०४

एवं क्रियाप्रधान जलाधिवासादि स्थूलशुद्धिमभिधाय स्नानप्रधानं शुद्ध्यन्तरं वक्तुं उत्तरपटलं प्रारभमाणः पटलार्थं सूत्रयति अधिवासनं कुर्याद्यथावत् साधकेश्वर इति अथ जलाधिवासादि स्थूलशुद्ध्यनन्तरं सायन्तननियमानन्तरं च इति विग्रहः ।
समाधिबलप्राप्तेश्वरतादात्म्य भावनः साधक इत्यर्थः स यथावत् श्लिष्टतरमधिवासनं चिदात्मनः परमेश्वरस्य मन्त्रलिङ्गे अधिष्ठातृत्वेन वाऽसनं सदावस्थापनं कुर्यादिति सूत्रार्थः तत्र प्रथमं सूत्रितां साधकस्य ईश्वरतादात्म्यभावनां विवृणोति प्रक्षाल्य पादावित्यादि ध्यात्वात्मानं शिवमित्यन्तेन ॥
प्रक्षाल्येति गुरुः शुचिः कृतस्नानादिकः शरीरशुद्धिरर्थात् नववस्त्रधरश्च उत्तरं वस्त्रं

उपवीतवत् कृत्वा पादौ हस्तावपि प्रक्षाल्य विधिवदाचम्य वाग्यतः पश्चात् पश्चिमभागे प्रत्यङ्मुखशायि तस्य लिङ्गस्य लिङ्गस्य दक्षिणपश्चिमदिग्भागात् प्राङ्मुखशयि तस्य दक्षिणपूर्वभागे चेति द्रष्टव्यम् तत्र उदङ्मुख असिनः आत्मशुद्धिं जीवशुद्धिं [च] समाचरेत् सम्यक् प्रणवप्राणायामादिना आचरेत् ॥
आसीनोदङ्मुख इत्यत्र आसीनः उदङ्मुखः इति पदच्छेदः अश्वेतपीतं रजो * * * वित्यादिवत् आर्षः सन्धिः अथवा प्रक्षाल्य पादावित्यादिना देहशुद्धिः वाग्यत इत्यनेन मनःशुद्धिश्च विवक्षितः भूयः स्वजीवात्मानं परमात्मनि विलाप्य परमीकृत्य तदनन्तरं तत्वानि तद्राश्रयभूतानि पृथिव्यादीनि तत्वानि संहरेत् सम्यक् परमेश्वरे तदपृथग्भावेन योजयेत् ततः तदनन्तरं जडात्मनः प्राति भासिकस्य देहपिण्डस्य शुद्ध्यर्थं धारणा शोषणाद्यपरनामधेया धारयेत् कुर्यात्

तत्वान्युत्पाद्य प्लावन ज्वलन काठिन्य सुषिरीकरणान्तरं स्वात्मचैतन्यं योजयित्वा तदाश्रयभूतानि तत्वान्युत्पाद्य विन्यस्य तत्वानि विन्यस्य च मन्त्रन्यास मूलमन्त्रन्यासं समाचरेत् ।
सम्यगाधारभावनादि क्रमेण आचरेत् ।
आत्माराधनं कुर्यादिति द्रष्टव्यम् ।
अथ आत्मानं स्वजीवात्मानं सर्वरामाजान सिद्ध ज्ञानशक्तिविषयीकृताशेषप्रपञ्च सर्वगं समस्त स्वकार्यव्यापकं प्रभुं इच्छामात्रेण जगत्सर्गादौ समर्थं साक्षाच्छिवं परमेश्वररमेव ध्यात्वा जीव भावमपोह्य उक्तगुणगणपूर्ण परमेश्वरभावेन अवस्थायैवं ध्यानसमायुक्त उक्तपरमेश्वरभावे जाग्रदेवादौ नाडीसन्धानादिषु पुरस्सरं तारेण लिङ्गस्थ जीवमात्मनि परमात्मनि तत् परमीकरणाय योजयित्वा ततस्तत्वानि संहरेत् ॥
तत्व संहारं विवृणोति घ्राणेत्यादि विद्यादिषु यथा क्रममित्यन्तेन ॥
प्राणोपस्थसमायुक्तां स्वविलीन स्वविशेषेन्द्रिय घ्राणोपस्थां

भूतगुणान्वितां गन्धादिपञ्चगुणान्वितां उर्वीं कारणे स्वकारणगन्धतन्मात्रे वक्ष्यामाणमन्त्रप्राणायामेन संहरेत् तच्च तोये तद्गन्धतन्मात्रं स्वमन्त्रव्यापकेन तोये संहरेत् तत्तोयं जिह्वा पायुयुतं वर्णगुणोपेतं रसादिचतुर्गुणोपेतं स्वकारणे रसतन्मात्रे संहरेत् ॥
संहरेदिति सर्वत्रानुवर्तते पावके रसतन्मात्रमित्यर्थात् ।
पादाक्षित्रिगुणोपेता वह्निस्तद्वत् स्वकारणे ।
रूपतन्मात्रे ।
तच्च त्रायौ त्वक्पाणि संयुतम् गुणद्वययुतं वायुः स्पर्शे स्पर्शतन्मात्रे स्पर्शं व्योम्नि श्रोत्रवाक्संयुतं एकगुणं व्योम च शब्दाख्ये मात्रके स्वकारणे संहरेत् तच्चित्ते तत् शब्दतन्मात्रं चित्ते मनोऽपर पर्यायमिह तच्चित्तमहङ्कारे तमहङ्कारं बुद्धौ महदपरनाम्नि ।
तां बुद्धिं तथा गुणेति गुणतत्व मव्यक्ते प्रकृत्यपरपर्याये तदव्यक्तं तथा रागे पुरुषापरपर्याये पुरुष इह च षड्विंशकः कौशिकाङ्ग इत्याद्युक्तस्वरूपे ।
तं रागं विद्यादिष्वशुद्धविद्यादिष्वशुद्धविद्या

नियति कालाकाल मायात्म शुद्धविद्या सदाशिवशक्ति शिवं यथाक्रम मुक्तक्रमानति वृत्त्या परम्परया परमे शिवे षट्त्रिंशत्तत्वातीते संहरेत् तत् चित्ते तच्छब्दतन्मात्रं चित्ते मनोऽपर पर्याये तच्चित्तमहङ्कारे ।
तमहङ्कारं बुद्धौ महदपरनाम्नि ।
तां बुद्धिं तथा गुणे ।
त्रिगुणतत्वे ।
तत्त्रिगुणतत्वमव्यक्ते प्रकृत्यपरपर्याये तदव्यक्तं तथा रागे पुरुषा परपर्याये पुरुष इह च षड्विंशकः कौशिकाङ्ग इत्याद्युक्तस्वरूपे तं रागं विद्यादिष्वशुद्धविद्यादिषु अशुद्धविद्यानियतिकाद्वा कालमायात्मशुद्धविद्या सदाशिवशक्तिशिवं यथाक्रमं उक्त दम्मानतिवृत्या परम्परया परमेशिवे षट्त्रिंशत् तत्वातीते संहरेत् ।
तत्वसंहारमुपसंहारं तन्मन्त्रानुपदिशति हां ह्वीमिति हं हस समन्विते ह्रां ह्रीं ह्यऊं ह्यैं हौं इत्येतैः तारेण च यथान्याय परमे शिवे संहरेत् ॥

तत्र पञ्चभूतैः पञ्चबीजानां तारेण चित्तादीनां संहारः कार्य इति द्रष्टव्यम् ॥
पादनाभिहृदय तालुभ्रूमध्येषु पञ्चभूतानि तदुपर्यूर्ध्वे पर्वणि पर्वणि चित्तादीनि च सङ्कल्य हान्नमः शिवाय पृथिव्यात्मने हुं फडित्यादिमन्त्रैः पञ्चविंशद्वारावर्तितैः तत्तद्गुणसङ्ख्यान् प्राणायामान् कृत्वा तत्त मात्रासु सम्भृत्य ह्लां नमः शिवाय निवृत्त्यात्मने नमः इति मन्त्रः तत्तत्स्थानाद्युक्तस्थानान्तं व्यापय्य तत्तन्मात्रामुत्तरतत्वे संहृत्य संहृत्य यथाक्रमं षट्त्रिंशत् तत्वान्विते परमे शिवे संहरेदिति यथान्यायं पदार्थः ॥
एवं लिङ्गस्थजीवं तत्स्थं तत्वानि च परमे शिवे विलाप्य परमीकृत्य केवलजडरूपं लिङ्गं शोषणादिभिः विशदीकुर्यादित्याह वायुनेति ॥
वायुना वायुबीजप्राणायामेन तत्प्रतिभासमात्ररूपं लिङ्गं शोषयेत् वह्निना सन्देहच्च ॥
वारुणेन प्लावयेत् प्लावनानन्तरं जगदविशेषेण तोयमयमेव ध्यायेत् ।
तस्मिन्निति ।
पश्चात् प्लावनानन्तरं

जगदेकार्णवीभाव ध्यानान्तरं तस्मिन् प्लावनजले जगदङ्कुरबीजत्वात् बीजसञ्ज्ञिकीं पार्थिवीं शक्तिं न्यसेत् क्षिपेत् पृथिवीबीजप्राणायामेन इत्यर्थात् ततस्तस्यां तन्मात्ररूपायां शाक्तौ तारश कत्युच्चारणेन तत्कार्यसर्वस्वरूपं बुद्बुदमुत्पन्नं ध्यात्वा लिङ्गं तन्मयतदेकात्मकं च ध्यात्वा तस्मिन् लिङ्गे तारेण आत्मस्थजीवं योजयेत् ।
ततः सार्थि * * चैतन्य विन्यासानन्तरं तत्वानि तदाश्रयभूतानि तत्वानि च भावयेत् ।
तत्वभावनां सवाध्वप्रपञ्चं विभञ्जते देवः शक्त्येत्यादि द्वाभ्यां देवः सृष्ट्यादिपञ्चकृत्यकर्ता प्रणम्य षट्त्रिंशत्तत्वातीत मित्याद्युक्तस्वरूपः षट्त्रिंशत्तत्वातीतः परमेश्वरः साक्षी चैतन्यविन्यासानन्तरं तदाश्रयभूतानि तत्वानि सिसृक्षुः शक्त्या स्वसामर्थ्येन नभः क्षोभयन्नभसो ब्रह्मायं वाचः परमो व्योम इत्यादि श्रुतिश्रुतस्य शक्तो यया स शम्भुः भुक्तौ मुक्तौ च पशुगणास्यतामेकां

इत्यादि स्मृतिस्मृतस्य षट्त्रिंशत्तत्वातीतस्य चिद्गगनस्य शक्त्यपरपर्यायस्य क्षोभं विकारं कुर्वन्नादं शिवतत्वापर पक्षनामकं षट्त्रिंशत् तत्वमजीजनत् जनयामास ॥
अत्र अत्यन्तपरोक्षस्य जगत्सर्गस्य आगमैकगम्यत्वात् उक्ति नित्याजीजनदिति भूतप्रचयप्रयोगः ।
इति ॥
नादात् बिन्दुः शक्त्यपरपर्यायः पञ्चत्रिंशत्तत्वरूपो जातः ॥
तस्माद्विना सदाशिवश्च जातः ।
चकारोस्य वर्णपद मन्त्राश्च नादन्त इति स्वयं वक्ष्यमाण वर्णादिकारण नादरूपत्वसमुच्चयार्थः ॥
तथा च पाशुपते-

सिसृक्षुरखिलां सृष्टिमसौ देवः सनातनः ज्ञानात्मना क्रियाशक्तिं अधिष्ठाय विलोड्यखम् शक्त्या कारणभूतं तु सूक्ष्मनादमजीजनत् नादात् बिन्दुः सहस्रार्कद्युतिस्तस्मात् सदाशिवः स्थूलनादात्मको जज्ञे सृष्टिर्नाना विद्धा ततः इति ।
तत इति तस्मात् सदाशिवात् यथा क्रमं तद्वाऽन्यात्मक तत्वादीनि कला भुवनानि पातानि स्युः ।

नादतः सदाशिवतत्वस्य नादाङ्गतो वर्णवर्णपदमन्त्राश्च जाताः स्युः ।
इति विडध्वान इति प्रोक्ता षडध्वानः शिव भेदायतस्ततस्ते देशिकसत्तमैर्लिङ्गे यथान्यायं तत्वसृष्टिसंवत्सरपरिपाक प्रादुर्भावलिपितत्वन्यास मन्त्रोदय पीठन्यासमन्त्रप्राणायामादि न्यायानतिवृत्या क्रमात् ततस्तत्वानि चेत्युक्तक्रमात् न्यस्तव्याः ॥
षडध्वन्यासस्ताव दस्माभिरपि तन्त्रसमुच्चये प्रोच्यते स्मेतीह न प्रतन्यते एवं विशुद्धतत्वसंसिद्धं प्रसिद्धषडध्वप्रपञ्चमयं लिङ्गशरीरं परिकल्प्य तस्मिन् पञ्चब्रह्म व्योमविद्याभ्यां सर्वसाधारणे मूर्तिं सन्निधाप्य समर्थयेदिति अदहावाह्येति ईशानादिभिरेकीभूतैः ब्रह्मभिरावाह्य ब्रह्मभिः सूत्रादिरूपै रङ्गमन्त्रैः सर्वज्ञादिभिश्च सकलीकृत्य समर्चयेत् सम्यक् स्वकल्पन्यायेन अर्चयेत् ।
तदनन्तरं व्योमव्यापिशिवेन आवाह्य तेन तदङ्गैश्च समर्चयेत् ॥
व्यष्टिसमष्ट्या च वाहने चाभ्यां

विवक्षिते एवं महत्तरयोर्वैदिकतान्त्रिकयोः सन्निधापनमभिधाय वक्ष्यमाणनित्यपूजायां षडक्षरप्रासाद पञ्चब्रह्मसु यो मन्त्रोऽङ्गीक्रियते तेन साम्प्रतिक समर्चनमपि कुर्यात् इत्याह षडक्षरेणेति ॥
देवेशं षडक्षरेण वा नादेन वा ब्रह्मभिस्तु वा समर्चयेत् समर्चयेदिति पूर्वोक्तमनुवर्तते ।
षडक्षरोद्धारं तत् प्राशस्त्यकलनपूर्वकं प्रतिजानीते षडक्षरमिति मन्त्रमुद्धरति ।
तारमिति तत्र प्रथमक्रमाक्षरं तारमोङ्कारो द्वितीयम् शून्यं नकारं तृतीयम् सर्गीविषयं विषाक्षरं विसर्गान्तो मकारश्चतुर्थं ।
सूक्ष्मसमन्वितं वान्तमिकारान्वितः शकारः पञ्चमं कुम्भानन्ता कुम्भो वकारो अमृताधारत्वादनन्त आकारो वाकार इत्यर्थः ॥
षष्ठं मरुद्यकारो भवेत् ।
एवं वेदसारं श्रीरुद्रोपनिषत्सारं अत एव अनुत्तमषडक्षरं भवतीति शेषः ।
एवं षडर्ण मूलमन्त्रमन्त्रमभिधाय ईशानादि पञ्चमूर्तीनां तत्प्रथमाक्षरप्रणव परिणाम रूपनकारादि पञ्चाक्षरपरिणामरूपवत्वप्रतिपत्तये

तद्बीजत्वं दर्शयति नाद्यर्णैरिति ॥
बिन्दुसंयुक्तैः क्वचिदभ्येति विप्रतामित्यादि ।
समुक्तशक्तिपरिणामरूपबिन्दुना सम्यगुक्तैः नाद्यर्णैः नकारादिमन्त्रार्णैः कारणभावत्वात् बीजभावं गतैरीशानादि कार्याणि कल्पयेत् ॥
एवं पञ्च मूर्तिमन्त्रान् अभिधाय तैः परमेश्वरस्य मूर्तिकल्पना प्रकारमाह मूर्ध्नीति ॥
तानीशानादीनि मूर्धास्ये हृदये गुह्ये पादयोर्वक्त्रेष्वास्यूर्ध्व प्राग्याम्यसौम्याप्यगतेष्वपि यथान्यासं विन्यसेत् ।
यथान्यायमित्यनेन ईशानादीनि यकारं विना बिन्दुनादयुतैः बिन्दुना नामभिः हृदयादिनामश्चि युतैः जातियुक्तैः जातिभिर्नम स्वाहादिभिर्युक्तैः साधकः सविसर्गान्तं विसर्गसहितमन्तं यकारं विद्याच्च ।
अत्र साधकपदेन बिन्दुविसर्गयोरेवापोद्धारकथनात् नाम नोःद्धार्यमिति द्योत्यते अथ ।
प्रासादमन्त्रं सप्रतिज्ञमुद्धरति नादश्चेति ॥
मनुस्वरयुताम्बरं मनुस्वरेण चतुर्दशस्वरेण युतं अम्बर अहकाराक्षरं

सबिन्दुकमुद्धरेत् इदं वरमूलमन्त्रं षडक्षरं वेदसारमनुत्तममिति वैदिकमुक्तं इदं परं तान्त्रिकमित्यर्थः ।
अथ मूर्तिमन्त्राद्युद्धारार्थं तद्बीजानुद्धरति सुषिरेति ॥
सुषिरेण नवमेन योऽकारेण स्वरेण सप्तमेनाप्येकारेण भूतेन पञ्चमेनापि उकारेणाग्निना तृतीयेन षकारेण प्रथमे न चाप्यकारेण अक्षरेण बिन्दुना च युतं न भो हकाराक्षरमुद्धरेत् ।
उद्धरेदिति पूर्वमेवानुवर्तते ।
मूलमन्त्रोद्धारे नपुंसकस्वरसहितं मूर्तिमन्त्रोद्धारे नपुंसकस्वररहितं च गणनं विवक्षितं तथा च पाशुपते नादं त्रयोदशेनैव पुनश्चेकादशेन च पञ्चमेण तृतीयेण स्वरेणाद्येन संयुतम् बीजानि पञ्चमूर्तीनां ईशादीनां क्रमाद्विदुः इति ॥
न्यसप्रकारमाह - तेनेति तेन उद्धृतेन बीजेन ईशानादि सत्यान्तं ब्रह्माणि सुरूपाणि वक्त्ररूपाणि च पूर्ववत्तत्तन्नामभिः युक्तान् न्यसेत् पश्चाद्दीर्घबिन्द्युव्योम्ना नामजातियुतेनागानि च क्रमान्न्यसेत्

अनेन प्रासादमन्त्रेण वा देवमर्चयेत् ब्रह्मभिः अत्र ग्रन्थे वक्ष्यते अर्चनं विवृणोति पाद्याद्यैरिति ।
देवं विधिवदावाहन सकलीकरणादि तदर्हविधिपुरस्सरं पाद्याद्यैः गन्धद्वारादिमन्त्रैः गन्धैर्गन्धसमुच्छ्रितैः पुष्पैश्च बहुशोऽभ्यर्च्य धूपैर्दीपैः पायसाद्यैः पायसाद्यै निवेद्यैश्च यथाविधि मण्डलाराध्याद विन्ध्यनतिक्रमेण देवमर्चयेत् ॥
अर्चयेदिति पूर्वोक्तमनुवर्तते ॥

नपुंसकशिला लस्यान्नि द्रव्याणि चात्र शय्यायां न्यस्य अधिवासयेदित्याह रत्नानीति रत्नानि द्रव्याणीत्यर्थः ओषधय इत्यादि द्वितीयार्थे प्रथमा ।
शाल्याद्योषधीरित्यर्थः पूजनानन्तरं तच्छेषतया बलिं च कुर्यादित्याह लाजेति लाजादियुक्तपायसेन मण्डपस्य बहिरष्टासु दिक्षु अमुना मनुना बलिं च कुर्यात् ।

भर्जितं तण्डुलं धानं सक्तु स्याच्चूर्णितं च तत् बलिमन्त्रमुद्दिशति ममिक्रमिति अनेन बलिं दत्वा भूयस्तदनन्तरं

शिवं मण्डपे लिङ्गे मण्डलेऽभ्यर्च्य प्रसन्नपूजां कृत्वेत्यर्थः पश्चात् पीठनपुंसकशिलामपि संशोधयेत् ।
शोधनं विवृणोति त्वग्भिरिति दर्भमृत्त्वग्भिः सङ्घृष्य जलैः शुद्धजलैः क्षालयेत् तदनन्तरं वारुणैस्तोयैः वरुणदेवत्यैः तोयैः वारुणमन्त्रैः सङ्क्षाल्य सम्यक् भूतसंहारपूर्वकं क्षालयित्वा विधानवत् साधको धारणाभिः शोषणादिरुपाभिः शोधयित्वा विधानविदित्यनेन अधिवासविधेयभूतसंहारादिविधानवित्वं द्योत्यते एवं शोधयित्वा यथान्यायं शक्तिबीज प्राणायामपीठन्यास पीठपूजादि न्यायानतिक्रमेण पीठात्मिकां देवीं यजेत् श्रीभुवनेश्वर्येत्यर्थात् ।
नपुंसकशिलायाश्चोपलक्षणमेतत् पीठं संशोधयेत् पश्चान्नपुंसकशिलामपीति तुल्यप्रकृतत्वात् तत्र तारेणाराधनं तद्वयं पूजानन्तरं वस्त्रेणाच्छाद्याथ प्रासादमपि संशोध्य अधिवास्य तत्पूजायां दर्भानक्षतांश्च विकिरेत् * * इतरोपहारोपलक्षणं चैतत् ।
मन्त्रान् कृणुष्वादिकान् जप्त्वा

रक्षां विधाय अस्मात् बहिर्व्रजेत् लिङ्गमिति द्विजाः पूजानन्तरं अभितो दिक्षु लिङ्गं संस्पृश्य वेदांश्च जपेयुः चकारः कोणेषु शिवसंहितामित्याद्युक्त तान्त्रिकमन्त्रसमुच्चयार्थः अथ प्रतिष्ठाहोमं कुर्यादित्याह - लिङ्गञ्चेति ततो गुरुः प्रोक्तकर्मानन्तरं लिङ्गस्य शिरसो अभ्याशे कुण्डे जनिते तस्मिन् तत्वहोमेऽग्नौ व्याहृतीश्चतसृभिः क्रमेण क्षीराज्यमधुसंसिक्ताः क्षीराज्यमध्वाक्ताः पलाशौदुम्बराश्वस्याः समिधः तद्वत् तिलान् क्षीराज्यमध्वक्तान् तिलानित्यर्थः तांश्च पृथगष्टसहस्रं जुहुयात् अत्र आद्यद्रव्यमाद्यया व्याहृत्या अनन्तरद्रव्यमनन्तरव्याहृत्येत्यादि क्रमो द्रष्टव्यः अतः परं द्रव्यहोमानन्तरं प्रणवादिभिः स्वाहान्तैः एभिः शर्वो रुद्र इत्यादि प्रकृतैरष्टमूर्तीनां मन्त्रः पूजामन्त्रैश्च सकृत् सकृत् सर्पिर्हुनेत् * * अथ समापयेत् स्विष्टकृदादि कुर्यादित्यर्थः अथ अधिवासहोम मभिदधाति विहृत्येत्यादि विजान् मनूनित्यन्तेन ग्रन्थेन भूयः प्रतिष्ठाहोमसम्पातसमर्पणानन्तरं

तं वह्निं वक्त्राद्यैः तत्तत्दिक्प्रसिद्ध ब्रह्मभिः विहृत्य विभज्य हृत्वा दिक्षु पूर्वादिदिक्षु विनिक्षिपेत् कोणेष्वग्न्यादिष्वङ्गैः सर्वज्ञादिब्रह्माङ्गैः अग्निं विनिक्षिपेत् निक्षिपेदिति पूर्वोक्तमनुवर्तते ।
अत्र दिक्कोणविभागकथनं मन्त्रविभागप्रदर्शनार्थं न विहरणप्रदर्शनार्थमविहरणं तु प्रदक्षिणक्रमेणेति च स्मरन्ति तद्विदः ।
मन्त्रदिग्विभागस्तु पूजाक्रमेण मन्त्राणां दिग्व्यवस्था प्रकीर्तितेति वक्ष्यति ।
एवमग्निविहरणमुक्त्वा अधिवासहोममाह कृत्वा चाग्निमुखमित्यादी निजान्मनूनित्यन्तेन सर्वे मूर्तिपाः सर्वे अग्निमुखान्तिकं कृत्वा वक्त्रेण पक्वं जुहुयुः वक्त्राद्यैः तत्पुरुषाघोरः सत्य वामदेव नामभिर्ब्र्हभिः अङ्गमन्त्रकैः हृदयशिखा कवच शिरोनामभिस्तदङ्गैश्च तत्तद्दिग्व्यवस्थापितैः समिदादिकं पृथक् पृथगष्टशतं जुहुयुः ।
समिदादिकं गणयतिसमिदाज्येत्यादिना समिधस्तु स्नपनपटले वक्ष्यमाणा ग्राह्याः आचार्यकुण्डमन्त्रं अभिदिशति ।

ईशानेन हुनेत् गुरुरिति तत्रैव कर्तव्यं शान्तिं होममाह - दधीति अन्ते प्रोक्त दशद्रव्यहोमान्ते स्विष्टकृतश्च प्राक् दधिक्षौद्रघृतैस्तथा पृथगष्टशतं सर्वे जुहुयुः इत्युक्तन्यायानुसारेण मृत्युञ्जिता शान्तिं हुत्वा होमं समाप्य सम्पातं स्पृष्ट्वा अर्चयेत् लिङ्गसंस्कारानन्तरप्रोक्त मण्डलाराधनादेः साम्प्रतिकत्वप्रदर्शनार्थं प्रोक्तविधिं स्मारयति तत इति दिवसविधिमुपसंहरति नृत्त इति ।

इति नारायणविरचितायां सारव्याख्यायां तत्वप्रकाशिन्यां चतुर्थः पटलः ॥
४ ॥