति कलशस्नपनादि क्रममाश्रित्य देवस्य सप्तदशद्रव्यैः शक्त्या यथाशक्ति स्नानं कल्पयेत् ।
अत्र शक्त्येत्यनेन कलश शावश्यायकत्वं द्योत्यते तेन पञ्चविंशद्द्रव्यस्नपनमपि अपराध्यते वेषेति एषा प्रतिष्ठा कर्तुकामो य इति प्राधान्येन प्रकृता प्रतिष्ठा सदानन्दचिद्घनस्य परमेश्वरस्य स्वप्रतीकलिङ्गभावेन भक्तानुजिघृक्षयावत् संसारमवस्थापनं कथितम् गुरुवरणाय तनमन्त्रलिङ्गसम्पादन
तत्संस्कारस्थापन जीवन्यासादि क्रमेण सुव्यक्तमुक्ता ।
एषा उक्तप्रतिष्ठा मनीषिभिः साध्वसाधुसमीक्षा दक्षैः मात्सर्यादि दोषादूषितमनीषावद्भिश्च विपश्चित्तमैः संशोध्या ।
सम्यग्रहातिरिक्त दोषशमनेन शोध्या ॥
त एव नः प्रमाणं इति भावः एवं प्रतिष्ठाभागापरनामकं पूर्वभागमभिधायोपसंहृत्य तावन्मात्रसमुक्तिप्रेक्षावत् बुद्धिमान्द्यपरिहारार्थं अनन्तरविवक्षित पूजाभङ्गापारपर्यायोपरिभागकथनं परिजानन् पटलमुपसंहरति पूजाद्यमिति उपरि उपरिभागे अनन्तरपटलपञ्चके समासेन पूजाद्यं क्रमात् वदिष्यते इति ।
इति क्रियासारव्याख्यायां तत्वप्रकाशिन्या पञ्चमः पटलः ॥
५ ॥