तृतीयपटलादारभ्यते
हरिः अथ स्थलशुद्धिप्रकारमाह - पलाश शाश्वेत्यादि कुर्यात्तालत्रयमित्यन्तेन पलाशशाखादर्भैः भूमिमण्डपवेदिं चकारा कुण्डक्षेत्रं च वायुना सम्मृज्य गायत्र्या समालिप्य अस्त्रेण सर्षपान् विकिरेत् अथ पूर्ववत् सम्मृज्य लिम्पेत् पुनर्मण्डपं शक्तिरूपं ध्यात्वा तेन गत्येन अस्त्रेण प्रोक्ष्य मूलतो विकिरांश्च विकिरेत् इति व्यवहितेन सम्बन्धः मूलेन विकिरान् जप्त्वा गव्यन्तु सादयेदिति मध्ये वाक्यं पूर्वकार्यसम्भार सम्भरणस्मरणार्थं ।
आपः पुनन्त्विति सर्वत्र सम्प्रोक्ष्य इषेत्वेति दर्भान् कुसुमान् अक्षतांश्च विकीर्य अथ मध्ये मूलेन दिक्षु नामभिर्लोकेशांश्च गन्धाद्यैः पूजयेत् अथ क्षुद्रविद्रावणार्थं धूपदीपौ विन्यस्य तालत्रयादिकं च कुर्यात् ।
अत्र प्रासादशुद्धौ अस्त्रजप्तोदकैः इत्यादिकं * * मन्त्रविकल्पप्रदर्शनार्थं न विषयभेदप्रदर्शनार्थमिति द्रष्टव्यम् ॥
अत्र पाशुपते तान्त्रयमपमन्त्रान्तरं किर्तितम् ॥
गालितैर्गोमयजलैर्वारुणेनोपलेपयेदिति एवं मण्डपशुद्धिमभिधाय कृतानुस्मरणपूर्वकं तद्रक्षणार्थं कुम्भेशपूजामाहस्थलशुद्धिमिति ॥
एवं स्थलशुद्धिं विधाय ऐशान्यां पङ्कजे विधानतः पीठपूजा कुम्भसंस्कार मानसपूरणादि विधानमनुसृत्य सहेमरत्नगन्धोदैः कुम्भेशं पार्श्वे गुणप्रधान भावप्राप्ते वामपार्श्वे कर्करीं च पूरयेत् तस्मिन् विधानवचनसामर्थ्य विहितलिपिपङ्कजमूर्तिपूजादिके कुम्भेश इत्यर्थः ।
तस्मिन्नधो मूलचक्र आत्मतत्व मूर्ध्वतो हृत्पद्मे विद्यातत्वं ऊर्ध्वे भूमध्ये शिवतत्वं च न्यस्य क्रमादावाह्य सम्पूज्य सर्वतत्वसमन्वितं तत्वत्रयानस्यू तस्य समस्तत्वत्वं च शिवं ध्यात्वा स्वकल्पोक्तरीत्या प्रतिपत्य सम्पूजयेत् वर्धनी न्घास्त्रेण अघोरास्त्रेण आराध्य ते नास्त्रेण अच्छिन्नधारया कुड्यश्लेषं सर्वतः
प्रदक्षिणं सिञ्चेत् तन्मार्गेण अग्रगतवर्धनीमार्गेण घटं कुम्भेशं नीत्वा विकिरोपरि विराममार्जन समयसम्मार्जितविकिरान् पीठे न्यस्य तदुपरि स्थापयेत् गन्धपुष्पैसमाराध्य सम्यक् तत्र तत्र पूजापूर्वकमाराध्य घटं प्रधानघटं वस्त्राभ्यां वेष्टयेत् ।
इतरं अस्त्रघटं पश्चात् स्वपीठकॢप्त सर्षपोपरि न्यासपूरणपूजा नन्दमित्यर्थः ।
तदेकेन वस्त्रेण च वेष्टयेत् पश्चात् गुरुः वक्ष्यमाण प्रकारेण अग्निं सञ्जनयेत् अग्निजननं विवृणोति ।
उपसिच्येति ॥
उर्वीं कुण्डक्षेत्रमुपलिप्य सामान्यसिद्धेन गोमयजलेन उपलिप्य विशोज्य मार्जनादिभिः स्थल शुद्धिसमुक्तैर्विधिभिः विशोध्य कृतानु कथनमेतत् ततः प्रणवेन प्रोक्ष्य तत्तदङ्गैर्बीजैः प्राणायामपुरस्सरं समाधिना क्रमात् संशोध्य च चकारान् सन्दह्य सन्दह्य सम्प्लाव्य बीजैः संशोष्य सन्देह?दि त्यागमन्तरोक्तरीत्या दहनादि द्वितीय शोषान्तं च कृत्वा पाचयेत् अत्र बीजैरिति
मन्त्रबहुत्वेन तन्त्रबहुत्वं सूचितमेव पुनरादौ अस्त्रेण उदग्गतां उदगग्रां वज्राख्यां रेखां अग्रतो वज्ररेखायाः प्राग्भागे क्रमात् वज्ररेखायाः मूलमध्याग्रक्रमात् तिस्रश्च रेखाः समित् काष्ठेन उल्लिख्य वर्मणा प्रोक्ष्य शकलं निरस्य प्रणवेन तु ।
प्रणवेनैव कूर्चकुसुमाक्षतवारिभिः अर्घ्यावसिक्तैः कूर्चकुसुमाक्षतैः विष्टरं कल्पयेत् ॥
अभ्यर्च्येति ॥
कल्पितं विष्टरं अभ्यर्च्य पीठ पूजां कृत्वेत्यर्थः ।
ततो देवीं हृदा भुवनेश्वर्या गन्धाद्यैरभिपूज्य तां नीलोत्पलप्रभां ध्यायेत् ॥
रत्यर्थिनीमृतुस्नातामित्युक्तप्रकारेण ध्यायेत् ।
अस्त्रेणाग्निं समादाय वर्मणा पक्वञ्च क्रव्यादभागोपनयान्ते अवधायाग्निं शिवरेतोरूपं हिरण्यरेतसं हृदा परिभ्रम्य? त्रिधा तस्यां योन्यां मूलेन निक्षिपेदित्यागमान्तरोक्तरीत्या प्रासादेन वा मूलहृदयेन वा तस्या योन्यां विनिक्षिपेत् ॥
अथ समेधनाद्यनन्तरं गन्धाद्यैः
अभिपूज्य गर्भाधानादिकृत्यं कल्पयेत् कल्पनां विवृणोति ।
गर्भाधानमित्यादि व्योमविद्ययेत्यन्तेन ॥
गर्भाधानं पुंसवनं जातनामनी क्रमात् पञ्चब्रह्मभिः क्रमात् अष्टाष्टाज्यं हुत्वा कल्पयेत् उपनिष्क्रामणं पुंसा अष्टाज्यं हुत्वा प्राशनं च ईशमन्त्रतो अष्टाज्यं हुत्वा कल्पयेत् ।
एवं सर्वत्र द्रष्टव्यम् ॥
आभ्यां पुरुषेशाभ्यां ईशेनैवेति ।
पञ्चमेनेशेन समावर्तनमेव ।
न प्रकारान्तरमित्यर्थः ।
अग्न्याधानं हृदा प्रासादेनेत्यर्थः ।
शेषं सुगमण् ।
स्वमन्त्रैः समिधो हुत्वाऽथाज्येनाष्टाहुतीः पृथक् प्रतीकर्मणि नानेन पूर्णं वाथ नवात्मना ।
ध्यानं जलप्रदानं च तारेणैव समाचरेत् इत्याद्यागमान्तरोक्तं ।
तद्विशेषं सङ्क्षेपानुक्रमेणेवेहान्वदत् ॥
उत्तरकृत्यं कृतानुकथनपूर्वकं सूत्रयत्येवमिति ॥
सूत्रं विवृणोति वेद्यादि ॥
वेद्यां मण्डपवेद्यां दक्षिणेपि दक्षिणार्धेऽपि पूर्वे पूर्वार्धे वा वाकारोक्तेः पश्चिमार्धे वा वेदिं च कृत्वा विभज्य अग्निखण्डे निर्-ऋतिखण्डे वेत्यर्थः ॥
अथवा वेद्या मध्ये परदेवतापूजार्थं वक्ष्यमाणस्य मण्डलस्य क्षेत्रं कल्पयित्वा तस्य पूर्वे वा दक्षिणे वा इत्यर्थः ।
अत्र * * ग्रहणं कौमारादिप्रदर्शनार्थं साधारणत्वात् विधेः तत्र स्वस्तिकमालिख्य अस्मिन् धान्यानि वीहितण्डुलसिद्धार्थाख्यानि धान्यानि वस्त्रान्तरितं प्रविकीर्य तत्र शिरोपधानादि विशिष्टां शय्यां समास्तरेत् ॥
शय्यामिति ॥
शय्यां विधिवत् पीठाराधनशक्त्याराधनादिकं दर्शविध्युपेतमाराध्य परितो मङ्गलं अष्टमङ्गलं न्यसेत् ॥
मङ्गलानि गणयति ॥
शङ्खादिमत्स्य युग्मान्तमिह प्रोक्तं मङ्गलाष्टकम् पूर्वादिदिक्षु विन्यस्य कलशांस्तथा विन्यसेत् यथावत् पूज्यानं विद्येशानां क्रम इत्यर्थः ।
तेषु विद्येश्वराननन्तादि शिखण्ड्यन्तान् सम्यक् वक्ष्यमाण पूजासिद्धक्रमेण समर्पयेत् सन्निधाप्य अर्चयेत् ।
महत् कुम्भमिति ।
शिरः स्थाने महत् कुम्भं द्रोणकुम्भमापोहिष्ठेति मन्त्रेण न्यस्य सम्पूर्याथ तत्वावाहनाद्यानन्तर्यार्थो अत्र अथशब्दः ॥
तदनन्तरं सम्यक् पूजयेत् मूलेनेत्यर्थात् अथ आपोहिष्टेति मन्त्रेण न्यस्य पूजयेदिति वा योजनाः पादयौरापो हिष्ठेत्यर्ध्यपाद्यौ पार्श्वयोर्मन्त्रेण मूलमन्त्रेण क्षीरं मधु च न्यसेदिति योज्यम् ॥
शरावादिष्विति ।
भावः ।
तद्बहिः प्राकाररूपेण मध्वाज्यान्तान् गौरसिद्धार्थान् अस्त्रेण रक्षार्थं क्षिपेत् ॥
शेषं सुगमं कृत्वेति एवं मण्डपसंस्कारं कृत्वा बिम्बकलशाभिषेकार्थं ऐशान्यां कलशाभिषेक जलनिस्सारणार्थं वेदिकामध्यतः कृत्वा अन्यं मण्डपं च प्रकल्पयेत् ।
अथ तदग्रे अन्यस्मिन् मण्डपे एकोनायत् शतकलशाः पूरयेत् पूरणप्रकारं विवृणोति दिक्षु कषायमित्यादि वामाङ्गेशैर्यथाक्रममित्येकान्तेन अत्र गन्धो मध्य इति मध्यकलशपूरणं अन्तोक्तमप्यादावेव कर्तुं युक्तम् ।
कषायाद्यङ्गानि पूर्वमेवावोचदाचार्यः ॥
यथाक्रममिति मन्त्रार्था क्रमोक्तिः द्रव्यन्या सङ्क्रमस्य पृथगुक्तत्वात् कृतानुवादपूर्वकं
अधिवासहोमं कुर्यादित्याह पूरयित्वेतिभूयः सम्पातार्पणानन्तरं सम्पूज्य सम्मन्त्य स्नानमण्डपे स्वस्तिकोपरि मध्यस्थवेदि कृतस्वास्तिकोपरि अन्यत् पीठं उपपीठं न्यस्य सम्पूज्येत्यर्थः ।
ततः त्वग्गोमयमद् दर्भैः सह गन्धपुष्पाक्षतादिकं समाहरेदिति योजना ॥
अथ लिङ्गानयनार्थं व्रजेदित्याहवृत्रेति ।
अत्र सङ्कल्पित सन्निधानानखिलान् मन्त्रान् बिम्बे संहृत्य विधिवत् लिङ्गोत्पत्तिं भावयेदित्यर्थः ।
तथा लिङ्गतो यात् समुद्धरेत् ।
अथ वासो विसृज्य दर्भादिभिः सङ्घृष्य वारिभिः सङ्क्षाल्य लिङ्गं तोयात् कारणजलात् समुद्धरेत् सम्यगुन्नयेत् जनयेदिति च योज्यम् वा अथ मूलमन्त्रकृताङ्गं किञ्चित् सम्पूज्य गन्धादिभिरलङ्कृत्य स्नानमण्डपं नयेदित्याहगन्धपुष्पैरिति ॥
अह स्नानपीठे प्रासादाभिमुखं भद्रं कर्ण मन्त्रजपादि तदर्हविधियुक्तः विन्यस्य क्रमात् पूरणोक्तमन्त्र क्रमात् स्नापयेदिति सङ्ग्रहः ॥
अभिषेकात्
पूर्वं कर्तव्यमाह परिघृष्येति ॥
अथ कषायपदेन रसकारणभूतास्त्वचो लक्ष्यन्ते अत्र कषायेण परिघृष्य शुद्धसलिलैः सामान्यजलैः स्नापयेत् अथ गोमयेन परिघृष्य सलिलैः स्नापयेदिति प्रत्येकं परिघर्षणं योज्यम् ॥
भूयो मूलसकलीकरणानन्तरं कषायाद्यैः कलशैः यथोक्तक्रमं पूर्षोदितैर्मन्त्रैः सम्यक् स्नापयेदिति योजना ॥
एवं सम्यगभिषिच्य विधानतो विध्यनुगत मूलाश्रसाक्षिचैतन्यावहनादि अनुसृत्य तस्मिन् लिङ्गे शाश्वतं ध्रुवमव्ययं महादेवं ध्यात्वा पाद्यादिप्रदानपूर्वकमुपहरेदित्याह भीमेनेति ॥
भीमेन अघोरेण गन्धमालिप्य ईशेन गन्धैः सम्पूज्येति व्यवहितेनान्वयः ॥
वस्त्रं वामेन वै ददेदिति मध्यं वाक्यं पूर्वका * * * पेक्षा वैकारस्तस्य स्वकालप्रसिद्ध्यर्थः वामेन वेष्टयेदिति वा पाठः अर्घ्यनाधूपं च वक्त्रको ददेत् ददेदित्यनुकृष्यते अत्र धूपानन्तरं मूलेन दीपं च देय इति द्रष्टव्यम्
ईशं देवमुपचर्य नमस्कृत्य प्रसाद्य गन्धाद्यैक्तेन करेण सकराभ्यां वा त्रिषु भागेषु ब्रह्मविष्णुरुद्रभागेषु चतुर्दिशं यथान्यायं स्वकीयया गायव्या तत्तद्देवतानुस्मरणपूर्वकं संस्पृशेत् * * ता गायत्र्यः समासतः सङ्क्षेपेण हेतुना लिख्यन्ते ॥
सङ्क्षेपापेक्षया नोध्रियन्त इत्यर्थः ।
लिख्यन्ते ताः समासत इति साधुः पाठः ।
ताः समासेन लिख्यन्त इति पाठे लिख्यत इत्यत्र नकाराभावः आर्षो वृत्तभङ्गभयादित्यनुसन्धेयं देवस्य मूर्ध्नि निर्माल्यानि केवलं निक्षिप्यवा पाशुपताद्युक्तक्रमेण मूलेनावाह्य सम्पूज्य वा नीराजनं कृत्वा मूर्तिपैः सह पुण्याहं च कृत्वा अर्घ्यं च प्रदायेति द्रष्टव्यम् ।
ततः उत्तिष्ठेति मन्त्रेण लिङ्गं पीठात् समुत्क्षिपेत् रथे तिष्ठेति मन्त्रेण यत्नतो अप्रमादेन तं देवं रथमारोप्य सप्रदक्षिणं मण्डपं नयेत् ॥
द्वारदेशे तु सम्प्राप्ते रथादवतार्य उदुत्थं जातवेदसं आकृष्णेन इत्याभ्यां विधिवत् पादपूर्वं अन्तः प्रवेशयेत् ॥
पुनः शय्यां प्रदक्षिणं नयित्वा प्रासादाभिमुखं यथा तथा शय्यायां न्यस्त्वा वामदेवेन शाययेत् ।
इति क्रियासारव्याख्यायां तृतीयः पटलः ॥
३ ॥