पञ्चमः परिच्छेदः
अथ प्रसङ्गादुपचारादयो निरूप्यन्ते
अथ चतुःषष्ट्युपचाराः ।
सर्वोपचारमन्त्रास्त्रितारो पूर्वाः कल्पयामि नम इत्यन्ताः कार्याः
।
यथा - १ ।
ऐं ह्रीं श्रीं पाद्यं कल्पयामि नमः २ ।
एवम् अर्घ्य कल्पयामि नमः ३ ।
इत्यादिक्रमेण ।
तथा सिद्धयामले -
त्रितारीञ्च मुखे कृत्वा देयस्य भुवनेश्वरी ।
कल्पयामि नमः पश्चादुपचारेष्मयं विधिरिति ॥ १ ॥
४ । आसानरोपणम् ५ ।
सुगन्धितैलभ्यङ्गम् ६ ।
मज्जनशालाप्रवेशनम् ७ ।
मज्जनमण्डपे मणिपीठोपवेशनम् ८ ।
दिव्यस्नानीयम् उद्वर्तनम् ९ ।
उष्णोदकस्नानम् १० ।
कनक कलसस्थितसर्वतीर्थाभिषेकम् ११ ।
धौतवस्त्रपरिमार्जनम् १२ ।
अरुणदुकूलपरिधानम् १३ ।
अरुणदुकुलोत्तरीयम्, १४ ।
आलेपमण्डपप्रवेशनम् १५ ।
आलेपमणिपीठोपवेशनम् १६ ।
चन्दनागुरुकुङ्कुममृगमदकर्पूरकस्तूरीरोचनादिव्यगन्ध-
सर्वाङ्गानुलेपनम् १७ ।
केशभारस्य कालागुरुधूपमल्लिकामालतीजातीचम्पकाशोकशत
पत्रपूगकुहरोपुन्नागकह्लारयुथीसर्व
वर्तुकुसुममालाभूषणम् १८ ।
भूषणमण्डपप्रवेशनम्, १९ ।
ब्भूषणमणिपीठोपवेशनम् २० ।
नवरत्नमुकुटम् २१ ।
चन्द्रशकलम्, २२ ।
सीमन्तसिन्दूरम् २३ ।
तिलकरत्नम् २४ ।
कालाञ्जनम् २५ ।
कर्णपालीयुगलम् २६ ।
नासाभरणम् २७ ।
अधरयावकम् २८ ।
ग्रथनभूषणम् २९ ।
कनकचित्रपदकम् ३० ।
महापदकम् ३१ ।
मुक्तावलीम्, ३२ ।
एकावलीम् ३३ ।
देवच्छन्दकम् ३४ ।
केयूरयुगलचतुष्कम् ३५ ।
वलयावलीम् ३६ ।
ऊर्मिकावलीम् ३७ ।
काञ्चीदामकटीसूत्रम् ३८ ।
शोभाख्याभरणम् ३९ ।
पादकटकम् ॥ २ ॥
४० । रत्ननूपुरम् ४१ ।
पादाङ्गुरीयकम् ४२ ।
एककरे पाशम् ४३ ।
अन्यकरे अङ्कुशम् ४४ ।
इतरकरेषु पुण्ड्रेक्षुचापम् ४५ ।
अपरकरे पुष्पबाणान् ४६ ।
श्रीमन्माणिक्यपादुकाम् ४७ ।
स्वसमानवेशास्त्रावरणदेवताभिः सह सिंहासनारोहणम् ४८ ।
कामेश्वरपर्यङ्कोपवेशनम् ४९ ।
अमृताशनचषकम् ५० ।
आचमनीयम्, ५१ ।
कर्पूरवटिकाम् ५२ ।
आनन्दोल्लासविलासहासम् ५३ ।
मङ्गलारात्रिकम् ५४ ।
श्वेतच्छत्रम् ५५ ।
चामरयुगलम् ५६ ।
दर्पणम् ५७ ।
तालवृन्तम् ५८ ।
गन्धम् ५९ ।
पुष्पम् ६० ।
धूपम् ६१ ।
दीपम् ६२ ।
नैवेद्यम् ६३ ।
पानार्थम् ६४ ।
पुनराचमनीयम्, ताम्बूलम्, नमस्कारम्, कल्पयेत् ।
एतेषामुपचाराणामभावे एते मन्त्रा जप्याः ।
तदुक्तं नवरत्नेश्वरे -
चतुःषष्ट्युपचाराणामभावे तन्मनुं जपेत् ।
तत्तदेव फलं विन्द्यात्साधकः स्थिरमानसः ॥ २-क ॥
अथाष्टादशोपचाराः
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।
स्नानं वस्त्रोपवीतञ्च भूषणानि च सर्वशः ।
गन्धं पुष्पं तथा धूपं दीपमन्नञ्च तर्पणम् ।
माल्यानुलेपनञ्चैव नमस्कारविसर्जने ।
अष्टादशोपचारैस्तु मन्त्रीं पूजां समाचरेत् ॥ ३ ॥
अथ षोडशोपचाराः
पाद्यमर्घ्यं तथाचामं स्नानं वसनभूषणे ।
गन्धपुष्पधूपदीपनैवेद्याचमनं ततः ।
ताम्बूलमर्चना स्तोत्रं तर्पणञ्च नमस्क्रिया ।
प्रयोजयेच्च पूजायामुपचारांस्तु षोडश ॥ ४ ॥
अथ दशोपचाराः
पाद्यमर्घ्यं तथाचामं मधुपर्काचमनं तथा ।
गन्धादयो नैवेद्यान्ता उपचारा दशक्रमात् ॥ ५ ॥
अथ पञ्चोपचाराः -
गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च ।
अखण्डं फलमासाद्य कैवल्यं लभए ध्रुवम् ॥ ६ ॥
मणिमुक्ताद्रव्याणां निर्माल्यकालकथनम्
अथ मणिमुक्ताद्रव्याणां निर्माल्यकालकथनम् -
योगिनीतन्त्रे -
मणिमुक्तासुवर्णानि देवेदत्तानि यानि वै ।
न निर्माल्यं द्वादशाब्दं ताम्रपात्रं तथैव च ॥ ७ ॥
पटी शाटी च षण्मासं नैवेद्यं दत्तमात्रतः ।
मोदकं कृषरञ्चैव यामार्द्धेन महेश्वरि ॥ ८ ॥
पट्टवस्त्रं त्रिमासाच्च यज्ञसूत्रमहं स्मृतम् ।
यावदुष्णं भवेदन्नं परमान्नं तथैव च ॥ ९ ॥
मस्तकं रुधिरञ्चैव अहोरात्रेण पार्वति ।
मुहूर्तं दधि दुग्धञ्च आज्यं यामेन शङ्करि ॥ १० ॥
करवीरमहोरात्रं बिल्वपत्रं तथैव च ।
जवारक्तञ्च माध्यञ्च निर्माल्यं सार्द्धयामके ॥ ११ ॥
माल्यं वै करवीरस्य पद्मस्य बिल्वकस्य च ।
यामार्द्धेन महेशानि ताम्बूलं दत्तमात्रतः ॥ १२ ॥
न निर्माल्यञ्च दाडिम्वं तथा बिल्वफलं प्रिये ।
सौगन्धिकञ्च कदलीं प्रयत्नेन नियोजयेत् ॥ १३ ॥
अथ त्रिपुरसुन्दर्याः षोडशोपचारमन्त्राः
उद्यच्चन्दनकुङ्कुमारुणपयोधाराभिराप्ल्वावितां,
नानानर्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके ।
आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्तितो, मातः सुन्दरि
भक्तकल्पलतिके श्रीपादुकामादरात् ॥ १ ॥
देवेन्द्रादिभिरर्चितं सुरगणैरादाय सिंहासनं
चञ्चत्काञ्चनसञ्चयाभिरचितं चारुप्रभाभास्वरम् ।
एतच्चम्पककेतकीपरिमलं तैलं महानिर्मलं,
गन्धोद्वर्तनमादरेण तरुणी दत्तं गृहाणाम्बिके ॥ २ ॥
पश्चाद्देवि गृहाण शम्भुगृहिणि श्रीसुन्दरि प्रायशो,
गन्धद्रव्यसमूहनिर्भरतरं धात्रीफलं निर्मलम् ।
तत्केशान परिशोध्य कङ्कतिकया मन्दाकिनीस्रोतसि, स्नात्वा
प्रोज्वलगन्धकं भवतु ते श्रीसुन्दरि त्वन्मुदे ॥ ३ ॥
सुराधिपतिकामिनीकरसरोजनालीधृतां,
सचन्दनकुङ्कुमागुरुभरेण विभ्राजिताम् ।
महापरिमलोज्वलां सरसशुद्धकन्तूरिकां, गृहाण वरदायिनि
त्रिपुरसुन्दरि श्रीपदे ॥ ४ ॥
गन्धर्वामरकिन्नरप्रियतमासन्तानहस्ताम्बुजप्रस्तारैर्ध्रियमा-
नमुत्तमतरं काश्मीरजापिञ्जरम् ।
मातर्भास्वरभानुमण्डललसत्कान्तिप्रदानोज्वलं, चैनं
निर्मलमातनोतु वसनं श्रीसुन्दरि त्वन्मुदे ॥ ५ ॥
स्वर्णाकल्पितकुण्डले श्रुतियुगे हस्ताम्बुजे मुद्रिका, मध्ये
सरासना नितम्बफलके मञ्जीरमघ्रिद्वये ।
हारो वक्षसि कङ्कणौ क्वणरणत्कारौ करद्वन्द्वके, विन्यस्तं,
मुकुटं शिरस्यनुदिनं दत्तोन्मुदं स्तूयताम् ॥ ६ ॥
ग्रीवायां धृतकान्तिकान्तपटलं ग्रैवेयकं सुन्दरं, सिन्दूरं
विलसल्ललाटफलके सौन्दर्यमुद्राधरम् ।
राजत्कज्जवलमुज्ज्वलोत्पलदलश्रीमोचने लोचने, तद्दिव्यौषधिनिर्मितं
रचयतु श्रीशाम्भवि श्रीपदे ॥ ७ ॥
अमन्दतरमन्दरोन्मथितदुग्धसिन्धुद्भुवं निशाकरकरोपमं
त्रिपुरसुन्दरि श्रीपदे ।
गृहाण मुखमीक्षितुं मुकुरविम्बाविद्रुमैर्विनिर्मितमघच्छिदे
रतिकराम्बुजस्थायिनम् ।
कस्तूरीद्रवचन्दनागुरुसुधाधाराभिराप्लावितं,
चञ्चच्चम्पकपाटलादिसुरभिद्रव्यैः सुगन्धीकृतम् ।
देवस्त्रीगणमस्तकस्थितमहारत्नादिकुम्भव्रजैरम्भः शाम्भवि
विमलं सम्भ्रमेण दत्तं गृहाणाम्बिके ॥ ९ ॥
कह्लारोत्पलनागकेशरसरोजाख्यावलीमालतीमल्लीकैरवकेतकादि-
कुसुमैः रक्ताश्वमारादिभिः ।
पुष्पैर्माल्य भरेण वै सुरभिणा नानारसस्रोतसा,
ताम्राम्भोजनिवासिनीं भगवतीं श्रीसुन्दरीं पूजये ॥ १० ॥
मांसीगुग्गुलचन्दनागुरुरजःकर्पूरशैलेयजैर्माध्वीकैः सह
कुङ्कुमैः सुरभितैः सर्पिर्भिरामिश्रितः ।
सौरभ्यास्थितिमन्दिरे मणिमये पात्रेऽभवत्प्रीतये धूपोऽयं
सुरकामिनीविरचितः श्रीसुन्दरि त्वन्मुदे ॥ ११ ॥
घृतद्रवपरिस्फुरद्रुचिररत्नयष्ट्यान्वितो महातिमिरनाशनः
सुरनितम्बिनीनिर्मितः ।
सुवर्णचषकस्थितः सघनसारवर्त्यान्वितस्तवत्रिपुरसुन्दरि स्फुरतु
देवि दीपो मुदे ॥ १२ ॥
जातीसौरभनिर्भरं रुचिकरं शाल्योदनं निर्मलं, युक्तं
हिङ्गुमरीचजीरसुरभिद्रव्यान्वितैर्व्यञ्जनैः ।
पक्वान्नेन सपायसेनमधुना दध्याज्यसम्मिश्रितं, नैवेद्यं
सुरकामिनीविरचितं श्रीसुन्दरि त्वन्मुदे ॥ १३ ॥
लवङ्गकलिकोज्ज्वलं बहुलनागवल्लीदलं सजातिफलकोमलं
सघनसारपूगीफलम् ।
सुधामधुरिमाकुलं रुचिरत्नपात्रस्थितं, गृहाण मुखपङ्कजे
स्फुरितमन्ब ताम्बूलकम् ॥ १४ ॥
शरत्प्रभवचन्द्रमःस्फुरितचन्द्रिकासुन्दरं,
दलत्सुरतरङ्गिणीललितमौक्तिकाडम्बरम् ।
गृहाण नवकाञ्चनप्रभवदण्डखण्डोज्ज्वलं,
महात्रिपुरसुन्दरि प्रकटमातपत्रं महत् ॥ १५ ॥
मातस्त्वन्मुदमातनोतु सुभगस्त्रीभिः सदान्दोलितं, शुभ्रं
चामरमिन्दुकुन्दसदृशं प्रस्वेददुःखापहम् ।
सद्योऽगस्त्य-वसिष्ठनारदशुकव्यासादिवाल्मीकिभिः स्वे चित्ते
क्रियमाण एव कुरुतां शर्माणि वेदध्वनिः ॥ १६ ॥
स्वाङ्गने वेणुमृदङ्ग शङ्खभेरीनिनादैरुपगीयमाना ।
कोलाहलैराकुलिता तवास्तुविद्याधरीनृत्यकलासुखाय ॥ १७ ॥
देविभक्तिरसभावितवृत्ते प्रीयतां यदि कुतोऽपि लभ्यते ।
तत्रनौन्यमपि सत्फलमेकं जन्मकोटिभिरपीह न लभ्यम् ॥ १८ ॥
एतैः षोडशभिः पद्यैरुपचारोपकल्पितैः ।
यः परां देवतां स्तौति स तेषां फलमाप्नुयात् ॥ १९ ॥
रुद्राक्षमाहात्म्यम्
अथ रुद्राक्षमाहात्म्यम्
पद्मपुराणे -
शिखायां हस्तयोः कण्ठे कर्णयोश्चापि यो नरः ।
रुद्राक्षं धारयेद्भक्त्या स शैवं लोकमाप्नुयात् ॥ १ ॥
नववक्त्रन्तु रुद्राक्षं धारयेद्वामबाहुना ।
चतुर्दशमुखञ्चैव शिखायां धारयेद्बुधः ॥ २ ॥
एकवक्त्रः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति ।
अवध्यत्वं प्रतिस्रोता वह्निस्तम्भं करोति च ॥ ३ ॥
द्विवक्त्रो हरगौरी स्याद्गोवधाद्यघनाशकृत् ।
त्रिवक्त्रोऽग्निस्त्रिजन्मोत्थपापराशिं विनाशयेत् ॥ ४ ॥
चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ।
पञ्चवक्त्रस्तु कालाग्निरगम्याक्ष्यपापनुत् ॥ ५ ॥
षडवक्त्रस्तु गुहः साक्षाद्गर्भहत्यां व्यपोहति ।
सप्तवक्त्रस्त्वनन्तः स्यात् स्वर्णस्तेयाघनुत्सदा ॥ ६ ॥
विनायकोऽष्टवक्त्रः स्यात् सर्वानृतविनाशकृत् ।
भैरवो नववक्त्रस्तु शिवसायुज्यकारकः ॥ ७ ॥
दशवक्त्रः स्मृतो विष्णुर्भूतप्रेतपिशाचहा ।
एकादशमुखो रुद्रो नानायज्ञफलप्रदः ॥ ८ ॥
द्वादशास्यो भवेदर्कः सर्वक्रतुफलप्रदम् ।
त्रयोदशमुखः कामःसर्वकामफलप्रदः ॥ ९ ॥
चतुर्दशास्यः श्रीकण्ठो वंशोद्धारकरः परः ।
निश्छिद्राश्च सुपक्वाश्च रुद्राक्षा धारणे स्मृताः ॥ १० ॥
अथ रुद्राक्षसंस्कारः
पञ्चामृतं पञ्चगव्यं स्नानकाले प्रयोजयेत् ।
रुद्राक्षस्य प्रतिष्ठयां मन्त्रं पञ्चाक्षरं तथा ॥ ११ ॥
त्र्यम्बकादिमन्त्रञ्च तथा तत्र प्रयोजयेत् ।
ॐ त्र्यम्बकं यजामहे सुगन्धिम्पुष्टिवर्द्धनम् ।
उर्वारुकमिव वन्धनान्मृत्योर्मुङ्क्षीयमामृतात् ।
तथा -
ॐ हौम् अघोरे हौं घोरे हूं घोरतरे ॐ ह्रैं ह्रीं श्रीम् ऐं
सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररुपिणे हूं हूम् ।
अनेनापि च मन्त्रेण रुद्राक्षस्यद्विजोत्तमः ।
प्रतिष्ठां विधिवत्कुर्यात् ततोऽधिकफलं लभेत् ।
ततो यथा स्वमन्त्रेण धारयेद्भक्तिसंयुतः ॥ १२ ॥
ततो क्रमेण मन्त्राः -
ॐ ॐ भृशं नमः । १ ।
ॐ ॐ नमः । २ ।
ओंओं नमः । ३ ।
ॐ ह्रीं नमः । ४ ।
ॐ हूं नमः । ५ ।
ॐ हूं नमः । ६ ।
ॐ ॐ हूं हूं नमः । ७ ।
ॐ सं हूं नमः । ८ ।
ॐ हूं नमः । ९ ।
ॐ हं नमः । १० ।
ॐ ह्रीं नमः । ११ ।
ॐ ह्रीं नमः । १२ ।
ॐ क्षां क्षौं नमः । १३ ।
ॐ नमो नमः । १४ । ॥ १३ ॥
रुद्राक्षे देहसंस्थे तु कुक्कुरो म्रियते यदि ।
सोऽपि रुद्रपदं याति किं पुनर्मानवा गुह ॥ १४ ॥
सप्तविंशतिरुद्राक्षमालया देह-संस्थया ।
यः करोति नरः पुण्यं सर्वं कोटिगुणं भवेत् ॥ १५ ॥
यो ददाति द्विजातिभ्यो रुद्राक्षद्भुवि षण्मुखम् ।
तस्य प्रीतो भवेद्रुद्रः स्वपदञ्च प्रयच्छति ॥ १६ ॥
विना मन्त्रेण यो धत्ते रुद्राक्षं भुवि मानवः ।
स याति नरकान् घोरान्यावदिन्द्राश्चतुर्दशः ॥ १७ ॥
इति रुद्राक्ष-माहात्म्यम् ।
प्रकारान्तर-रुद्राक्ष-संस्कारे देवतामन्त्रादिकथनम्
अथ प्रकारान्तर-रुद्राक्ष-संस्कारे देवतामन्त्रादिकथनम् -
स्कन्दपुराणे-कार्तिकेय उवाच -
एकद्वित्रिचतुःपञ्चषटसप्तवसवो नव ।
दशैकादशद्वादशत्रयोदशचतुर्दश ॥ १८ ॥
एतेषाञ्च मुखानान्तु देवता कात्र शङ्कर ।
गुणञ्च कीदृशं तेषां कथयस्व यथार्थतः ॥ १९ ॥
श्रीशङ्कर उवाच -
शृणु षण्मुख तत्त्वेन वक्त्रे वक्त्रे यथा क्रमम् ॥ २० ॥
एकवक्त्रः शिवः साक्षात्ब्रह्महत्यां व्यपोहति ॥ २१ ॥
द्विवक्त्रो देवदेव्यौ च गोवधं नाशयेद्ध्रुवम् ।
त्रिवक्त्रो दहनः साक्षाद्ब्रह्महत्यां व्यपोहति ॥ २२ ॥
चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ।
पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः ।
अगम्यगमनाच्चैव अभक्ष्यस्य च भक्षणात् ।
मुच्यते सर्वपापेभ्यः पञ्चवक्त्रस्य धारणात् ॥ १३ ॥
षड्वक्त्रः कार्तिकेयस्तु धारणाद्दक्षिणे भुजे ।
ब्रह्माहत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥ २४ ॥
सप्तवक्त्रो महासेन वानन्तो नाम नागराट् ।
गुरुतल्पादिभिः पापैर्मुच्यते नात्र संशयः ॥ २५ ॥
अष्टवक्त्रो महासेन साक्षाद्देवो विनायकः ।
पृष्ठोदरकरेणापि संस्पृशेद्वा गुरोः स्त्रियम् ॥ २६ ॥
एवमादीनि पापानि अतिपापानि सर्वशः ।
विघ्नास्तु तस्य नश्यन्ति मुक्तो याति परां गतिम् ॥ २७ ॥
गुणा ह्येतेषु सर्वेषु अष्टवक्त्रस्य धारणात् ।
नववक्त्रो भैरवः स्याद्धारयेद्वामके भुजे ॥ २८ ॥
कापिलं मुक्तिदं प्रोक्तं मम तुल्यबलो भवेत् ।
लक्षकोटिसहस्राणि ब्रह्महत्यां करोति यः ।
तत्सर्वं दहते शीघ्रं नववक्त्रस्य धारणात् ॥ २९ ॥
दशवक्त्रो महासेन साक्षाद्देवो जनार्दनः ।
ग्रहाश्चैव पिशाचाद्या वेताला ब्रह्मराक्षसाः ।
पन्नगाश्च विनश्यन्ति दशवक्त्रस्य धारणात् ॥ ३० ॥
वक्त्रैकादशरुद्राक्षो रुद्रा एकादश स्मृताः ।
शिखायां धारयेन्नित्यं पुण्यफलं शृणु ।
अश्वमेधसहस्रस्य वाजपेयशतस्य च ।
हेमशृङ्ग्याश्च लक्षस्य सम्यग्दत्तस्य यत्फलम् ।
तत्फलं समवाप्नोति वक्त्रैकादशधारणात् ॥ ३१ ॥
रुद्राक्षं द्वादशैर्वक्त्रैः कण्ठदेशे च धारयेत् ।
आदित्यस्तुष्यते नित्यं द्वादशर्का व्यवस्थिताः ॥ ३२ ॥
त्रयोदशमुखः कामः सर्वकामफलप्रदः ।
चतुर्दशास्यः वंशोद्धारकरः परः ॥ ३३ ॥
रुद्राक्षान् कण्ठदेशे दशनपरिमितानमस्तके विंशतिर्द्वे,
षट्षट्कर्णप्रदेशे करयुगलके द्वादश द्वादशैव ।
बाह्वोरिन्दोः कलाभिः पृथग्नियमितं चैकमेकं शिखायां
वक्षस्यष्टाधिकं यः कलयति कलुषं सः स्वयं नीलकण्ठः ॥
३४ ॥
तत्र क्रमेणधारणमन्त्राः -
ॐ ऐम् । १ ।
ॐ श्रीम् । २ ।
ॐ ध्रुं ध्रुम् । ३ ।
ॐ ह्रीं ह्रः । ४ ।
ॐ ह्रीम् । ५ ।
ॐ ऐं ह्रीम् । ६ ।
ॐ ह्राम् । ७ ।
ॐ क्रं रम् । ८ ।
ॐ ह्राम् । ९ ।
ॐ ह्रीम् । १० ।
ॐ श्रीम् । ११ ॥
ॐ हां ह्राम् । १२ ।
ॐ क्षौं स्तौम् । १३ ।
ॐ डं माम् । १४ । ॥ ३५ ॥
नित्यं नैमित्तिकादिकर्मभङ्गे प्रायश्चित्तम्
अथ नित्यं नैमित्तिकादिकर्मभङ्गे प्रायश्चित्तम् -
गौतमीये -
यद्यत्कर्मणि वैगुण्यं नित्ये नैमित्तिके तथा ।
सहस्रं प्रजपेन्मन्त्रं मूलञ्चायुतमेव च ।
नित्ये सहस्रं प्रजपेत् नैमित्तिके तथा युतम् ।
इति विष्णुविषयम् ।
अन्यत्र तु तन्त्रराजे -
नित्यातिक्रमदोषाणां शान्त्यै विद्यां शतं जपेत् ।
नैमित्तिकातिक्रमेण सहस्रं प्रजपेन्मनुम् ।
पापसङ्करे तु -
सर्वेषामेव पापानां सङ्करे समुपस्थिते ।
प्रायश्चित्तन्तु तन्त्रोक्तमयुतं मन्त्रजापतः ॥ ३६ ॥
अथ परिभाषाः -
गौतमीये -
परिभाषामथो वक्षे उपचारविधौ हरेः ।
द्रव्याणां यावती सङ्ख्या पात्राणां द्रव्यसंहतिः ।
हाटकं राजतं ताम्रमारकूटमृदादिना ।
उपचारविधावेतत्द्रव्यमाहुर्मनीषिणः ॥ ३७ ॥
आसने पञ्चपुष्पाणि स्वागते षट्चतुःपलम् ।
श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरीतम् ।
पाद्ये चार्घ्ये जलं तावद्गन्धपुष्पाक्षतं यवाः ।
दूर्वास्तिलाश्च चत्वारः कुशाग्रश्वेत सर्षपाः ।
जातीलवङ्गकक्कोलक्वाथतोयञ्च षट्पलम् ।
प्रोक्तमाचमनं कांस्ये मधुपर्के घृतं मधु ।
दघ्ना सह पलैकन्तु शुद्धं वारि तथा चमे ॥ ३८ ॥
परिमाणन्तु पञ्चाशत्पलं स्नानार्थमम्भसः ।
निर्मलेनोदकेनाथ सर्वत्र परिपूर्णता ॥ ३९ ॥
मलिनं गर्हितं सर्वं त्यजेत्पूजाविधौ हरेः ।
वितस्तिमात्रादधिकं वासोयुग्मञ्च नूतनम् ॥ ४० ॥
स्वर्णाद्याभरणान्येव मुक्तारत्नयुतानि च ।
चन्दनागुरुकर्पूरपङ्कगन्धः पलावधिः ॥ ४१ ॥
नानाविधानि पुष्पाणि पञ्चाशदधिकानि च ।
कांस्यादिनिर्मिते पात्रे धूपो गुग्गुलुकर्षभाक् ॥ ४२ ॥
यावद्भक्ष्यं भवेत्पुंसस्तावद्दद्याज्जनार्दने ।
नैवेद्यं विविधं वस्तु भक्ष्यादिकचतुर्विधम् ॥ ४३ ॥
कर्पूरादियुता वर्तिः सा च कार्पासनिर्मिता ।
सप्तावृत्त्या सुसंयुक्तो दीपः स्याच्चतुरङ्गुलः ।
शिलापिष्ठं वन्दनायां सप्तधा वर्तयेन्नरः ।
कार्यं ताम्रादिपात्रे तत्प्रीतये वनमालिनः ॥ ४४ ॥
दूर्वाक्षतप्रमाणन्तु विज्ञेयस्तु शताधिकम् ।
उत्तमोऽयं विधिः प्रोक्तो विभवे सति सर्वदा ॥ ४५ ॥
एषामभावे सर्वेषां यथा शक्त्या तु पूजयेत् ।
अनुकल्पं वर्जयेच्च द्रव्याणां विभवे सति ॥ ४६ ॥
अनेन विधिना यस्तु पूजयेदुपचारतः ।
सर्वभोगान्वितो भूत्वा व्रजेदन्ते हरेः पुरम् ॥ ४७ ॥
अथ विष्ण्वाराधनमन्त्राः -
तत्र गौतमीये -
सर्वान्तर्यामिने देव सर्वबीजमयं ततः ।
आत्मस्थाय परं शुद्धमानसं कल्पयाम्यहम् ।
इति आसनम् ॥ १ ॥
यस्य दर्शनमिच्छन्ति देवा ब्रह्महरादयः ।
कृपया देवदेवेश मदग्रे सन्निधीभव ।
यस्य ते परमेशान स्वागतं स्वागतं प्रभो ।
इति स्वागतम् ॥ २ ॥
कृतार्थोऽनुगृहीतोऽस्मि सफलं जीवितन्तु मे ।
यदागतोऽसि देवेश चिदानन्दमयाव्यय ।
अज्ञानाद्वा प्रमादाद्वा वैकल्यात् साधनस्य च ।
यदपूर्णं भवेत् कृत्यं तथाप्यभिमुखो भव ।
इत्यावाहनम् ॥ ३ ॥
यद्भक्तिलेश सम्पर्कात्परमानन्दसम्भवः ।
तस्यै ते परमेशान पाद्यं शुद्धाय कल्पये ।
इति पाद्यम् ॥ ४ ॥
देवानामपि देवाय देवानां देवतात्मने ।
आचामं कल्पयामीश सुधायाः श्रुतिहेतवे ।
इत्याचमनीयम् ॥ ५ ॥
तापत्रयहरं दिव्यं परमानन्दलक्षणम् ।
तापत्रयविमोक्षाय तवार्घ्यं कल्पयाम्यहम् ।
इत्यर्घ्यम् ॥ ६ ॥
सर्वकल्मषहीनाय परिपूर्णसुधात्मकम् ।
मधुपर्कमिमं देव कल्पयामि प्रसीद मे ।
इति मधुपर्कः ॥ ७ ॥
उच्छिष्टोऽप्यशुचिर्वापि यस्य स्मरणमात्रतः ।
शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकम् ।
इति पुनराचमनीयम् ॥ ८ ॥
परमानन्दबोधाब्धि-निमग्न-निजमूर्तये ।
साङ्गोपाङ्गमिदं स्नानं कल्पयाम्यहमीश ते ।
इति स्नानीयम् ॥ ९ ॥
मायाचित्रपटाच्छन्न-निजगुह्योरुतेजसे ।
निरावरणविज्ञाय वासस्ते कल्पयाम्यहम् ।
इति वस्त्रम् ॥ १० ॥
यमाश्रित्य महामाया जगत्सम्मोहिनी सदा ।
तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम् ।
इत्युत्तरीयम् ॥ ११ ॥
यस्य शक्तित्रयेणेदं सम्प्रोतमखिलं जगत् ।
यज्ञसूत्राय तस्मै ते यज्ञसूत्रं प्रकल्पये ।
इति यज्ञोपवीतम् ॥ १२ ॥
स्वभावसुन्दराङ्गाय नानाशक्त्याश्रयाय ते ।
भूषणानि विचित्राणि कल्पयामि सुरार्चित ।
इति भूषणानि ॥ १३ ॥
समस्तदेवदेवेश सर्वतृप्तिकरं परम् ।
अखण्डानन्दसम्पूर्णं गृहाण जलमुत्तमम् ।
इति जलम् ॥ १४ ॥
परमानन्दसौरभ्यपरिपूर्णदिगन्तरम् ।
गृहाण परमं गन्धं कृपया परमेश्वर ।
इति गन्धः ॥ १५ ॥
तुरीयगुणसम्पन्नं नानागुणमनोहरम् ।
आनन्दसौरभं पुष्पं गृह्यतामिदमुत्तमम् ।
इति पुष्पम् ॥ १६ ॥
वनस्पतिरसोदिव्यो गन्धाढ्यः सुमनोहरः ।
आघ्रेयः सर्वदेवानां प्रतिगृह्यताम् ।
इति धूपः ॥ १७ ॥
सुप्रकाशो महादीपः सर्वतस्मिरापहः ।
सवाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ।
इति दीपः ॥ १८ ॥
सत्पात्रसिद्धं सुहविर्विविधानेकभक्षणम् ।
निवेदयामि देवेश सानुगाय गृहाण तत् ।
इति नैवेद्यम् ॥ १९ ॥
ततो जलं समस्तदेवदेवेश इत्यादिना ॥ २० ॥
तथा गौतमीये -
पूजा च पञ्चधा प्रोक्ता तासां भेदान्शृणुष्व मे
अभिगमनमुपादानं योगः स्वाध्याय एव च ।
इज्या पञ्चप्रकारार्चाः क्रमेण कथयामि ते ।
तत्राभिगमनं नाम देवतास्थानमार्जनम् ।
उपलेपननिर्माल्यदूरीकरणमेव च ॥ २१ ॥
उपादानं नाम गन्ध-पुष्पादि-चयनं तथा ।
योगो नाम स्वदेवस्य स्वात्मत्वेनैव भावना ॥ २२ ॥
स्वाध्यायो नामं मन्त्रार्थसन्धानपूर्वको जपः ।
सूक्तस्तोत्रादिपाठस्तु हरेः सङ्कीर्त्तनं तथा ।
तत्त्वादिशास्त्राभ्याश्च स्वाध्यायः परिकीर्त्तितः ॥ २३ ॥
इज्यानाम स्वदेवस्य पूजनन्तु यथार्थतः ।
इति पञ्चप्रकारार्चाः कथितास्तव सुव्रते ।
सार्ष्टि-सामीप्य-सालोक्य-सायुज्य-सारुप्यदाः क्रमात् ॥ २४ ॥
अथ द्वादशशुद्धिः -
अथ द्वादशशुद्धिश्च विष्णवानामिहोच्यते ।
गृहोपसर्पणञ्चैव तथानुगमनं हरेः ।
भक्त्या प्रदक्षिणञ्चैव पादयोः शोधनं पुनः ॥ १ ॥
पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलननं हरेः ।
करयोः सर्वशुद्धीनामियं शुद्धिर्विशिष्यते ॥ २ ॥
तन्नामकीर्तनञ्चैव गुणानामपि कीर्तनम् ।
भक्त्या च कृष्णदेवस्य वचसः शुद्धिरिष्यते ॥ ३ ॥
तत्कथाश्रवणञ्चैव तस्योत्सवनिरीक्षणम् ।
श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते ॥ ४ ॥
पादोदकस्य निर्माल्यमालानामपि धारणम् ।
उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुनः ॥ ५ ॥
आघ्राणं गन्धपुष्पादेर्निर्माल्यस्य तपोधन ।
विशुद्धिः स्यादन्तरस्य घ्राणस्यापि विधीयते ॥ ६ ॥
पत्रपुष्पादिकं यच्च कृष्णपादयुगार्पितम् ।
तदेकं पावनं लोके तद्धि सर्वं विशोधयेत् ॥ ७ ॥
ललाटे च गदा कार्या मूर्ध्निचापं शरांस्तथा ।
नन्दकञ्चैव हृन्मध्ये शङ्खं चक्रं भुजद्वये ॥ ८ ॥
शङ्खचक्रान्वितो विप्रः श्मशाने म्रियते यदि ।
प्रयागे या गति प्रोक्ता सा गतिस्तस्य गौतम ॥ ९ ॥
अथ विष्णोर्द्वात्रिंशदपराधाः -
तन्त्रान्तरे -
यानैर्वा पादुकाभिर्वा यानं भगवतो गृहे ।
देवोत्सवेष्व सेवा च अप्रणामस्तदग्रतः ॥ १० ॥
उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकम् ।
एकहस्तप्रणामश्च तत्पुरस्तात्प्रदक्षिणम् ॥ ११ ॥
पाद प्रसारणञ्चाग्रे तथा पर्यङ्कबन्धनम् ।
शयनं भक्षणञ्चैव मिथ्याभाषणमेव च ॥ १२ ॥
उच्चैर्भाषो मिथो जल्पो रोदनानि च विग्रहः ।
निग्रहानुग्रहौ चैव स्त्रीषु च क्रूरभाषणम् ॥ १३ ॥
कम्बलावरणञ्चैव परनिन्दा परस्तुतिः ।
अश्लीलभाषणञ्चैव अधोवायुविमोक्षणम् ॥ १४ ॥
शक्तौ गौणापचारश्च अनिवेदितभक्षणम् ।
तत्तत्कालोद्भवानाञ्च कलादीनामनर्पणम् ॥ १५ ॥
विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनस्य च ।
स्पष्टीकृत्यासनञ्चैव परनिन्दा परस्तुतिः ॥ १६ ॥
गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा ।
अपराधास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तितः ॥ १७ ॥
इदमुपलक्षणम् ।
वासिष्ठे -
केशवाग्रे नृत्यगीतं न करोति हरेर्दिने वह्निना किं न दग्धाऽसौ
गतः किं न रसातलम् ॥ १८ ॥
नारदीये -
स्मरणं कीर्तनं विष्णोः कलौ मन्त्रजपादिकम् ।
दानन्तु प्रीतये तस्य नान्यथा गतिरिष्यते ॥ १९ ॥
गौतमीये -
शालग्रामशिलातोयमपीत्वा यस्तु मस्तके ।
प्रक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते ॥ २० ॥
विष्णोः पादोदकं पीतं कोटि जन्माघनाशनम् ।
तदेवाष्टगुणं पापं भूमौ बिन्दुनिपातनात् ॥ २१ ॥
धारणमन्त्रस्तु -
अकालमृत्युहरणं सर्वव्याधिविनाशनम् ।
विष्णुपादोदकं पीत्वा शिरसा धारयाम्यहम् ॥ २२ ॥
अगस्त्ये -
हत्यां हन्ति यदङ्घ्रिजापि तुलसी स्तेयञ्च तोयं पदे नैवेद्यं
बहुमद्यपानजनितं गुर्वङ्गनासजम् ।
श्रीशाधीननतिः स्थितिर्हरिजनैस्तत्सङ्गजं किल्विषं,
शालग्रामशिलानृसिंहमहिमा कोऽप्येष लोकोत्तरः
सनत्कुमारे -
केशवाग्रे नृत्यगीतं यः करोति कलौ नरः ।
पदे पदेऽश्वमेधस्य फलमाप्नोति नित्यशः ॥ २४ ॥
वासिष्ठे -
सुप्तः प्रबोधकालश्च मन्त्राणामभिधीयते ।
मन्त्रविद्याविभागेन द्विविधा मन्त्रजातयः ॥ २५ ॥
मन्त्राः पुन्देवताः प्रोक्ता विद्याः स्त्रीदेवता स्मृताः ।
स्त्रीपुन्नपुंसकात्मानो मन्त्राः सर्वे समीरिताः ॥ २६ ॥
पुम्मन्त्रा हुम्फडन्ताः स्युर्द्विठान्ताः स्युः स्त्रियो मताः ।
नपुंसका नमोऽन्ताः स्युरित्युक्ता मनवस्त्रिधा ।
एतच्छून्या भवेद्विद्या महाशब्देति गीयते ॥ २७ ॥
एवं तन्त्रेऽपि -
अग्नीषोमात्मका मन्त्रा विज्ञेयाः क्रूरसौम्ययोः ।
कर्मणोर्वह्नितारान्त्यवियत्प्रायाः समीरिताः ॥ २८ ॥
आग्नेया मनवः सौम्या भूयिष्ठेन्द्वमृताक्षराः ।
आग्नेया सम्प्रबुध्यन्ते प्राणे चरति दक्षिणे ॥ २९ ॥
भागेऽन्यस्मिन् स्थिते प्राणे सौम्या बोधं प्रयान्ति हि ।
नाडीद्वयगते प्राणे सर्वे बोधं प्रयान्ति ते ।
प्रयच्छन्ति फलं सर्वे प्रभुद्धा मन्त्रिणां सदा ॥ ३० ॥
यद्वा -
प्राणापानसमायोगात् शिवशक्त्योश्च मेलनम् ।
प्रबोधकालो विज्ञेयः स्वापकालस्ततः परः ॥ ३१ ॥
तथा -
वामावहो यदा वायुर्ह्रस्वानां योजनं तदा ।
दक्षिणस्यां यदा वायुस्तदा दीर्घास्तु योजिताः ।
उभयस्थो यदा वायूस्तदा स्यादुभयात्मकः ॥ ३२ ॥
सम्पुटीकृत्य मन्त्रेण आदिलान्तान्सबिन्दुकान् ।
पुनश्चसविसर्गान्तान् क्ष-कारं केवलं पठेत् ।
एवं जप्तो यदीष्टश्चेत्प्रबुधः शीघ्रसिद्धिदः ॥ ३३ ॥
इति सुप्तप्रबोधकालः ।
अथ योगाङ्गासनानि -
पद्मासनं स्वस्तिकाख्यं भद्रं वज्रासनन्तथा ।
वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम् ॥ १ ॥
ऊर्वोरुपरि विन्यस्य सम्यक्पादतले उभे ।
अङ्गुष्ठौ च विबध्नीयाद्धस्ताभ्यां व्युत्क्रमात् ततः ।
पद्मासनमिदं प्रोक्तं योगिनां हृदयङ्गमम् ॥ २ ॥
जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे ।
ऋजुकायो विशेद्योगी स्वस्तिकं तत्प्रचक्षते ॥ ३ ॥
सीवन्याः पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चलम् ।
वृषणाधः पार्श्वपादौ पाणिभ्यां परिबन्धयेत् ।
भद्रासनं समुद्दिष्टं योगिभिः परिकल्पितम् ॥ ४ ॥
ऊर्वोः पादौ क्रमान्न्यस्य जानुनोः प्राङ्मुखाङ्गुलि ।
करौ निदध्यादाख्यातं वज्रासनमनुत्तमम् ॥ ५ ॥
एकं पादमधः कृत्वा विन्यस्योरौ तथेतरम् ।
ऋजुकायो विशेन्मन्त्री वीरासनमितीरितम् ॥ ६ ॥
मुद्राप्रकरणम्
अथ मुद्राप्रकरणम् -
मुद्रापदव्युत्पत्तिमाह तन्त्रे -
मोदनात्सर्वदेवानां द्रावणात्पापसन्ततेः ।
तस्मान्मुद्रेति विख्याता मुनिभिस्तन्त्रवेदिभिः ॥ १ ॥
अथ मुद्राः प्रवक्ष्यामि सर्वतन्त्रेषु कल्पिताः ।
याभिर्विरचिताभिश्च मोदन्ते मन्त्रदेवताः ॥ २ ॥
अर्चने जपकाले च ध्याने काम्ये च कर्मणि ।
स्नाने चावाहने शङ्खे प्रतिष्ठायाञ्च रक्षणे ।
नैवेद्ये च तथान्यत्र तत्तत्कल्पप्रकाशिते ।
स्थाने मुद्राः प्रद्रष्टव्याः स्वस्वलक्षणलक्षिताः ॥ ३ ॥
आवाहन्यादिका मुद्रा न साधारणी मता ।
तथा षडङ्ग-मुद्राश्च सर्वमन्त्रेषु योजयेत् ॥ ४ ॥
एकोनविंशतिर्मुद्रा विष्णोरुक्ता मनीषिभिः ।
शङ्ख-चक्र-गदा-पद्म-वेणु-श्रीवत्सकौस्तुभाः ।
वनमाला तथा ज्ञानमुद्रा विल्वाह्वया तथा ।
गरुडाख्या परा मुद्रा विण्णोः सन्तोषवर्द्धिनी ।
नारसिंही च वाराही हायग्रीवी धनुस्तथा ।
वाणमुद्रा ततः पर्शुर्जगन्मोहनिका परा ॥ ५ ॥
काममुद्रा परा ख्याता शिवस्य दश मुद्रिकाः ।
लिङ्गयोनित्रिशूलाक्षमालेष्टाभीमृगाह्वयाः ।
खट्वाङ्गा च कपालाख्या डमरुः शिवतोषदाः ॥ ६ ॥
सूर्यस्यैकैव पद्माख्या सप्तमुद्रा गणेशितुः ।
दन्तपाशाङ्कुशा विघ्नपर्शुलड्डूकसञ्ज्ञिताः ।
बीजपूराह्वया मुद्रा विज्ञेया विघ्नपूजने ॥ ७ ॥
पाशाङ्कुश-वराभीतिखड्गचर्म-धनुः-शराः ।
मौषली मुद्रिका दौर्गी मुद्राः शक्तेः प्रियङ्कराः ॥ ८ ॥
लक्ष्मीमुद्रार्चने लक्ष्म्या वाग्वादिन्याश्च पूजने ।
अक्षमाला तथा वीणा व्याख्या पुस्तकमुद्रिका ।
सप्तजिह्वाह्वया मुद्रा विज्ञेया वह्निपूजने ॥ ९ ॥
मत्स्यमुद्रा च कूर्माख्या लेलिहा मुण्डसञ्ज्ञिका ।
महायोनिरिति ख्याता सर्वसिद्धिसमृद्धिदा ॥ १० ॥
शक्त्यर्चने महायोनिः श्यामादौ मुण्डमुद्रिका ।
मत्स्यकूर्मलेलिहाख्या मुद्राः साधारणी मताः ॥ ११ ॥
तारार्चने विशेषास्तु कथ्यन्ते पञ्च मुद्रिकाः ।
योनिश्च भूतिनी चैव बीजाख्या दैत्यधूमिनी ।
लेलिहानेति सम्प्रोक्ताः पञ्चमुद्रा विलोकिताः ॥ १२ ॥
दशमा मुद्रिका ज्ञेयास्त्रिपुरायाश्च पूजने ।
सङ्क्षोभद्रावणाकर्षवश्योन्माद-महाङ्कुशाः ॥ १३ ॥
खेचरी-बीजयोन्याख्या त्रिखण्डा परिकीर्त्तिता ।
कुम्भमुद्राभिषेके स्यात् पद्ममुद्रासने तथा ।
कालकर्णी प्रयोक्तव्या विघ्नप्रशमकर्मणि ।
गालिनी च प्रयोक्तव्या जलशोधनकर्मणि ॥ १४ ॥
श्रीगोपालार्चने वेणुर्नृहरेर्नारसिंहिका ।
वराहस्य स पूजायां वाराहाख्यां प्रयोजयेत् ॥ १५ ॥
हयग्रीवार्चने चैव हायग्रीवीं प्रदर्शयेत् ।
रामार्चने धनुर्बाणमुद्रे पर्शुस्तथार्चने ।
परशुरामस्य विज्ञेया जगन्मोहनसञ्ज्ञिका ।
वासुदेवाह्व्या ध्याने कुम्भमुद्रा तु रक्षणे ।
सर्वत्र प्रार्थने चैव प्रार्थनाख्यां प्रयोजयेत् ।
उद्देशानुक्रमादासामुच्यन्ते लक्षणानि च ॥ १६ ॥
हस्ताभ्यामञ्जलिं बद्ध्वानामिकामूलपर्वणि ।
अङ्गुष्ठौ निक्षिपेत्सेयं मुद्रा त्वावाहनी स्मृता ॥ १७ ॥
अधोमुखी त्वियञ्चेत् स्यात् स्थापनी मुद्रिका स्मृता ।
उच्छ्रिताङ्गुष्ठमुष्ट्योश्च संयोगात् सन्निधापनी ॥ १८ ॥
अन्तःप्रवेशिताङ्गुष्ठा सैव संरोधिनी मता ।
उत्तानमुष्टियुगला सम्मुखीकरणी मता ॥ १९ ॥
देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः ।
सव्यहस्तकृता मुष्टिर्दीर्घाधोमुखतर्जनी ।
अवगुण्ठनमुद्रेयमभितो भ्रामिता मता ॥ २० ॥
अन्योन्याभिमुखाश्लिष्टा कनिष्ठानामिका पुनः ।
तथैव तर्जनीमध्या धेनुमुद्रा प्रकीर्त्तिता ।
अमृतीकरणं कुर्यात् तया साधकसत्तमः ॥ २१ ॥
अन्योन्यग्रथिताङ्गुष्ठा प्रसारितपराङ्गुली ।
महामुद्रेयमुदिता परमीकरणे बुधैः ।
प्रयोजयेदिमा मुद्रा देवताह्वानकर्मणि ॥ २२ ॥
अङ्गन्यासस्य मुद्राणां लक्षणं प्राक्समीरितम् ।
वैष्णवीनान्तु मुद्राणां कथ्यन्ते लक्षणान्यथ ॥ २३ ॥
वामाङ्गुष्ठन्तु सङ्गृह्य दक्षिणेन तु मुष्टिना ।
कृत्वोत्तानं ततो मुष्ठिमङ्गुष्ठन्तु प्रसारयेत् ।
वामाङ्गुल्यस्तथा श्लिष्टाः संयुक्ताः स्युः प्रसारिताः ।
दक्षिणाङ्गुष्ठसंस्पृष्टा ज्ञेयैषा शङ्खमुद्रिका ॥ १ ॥
हस्तौ तु सम्मुखौ कृत्वा सुभुग्नौ सुप्रसारितौ ।
कनिष्ठाङ्गुष्ठकौ लग्नौ मुद्रैषा चक्रसञ्ज्ञिका ॥ २ ॥
अन्योऽन्याभिमुखौ हस्तौ कृत्वा तु ग्रथिताङ्गुली ।
अङ्गुष्ठौ मध्यमे भूयः सुलग्ने सुप्रसारिते ।
गदामुद्रेयमुदिता विष्णोः सन्तोषवर्द्धिनी ॥ ३ ॥
हस्तौ तु सम्मुखौ कृत्वा सन्नतप्रोत्थिताङ्गुली ।
तलान्तमिलिताङ्गुष्ठौ कृत्वैषा पद्ममुद्रिका ॥ ४ ॥
ओष्ठे वामकराङ्गुष्ठौ लग्नास्तस्य कनिष्ठिका ।
दक्षिणाङ्गुष्ठसंयुक्ता तत्कनिष्ठा प्रसारिता ।
तर्जनीमध्यमानामाः किञ्चित्सङ्कोच्य चालिताः ।
वेणुमुद्रा भवत्येषा सुगुप्ता प्रेयसी हरेः ॥ ५ ॥
अन्योन्यपृष्ठकरयोर्मध्यमानामिकाङ्गुली ।
अङ्गुष्ठेन तु बध्नीयात्कनिष्ठामूलसंस्हिते ।
तर्जन्यौ कारयेदेषा मुद्रा श्रीवत्सञ्ज्ञिता ॥ ६ ॥
अनामापृष्ठसंलग्ना दक्षिणस्य कनिष्ठिका ।
कनिष्ठयान्यया बद्धा तर्जन्या दक्षया तथा ।
वामानामाञ्च बध्नीयाद्दक्षिणाङ्गुष्ठमूलके ।
अङ्गुष्ठमध्यमे वामे संयोज्य सरलाः पराः ।
चतस्रोऽप्यग्रसंलग्ना मुद्रा कौस्तुभसञ्ज्ञिका ॥ ७ ॥
स्पृशेत्कण्ठादिपादान्तं तर्जन्यङ्गुष्ठया तथा ।
करद्वयेन मालावन्मुद्रेयं वनमालिका ॥ ८ ॥
तर्जन्यङ्गुष्ठकौ सक्तावग्रतो विन्यसेत्सुधीः ।
वामहस्ताम्बुजं वामजानुमूर्ध्नि विन्यसेत् ।
ज्ञानमुद्रा भवेदेषा रामचन्द्रस्य प्रेयसी ॥ ९ ॥
अङ्गुष्ठं वाममुद्दण्डितमितरकराङ्गुष्ठकेनाथ बद्ध्वा
तस्याग्रं पीडयित्वाङ्गुलीभिरपि च ता वामहस्ताङ्गुलीभिः ।
बद्ध्वा गाढं हृदि स्थापयतु विमलधीर्व्याहरन्मारबीजं
बिल्वाख्या मुद्रिकैषा स्फुटमिह गदिता गोपनीया विधिज्ञैः ॥ १० ॥
हस्तौ तु विमुखौ कृत्वा ग्रथयित्वा कनिष्ठिके ।
मिथस्तर्जनिके श्लिष्टे श्लिष्टावङ्गुष्ठकौ तथा ।
मध्यमानामिके द्वे तु द्वौ पक्षाविव चालयेत् ।
एषा गरुडमुद्रा स्यात् विष्णोः सन्तोषवर्द्धिनी ॥ ११ ॥
जानुमध्ये करौ कृत्वा चिबुकाष्ठौ समावुभौ ।
हस्तौ तु भूमिसंलग्नौ कम्पमानः पुनः पुनः ।
मुखं विवृतकं कुर्यात् लेलिहानाञ्च जिह्विकाम् ।
नारसिंही भवेदेषा मुद्रा तत्प्रीतिवर्द्धिनी ।
प्रकारान्तरम् -
अङ्गुष्ठाभ्यान्तु करयोस्तथाक्रम्य कनिष्ठिके ।
अधोमुखीभिः सर्वाभिर्मुद्रेयं नृहरेर्मता ॥ १२ ॥
देवोपरि करं वामं कृत्वोत्तानमधः सुधीः ।
नमयेदिति सम्प्रोक्ता मुद्रा वाराहसञ्ज्ञिका ।
प्रकारान्तरम् -
दक्षहस्तञ्चोर्ध्वमुखं वामहस्तमधोमुखम् ।
अङ्गुल्यग्रन्तु संयुक्तं मुद्रा वाराहसञ्ज्ञिका ॥ १३ ॥
वामहस्ततले दक्षा अङ्गुलीस्तास्त्वधोमुखीः ।
संरोप्य मध्यमां तासामुन्नम्याधो विकुञ्चयेत् ।
हयग्रीवप्रिया मुद्रा तन्मूर्तेरनुकारिणी ॥ १४ ॥
वामस्य मध्यमाग्रन्तु तर्जन्यग्रेण योजयेत् ।
अनामिकां कनिष्ठाञ्च तस्याङ्गुष्ठेन पीडयेत् ।
दर्शयेद्वामके स्कन्धे धनुर्मुद्रेयमीरिता ।
दक्षमुष्टेस्तु तर्जन्या दीर्घया बाणमुद्रिका ॥ १५ ॥
यद्वा ज्ञानार्णवे -
यथा हस्तगतं चापं तथा हस्तं कुरु प्रिये ।
चापमुद्रेयमाख्याता वामहस्ते व्यवस्थिता ।
यथा हस्तगता बाणास्तथा हस्तं कुरु प्रिये ।
बाणमुद्रेयमाख्याता रिपुवर्गनिकृन्तनी ॥ १६ ॥
तले तलन्तु करयोस्तिर्यक्संयोज्य चाङ्गुलीः ।
संहताः प्रसूताः कुर्यान्मुद्रा परशुसञ्ज्ञिका ॥ १७ ॥
उच्छ्रिताङ्गुष्ठमुष्टि द्वे मुद्रा त्रैलोक्यमोहिनी ॥ १८ ॥
हस्तौ तु सम्पुटौ कृत्वा प्रसृताङ्गुलिके तथा ।
तर्जन्यौ मध्यमापृष्ठे अङ्गुष्ठौ मध्यामश्रितौ ।
काममुद्रेयमुदिता सर्वदेवप्रियङ्करी ॥ १९ ॥
महादेवप्रियाणान्तु कथ्यन्ते लक्षणान्यथ ।
उच्छ्रितं दक्षिणाङ्गुष्ठं वामाङ्गुष्ठेन बन्धयेत् ।
वामाङ्गुलीर्दक्षिणाभिरङ्गुलीभिश्च बन्धयेत् ।
लिङ्गुमुद्रेयमाख्याता शिवसान्निध्यकारिणी ॥ १ ॥
मिथः कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके ।
अनामिकोर्ध्व संश्लिष्टदीर्घमध्यमयोरधः ।
अङ्गुष्ठाग्रद्वयं न्यसेद्योनिमुद्रेयमीरिता ॥ २ ॥
अङ्गुष्ठेन कनिष्ठान्तु बद्ध्वा श्लिष्टाङ्गुलित्रयम् ।
प्रसारयेत् त्रिशुलाख्या मुद्रैषा परिकीर्तिता ॥ ३ ॥
अङ्गुष्ठ तर्जन्यग्रेषु ग्रथयित्वाङ्गुलित्रयम् ।
प्रसारयेदक्षमाला मुद्रेयं परिकीर्तिता ॥ ४ ॥
अधःस्थितो दक्षहस्तः प्रसृतोवरमुद्रिका ॥ ५ ॥
ऊर्ध्वीकृतो वामहस्तः प्रसृतोऽभयमुद्रिका ॥ ६ ॥
मिलितानामिकाङ्गुष्ठं मध्यमाग्रे नियोजयेत् ।
श्लिष्टाङ्गुल्युच्छ्रिते कुर्यान्मृगमुद्रयमीरिता ॥ ७ ॥
पञ्चाङ्गुल्यो दक्षिणास्तु मिलिता ह्यूर्ध्वमुन्नताः ।
खट्वाङ्गमुद्रा विख्याता देवस्यातिप्रिया मता ॥ ८ ॥
पात्रवद्वामहस्तञ्च कृत्वाङ्ग वामके तथा ।
निधायोच्छ्रितवत्कुर्यान्मुद्रा कापालिकी मता ॥ ९ ॥
मुष्टिञ्च शिथिलां बद्ध्वा ईषदुच्छ्रितमध्यमाम् ।
दक्षिणां तूर्ध्वमुन्नम्य कर्णदेशे प्रचालयेत् ।
एषा मुद्रा डमरुका सर्वविघ्नविनाशिनी ॥ १० ॥
तथा गणेशमुद्राणामुच्यते लक्षणान्यथ ।
उत्तानोर्ध्वमुखी मध्या सरला बद्धमुष्टिका ।
दन्तमुद्रा समाख्याता सर्वागमविशारदैः ॥ १ ॥
वाममुष्टेस्तु तर्जन्या दक्षमुष्टेस्तु तर्जनीम् ।
संयोज्याङ्गुष्ठकाग्राभ्यां तर्जन्यग्रे स्वके क्षिपेत् ।
एषा पाशाह्वया मुद्रा विद्वद्भिः परिकीर्तिता ॥ २ ॥
ऋज्वीञ्च मध्यमां कृत्वा तर्जनीं मध्यपर्वणि ।
संयोज्याकुञ्चयेत् किञ्चित्मुद्रैषाङ्कुशसञ्ज्ञिका ॥ ३ ॥
तर्जनीमध्यमानामा कनिष्ठाङ्गुष्ठमुष्टिका ।
अधोमुखी दीर्घरूपा मध्यमा विघ्नमुद्रिका ॥ ४ ॥
पर्शुमुद्रा निगदिता प्रसिद्धा लड्डुमुद्रिका ।
बीजपूराह्वया मुद्राप्रसिद्धत्वादुपेक्षिता ॥ ५ ॥
शाक्तेयीनाञ्च मुद्राणां कथ्यन्ते लक्षणान्यथ ।
पाशाङ्कुशवराभीतिधनुर्बाणाः समीरिताः ॥ ६ ॥
कनिष्ठाऽनामिके बद्ध्वा स्वाङ्गुष्ठेनैव दक्षतः ।
शिष्टाङ्गुली तु प्रसृते संसृष्टे खड्गमुद्रिका ॥ ७ ॥
वामहस्तं तथा तिर्यकृत्वा चैव प्रसार्य च ।
आकुञ्चिताङ्गुलीं कुर्याच्चर्ममुद्रेयमीरिता ॥ ८ ॥
मुष्टिं कृवा तु हस्ताभ्यां वामस्योपरि दक्षिणम् ।
कुर्यान्मुषलमुद्रेयं सर्वविघ्नविनाशिनी ॥ ९ ॥
मुष्टिं कृत्वा कराभ्याञ्च वामस्योपरि दक्षिणम् ।
कृत्वा शिरसि संयोज्य दुर्गामुद्रेयमीरिता ॥ १० ॥
चक्रमुद्रां तथा बद्ध्वा मध्यमे द्वे प्रसार्य च ।
कनिष्ठिके तथानीय तदग्रेऽङ्गुष्ठकौ क्षिपेत् ।
लक्ष्मीमुद्रा परा ह्येषा सर्वसम्पत्प्रदायिनी ॥ ११ ॥
वीणावादनबद्धस्तौ कृत्वा सञ्चालयेच्छिरः ।
वीणामुद्रेयमाख्याता सरस्वत्याः प्रियङ्करी ॥ १ ॥
वाममुष्टिं स्वाभिमुखीं कृत्वा पुस्तकमुद्रिका ।
दक्षिणाङ्गुष्ठतर्जन्यावग्रलग्ने पराङ्गुलीः ॥ २ ॥
प्रसार्य संहतोत्ताना एषा व्याख्यानमुद्रिका ।
श्रीरामस्य सरस्वत्या अत्यन्तप्रेयसी मता ॥ ३ ॥
मणिबन्धस्थितौ कृत्वा प्रसृताङ्गुलिकौ करौ ।
कनिष्ठाङ्गुष्ठयुगले मिलित्वान्तः प्रसारयेत् ।
सप्तजिह्वाख्यमुद्रेयं वैश्वानरप्रियङ्करी ॥ १ ॥
कनिष्ठाङ्गुष्ठकौ सक्तौ करयोरितरेतरम् ।
तर्जनीमध्यमानामाः संहता-भुग्नवर्जिताः ।
मुद्रैषा गालिनी प्रोक्ता शङ्खस्यो परिचालिता ॥ १ ॥
दक्षाङ्गुष्ठं पराङ्गुष्ठे क्षिप्त्वा हस्तद्वयेन तु ।
सावकाशामेकमुष्टिं कुर्यात् सा कुम्भमुद्रिका ॥ २ ॥
मुष्ट्योरूर्ध्वीकृताङ्गुष्ठौ तर्जन्यग्रे तु विन्यसेत् ।
सर्वरक्षाकरी ह्येषा कुम्भमुद्रा प्रकीर्तिता ॥ ३ ॥
प्रसृताङ्गुलिकौ हस्तौ मिथः श्लिष्टौ च सम्मुखौ ।
कुर्यात्स्वहृदये सेयं मुद्रा प्रार्थनसञ्ज्ञिका ॥ ४ ॥
अञ्जल्यञ्जलिमुद्रा स्याद्वासुदेवाह्वया च सा ॥ ५ ॥
अङ्गुष्ठावुन्नतौ कृत्वा मुष्ट्योः संलग्नयोर्द्वयोः
तावेवाभिमुखौ कुर्यान्मुद्रेषा कालकर्णिका ॥ ६ ॥
दक्षिणा निविडा मुष्टिर्नासिकार्पिततर्जनी ॥ ७ ॥
मुद्रा विस्मयसञ्ज्ञा स्याद्विस्मयवेशकारिणी ॥ ८ ॥
मुष्टिरूर्ध्वी कृताङ्गुष्ठा दक्षिणा नादमुद्रिका ।
तर्जन्यङ्गुष्ठसंयोगाग्रतो बिन्दुमुद्रिका ॥ ९ ॥
अधोमुखे वामहस्ते ऊर्ध्वास्यं दक्षहस्तकम् ।
क्षिप्त्वाङ्गुलीरङ्गुलीभिः सङ्ग्रथ्य परिवर्तयेत् ।
एषा संहारमुद्रा स्याद्विसर्जनविधौ स्मृता ॥ १० ॥
दक्षपाणिपृष्ठदेशे वामपाणितलं न्यसेत् ।
अङ्गुष्ठौ चालयेत्सम्यक्मुद्रेयं मत्स्यरूपिणी ॥ ११ ॥
वामहस्तस्य तर्जन्यां दक्षिणस्य कनिष्ठिकाम् ।
तथा दक्षिणतर्जन्यां वामाङ्गुष्ठं नियोजयेत् ।
उन्नतं दक्षिणाङ्गुष्ठं वामस्य मध्यमादिकाः ।
अङ्गुलीर्योजयेत्पृष्ठे दक्षिणस्य करस्य च ।
वामस्य पितृतीर्थेन मध्यमानामिके तथा ।
अधोमुखे च ते कुर्याद्दक्षिणस्य करस्य च ।
कूर्मपृष्ठसमं कुर्याद्दक्षपाणिञ्च सर्वतः ।
कूर्ममुद्रेयमाख्याता देवताध्यानकर्मणि (पृष्ठे क्रोडे) ॥ १० ॥
अन्तराङ्गुष्ठमुष्टिन्तु कृत्वा वामकरस्य च ।
मध्यमाग्रं दक्षिणस्य तथालम्ब्य प्रयत्नतः ।
मध्यमेनाथ तर्जन्यामङ्गुष्ठाग्रेण योजयेत् ।
दक्षिणं योजयेत्पाणिं वाममुष्टौ तु साधकः ।
दर्शयेद्दक्षिणे भागे मुण्डमुद्रेयमुच्यते ॥ १३ ॥
ताराया योन्यादिमुद्रा यथा -
योनिमुद्रा च वक्तव्या दर्शयेत् तामधोमुखीम् ।
भूतिनी वक्तव्या बीजाख्यापि ।
परिवर्त्य करौ स्पष्टौ कनिष्ठाकृष्टमध्यमे ।
अनामायुगलञ्चाधस्तर्जनीयुगलं पृथक् ।
अन्योऽन्यं निविडं बद्ध्वाङ्गुष्ठाग्रेऽनामिके ततः ।
दानवधूमकेत्वाख्या मुद्रैषा कथिता प्रिये ।
अस्यास्तु बन्धनान्मन्त्री बन्धनान्मुच्यते ध्रुवम् ॥ १ ॥
वक्त्रं विस्तारितं कृत्वाप्यधोजिह्वाञ्च चालयेत् ।
पार्श्वस्थं मुष्टियुगलं लेलिहनेति कीर्त्तिता ॥ २ ॥
एषा ताराराधने, अन्या लेलिहाना वक्तव्या ।
योनिर्मायाधरः सेन्दूर्वधुः कूर्चं क्रमाद्विदुः ।
बीजानि चोच्चरन्मन्त्री मुद्राबन्धनमाचरेत् ॥ ३ ॥
तर्जनीमध्यमानामाः समः कुर्यादधोमुखीः ।
अनामायां क्षिपेद्वृद्धाम् ऋज्वीं कृत्वा कनिष्ठिकाम् ।
लेलिहानाम मुद्रेयं जीवन्यासे प्रकीर्तिता ॥ ४ ॥
तर्जन्यानामिका-मध्या-कनिष्ठा क्रमयोगतः ।
करयोर्योजयत्येव कनिष्ठामूलदेशतः ।
अङ्गुष्ठाग्रे तु निक्षिप्य महायोनिः प्रकीर्तिता ॥ ५ ॥
वामकेश्वरतन्त्रोक्ताः प्रकाश्यन्तेऽत्र मुद्रिकाः ।
शृणु देवि प्रवक्ष्यामि मुद्राः सर्वार्थसिद्धिदाः
याभिर्विरचिताभिश्च सान्निध्यं त्रैपुरं भवेत् ॥ १ ॥
परिवर्त्य करौ स्पृष्टावङ्गुष्ठौ कारयेत्समौ ।
अनामान्तर्गते कृत्वा तर्जन्यौ कुटिलाकृती ।
कनिष्ठिके नियुञ्जीत निजस्थाने महेश्वरि ।
त्रिखण्डेयं समाख्याता त्रिपुराध्यानकर्मणि ॥ २ ॥
मध्यमामध्यगे कृत्वा कनिष्ठेऽङ्गुष्ठरोधिते ।
तर्जन्यौ दण्डवत्कृत्वा मध्यमोपर्यनामिके ।
एषा च परमा मुद्रा सर्वसक्षोभकारिणी ॥ ३ ॥
एतस्या एव मुद्राया मध्यमे सरले यदा ।
क्रियते परमेशानि सर्वविद्राविणी तदा ॥ ४ ॥
मध्यमातर्जनीभ्याञ्च कनिष्ठानामिके समे ।
अङ्कुशाकाररूपाभ्यां मध्यमे परमेश्वरि ।
अङ्गुष्ठन्तु नियुञ्जीत कनिष्ठानामिकोपरि ।
इयमाकर्षिणी मुद्रा त्रैलोक्याकर्षिणी परा ॥ ५ ॥
पुटाकारौ करौ कृत्वा तर्जन्यावङ्कुशाकृती ।
परिवर्तक्रमेणैव मध्यमे तदधोगते ।
क्रमेण देवि तेनैव कनिष्ठानामिके तथा ।
संयोज्य निविडाः सर्वा अङ्गुष्ठावग्रदेशतः ।
मुद्रेयं परमेशानि सर्ववश्यकरी मता ॥ ६ ॥
सम्मुखौ तु करौ कृत्वा मध्यमामध्यगेऽन्त्यजे ।
अनामिके तु सरले तद्बहिस्तर्जनीद्वयम् ।
दण्डाकारौ ततोङ्गुष्ठौ मध्यमानखदेशगौ ।
मुद्रैषोन्मादिनी नाम्नाकर्षिण सर्वयोषिताम् ॥ ७ ॥
अस्यास्त्वनामिकायुग्ममधः-कृत्वाङ्कुशाकृती ।
तर्जन्यावपि तेनैव क्रमेण विनियोजयेत् ।
इयं महाङ्कुशा मुद्रा सर्वकामार्थसाधनी ॥ ८ ॥
सव्यं दक्षिणदेशे तु सव्यदेशे तु दक्षिणम् ।
बाहुं कृत्वा महादेवि हस्तौ सम्परिवर्त्य च ।
कनिष्ठानामिके देवि युक्त्वा तेन क्रमेण तु ।
तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे ।
अङ्गुष्ठौ तु महेशानि सरलावपि कारयेत् ।
इयं सा खेचरी नाम्ना पार्थिवस्थानयोजिता ॥ ९ ॥
परिवर्त्य करौ स्पृष्टावर्द्धचन्द्राकृती प्रिये
तर्जन्यङ्गुष्ठयुगलं युगपत्कारयेत् ततः ।
अधःकनिष्ठावष्टब्धे मध्यमे विनियोजयेत् ।
तथैव कुटिले योज्ये सर्वाधस्तादनामिके ।
बीजमुद्रेयमचिरात्सर्वसिद्धिविवर्द्धिनी ॥ १० ॥
मध्यमे कुटिले कृत्वा तर्जन्युपरि संस्थिते ।
अनामिके मध्यगते तथैव हि कनिष्ठिके ।
सर्वा एकत्र संयोज्य अङ्गुष्ठपरिपीडिताः ।
एषा तु परमा मुद्रा योनिमुद्रेयमीर्तिता ॥ ११ ॥
एता मुद्रा महेशानि त्रिपुराया मयोदिताः ।
पूजाकाले प्रयोक्तव्या यथानुक्रमयोगतः ॥ १२ ॥
वामहस्तेन मुष्टिन्तु बद्ध्वा कर्णप्रदेशके ।
तर्जनीं सरलां कृत्वा भ्रामयेन्मनुवित्तमः ।
सौभग्यदण्डिनी मुद्रा न्यासकालेऽपि सूचिता ॥ १३ ॥
अन्तराङ्गुष्ठमुष्ट्या तु निरुध्य तर्जनीमिमाम् ।
रिपुजिह्वा ग्रहा मुद्रा न्यासकालेऽपि सूचिता ॥ १४ ॥
बद्ध्वा तु योनिमुद्रां वै मध्यमे कुटिले कुरु ।
अङ्गुष्ठौ च तदग्रे मुद्रेयं भूतिनी मता ॥ १५ ॥
वाममुष्टिं विद्यायाथ तर्जनीमध्यमे ततः ।
प्रसार्य तर्जनीमुद्रा निर्दिष्टा वज्रपाणिना ॥ १६ ॥
इति मुद्राप्रकरणम् ।
अथ धारणयन्त्रादि -
तत्रादौ भुननेश्वरीयन्त्रम् -
शारदायाम् -
आलिख्याष्टदिगर्गलान्युदरगं पाशादिकं त्र्यक्षरं,
कोष्ठेष्वङ्गमनून्परेषु विलिखेदष्टार्णमन्त्रद्वयम् ।
अच्पूर्वापरयट्क्-युग्लषवरान्
व्योमासनानर्गलेष्वालिख्येन्द्रजलादिपाधिगुणशः पङ्क्तिद्वयं
तत्परम् ॥ १ ॥
कोष्ठेष्वष्टयुगार्णमात्मसहितां युग्मस्वरान्तर्गतां,
मायां केशरगां दलेषु विलिखेत्मूलं त्रिपक्तिक्रमात् ।
त्रिः पाशाङ्कुशवेष्टितञ्च लिपिभिर्वीतं क्रमादुत्क्रमात्,
पद्मस्थेन घटेन पङ्कजमुखेनावेष्टिं तद्बहिः ।
घटार्गलमिदं यन्त्रं मन्त्रिणां श्रीपदं मतम् ।
पाशश्रीशक्तिकन्दर्पकामशक्तिरमाङ्कुशाः ।
प्रथमोऽष्टाक्षरो मन्त्रस्ततः कामिनिरञ्जिनि ।
स्वाहान्तोऽष्टाक्षरः सद्भिपरः परिकीर्तितः ।
ह्रीं गौरि रुद्रदयिते योगेश्वरि सवर्म फट् ।
द्विठान्तः षोडशार्णोऽयं मन्त्रः सद्भिरुदीरितः ॥ १-क ॥
इति घटार्गलयन्त्रम् ।
त्वरितायन्त्रम्
अथ त्वरितायन्त्रम् -
तारे हूं विलिखेत्सरोजकुहरे साध्याभिधानान्वितं, मन्त्रर्णान्
वसुसङ्ख्यकान् वसुदलेष्वालिख्य तद्बाह्यतः ।
शक्त्या त्रिः परिवेष्टितं घटगतं पद्मस्थमब्जाननं, यन्त्रं
वश्यकरं ग्रहादिभयहृल्लक्ष्मीप्रदं कान्तिदम् ॥ २ ॥
इति त्वरितायन्त्रम् ।
नवदुर्गायन्त्रम्
अथ नवदुर्गायन्त्रम् -
पद्मं भानुदलान्वितं प्रविलिखेत् तत्कर्णिकायां पुनस्तारं
शक्तिगबीजसाध्यसहितं तत्केशरेषु क्रमात् ।
मर्दिन्या मनुसम्भवान् युगलशो वर्णान् पुनः पत्रगान्,
मन्त्रार्णान् गुणशो विधाय विलिखेदन्त्यं तदन्त्ये दले ।
मन्त्रस्तु -
ॐ उत्तिष्ठ पुरुष कि स्वपिषि भयं मे समुपस्थितम् ।
यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ।
मातृकावर्ण-संवीतं भुपूरद्वयमध्यगम् ।
यन्त्रञ्च विन्ध्यवासिन्याः प्रोक्तं सर्वसमृद्धिदम् ।
रक्षाकरं विशेषेण क्षुद्रभूतादिनाशनम् ।
राज्यदं भ्रष्टराज्यानां वश्यदं वश्यमिच्छताम् ।
सुतार्थिनां च सुतदं रोगिणां रोगशान्तिदम् ।
बहुना किमिहोक्तेन यन्त्रं तत्कामदो मणिः ॥ ३ ॥
इति नवदुर्गायन्त्रम् । (नवदुर्गाधारणयन्त्रम् चित्र ५२)
लक्ष्मीयन्त्रम्
अथ लक्ष्मीयन्त्रम् -
वेदादिस्थितसाध्यनाम युगशः श्रीशक्तिमारान्वितं, किञ्जल्केषु
दिनेशपत्रविलसन्मन्त्राक्षारं तद्बहिः ।
पद्मं व्यञ्जनकेशरं स्वरलसत्पत्राष्टयुग्मं
धराविम्बाभ्यां वषडन्तरा त्वरितया यन्त्रं लिखेद्वेष्टितम् ।
भूपुरद्वयकोणेषु हक्षौ लेख्यौ पुनः पुनः ।
महालक्ष्मीयन्त्रमिदं सर्वैश्वर्यफलप्रदम् ।
सर्वदुःखप्रशमनं सर्वापद्विनिवारकम् ।
बहुना किमिहोक्तेन परमस्मान्न विद्यते ॥ ४ ॥
इति लक्ष्मीयन्त्रम् ।
त्रिपुरभैरवीयन्त्रम्
अथ त्रिपुरभैरवीयन्त्रम् -
मध्याद्यं नवयोनिषु प्रविलिखेद्वीजानि वर्णांस्त्रिशो, गायत्र्याः
पुनरष्टपत्रविवरेष्वालिख्य लिप्यावृतम् ।
भूविम्बद्वितयेन मन्मथयुजा कोणेषु संवेष्टितं, यन्त्रं
त्रैपुरमीरितं त्रिभुवन प्रक्षोभणं श्रीपदम् ।
(त्रिपुरभैरवीयन्त्रम् चित्र ५३) ।
गायत्री तु -
मन्मथं त्रिपुरादेवि विद्महे पदमुद्धरेत् ।
उक्त्वा कामेश्वरिपदं प्रवदेदथ धीमहि ।
अन्ते च प्रवदेद्भूयस्तन्नः किलन्ने प्रचोदयात् गायत्र्येषा
समाख्याता त्रैपुरी सर्वसिद्धिदा ॥ ५ ॥
त्रिपुरायन्त्रम्
अथ त्रिपुरायन्त्रम् -
वह्नेर्गेहयुगान्तरस्थसदने मायां लिखेद्वाग्भवं,
षट्कोणेष्वथ सन्धिषु प्रविलिखेत् ब्लूङ्कारमावेष्टयेत् ।
स्त्रीम्बीजेन समीरितं त्रिभुवनप्रक्षोभणं त्रैपुरं, यन्त्रं
पञ्चमनोभवात्मकमिदं सौन्दर्यसम्पत्करम् ॥ ६ ॥
इति त्रिपुरायन्त्रम् ।
श्रीविद्यायन्त्रम्
अथ श्रीविद्यायन्त्रम् -
विशेषं धारणं यन्त्रं प्रसङ्गात्कथयामि ते ।
रेफहकारयोर्मध्ये देवीनामाभिमुख्यकम् ।
साध्यनामद्वितीयान्तं तस्योर्ध्वे विलिखेन्मनुम् ।
तत्रैव मातृकां सर्वां विलिखेच्चक्रवाह्यतः ।
पञ्चगव्यामृतेनैव मूलेन परिवेष्टयेत् ।
तत्र प्राणं प्रतिष्ठाप्य विद्यामष्टोत्तरं शतम् ।
तत्स्पृष्ट्वा प्रजपेन्मन्त्रं न्यासध्यानपरायणः ॥ ७ ॥
हेम्नो मध्यगतं कृत्वा राजतस्याथवा पुनः ।
करे धृता जगद्वश्यं हृदये स्त्रीषु वल्लभः ।
कण्ठे धनं लभेद्भाले स्तम्भनं भवेत् ।
शिखायां मोक्षमाप्नोति तस्माद्यत्नेन धारयेत् ॥ ७-क ॥
इति श्रीविद्यायन्त्रम् ।
गणेशयन्त्रम्
अथ गणेशयन्त्रम् -
बीजं षट्कोणमध्ये स्फुरदनलपुरे तारगं दिक्षु
लक्ष्मीर्मायाकन्दर्पभूमीस्तदनु रसपुटेष्वालिखेद्बीजषट्कम् ।
तत्सन्धिष्वङ्गमन्त्रान् वसुदलकमले मूलमन्त्रस्य वर्णान्,
शिष्टान् पत्रेषु विद्वान् विलिखतु गुणशश्चान्त्यमन्त्ये पलाशे ।
आवीतं लिपिभिः क्रमोत्क्रमवशात्पाशाङ्कुशाभ्यामपि,
भूविम्ब द्वितयेन वेष्टितमिदं यन्त्रं गणाधीशितुः ।
लाक्षा-कुङ्कुम-रोचना-मृगमदैर्भूर्जोदरे हेम्नि वा,
संलिख्याभिवहन् लभते सकलैः सम्प्रार्थनीयां श्रियम् ।
उक्तं महागणपतेर्विधानं सुरपूजितम् ।
सर्वसिद्धिकरं पुंसां समस्तपुरुषार्थदम् ॥ ८ ॥
इति गणेशयन्त्रम् ।
श्रीरामयन्त्रम्
अथ श्रीरामयन्त्रम् -
तारं मध्ये विलिखतु मनुं षट्सु कोणेषु सन्धिष्वङ्गं
मायां स्मरमपि च लिखेत्कोणगण्डेषु पश्चात् ।
किञ्चिल्केषु स्मरगणमथो पत्रमध्येषु मालामन्त्रस्यार्णान्
गुहमुखमितानष्टमे पञ्चवर्णान् ॥ ९ ॥
दशाक्षरेण संवेष्ट्य कादिवर्णैश्च भूपुरे ।
दिग्विदिक्षु लिखेद्बीजेनरसिंहवराहयोः ।
नमो भगवते ब्रूयाच्चतुर्थ्या रघुनन्दनम् ।
रक्षोघ्नविशदायान्ते मधुरादि समीरयेत् प्रसन्नवदनायेति
पश्चादमिततेजसे ।
वलाय पश्चाद्रामाय विष्णवे तदनन्तरम् ।
प्रणवादिनमोऽन्तोऽयं मालामन्त्रः प्रकीर्तितः ॥ ९-क ॥
इति श्रीरामयन्त्रम् । (श्रीरामस्य धारणयन्त्रम् चित्र ५४)
नृसिंहयन्त्रम्
अथ नृसिंहयन्त्रम् -
बीजं साध्यसमन्वितं प्रविलिखेन्मध्येऽष्टपत्रेष्वथो
मन्त्रार्णान् श्रुतिशो विभज्य विलिखेल्लिप्या वहिर्वेष्टयेत् ।
वाह्ये कोणगबीज-रुद्धवसुधागेह-द्वयेनावृतं, यन्त्रं
क्षुद्रविषग्रहामयरिपुप्रध्वंसनं श्रीपदम् ॥ १० ॥
इति नृसिंहयन्त्रम् । (नृसिंहधारणयन्त्रम् चित्र ५५)
गोपालयन्त्रम्
अथ गोपालयन्त्रम् -
पिण्डं मूलेन वीतं दहनपुरयुगे कोणराजत्-षडर्णं,
कुर्यात्पद्मं दशार्णस्फुरितदशदलं कामबीजेन वीतम् ।
पद्मं किञ्जल्कसंस्थं स्मरविकृतिदलप्रोल्लसत्षोडशार्णं,
किञ्जल्कव्यञ्जनाढ्यं विकृतियुगदलेष्वर्पितानुष्टुवर्णम् ।
पाशाङ्कुशाभ्यामावीतं क्षुणीपुरयुगाश्रिषु ।
अष्टाक्षरेण लसितं यन्त्रं गोपालदैवतम् ।
धर्मार्थकामफलदं सर्वरक्षाकरं परम् ।
पञ्चान्तको धरासंस्थो मनुरिन्दुविभूषितः ।
पिण्डबीजमिदं प्रोक्तं सर्वसिद्धिकरं परम् ।
स्मरः कृष्णाय ठद्वन्द्वं षडर्णो मनुरीरितः ।
गोपोजनान्ते प्रवदेद्वल्लभायाग्निवल्लभा ।
अयं दशाक्षरो मन्त्रोः दृष्टादृष्टफलप्रदः ।
प्रणवं हृदयं कृष्णं ङेऽन्तमुक्त्वा ततः परम् ।
तादृशं देवकीपुत्रं हुं-फट्-स्वाहा समन्वितम् ।
षोडशाक्षरमन्त्रोऽयं गोविन्दस्य समीरितः ।
पिण्डं रतिपतेर्बीजं नमो भगवते ततः ।
नन्दपुत्राय बालादिवपुषे श्यामलाय च ।
गोपीजनपदस्यान्ते वल्लभाय द्विठावधिः ।
अनुष्टुप्मन्त्र आख्यातो गोपालस्य जगत्पतेः ।
अनङ्गः कृष्णगोविन्दौ ङेऽन्तावष्टाक्षरी मनुः ॥ ११ ॥
इति गोपालयन्त्रम् ।
श्रीकृष्णयन्त्रम्
अथ श्रीकृष्णयन्त्रम् -
प्राक्प्रत्यग्दक्षिणोदग्विधिवदभिलिखेत् स्पष्टरेखाचतुष्क,
कोणोद्यच्छूलयुक्तं वलययुगयुतं मध्यपूर्वं तदन्तम् ।
श्लोकस्यार्णान्पुरस्ताद्वसुपदविवरेष्वष्टवर्णं लिखित्वा,
तद्बाह्ये द्वादशार्णैस्तदनु परिवृतं देवकीपुत्रयन्त्रम् ।
तत्सुकीदेवदेवेतं तं वेदे वरतोरतं तं रतो रूढतोऽख्यातं
तं ख्यातो देवकीसुतम् ।
लिखितं भूर्जपत्रादौ यन्त्रमेतद्यथाविधि ।
विधृतं बाहुना नित्यं सर्वकामफलप्रदम् ।
पलाशवृक्षफलके लिखितं साधुसाधितम् ।
गोस्थाने निखनेदेतत्गवां वृद्धिर्भवेत् तदा ॥ १२ ॥
इति श्रीकृष्णयन्त्रम् । (श्रीकृष्णयन्त्रम् चित्र ५६)
शिवयन्त्रम्
अथ शिवयन्त्रम् -
तत्रादौ षट्कोणमण्डलं कृत्वा तदन्तः साध्यनामयुक्तं
प्रासादबीजं विलिख्य षट्कोणेषु
प्रणवसहितपञ्चाक्षरवर्णान्विलिख्य कोणविवरेषु
षडङ्गमन्त्रांस्तद्बहिः पञ्चदलानि विरचय्य तद्दलेषु ॐ
ईशानाय नमः ॐ तत्पुरुषाय नमः ॐ अघोराय नमः ॐ
सद्योजाताय नमः ॐ वामदेवाय नमः ।
इति पञ्चमन्त्रान् प्रागादिक्रमेण लिखेत् ।
तद्बहिरष्टदलानि रचयित्वा दलेषु मातृकाष्टवर्णान्लिखेत् ॥ १३ ॥
तद्बहिर्वृत्तं त्र्यम्बकेन वेष्टयेत् ।
एतद्यन्त्रं जपहोमादिना सम्पूज्य धारयेत्,
आयुरारोग्यैश्वर्यादिचतुर्वर्गादिसिद्धिर्भवति ॥ १३-क ॥
इति शिवयन्त्रम् । (शिवस्य धारण-यन्त्रम् चित्र ५७)
मृत्युञ्जययन्त्रम्
अथ मृत्युञ्जययन्त्रम् -
मध्ये साध्याक्षराढ्यं ध्रुवमभिविलिखेन्मध्यमं
दिग्दलेषु, कोणेष्वन्त्यं मनोस्तत्क्षितिभवनमथो दिक्षु चान्द्रं
विदिक्षु ।
टान्तं यन्त्रं तदुक्तं सकलभयहरं
क्ष्वेडभूतापमृत्युव्याधिव्यामोहदुःख-प्रशमन-मुदितं
श्रीपदं कीर्तिदायि ॥ १४ ॥
इति मृत्युञ्जययन्त्रम् । (मृत्युञ्जयधारण-यन्त्रम् चित्र ५८) ।
कालीयन्त्रम्
अथ कालीयन्त्रम् -
तत्र यामले -
आद्यं बीजं ससाध्यं प्रथमवसुगृहे तद्बहिश्चाष्टकोणे,
पूर्वाद्यञ्चाष्टबीजं तदनु वसुगृहद्वन्द्वके बीजषट्कम् ।
किञ्जल्कं तत्स्वराढ्यं वसुदलविवरे स्वाहया बीजषट्कं
कूर्चाभ्यामेव वीतं क्षितिगृहयुगयोरन्तरे यन्त्रराजम् ।
देवीबीजत्रयं तत्प्रतिदिशमपरं शक्तिबीजद्वयं तत् कोणे कोणे
लिखेद्यस्त्रिजगति स गुरुः शङ्करस्यापि विष्णोः ॥ १५ ॥
इति कालीयन्त्रम् । (काल्या धारण-यन्त्रम् चित्र ५९) ।
शान्तिकादौ ताराधारणयन्त्रम्
अथ शान्तिकादौ ताराधारणयन्त्रम् -
तदुक्तं फेत्कारिणीये -
योनियुग्मे लिखेन्मन्त्रं मन्त्री हेमशलाकया ।
क्लीवहीनान्दीर्घवर्णान् षट्कोणे विलिखेत् ततः ।
अष्टपत्रेष्वष्टवर्णान् तद्बहिर्भूपुरद्वयम् ।
अष्टवज्रं भूपुरे च विलिख्य साधकोत्तमः ।
सुवर्णपट्टे भूर्जे वा रौप्ये वाप्यथ सुव्रते ।
विलेखेद्धमलेखन्या गन्धाष्टकसमन्वितम् ।
दूर्वाकाण्डेन वालिख्य कुशुमूलेन वा पुनः ॥ (ताराया-
धारणयन्त्रम् चित्र ६०) ।
एकवीराकल्पे -
वेष्टितं पीतवस्त्रेण जतुना परिवेष्टयेत् ।
वध्नीयात् पट्टसूत्रेण शिशूनां कण्ठभूषणं स्त्रीणां
वामभुजे चैवमन्येषां दक्षिणे भुजे बन्ध्यापि लभते पुत्रं
निर्धनो धनवान्भवेत् ।
इयं लब्धां परा रक्षा ज्ञानार्थं गौतमादिभिः ।
प्रीत्यर्थं पार्थिवैरन्यैः सङ्ग्रामे जयकाङ्क्षिभिः ।
अस्यार्थः -
योनियुग्मे षट्कोणे ।
तन्मध्ये हेमशलाकादिना भूर्जपत्रादौ
कुङ्कुमगोरोचनारक्तचन्दन जटामांसीसमांशं विधाय
पङ्क्तिक्रमेण मूलमन्त्रं लिखित्वा तस्य हृल्लेखारेफमध्ये
अमुकस्य रक्षां कुरु कुरु अमुकीनां शुभं पुत्रमुत्पादय इति
वा अस्य ज्ञानं कुरु कुरु इत्यादि वा साध्यसहितं विलिख्य षट्कोणे
क्लीवहीनान् आ ई ऊ ऐ औ अः इति दीर्घवर्णानेकैकं लिखेत् ।
तदुक्तम् -
स्वराणां मध्यगं यच्च तच्चतुष्कं नपुंसकमिति ।
अष्टपत्रेष्वष्टवर्णान् ऐं ह्रीं ॐ ऐं ह्रीं फट् स्वाहेति लिखेत् ।
तदुक्तम् -
वाग्भवं कुलदेवीञ्च तारकं वाग्भवं तथा ।
हृल्लेखा चास्त्र मन्त्रान्ते वह्निजायावधिर्मनुः ।
अष्टाक्षरो मनुः प्रोक्तो मन्त्राणां सार ईरितः ॥ १६ ॥
यन्त्रलेखनद्रव्यम्
अथ यन्त्रलेखनद्रव्यम् -
काश्मीर-रोचना-लाक्षा-मृगेभमद-चन्दनैः ।
विलिखेद्धेमलेखन्या यन्त्राणि तानि देशिकः ।
भूमिस्पृष्टं शवस्पृष्टं दग्धं निर्माल्यसङ्गतम् ।
विदीर्णं लङ्घितं मन्त्री यन्त्रं नैव च धारयेत् ।
सौवर्णे राजते पात्रे भूर्जे वा सम्यगालिखेत् ।
अथवा ताम्रपट्टेन गुटिकीकृत्य धारयेत् ।
यावज्जिवन्तु सौवर्णे रौप्ये विंशतिवार्षिकाम् ।
भूर्जे द्वादशवर्णानि तदर्द्धं ताम्रपट्टके ॥ १७ ॥
इति यन्त्रलेखनद्रव्यम् ।
प्रयोगानन्तरं शान्त्युदकस्नानम्
अथ प्रयोगानन्तरं शान्त्युदकस्नानम् -
तद्यथा -
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ।
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ।
आखण्डलोऽग्निर्भगवान यमो वै निर्-ऋतिस्तथा ।
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।
ब्रह्मणा सहिता ह्येते दिक्पालाः पान्तु ते सदा ।
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्षमा मतिः ।
बुद्धिर्लज्जा वपुः शान्तिर्माया निद्रा च भावना ।
एतास्त्वामभिसिञ्चन्तु देवपत्न्याः समागताः ।
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ।
एते त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
ऋषयो मुनयो गावो देवमातर एव च ।
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसोऽङ्गनाः ।
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ।
औषधानि च रत्नानि कालस्यावयवाश्च ये ।
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।
एते त्वामभिषिञ्चन्तु धर्मकामार्थसिद्धये ॥ १८ ॥
इति वसिष्ठसंहितोक्ताभिषेकमन्त्राः ।
अथात्र सङ्क्षेपतो नित्यपूजाविधिः -
तदुक्त यामले -
आदावृष्यादिविन्यासः करशुद्धिस्ततः परम् ।
अङ्गुलिव्यापकन्यासौ हृदादिन्यास एव च ।
तालत्रयञ्च दिग्बन्धः प्राणायामस्ततः परम् ।
ध्यानं पूजा जपश्चेति सर्वतन्त्रेष्वयं क्रमः ॥ १ ॥
पूजा च मूलदेवताया एव ।
मातृकान्यासोऽप्यावश्यकस्तथा च -
जपार्थं सर्वमन्त्राणां विन्यासञ्च लिपेर्विना ।
कृतं तन्निष्फलं विद्यात्तस्मादादौ लिपिं न्यसेत् ॥ २ ॥
श्रीविद्यायाः सङ्क्षेप-पूजाविधिः -
तदुक्तं स्वतन्त्रतन्त्रे -
पूजाविशेषान्देवेशि शृणु नित्यक्रमोदितान् ।
अशक्तानान्तु विस्तारे तथा चापत्सु शस्यते ।
अन्यथानर्थकारि स्यात् सङ्कोचार्चनमीश्वरि ॥ ३ ॥
हेतिभिर्मध्यमाद्यं स्यात् द्वितीयं नवयोनिषु ।
चतुर्दशारावध्यन्यच्चतुर्थं प्रोक्तरूपतः ।
पञ्चमं सर्वदुःखार्तिनाशनं वाञ्छितप्रदम् ।
अस्यार्थः -
अशक्तानां हेतिभिर्मध्यमाद्यं स्यात् ।
हेतिचतुष्टयसहित देवताचतुष्टयार्चनम् ।
पाशाङ्कुशधनुर्बाणा हेतयः ।
देवतास्तु -
कामेश्वरी-वज्रेश्वरी-भगमालिनी-श्रीमहात्रिपुरसुन्दरी-
देवताचतुष्टयार्चनरूपमेतदाद्यार्चनमित्यर्थः ।
द्वितीयमाह नवयोनिष्विति ।
वशिन्यादिमध्यमान्तमिति ।
तृतीयार्चनमाह
चतुर्दशारचक्रस्थितसर्वसङ्क्षोभिण्यादिमध्यमान्ता सपर्या
तृतीया ।
चतुर्थं प्रोक्तरूपत इति ।
तत्र प्रोक्तरूपेणेत्यर्थः ।
षोडशदलादि-मध्यमान्तमिति यावत् ।
पञ्चमं भूगृहादिमध्यमान्तमिति यावत् ।
इति पञ्चप्रकारार्चा प्रोक्ता सर्वार्थसिद्धिदा ।
तत्रादौ भूतशुद्धि प्राणायामपुरःसरं
करशुद्ध्यासनचतुष्टयाङ्गवशिन्यादिन्यासचतुष्टयं विधाय
बालया अर्घ्यद्वयं संशोध्य षडासनविद्यया पीठपूजां
विधाय विन्दौ हृल्लेखया परचितिमावाह्य यथा
शक्त्युपचारैरभ्यर्च्च पूर्ववत्सर्वभूतवलिं दत्त्वा जप-स्तोत्रैः
सन्तोषयेदिति ॥ ४ ॥
तदुक्तं नवरत्नेश्वरे -
न्यासत्रयं समासाद्य चक्रपुजासनेन वै ।
वालयार्घ्यं समासाद्य हृल्लेखामनुना शिवे ।
चक्रमध्ये समावाह्य सङ्क्षेपार्चनमर्चयेदिति ॥ ५ ॥
अथवा तदुक्तं विशुद्धेश्वरतन्त्रे -
पूजासङ्कोचकञ्चैव कथयामि सुरेश्वरि ।
यत्पूजाबोधमात्रेण जीवन्मुक्तः प्रजायते ।
प्रथमाग्रे तु त्रिपुरा द्वितीया त्रिपुरेश्वरी ।
तृतीया चक्रराजे तु त्रिपुरादिसमन्विता ।
देवीपूजाक्रमेणैव सुन्दरी वासिनीति च ।
पञ्चमे त्रिपुराश्रीश्च षष्ठे त्रिपुरमालिनी ।
सप्तमे त्रिपुरा सिद्धा चाष्टमे त्रिपुरात्मिका ।
मध्ये शक्तौ महेशानि महात्रिपुरसुन्दरी ।
यथा वाराहीतन्त्रे -
षडङ्गं विन्यस्य देवीमावाह्य बिन्दुचक्रे अणिमां द्वितीये
कामकलां तृतीये ब्राह्मीं चतुर्थे सुन्दरीं पञ्चमे आकर्षिणीं
षष्ठे कामेश्वरीं वसुदले भेरुण्डां षोडशदले कुलेश्वरीं
सम्पूज्य देव्यै पुष्पाञ्जलीं दत्त्वा मन्त्रं जपेदिति ॥ ६ ॥
इति श्रीविद्यायाः सङ्क्षेपार्चा ।
अथ नैमित्तिकविधिः -
तत्र गौतमीये-
नारद उवाच -
कर्मान्तरमथो वक्ष्ये शृणुष्वावहितो मुने ।
यत्कृत्वा मन्दभाग्योऽपि लभेन्मन्त्रफलानि वै ।
प्रणवद्वयमध्यस्थं जपेदयुतसङ्ख्यया ।
त्रिरावजपमात्रेण वृहस्पतिसमो भवेत् ।
व्याख्याता सर्वशास्त्राणां वेदानामपि जायते ।
रविवारेऽश्वत्थमूले जपेष्टोत्तरं शतम् ।
भूयो भूयो भवेच्छान्तिर्जीवेदष्टोत्तरं शतम् ॥ ७ ॥
तस्य शान्तिर्भवेन्नूनं यमुद्दिश्य कृत्वा क्रिया ।
अंशुकैरर्चयेत्कृष्णं मासमान्त्रन्तु निर्मलैः ।
मुच्यते मलिनैः कृच्छ्रैः पापैर्घोरतरैरपि ॥ ८ ॥
पट्टवस्त्रैर्यजेद् भक्त्या सम्पत्तिमतुलां लभेत् ।
विद्रुमैः पूजयेत्कृष्णं त्रैलोक्यं वशमानयेत् ॥ ९ ॥
माणिक्यै पूजयेद्भक्त्या सार्वभौमसमो भवेत् ।
पद्मरागैर्यजेत् कृष्णं राजा भवति निश्चितम् ॥ १० ॥
क्षत्रियः सार्वभौमः स्यात्साधयेत् सकलां महीम् ।
गारुत्मतमयै रत्नैः पूजयन् ज्ञानवान् भवेत् ॥ ११ ॥
अपि हीरकरत्नेन पूजयन् किं न लभ्यते ।
सुवर्णपुष्पैरभ्यर्च्य मासं भक्ति परायणः ।
कुवेरसमसम्पत्तिं सम्प्राप्य मोदतेऽचिरात् ।
देहान्ते हरितां प्राप्य निर्वाण पदमृच्छति ॥ १२ ॥
रविवारे सरसिजैः कह्लारैः सोमवारके ।
मङ्गले रक्तपद्मैश्च बुधे तगरसम्भवैः ॥ १३ ॥
चम्पकैर्गुरुवारे च शुक्रे कुमुदसम्भवैः ।
शनिवारे शमीपुष्पैः पूजयेद्भक्तितो यतिः ॥ १४ ॥
रविवारे धृताक्तन्तु पयोभक्तं निवेदयेत् ।
सोमवारे पिष्टकादि सितया सह योजयेत् ।
मङ्गले गुडसम्मिश्रमन्नं बहुगुणान्वितम् ।
बूधवारे यावकैस्तु गुरौ सूपसमुद्भवैः ॥ १५ ॥
शुद्धान्नं शुक्रवारे तु शनौ सधृतपायसम् ।
वैशाखे मासि विधिवत्तर्पयेद्धिमवज्जलैः ॥ १६ ॥
ज्येष्ठे मासि प्रयत्नेन फलैः सम्पूजयेद्धरिम् ।
आषाढे मासि विधिवत्पवित्रैः पूजयेद्धरिम् ॥ १७ ॥
एकैकं स्वर्णसूत्राणि ग्रन्थियुक्तानि कारयेत् ।
अथवा पट्टसूत्राणि पद्मसूत्राणि वा पुनः ।
पूजान्ते देवराजाय महिषीभ्यो निवेदयेत् ॥ १८ ॥
मिथुनेभ्यस्तदा दत्त्वा महान्तमुत्सवं चरेत् ।
तोषयेद् भक्ष्यभोज्यैश्च ब्राह्मणान् संशितव्रतान् ।
एवं संवत्सरं मन्त्री कृत्वाभीष्टमवाप्नुयात् ॥ १९ ॥
न चेद्वर्षकृताः पूजा वास्तोर्भक्ष्याय कल्पते ।
श्रावणे मासि कृष्णं तु पूजयेत् केतकोद्भवैः ॥ २० ॥
चन्द्रचन्दनकस्तूरीकुङ्कुमादिसुवासितैः ।
एलालवङ्गकक्कोलफलानि बहुधार्पयेत् ॥ २१ ॥
भाद्रे मासि यजेद्विष्णुं भक्ष्यैर्बहुगुणान्वितैः ।
ईषे मासि यजेद्भक्त्या भक्ष्यैर्भोज्यैः सुविस्तरैः ॥ २२ ॥
कार्पासनिर्मितैर्वस्त्रैर्नानाभरणभूषितैः ।
तुलास्थे भास्करे कृष्णं पूजयेन्मासमात्रकम् ॥ २३ ॥
रात्रौ प्रदीपैर्होमैश्च दुग्धपिष्टादिसंयुतैः ।
धृतदीपविच्छिन्नं दद्यान्मासं महोज्ज्वलम् ॥ २४ ॥
एकादश्यामुपवसेद् द्वादश्यां पारणादिने ॥
शुक्लायां विष्णुमभ्यर्च्य वस्त्रालङ्करणादिभिः ।
अस्यां तिथौ तु मतिमान् वार्षिकोत्सवमाचरेत् ॥ २५ ॥
भोज्यानि बहुभक्ष्याणि ब्राह्मणेभ्यो निवेदयेत् ।
एवं कृते देवतास्य तुष्ट्या चेष्टं प्रयच्छति ॥ २६ ॥
सन्तं लोकमवाप्नोति पुनरावृत्तिवर्जितम् ।
मार्गशीर्षे यजेद्देवं नवान्नैर्व्यञ्जनैः शुभैः ।
नारिकेलफलक्षोदं मिश्रितं गुडजीरकैः ।
सुपक्वं देवराजाय भक्त्या तस्मै निवेदयेत् ॥ २७ ॥
पौषे मासि च मासं वै धृतैः पुष्पैः प्रपूजयेत् ।
ग्रहदोषं विजित्वाशु भूयान्नृपतिसन्निभः ॥ २८ ॥
माघे मासि यजेत्कृष्णमक्षतैः सगुडैः सितैः ।
दुग्धान्नं शर्करायुक्तं मिष्ठान्नञ्च निवेदयेत् ॥ २९ ॥
अस्मिन् मासि शुभदिने वस्त्रेणाच्छादयेद्विभुम् ।
फाल्गुने देवकीपुत्रं पूजयेत्स्वर्णपङ्कजैः ।
सुगन्धिकुसुमैर्धूपैर्दीपैस्तत्र सुविस्तरैः ॥ ३० ॥
चैत्रे मासि वासुदेवं सर्वपुष्पैः समर्चयेत् ।
पौर्णमास्यां यजेद्भक्त्या दमनैश्च सगुच्छकैः ।
अस्मिन् दिने रतिं कामं पूजयेद्भक्तितत्परः ।
नचेत् सांवत्सरी पूजा विफला तस्य जायते ॥ ३१ ॥
भस्मीभूतं स्मरं दृष्ट्वा रुदिता सा रतिः सती ।
तां दृष्ट्वा कृपयाविष्टो वरं दातुं शिवः स्वयम् ॥ ३२ ॥
प्रत्युवाच रतिं तेऽयं सुभगत्वमवाप्नुयात् ।
सुन्दरः सर्वलोकेषु क्रीडार्थं व्रजसुन्दरि ॥ ३३ ॥
ततोऽभूत्क्रन्दनजलात्पुष्पं दमनकं शुभम् ।
तेन पूजनमात्रेण संवत्सरफलं लभेत् ॥ ३४ ॥
होमयेल्लक्षमात्रं यः पिष्टकैर्धृतभर्जितैः ।
तावत्सङ्ख्यं मनुं जप्त्वा कृष्णं पश्यति मन्त्रवित् ॥ ३५ ॥
इति ते कथितं सम्यक्पूजनं वार्षिकोद्भवम् ।
कृत्वानेन विधानेन किं न सिध्यति भूतले ॥ ३६ ॥
श्रीविद्यापूजनम्
अथ श्रीविद्यापूजनम् -
ज्ञानार्णवे -
अथ वक्ष्ये महेशानि श्रीविद्यापूजनं महत् ।
ब्रह्महत्यादि दोषाणां प्रायश्चित्तमनुत्तमम् ॥ १ ॥
ब्रह्मपत्रैर्महेशानि पूजयेत्क्रममुत्तमम् ।
समस्तरश्मिसहितं नित्याम्नाय पुरस्कृतम् ॥ २ ॥
कुलाचारक्रमाद्देवि कर्पूरक्षोदमण्डितम् ।
मासमात्रेण देवेशि महापातककोटयः ।
जन्मान्तरकृता सर्वा नाशयेन्नात्र संशयः ॥ ३ ॥
लक्ष्मीस्तस्य गृहे वश्या सुस्थिरा सुरवन्दिते ।
जवापुष्पैर्महेशानि पूजयेत्पूर्ववच्छिवाम् ॥ ४ ॥
मासमात्रं क्रमेणैव तेनैव परमेश्वरीम् ।
ब्रह्महत्यादिपापानि पूर्वजन्मकृतानि च ।
नाशयेन्मात्र सन्देहो धनवान् जायते बुधः ॥ ५ ॥
केतक्यास्तरुणैः पुष्पैः पूर्ववत्पूजयेत् प्रिये ।
उपपातकसङ्घाश्च मासमात्रेण नाशयेत् ।
सौभाग्यमतुलं तस्य जायते नात्र संशयः ॥ ६ ॥
शतपत्रैर्मनोरम्यैः पूजयेन्मासमात्रकम् ।
पूर्ववत्परमेशानि सर्वं पापं प्रणाशयेत् ॥ ७ ॥
चम्पकैः सुमनोरम्यैः पूर्ववत्पूजयेच्छिवाम् ।
मासमात्रेण हन्त्येव शतजन्मजम् ।
सौभाग्यवान्भवेन्मन्त्री त्रिपुरायाः प्रसादतः ॥ ८ ॥
श्वेतपद्मैर्महादेवि महद्भिः पूजयेत्पराम् ।
पूर्वजं नाशयेत् पापं विंशजन्मकृतं प्रिये ।
मासमात्रेण सकलं मोक्षस्तस्य करे स्थितः ॥ ९ ॥
बन्धूककुसुमैर्देवि मासमात्रं प्रपूजयेत् ।
त्रैलोक्यं वशगं तस्य पूर्वपापं दहेन्नरः ॥ १० ॥
बिल्वपत्रैश्च लाजैश्च सदैव परिपूजयेत् ।
पूर्ववत्परमेशानि मासमात्रं प्रसन्नधीः ।
समृद्धिमान्भवेत् सोऽपि सर्वपापहरः सदा ॥ ११ ॥
मल्लिकामालतीपुष्पैः कुन्दैश्च शतपत्रकैः ।
श्वेतोत्पलसमुत्थैश्च पूजयेन्मासमात्रकम् ॥ १२ ॥
कुलाचारक्रमेणैव पातकः शतजन्मजम् ।
ब्रह्महत्यादिजनितं नाशयेन्नात्र संशयः ।
मुक्तिस्तस्य करे देवि वाचा जीवसमो भवेत् ॥ १३ ॥
अगस्त्यबाणबन्धूकजवारक्तोत्पलैः प्रिये ।
पूर्वक्रमेण सम्पूज्य मासमेकं प्रसन्नधीः ।
पातकं नाशयेन्मन्त्री साक्षात्कामसमो भवेत् ॥ १४ ॥
चम्पकैः पाटलैर्देवि बकुलैर्नागकेशरैः ।
कह्लारैः सिन्धुवारैश्च पूजयेत् पूर्ववत्क्रमात् ॥ १५ ॥
सौभाग्यमतुलं तस्य मासमात्रेण जायते ।
पापं विनाशयेद्देवि यदि जन्मसहस्रजम् ॥ १६ ॥
रविवारेऽरुणाम्भोजैः कुमुदैः सोमवारके ।
भौमे रक्तोत्पलैः सौम्यवारे तगरसम्भवैः ।
गुरुवारे च कह्लारैः शुक्रवारे सिताम्बुजैः ।
उत्पलैः शनिवारे च पूजयेदब्दमादरात् ।
निवेदयेत्क्रमोक्तेषु रविवारादिसप्तषु ।
पायसं दुग्दधकदली नवनीतं सिता घृतम् ।
एवमब्दं समाराध्य देवीं गन्धादिभिः क्रमात् ।
ग्रहपीडां विजित्याशु स सुखानि समश्नुते ॥ १७ ॥
ताराकाल्योर्मत्स्यसूक्ते -
अष्टम्याञ्च चतुर्दश्यां पूजयेच्च प्रयत्नतः ।
यद्यत्प्रार्थयते मन्त्री तत्तदाप्नोति नित्यशः ।
लभते मञ्जुलां वाणीं कृष्णाष्टम्यां सदा यजेत् ॥ १८ ॥
अत्र नित्यार्चनानन्तरं नैमित्तिकं कार्यम् ।
यत्र कालनियमो न दृश्यते तत्र मासार्द्धं मासं तद्द्विगुणं
वा मण्डलं नैमित्तिकानुष्ठानं कर्तव्यमिति ।
तथोक्तं रुद्रयामले -
मासार्द्धमथवा मासं द्विगुणं त्रिगुणं तथा ।
यावत् फलाप्तिमान्योगी तावदेवं समाचरेत् ॥ १९ ॥
अन्यत्रापि -
नैमित्तिके तथा काम्ये फलाप्तिर्मण्डलावधिः ।
नचेत् ।
तद्द्विगुणं कुर्यात् यथा स्यात्फलभाक्सुधीः ।
अष्टम्यां पूजनं देव्याः सर्वकामफलप्रदम् ।
रम्भाजातीबीजपूरं सुगन्धिपरिमिश्रितम् ।
मिश्रीकृत्य बलिं दद्यादष्टम्याञ्च विशेषतः ।
स्वर्णमालां महादेव्यै दद्याद्गन्धैर्विशेषतः ।
फलं क्षीरं तथा दद्यादधिकं शर्करान्वितम् ।
तस्मात्सर्वप्रयत्नेन सम्पत्यै पूजयेच्छिवाम् ।
फलञ्चाक्षयसिद्ध्यर्थं दद्याद्देव्यै प्रयत्नतः ॥ २० ॥
तथा नीलतन्त्रे -
अष्टम्याञ्च चतुर्दश्यां पूजयेच्च यथा विधि ।
आज्ञासिद्धिमवाप्नोति जवापुष्पञ्च वर्वराम् ।
चन्दनञ्चार्ककुषुमं दद्यात्श्वेतापराजिताम् ।
यस्तु सम्पूजयेद्दुर्गां महाष्टम्यां विशेषतः ।
जन्मत्रयर्जितं पापं तत्क्षणादेव नाशयेत् ।
दुर्गां तारिणीमिति प्रकरणानुमूलत्वात् ॥ २१ ॥
अथ प्रयोगविधिः -
सर्वप्रयोगे अयुतजपः ।
तथा च शारदायाम् -
अयुतं होमसङ्ख्या स्यात् जपस्तावान् प्रकीर्त्तितः ॥ २२ ॥
तत्रादौ भुवनेश्वरी प्रयोगः ।
तद्यथा -
मन्त्री त्रिमधुरोपेतैर्हुत्वाश्वत्थसमिद्वरैः ।
ब्राह्मणान् वशयेच्छीघ्रं पार्थिवान्पद्महोमतः ॥ २३ ॥
पलाशपुष्पैस्तत्पत्नीर्मन्त्रिणः कुमुदैरपि ।
पञ्चविंशतिसञ्जप्तैर्जलैः स्नानः दिने दिने ॥ २४ ॥
आत्मानमभिषिञ्चेद्यः सर्वसौभाग्यवान्भवेत् ।
पञ्चविंशतिसञ्जप्तं जलं प्रातः पिबेन्नरः ।
अवाप्य महतीं लक्ष्मीं कवीनामग्रणीर्भवेत् ॥ २५ ॥
तथा -
हुत्वा पलाशकुसुमैर्वाक्श्रियं लभते ध्रुवम् ।
ब्राह्मीघृतं१ पिबेद्यस्तु मूलमन्त्राभिमन्त्रितम् ।
कवित्वं लभते मन्त्री वत्सरान्नात्र संशयः ।
सिद्धार्थान् लवणोपेतान्हुत्वा मन्त्री वशं नयेत् ।
नरं नारीं नरपतिं नात्र कार्या विचारणा ॥ २७ ॥
अथ त्वरिता -
योनिकुण्डं प्रकल्प्याथ कुर्याद्धोमं यथेच्छया ।
मल्लिकाकुसुमैर्हुत्वा वशयेदखिलं जगत् ॥ २८ ॥
कृत्याद्रोहादिशमनं पलाशकुसुमैर्हुतम् ।
इक्षुदण्डैः शुभैर्हुत्वा महतीं वृद्धिमाप्नुयात् ॥ २९ ॥
दीर्घमायुरवाप्नोति दूर्वा होमेन साधकः ।
धान्यैः प्रक्षालितैर्हुत्वा श्रियमिष्टामवाप्नुयात् ॥ ३० ॥
अशोकैः पुत्रमाप्नोति मधुकैरिष्टमाप्नुयात् ।
फलैर्जम्बूद्भवैर्हुत्वा लभते धनमीप्सीतम् ॥ ३१ ॥
पुष्पैर्बकुलसम्भूतैः कीर्तिः स्यादनपायिनी ।
दीर्घमायुर्भवेदाम्रैश्चम्पकैः काञ्चनं लभेत् ॥ ३२ ॥
कुर्वीत सर्षपैर्होमं शत्रुनाशकरं सुधीः ।
पत्रैर्वकुलजैर्हुत्वा शीघ्रञ्चोत्सादयेदरीन् ॥ ३३ ॥
शाल्मली पत्रहोमेन सपत्नान्नाशयेद्ध्रुवम् ।
माषहोमेन मूकः स्यादुन्मत्तोऽक्षैर्भवेदरिः ॥ ३४ ॥
अथ दुर्गा -
वशयेत् तिलहोमेन नरान्नरपतीनपि ।
सिद्धार्थैर्जुहुयान्मन्त्री रोगान्मुच्येत तत्क्षणात् ॥ ३५ ॥
पद्मैर्हुत्वा जयेच्छत्रून्दूर्वाभिः शान्तिमाप्नुयात् ।
पलाशकुसुमैः पुष्टिं धान्यैर्धान्याश्रयं लभेत् ॥ २६ ॥
काकपक्षैः कृतो होमो द्वेषं वितनुयान्नृणाम् ।
मरीचहोमान्मरणं रिपुराप्नोति सर्वदा ॥ ३७ ॥
अथ सरस्वती -
पीत्वा तन्मन्त्रितं तोयं सहस्रं प्रत्यहं जपेत् ।
महाकविर्भवेन्मन्त्री वत्सरेण न संशयः ॥ ३८ ॥
उरोमात्रोदके स्थित्वा ध्यायेन्मार्तण्डमण्डले ।
स्थितां देवीं प्रतिदिनं त्रिसहस्रं मनुं जपेत् ।
लभते मण्डलात्सिद्धिं वाचामप्रतिमामपि ॥ ३९ ॥
पलाशबिल्वकुसुमैर्जुहुयान्मधुरोक्षितैः ।
समिद्भिर्वा तदुत्थाभिर्यशः प्राप्नोति वाक्प्ततेः ॥ ४० ॥
पलाशकुसुमैर्हुत्वा परां वाक्सिद्धिमाप्नुयात् ।
कदम्बकुसुमैस्तद्वत्फलैः श्रीफलसम्भवैः ।
अचिरात्श्रियमाप्नोति वाचां कुन्दसमुद्भवैः ।
नन्द्यावर्तप्रसूनैर्वा हुत्वा वाग्वल्लभो भवेत् ॥ ४१ ॥
अथ लक्ष्मीः -
यथा -
वक्षःप्रमाणे सलिले स्थित्वा मन्त्रमिमं जपेत् ।
त्रिलक्षं सञ्जपेन्मन्त्री देवीं ध्यात्वार्कमण्डले ।
स भवेदल्पकालेन रमाया वसतिः स्थिरा ॥ ४२ ॥
आराध्योत्तरनक्षत्रे देवीं स्रक्चन्दनादिभिः ।
नन्द्यावर्तभवैः पुष्पैः सहस्रं जुहुयात् ततः ।
पौर्णमास्यां फलैर्बिल्वैर्जुहुयान्मधुराप्लुतैः ।
पञ्चम्यां विशदाम्भोजैः शुक्रवारे सुगन्धिभिः ।
अन्यैर्वा विशदैः पुष्पैः प्रतिमासं विशालधीः ।
स भवेदब्दमात्रेण सर्वदा सम्पदां निधिः ॥ ४३ ॥
शालिभिर्जुह्वतो नित्यमष्टोत्तरसहस्रकम् ।
अचिरादेव महती लक्ष्मीः सञ्जायते ध्रुवम् ॥ ४४ ॥
जवापुष्पाणि जुहुयादष्टोत्तरसहस्रकम् ।
गृहीत्वा प्रजपेद्भस्म नागवल्लीरसान्वितम् ।
तिलकं धारयेत्तेन सर्ववश्यकरं भवेत् ।
नागवल्ली पर्णम् ॥ ४५ ॥
अथ गणेशः -
तर्पयेत्सलिलैः शुद्धैर्दिनशो गणनायकम् ।
चतुश्चत्वारिंशदाढ्यं चतुःशतमतन्द्रितः ।
प्राप्नुयान्मण्डलादर्वागभीष्टमाधिकं नरः ॥ ४६ ॥
नारिकेलैः कृतो होमश्चतुर्थ्यां श्रीपदो भवेत् ।
शुक्लपक्षे प्रतिपदमारभ्य दिनशः सुधीः ।
चतुर्थ्यन्तं नारिकेलशक्तुलाजतिलैः क्रमात् ।
चतुःशतं प्रजुहुयाद्वश्याः स्युः सर्वजन्तवः ॥ ४७ ॥
सतिलैस्तण्डुलैर्होमश्चतुर्थ्यां श्रीपदो भवेत् ।
पद्महोमेन भूपालांस्तत्पत्नीरुत्पलैः शुभैः ।
मन्त्रिणः कुमुदैः पुष्पैर्विप्रान् पिप्पलसम्भवैः ।
समिद्वरैर्नरपतीनुडुम्बरसमुद्भवैः ।
प्लक्षैर्वैश्यान् वटोद्भूतैः शूद्रान्मत्री वशं नयेत् ॥ ४८ ॥
मधुना स्वर्णलाभः स्याद्गोदुग्धेन लभेत गाः ।
आज्यहोमेन महतीं श्रियमाप्नोति मानवः ।
दया सर्वसमृद्धिः स्यादन्नैरन्नपतिर्भवेत् ॥ ४९ ॥
अथ सूर्यः -
यथा -
एवं सम्पूज्य विधिवद्भास्करं भक्तवत्सलम् ।
दद्यादर्घ्यं प्रतिदिनं वारे वा तस्य चोदिते ।
प्रभाते मण्डलं कृत्वा पूर्ववत्पीठमर्चयेत् ।
पात्रं ताम्रमयं प्रस्थतोयग्राहि मनोहरम् ।
निधाय तत्र मनुना पूरयेत् तच्छुभोदकैः ।
कुङ्कुमं रोचनाराजीरक्तचन्दनकैरवान् ।
करवीरजवाशालिकुशश्यामाकतण्डुलान् ।
निक्षिपेत्सलिले तस्मिन्नैक्यं सम्भाव्य भानुना ।
साङ्गमभ्यर्चयेत् तस्मिन् भास्करं प्रोक्तलक्षणम् ।
गन्धपुष्पादिनैवेद्यैर्यथाविधि विधानवित् ।
अपिधाय जपेन्मन्त्रं सम्यगष्टोत्तरः शतम् ॥ ५० ॥
पुनः सम्पूज्य गन्धाद्यर्जानुभ्यामवनीं गतः ।
आमस्तकं समुद्धृत्य व्योम्नि सावरणे रवौ ।
दृष्टिं निधाय ऐक्येन मूलमन्त्रं जपन् ।
दयादर्घ्यं दिनेशाय प्रसन्नेनान्तरात्मना ।
दत्त्वा पुष्पाञ्जलिं भूयो जपेदष्टोत्तरं शतम् ।
यावदर्घ्यामृतं भानुः समादत्ते निजैः करैः ।
तेन तृप्तो दिनमणिर्दद्यात्तस्मै मनोरथान् ॥ ५०-क ॥
अर्घ्यदानमिदं पुंसामायुरारोग्यवर्द्धनम् ।
धनधान्यपशुक्षेत्रपुत्रमित्रकलत्रदम् ।
तेजोवीर्यशःकान्तिविद्याविभवभाग्यदम् ॥ ५१ ॥
अथ श्रीरामः -
जातीप्रसूनैर्जुहुयादिन्दिरावाप्तये नरः ।
जातीप्रसूनैर्जुहुयाच्चन्दनाम्भः समुक्षितैः ।
राजवश्याय कमलैर्धनधान्यादिसम्पदे ।
नीलोत्पलानां होमेन वशयेदखिलं जगत् ॥ ५२ ॥
विल्बप्रसूनैर्जुहुयादिन्दिरावाप्तये नरः ।
दूर्वाहोमेन दीर्घायुर्भवेन्मन्त्री निरामयः ॥ ५३ ॥
रक्तोत्पलहुतान्मन्त्री धनमाप्नोति वाञ्छितम् ।
मेधाकामेन होतव्यं पलाशकुसुमैर्नवैः ॥ ५४ ॥
तज्जप्तमम्भः प्रपिवेत्कविर्भवति वत्सरात् ।
तन्मन्त्रितान्नं भुञ्जीत महदारोग्यमाप्नुयात् ॥ ५५ ॥
अथ श्रीकृष्णः
अथ प्रयोगान्वक्ष्यामि मन्त्रयोरुभयोः समान् ।
यान्कृत्वा साधकवरो लोकत्रयप्रपूजितः ॥ ५६ ॥
वन्दे तं देवकीपुत्रं सद्योजाताम्बुदप्रभम् ।
शङ्खचक्रगदापद्मधारिणं वनमालिनम् ।
एवं ध्यात्वा मनुवरं लक्षं ब्राह्ममुहूर्तके ।
जप्त्वा मेधां परां प्राप्य कवीनामग्रणीर्भवेत् ॥ ५७ ॥
अथवा स्फटिकाभासं लेखपुस्तकधारिणीम् ।
तं विचिन्त्य जपेल्लक्षं मूलं ब्राह्ममुहूर्तके ।
जप्त्वा मन्त्री त्रिकालज्ञो वृहस्पतिसमो भवेत् ॥ ५८ ॥
चलद्गोचारणं बालं ध्यायन्ब्राह्ममुहूर्तके ।
जप्त्वा मनुवरं विद्वान् सर्वशास्त्रार्थविद्भवेत् ।
सर्ववेदार्थकुशलो ज्ञानवान्भवति ध्रुवम् ॥ ५९ ॥
नन्दाङ्गने पर्यटन्तं धूलीनिचयधूसरम् ।
दीप्तमणिगणोद्दिप्तं यशोदालोचनोत्सुकम् ।
एवं ध्यात्वा मनुवरं जपेन्नियममास्थितः ।
लक्षैकजपनादस्य किं न सिध्यति भूतले ॥ ६० ॥
प्रातः प्रातः पिबेत्तोयमष्टोत्तरशतं जपन् ।
अत्यन्तमूको दुष्टात्मा जडः पाषाणवत्तथा ।
अनेन जलपानेन साक्षाद्वाक्पतिसन्निभः ।
जायते नात्र सन्देहः सत्यं सत्यं न चान्यथा ॥ ६१ ॥
पद्म्यां निक्षिप्य शकटं रुदन्तं प्राकृतं यथा ।
लक्षं जप्यादिति ध्यात्वा आपद्भ्यो मुच्यते ध्रुवम् ॥ ६२ ॥
शत्रुतो न भयं तस्य राजतो दस्युतोऽपि वा ।
न तस्य विद्यते भीतिः कदाचिदपि सुव्रत ॥ ६३ ॥
नित्यं कर्मरतं कृष्णं वन्यैः पुष्पैः समर्चयेत् ।
वश्या भवन्ति सर्वे च ब्राह्मणा नात्र संशयः ॥ ६४ ॥
गोपालवेशं मनसा जातीपुष्पैः समर्चयेत् ।
वश्या भवन्ति राजानो नात्र कार्या विचारणा ॥ ६५ ॥
तमालोद्भवपुष्पैश्च वैश्या वश्या भवन्ति हि ॥ ६६ ॥
नीलोत्पलैश्च शूद्राश्च मासं कृष्णं समर्चयेत् ।
जुहुयाद्रक्तपुष्पैश्च मिश्रितैस्तिलतण्डुलैः ।
मन्त्रेणाष्टसहस्रन्तु जप्त्वा तद्भस्म धारयेत् ।
ललाटे विधृते तस्य सर्वे वश्या भवन्ति हि ॥ ६७ ॥
अनेन च शरीरेण राजानो वश्यतामियुः ।
स्त्रियो वश्या भवन्त्यत्र पुत्रमात्याश्च सर्वथा ॥ ६८ ॥
विवाहार्थी जपेन्मन्त्रं मासमष्टसहस्रकम् ।
रासमण्डलमध्यस्थं कृष्णं ध्यात्वा व्रजे स्थितम् ।
विवाहयेदुत्तमाङ्गीं कन्यां सर्वगुणोज्ज्वलाम् ।
पुत्रं मे रक्ष रक्षेति द्विजेन प्रार्थितो हरिः ।
हृतपुत्रं समाहृत्य ददौ यस्तं विचिन्तयेत् ॥ ६८ ॥
पुत्रकामो लभेत्पुत्रं मासेनैकेन सुन्दरम् ।
दीर्घायुरप्रतिहतबलवीर्यसमन्वितम् ॥ ७० ॥
कुन्दपुष्पैः समाराध्य कृष्णुं ध्यायेच्च कन्यका ।
मासद्वयं तथा मन्त्रं जपेदष्टसहस्रकम् ।
मनोरथपतिं लब्ध्वा दीर्घकालञ्च क्रीडति ॥ ७१ ॥
अञ्जनं कुसुमं वस्त्रं ताम्बूलं चन्दनं तथा ।
अन्यान्यप्युपभोग्यानि स्पृष्ट्वा मन्त्रं शतं जपेत् ।
दीयते यस्य यस्येति सोऽचिराद्दासवद्वशी ॥ ७२ ॥
स्त्रियो वश्या अनेनैव भवन्ति मुनिसत्तम ।
पुरुषं वशयेन्नारी अनेनैव विधानतः ॥ ७३ ॥
अन्नाद्यकामः श्रीपुष्पैः सिततण्डुलमिश्रितेः ।
अष्टोत्तरसहस्रन्तु जुहुयादन्नवान् भवेत् ॥ ७४ ॥
विश्वरूपधरं ध्यात्वा शतमष्टोत्तरं जपेत् ।
समाहितमना मन्त्री यशोऽर्थी कीर्तिमाप्नुयात् ।
भूतप्रेतपिशाचादि-स्कन्दादिग्रहपीडितः ।
पूतनास्तनपातारं ध्यात्वा मन्त्रं शतं जपेत् ॥ ७६ ॥
प्रणश्यन्ति ग्रहा दुष्टाः पलायन्ते इतस्ततः ।
सर्पमण्डलदष्टे च मूषिकाद्यैश्च दंशिते ।
कृष्णं कालियदमनं चिन्तयित्वा जपेन्नरः ।
तर्जयन्तं विषं घोरं हूङ्कारेण विनाशयेत् ॥ ७७ ॥
अत्रापान्यमनुं वक्ष्ये बीजाद्यं शृणु तत्त्वतः ।
कालियस्य फणामध्ये दिव्यं नृत्यं करोति तम् ।
नमामि देवकीपुत्रं नृत्यराजानमच्युतम् ॥ ७८ ॥
ज्वरार्तोऽभ्यर्चयेन्मन्त्री जपेदष्टशत तथा ।
ज्वरेण ॥
संस्तुतं कृष्णं बलप्रद्युम्नसंयुतम् ।
दहन्तं वाणनगरीं गरुडोपरिसंस्थितम् ।
नजज्वरेण सम्पिष्टं ध्यात्वा नाशयते क्षणात् ।
शीतलाकामलादीनि तथा चतुर्थिक ज्वरान् ।
प्लीहगुल्मषकृद्वायुनपस्मारभयं तथा ।
नाशयेन्नात्र सन्देहो दृष्टिमात्रेण मान्त्रिकः ॥ ७९ ॥
गोपालजुष्टपादञ्च वेणुमादाय संस्थितम् ।
ध्यात्वा कृष्णं जपेन्मन्त्रं पशुमान स तु मासतः ।
राज्ञः पुरोधा भवितुमिति यस्य मतिर्भवेत् ।
मधुसिक्तैः सितैः पुष्पैर्हुत्वा तन्मण्डलाल्लभेत् ।
महैश्वर्यमथ प्राप्य विश्वख्यातो भवेद्ध्रुवम् ॥ ८० ॥
गोवर्धनधरं कृष्णं ध्यात्वा मन्त्रं जपेन्नरः ।
वातवर्षादिभिर्घोरैर्भये सम्यगुपस्थिते ।
भयमाशु विनश्येत् तु नात्र कार्या विचारणा ॥ ८१ ॥
वृन्दावनगतं कृष्णं वृष्टिकामो विचिन्तयन् ।
जपेदष्टसहस्रन्तु वृष्टिमाप्नोत्यसंशयम् ।
एवञ्च मनसा ध्यात्वा वृष्टिं वर्षासु चाहरेत् ॥ ८२ ॥
एवं जलाशये ध्यात्वा जपेदष्टसहस्रकम् ।
वृष्टिर्भवत्यकालेऽपि महती नात्र संशयः ॥ ८३ ॥
गायन्तं वेणुना कृष्णं गानकामो विचिन्तयन् ।
आज्यमष्टशतं हुत्वा किन्नरैः सह गीयते ॥ ८४ ॥
जयकामो जपेद्यस्तु हरन्तं कल्पकद्रुमम् ।
संस्तुतं देवताभिश्च गरुडारूढमच्युतम् ।
ध्यात्वा रक्तकरवीरसमिद्भिर्जुहुयाद्वशी ।
अष्टोत्तरसहस्रन्तु साक्षात्पराजितो रिपुः ।
राजादिभयमापन्ने संशये दुर्गसंसदि ।
हुत्वा दशसहस्रन्तु तत्क्षणान्नाशयेद्ध्रुवम् ॥ ८५ ॥
नीलोत्पलादिभिर्हुत्वा अष्टोत्तरसहस्रकम् ।
शङ्खादिनिधिसंयुक्तं द्वारकामध्यगं हरिम् ।
ध्यात्वा तण्डुलदूर्वाभिर्हुत्वा शान्तिकमाहरेत् ॥ ८६ ॥
कदम्बमूले गायन्तं गोपालं वनमालिनम् ।
कदम्बकुसुमैर्जुष्टं चिन्तयित्वा जनार्दनम् ।
अपामार्गदलैर्हुत्वा अष्टोत्तरसहस्रकम् ।
सर्वान् लोकान् वशीकृत्य आशु विज्ञो भविष्यति ॥ ८७ ॥
राजद्वारे सभायाञ्च व्यवहारे च मन्त्रवित् ।
शतमष्टोत्तरं जप्त्वा प्रथमं वाक्यमुच्चरेत् ।
अनेनैव विधानेन सर्वत्र विजयी भवेत् ॥ ८८ ॥
मोक्षकामो जपेद्ययस्तु पुण्डरीकाक्षमव्ययम् ।
सनकादिस्तुतं कृष्णं शुक्लाम्बरधरं प्रभुम् ।
शङ्खचक्रधरं ध्यात्वा मन्त्रं लक्षं जपेन्नरः ।
तारसम्पुटितं कृत्वा विधिवत् स्थानमाश्रितः ।
चक्राब्जमण्डले कृष्णं पूजयेद्भक्तिमावहन् ।
संसारसागरात्सद्यो मुच्यते नात्र संशयः ॥ ८९ ॥
अथ दधिवामनः -
पायसान्नेन जुहुयात्सहस्रं श्रियमाप्नुयात् ।
धान्यहोमेन धान्याप्तिः शतपुष्पसमुद्भवैः ।
बीजैः सहस्रसङ्ख्यातैर्होमो भयविनाशनः ॥ ९० ॥
दध्योदनेन शुद्धेन हुत्वा मुच्येत दुर्गतेः ।
स्मृत्वा त्रैविक्रमं रूपं जपेन्मन्त्रमनन्यधीः ।
मुक्तो बन्धाद्भवेत्सद्यो नात्र कार्या विचारणा ॥ ९१ ॥
अथ हयग्रीवः -
बिल्वै फलैः कृतो होमः श्रीपदः परिगीयते ।
कुन्दपुष्पाणि जुहुयादिच्छन वाक्श्रियमव्ययम् ।
मनुनानेन सञ्जप्तं घृतं ब्राह्मीरसैः शृतम् ।
कवितामाहरेत् पुंसामनर्गलविजृम्भिणीम् ।
वचामनेन सञ्जप्तां भक्षयेत् प्रातरन्वहम् ।
सर्ववेदागमादीनां व्याख्याता जायतेऽचिरात् ॥ ९२ ॥
अथ नृसिंहः
अथ पुष्पैर्जुहुयान्मन्त्री बिल्वकाष्ठैधितेऽनले ।
सहस्रं श्रियमाप्नोति पत्रैर्वा बिल्वसम्भवैः ।
श्रीपुष्पं लवङ्गपुष्पम् ॥ ९३ ॥
प्रसूनैर्वा फलैस्तद्वत् दूर्वाहोमादरोगिताम् ।
दुःस्वप्ने निशि सञ्जाते स्नात्वा मन्त्रं शतं जपेत् ।
अनिद्रो मन्त्रवित्पश्चात्सुस्वप्नस्तस्य जायते ॥ ९४ ॥
व्याघ्रचौरमृगादिभ्यो महारण्ये भयाकुले ।
रक्षेन्मनुरयं जप्तो भयेष्वन्येषु मन्त्रिणम् ।
अनेन मन्त्रितं भस्म विषग्रहमहोरगान् ।
नाशयेदचिरादेव मन्त्रस्यास्य प्रभावतः ॥ ९५ ॥
घोराभिचारे सोन्मादे महोत्पाते महाभये ।
जपेन्मन्त्रं स्मरेदेनं दुःखान्मुक्तो भवेन्नरः ॥ ९६ ॥
सिंहरूपं महाभीमं नखदंष्ट्रातिभीषणम् ।
स्मृत्वात्मानं विभुं पश्चाद्ध्यायेन्मृगशिशुं रिपुम् ।
गृहीत्वा गलदेशे तं पुनर्दिक्षु क्षिपेद् द्रुतम् ।
पुत्रमित्रकलत्रादेरुच्चाटो जायते रिपोः ॥ ९७ ॥
पूर्वमृत्युपदे साध्यनाम कृत्वा स्वयं हरिः ।
निशितैर्नखदंष्ट्राद्यैः खाद्यमानं रिपुं स्मरन् ।
नित्यमष्टोत्तरशतं जपेन्मन्त्रमतन्द्रितः ।
जायते मण्डलादर्वाक्शत्रुसेनानिवारणम् ॥ ९८ ॥
विभीतकाष्ठैर्ज्वलिते पावके रिपुमर्दनम् ।
विचिन्त्य देवं नृहरिं सम्पूज्य कुसुमादिभिः ।
समूललुनैर्जुहुयाच्छरैर्दशशतं पृथक् ।
रिपुं खादन्निव जपेन्निर्भिन्दन्निव निक्षिपेत् ।
कृत्वा सप्तदिनं मन्त्री सेनामिष्टां महीपतेः ।
प्रस्थापयेच्छुभे लग्ने परराष्ट्रजयेच्छया ।
तस्याः पुरस्तान्नृहरिं निघ्नन्तं रिपुमण्डलम् ।
स्मृत्वा प्रयोगं कुर्वीत यावदायाति सा पुनः ।
विजित्य निखिलान् शत्रून् सह वीरश्रिया सुखम् ।
अगत्त विजयी राजा ग्रामक्षेत्रधनादिभिः ।
प्रीणयेन्मन्त्रिणं सम्यग्विभवैः प्रीतमानसः ।
मन्त्री यदि न सन्तुष्येदनर्थः स्यान्महीपतेः ॥ ९९ ॥
अथ वराहः -
रवौ सिंहगतेऽष्टम्यां शुक्लपक्षे सितां शिलाम् ।
पञ्चगव्येषु निक्षिप्य स्पृष्ट्वा तामयुतं जपेत् ।
उत्तराभिमुखो भूत्वा तां शिलां निखनेद्भुवि ।
शत्रुचौरमहाभूतैः कृत्वांवाधां विनाशयेत् ॥ १०० ॥
भानूदये भौमवारे साध्यक्षेत्रात्समाहरेत् ।
मृत्तिकां सञ्जपन्मन्त्रं तं पुनर्विभजेत् त्रिधा ।
चुल्ल्यामेकां समालिख्य पाकपात्रे तथा पराम् ।
गोदुग्धे परमालोड्य शोधितांस्तण्डुलान् क्षिपेत् ।
शोधितेऽग्नौ पचेत्सम्यक् चरु मन्त्री जपन्मनुम् ।
अवतार्य चरुं पश्चादग्नौ देवं यथाविधि ।
धूपदिपादिकैरिष्ट्वा पुनराज्यप्लुतं चरुम् ।
जुहुयादेधिते वह्नौ यावदष्टोत्तरं शतम् ।
एवं सप्तारवारेषु जुहुयात् क्षेत्रसिद्धये ॥ १ ॥
प्रातःकाले भृगोर्वारे मृदं साध्यमहीतलात् ।
आदाय हरिरापाद्य पूर्ववज्जुहुयात्सुधीः ।
विरोधो नश्यति क्षेत्रे सह चौराद्युपप्ल्वैः ॥ २ ॥
राजवृक्षसमुत्थाभिः समिद्भिर्मनुनामुना ।
त्रिसहस्रं प्रजुहुयात् तस्य स्युः सर्वसम्पदः ।
शालिभिर्जुहुयान्मन्त्री नित्ममष्टोत्तरं शतम् ।
समृद्धिर्धान्यसङ्घातैः शोभते तस्य मन्दिरम् ।
तावदाज्येन जुहुयान्मण्डलात्स्वर्णमाप्नुयात् ॥ ३ ॥
अथ मृत्युञ्जयः -
दुग्धसिक्तैः सुधाखण्डैर्मन्त्री मासं सहस्रकम् ।
आराधितेऽग्नौ जुहुयाद्विधिवद्विजितेन्द्रियः ।
सुधाखण्डं गुडूचिः ।
सन्तुष्ट शरङ्कस्तेन सुधाप्लावितविग्रहः ।
आयुरारोगसम्पत्तिर्यशः पुत्रान् विवर्द्धयेत् ॥ ४ ॥
सुधा वटतिला दूर्वा पयः सर्पिः पयो हविः ।
इत्युक्तैः सप्तभिर्द्रव्यैर्जुहुयात्सप्तवासरम् ।
क्रमाद्दशशतं नित्यमष्टोत्तरमतन्द्रितः ।
सप्ताधिकान् द्विजान्नित्यं भोजयेन्मधुरान्वितम् ।
विकारानुगुणं मन्त्री वर्द्धयेद्धोमवासरान् ।
गुरवे दक्षिणां दद्यादरुणा गाः पयस्विनीः ।
गुरुं सम्पूज्येत् पश्चाद्धनाद्यैर्देवताधिया ।
अनेन विधिना साध्यः कृत्याद्रोहादिभिस्ततः ।
विमुक्तः सुचिरं जीवेच्छरदां शतमञ्जसा ॥ ५ ॥
अभिचारे ज्वरे तीव्रे घोरोन्मादे शिरोगदे ।
असाध्यरोगे क्ष्वेडार्तो मोहे दाहे महाभये ।
होमोऽयं शान्तिदः प्रोक्तः सर्वसम्पत्प्रदायकः ।
द्रव्यैरेतैः प्रजुहुयात् त्रिजन्मसु यथाविधि ।
भोजयेन्मधुरैर्भोज्यैर्ब्राह्मणान् वेदपारगान् ।
दीर्घमायुरवाप्नोति वाञ्छितां विन्दते श्रियम् ॥ ६ ॥
एकादशाहुतीर्नित्यं दूर्वाभिर्जुहुयाद्बुधः ।
अपमृत्युजिदेव स्यादायुरारोग्यवर्द्धनः ॥ ७ ॥
त्रिजन्मषु सुधावल्लीकाश्मीरवकुलोद्भवैः ।
समिद्वरैः कृतो होमः सर्वमृत्युगदापहः ॥ ८ ॥
सिद्धार्थैर्विहितो होमो महाज्वरविनाशनः ।
अपामार्गसमिद्धोमः सर्वामयनिसूदनः ॥ ९ ॥
अथ दक्षिणामूर्तिः -
भिक्षाहारो जपेन्मासं मनुमेनं जितेन्द्रियः ।
नित्यं सहस्रमष्टोर्ध्वं परां विन्दति वाक्श्रियम् ।
त्रिवारं जप्तमेतेन मनुना सलिलं पिबेत् ।
नित्यशो दक्षिणामूर्ति ध्यायेत्साधकसत्तमः ।
शास्त्रव्याख्यानसामर्थ्यं लभते वत्सरान्तरे ॥ १० ॥
ब्राह्मी सैन्धवसिद्धार्थवचाकुष्ठकणोत्पलैः ।
सुगन्धिसंयुतैः कल्कैः शृतं ब्राह्मीरसैर्घृतम् ।
मनुनानेन सञ्जप्तमयुतं साधु साधितम् ।
निपीतं कविता-कान्ति-बलायुः-श्रीधृतिप्रदम् ॥ ११ ॥
अथ भैरवी -
जुहुयादरुणाम्भोजैरदोषैर्मधुराप्लुतैः ।
लक्षसङ्ख्यं तदूर्ध्वं वा प्रत्यहं भोजयेद् द्विजान् ।
वनिता युवती रम्याः प्रीणयेद्देवता धिया ।
होमान्ते धनधान्याद्यैस्तोषयेद्गुरुमात्मनः ।
एवं कृते जगद्वश्यो रमाया भवनं भवेत् ॥ १२ ॥
रक्तोत्पलैस्त्रिमध्वक्तैररुणैर्वा हयारिजैः ।
पुष्पैः पयोऽन्नैः सघृतैर्होमाद्विश्वं वशं नयेत् ॥ १३ ॥
वाक्सिद्धिं लभते मन्त्री पलाश कुसुमैर्हुताम् ।
कर्पूरागुरुसंयुक्तं गुग्गुलुं जुहुयात्सुधीः ।
ज्ञानं दिव्यमाप्नोति तेनैव स भवेत्कविः ।
क्षीराक्तैरमृताखण्डैर्होमः सर्वापमृत्युजित् ।
दूर्वाभिरायुषे होमः क्षीराक्ताभिर्दिनत्रयम् ।
गिरिकर्णीभवैः पुष्पैर्ब्राह्मणान् वशयेद्ध्रुवम् ॥ १४ ॥
कह्लारैः पार्थिवान् पुष्पैस्तद्वधूः कर्णिकारजैः ।
मालतीकुसुमैर्हुत्वा तत्पुत्रांश्च वशं नयेत् ॥ १५ ॥
कोरण्टकुसुमैर्वैश्यान् वृषलान् पाटलोद्भवैः ।
अनुलोमविलोमान्तःस्थित-साध्याह्वयान्वितम् ।
मन्त्रमुच्चार्य जुहुयान्मन्त्री मधुरलोडितैः ।
सर्षपैः कटुसम्मिश्रैर्वशयेत् पार्थिवान् क्षणात् ॥ १६ ॥
अनेनैव विधानेन तत्पत्नीं तत्सुतानपि ।
जातीविल्वफलैः पुष्पैर्मधुरत्रयसंयुतैः ।
नरनारीनरपतीन् होमतो वशयेद्ध्रुवम् ॥ १७ ॥
मालतीवकुलोद्भूतैः पुष्पैश्चन्दनलोडितैः ।
जुहुयात् कवितां मन्त्री लभते वत्सरान्तरे ।
मधुरत्रयसंयुक्तैः फलैर्विल्वसमुद्भवैः ।
जुहुयाद्वशयेल्लोकान् श्रियमाप्नोति वाञ्छिताम् ।
पाटलैः कुसुमैः कुन्दैश्चोत्पलैर्नागचम्पकैः ।
नन्द्यावर्तैर्विकसितैः कृतमालैर्जुहोति यः ।
जायते वत्सरादर्वाक्श्रिया विजितपार्थिवः ॥ १९ ॥
साज्यमन्नं प्रजुहुयाद्भवेदन्न समृद्धिमान् ।
कस्तूरीकुङ्कुमोपेतं कर्पूरं जुहुयाद्वशी ।
कन्दर्पादधिकं सद्यः-सौन्दर्यमधिगच्छति ॥ २० ॥
लाजान् प्रजुहुयान्मन्त्री दधिक्षीरधृतप्लुतान् ।
विजित्य रोगानखिलान् स जीवेच्छरदां शतम् ॥ २१ ॥
पादद्वयं मलयजं पादं कुङ्कुमकेशरम् ।
पादं गोरोचनायाश्च त्रीणि पिष्ट्वाहिमाम्भसा ।
विदध्यात्तिलकं भाले यान् पश्येद्यैर्विलोक्यते ।
यान् स्पृशेत्स्पृश्यते यैर्वा वश्याः स्युस्तस्य तेऽचिरात् ॥ २२ ॥
कर्पूर कपिचोराणि समभागानि कल्पयेत् ।
चतुर्भागजटामांसी तावती रोचना मता ।
कुङ्कुमं सप्तभागं स्याद्विभागं चन्दनं मतम् ।
अगुरुर्नवभागः स्यादिति भगक्रमेण च ।
हिमाद्भिः कन्यकापिष्टमेतत्सर्वं सुसाधितम् ।
आदाय तिलकं भाले कुर्याद् भूमिपतीन्नरान् ।
वनिता मदगर्वाढ्यां मदोन्मत्तान्मतङ्गजान् ।
सिंहव्याघ्रान् महासत्वान् भूतवेतालराक्षसान् ।
दर्शनादेव वशयेन्नात्र कार्या विचारणा ॥ २३ ॥
अथ सुन्दरी -
ज्ञानार्णवे -
मल्लिका-मालती-जाती-कुसुमैर्मधुमिश्रितैः ।
घृतपूर्णैर्हुनेद्देवि वागीशत्वं प्रजायते ।
मूकस्यापि हि मूढस्य शिलारूपस्य नान्यथा ॥ २४ ॥
जवापुष्पैराज्यसिक्तैः करवीरैस्तथाविधैः ।
हवनान्मोहयेन्मन्त्री लोकत्रयनिवासिनः ॥ २५ ॥
कर्पूरं कुङ्कुमं देवि मिश्रं मृगमदेन हि ।
हवनान्मदनो देवि मन्त्रिणा विजितो भवेत् ।
सोभाग्येन विलासेन समर्थ्येनापि सुव्रते ॥ २६ ॥
चम्पकैः पाटलेर्हुत्वा श्रियं प्रोल्लसिताम्बराम् ।
प्राप्नोति मन्त्री महतीं स्तम्भयेज्जगतीमिमाम् ॥ २७ ॥
श्रीखण्डं गुग्गुलुं चन्द्रमगुरं होमयेत्ततः ।
नागेन्द्रासुरदेवानां पुरन्ध्रीर्वशमानयेत् ॥ २८ ॥
सर्वलोकावशास्तस्य भवन्त्येव न संशयः ।
लक्षहोमालभेद्राज्यं दारिद्र्यभय पीडितः ।
दुर्गोपशमनं देवि पलत्रिमधुहोमतः ।
रुधिराक्तेन छागस्य मांसेन निशि होमतः ।
मधुरत्रयक्तेन गुरुणोक्तविधानतः ।
परराष्ट्रं महादुर्गं समस्तं स्ववशं नयेत् ॥ २९ ॥
गोक्षीरं मधुदध्याज्यं पृथग्घुत्वा वरानने ।
आयुर्वलमथारोग्यं समृद्धिर्जायते नृणाम् ॥ ३० ॥
क्रमेण शैलजे क्षीरमधुभ्यां मृत्युनाशनम् ।
दधिमाक्षिकहोमेन सौभाग्यं धनमाप्नुयात् ॥ ३१ ॥
सितया केवलं वैरिस्तम्भनकारकः ।
होमो दधिमधुक्षीरलाजैश्च वीरवन्दिते ।
कालहन्ता रोगहन्ता मृत्युहन्ता न संशय ॥ ३२ ॥
कमलैररुणैर्होमः सम्यक्सम्पत्तिदायकः ।
रक्तोत्पलैर्जगद्वश्यं राजानो वशगाः क्षणात् ॥ ३३ ॥
नीलोत्पलैर्महादुष्टा वशमायान्ति नान्यथा ।
श्वेतोत्पलैः श्रियं वाचं लभते हवनात्प्रिये ॥ ३४ ॥
तथा -
अक्षमालां प्रपूज्याथ चन्दनेन सुपूजिताम् ।
समाश्रित्य जपेद्विद्यां लक्षमात्रं सदा शुचिः ।
योषितो भ्रामयन्त्येव मनस्तस्य सुनिश्चितम् ।
तदा द्वितीयलक्षन्तु प्रजपेत्साधकोत्तमः ।
पातालतल नागेन्द्रकन्यकाः क्षोभयन्ति तम् ।
तासां कटाक्षमात्रेण सम्मोहयति साधकम् ।
तदा लक्षत्रयं कुर्यात्साधकः स्थिरमानसः ।
तृतीयलक्षे सञ्जप्ते भ्रामयन्ति सुराङ्गनाः ॥ ३६ ॥
अभिमानेन सौन्दर्यसौभाग्यमदकारिणा ।
साधकं भ्रामयन्त्येव तत्रासौ स्थिरमानसः ॥ ३७ ॥
तदा लक्षत्रयं साधु सर्वपापनिकृन्तनम् ।
एवं लक्षत्रयं जप्ते साधकः सुस्थमानसः ।
सम्मोहयति स्वर्लोकभूर्लोकतलवासिनः ।
पुरुषा योषितो वश्याश्चराचरमपि प्रिये ॥ ३८ ॥
गोरचनादिभिर्द्रव्यैश्चक्रराजं समालिखेत् ।
अतीवसुन्दरीं रम्यां तन्मध्ये प्रतिमां वराम् ।
ज्वलन्तीं नामसहितां महाबीजविदर्भितान् ।
चिन्तयेत् तु ततो देवीं योजनानां सहस्रतः ।
अदृष्टपूर्वा देवेशि श्रुतमात्रापि दुर्लभा ।
राजकन्याथवा भार्या भयलज्जाविवर्जिता ।
आयाति साधकं सम्यक्मन्त्रमूढा सती प्रिये ॥ ३९ ॥
चक्रमध्यगतो भूत्वा साधकश्चिन्तयेत् सदा ।
उद्यद्भानुसहस्राभमात्मानमरुणं तथा ।
साध्मप्यरुणीभूतं चिन्तयेत्परमेश्वरि ।
अनेन क्रमयोगेन स्वयं कन्दर्परूपवान् ।
सर्वसौभाग्यसुभगः सर्वलोकवशङ्करः ।
सर्वरक्तोपचारैश्च मुद्रासहितविग्रहम् ।
चक्रं सम्पूजयेद्यस्तु यस्य नामविदर्भितम् ।
स भवेद्दासवद्देवि धनाढ्यो वापि भूपतिः ।
चक्रमध्यगतं कुर्यान्नाम यस्यास्तु योषितः ।
अदृष्टाया महेशानि योनिमुद्राधरो बुधः ।
हठादानयते शीघ्रं यक्षिणीं राजकन्यकाम् ।
नागकन्यामप्सरसं खेचरीं वा सुराङ्गनाम् ।
विद्याधरीं दिव्यरूपाम् ऋषीकन्यां रिपुस्त्रियम् ।
मदनोद्भूतसन्तापस्थलज्जघनमण्डलाम् ।
कामबाणविभिन्नान्तःकरणां लोलचक्षुषम् ॥ ४० ॥
महाकामकलाध्यानयोगात्तु सुरवन्दिते ।
क्षोभयेत् स्वर्गभूर्लोकपातालतलयोषितः ॥ ४१ ॥
रोचनाभागमेकन्तु भागमेकन्तु कुङ्कुमम् ।
अथ भागद्वयं देवि चन्दनं मर्दयेत् समम् ।
एकत्र तिलकं कुर्यात् त्रैलोक्यवशकारिणम् ।
अष्टोत्तरशतं विद्यां मन्त्रयित्वा वशं नयेत् ।
राजानं नगरं ग्रामं येन यद्वत्प्रदृश्यते ।
मन्त्रिणा परमेशानि तत्सर्वं तस्य वश्यगम् ॥ ४२ ॥
ताम्बूलं धूपमुदकं पत्रं पुष्पं फलं दधि ।
दुग्धं चूर्णमात्रं वस्त्रं कर्पूरमेव च ।
कस्तूरीधुसृणञ्चैव लवङ्गं जातिपत्रकम् ।
जलम्बा वस्तु सकलं यद्यत् तु परमेश्वरि ।
अष्टोत्तरशतं जप्त्वा यस्मै यस्मै प्रयच्छति ।
स वश्यो जायते देवि नात्र कार्या विचारणा ॥ ४३ ॥
स्त्रियस्तु सकला वश्या दासीभूता भवन्ति ताः ।
हठाकर्षणमेतत् तु कथितं नान्यथा भवेत् ॥ ४४ ॥
अथ वक्ष्ये महेशानि महापातकनाशनम् ।
शिवां सम्पूजयेद्देवि सुगन्धैः कुसुमैः प्रिये ।
महापातकयुक्तात्म, तत्क्षणात् पापहा भवेत् ॥ ४५ ॥
शमीदूर्वाङ्कुराश्वत्थपल्लवैरथवार्कजैः ।
मासेन हन्ति कलुषं सप्तजन्मकृतं नरः ॥ ४६ ॥
मुद्रासन्नद्धयोगः सम्पूर्वोक्तध्यानयोगतः ।
लक्षमात्रं जपेद्यस्तु महापापैः प्रमुच्यते ॥ ४७ ॥
लक्षद्वयेन पापानि सप्तजन्मकृतान्यपि ।
महापातकमुख्यानि नाशयेन्नात्र संशयः ॥ ४८ ॥
ततो लक्षद्वयं जप्त्वा कुलेश्वरि ।
महापातककोटिस्तु नाशयेन्नात्र संशयः ॥ ४९ ॥
चतुर्लक्षजपाद्देवि महावागीश्वरो भवेत् ।
कुबेर इव देवेशि पञ्चलक्षान्न संशयः ॥ ५० ॥
षड्लक्षजपमात्रेण महाविद्याधरो भवेत् ।
सप्तलक्षजपान्मन्त्री खेचरीमेलको भवेत् ॥ ५१ ॥
अष्टलक्षजपान्मन्त्री देवपूज्यो भवेन्नरः ।
अणिमाद्यष्टसिद्धीनां नायको भवति प्रिये ।
वशगास्तस्य राजानो योषितश्च विशेषतः ॥ ५२ ॥
नवलक्षप्रमाणानि जपेत् त्रिपुरसुन्दरीम् ।
रुद्रमूर्तिः स्वयं कर्त्ता स तु साक्षात् न संशयः ।
सर्वैर्वन्द्यः सदा सुस्थः सर्वसौभाग्यवान्भवेत् ॥ ५३ ॥
अथ छिन्नमस्ता -
श्रीफलानां पलाशानां तथैवोडुम्बरस्य च ।
सर्वसिद्धिप्रदो होमः कर्तव्योऽथ प्रयत्नतः ॥ ५४ ॥
शतमष्टोत्तरं हुत्वा जपं कुर्यात्ततः परम् ।
मालतीकुसुमैर्होमः कर्तव्यो मधुसंयुतैः ।
घृतेन सहितो वापि वागीशत्वप्रदायकः ॥ ५५ ॥
आज्ययुक्तेन भक्तेन वलिर्देयः सदामिषैः ।
षण्मासं दधिसंयुक्तैर्लक्ष्मीस्तस्य स्थिरा भवेत् ॥ ५६ ॥
छागमांसं सरक्तञ्च घृतेन प्ल्वावितं तथा ।
यो जुहोत्ययुतं देवीं तस्य वशो भवेत् ॥ ५७ ॥
श्वेतेन करवीरेण होमं सम्यक्करोति यः ।
लक्षमात्रं विधानेन स जीवेच्छरदां शतम् ॥ ५८ ॥
जुहुयात् तिलपुष्पेण मधुना तेन साधकः ।
सक्षलसङ्ख्यानि यो देवीं सिद्धिस्तस्य न संशयः ॥ ५९ ॥
कर्णिकारसहस्राणि यो जुहोति घृतैः सहः ।
स प्राप्नोति परां सिद्धिमीप्सितां सुरसुन्दरि ।
पायसेन चरेद्धोमं घृतेन सह सुन्दरि ।
त्रिसन्ध्यं मासमात्रन्तु वागीशत्वमवाप्नुयात् ॥ ६० ॥
अथ श्यामा -
कालीतन्त्रे -
अथ काम्यविधिं वक्ष्ये येन सर्वत्र पारगः ।
साधकः साधयेत्सिद्धिं देवानामपि दुर्लभाम् ॥ ६१ ॥
कुलागारं पुष्पिताया दृष्ट्वा यो जपते नरः ।
अयुतैकप्रमाणेन साधकः स्थिरमानसः ।
केवलं गुप्तभावेन स तु विद्यानिधिर्भवेत् ॥ ६२ ॥
संस्कृताः प्राकृताः शब्दा लौकिका वैदिकास्तहा ।
वशमायान्ति ते सर्वे साधकस्य च नान्यथा ॥ ६३ ॥
अथवा मुक्तकेशस्तु हविर्भुक्त्वा सुसंयतः ।
प्रजपेदयुतं प्राज्ञ एतदेव फलं लभेत् ॥ ६४ ॥
नग्नां परलतां पश्यन् अयुतं साधकः ।
प्रजपेत् स भवेत्शीघ्रं विद्याया वल्लभः स्वयम् ॥ ६५ ॥
तस्य दर्शनमात्रेणं वादिनः कुण्ठतां गताः ।
गद्यपद्यमयी वाणी सभायां तस्य जायते ॥ ६६ ॥
तन्नाम्ना सुधियः सर्वे प्रणमन्ति मुदान्विताः ।
तस्य वाक्य परिचयाज्जडा भवन्ति वाग्मिनः ॥ ६७ ॥
कुलचुडामणौ -
रजोयुक्तां समासाद्य तद्गात्रे स्वेष्टदेवताम् ।
पूजयित्वा महारात्रौ त्रिदिनं प्रजपेन्मनुम् ।
लक्षपीठफलं देवि लभते नात्र संशयः ॥ ६८ ॥
वेतालपादुकासिद्धिं खड्गसिद्धिञ्च भैरव ।
अञ्जनं तिलकं गुह्यं साधयेत्साधकोत्तमः ।
प्रजपेत् प्रतिदिनमष्टोत्तरसहस्रमित्यर्थः ॥ ६९ ॥
यत्र जापे च होमे च सङ्ख्या नोक्ता मनतोषिभिः ।
तत्रैव गणना प्रोक्ता गजान्तकसहस्रकमिति ॥ ७० ॥
विद्याकामेन होतव्यं पद्मैर्मधुसमन्वितैः ।
धनकामेन होतव्यं तिलाज्यमधुसंयुतम् ॥ ७१ ॥
वन्धूकपुष्पहोमेन दासञ्च कुरुते नृपम् ।
सर्पिर्लवणहोमेन सदाकर्षति कामिनी ॥ ७२ ॥
वकुलैर्होममात्रेण सौभाग्यं लभते नरः ।
मल्लिकाजातिपुन्नागकदम्बैः पुष्टिमाप्नुयात् ॥ ७३ ॥
क्षीराज्यतगरैर्होमान्महतीं कवितां लभेत् ॥ ७४ ॥
चन्दनागुरुकाश्मीरकर्पूरहोमतः पुनः ।
मन्त्री नीलसरस्वत्याः सर्वाभीष्टमवाप्नुयात् ।
नीलसरस्वतीपदमुपलक्षणम् ॥ ७५ ॥
कर्पूरहोमतो मन्त्री सर्वाभीष्टमवाप्नुयात् ।
सम्पूज्य मूलमन्त्रेण विल्वपत्रैर्घृतान्वितैः ।
सहस्रं प्रत्यहं हुत्वा प्राप्नोति परमां गतिम् ।
प्रतिदिनमिति मण्डलपर्यन्तम् ॥ ७६ ॥
घृताक्तमालतीपुष्पहोमाद् द्रुतकविर्भवेत् ।
अत्र यत्र यत्र होमे सङ्ख्या नोक्ता तत्र तत्रायुतसङ्ख्यया होतव्यम्
।
तदुक्तं तत्रैव -
सर्वस्यैव तु होमस्य नियमोऽयुतसङ्ख्यकः ॥ ७७ ॥
तर्पणम्
अथ तर्पणम् -
मत्स्यसूक्ते -
मधुना तर्पणं कुर्यात् सर्वकामप्रपूरकम् ।
मन्त्रसिद्धिकरं साक्षान्महापातकनाशनम् ॥ ७८ ॥
नीलतन्त्रे -
कर्पूरमिश्रितैस्तोयैर्मासमात्रं हि तर्पयेत् ।
वशीकृत्य नृपान् सर्वान् भोगी स्याद् यावदायुषम् ॥ ७९ ॥
घृतैः पूर्णायुषः सिद्द्यै दुग्धैरारोग्यसिद्धये ।
अगुरुमिश्रितैस्तोयैः सर्वकालः सुखी भवेत् ॥ ८० ॥
नारिकेलोदकैर्मिश्रैस्तोयैः सर्वार्थसिद्धये ।
मरीचमिश्रितैस्तोयैस्तथा शत्रून् विनाशयेत् ॥ ८१ ॥
केवलैरुष्णतीयैश्च शत्रुमुच्चाटयेत्क्षणात् ।
ज्वराविष्टौ भवेत् तेन दुग्धसेकात्समं नयेत् ॥ ८२ ॥
सिद्धसारस्वते -
शताभिजप्तमात्रेण रोचनातिलकं नरः ।
कृत्वा पश्यति यं मन्त्री तं कुर्याद्दासवत्सुधीः ॥ ८३ ॥
फेरत्कारीये -
उपचारविशेषेण राजपत्नीं वशं नयेत् ।
राजानं जपमात्रेण बलिना सकलं जगत् ।
उपचारविशेषेणेति अधिकारिभेदाद् बोद्धव्यम् ।
जपमात्रेणेति पूजावहिर्भावेनेत्यर्थः ॥ ८४ ॥
बलिद्रव्यन्तु मत्स्यसूक्ते -
रम्भाजातीबीजपूरं सुगन्धिपरिमिश्रितम् ।
मिश्रीकृत्य बलिन्दद्यादष्टम्याञ्च विशेषतः ॥ ८५ ॥
बलिमन्त्रस्तु -
प्रणवं पूर्वमुच्चार्य उग्रतारे ततः परम् ।
विकटदष्ट्रे मोहयपदद्वयं समुच्चरेत् ।
मारय खादय शत्रुन् पचद्वयं वदेत्ततः ।
ये मां हिंसितुमुद्यता योगिनी चक्रैस्तान हारय हुं फट् स्वाहा
परविद्यामाकर्षयत्रुटद्वयं कपाले गृह्ण गृह्ण बलि स्वाहेति ।
अयन्ताराविषये, कालिकादौ तु तत्पटलोक्त-बलिसम्भारो बोद्धव्यः ॥
८६ ॥
अथ निग्रहाद्युपायः -
वीरतन्त्रे -
श्मशानाङ्गारमादाय मङ्गले वासरे निशि ।
कृष्णवस्त्रेण संवेष्ट्य बध्नीयाद्रक्ततन्तुना ।
शताभिमन्त्रितं कृत्वा निक्षिपेद्वैरिवेश्मनि ।
सप्ताहाभ्यन्तरे तस्य चोच्चाटनमिदं महत् ॥ ८७ ॥
तदुक्तं फेत्कारीये -
नरास्थिनि लिखेन्मन्त्रं क्षारयुक्तहरिद्रया ।
सहस्रं परिसञ्जप्य निशायां शनिवासरे ।
निक्षिप्यते यस्य गेहे मृत्युस्तस्य द्विमासतः ॥ ८८ ॥
क्षेत्रे तु शस्यहानिः स्याद्धयहानिस्तुरङ्गमे ।
धनहानिर्धनागारे ग्राममध्ये तु तत्क्षयः ।
क्षारस्तु श्येनविट्युक्तं विटलवणम् ॥ ८९ ॥
हृल्लेखाधोगतरेफमध्ये अमुकामुकयोर्महाद्वेषं कुरु इति ।
तदुक्तं -
द्वेषे तु विलिखेन्मन्त्रं प्रेतकर्पटके सुधीः ।
द्वेष्यद्वेषकयोर्नाम्नी तस्य द्वेषो महान् भवेत् ।
विलिखेन्मन्त्रमिति मन्त्रं लिखित्वा हृल्लेखारेफमध्ये अमुकं
मारय मारयेत्यादि साध्यसहितमित्यर्थः ॥ ९० ॥
अथवा साध्यं लिखित्वा तदन्ते लिखेत् ।
सहस्रं परिजप्येति अमुक्तं मारय मारयेति अन्ते मन्त्रजपः ।
विद्वेषे तु अमुकामुकयोर्विद्वेषं कुरु कुरु इत्यस्यान्ते सहस्रं जपेत्
॥ ९१ ॥
अथ वेतालादि-सिद्धिः -
तदुक्तं कुलचुडामणौ -
भैरव उवाच -
वेतालादिमहासिद्धिः कथं भवति चण्डिके ।
तन्मे कथय देवेशि यदि स्नेहोऽस्ति मां प्रति ॥ ९२ ॥
देव्युवाच -
निम्बवृक्षोद्भवं काष्थं श्मशाने साधकोत्तमः ।
भौमवारे मध्यरात्रौ गत्वा कुलयुगान्वितः ।
खनित्वा चाष्टलक्षं वै जपेन्महिषमर्दिनीम् ।
तत्सहस्रं हुनेत् तद्वत्तत्रैव पितृकानने काष्ठमुद्धृत्य तस्मिन् वै
दण्डं पादुकचिह्नितम् ।
कृत्वा दुर्गाष्टमीरात्रौ श्मशाने निक्षिपेत्ततः ।
तस्योपरि शवं कृत्वा पूजयित्वा यथाविधि ।
शवासनगतो वीरो जपेदष्टसहस्रकम् ॥ ९३ ॥
ततो मातृबलिं दत्त्वा काष्ठमामन्त्रयेत् ततः ।
स्फें स्फें दण्ड महाभग योगिनीहृदयप्रिय ।
मम हस्तस्थितो नाथ ममाज्ञां परिपालय ।
एवमामन्त्र्य वेतालः यत्र यत्र प्रयुज्यते ।
तं तं चुर्णीविधायाथ पुनरायाति कौलिकः ॥ ९३-क ॥
गच्छ गच्छ द्रुतं गच्छ पादुके वरवर्णिनि ।
मत्पादस्पर्शमात्रेण गच्छ त्वं शतयोजनम् ।
अष्टलौहं समासाद्य पञ्चाशदङ्गुलाकृतिम् ।
खड्गं कृत्वा तत्र मन्त्रं लिखित्वा प्रजपेन्मनुम् ।
तत्सहस्रं ततो हुत्वा महाशवकलेवरे ।
खनित्वा जीववृक्षाग्रे बद्ध्वा शुष्कन्तु भावयेत् ।
कुलाष्टभ्यामर्द्धरात्रौ चितामध्ये संयुतम् ।
प्रीतिपूर्वं समामन्त्र्य हुनेत्पितृवने ततः ।
मधुरत्रयसंयुक्तं बिल्वपत्रेण संयुतम् ।
पादादिमूर्ध्वपर्यन्तं होमान्ते बलिमाहरेत् ।
बल्यन्ते परमा माया देवी महिषमर्दिनी ।
आयाति बलिपूर्णास्या वरहस्ता हसन्मुखी ।
गृह्ण वत्सेति शब्देन खड्गमुत्तोल्य धारयेत् ।
घोरदंष्ट्र महाकालि करवालस्व रूपिणि ।
आं घ्रां घ्रीं घ्रूम् ईम् ऊं कुरु कल्याणं
विपक्षच्छेदविस्तरम् ।
एवमामन्त्र्य खड्गन्तु यमुद्दिश्य क्षिपेन्नरः ।
छित्त्वा छित्त्वा पुनश्छित्त्वा गच्छत्याकृष्यते पुनः ॥ ९४ ॥
अथवा कृष्णमार्जारमेकघातेन घातयेत् ।
कुजे चतुष्पथे रात्रौ निखनेन्मन्त्रितं ततः ।
तत्र मोचां समारोप्य यावत्पत्रं प्रजायते तावत्भुक्त्वा
हविष्यान्नं प्रतिरात्रं जपेन्मनुम् ।
अष्टोत्तरसहस्रन्तु एकाकी दीपवर्जितः ।
उत्पन्नं पत्रमालोक्य छित्वा निश्छिद्रमानयेत् ।
तत्र भुक्त्वा हविष्यान्नं तद्दिने तटिनीतटे ।
तमानीय सुहृत्सङ्गः क्षालयेन्मन्त्रमुच्चरम् ।
ततः स्रोतोमुखं वत्स यदस्थि प्रतिगच्छति ।
तदानीय यजेत्तत्र कालिकां घोरनिस्वनाम् ।
अभिमन्त्र्य सहस्रन्तु कालीमन्त्रं प्रयत्नतः ।
सिद्धाञ्जनो भवेन्मन्त्री नात्र कार्या विचारणा ॥ ९५ ॥
चन्दनागुरुकस्तूरीमिश्रितञ्चास्थि घर्षितम् ।
कृत्वा तिलकमादाय सर्वं जयति साधकः ।
कुलमीनं कुलान्नञ्च कुलमद्यं कुलेश्वर ।
कुलस्थाने समानीय दत्त्वा देव्यै प्रयत्नतः ।
अष्टोत्तरसहस्रन्तु जप्त्वा भूमितले स्थितः ।
भूमौ फूत्कारमात्रेण विवरं तत्र जायते ।
शतयोजनदूरे वा यत्र साध्यस्थितिर्भवेत् ।
तत्रैव गमनं तस्य भूतलान्ताः-प्रसर्पिणः ।
एवं विवरमध्ये तु गवाक्षकुहरेऽपि वा ।
कामसङ्कोचमासाद्य गच्छत्यविकलो नरः ॥ ९६ ॥
दुर्गामन्त्रं विना वत्स कालीमन्त्रं तथैव च ।
सिद्धयः कुलनाथेश जायन्ते न कथञ्चन ॥
अथ बालकसंस्कारः -
मधुलाजाभ्यां नाडीच्छेदात् प्राक्स्वर्णशलाकया
यज्ञदारुशिखया श्वेतदूर्वया वा बलकस्य जिह्वामौष्ठं वा
दक्षिणपाणिना त्रिवारं सम्मार्ज्य तत्र पिता पङ्क्त्याकारेण
मूलमन्त्रं विलिख्य देवीं पूजयेत् ।
तदुक्तं मत्स्यसूक्ते -
अथवा मधुलाजाभ्यां जिह्वायां बालकस्य च ।
नाडीच्छेदाद्यथापूर्वं लिखेत्स्वर्णशलाकया ।
मूलमन्त्रं लिखेन्मन्त्री यस्योष्ठे श्वेतदूर्वया वाक्योच्चारणतो
बालो वाग्मीद्रुतकभवेत् ॥ ९८ ॥
महोग्रताराकल्पे तु -
नैमित्तिकसंस्कारानन्तरमेव मन्त्रलिखनं कार्यम् ।
तदुक्तं महोग्रे जन्मसंस्कारकं नाम पुत्रे जाते प्रशस्यते ।
जिह्वायान्तु लिखेन्मन्त्रं यज्ञदारुकुशेन वा ।
वारत्रयन्तु सम्मार्ज्य दक्षिणेनैव पाणिना ।
मूलमुच्चार्य प्रत्येकं पङ्क्तिं कुर्यात्सुशोभनम् ।
आदौ संस्कारः कर्तव्यस्तदन्ते विलिखेन्मनुम् ।
गन्धचन्दनपुष्पैश्च पूजयेत्तारिणीं शिवाम् ॥ ९९ ॥
उत्तराभिमुखो भूत्वा स्थापयेत्पीठमुत्तमम् ।
पूजयेत्तारिणीं देवीं नानाभक्ष्यैः सुशोभनैः ।
कविर्वाग्मी भवेत्पुत्रः सत्यवादी जितेन्द्रियः ।
अत्र तारिणीपदमुपलक्षणं देवीमात्रमेव बोद्धव्यम् ।
वृहत्श्रीक्रमादितन्त्रेषु बालकसंस्कारदर्शनात् ॥ ९९-क ॥
तदुक्तं तत्रैव -
बालकस्य तु जिह्वायां त्रिदिनाभ्यन्तरे लिखेत् ।
मधुना श्वेतदूर्वाभिर्लिखेत्स्वर्णशलाकया ।
अमुं वाग्भवकूटञ्च लिखेद्वै जननान्तरम् ।
एतेन तद्दिनाशक्तौ त्रिरात्राभ्यन्तर इति सूचितम् ।
अमुमिति भैरव्या वाग्भवकूटमित्यर्थः ।
अथैकादशाहे देवतां सम्पूज्य मन्त्रं लिखेदिति कश्चित् ।
अथ यदि पिता दूरस्थो भवति तदा पितृव्यो मातुलो वा मन्त्रं
लिखेदिति ।
तदुक्तं महोग्रे -
पितुर्भ्राता लिखेन्मन्त्रं मातुर्भ्राताथवा पुनः ।
पितुरेव लिखेन्मन्त्रं नान्य एव कदाचन ॥ १०० ॥
मातुः क्रोडे तु संस्थाप्य दर्भानास्तीर्य यत्नतः ।
शान्तिं कुर्याद्बालकस्य ब्राह्मणैः सह साधकः ॥ १ ॥
अथ शान्तिमन्त्रः -
इमं पुत्रं कामयतः कामजानामिहैव हि ।
देवेभ्यः पुष्णाति सर्वमिदं मज्जननं शिवशान्तिस्तारायै
केशवेभ्यस्तारायै रुद्रेभ्य उमायै शिवाय शिवयशसे ।
इत्यनेन कुशोदकेन शान्तिं कुर्यात् ॥ २ ॥
अथ छागादिबलिः -
मुण्डमालायाम् -
छागे दत्ते भवेद्वाग्मी मेषे दत्ते कविर्भवेत् ।
महिषे धनसमृद्धिः स्यान्मृगे मोक्षफलं भवेत् ॥ ३ ॥
पक्षिदाने स्मृद्धिः स्याद्गोधिकायां महाफलम् ।
नरे दत्ते महद्धिः स्यादष्टसिद्धिरनुत्तमा ॥ ४ ॥
एवं-राजा नरबलिं दद्यान्नान्यो हि परमेश्वरि ।
सिंहव्याघ्रनरान्दत्त्वा ब्राह्मणे नरकान्व्रजेत् ।
इति वचनात् ब्रह्मणानां नरबलिदाने नाधिकारः ।
तबा -
चण्डालबलिदानेन महासिद्धिः प्रजायते ।
तत्र सलक्षणं पशुं देव्यग्रे संस्थाप्य वक्षमाणेन विधिना
उत्सृजेत् ।
तदुक्तं यामले -
देव्या अग्रे स्थापयित्वा पशुं लक्षणसंयुतम् ।
श्वेतसर्षपविक्षेपाद्भूतानुत्सारयेत् ततः अर्घ्योदकेन सम्प्रोक्ष्य
अस्त्रमन्त्रेण रक्षणम् ।
कवचेन समागुण्ठ्य धेनुमुद्रामृतीकृतम् ।
गन्धचन्दनपुष्पाद्यैः पूजयित्वा पशुं ततः ।
वामहस्तेन तं धृत्वा सप्तधा तत्त्वमुद्रया ।
प्रोक्षयेन्मूलमन्त्रेण ततः पूजां समाचरेत् ।
ततः श्वेतसर्षपेण भूतोत्सारणं कृत्वा अर्घ्योदकेन
सम्प्रोक्ष्यास्त्रेण संरक्ष्य, कवचेनावगुण्ठ्य,
धेनुमुद्रयामृतीकृत्य, गन्धपुष्पाक्षतैः पशुं सम्पूज्य,
मूलेन तत्त्वमुद्रया प्रोक्षणं कृत्वा कर्णे इमं मन्त्रं पठेत् ।
पशुपाशाय विद्महे विश्वकर्मणे धीमहि तन्नो जीवः प्रचोदयात् ।
ततो ह्रीं कालि कालि वज्रेश्वरि लौहदण्डाय नमः ।
इति मन्त्रेण खड्गं पूजयेत् ।
ततः खड्गस्याग्रमध्यमूलक्रमेणैव पूजयेत् ।
यथा हूं वागीश्वरीब्रह्मभ्यां नमः ।
हूं लक्ष्मीनारायणाभ्यां नमः ।
हूम् उमामहेश्वराभ्यां नमः ।
ततः ब्रह्मविष्णुशिवशक्तियुक्ताय खड्गाय नमः ।
इति सर्वत्र पूजयेत् ।
तत खड्गं प्रणमेत् ।
खड्गाय खरशाणाय शक्तिकार्यार्थतत्पर ।
पशुश्छेद्यस्तया श्रीघ्रं खड्गनाथ नमोऽस्तु ते ।
ततो महावाक्यं -
अमुकदेवता-प्रीतिकाम इमं पशुं तुभ्यमहं सम्प्रददे इति ।
तओ निवेदयेत् ।
यथोक्तेन विधानेन तुभ्यमस्तु समर्पितम् ।
ततो बलिं छिन्यात् ।
ततो रुधिरं समांसं बलिं देव्यै दद्यात् ॥ ६ ॥
रुधिरदाने स्थाननिर्णयः ।
कालिकापुराणे -
छागन्तु वामतो दद्यान्महिषन्तु भवेत्पुरः ।
दक्षिणे वा मतो दद्यादग्रतो देहशोणितम् ।
तथा -
सौवर्णे राजते ताम्रे कांस्याधारे तथैव च ।
निधाय देव्यै दद्यात् तु तद्रक्तं मन्त्रपूर्वकम् ॥ ७ ॥
ततोऽवशिष्टं वटुकादिभ्यो दद्यात् ।
यथा -
हूं वां वटुकाय नमः ।
इति गन्धादिभिः सम्पूज्य, पूर्ववन्मन्त्रेण वायव्ये बलिन्दद्यात् ।
हूं यां योगिनीभ्यो नमः सम्पूज्य ईशाने पूर्वमन्त्रेण बलिं
दद्यात् ।
हूं क्षां क्षेत्रपालाय नमः इति सम्पूज्य पूर्वमन्त्रेण नैर्-
ऋत्यां बलिं दद्यात् ।
हूं गां गणपतये नमः ।
इति सम्पूज्याग्नेयां गणेशाय बलिं दद्यात् ॥ ८ ॥
स्वगात्ररुधिरदाने तु -
नाभेरधःस्थाद्रुधिरं पृष्ठभागस्य च प्रिये ।
स्वगात्ररुधिरं दद्यान्न कदाचित्तु साधकः ।
नोष्ठस्य-चिबुकस्यापि नेन्द्रियाणं तथैव च ।
कण्ठाधो नाभितश्चोर्ध्वं हृद्भागस्य यतस्ततः ।
पार्श्वयोश्चापि रुधिरं दुर्गायै विनिवेदयेत् ।
न च रोगाविलादङ्गन्नान्यधाताद्धि भैरव ॥ ९ ॥
फलन्तु कुमारीतन्त्रे -
गृहीत्वा शोणितं पात्रे स्वकीयहृदयोद्भवम् ।
पूजयेत् त्रिपुरादेवीं सर्वसौभाग्यहेतवे ॥ १० ॥
तथा -
स्वगात्ररुधिरं दत्त्वा नत्वा राजत्वमाप्नुयात् ॥ ११ ॥
अन्यच्च -
यः स्वहृदयसञ्जातं मांसं मासप्रमाणतः ।
तिलमुद्गप्रमाणं वा दद्याद्भक्तियुतो नरः ।
षण्मासाभ्यन्तरे तस्य काममिष्टमवाप्नुयात् ॥ १२ ॥
अन्यच्च -
मद्यं दत्त्वा महादेव्यै ब्राह्मणो नरकं व्रजेत् ।
स्वगात्ररुधिरं दत्त्वा आत्महत्यामवाप्नुयात् ॥ १३ ॥
इति बलिविधिः ।
अथ कुलाचारो निरूप्यते -
कालीतन्त्रे -
अथाचारं प्रवक्ष्यामि यत्कृतेऽमृतमश्नुते ।
सर्वभूतहिते युक्तः समयाचारपालकः ।
अनित्यकर्मसन्त्यागी नित्यानुष्ठानतत्परः ।
मन्त्राराधनमात्रेण भक्तिभावेन तत्परः ।
परस्यां देवतायान्तु सर्वकर्मनिवेदकः ।
अन्यमन्त्रार्चने श्रद्धामन्यमन्त्रप्रपूजनम् ।
कुलस्त्रीवीरनिन्दाञ्च तद्द्रव्यस्यापहारणम्
स्त्रीषु रोषं प्रहारञ्च वर्जयेन्मतिमान् सदा ॥ १४ ॥
स्त्रीमयञ्च जगत्सर्वं तथात्मानञ्च भावयेत् ।
पेयं चर्व्यं तथा चुष्यं भोज्यं लेह्यं गृहं सुखम् ।
सर्वञ्च युवतीरूपं भावयेन्मतिमान् सदा ॥ १५ ॥
कुलजां युवतीं वीक्ष्य नमस्कुर्यात् समाहितः ।
यदि भाग्यवशाद्देवि कुलदृष्टिः प्रजायते ।
तदैव मानसीं पूजां तत्र तासां प्रकल्पयेत् ।
तासां भगादिदेवीनाम् ॥ १६ ॥
तथा च -
भगिनीं भगचिह्नाञ्च भगास्यां भगमालिनीम् ।
भगदन्तां भगाक्षीञ्च भगकर्णी भगत्वचाम् ।
भगनासां भगस्तनीं भगसर्पिणीम् ।
सम्पूज्य ताभ्यो गन्द्यैर्मानसैर्गुरुमेव च ।
नमस्कृत्य यथाध्यानं स्वयमक्षोभितः सुधीः ।
बालां वा यौवनोन्मत्तां वृद्धाम्बा सुन्दरीं तथा ।
कुत्सितां वा महादुटां नमस्कृत्य विभावयेत् ।
तासां प्रहारं निन्दाञ्च कौटिल्यमप्रियं तथा ।
सर्वथा च न कुर्यात् तु चान्यथा सिद्धिरोधकृत् ॥ १७ ॥
स्त्रियो देवाः स्त्रियः प्राणाः स्त्रियश्चैव विभूषणम् ।
स्त्री सङ्गिनी सदा भाव्यमन्यथा स्वस्त्रियामपि ।
विपरीतरता सा तु भविता हृदयोपरि ।
तद्धस्तावचितं पुष्पं तद्धस्तावचितं जलम् ।
तद्धस्तावचितं द्रव्यं देवताभ्यो निवेदयेत् ॥ १८ ॥
स्त्रीद्वेषो नैव कर्तव्यो विशेषात्पूजनं महत् ।
जपस्थाने महाशङ्खं निवेश्योर्ध्वे जपञ्चरेत् ॥ १९ ॥
स्त्रियं गच्छन् स्पृशन् पश्यन्विशेषात्कुलजां शुभाम् ।
भक्षन् ताम्बुलमत्स्यांश्च भक्ष्यद्रव्यान्यथारुचि ।
भक्ताद्यशेष भक्ष्याणि भुक्त्वा शेषं जपञ्चरेत् ॥ २० ॥
वीरतन्त्रे -
दिक्कालनियमो मात्र स्थित्यादिनियमो न च ।
जपे न कालनियमो नार्चादिषु बलिष्वपि ।
स्वेच्छानियम उक्तोऽत्र महामन्त्रस्य साधने ॥ २१ ॥
वस्त्रासनस्थानहेहदेहस्पर्शादिवारिणः ।
शुद्धिं न चाचरेत् तत्र निर्विकल्पं मनश्चरेत् ॥ २२ ॥
कुलार्णवे -
कुलाचारगृहं गत्वा भक्त्या पापविशुद्धये ।
याचयेदमृतं कौलं तदभावे जलं पिबेत् ॥ २३ ॥
कुलाचारेण यद्दत्तं कृत्वापात्रन्तु भक्तितः ।
नमस्कृत्य च गृह्णीयादन्यथा नरकं व्रजेत् ॥ २४ ॥
अन्यत्रापि -
न वृथा गमयेत्कालं द्यूतक्रीडादिभिः सुधीः ।
गमयेद्देवतापूजाजपयागस्तवादिना ॥ २५ ॥
वीराणां जपयज्ञस्तु सर्वकाले प्रशस्यते ।
सर्वदेशे सर्वपीठे कर्तव्यो नात्र संशयः ॥ २६ ॥
शिवागमे -
शक्तिः शिवः शिवः शक्तिः शक्तिर्ब्रह्माजनार्दनः ।
शक्तिरिन्द्रो रविः शक्तिः शक्तिश्चन्द्रो ग्रहा ध्रुवम् ।
शक्तिरूपं जगत्सर्वम् यो न जानाति नारकी ॥ २७ ॥
वीरतन्त्रे -
स्नानादिमानसं शौचं मानसः प्रभवो जपः ।
मानसं पूजनं दिव्यं मानसं तर्पणादिकम् ।
सर्व एव शुभः कालो नाशुभो विद्यते क्वचित् ।
न विशेषो दिवारात्रौ न सन्ध्यायां महानिशि ।
सर्वदा पूजयेद्देवीमस्नातः कृतभोजनः ॥ २८ ॥
महानिश्यशुचौ देशे बलिं मन्त्रेण दापयेत् ॥ २९ ॥
यत्तु -
रात्रावेव महापूजा कर्त्तव्या वीरवन्दिते ।
न दिने सर्वथा कार्याशासनान्मम सुव्रते ।
तत्पुनः कुलपूजाविषयम् ॥ ३० ॥
महानिशा तु तत्रैव -
अर्द्धरात्रात्परं यच्च मुहूर्त्तद्वयमेव च ।
सा महारात्रिरुद्दिष्टा तद्दत्तमक्षयं भवेत् ॥ ३१ ॥
गान्धर्वे -
पृथ्वीमृतुमतीं वीक्ष्यं सहस्रं-यदि नित्यशः ।
तदा वादी स्वसिद्धान्तहतः क्षितितलं व्रजेत् ।
नित्यशः इति षोडशदिनं यावत् ॥ ३२ ॥
पर्वते हस्तमारोप्य निर्भयो यतमानसः ।
कवितां लभते सोऽपि अमृततत्त्वञ्च गच्छति ।
अत्रापि सहस्रमिति सम्बन्धः ।
पृथ्वीं कुलं पर्वतं स्तनम् ॥ ३३ ॥
अनुच्च नीलतन्त्रे -
पद्यं दृष्ट्वा तथा विद्धं खञ्जनं शिखरं तथा ।
चामरं रविविम्बञ्च तिलपुष्पं सरोरुहम् ।
त्रिशूलं वीक्ष्य जप्त्वा च शतशः शुद्धभावतः ।
मुखं प्रसादं सुमुखं सुलोचनं सुहास्यकम् ।
सुवेशं सुगतिञ्चैव सुगन्धं सुखमेव च ।
लभते च यथासङ्ख्यं शृणु पार्वति सादरम् ।
पद्मं मुखं विम्बमधरं खञ्जनं चक्षुः शिखरं
मस्तकं चामरं केशम् ।
रविविम्बं सिन्दूरं तिलपुष्पं नासिकां सरोरुहं नाभिं
त्रिशूलं त्रिवलीम् इति बोध्यम् ॥ ३४ ॥
भावचूडामणौ -
एकाकी निर्जने देशे श्मशाने विजने वने ।
शून्यागारे नदीतीरे निःशङ्को विहरेत्सदा ।
महाचीनद्रुमे देवीं ध्यात्वा तत्र प्रपूजयेत् ।
तद्द्रुमोद्भवपुष्पेण पूजयेद्भक्तिभावतः ।
स भवेत्कुलदेवश्च कुलद्रुमगतः शुचिः ॥ ३५ ॥
ब्रह्मतरोर्महापद्मे देवीं ध्यात्वा यथाविधि ।
तत्सुधारसधारेण तर्पयेन्मातृकानने ॥ ३६ ॥
महाचीनद्रुमलतावेष्टितः साधकोत्तमः ।
रात्रौ यदि जपेन्मन्त्रं सैव कल्पलता भवेत् ॥ ३७ ॥
तिथिक्रमेण सङ्ख्याभिर्लताभिर्वेष्टितो यदि ।
तदा मासेन सिद्धिः स्यात्सहस्रजपमानतः ॥ ३८ ॥
अष्टम्याञ्च चतुर्दश्यां द्विगुणं यदि दृश्यते ।
तत्रैव महती सिद्धिर्देवतानां सुदुर्लभा ॥ ३९ ॥
कुलचूडामणौ -
शृणु पुत्र रहस्यं मे समयाचारमम्भवम् ।
येन हीना न सिध्यन्ति जन्मकोटिसहस्रशः ॥ ४० ॥
मानवः कुलशास्त्राणां कुलचर्यानुचारिणाम् ।
उदारचित्तः सर्वत्र वैष्णवाचारतत्परः ।
परनिन्दासहिष्णुः स्यादुपकाररतः सदा ।
पर्वते विपिने वापि निर्जने शून्यमण्डपे ।
चतुष्पथे कलामध्ये यदि दैवाद्गतिर्भवेत् ।
क्षणं स्थित्वा मनुं जप्त्वा नत्वा गच्छेद्यथासुखम् ।
गृध्रं वीक्ष्य महाकालीं नमस्कुर्यादलक्षितः ।
क्षेमङ्करीं तथा वीक्ष्य जम्बूकीं यमदूतिकाम् ।
कुररीं श्येनकाकौ च कृष्णमार्जारमेव च ।
कृशोदरि महाचण्डे मुक्तकेशि बलिप्रिये ।
कुलाचारप्रसन्नास्ये नमस्ते शङ्करप्रिये ॥ ४२ ॥
श्मशानञ्च शवं दृष्ट्वा प्रदक्षिणमनुब्रजन् ।
प्रणम्यानेन मनुना मन्त्री सुखमाप्नुयात् ।
घोरदंष्ट्रे करालास्ये किटिशब्दनिनादिनि ।
घोरघोररवास्फाले नमस्ते चितिवासिनि ॥ ४३ ॥
रक्तवस्त्रं तथा पुष्पं विलोक्य त्रिपुराम्बिकाम् ।
प्रणमेद्दण्डवद्भूमौ इमं मन्त्रं पठेन्नरः ।
बन्धूकपुष्पसङ्काशे त्रिपुरे भयनाशिनि ।
भाग्योदयसमुत्पन्ने नमस्ते वरवर्णिनी ॥ ४४ ॥
कृष्णवस्त्रं तथा पुष्पं राजानं राजपुरुषम् ।
हस्त्यश्वरथशस्त्राणि फलकान्वीरपुरुषान् ।
महिषं कुलदेवञ्च दृष्ट्वा महिषमर्दिनीम् ।
प्रणम्य जयदुर्गां वा स च विघ्नैर्न लिप्यते ।
जय देवि जगद्धात्रि त्रिपुराद्ये त्रिदैवते ।
भक्तेभ्यो वरदे देवि महिषाघ्नि नमोऽस्तु ते ॥ ४५ ॥
मद्यभाण्डं समालोक्य मत्स्यं मांसं वरस्त्रियम् ।
दृष्ट्वा च भैरवीं देवीं प्रणम्य विमृषन्मनुम् ।
घोरविघ्नविनाशाय कुलाचारसमृद्धये ।
नमामि वरदे देवि मुण्डमालाविभूषिते ।
रक्तधारासमाकीर्णवदने त्वां नमाम्यहम् ।
सर्वविघ्नहरे देवि नमस्ते हरवल्लभे ॥ ४६ ॥
एतेषां दर्शने नैव यदि नैवं प्रकुर्वते ।
शक्तिमन्त्रं पुरस्कृत्य तस्य निद्धिर्न जायते ॥ ४७ ॥
तथा कुलचूडामणौ -
कुलवारे कुलाष्टम्यां चतुर्दश्यां विशेषतः ।
योगिनीपूजनं तत्र प्रधानं कुलपूजनम् ॥ ४८ ॥
यथा विष्णुतिथौ विष्णुः पूजितो वाञ्छितप्रदः ।
तथा कुलतिथौ दुर्गा पूजिता वरदायिनी ॥ ४९ ॥
कुलवारादिनियमन्तु यामले -
रविश्चन्द्रो गुरुः सौरिश्चत्वारश्चाकुला इमे ।
भौमशुक्रो कुलाख्यौ हि बुधवारः कुलाकुलः ॥ ५० ॥
द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतम् ।
विषमाश्चाकुलाः सर्वाः शेषाश्च तिथयः कुलाः ॥ ५१ ॥
वरुणार्द्राभिजिन्मूलं कुलाकुलमुदाहृतम् ।
कुलानि समधिष्ण्यानि शेषाणि चाकुलानि च ॥ ५२ ॥
तिथिवारे च नक्षत्रे अकुले स्थायिनोऽजयः ।
कुलाख्ये जयिनो नित्यं सम्यञ्चैव कुलाकुले ।
एवं कुलवारादिकं ज्ञात्वा साधकः कर्म कुर्यात् ॥ ५३ ॥
अथ शिवाबलिः -
तदुक्तं कुलचूडामणौ -
बिल्वमूले प्रान्तरे वा श्मशाने वापि साधकः ।
मांसप्रधाननैवेद्यं सन्ध्याकाले निवेदयेत् ॥ ५४ ॥
कालि कालीति वक्तव्ये तत्रोमा शिवरूपिणी ।
पशुरूपधरायाति परिवारगणैः सह ।
भुक्त्वा रौति यदैशान्यां मुखमुत्तोल्य सुन्दरम् ।
तदैव मङ्गलं तस्य नान्यथा कुलभूषण ॥ ५५ ॥
अवश्यमन्नदानेन नियतं तोषयेच्छिवाम् ।
नित्यश्राद्धं तथा सन्ध्या-वन्दनं पितृतर्पणम् ।
तथैव कुलसेव्यानां नित्यता कुलपूजने ।
पशुरूपां शिवां देवीं यो नार्चयति निर्जने ।
शिवारावेण तस्याशु सर्वं नश्यति निश्चितम् ॥ ५६ ॥
जपपूजाविधानानि यत्किञ्चित् सुकृतानि च ।
गृहीत्वा शापमादाय शिवा रोदिति निर्जने ॥ ५७ ॥
एकया भुज्यते यत्र शिवया देव भैरव ।
तत्रैव सर्वशक्तीनां प्रीतिः परमदुर्लभा ॥ ५८ ॥
पशुशक्तिःपक्षिशक्तिर्नरशक्तिर्यथाक्रमात् ।
पूजनात्विगुणं कर्ममङ्गलं साधयेद्यतः ।
तेन सर्वप्रयत्नेन कर्तव्यं पूजनं महत् ॥ ५९ ॥
राजादिभयमापन्ने देशान्तरभयादिके ।
शुभाशुभानि कर्माणि विचिन्त्य बलिमाहरेत् ॥ ६० ॥
मन्त्रस्तु -
गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि ।
शुभाशुभफलं व्यक्तं ब्रूहि गृह्ण बलिन्तव ।
एवमुच्चार्य दातव्यो बलिः कुलजनप्रिय ।
यदि न भुज्यते वत्स तदा नैव शुभं भवेत् ॥ ६१ ॥
शुभं यदि भवेत् तत्र भुज्यते तदशेषतः ।
एवं ज्ञात्वा महादेव शान्तिस्वस्त्यनं चरेत् ॥ ६२ ॥
इति शिवाबलिः ।
कुलवर्त्मनो गोपनीयता -
कुलवर्त्म सर्वत्र गोपनीयम् ।
तथा च नीलतन्त्रे -
निर्जने चैव कर्तव्यं न चैवं जनसन्निधौ ।
किम्वा पक्षिपतङ्गादिदर्शने नैव कारयेत् ॥ ६३ ॥
पातालमण्डपे वापि गह्वरे सुनियन्त्रिते ।
निश्छिद्रमण्डपे वापि कर्तव्यं न च सन्निधौ ॥ ६४ ॥
कुलपुष्पं कुलद्रव्यं कुलपूजां जपम् ।
कुलं कुलपतिञ्चैव कुलमालां कुलाकुलम् ।
कुलचक्रं कुलध्यानं सर्वथा न प्रकाशयेत् ।
प्रकाशात् सिद्धिहानिः स्यात्प्रकाशान्निधनादिकम् ।
प्रकाशान्मन्त्रनाशः स्यात् प्रकाशात्कुलहिंसनम् ।
प्रकाशान्मृत्युलाभः स्यान्न प्रकाश्यं कदाचन ॥ ६६ ॥
पूजाकाले च देवेशि यदि कोऽप्यत्र गच्छति ।
दर्शयेद्वैष्णवीं मुद्रां विष्णुन्यासं तथा स्तवम् ।
प्रकाशाद्यदि गुप्तिः स्यात् तत्प्रकाशान्न दूषणम् ।
गोपनाद्यदि व्यक्तिः स्यान्न गुप्तिः सा विधीयते ॥ ६७ ॥
कदाचिद्देहहानिस्तु न चाव्यक्तिः कदाचन ।
वरं पूजा न कर्तव्या न च व्यक्तिः कदाचन ॥ ६८ ॥
प्रातःकृत्यम्
अथ प्रातःकृत्यम् -
साधकः प्रातरुत्थाय कुलवृक्षं प्रणम्य च ।
कुलवृक्षो यथा -
पादाघातादशोको वदनमदिरया केशरः कर्णिकारः, चूतो निम्बो
हसाभ्यां तिलकतरुनमेरु पियालश्च गीत्वा ।
संलापात् कर्णिकारः कुरुवकतरुरालिङ्गनात् ।
सिन्धुवारः, कादम्बः कामिनीनामुदयति नियतं
स्पर्शनाच्चम्पशास्त्री ॥ ६९ ॥
तथा च श्रुतिः ।
दशकुलवृक्षाणामनुपप्लवः ।
दशकुलवृक्षो यथा ।
श्लेष्मातककरञ्जौ च बिल्वाश्वत्थकदम्बकाः ।
निम्बो वटोडुम्बरौ च धात्री चिञ्चा दश स्मृताः ।
मूलादि-ब्रह्मरन्ध्रान्तङ्कुलं ध्यात्वा गुरुं स्मरेत् ॥ ७० ॥
प्रह्लादानन्दनाथाख्यं सनकानन्दमेव च ।
कुमारानन्दनाथाख्यं वसिष्ठानन्दनाथकम् ।
क्रोधानन्दं सुखानन्दं ज्ञानानन्दमतः परम् ।
बोधानन्दमथाभ्यर्च्य ध्यायेत्कुलमुखोपरि ।
महासवरसोल्लासहृदया घूर्णलोचनाः ।
कुलालिङ्गनसम्भिन्नचूर्णिताशेषतामसाः ।
कुलशिष्योपरिकृपा-पूर्णान्तःकरणोद्यताः ।
वराभयोद्यतकराः कुलतन्त्रार्थवेदिनः ।
एवं कुलगुरु नत्वा विसृज्य कुलनायिकाम् ।
कुलस्थानं समाश्रित्य स्नानार्थं तीर्थमाश्रयेत् ॥ ७१ ॥
आत्मविद्याशिवैस्तत्त्वैराचाम्यान्यत्समाचरेत् ॥ ७२ ॥
कुलार्णवे -
कुलसूर्याय देवाय त्रिरर्घ्यन्तु प्रदापयेत् ।
देवानृषीन् पितॄंश्चैव तर्पयेत्कुलवारिणा ॥ ७३ ॥
कुलचूडाणौ -
आचान्तः कुलदर्भेण सदर्भः कुलपुण्ड्रकः ।
कुलपात्रं सदूर्वाञ्च सतिलं सजलं तथा गृहीत्वा
कुलदेव्याश्च प्रीतये स्नानमाचरेत् ।
एवं हि कृतसङ्कल्पः कुलचक्रं जले न्यसेत् ।
कुलस्थानात्समानीय कुलमुद्राङ्कुशेन च ।
कुलतीर्थानि तथैव समावाह्य शिवात्मकम् ।
तत्तोयञ्च त्रिधा पीत्वा त्रिधा च प्रोक्षणं तनोः ॥ ७५ ॥
स्वतन्त्रेऽपि -
मूलं पठन्मूर्ध्नि तोयं मुद्रयाकुम्भसञ्ज्ञया ।
क्षिप्त्वावारत्रयं देवि आचामेत्साधकाग्रणीः ॥ ७६ ॥
इति कुलाचारः ।
अथ दूतीयागो निरूप्यते -
तत्रादौ विजयास्वीकारः ।
तथा च विजयाकल्पे -
संविदासवयोर्मध्ये संविदैव गरीयसी ।
संवित्प्रयोगस्तेनेह पूजादौ साधकोत्तमैः ।
कर्तव्यश्च महापूजा करणीया सुनिश्चितैः ।
अयं प्रयोगः पूजादौ कुलीनैः सर्वत्र कर्तव्यः ॥ ७७ ॥
अन्यत्रापि -
आनन्देन विना भ्रंशो न च तृप्यन्ति देवताः ॥ ७८ ॥
सा च चतुर्विधा -
ब्राह्मणी क्षत्रिया वैश्या शूद्राः
शुक्लरक्तपीतकृष्णपुष्पभेदैः ।
तासां शुद्धिस्तु विजयाकल्पे -
संविदे ब्रह्मसम्भूते ब्रह्मपुत्रि सदानघे ।
भैरवाणाञ्च तृप्त्यर्थं पवित्रा भव सर्वदा ।
ॐ ब्राह्मण्यै नमः स्वाहेति शोधयेत् ।
ततः सिद्धमूलिकरे देवि मूलबोध प्रबोधिनि ।
राजपुत्रि वशङ्करि शत्रुकण्ठत्रिशूलिनि ।
ऐं क्षत्रियायै नमः स्वाहा शोधयेदपरां ततः ॥ ७९ ॥
अज्ञानेन्धनदीप्ताग्नि-ज्ञानाग्निज्वलरूपिणि ।
आनन्दाज्याहुतिं मत्वा सम्यग्ज्ञान्नं प्रयच्छ मे ।
ह्रीं वैश्यायै नमः स्वाहा वैश्याञ्च शोधयेत् ततः ।
नमस्यामि महामाये योगमार्गप्रदर्शिनि ।
त्रलोक्यविजये मातः समाधिफलदा भव ।
श्रीं शूद्रायै नमः स्वाहेति शूद्राञ्च परिशोधयेत् ।
ततः सर्वासां शोधनम् -
ॐ अमृतोद्भवे अमृतवर्षिणि पदं ततः ।
अमृतमाकर्षयद्वन्द्वं सिद्धिं देहि ततः परम् ।
अमुकं मे ततो ब्रूयाद्वशमानय तत्परम् ।
द्विठान्तोऽयं मनुः प्रोक्तः सर्वासामिह शोधने ।
ज्ञाने प्रत्येकेन तत्तन्मन्त्रेण प्रत्येकं शोधयेत् अज्ञाने त्वनेन
शोधयेत् ॥ ७९-क ॥
उत्तरतन्त्रे -
मूलमन्त्रं सप्तवारं तस्योपरि नियोजयेत् ।
आवाहनादिमुद्राञ्च धेनुं योनिं ततः परम् ।
दिग्बन्धनं छोटिकाभिस्तालत्रयपुरःसरम् ।
दिव्यदृष्ट्या पार्ष्णिघातैः सर्वान्विघ्नान् निरस्य च ।
सप्तधा तर्पयेद्ब्रह्मरन्ध्र मूलं जपन्मनुम् ।
गुरुं पद्मे सहस्रारे तथा सङ्केतमुद्रया ।
त्रिवारं तर्पयेद्भक्त्या साधकः सिद्धिहेतवे ।
मूलमिष्टदेवतामन्त्रमुच्चार्य अमुकदेव तां तर्पयामि एवं
गुरुञ्च तर्पयेत् ।
ततः सङ्केतमुद्रया तत्त्वमुद्रया च तत् स्वीकुर्यात् ।
यथा -
ऐं वद वद वाग्वादिनि मम जिह्वाग्रे स्थिरीभव
सर्वसत्त्ववशङ्करि स्वाहा ।
तथा च -
ऐं वद वद पदं ब्रूयाद्वाग्वादिनिपदन्ततः ।
मम जिह्वाग्रे स्थिरीति भव सर्वपदं ततः ।
सत्त्ववशङ्करि स्वाहामन्त्रेण जुहुयान्मुखे ॥ ८० ॥
तन्त्रचूडामणौ -
विना हेतुकमासाद्य क्षोभयुक्तो महेश्वरः ।
न पूजां हवनं कुर्यान्न ध्यानं नापि चिन्तनम् ।
तस्माद्भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरीम् ।
पीत्वेति विजयामेव प्रकरणात् ॥ ८१ ॥
अथ यजनप्रकारः -
तत्र रात्रौ प्रहरे गते ताम्बूलपूरितमुखः सन् कुलनायिकां
पूजयेत् ॥ ८२ ॥
उत्तरतन्त्रे -
याममात्रे गते रात्रौ कुलगेहं ततः पुमान् ।
ताम्बूलपूरितमुखो धूपामोदसुगन्धितः ।
रक्तचन्दनदिग्धाङ्गो रक्तमाल्यानु सेवितः ।
रक्तवस्त्रपरीधानो लाक्षारसगृहङ्गतः ।
रक्तमाल्येन संवीती रक्तपुष्पविभूषितः ।
पञ्चीकरणसङ्केतैः पूजयेत् कुलनायिकाम् ॥ ८३ ॥
कुलनायिका यथा, तत्रैव -
नटी कापालिका वेश्या पुक्वसी नापिताङ्गना ।
रजकी रञ्जकी चैव सैरिन्ध्री च सुवासिनी ।
घटिकाघटिका चैव तथा गोपालकन्यका ।
विशेषवैदग्ध्ययुताः सर्वा एव कुलाङ्गनाः ।
गुरुभक्ता देवभक्ता घृणालज्जाविवर्जिताः ।
सङ्गोपनरताः प्रायस्तरुण्यः सर्वसिद्धिदाः ।
अक्षताचारसम्पन्नां शीलसौभाग्यशालिनीम् ।
सदनुष्ठाननिरतां सात्त्विकीं भक्तिसंयुताम् ।
कालुष्यरहितां कुर्यात्समयां भक्तवत्सलाम् ।
चातुर्यौदार्यदाक्षिण्यकरुणादिगुणान्विताम् ।
रूपयौपनसम्पन्नां शीलसौभाग्यशालिनीम् ।
सदा परिगृहीतां वा यद्वा सङ्केतमागताम् ।
अथवा तत्क्षणायातां मदनानलतापिताम् ।
विलिप्तां रक्तगन्धेन रक्ताम्बरविभूषिताम् ।
सुगन्धिरक्तकुसुमां सर्वाभरणभूषिताम् ।
सुधूपधूपितां तन्वीं दूतीकर्मसु योजयेत् ॥ ८४ ॥
कुमारीतन्त्रे -
नटी कापालिका वेश्या रजकी नापिताङ्गना ।
ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका ।
मालाकारस्य कन्या च नव कन्याः प्रकीर्त्तिताः ।
ब्राह्मणीति तु ब्राह्मणविषयम् ॥ ८५ ॥
एवम्भूतां यजेत् तान्तु प्रसूनतुलिकोपरि ।
व्यङ्गाङ्गीं विकृताङ्गी वा सविकल्पकमानसीम् ।
वर्षीयसीं पापरतां हूङ्कारोमर्थलोलुपाम् ।
अभक्तमानसां दीनां वर्जयेत्साधकोत्तमः ॥ ८६ ॥
अर्थाद्वा कामतो वापि सौख्यादपि च यो नरः ।
लिङ्गयोनिरतो मन्त्री रौरवं नरकं व्रजेत् ॥ ८७ ॥
उपदिष्टा यदा देवि तथा पुत्री तु कन्यका ।
पूजार्हा च यदा देवि तदा माता न संशयः ॥ ८८ ॥
एवंविधं कुलमानीय उद्वर्तनादिकं विधाय तुलिकोपरि नियोजयेत् ॥
८९ ॥
तथोत्तरतन्त्रे -
तदानीय कुलं सम्यक उद्वर्तनमनन्तरम् ।
स्नातं शुद्धदुकूलादि-गन्धलेपनशोभितम् ।
अलङ्कृतं गतश्रान्तिं स्वागतं चासनं तथा ।
निवेश्य तुलिकामध्ये नानापुष्पसुगन्धिना ।
चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमादिभिः ।
समाकीर्णे निवेश्याथ पूजयेत्कुलनायिकाम् ॥ ९० ॥
ततो भूतशुद्ध्यादिकं विधाय तत्तत्कुलाङ्गे न्यासं कुर्यात् ।
तद्यथा -
अङ्गन्यासकरन्यासौ प्राणायामं ततः परम् ।
विधाय मातृकान्यासं कुलाङ्गेऽपि प्रविन्यसेत् ।
ततः पञ्चमकारमानीय शोधयेत् ।
पञ्चमकारो यथा -
मद्यं मांसञ्च मत्स्यञ्च मुद्रां मैथुनमेव च ।
मकारपञ्चकञ्चैव महापातकनाशनम् ।
तत्र सुरायाः शोधनं यथा�घटं धृत्वा पठेत् ।
एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् ।
कचोद्भवां ब्रह्महत्यां केन ते नाशयाम्यहम् ।
सूर्यमण्डलसम्भूते वरुणालयसम्भवे ।
अमाबीजमये देवि शुक्रशापाद्विमुच्यताम् ।
वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि ।
तेन सत्येन ते देवि ब्रह्महत्यां व्यपोहतु ।
तत ॐ वां वीं वूं वैं वौं वः ब्रह्मशापविमोचितायै
सुधादेव्यै नमः ।
इति तदुपरि दशधा जपेत् ।
ततः ॐ शां शीं शूं शैं शौं शः शुक्रशापविमोचितायै
सुधादेव्यै नमः ।
इति तदुपरि दशधा जपेत् ।
एवं ह्रीं श्रीं क्रां क्रीं क्रूं क्रैं क्रौं क्रः
कृष्णशापं विमोचयामृतं स्रावय स्वाहेति दशधा जपेत् ।
ततो मूलमन्त्रं तदुपरि अष्टधा जप्त्वा देवतामयं विभावयेत् ।
इति द्रव्यशुद्धिः ॥ ९१ ॥
एतद् द्रव्यदानन्तु शूद्रस्यैव ।
तथा च श्रीक्रमे -
न दद्यात्ब्राह्मणो मद्यं महादेव्यै कथञ्चन ।
वामकामो ब्राह्मणो हि मद्यं मांसं न भक्षयेत् ॥ ९२ ॥
कुलचूडामणौ -
यत्रासवमवश्यन्तु ब्राह्मणस्तु विशेषतः ।
गुडार्द्रकं तदा दद्यात्ताम्रे वा विसृजेन्मधु ।
देव्यास्तु दक्षिणे भागे चक्रपार्श्वे निवेदयेत् ।
एतद् द्रव्यन्तु शूद्रस्य नान्येषान्तु कदाचन ।
वैश्यस्य माक्षिकं शुद्धं क्षक्षियस्य तु साज्यकम् ।
ब्राह्मणश्च गवां क्षीरं ताम्रे वा विसृजेन्मधु ।
नारिकेलोदकं कांस्ये सर्वेषां द्रव्यशोधनम् ।
क्षत्रियवैश्ययोस्तु गौडी माध्वी च दातव्या तत्र तयोरधिकारात् ।
तदभावेऽनुकल्पविधानम् ।
तथा च -
गौक्षीरं ब्राह्मणो दद्यात्गव्यमाज्यञ्च बाहुजः ।
माक्षिकं द्रव्यं शूद्रः पौष्टादिकं पुनः ।
तेन शूद्रस्य अनुकल्पः ॥ ९३ ॥
कुलार्णवे -
जलं क्षीरं घृतं भद्रे मधु मैरेयमैक्षरवम् ।
पौष्पं तरुभवं धन्यसम्भवं चक्रनिर्मितम् ।
सहकारभवं देवि त्रिविधं बहुभेदकम् ।
मादकं धर्मसम्भेदाद्वर्ज्यमासीत्सुलोचने ।
ज्ञानेन संस्कृतं तत् तु महापातकनाशनम् ।
तद्दाने पातकाभावो दिव्यभावविषयां वा ।
माकन्दफलजं रम्यं द्रव्यं सेव्यं द्विजातिभिः ।
अमादकत्वाद्देवेशि ऐक्षवं सेव्यते बुधैः ।
एतेन क्षत्रियादिभिरमादकं द्रव्यं सेव्यम् ।
मादकस्य पापहेतुकत्वम् उक्तम् ॥ ९४ ॥
भैरवतन्त्रे -
मद्यं मांसं विना वत्स यत्किञ्ञ्चित्कुलसाधनम् ।
शक्त्यै दत्त्वा ततः शेषं गुरवे तन्निवेदयेत् ।
तदनुज्ञां मूर्ध्नि कृत्वा शोषमात्मनि योजयेत् ।
तेन क्षत्रियादीनां मुख्यस्य दानेऽधिकारः न पाने ॥ ९५ ॥
यत्तु -
पीत्वा पीत्वा पुनः पीत्वा पतित्वा च महीतले ।
उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते ॥ ९६ ॥
भैरवतन्त्रे -
पाने भ्रान्तिर्भवेद्यस्य घृणा स्यात् रक्तरेतसोः ।
शुचौ चाऽशुद्धताभ्रान्तिः पापाशङ्का च मैथुने ।
सभ्रष्टः पूजयेद्देवीं चण्डीमन्त्रं कथं जपेत् ॥ ९७ ॥
तथा -
मदिरायां मैथुने च जातिवृत्तिं न चाचरेत् ।
एतत् तु चतुर्थाश्रमिपरम् ।
तत्तद्द्रव्यग्रहणे जातिचिन्तां न कुर्यात् ।
एतेषां शोधनास्यावश्यकत्वात् ।
तथा च -
संशोधनमनाचर्य स्त्रीषु मद्येषु साधकः ।
आचर्य सिद्धि हानिः स्यात्क्रुद्धा भवति सुन्दरी ।
मद्येषु मुख्यानुकल्पेषु ॥ ९८ ॥
तथा -
कुलपूजायामस्यावश्यकत्वम् ॥ ९९ ॥
तथा च -
मधु मांसं विना देवि कुलपूजा समारभेत् ।
जन्मान्तरसहस्रस्य सकृतं तस्य नश्यति ॥ १०० ॥
मांसादिशोधनम्
अथ मांसादिशोधनम् -
मांसन्तु त्रिविधं ज्ञेयं जलखेचरभूचरम् ।
त्रिविधं मांसं सम्प्रोक्तं देवताप्रीतिकारकम् ॥ १ ॥
मत्स्यन्तु त्रिविधं देवि उत्तमाधममध्यमम् ।
उत्तममं त्रिविधं देवि शालपाठीनरोहितन् ।
प्रवीणं कण्टकैर्हीनं तैलाक्तं तल्कलैर्युतम् ।
देव्याः प्रीतिकरञ्चैव मध्यमन्तच्चतुर्विधम् ।
क्षुद्राणि तानि सर्वाणि अधमानि विदुर्बुधाः ॥ २ ॥
भूधरमांसञ्च -
गोनृमेषाश्वमहिषवराहाजमृगोद्भवम् ।
महामांसाष्टकं प्रोक्तं देवताप्रीतिकारकम् ॥ ३ ॥
मांसाभावेऽनुकल्पः ।
समयाचारे -
लवणार्द्रकपिण्याकतिलगोधूममाषकम् ।
लशुनञ्च महादेवि मांसप्रतिनिधिः स्मृतः ॥ ४ ॥
मुद्रा तु द्विविधा ।
कुलार्णवे -
कृषरं मण्डलाकारं चन्द्रविम्बनिभं शुभम् ।
चारुपक्वं मनोहरि शर्कराद्यैश्च पूरितम् ।
पूजाकाले देवताया मुद्रैषा परिकीर्त्तिता ॥ ५ ॥
यामले -
घृष्टधान्यादिकः यावच्चर्वणीयं प्रकल्पयेत् ।
तेषां सञ्ज्ञा कृता मुद्रा महामोदप्रदायिनी ॥ ६ ॥
एतेषां शोधनन्तु स्वतन्त्रतन्त्रे -
ॐ प्रतद्विष्णुरित्यादिना मांसम् ।
ॐ त्र्यम्बकमित्यादिना मीनम् ।
ॐ तद्विष्णोरित्यादिना मुद्राञ्च शोधयेत् ॥ ७ ॥
शक्तिशोधनम्
अथ शक्तिशोधनम् -
तत्र भावचूडामणौ -
अदीक्षितकुलासङ्गात्सिद्धिहानिः प्रजायते ।
तत्कथाश्रवणञ्चेत्स्यात् तत्तल्पगमनं यदि ।
स कुलीनः कथं देवि पूजयेत् ।
परमेशवरीम् ।
श्रीक्रमे -
संशोधनमनाचर्य नाचरेत्कुलपूजनम् ॥ ८ ॥
कौलिकतन्त्रे -
अभिषेकाद्भवेच्छुद्धिर्मन्त्रस्योच्चारविन्दुभिः ।
बलाद्वा यत्नतो वापि अभिषेकं समाचरेत् ॥ ९ ॥
अभिषेकमन्त्रस्तु -
आदौ बालां समुच्चार्य त्रिपुरायै समुद्धरेत् ।
नमः शब्दं समुच्चार्य इमां शक्तिं ततो वदेत् ।
पवित्रीकुरुशब्दान्ते मम सिद्धिं कुरु प्रिये ।
वह्निजायां समुच्चार्य शुद्धिमन्त्रः सुरेश्वरि ।
तस्याः कर्णेऽभेद बुद्ध्या मायाबीजं समुच्चद्धरेत् ।
इति शक्तिशोधनम् ॥ १० ॥
ततः शोधितद्रव्यमर्घ्ये क्षिपेत् ।
श्रीक्रमे अर्घ्यविधौ -
पूर्वशोधितद्रव्यन्तु गुप्तेनैव च सङ्क्षिपेत् ॥ ११ ॥
स्वतन्त्रतन्त्रे -
आद्यद्रव्यमर्घ्यपात्रे निक्षिप्य प्रयतः सुधीः ।
कुण्डगोलोद्भवं द्रव्यं स्वयम्भुकुसुमन्तथा ।
अर्घ्यं दत्त्वा महेशानि सर्वसिद्धीश्वरो भवेत् ।
सुधया चार्घ्यदानेन योगिनीनां भवेत् प्रियः ।
महायोगी भवेद्देवि पीठप्रक्षालनैर्जलैः ॥ १२ ॥
भैरवतन्त्रे -
पञ्चमात्तु परं नास्ति शाक्तानां सुखमोक्षयोः ।
केवलैः पञ्चमैर्वापि सिद्धो भवति साधकः ।
तेन पञ्चमकारेण पूजा कर्त्तव्या ॥ १३ ॥
ततोऽर्घ्यस्थापनानन्तरं पर्यङ्कमध्ये पीठं पूजयेत् ।
मण्डुकाय नमः इत्यादिक्रमेण ।
तदुक्तम् -
पूजयेदथ पर्यङ्कमध्ये मण्डूकमग्रतः ।
कालाग्निरुद्रमाधारशक्तिं कुर्ममनन्तकम् ।
वराहं पृथिवीं कन्दं नालञ्च केशराणि च ।
पद्मञ्च कर्णिकञ्चैव मण्डलञ्च समर्चयेत् ।
धर्मं वैराग्यमैश्वर्यं ज्ञानमज्ञानमेव च ।
अनैश्वर्यमवैराग्यमधर्ममपि पूजयेत् ।
ज्ञानविद्यात्मकञ्चैव आत्मानञ्चापि पूजयेत् ।
गन्धपुष्पाक्षतादीनि दत्त्वा तत्रैव पूजयेत् ।
अथ तुलिकोपरि कुलं स्थापयित्वा प्रपूजयेत् ।
तथा च -
तस्योपरि कुलं स्थाप्य पूजानुष्ठानमेव च ।
पूजयेच्च ततस्तस्यां पञ्चकामान्समाहितः ।
ह्रीञ्चैव कामराजञ्च क्लीं कन्दर्पम् ऐं च मन्मथम् ।
ब्लूं मकरध्वजं स्त्रीञ्चैव हि मनोभवम् ।
ओङ्कारादिनमोऽन्तञ्च कुसुमैर्गन्धसंयुतैः ।
अर्चयित्वा चतुर्दिक्षु पूजयेत्कुलनायिकाम् ।
वटुकं भैरवीञ्चैव दुर्गाञ्च क्षेत्रपालकम् ॥ १४ ॥
पूजावाक्यन्तु -
ॐ ह्रीं कामराजाय नमः इत्यादि ।
तत ऐं क्लीं स्त्रीं क्लीं ब्लूम् आधारशक्तिश्रीपदुकां
पूजयामीत्यनेन तस्या ललाटे त्रिकोणं विलिखेत् ।
तथा च तन्त्रसारे -
वाग्भवं कामबीजञ्च स्त्रीबीजं कामराजकम् ।
ब्लूमात्मकं ततो दत्त्वा आधारशक्तिमुद्धरेत् ।
श्रीपादुकां ततो दत्त्वा पूजयामि वदेत् ततः ।
अनेन मनुना देवि ललाटे सुमनोहरम् ।
त्रिकोणं तत्र संलिख्य सिन्दुराद्यैर्वरानने ।
उत्तरतन्त्रे -
तस्या मूर्ध्नि त्रिकोणञ्च यन्त्रमालिख्य साधकः ।
महाप्रेतासनं मध्ये बालाञ्च पूजयेत् ततः ।
तत एवञ्च ह्सौः सदाशिवमहाप्रेतपद्मासनाय नमः इति पूजयेत्
।
ततो बालां कामेश्वरीञ्च पूजयेत् ॥ १५ ॥
कुलार्णवे -
गणेशञ्च कुलाध्यक्षं दुर्गां लक्ष्मीं सरस्वतीम् ।
त्रिकोणेषु च सम्पूज्य वसन्तं मदनं प्रिये ।
स्तनयोः पूजयेत्पश्चान्मुखे तस्याः सुधाकरकम् ।
उत्तरतन्त्रे -
मौलौ गणेशं केशाग्रे कुलाध्यक्षं ललाटके ।
दुर्गां भ्रुवोस्तथा लक्ष्मीं रसनायां सरस्वतीम् ।
इति यत् स्थानवैपरीत्यं तदैच्छिकम् ॥ १६ ॥
ज्ञानार्णवे -
दक्षपादादिमूर्द्धान्तं वाममूर्द्धादि सुन्दरि ।
पादान्तं पूजयेत् सर्वाः कला वै कामसोमयोः ।
श्रद्धा प्रीति रतिश्चैव भूतिः कान्तिर्मनोभवा ।
मनोहरा मनोरमा मदनोत्पादिनी तथा मोहिनी दीपना चैव
शोधनी च वशङ्करी ।
रञ्जनी चैव देवेशि षोडशी प्रियदर्शना ।
षोडशस्वरसंयुक्ता एताः कामकला यजेत् ।
वाक्यन्तु -
अं श्रद्धायै नमः आं प्रीत्यै नमः इत्यादि ।
ततश्चन्द्रकलाः पूज्याः शिरसश्चरणावधि ।
पूषा वशा च सुमना रतिः प्रीतिस्तथा धृतिः ।
ऋद्धिः सौम्या मरीचिश्च शैलजे चांशुमालिनी ।
अङ्गिरा वशिनी चैव छाया सम्पूर्णमण्डला ।
तथा तुष्ट्यमृते चैव कलाः सोमस्य षोडश ।
अङ्गिरास्थाने मदिरेति वा पाठः ॥ १७ ॥
उत्तरतन्त्रे -
स्वरैरेव प्रपूज्या हि सर्वकार्यार्थसिद्धये ।
ललितातन्त्रे -
भगे त्वदीये विज्ञेया नाड्यस्तिस्रः प्रवाहिकाः ।
एका तु वाहिका चान्द्री सौरी चान्या तु वाहिका ।
अग्नेयी चापरा ज्ञेया पूजयेत्तास्तु साधकः ।
अम्बु स्रवति चान्द्री सा पुष्पं स्रवति भानवी ।
बीजं स्रवति चाग्नेयी तास्तु नाभिरर्चयेत् ।
ललितातन्त्रे -
वाग्भवाद्यैर्नमोयुक्तैस्ताःपूजयेत् प्रसन्नधीः ।
तेन ऐं चान्द्र्यै नमः ।
ऐं सौर्यै नमः ।
ऐम् आग्नेयै नमः ॥ १८ ॥
उत्तरतन्त्रे -
पूजयेन्मदनागारे रक्तचन्दनचर्चिते ।
भगमालामनुं प्रोच्य त्रितारानन्तरं तथा ।
तथा -
ऐं ह्रीं श्रीम् ऐं जं ब्लूं क्लिन्ने ततः परम् ।
सर्वाणीति भगानीति वशमानय तत्परम् ।
स्त्रीं ह्रीं क्लीं ब्लूं भगमालिन्यै नमः ।
ऐं ह्रीं श्रीम् इति मन्त्रेण गन्धाद्यैस्तामर्चयेत् ।
ततस्तु तत्रैव मूलं पूजयेत् ।
तन्त्रान्तरे -
इहाप्यावाहनं नास्ति जीवन्यासो महेश्वरि ।
तथैवञ्च विधानेन तां षोडशोपचारकैः ।
इष्टदेवीं प्रपूज्याथ सर्वसिद्धीश्वरो भवेत् ।
ततः स्वलिङ्गं पूजयेत् ।
अर्चयेद्गन्धपुष्पाद्यैः स्वशिवं तदनन्तरम् ।
मूलमन्त्रं ॐ नमः शिवाय ततः परम् ।
यजेत्तत्पुरुषाघोरसद्योजातकसञ्ज्ञकैः ।
श्रीविद्यायान्तु -
तारञ्च भुवनेशानीं तथा त्रिपुरसुन्दरीम् ।
नमः शिवाय विद्येयं दशार्णा परिकीर्तिता ।
इति विशेषः ।
सुन्दरीं सुन्दरीत्रिकूटम् ।
तत्पुरुषादिमन्त्रस्तु पूर्वोक्तः ।
निवृत्तिञ्च प्रतिष्ठाञ्च विद्याञ्च तदनन्तरम् ।
शक्तिञ्च शान्त्यतीताञ्च तदङ्गे तदनन्तरम् ।
समग्रविद्यामुच्चार्य त्रिकोणञ्चैव पूजयेत् ।
अवधूतेश्वरीं कुब्जां कामाख्यां समयामपि ।
चक्रेश्वरीं कालिकाञ्च तथा दिक्वरवासिनीम् ।
महाचण्डेश्वरीं तारां पूजयेदत्र साधकः ।
तदनुज्ञा ततो लब्ध्वा दत्त्वा ताम्बूलमेव च ।
शिवञ्च तत्र निक्षिप्य गजतुण्डाख्यमुद्रया ।
धर्माधर्महविर्दीप्त आत्माग्नौ मनसा स्रुचा ।
सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् ।
स्वाहान्तोऽयं महामन्त्र आरम्भे परिकीर्तितः ।
ततो जपेत् स्त्रियं गच्छन्विद्यां त्रिभुवनेश्वरीम् ।
जपेदिति अष्टोत्तरसहस्रं शतं वा अक्षुब्धो जपेत् ।
तथा च स्वतन्त्रतन्त्रे -
प्रजपेत्क्षोभहरतिश्चाष्टोत्तरसहस्रकम् ।
शतमष्टोत्तरं वापि प्रजपेत्शुद्धमानसः ।
प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनी स्रुचा ।
धर्माधर्मकलास्नेहपूऋणमग्नौ जुहोम्यहम् ।
स्वाहान्तोऽयं महामन्त्रः शुक्रत्यागे प्रकीर्तितः ॥ १८-क ॥
विशेषस्तु ज्ञानार्णवे -
शिवशक्तिसमायोगो योग एव न संशयः ।
सीत्कारो मन्त्रजापश्च वचनं स्तवनं भवेत् ।
आलिङ्गनञ्च कस्तूरी कर्पूरं चुम्बनं भवेत् ।
नखदंष्ट्रक्षतादीनि पुष्पाणि विविधना च ।
मथनं तर्पणं विद्धि बीजपातो विसर्जनम् ॥ १८-ख ॥
कुलार्णवे -
आलिङ्गनं चुम्बनञ्च स्तनयोर्मर्दनन्तथा ।
दर्शनं स्पर्शनं योनेर्विकाशो लिङ्गघर्षणम् ।
प्रवेशः स्थापनं शक्तेर्नव पुष्पाणि पूजने ॥ १९ ॥
यामले -
संयोगाज्जायते सौख्यं परमानन्दलक्षणम् ।
कुलामृतं प्रयत्नेन गृह्णीयाद् दुर्लभं नरः ।
तेनामृतेन दिव्येन सर्वे तुष्टा भवन्ति हि ।
यत्कामं कुरुते मन्त्री तत्क्षणादेव सिध्यति ॥ २० ॥
ज्ञानार्णवे -
कुलद्रव्यञ्च संशोध्य शिवशक्तिमयं प्रिये ।
जीवामृतं परं ब्रह्मरूपं निक्षिप्य सुन्दरि ।
अर्घ्यपात्रामृतैर्यष्ट्वा निर्विकल्पः सदा नरः ।
श्रीविद्याक्रममभ्यर्च्य परब्रह्ममयो भवेत् ।
श्रीविद्येत्युपलक्षणम् ॥ २१ ॥
इति ते कथितं ज्ञानं सर्वं रम्यं वरानने ।
सविकल्पस्तु सततं पापभाग्जायते नरः ।
विचिकित्सापरो मन्त्री जायते गुरुतल्पगः ।
अत एव वरारोहे निर्विकल्पः सदा भवेत् ॥ २२ ॥
समयाचारे -
कुलामृतं समादाय तदर्घ्ये निक्षिपेत्ततः ।
तदर्घ्येण समाराध्य पूजाशेषं समाचरेत् ।
कुलामृतं शोधितम् ॥ २३ ॥
शोधनमन्त्रस्तु श्रीक्रमे -
अमृते अमृतोद्भवे अमृतवर्षिणि प्रिये ।
देवीपदं शुक्रशापं प्रमोचयपदद्वयम् ।
अमृतं स्रावयद्वन्द्वममृतं कुरुयुग्मकम् ।
स्वाहापदं ततो देवि शुक्रशुद्धिर्भवेत्प्रिये ॥ २४ ॥
शुक्रैरक्षततण्डुलैः सुगन्धिकुसुमैर्युतैः ।
अर्घ्यद्रव्यैश्च देवेशि योनौ देवीं प्रपूजयेत् ॥ २५ ॥
उत्तरतन्त्रे -
धूपदीपैश्च नैवेद्यैर्विविधैः कुलसाधकः ।
विधाय वन्दितां ताञ्च तदुच्छिष्टं स्वयञ्चरेत् ॥ २६ ॥
शिवागमे च -
अविचारं शक्त्युच्छिष्टं न पिबेत्पुरुषो यदि ।
घोरञ्च नरकं याति कुलमार्गात्पतेद्ध्रुवम् ।
तस्माद्विचार्य यत्नेन शक्त्युच्छिष्टं भजेत्सुधीः ।
आनन्दं कारयेद्वीरस्तत्त्वं निर्भ्रान्तितः पिबेत् ॥ २७ ॥
कुलामृते -
पूजाकालं विना नैव पश्येच्छक्तिं दिगम्बराम् ।
पूजाकालं विना नैव पेया च साधकैः ।
आयुषा हीयते स्पृष्ट्वा पीत्वा च नरकं व्रजेत् ।
इति कुलपूजा ॥ २८ ॥
यामले -
नैवेद्यं त्रिपुरादेव्या वाञ्छन्ति विबुधाः सदा ।
तस्मादेवं कुरु श्रेष्ठ ब्रह्मणे विष्णवेऽपि च ।
महाशुद्धाय सूर्याय गणेशाय यमाय च ।
नह्नये च वरुणाय वायवे धनदाय च ।
ईशानाया महादेवि साधकाय प्रदापयेत् ।
त्रिपुरेत्युपलक्षणम् ॥ २९ ॥
वीराणां पुरश्चरणम्
अथ वीराणां पुरश्चरणम् -
तत्रादौ परकीयां नारीं दीक्षितां पूजयेत् ।
तथा च कुलचूडामणौ -
पुरश्चरणकाले हि परयोषां प्रपूजयेत् ।
दीक्षितां वस्त्रभूषाद्यैर्भोज्यैः पायससम्भवैः ।
आरम्भकाले तु नियतं स्वयं-पक्वान्नभोजनम् ।
नानाविधं पिष्टकञ्च नानारससमन्वितम् ।
दुग्धं दधि घृतं तक्रं नवनीतं सशर्करम् ।
उपलाखण्डचूतानि नानाविधरसायनम् ।
नारिकेलं कपित्थञ्च नागरङ्गं सुदर्शनम् ।
लिम्पाकं बीजपूरञ्च दाडिमीफलमुत्तमम् ।
नानारम्यफलञ्चैव नानागन्धविलेपनम् ।
चन्दनं मृगनाभिञ्च श्रीखण्डं नवपल्लवम् ।
टङ्कणं लोध्रकञ्चैव जलजं वनजं तथा ।
नानाशैलसमुद्भूतं नानालङ्कारभूषितम् ।
शून्यगेहे समानीय चार्घ्योदकविशोधिताम् ।
अमृतीकरणं कृत्वा शक्तिञ्चाभिमुखीं नयेत् ॥ ३० ॥
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च कुलभूषणा ।
वैश्या नापितकन्या च रजकी नटकी तथा ।
विशेषवैदग्ध्ययुताः सर्वा एव कुलाङ्गनाः ॥ ३१ ॥
अथ दीक्षिता अष्टशक्तीः क्रमेण संस्थाप्यार्घ्यपात्रं
स्थापयित्वा अर्घ्योदकेन ताश्चाभ्युक्ष्य वमिति धेनुमुद्रया
अमृतीकृत्याष्टशक्तिरूपभेदं कृत्वा
ब्राह्मण्याद्यष्टशक्तीनां सञ्ज्ञाभिर्नामकरणं कृत्वा
क्रमेणासनादिकं दद्यात् ।
तदुक्तं तत्रैव -
अष्टकन्यारूपभेदं विलोक्यामर्षवेष्टितम् ।
ब्राह्मण्याद्यष्टशक्तीनां नामभिः कृतसञ्ज्ञया ।
आसनं प्रथमं दत्त्वा स्वागतञ्च पुनः पुनः ।
अर्घ्यं पाद्यञ्च पानीयं मधुपर्कं जलन्ततः ।
स्नापयेद् गन्धपुष्पादिकेशसंस्कारमेव च ।
धूपयित्वा ततः केशान् कौषेयञ्च निवेदयेत् ।
ततः स्थानान्तरे पीठमास्तीर्य पादुकाद्वयम् ।
दत्त्वा तत्र समासीनां नानालङ्कारभूषणैः ।
भूषयित्वानुलेपञ्च गन्धं माल्यं निवेदयेत् ।
ततस्तां तां शक्तिं यथाक्रमेण ब्रह्माण्यादिरूपां
समावाह्य जीवन्यासादिकं कृत्वा
गन्धपुष्पधूपदीपान्नव्यञ्जनादिकं दत्त्वा तासां
सव्यकर्णे क्रमेण स्तोत्रं पठेत् ।
तदुक्तं तत्रैव -
तां तां शक्तिं समावाह्य मूर्ध्नि तासां समानयेत् ।
भोज्यं मण्डलमध्ये तु स्वर्णपात्रे सुशोभने ।
चर्व्यं चूष्यं लेह्यं पेयं भोज्यं भक्ष्यं निवेदयेत् ।
अदीक्षिता भवेद् या तु तदा मायां निवेदयेत् ।
तासां सव्येषु कर्णेषु ततः स्तोत्रं समाचरेत् ॥ ३२ ॥
ॐ मातार्देवि नमस्तेऽस्तु ब्रह्मरूपधरेऽनघे ।
कृपया हर मे विघ्नं मन्त्रसिद्धिं प्रयच्छ मे ॥
ॐ माहेशी वरदे देवि परमानन्दरूपिणी ।
कृपयेत्यादि ॥
ॐ कौमारि सर्वविद्येशे कुमारक्रीडने वरे ।
कृपयेत्यादि ॥
ॐ विष्णुरूपधरे देवि विनतासुतवाहिनि ।
कृपयेत्यादि ॥
ॐ वाराहि वरदे देवि दंष्ट्रोद्धृतवसुन्धरे ।
कृपयेत्यादि ॥
ॐ शत्रुरूपधरे देवि शक्रादिसुरपूजिते ।
कृपयेत्यादि ॥
ॐ चामुण्डे मुण्डमालासृक्चर्चिते विघ्ननाशिनि ।
कृपयेत्यादि ॥
ॐ महालक्ष्मि महोत्साहे क्षोभसन्तापहारिणि ।
कृपयेत्यादि ॥
मितिमातृमये देवि मितिमातृवहिष्कृते ।
एकेबहुविधे देवि विश्वरूपे नमोऽस्तु ते ।
एतत्स्तोत्रं पठेद्यस्तु कर्मारम्भेषु संयतः ।
विदग्धां वा समालोक्य तस्य विघ्नं न जायते ।
कुलीनस्य द्वारदेवाः कथितास्तव पुत्रक ।
दीक्षाकाले नित्यपूजासमये नार्चयेद्यदि ।
तस्य पूजाफलं वत्स नीयते यक्षराक्षसैः ॥ ३३ ॥
यदि व्रीडापरा सा तु भोजने तद्गृहाद्बहिः ।
स्थितस्तावत्पठेत्स्तोत्रं यावत् तृप्तिः प्रजायते ।
आचम्य मुखवासादि ताम्बूलञ्च निवेदयेत् ।
ततो दद्यात्पुनर्मालां गन्धचन्दनपङ्किलम् ।
विसृज्य प्रदक्षिणीकृत्य वरं प्रार्थ्य सुखी भवेत् ॥ ३४ ॥
अन्या यदि न गच्छेत्तु निजकन्या निजानुजा ।
अग्रजा मातुलानी वा माता वा तत्सपत्निका ।
पूर्वाभावे परा पूज्या मदंशा योषितो मताः ।
अग्रजा मातुलानी वा माता वा तत्सपत्निका ।
एका चेत्कुलशास्त्रञ्चपूजार्हा तत्र भैरव ।
सर्व एव सुराः पूज्याः सत्यं ब्रह्मशिवादयः ॥ ३५ ॥
एका चेत्युवती तत्र पूजिता चावलोकिता ।
सर्वा एव परा देव्यः पूजिताः कुलभैरव ।
आदावन्ते च मध्ये च लक्षपूर्तौ विशेषतः ।
न पूजयति चेत्कान्तां तदा विघ्नैर्विलिप्यते ॥ ३६ ॥
पूर्वार्जितफलं नास्ति का कथा परजन्मनि ।
तस्मात्सर्व प्रयत्नेन पूजयेत्कुलसुन्दरीम् ॥ ३७ ॥
अथैवं क्रमेण लक्षजपादौ मध्ये अन्ते च शक्तिं पूजयेत् ।
लक्षमित्युलक्षणम् ।
ततो रात्रौ पञ्चमेन देवीं सम्पूज्य रहस्यमालया कुलयुक्तं
गुरुं शिरसि हृदि देवीञ्च ध्यात्वा शिवोऽहमिति भावयन् जपं
कुर्यात् ॥ ३८ ॥
मुण्डमालायाम् -
गते तु प्रथमे यामे तृतीयप्रहरावधि ।
निशायाञ्च प्रजप्तव्यं रात्रिशेषे जपेन्न तु ॥ ३९ ॥
स्वतन्त्रतन्त्रे -
रात्रौ मांसासवैर्देवीं पूजयित्वा विधानतः ।
ततो नग्नां स्त्रियं नग्नो रमन् क्लेदयुतोऽपि वा ।
जपेल्लक्षं ततो देवीं होमयेज्जलदिन्धने ।
योनिकुण्डे स्थिते सर्पिर्मांसमत्स्ययुतं भृशम् ।
दशांशं तर्पयेद् द्रव्यैर्मांसमिश्रैस्तु साधकः ।
तर्पणस्य दशांशेन अभिषिच्य जगन्मयीम् ।
दशांशं भोजयेत्साधु साधकं देवताप्रियम् ।
दिव्यं मांसञ्च मत्स्यञ्च चर्वणञ्च प्रदापयेत् ।
तदन्ते तोषयेद्भक्त्या गुरुं स्वर्णादिभिः प्रिये ।
एतत् कल्पान्महादेवि मन्त्रः सिध्यति निश्चितम् ॥ ४० ॥
इति कुलपुरश्चरणम् ।
मन्त्रिणां मन्त्रस्नानम्
अथ मन्त्रिणां मन्त्रस्नानम् -
तन्त्रान्तरे -
स्नायाच्च विमले तीर्थे पुष्करे हृदयाश्रिते ।
बिन्दुतीर्थेऽथवा स्नात्वा पुनर्जन्म न विद्यते ॥ ४१ ॥
इडासुषुम्ने शिवतीर्थकेऽस्मिन् ज्ञानाम्बुपूर्णे वहतः शरीरे ।
ब्रह्माम्बुभिः स्नाति तयोः सदा यः किन्तस्य गाङ्गैरपि पुष्करैर्वा
॥ ४२ ॥
इति स्नानम् ।
अथ सन्ध्या -
शिवशक्त्योः समायोगे यस्मिन् काले प्रजायते ।
सा सन्ध्या कुलनिष्ठानां समाधिस्ते प्रजायते ॥ ४३ ॥
तर्पणस्तु -
मूलाधारात्ज्वलन्तीञ्च सोमसूर्याग्निरूपिणीम् ।
कुण्डलिनीं समुत्थाप्य परविन्दुं निवेश्य च ।
तदुद्भवामृतेनैव तर्पयेद्देहदेवताम् ॥ ४४ ॥
तदुक्तं नवरत्नेश्वरे -
चन्द्रार्कानलसङ्घट्टाद् गलितं यत्परामृतम् ।
तेनामृतेन दिव्येन तर्पयेदिष्टदेवताम् ॥ ४५ ॥
ब्रह्मरन्ध्रादधोभागे यच्चान्द्रं पात्रमुत्तमम् ।
कलासारेण सम्पूर्य तर्पयेत्तेन खेचरीम् ॥ ४६ ॥
ध्यानन्तु -
किरणस्थं तदग्निस्थं चन्द्रभास्करमध्यगम् ।
महाशून्ये लयं कृत्वा पूर्णस्तिष्ठति योगिराट् ॥ ४७ ॥
अथवा -
निरालम्बे पदे शून्ये यत्तेज उपजायते तद्गर्भमभ्यसेन्नित्यं
ध्यानमेतद्धि योगिनाम् ।
तद्गर्भमित्यन्तःकरणस्थमभ्यसेदिति ॥ ४८ ॥
अथान्तरपूजा -
मूलाधारात्कुलकुण्डलिनीम् उत्थाप्य, हृदयादर्कमण्डलं
नीत्वा, सहस्रदलकमलान्तर्गतचन्द्रामृतधारया मूलमन्त्रं
स्मरन् सिञ्चेत् ॥ ४९ ॥
अर्चयन्विषयैः पुष्पैस्तत्क्षणात्तन्मयो भवेत् ।
न्यासस्तन्मयताबुद्धिः सोऽहं भावेन पूजयेत् ।
तन्मयेति तदेकत्वज्ञानं सोऽहमिति ।
मन्त्राक्षराणि चिच्छक्तौ प्रोतानि परिभावयेत् ।
तामेव परमव्योम्नि परमानन्दवृंहिते ।
दर्शयत्यात्मसद्भावं पूजाहोमादिभिर्विनेति ॥ ४९-क ॥
विषयपुष्पाणि यथा -
अमायमनहङ्कारमरागममदन्तथा ।
अमोहकमदम्भञ्च अनिन्दाक्षोभकौ तथा ।
अमात्सर्यमलोभञ्च दशपुष्पं विदुर्बुधाः ।
अहिंसा परमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।
दयापुष्पं क्षमापुष्पं ज्ञानपुष्पञ्च पञ्चमम् ॥ ५० ॥
अथ होमः -
आत्मानमपरिच्छिन्नं
विभाव्यात्मान्तरात्मपरमात्मज्ञानात्मरूपं चतुरस्रं
चित्कुण्डमानन्दमेखलायुतम् ।
अर्द्धमात्राकृतियोनिविभूषितं नाभौ ध्यात्वा,
तन्मध्यस्थज्ञानाग्नौ जुहुयात् ।
यथा मूलान्ते -
नाभिचैतन्यरूपाग्नौ हविषा मनसा स्रुचा ।
ज्ञानप्रदीपिते नित्यमक्षवृत्तिर्जुहोम्यहं स्वाहा ।
इति प्रथमाहुतिम् ।
मूलान्ते -
धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा ।
सुषुम्ना-वर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् स्वाहेति द्वितीयाहुतिम्
।
मूलान्ते -
धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा ।
सुषुम्ना-वर्त्मना नित्यमक्षवृतीर्जुहोम्यहम् स्वाहेति द्वितीयाहुतिम् ।
मूलान्ते -
प्रकाशाकाशहस्ताभ्याम् अवलम्व्योन्मनी स्रुचा ।
धर्माधर्मकलास्नेहपूर्णमग्नौ जुहोम्यहम् स्वाहेति
तृतीयाहुतिं दद्यात् ।
ततो मूलान्ते -
अन्तर्निरन्तरनिरिन्धनमेधमाने मायान्धकारपरिपस्थिनि
संविदग्नौ ।
कस्मिंश्चिद्भूतमरीचिविकाशभूमौ विश्वं जुहोमि
वसुधादिशिवावसानम् ।
इति चतुर्थाहुतिं जुहुयात् ॥ ५१ ॥
इत्यन्तर्यजनं कृत्वा साक्षाद्ब्रह्ममयो भवेत् ।
न तस्य पापपुण्यानि जीवन्मुक्तो भवेद् ध्रुवम् ।
अयम् अन्तर्यागो ज्ञानिनामेव ॥ ५१-क ॥
अथान्तःपञ्चमकारयजनप्रकारः ।
तदुक्तं कुलार्णवे-अन्तर्यजने -
सुरा शक्तिःशिवो मांसं तद्भोक्ता भैरवःस्वयम् ।
तयोरैक्ये समुत्पन्न आनन्दो मोक्ष उच्यते ॥ ५२ ॥
आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितम् ।
तस्याभिव्यञ्जकं द्रव्यं योगिभिस्तेन पायते ।
लिङ्गत्रयविशेषज्ञः षट्चक्रपद्मभेदकः ।
पीठस्थानानि चागत्य महापद्मवनं व्रजेत् ।
आमूलाधारमाब्रह्मरन्ध्रं गत्वा पुनः पुनः ।
चिच्चन्द्रकुण्डलीशक्तिसामरस्यमहोदयः ।
व्योमपङ्कजनिस्यन्दसुधापानरतो नरः ।
मधुपानमिदं देवि चेतरन्मद्यपानकम् ॥ ५३ ॥
पुण्यापुण्यपशुं हत्वा ज्ञानखड्गेगन योगवित् ।
परे लयं नयेच्चित्तं पलाशीति निगद्यते ॥ ५४ ॥
मानसादीन्द्रियगणं संयम्यात्मनि योजयेत् ।
मांसाशी स भवेद्देवि इतरे प्राणिघातकाः ॥ ५५ ॥
परशक्त्यात्ममिथुनसंयोगानन्दनिर्भराः ।
मुक्तास्ते मैथुनं तत्स्यादितरे स्त्रीनिषेवकाः ॥ ५६ ॥
अथ कुमारी पूजा -
ज्ञानार्णवे -
होमादिकं हि सकलं कुमारीपूजनं विना ।
परिपूर्णफलं न स्यात्पूजया तत्भवेद् ध्रुवम् ।
कुमारीपूजया देवि फलं कोटिगुणं भवेत् ॥ ५७ ॥
पुष्पं कुमार्यै यद्दत्तं तन्मेरुसदृशं फलम् ।
कुमारी भोजिता येन त्रैलोक्यं तेन भोजितम् ॥ ५८ ॥
तत्र कुमारीनिर्णयो यामले -
एकवर्षा भवेत्सन्ध्या द्विवर्षा सा सरस्वती ।
त्रिवर्षा च त्रिधामूर्तिश्चतुवर्षा च कालिका ।
सुभगा पञ्चवर्षा तु षड्वर्षा तु उमा भवेत् ।
सप्तभिर्मालिनी साक्षादष्टवर्षा तु कुब्जिका ।
नवभिः कालसन्दर्भा दशभिश्चापराजिता ।
एकादशे च रुद्राणी द्वादशाब्दे तु भैरवी ।
त्रयोदशे महालक्ष्मीर्द्विसप्ता पीठनायिका ।
क्षेत्रज्ञा पञ्चदशभिः षोडशे चाम्बिका स्मृता ।
एवं क्रमेण सम्पूज्या यावत्पुष्पं न विद्यते ॥ ५९ ॥
प्रतिपदादिपूर्णान्तं वृद्धिभेदेन पूजयेत् ।
महापर्वसु सर्वेषु विशेषाच्च पवित्रके ।
महानवम्यां देवेशि कुमारीं च प्रपूजयेत् ॥ ६० ॥
अथ पूजाक्रमः -
तत्र कुमारीमानीय ऐङ्कारेण जलं तत्तन्नाम्ना देवीबुद्ध्या
दद्यात् ।
ह्रीङ्कारेण तथा पाद्यं श्रीङ्कारेण चार्घ्यं हूम्बीजेन
चन्दनं ह्रीङ्कारेण पुष्पाणि ह्सौः मन्त्रेण धूपदीपौ दद्यात् ।
ततः षडङ्गेन पूजयेत् ।
तद्यथा -
ऐं ह्रीं श्रीं क्लीं ह्सौः कुलकुमारीके हृदयाय नमः ।
हैं वैं ह्रैं श्रीं ह्रीम् ऐं स्वाहा शिरसे स्वाहा ॥
ॐ श्रीं शिखायै वषट् ।
ऐं कुलवागीश्वरि कवचाय हुम् ।
ऐं कुलेश्वरि नेत्रत्रयाय वौषट् ।
ह्रीम् अस्त्राय फट् ।
ततः ऐं सिद्धजयाय पूर्ववक्त्राय नमः ।
ऐं जयाय उत्तरवक्त्राय नमः ।
ऐं ह्रीं श्री कुब्जिके पश्चिमवक्त्राय नमः ।
ऐं कालिके दक्षवक्त्राय नमः ।
वाग्भवेन पुरक्षोभं मायाबीजे गुणाष्टकम् ।
श्रीयो बीजे श्रियो लाभः हूं बीजेनारिसङ्क्षयः ।
भैरवेण च बीजेन खगत्वममरादिभिः ।
कुमारिका ह्यहं नाथ सदा त्वं हि कुमारिका ॥ ६१ ॥
अष्टोत्तरशतं वापि एकां वापि प्रपूजयेत् ।
पूजितां प्रतिपूज्यन्ते निर्दहन्त्यवमानिताः ।
कुमारी योगिनी साक्षात्कुमारी परदेवता ।
असुरादुष्टनागाश्च ये ये दुष्टग्रहा अपि ।
भूतवेतालगन्धर्वा डाकिनीयक्षराक्षसाः ।
याश्चान्या देवताः सर्वा भूर्भूवःस्वश्च भैरवाः ।
पृथिव्यादीनि सर्वाणि ब्रह्माण्डं सचराचरम् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
ते तुष्टाः सर्वतुष्टाश्च यस्तु कन्यां प्रपूजयेत् ॥ ६१-क ॥
विधियुक्तं कुमारीभिर्भोजयेच्चैव भैरवीम् ।
पाद्यमर्घ्यं तथा धूपं कुङ्कुमं चन्दनं शुभम् ।
भक्तिभावेन सम्पूज्य कुमारीभ्यो निवेदयेत् ॥ ६२ ॥
प्रदक्षिणत्रयं कुर्यादादौ मध्ये तथान्ततः ।
पश्चाच्च दक्षिणा देया रजतं स्वर्णमौक्तिकैः ।
दक्षिणाञ्च कुमारीभ्यो दद्यात्प्रक्रमतस्तथा ॥ ६३ ॥
तथा तत्रैव -
विवाहयेत्स्वयं कन्यां ब्रह्महसां व्यपोहति ।
गवां हत्या च स्त्रीहत्या सर्वं पापं विनश्यति ।
यो यश्च पुण्यकाले तु कन्यादानं प्रकल्पयेत् ।
भुक्तिमुक्तिफलं तस्य सौभाग्यं सर्वसम्पदः ॥ ६४ ॥
रुद्रलोके वसेन्नित्यं त्रिनेत्रो भगवान् हरः ।
तीर्थकोटिसहस्राणि अश्वमेधशतानि च ।
तत्फलं लभते मर्त्त्यो यस्तु कन्यां विवाहयेत् ॥ ६५ ॥
वालुकासागरे ज्ञेयं तावदब्दसहस्रकम् ।
एकैकं कुलमुद्धृत्य रुद्रलोकेमहीयते ॥ ६६ ॥
कन्यादानन्तु तत्त्वद्देवताप्रीतये इति सम्प्रदायविदः ।
वस्तुतस्तु तत्तद्वर्षीयायाः कन्यायास्तत्तद्देवता बुद्ध्या
शिवरूपत्वं सम्प्रदानीये विभाव्य दद्यादिति रहस्यार्थः ॥ ६७ ॥
अथ योगप्रक्रिया -
गौतमीये -
गौतम उवाचः ।
देवर्षे योगयुक्तात्मन् योगानुभवदर्शक ।
साङ्ख्ययोगविशेषज्ञ कर्मयोगनिषेवक ।
विना योगं न सिध्येत्त कुण्डली चङ्क्रमः प्रभो ।
मूलपद्मे कुण्डलिनी यावन्निद्रायिता प्रभो ।
तावत्किञ्चिन्न सिध्येतयन्त्रमन्त्रार्चनादिकम् ।
जागर्ति यदि सा देवि बहुभिः पुण्यसञ्चयैः ।
तदा प्रसादमायान्ति यन्त्र-मन्त्रार्चनादयः ॥ ६८ ॥
शिववद्विहरेल्लोकेष्वष्टैश्वर्यसमन्वितः ।
योगयोगाद्भवेन्मुक्तिर्मन्त्रसिद्धिरखण्डिता ।
सिद्धे मनौ परावाप्तिरिति शास्शार्थनिर्णयः ।
तस्मात्कार्यं परं योगं कथयस्व मुनीश्वर ।
मुक्तात्मा येन विहरेत्स्वर्गे मर्त्ये रसातले ।
जीवन्मुक्तश्च देहान्ते निर्वाणपदमाप्नुयात् ॥ ६९ ॥
नारद उवाच -
कथयामि तव स्नेहात्योगयोग्योऽसि गौतम् ।
संसारोत्तारणे युक्तिर्योगशब्देन कथ्यते ।
ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः ॥ ७० ॥
तव स्नेहात्समाख्याता योगविघ्नकरास्त्विमे ।
कामक्रोधलोभमोहमदमात्सर्यसञ्ज्ञकाः ।
योगाङ्गैरेभिर्जित्वा तान् योगिनो योगमाप्नुयुः ॥ ७१ ॥
यमं नियममासनप्राणायामौ ततः परम् ।
प्रत्याहारं धारणाख्यं ध्यानं सार्द्धं समाधिना ।
अष्टाङ्गान्याहुरेतानि योगिनो योगसाधने ॥ ७२ ॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ।
क्षमा धृतिमिताहारः शौचं चेति यमा दश ॥ ७३ ॥
तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् ।
सिद्धान्तश्रवणञ्चैव ह्रीर्मतिश्च जपो हुतम् ।
दशैते नियमाः प्रोक्ता योगशास्त्रविशारदैः ॥ ७४ ॥
आसनानि पूर्वोक्तानि ।
इडयाकर्षयेद्वायुः वाह्यं षोडशमात्रया ।
धारयेत् पूरितं योगी चतुःषट्या च मात्रया ।
सुषुम्नामध्यगं सम्यक्द्वात्रिंशन्मात्रया शनैः ।
नाड्या पिङ्गलया चैनं रेचयेद् योगवित्तमः ।
प्राणायाममिमं प्राहुर्योगशास्त्रविशारदाः ॥ ७५ ॥
भूयोभूयः क्रमात्तस्य व्यात्यासेन समाचरेत् ।
मात्रावृद्धिक्रमेणैव सम्यग्द्वादश षोडश ।
जपध्यानादिभिर्युक्तं सगर्भं तं विदुर्बुधाः ।
तदपेतं निर्गर्भञ्च प्राणायामं परं विदुः ॥ ७६ ॥
क्रमादभ्यासतः पुंसो देहे स्वेदोद्गमोऽधमः ।
मध्यमः कम्पसंयुक्तो भूमित्यागः परो मतः ।
उत्तमस्यगुणावाप्तिर्यावच्छीलनमिष्यते ॥ ७७ ॥
इन्द्रियाणां विचरतां विषयेषु निरर्गलम् ।
बलादाहरणं तेभ्यः प्रत्याहारो विधीयते ॥ ७८ ॥
अङ्गुष्ठगुल्फजानूरुसीमनीलिङ्गनाभिषु ।
हृद्ग्रीवाकण्ठदेशेषु लम्बिकायां तथा नसि ।
भ्रूमध्ये मस्तके मूर्ध्नि द्वादशान्ते यथाविधि ।
धारणं प्राणमरुतो धारणेति निगद्यते ॥ ७९ ॥
समाहितेन मनसा चैतन्यान्तरवर्तिना ।
आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते ॥ ८० ॥
समत्वभावना नित्यं जीवात्मपरमात्मनोः ।
समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् ॥ ८१ ॥
इत्यादि कथितं विप्र कामादिषट्कनाशनम् ।
इदानीं कथये तेऽहं मन्त्रयोगमनुत्तमम् ॥ ८२ ॥
विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं मुने ।
चन्द्रसूर्याग्नितेजोभिर्जीवब्रह्मैक्यरूपकम् ।
तिस्रः कोट्यस्तदर्द्धेन शरीरे नाडयो मताः ।
तासु मुख्या दश प्रोक्तास्तासु तिस्रो व्यवस्थिताः ॥ ८३ ॥
प्रधाना मेरुदण्डेऽत्र चन्द्रसूर्याग्निरूपिणी ।
इडा वामे स्थिता नाडी शुक्ला तु चन्द्ररूपिणी ।
शक्तिरूपा च सा नाडी साक्षादमृतविग्रहा ।
दक्षिणे पिङ्गलाख्या तु पुंरूपा सूर्यविग्रहा ।
दाडिमीकेशर-प्रख्या विषाख्या मुनिभिः स्मृता ॥ ८४ ॥
मेरुमध्ये स्थिता या तु मूलादाब्रह्मविग्रहा ।
सर्व-तेजोमयी सा तु सुषुम्ना बहुरूपिणी ॥ ८५ ॥
तस्या मध्ये विचित्राख्या अमृतस्राविणी शुभा ।
सर्वदेवमयी सा तु योगिनां हृदयङ्गमा ।
विसर्गाद्विन्दुपर्यन्तमेतत्तिष्ठति तत्त्वतः ॥ ८६ ॥
मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके ।
मध्ये स्वयम्भुलिङ्गन्तु कोटिसूर्यसमप्रभम् ॥ ८७ ॥
तदूर्ध्वे कामबीजन्तु कलशान्तीन्दुनादकम् ।
तदूर्ध्वे तु शिखाकारा कुण्डली ब्रह्मविग्रहा ॥ ८८ ॥
तद्बाह्ये हेमवर्णाभं वसवर्णं चतुर्दलम् ।
द्रुतहेमसमप्रख्यं पद्मं तत्र विभावयेत् ॥ ८९ ॥
तदूर्ध्वेऽग्निसमप्रख्यं षड्दलं हीरकप्रभम् ।
बादिलान्तषड्वर्णेन युक्ताधिष्ठानसञ्ज्ञकम् ॥ ९० ॥
मूलमाधारषट्कानां मूलाधारं ततो विदुः ।
स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥ ९१ ॥
तदूर्ध्वे नाभिदेशे तु मणिपूरं महत्प्रभम् ।
मेघाभं विद्युदाभञ्च बहुतेजोमयन्ततः ।
तत्पद्मं मणिवद्भिन्नं मणिपूरं तथोच्यते ॥ ९२ ॥
दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ।
शिवेनाधिष्ठितं पद्मं विश्वलोकैककारणम् ॥ ९३ ॥
तदूर्ध्वेऽनाहतं पद्ममुद्यदादित्यसन्निभम् ।
कादिठान्ताक्षरैरर्कपत्रैश्च समधिष्ठितम् ॥ ९४ ॥
तन्मध्ये बाणलिङ्गस्तु सूर्यायुतसमप्रभम् ।
शब्दब्रह्ममयं शब्दोऽनाहतस्तत्र दृश्यते ।
अनाहताख्यं पद्मं तत्मुनिभिः परिकीर्त्यते ॥ ९५ ॥
आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् ।
तदूर्ध्वन्तु विशुद्धाख्यं दलं षोडशपङ्कजम् ।
स्वरैः षोडशकैर्युक्तं धूम्रवर्णैर्महत्प्रभम् ।
विशुद्धिं तनुते यस्माज्जीवस्या हंसलोकनात् ।
विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम् ॥ ९६ ॥
आज्ञाचक्रं तदूर्ध्वे तु आत्मनाधिष्ठितं परम् ।
आज्ञासङ्क्रमणं तत्र गुरोराज्ञेति कीर्तितम् ॥ ९७ ॥
कैलासाख्यं तदूर्ध्वे तु बोधनीन्तु तदूर्ध्वतः ।
एवञ्च शिवचक्राणि प्रोक्तानि तव सुव्रत ॥ ९८ ॥
सहस्राराम्बुजं विन्दुस्थानं तदूर्ध्वमीरितम् ॥ ९९ ॥
आदौ पूरकयोगेन स्वाधारे योजयेन्मनः ।
गुदमेढ्रान्तरे शक्तिं तामाकुञ्च्य प्रबोधयेत् ॥ १०० ॥
लिङ्गभेदक्रमेणैव बिन्दुचक्रन्तु प्रापयेत् ।
शम्भुना तां परां शक्तिमेकीभावं विचिन्तयेत् ॥ १ ॥
तत्रोत्थितामृतरसं द्रुतलाक्षारसोपमम् ।
पाययित्वा च तां शक्तिं कृष्णाख्यां प्रयोगसिद्धिदाम् ।
षट्चक्रदेवतास्तत्र सन्तर्प्यामृतधारया ।
आनयेत्तेन मार्गेण मूलाधारं ततः सुधीः ॥ २ ॥
एवमभ्यस्यमानस्य अहन्यहनि मारुतम् ।
जरामरणदुःखाद्यैर्मुच्यते भवबन्धनात् ॥ ३ ॥
पूर्वोक्तदूषिता मन्त्राः सर्वे सिध्यन्ति नान्यथा ।
ये गुणाः सन्ति देवस्य पञ्चकृत्यविधायिनः ।
ते गुणाः साधकवरे भवन्त्येव न चान्यथा ।
इत्येतं कथितं सर्वं योगमार्गमनुत्तमम् ॥ ४ ॥
इदानीं धारणाख्यान्तु शृणुष्वावहितो मया ।
दिक्कालाद्यनवच्छिन्ने कृष्णे चेतो निधाय च ।
तन्मयो भवति क्षिप्रं जीवब्रह्मैक्ययोजनात् ॥ ५ ॥
अथवा समलं चित्तं यदा क्षिप्रं न सिध्यति ।
तदावयवयोगेन योगी योगान्समभ्यसेत् ॥ ६ ॥
पादाम्भोजे मनो दद्यान्नखकिञ्जल्कचित्रिते ।
जङ्घायुग्मे तथा रामकदलीकाण्डशोभिते ।
ऊरुद्वये मत्तहस्तिकरदण्डसमप्रभे ।
गङ्गावर्त्तगभीरे तु नाभौ सिद्धविले ततः ।
उदरे वक्षसि तथा हारे श्रीवत्सकौस्तुभे ।
पूर्णचन्द्रायुतप्रख्ये ललाटे चारुकुन्तले ।
शङ्खचक्रगदाम्भोजदोर्दण्डपरिमण्डिते ।
सहस्रादित्यसङ्काशे कीरीटे कुण्डलद्वये ।
स्थाने नियोजयेन्मन्त्री विशुद्धः शुद्धचेतसा ॥ ७ ॥
मनो निवेश्य कृष्णे वै तन्मयो भवति ध्रुवम् ।
यावन्मनो लयं याति कृष्णे स्वत्मनि चिन्मये ।
तावदिष्टमनुर्मन्त्री जपहोमं समभ्यसेत् ।
कृष्ण इत्युपलक्षणम् ॥ ८ ॥
अतः परं न किञ्चित् तु कृत्यमस्ति तथा हरेः ।
विदिते परतत्त्वे तु समस्तैर्नियमैरलम् ।
तालवृन्तेन किं कार्यं लब्धे मलयमारुते ॥ ९ ॥
मन्त्राभ्यासेन योगेन ज्ञानं ज्ञानाय कल्पते ।
न योगेन विना मन्त्रो न मन्त्रेण विना हि सः ।
द्वयोरभ्यासयोगो हि ब्रह्मसंसिद्धिकारणम् ॥ १० ॥
तमः परिवृते गेहे घटो दीपेन दृश्यते ।
एवं मायावृतो ह्यात्मा मनुना गोचरीकृतः ॥ ११ ॥
एवं ते कथितं ब्रह्मन्मन्त्रयोगमनुत्तमम् ।
दुर्लभं विषयासक्तैः सुलभं त्वादृशामपि ॥ १२ ॥
प्रकारान्तरम्
अथ प्रकारान्तरम् -
शारदायाम् -
षण्णवत्त्यङ्गुलायामं शरीरमुभयात्मकम् ।
गुदध्वजान्तरे कन्दमुत्सेधाद्द्व्यङ्गुलं विदुः ।
तस्य द्विगुण विस्तारं वृत्तरूपेण शोभितम् ।
नाड्यस्तत्र समुद्भूता मुख्यास्तिस्रः प्रकीर्तिताः ॥ १३ ॥
इडा वामे स्थिता नाडी पिङ्गला दक्षिणे मताः ।
तयोर्मध्यगता नाडी सुषुम्ना वंशमाश्रिता ॥ १४ ॥
पदाङ्गुष्ठद्वयं याता शिखाभ्यां शिरसा पुनः ।
ब्रह्म स्थानं समापन्ना सोमसूर्याग्निरूपिणी ॥ १५ ॥
तस्या मध्यगता नाडी चित्राख्या योगिवल्लभा ।
ब्रह्मरन्ध्रं विदुस्तस्यां पद्मसूत्रनिभं परम् ।
आधारांश्च विदुस्तत्र मतभेदादनेकधा ।
दिवामार्गमिदं प्राहुरमृतानन्द कारणम् ॥ १६ ॥
इडायां सञ्चरेच्चन्द्रः पिङ्गलायां दिवाकरः ।
ज्ञातौ योगनिदानज्ञैः सुषुम्नायाञ्च तावुभौ ॥ १७ ॥
आधारकन्दमध्यस्थं त्रिकोणमतिसुन्दरम् ।
ज्योतिषां निलयं दिव्यं प्राहुरागमवेदिनः ॥ १८ ॥
तत्र विद्युल्लताकारा कुण्डली परदेवता ।
परिस्फुरति सर्वात्मा सुप्ताहि सदृशाकृतिः ॥ १९ ॥
विभर्ति कुण्डलीशक्तिरात्मानं हंसमाश्रिताः ।
हंसः प्राणाश्रयो नित्यं प्राणा नाडीपथाश्रयाः ॥ २० ॥
आधारादुत्थितो वायुर्यथावत्सर्वदेहिनाम् ।
देहं वाप्य स्वनाडीभिः प्रयाणं कुरुते वहिः ॥ २१ ॥
द्वादशाङ्गुलमनेन तस्मात्प्राण इतीरितः ।
रम्ये मृद्वासने शुद्धे पट्टाजिनकुशोत्तरे ।
बद्धैवमासनं योगी योगमार्गपरो भवेत् ॥ २२ ॥
ज्ञात्वा भूतोदयं देहे यथावत्प्राणवायुना ।
तत्तद्भूतं यजेद्देहे दृढत्वावाप्तये सुधीः ।
आसनभूतोदये प्रागुक्ते ॥ २३ ॥
अङ्गुलीभिर्दृढं बद्धा करणानि समाहितः ।
अङ्गुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां विलोचने ।
नासारन्ध्रे मध्याभ्यामन्याभिर्वदनं दृढम् ।
वद्धात्मप्रणमनसामेकत्वं समनुस्मरन् ।
धारयेन्मारुतं सम्यग्योगोऽयं योगिवल्लभः ॥ २४ ॥
नादः सञ्जायते तस्य क्रमादभ्यस्यतः शनैः ।
मत्तभृङ्गावलीगीतसदृशः प्रथमो ध्वनिः ॥ २५ ॥
वंशी कांस्यानिलापूर्णवंशध्वनिनिभोऽपरः ।
घण्टारवसमः पश्चाद्घनमेघस्वनोऽपर ।
एवमभ्यस्यतः पुंसः संसारध्वान्तनाशनम् ।
ज्ञानमुत्पद्यते पूर्वं हंसलक्षणमव्ययम् ॥ २६ ॥
पुम्प्रकृत्यात्मकौ प्रोक्तौ विन्दुसर्गौ मनीषिभिः ।
ताभ्यां क्रमात् समुद्भूतौ विन्दुसर्गावसानकौ ।
हंसौ तौ पुं-प्रकृत्याख्यौ हं पुमान् प्रकृतिस्तु सः ।
अजपा कथिता ताभ्यां जीवो यामुपतिष्ठते ॥ २७ ॥
पुरुषं त्वाश्रयं मत्वा प्रकृतिनित्यमात्मनः ।
यदा तद्भावमाप्नोति तदा सोऽहमियं भवेत् ॥ २८ ॥
सकारार्णं हकारार्णं लोपयित्वा ततः परम् ।
सन्धि कुर्यात्पूर्वरूपं तदासौ प्रणवो भवेत् ॥ २९ ॥
परमानन्दमयं नित्यं चैतन्यैकगुणात्मकम् ।
आत्माभेदस्थितं योगी प्रणवं भावयेत् सदा ॥ ३० ॥
आम्नायवाचामतिदूरमाद्यं वेद्यं सुसम्वेद्यगुणेन सन्तः ।
आत्मानमानन्दरसैकसिन्धुं, पश्यन्ति ते तारकमात्मनिष्ठाः ॥
३१ ॥
सत्यं हेतुविवर्जितं श्रुतिगिरामाद्यं जगत्कारणं, व्याप्तं
स्थावरजङ्गमं निरूपमं चैतन्यमन्तर्गतम् ।
आत्मानं रविचन्द्रवह्निवपुषं तारात्मकं सन्ततं
नित्यानन्दगुणालयं सकृतिनं पश्यन्ति रुद्धेन्द्रियाः ॥ ३२ ॥
तारस्य पञ्चविभवैः परिचीयमानं, मानैकगम्यमनिशं
श्रुतिमौलिमृग्यम् ।
सम्वित्समस्तममलम्बरच्युतं तत्तेजः परं भजत
सान्द्रसुधाम्बुराशिम् ॥ ३३ ॥
हिरण्मयं दीप्तमनेकवर्णं त्रिमूर्तिमूलं निगमादिबीजम् ।
अङ्गुष्ठमात्रं पुरुषं भजन्ते, चैतन्यमात्रं
रविमण्डलस्थम् ॥ ३४ ॥
ध्यायन्ति दुग्धाब्धिबिजङ्गभोगे शयानमाद्यं कमलासहायम्
।
प्रफुल्लनेत्रात्पलमञ्जनाभं चतुर्मुखेनाश्रितनाभिपद्मम् ॥
३५ ॥
आम्नायगं त्रिचरणं घननीलमुद्यत्श्रीवत्सकौस्तु
भगदाम्बुजशङ्खचक्रम् ।
हृतपुण्डरीकनिलयं जगदेकमूलमालोकयन्ति कृतिनः पुरुषं
पुराणम् ॥ ३६ ॥
विन्दोर्नादसमुद्भवः समुदिते नादे जगत्कारणं, तारं
तत्वमुखाम्बुजं परिवृतं वर्णात्मबाहुव्रजैः ।
अम्नायाङ्घ्रिचतुष्टयं पुररिपोरानन्दमूलं वपुः, पायान्नो
मुकुटेन्दुखण्डविलसद्दिव्यामृतौघप्लुतम् ॥ ३७ ॥
पिण्डं भवेत्कुण्डलिनी शिवात्मा पदं तु हंसः सकलान्तरात्मा
।
रूपं स्मृतं बिन्दुरमन्दकान्तिरतीवरूपं शिवसामरस्यम् ॥ ३८
॥
पिण्डादियोगं शिवसामरस्यात्बीजयोगं प्रवदन्ति सन्तः ।
शिवे लयं नित्यगुणाभियुक्ते, निर्बीजयोगं फलनिर्व्यपेक्षम् ॥ ३९ ॥
मूलोन्निद्रभुजङ्गराजसदृशीं यान्तीं सुषुम्नान्तरं,
भित्त्वाधारसमूहमाशुविलसत्सौदामिनीसन्निभाम् ।
व्योमाम्भोजगतेन्दुमण्डलगलद्दिव्यामृतौघैः प्लुतां,
सम्भाव्य स्वगृहं गतां पुनरिमां सञ्चिन्तयेत्कुण्डलीम् ॥ ४० ॥
हंसं नित्यमनन्तमव्ययगुणं स्वाधारतो निर्गता, शक्तिः
कुण्डलिनी समस्तजननी हस्ते गृहीत्वा च तम् ।
याता शम्भुनिकेतनं परसुखं तेनानुभूय स्वयं, यान्ती
स्वाश्रयमर्ककोटिरुचिरा ध्येया जगन्मोहिनी ॥ ४१ ॥
अव्यक्तं परबिन्दुसञ्चितरुचिं नीत्वा शिवस्यालयं, शक्तिः
कुण्डलिनी गुणत्रयवपुर्विद्युल्लतासन्निभा ।
आनन्दामृतमध्यगं पुरभिदं चन्द्रार्ककोटिप्रभं,
संवीक्ष्य स्वपुरं गता भगवती ध्येयानवद्या गुणैः ॥ ४२ ॥
मध्ये वर्त्म समीरणद्वयमिथःअसङ्घट्टसङ्क्षोभजं,
शब्दस्तोममतीत्य तेजसि तडित्कोटि प्रभाभास्वरे ।
उद्यान्तीं समुपास्महे नवजवासिन्दुरसन्ध्यारुणां,
सान्द्रानन्दसुधामयीं परशिवं प्राप्तां परां देवताम् ॥ ४३
॥
गमनागमनेषु जाङ्घिकी सा तनुयाद्योगफलानि कुण्डली ।
उदिता कुलकामधेनुरेषा भजतां काङ्क्षितकल्पवल्लरी ॥ ४४ ॥
अथ प्रशंसामाह -
यामले -
आगमे सर्वविद्याश्च सर्वशास्त्राणि चागमे ।
आगमे देवदेव्या हि आगमाच्य परा गतिः ॥ ४५ ॥
येऽभ्यस्यन्ति इदं शास्त्रं पठन्ति पाठयन्ति वा ।
सिद्धयोऽष्टौ करे तेषां धनधान्यादिसूनवः ॥ ४६ ॥
आदृताः सर्वलोकेषु भोगिनः क्षोभकारकः ।
आप्नुवन्ति परं ब्रह्म सर्वशास्त्रविशारदाः ॥ ४७ ॥
वेदार्थशास्त्रविपरीतविलोकनेन, प्रायोभवद्यजनलोपभवेक्ष्य
मातः ।
तद्गूढकूटविशदीकरणेन जातान् दोषान् क्षमस्व तव
पादयुगेषु याचे ॥ ४८ ॥
यद्यन्मया नाथ विमूढबुद्ध्या, स्पष्टीकृतं गुह्यतमन्तु
तन्त्रे ।
क्षन्तव्यमेतत्करुणानिधान, क्रोधो न चार्हः खलु पामरेषु ॥ ४९ ॥
इति महामहोपाध्यायश्रीकृष्णानन्दवागीशभट्टाचार्य-
विरचितस्तन्त्रसारः समाप्तः ॥
परिशिष्टम्
देवताविशेषाणां मन्त्रस्तोत्रादिप्रकरणम्
अथ गङ्गामन्त्रः -
अथातः सम्प्रवक्ष्यामि गङ्गां भुवनपावनीम् ।
यथोक्तचिन्तया चिन्त्यां भोगमोक्षप्रदायिनीम् ॥ १ ॥
ब्रह्मसंहितायाम् -
विषबीजं समुद्धृत्य मायां विष्णुप्रियां ततः ।
गङ्गापदं ङेयुतान्तं वह्निजायावधिर्मनुः ।
अष्टाक्षरी महाविद्या गङ्गाया भुवि दुर्लभा ॥ २ ॥
विषबीजं प्रणवः माया ह्रीं, विष्णुप्रिया श्रीम् ।
ध्यानं यथा-क्रियायोगसारे -
ददर्श पुरतो गङ्गां द्विभूजां मकरासनाम् ।
कुन्देन्दुशङ्खधवलां सर्वाभरणभूषिताम् ॥ ३ ॥
(अन्यद ध्यानं ब्रह्मवैवर्तादौ द्रष्टव्यम्) ।
इत्यनेनैव ध्यानेन ध्यात्वा त्रिपथगां शुभाम् ।
दत्त्वा सम्पूजयेद्ब्रह्मन्नुपचारांश्च षोडश ॥ ४ ॥
आसनं पाद्यमर्घ्यञ्च स्नानीयञ्चानुलेपनम् ।
धूपदीपौ च नैवेद्यं ताम्बूलं शीतलं जलम् ॥ ५ ॥
वसनं भूषणं माल्यं गन्धमाचमनीयकम् ।
मनोहरं सुतल्पञ्च देयान्येतानि षोडश ॥ ६ ॥
दत्त्वा भक्त्या च प्रणमेत् संस्तूय सम्पुटाञ्जलिः ।
सम्पूज्यैवं पकारेण भोगमोक्षफलं लभेत् ।
अन्यत्सर्वं सामान्यपद्धत्युक्तवत् ॥ ७ ॥
अथ कार्तिकेयमन्त्रः -
भूतडामरे -
विषं रौद्रं क्रोधपदं धारिणे च ततः परम् ।
वह्नि जायान्ते उक्तोऽयं मन्त्रः कौमाररूपिणः ।
विषं प्रणवं, रौद्रं मायाबीजम् ॥ १ ॥
ध्यायेद्यथा -
कार्तिकेयं महाभागं मयूरोपरिसंस्थितम् ।
तप्तकाञ्चनवर्णाभं शक्तिहस्तं वरप्रदम् ।
द्विभुजं शत्रुहन्तारं नानालङ्कारभूषितम् ।
षण्मुखं तुङ्गनेत्रञ्च सर्वसैन्यपुरस्कृतम् ॥ २ ॥
एवं ध्यात्वा पूर्ववत्सर्वं कृत्वा प्रणमेत्-ॐ कार्तिकेयं
नमस्यामि गौरीपुत्रं शुभप्रदम् ।
षडाननं महाभागं दैत्यदर्पनिसूदनम् ।
ष।ष्ठी मङ्गलचण्डी च मनसा प्रकृतेः कलाः ।
देव्याश्चरितमेतत् तु, सर्वसिद्धिकरं नृणाम् ॥ ३ ॥
अथ षष्ठीमन्त्रः -
यथा -
वेदादि-बीजमुद्धृत्य मायाबीजं ततः परम् ।
षष्ठीदेवीपदं ङेऽन्तं वह्निजायान्वितो मनुः ।
अष्टाक्षरो महामन्त्रः षष्ठीदेव्याः प्रकीर्त्तितः ॥ १ ॥
ध्यानं यथा -
शष्ठांशं प्रकृतेः शुद्धां सुप्रतिष्ठाञ्च सुप्रभाम् ।
सुपुत्रदाञ्च शुभदां दयारूपां जगत्प्रसूम् ।
श्वेतचम्पकवर्णाभां रत्नभूसणभूषिताम् ।
पवित्ररूपां परमां देवसेनामहं भजे ॥ २ ॥
अन्यत्सर्वं पूर्ववत् ।
पुरश्चरणं लक्षजपः ।
ब्रह्मवैवर्ते -
अष्टाक्षरं महामन्त्रं लक्षधा यो जपेन्मुने ।
स पुत्रं लभते नूनमित्याह कमलोद्भवः ।
मङ्गलचण्ड्या ब्रह्मवैवर्ते ज्ञेयम् ॥ ३ ॥
अथ विषहरी-जगद्गौरी-मनसामन्त्रः -
हलाहलं समुद्धृत्य लज्जाबीजमतः परम् ।
नमः पदं ततः पश्चात् मनसायै ततो वदेत् ।
स्वाहान्ता परमा विद्या विषघ्नी सर्वदेहिनाम् ।
दशाक्षरीयं कथिता सर्वेषामधिदेवता ।
हलाहलं प्रणवः ॥ १ ॥
ध्यानं तत्रैव -
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ।
वह्निशुद्धांशुकाधानं नागयज्ञोपवीतिनीम् ।
महाज्ञानयुताञ्चैव प्रवरां ज्ञानिनां सत्यम् ।
सिद्धाधिष्ठातृदेवीञ्च सिद्धां सिद्धिप्रदां भजे ।
पूजादिकं पूर्ववत् ।
एवं जरत्कारुमुन्यास्तीकमुनिनागाद्यावरणान्पूजयेत् ॥ २ ॥
अथ स्वाहा-मन्त्रः -
ब्रह्मवैवर्ते -
ॐ ह्रीं वह्निजायायै देव्यै स्वाहा ततः परम् ।
द्वादशार्णा महाविद्या स्वाहादेव्याः प्रकीर्त्तिता ।
ध्यानं तत्रैव -
स्वाहां मन्त्राङ्गभूताञ्च मन्त्रसिद्धिस्वरूपिणीम् ।
सिद्धाञ्च सिद्धिदां नृणाम् कर्मणा फलदां भजे ।
पूजादिकं सर्वं पूर्ववत् ॥ ३ ॥
अथ कर्मणान्द्दक्षिणामन्त्रः -
तत्रैव -
ॐ ह्रीं ह्रीं ह्रीं दक्षिणायै स्वाहा च द्विपञ्चाक्षरः ।
ध्यानं यथा -
लक्ष्मीदक्षांशसम्भूतां दक्षिणां कमलाकलाम् ।
सर्व-कर्मेसु दक्षाञ्च फलदां सर्वकर्मणाम् ।
विष्णोः शक्तिस्वरूपाञ्च सुशीलां शुभदां भजे ।
पूजादिकं पूर्ववत् ॥ ४ ॥
अथ क्रोधराज-मन्त्रः -
यथा भूतडामरे -
विषञ्च वज्रज्वालेन हनयुग्ममतः परम् ।
सर्वभूतान्ततः कूर्चमन्त्रान्तमन्त्रमीरितम् ।
ध्यानपूजादिकं तत्रैव द्रष्टव्यम् ।
अस्य मन्त्रस्य लक्षजपः सर्वार्थसिद्धये आत्मरक्षार्थमादौ
सर्वत्रैव कार्यम् ।
गङ्गाकवचम्
अथ गङ्गाकवचम् -
ॐ गङ्गायै नमः ।
गङ्गाकवचस्य विष्णुर्-ऋषिर्विराट्छन्दः चतुर्दश
पुरुषोद्धारणार्थपाठे विनियोगः ।
ॐ द्रव्यरूपा महाभागा स्नाने च तर्पणेऽपि च ।
अभिषेके पूजने च पातु मां शुक्लरूपिणी ॥ १ ॥
विष्णुपादप्रसूतासि वैष्णवी नामधारिणी ।
पाहि मां सर्वतो रक्षेत्गङ्गात्रिपथगामिनी ॥ २ ॥
मन्दाकिनी सदा पातु देहान्ते स्वर्गवल्लभा ।
अलकनन्दा च वामभागे पृथिव्यां या तु तिष्ठति ॥ ३ ॥
भोगवती च पाताले स्वर्गे मन्दाकिनी तथा ।
पञ्चाक्षरमिमं मन्त्रं यः पठेच्छृणुयादपि ॥ ४ ॥
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ।
गुर्विणी जनयेत् पुत्रं बन्ध्या पुत्रवती भवेत् ॥ ५ ॥
गङ्गास्मरणमात्रेण निष्पापो जायते नरः ।
यः पठेद्गृहमध्ये तु गङ्गास्नानफलं लभेत् ॥ ६ ॥
स्नानकाले पठेद्यस्तु शतकोटिफलं लभेत् ।
यः प्रठेत्प्रयतो भक्त्या मुक्तः कोटिकुलैः सह ॥ ७ ॥
इति विष्णुयामले शिवपार्वतीसंवादे गङ्गाकवचं समाप्तम् ॥
कार्तिकेयाक्षयकवचम्
अथ कार्तिकेयाक्षयकवचम् -
देव्युवाच -
ये ये मम सुता जातास्ते ते कंसनिषुदिताः ।
कथं मे सन्ततिस्तिष्ठेत् ब्रूहि मे मुनिपुं"गव ॥ १ ॥
नारद उवाच -
येनोपायेन लोकानां सन्ततिश्चिरजीविता ।
तत्ते सर्वं प्रवक्ष्यामि सावधानावधारय ॥ २ ॥
अस्य स्कन्दाक्षयकवचस्य नारद ऋषिरनुष्टुप्च्छन्दः
सेनानीर्देवता वत्सरक्षणे विनियोगः ।
ॐ बाहुलेयः शिरः पायात् स्कन्धौ शङ्करनन्दनः ॥ ३ ॥
मुण्डं मे पार्वतीपुत्रो हृदयं शिखिवाहनः ।
कटिं पायच्छक्तिहस्तो जङ्घे मे तारकान्तकः ॥ ४ ॥
गुहो मे रक्षतां पादौ सेनानीर्वत्समुत्तमम् ।
स्कन्दो मे रक्षतामङ्गं दशदिगग्निभूर्मम् ॥ ५ ॥
षाण्मातुरो भये घोरे कुमारोऽव्याच्छ्रशानके ॥ ६ ॥
ॐ इति ते कथितं भद्रे कवचं परमाद्भुम् ।
धृत्वा पुत्रमवाप्नोति सुभव्यं चिरजीविनम् ॥ ७ ॥
नारदस्य वचः श्रुत्वा कवचं विधृतं तया ।
कवचस्य प्रसादेन जीववत्सा भवेत्सती ॥ ८ ॥
कवचस्य प्रसादेन तस्याः पुत्रो जनार्दनः ।
धारिकायास्तथा पुत्रो निर्जरैरपि दुर्जयः ॥ ९ ॥
इति उमायामले कार्तिकेयाक्षयकवचं समाप्तम् ।
वंशलाभाक्य-कवचम्
अथ वंशलाभाक्य-कवचम् -
नारद उवाच -
भगवन् सर्वधर्मज्ञ पार्वतीप्राणवल्लभ ।
वंशलाभाख्यकवचं कृपया मे प्रकाशय ॥ १ ॥
ईश्वर उवाच -
वंशलाभाख्यकवचं दुर्लभं भुवनत्रये ।
यस्य प्रसादात् कमला लेभे तनयमुत्तमम् ॥ २ ॥
कामदेवमपर्णा च विनायक-षडाननौ ।
जयन्तमिन्द्रवनिता देवपत्न्यः सुतानपि ॥ ३ ॥
यस्य वंशलाभाख्यकवचस्य भैरव-ऋषिरनुष्टुप्च्छन्दः
श्रीपार्वती देवता जीवित्तनयप्राप्तये विनियोगः ।
ॐ पार्वतती मे शिरः पातु वक्त्रं पातु महेश्वरी ।
भवानी नयने पातु भ्रुवौ शङ्करसुन्दरी ॥ ४ ॥
मध्ये पातु महेशानि नितम्बं सुरवन्दिता ।
उरु गौरी सदा पातु कौषिकी जानुयुग्मकम् ॥ ५ ॥
बाहु द्वौ सुमुखी पातु पाणियुग्मं सुभाविनी ।
पादौ ब्रह्ममयी पातु श्रवणे भुवनेश्वरी ॥ ६ ॥
नासिके ललिता पातु कण्ठं त्रिपुरसुन्दरी ।
रुद्राणी हृदयं पातु स्तनद्वन्द्वं महेश्वरी ॥ ७ ॥
आपादमस्तकं पातु सर्वाङ्गं सर्वमङ्गला ।
ॐ इति ते कथितं विप्र कवचं देवपूजितम् ॥ ८ ॥
पठित्वा धारयित्वा च अक्षयं तनयं लभेत् ।
ध्यानमस्याः प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः ॥ ९ ॥
ॐ सहस्रादित्यसङ्काशां सर्वाभरणभूषिताम् ।
त्रिनेत्रां पाणिविन्यस्त पाशाङ्कुशवराभयाम् ॥ १० ॥
इति श्रीभैरवतन्त्रे शिवनारद-संवादे वंशलाभाख्य कवचं
समाप्तम् ॥
षष्ठी-स्तोत्रम्
अथ षष्ठी-स्तोत्रम् -
स्तोत्रं शृणु मुनिश्रेष्ठ सर्वकामशुभावहम् ।
वाञ्छाप्रदञ्च सर्वेषां गूढं वेदेषु नारद ॥ १ ॥
प्रियव्रत उवाच -
ॐ नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ।
शुभायै देवसेनायै षष्ठीदेव्यै नमोनमः ॥ २ ॥
वरदायै पुत्रदायै धनदायै नमो नमः ।
सुखदायै मोक्षदायै षष्ठीदेव्यै नमो नमः ॥ ३ ॥
शक्तिषष्ठीस्वरूपायै सिद्धायै च नमो नमः ।
मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः ॥ ४ ॥
सारायै सारदायै च परायै सर्वकर्मणान् ।
बालाधिष्ठातृदेव्यै च षष्ठीदेव्यै नमो नमः ॥ ५ ॥
कल्याणदायै कल्याण्यै षष्ठीदेव्यै नमो नमः ।
फलदायै फलिन्यै च फलदायै च कर्मणाम् ।
प्रत्यक्षायै च भक्तानां षष्ठीदेव्यै नमो नमः ॥ ६ ॥
पूज्यायै स्कन्दकान्तायै सर्वेषु सर्वकर्मसु ।
देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः ॥ ७ ॥
शुद्धसत्त्वस्वरूपायै वन्दितायै नमो नमः ।
धनं देहि श्रियं देहि पुत्रं देहि सुरेश्वरि ॥ ८ ॥
धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः ।
देहि भूमिं प्रजां देहि राज्यं देहि सुपूजिते ।
कल्याणञ्च जयं देहि षष्ठीदेव्यै नमो नमः ॥ ९ ॥
ॐ इति देवीञ्च संस्तूय लेभे पुत्रं प्रियव्रतः ।
यशस्विनञ्च राजेन्द्रं षष्ठीदेवीप्रसादतः ॥ १० ॥
षष्ठीस्तोत्रमिदं ब्रह्मण यः शृणोति दिने दिने ।
अपुत्रो लभते पुत्रं वरं सुचिरजीविनम् ॥ ११ ॥
वर्षमेकञ्च यो भक्त्या इदं स्तोत्रं च ।
सर्वपापाद्विनिर्मुक्तो महाबन्ध्या प्रसूयते ॥ १२ ॥
वीरपुत्रञ्च गुणिनं विद्यावन्तं यशस्विनम् ।
सुचिरायुष्मन्तमेव षष्ठीदेवी प्रसादतः ॥ १३ ॥
इति ब्रह्मवैवर्ते महापुराणे नारायणनारदसंवादे
प्रकृतिखण्डे षष्ठीस्तोत्रं समाप्तम् ।
विषहरीमनसा-स्तोत्रम्
अथ विषहरीमनसा-स्तोत्रम् -
ॐ जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी ।
विष्णवी नागभगिनी शैवा नागेश्वरी तथा ॥ १ ॥
जगत्कारुप्रियास्तीकमाता विषहरीति च ।
महाज्ञानयुता चैव सा देवी विश्वपूजिता ॥ २ ॥
ॐ ।
द्वादशैतानि नामानि पूजाकाले च यः पठेत् ।
तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ॥ ३ ॥
नागभीते च शयने नामग्रस्ते च मन्दिरे ।
नागक्षतमहादुर्गे नागवेष्टितविग्रहे ॥ ४ ॥
इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः ॥
नित्यं पठेद्वास्तु दृष्ट्वा नागवर्गः पलायते ॥ ५ ॥
दशलक्षजपेनैव स्तोत्रसिद्धिभवेन्नृणाम् ।
स्तोत्रसिद्धिर्भवेद्यस्य स विषं भोक्तुमीश्वरः ॥
नागौघभूषणं कृत्वा स भवेन्नागवाहनः ।
विषं भवेत्सुधातुल्यं सिद्धस्तोत्रो यदा भवेत् ॥ ६ ॥
इति ब्रह्मवैवर्ते मनसा-स्तोत्रं समाप्तम् ।
स्वाहा-स्तोत्रम्
अथ स्वाहा-स्तोत्रम् -
वह्निरुवाच -
ॐ स्वाहाद्याः प्रकृतेरंशा मन्त्रान्तरशरीरिणी ।
मन्त्राणां फलदात्री च धात्री च जगतां सती ॥ १ ॥
सिद्धिस्वरूपा सिद्धा च सिद्धिदा सर्वदा नृणाम् ।
हुताश-दाहिकाशक्तिस्तत्प्राणाधिकरूपिणी ॥ २ ॥
संसारसाररूपा च घोरसंसारतारिणी ।
देवजीवनरूपा च देवपाषाणकारिणी ॥ ३ ॥
ॐ ।
षोडशैतानि नामानि यः पठेद्भक्तिसंयुतः ।
सर्वसिद्धिर्भवेत्तस्य सर्वकर्मसु शोभनम् ।
अपुत्रो लभते पुत्रमभार्यो लभते प्रियाम् ॥ ४ ॥
इति ब्रह्मवैवर्ते नारायणनारदसंवादे प्रकृतिखण्डे
स्वाहास्तोत्रं समाप्तम् ।
दक्षिणा-स्तोत्रम्
अथ दक्षिणा-स्तोत्रम् -
यक्ष उवाच -
ॐ गोलोकगोपी त्वं देवी गोपीनां प्रवरा परा ।
राधासमा तत्सखी च श्रीकृष्णप्रेयसी प्रिये ॥ १ ॥
कीर्तिकिपूर्णिमायान्तुरासे राधामहोत्सवे ।
आविर्भूता दक्षिणांसात्कृष्णस्य तेन दक्षिणा ॥ २ ॥
पुरा त्वञ्च सुशीलाख्या शीलेन शोभनेन च ।
कृष्णदक्षांसवासाच्च राधाशापाच्च दक्षिणा ॥ ३ ॥
गोलोकात्त्वं परिध्वस्ता मम भाग्यादुपस्थिता ।
कृपां कुरु महाभागे मामेव स्वामिनं कुरु ॥ ४ ॥
कर्मिणां कर्मणां देवि त्वमेव फलदायिका ।
त्वया विना च सर्वेषां सर्वकर्म च निष्फलम् ॥ ५ ॥
फलशाखाविहीनश्च यथा वृक्षो महीतले ।
त्वया विना तथा कर्म कर्मिणाञ्च न शोभते ॥ ६ ॥
ब्रह्मविष्णुमहेशाश्च दिक्पालादय एव च ।
कर्मणश्च फलं दातुं न शक्ताश्च त्वया विना ॥ ७ ॥
कर्मरूपी स्वयं ब्रह्मा फलरूपी महेश्वरः ।
यज्ञरूपी विष्णुरहं त्वमेषां साररूपिणी ॥ ८ ॥
फलदाता परं ब्रह्म निर्गुणः प्रकृतेः परः ।
स्वयं कृष्णश्च भगवान् स च शक्तस्त्वया सह ॥ ९ ॥
त्वमेव शक्तिः कान्ते मे शश्वज्जन्मनि जन्मनि ।
सर्वकर्मणि शक्तोऽहं त्वया सह वरानने ॥ १० ॥
इत्युक्त्वा तत्परस्तस्थौ यज्ञाधिष्ठातृदेवकः ।
तुष्टा वभूव सा देवी भजेत्तां कमलाकलाम् ॥ ११ ॥
ॐ ।
इदञ्च दक्षिणास्तोत्रं यज्ञकाले च यः पठेत् ।
फलञ्च सर्वयज्ञानां लभते नात्र संशयः ॥ १२ ॥
राजसूये बाजपेये गिमेधे नरमेधके ।
अश्वमेधे मङ्गले च विष्णुयज्ञे यशस्वरे ॥ १३ ॥
धनदे भूमिदे फल्लौ पूर्णेष्टौ गजमेधके ।
लौहयज्ञे स्वर्णयज्ञे पाटने ब्रह्मखण्डने ॥ १४ ॥
शिवयज्ञे रुद्रयज्ञे शत्रुयज्ञे च बन्धुके ।
इष्टौ वरुणयागे च कण्टके वैरिमर्दने ॥ १५ ॥
शुचियागे धर्मयागे रोचने पापमोचने ।
बन्धने कर्मयागे च मणियागे सुभद्रके ॥ १६ ॥
एतेषाञ्च समारम्भे इदं स्तोत्रञ्च यः पठेत् ।
निर्विघ्ने च तत्कर्म साङ्गं भवति निश्चितम् ॥ १७ ॥
इति ब्रह्मवैवर्ते नारायणनारदसंवादे प्रकृतिखण्डे
दक्षिणास्तोत्रं समाप्तम् ।
अय बलराम-स्तोत्रम् -
ॐ नमस्ते हलधृग् राम नमस्ते मुषलायुध ।
नमस्ते रेवतीकान्त नमस्ते भक्तवत्सल ॥ १ ॥
नमस्ते बलिनां श्रेष्ठ नमस्ते धरणीधर ।
प्रलम्बारे नमस्तेऽस्तु त्राहि मां कृष्णपूर्वज ॥ २ ॥
ॐ ।
स्तोत्रं परं पुण्यं सर्वसिद्धिकरं नृणाम् ।
यः पठेतप्रयतो भक्त्या सर्वसिद्धेः स भाजनम् ॥ ३ ॥
इति उत्कलखण्डे बलरामस्तोत्रम् ।
महाकाली-स्तोत्रम्
अथ महाकाली-स्तोत्रम् -
महाकालरुद्र उवाच -
ॐ अचिन्त्यामिताकारशक्तिस्वरूपा
प्रतिव्यक्त्यधिष्ठानसत्त्वैकमूर्तिः ।
गुणातीतनिर्द्वन्द्वबोधैकगम्या त्वमेका परब्रह्म-रूपेण
सिद्धा ॥ १ ॥
अगोत्राकृतित्वादनैकान्तिकत्वादलक्ष्यागमत्वादशेषाकरत्वात् ।
प्रपञ्चालसत्नादनारम्भकत्वत्त्वमेका परब्रह्मरूपेण सिद्धा
॥ २ ॥
असाधारणत्वादसम्बन्धकत्वादभिन्नाश्रयत्वादना-कारकत्वात्
।
अविद्यात्मकत्वादनाद्यकत्वात्त्वमेका परब्रह्मरूपेण सिद्धा ॥ ३
॥
यदा नैव धाता न विष्णुर्न रुद्रो न कालो न वा पञ्चभूतानि
नाशा ।
तदा कारणी भूतसत्त्वैकमूर्तिस्त्वमेका परब्रह्मरूपेण सिद्धा
॥ ४ ॥
नमोमांसका नैव कालादितर्का न साङ्ख्या योगा न
वेदान्तवेदाः ।
न देवा विदुस्ते निराकारभावं त्वमेका परब्रह्मरूपेण सिद्धा ॥
५ ॥
न ते नामगोत्रे न ते जन्ममृत्युर्न ते धामचेष्टे न ते दुःखसौख्ये
।
न ते मित्रशत्रू न ते बन्धमोक्षौ त्वमेका परब्रह्मरूपेण
सिद्धा ॥ ६ ॥
न बाला न च त्वं वयःस्था न वृद्धा न च स्त्री न षण्डः
पुमान्नैव च त्वम् ।
न च त्वं सुरो नासुरो नो नरो वा त्वमेका परब्रह्मरूपेण सिद्धा ॥
७ ॥
जले शीतलत्वं शुचौ दाहकत्वं विधौ निर्मलत्वं रवौ
तालकत्वम् ।
तवैवाम्बिके यस्य कस्यापि शक्तिस्त्वमेका परब्रह्मरूपेण सिद्धा ॥
८ ॥
पपौ क्ष्वेडमुग्रं पुरा यन्महेशः पुनः संहरत्यन्तकाले
जगच्च ।
तवैव प्रसादान्न च स्वस्य शक्त्या त्वमेका परब्रह्मरूपेण
सिद्धा ॥ ९ ॥
करालाकृतीन्याननानि श्रयन्ती भजयन्ती करास्त्रादि बाहुल्यमित्थम्
।
जगत्पालनायासुराणां वधाय त्वमेका परब्रह्मरूपेण सिद्धा
॥ १० ॥
महाचण्डयोगेश्वरी गुह्यकाली कराली महाडामरी साष्ट्टहासा
।
जगद्भासिनी चण्डिका पालिकेति त्वमेका परब्रह्मरूपेण सिद्धा ॥
११ ॥
रुवन्ती शिवाभिर्वहन्ती कपालं जयन्ती सुरारीन् वदन्ती प्रसन्ना ।
नटन्ती पटन्ती चलन्ती हसन्ती त्वमेका परब्रह्मरूपेण सिद्धा ॥ १२
॥
अपादापि वाताधिकं धावसि त्वं श्रुतिभ्यां विहीनापि शब्दं
शृणोषि ।
अनासापि जिघ्रस्यनेत्रापि पश्यस्यजिह्वापि नानारसास्वादविज्ञा ॥ १३
॥
यथाविम्बमेकं रवेरम्बरस्थं प्रतिच्छायया यावदेकोदकेषु ।
समुद्भासतेऽनेकरूपं यथावत्त्वमेका परब्रह्मरूपेण
सिद्धा ॥ १४ ॥
यथा भ्रामयित्वा मृदं चक्रमध्ये कुलालो विधत्ते शरावं
घटञ्च ।
महामोहयन्त्रेषु भूतान्यशेषान् तथा मानुषांस्त्वं
सृजस्यादिसर्गे ॥ १५ ॥
यथा रङ्गरब्जर्कदृष्टिष्वकस्मान्नृणां
रूप्यदर्वीकरम्बुभ्रमः स्यात् ।
जगत्यत्र तत्तन्मये तद्वदेव त्वमेकैव तत्तन्निवृत्तौ समस्तम् ॥ १६ ॥
महाज्योतिराकारसिंहासनं यत्स्वकीयान् सुरान् वाहयस्युग्रमूर्ते
।
अवष्टभ्य पद्भ्या शिवं भैरवञ्च स्थिता तेन मध्ये भवत्येव
मुख्या ॥ १७ ॥
कुयोगासने योगमुद्राभिनीतिः कुगोमायुपोतस्य बलाननञ्च ।
जगन्मातरादृक्तवापूर्वलीला कथङ्कारमस्मद्विधैर्देवि गम्या
॥ १८ ॥
विशुद्धापरा चिनमयी स्वप्रकाशामृतानन्दरूपा जगद्व्यापिका
च ।
तवेदृग्विधा या निजाकारमूर्तिः किमस्माभिरन्तर्हृदि ध्यायितव्या
॥ १९ ॥
महाघोरकालानलज्वालजालाहित्यन्तवासा महाट्टाट्टहासा ।
जटाभारकाला महामुण्डमाला विशाला त्वमीदृग्मया
ध्यायसेऽम्ब ॥ २० ॥
तपो नैव कुर्वन् वपुः खेदयामि व्रजन्नापि तीर्थं पदे
खञ्जयामि ।
पठन्नापि वेदान् जनिं यापयामि त्वदङ्घ्रिद्वयं मङ्गलं
साधयामि ॥ २१ ॥
तिरङ्कुर्वतोऽन्यामरोपासनार्चे परित्यक्त धर्माध्वरस्यास्य
जन्तोः ।
त्वदाराधनान्यस्तचित्तस्य किं मे करिष्यन्त्यमी धर्मराजस्य
दूताः ॥ २२ ॥
न मन्ये हरिं नो विधातारमीशं न वह्निं न चार्कं न
चन्द्रादिदेवान् ।
शिवोदीरितानेकवाक्यप्रबन्धैस्त्वदर्चाविधानं विशत्वम्ब
मत्याम् ॥ २३ ॥
नरा मां विनिन्दन्तु नाम त्यजद्वान्धवा ज्ञातयः सन्त्यजन्तु ।
यमीया भटा नारके पातयन्तु त्वमेका गतिर्मे त्वमेका गतिर्मे ॥
२४ ॥
ॐ ।
महाकालरुद्रोदितस्तोत्रमेतत्सदा भक्तिभावेन योऽध्येति भक्तः ।
न चापन्नशोको न रोगो न मृत्युर्भवेत्सिद्धिरन्ते च कैवल्यलाभः ॥
२५ ॥
इदं शिवायाः कथितं सुधाधाराह्वयं स्तवम् ।
एतस्य सतताभ्यासात्सिद्धिः करतले स्थिता ॥ २६ ॥
एतत्स्तोत्रञ्च कवचं पद्यं त्रितयमप्यदः ।
पठनीयं प्रयत्नेन नैमित्तिकसमर्हणे ॥ २७ ॥
सौम्येन्दीवरनीलनीरदघटाप्रोद्दामदेहच्छटालास्योन्मादनिना
दमङ्गलचयैः श्रोण्यन्तदोलज्जटा ।
सा काली करवालकालकलना हस्त्वश्रियं चण्डिका ॥ २८ ॥
काली क्रोधकरालकालभयदोन्मादप्रमोदालया
नेत्रोपान्तकृतान्तदैत्यनिवहा प्रोद्दामदेहाभया ।
पायाद्वो जयकालिका प्रवलिका हूङ्कारघोरानना
भक्तानामभयप्रदा विजयदा विश्वेशसिद्धासना ॥ २९ ॥
करालोन्मुखी कालिका भीमकान्ता कटिव्याघ्रचर्मावृता
दानवान्ता ।
हू हूं कङ्मडीनादिनी कालिका तु प्रसन्ना सदा नः प्रपन्नान्
पुनातु ॥ ३० ॥
इति श्रीमहाकालसंहितायां
महाकालरुद्रविरचितसुधाधाराह्वयकालीस्तोत्रम् ।
नायिका-कवचम्
अथ नायिका-कवचम् -
उन्मत्तभैरव उवाच -
शृणु कल्याणि मद्वाक्यं कवचं देवदुर्लभम् ।
यक्षिणी-नायिकानान्तु सङ्क्षेपात्सिद्धिदायकम् ॥ १ ॥
ज्ञानमात्रेण देवेशि सिद्धिमाप्नोति निश्चितम् ।
यक्षिणी स्वयमायाति कवचज्ञानमात्रतः ॥ २ ॥
सर्वत्र दुर्लभं देवि डामरेषु प्रकाशितम् ।
पठनाद्धारणान्मर्त्यो यक्षिणी वशमानयेत् ॥ ३ ॥
कवचस्य श्रषिर्गर्गो गायत्री च्छन्द ईरितम् ।
देवता यक्षिणी देवी सर्वसिद्धिप्रदायिनी ॥ ४ ॥
साक्षात्सिद्धिसमृद्ध्यर्थे विनियोगः प्रकीर्तितः ।
ॐ शिरो मे यक्षिणी पातु ललाटं यक्षकन्यका ॥ ५ ॥
मुखं श्रीधनदा पातु कर्णो मे कुलनायिका ।
चक्षुषी वरदा पातु नासिकां भक्तवत्सला ॥ ६ ॥
केशाग्रं पिङ्गला पातु धनदा श्रीमहेश्वरी ।
स्कन्धौ कुलालपा पातु गलं मे कमलानना ॥ ७ ॥
किरातिनी सदा पातु भुजयुग्मं जटेश्वरी ।
विकृतास्या सदा पातु महावक्रप्रिया मम ॥ ८ ॥
अस्त्रहस्ता पातु नित्यं पृष्ठमुदरदेशकम् ।
भेरुण्डा माकरी देवी हृदयं देवसम्मता ॥ ९ ॥
अलङ्कारान्विता पातु मे नितम्बस्थलं दया ।
धार्मिकागुह्यदेशं मे पादुयुग्मं सुराङ्गना ॥ १० ॥
शून्यागारे सदा पातु मन्त्रमातास्वरूपिणी ।
निष्कलङ्का सदा पातु चाम्बुवत्यखिलां तनुम् ॥ ११ ॥
प्रान्तरे धनदा पातु निजबीजप्रकाशिनी ।
लक्ष्मीबीजात्मिका पातु निजबीजप्रकाशिनी ॥ १२ ॥
लक्ष्मीबीजात्मिका पातु खड्गहस्ता श्मशानके ।
शून्यागारे नदीतीरे महायक्षेशकन्यका ॥ १३ ॥
पातु मां वरदाख्या मे सर्वाङ्गं पातु मोहिनी ।
महासङ्कटमध्ये तु सङ्ग्रामे रिपुसञ्चये ॥ १४ ॥
क्रोधरूपा सदा पातु महादेवनिषेविका ।
सर्वत्र सर्वदा पातु भवानी कुलदायिका ॥ १५ ॥
ॐ ।
इत्येतत्कवचं देवि महामन्त्रौघविग्रहम् ।
अस्यापि स्मरणादेव राजत्वं लभतेऽचिरात् ॥ १६ ॥
पञ्चवर्षसहस्राणि स्थिरो भवति भूतले ।
वेदज्ञानी सर्वशास्त्रवेत्ता भवति निश्चितम् ॥ १७ ॥
अरण्ये सिद्धिमाप्नोति महाकवचपाठतः ।
यक्षिणी कुलविद्या च समायाति सुसिद्धिदा ॥ १८ ॥
अणिमा लघिमा प्राप्तिः सुखसिद्धिफलं लभेत् ।
पठित्वा धारयित्वा च निर्जनेऽरण्यमस्तके ।
स्थित्वा जपेल्लक्षमन्त्रमिष्टसिद्धिं लभेन्निशि ॥ १९ ॥
भार्या भवति सा देवी महाकवचपाठतः ।
योगिनां दुर्लभं देवि किमन्यत् साधनादिकम् ।
ग्रहणादे सिद्धिः स्यान्नात्र कार्या विचारणा ॥ २० ॥
इति वृहद्भूतसन्धानडामरे महातन्त्रे योगिनीनायिकाकवचं
समाप्तम् ।
नायिकास्तोत्रम्
अथ नायिकास्तोत्रम् -
आस्याः स्तोत्रं प्रवक्ष्यामि सावधानावधारय ।
साक्षात्सिद्धिं समाप्नोति योगिनीस्तोत्रपाठतः ॥ १ ॥
उन्मत्तभैरव उवाच -
ॐ वन्दे योगिनि योगसिद्धिधनदे बन्धूकपुष्पोज्वले,
नानालङ्कृतिविग्रहे सुरमणि श्रीदेवकन्ये प्रिये ।
दारिद्र्यं हन मे सुखं प्रियपदं वाञ्छादिसिद्धिप्रदं
राज्यं मित्रकलत्र-पुत्रधनदे मातः समाधेहि मे ॥ २ ॥
तवाङ्घ्रिकमलद्वयं तरुणि देवते दारुणं
महाभयसमाकुलं हर भजामि भूमण्डले ।
कृपां कुरु ममालये सपरिवारदेवैः सह सदा भव हि भगिनी
क्षम कुलापतापं मुदा ॥ ३ ॥
त्वमेका योगिनी कन्या पिङ्गला युवती रतिः ।
गौरी विद्याधरी श्यामा प्रसन्ना भव सर्वदा ॥ ४ ॥
त्वं सन्ध्या खेचरी विद्या यक्षिणी भूतिनी प्रिया ।
त्वमेका पातु मां धात्री स्वर्णपात्रकराम्बुजा ॥ ५ ॥
हिरण्याक्षी विशालाक्षी चपला नागिनी जया ।
प्रसन्ना भव शब्दाख्या कामिनी कामदायिनी ॥ ६ ॥
सिद्धिदा कुलमन्त्राणां डाकिनी खेचरी भव ।
नमामि वरदे देवि योगिनीगणसेविते ॥ ७ ॥
तर्वाङ्घ्रियुगलं कान्ते चन्द्रकान्तिसुमालिनी ।
अमले कमले देवि दारिद्र्यदोषभञ्जिनी ॥ ८ ॥
वन्दे त्वां मनसा वाचा प्रसन्ना भव सुन्दरि ।
कलिकालकृते देवि खचरीशतनायिके ॥ ९ ॥
धनसिद्धिं देहि शीघ्रं समागच्छ गृहे मम् ।
सिद्धिदा विधुराणाञ्च अकालमृत्युनाशिनी ॥ १० ॥
दशवर्षसहस्राणि स्थिरा भव कुले मम ।
वाक्यसिद्धिप्रदा देवी पद्मरागसुमालिनी ॥ ११ ॥
सर्वालङ्कारभूषाङ्गी प्रसन्ना भव सर्वदा ।
मायाबीजात्मिका देवी वधूबीजसमाकुले ॥ १२ ॥
सिद्धिद्रव्यं सदा देहि कन्ता भव ममालये ।
विचित्रम्बारशोभाङ्गी नानालङ्कारवेष्टिते ॥ १३ ॥
विम्बारमणिसूर्याभे चन्द्रकान्तिप्रभोज्वले ।
स्मेराननाब्जे कामेशि ममाज्ञापय दुर्लभम् ॥ १४ ॥
कामेशि परमानन्द-राजभोगप्रदायिनी ।
सिद्धिदा वरदा माता भगिनी वा भव प्रिया ॥ १५ ॥
तवाज्ञाकिङ्करो देवि पूजयाम्यहमादरात् ।
ममाग्रे संस्थिरा भूत्वा सिद्धिदा भव सर्वदा ॥ १६ ॥
कौलिनी गगनस्था त्वं मम पार्श्वचरी भव ।
शतवर्षसहस्राणि मामेकं रक्षसेवकम् ॥ १७ ॥
हृदयाम्भोरुहे ध्यायेत्सुन्दरीं नवयौवनाम् ।
किङ्किणीजालमालाढ्यां त्रिपुरां पद्मलोचनाम् ॥ १८ ॥
वराभयकरां धन्यां योगिनीं कामचारिणीम् ।
त्वामेकां जगतां देवि सिद्धिविद्यां नमाम्यहम् ॥ १९ ॥
ममाङ्गे चैव पार्श्वे त्वं कामिनी भव मे सदा ।
दशवर्षसहस्राणि सिद्धे कमललोचनाम् ॥ २० ॥
वनिता भव मे नित्यं नित्यं देहं कुरु प्रिये ।
एतत्स्तोत्रं पठेद्विद्वान् ध्यानाभ्याससमन्वितम् ॥ २१ ॥
पक्वान्नं नारिकेलं वा खण्डमिश्रं निवेदयेत् ।
सिद्धिं यच्छन्ति भूतिन्यः स्तोत्रपूजा प्रभावतः ॥ २२ ॥
इति व्ःअद्भूतसन्धानडामरे महातन्त्रे भैरवीभैरवसंवादे
नायिका-स्तोत्रं समाप्तम् ।
गुरुकवचम्
अथ गुरुकवचम् -
नारद उवाच -
ब्रह्मन् गुरोर्मनुस्तोत्रं यथावदवधारितम् ।
कवचश्रवणे श्रद्धा साम्प्रतं कथ्यतां मम ॥ १ ॥
ब्रह्मोवाच -
श्रीगुरोः कवचं गुह्यं वर्ण्यमानं निबोध मे ।
नाभक्ताय प्रदातव्यं देयं भक्तिमते सदा ॥ २ ॥
श्रीगुरोः कवचस्यास्य ब्रह्मर्षि परिकीर्तितः ।
छन्दोऽनुष्टुब्देवता च त्रिदेवात्मा गुरुः स्वयम् ॥ ३ ॥
ॐ शिरो मे सर्वदा पातु गुरुः सर्वाङ्गसुन्दरः ।
उद्यद्भालललाटं मे कृपादृष्टिर्दृशौ मम ॥ ४ ॥
मन्दस्मितो मुखं पातु श्रुती च मधुरं वचः ।
हृदयं पातु मन्त्रोक्तिर्वराभयधरः करौ ॥ ५ ॥
गुरुपद्मासनं पातु नाभ्यादिचरणान्तिकम् ।
गुरुपादनखज्योत्स्ना सर्वाङ्गं सर्वदावतु ॥ ६ ॥
वाग्बीजं मे सदा पातु कामाद्यन्तांश्च खेचरी ।
आनन्दभैरवः पातु सदैवानन्द मन्दिरम् ॥ ७ ॥
आनन्दभैरवी पातु ममानन्दं सदैव सा ।
हिंस्रेभ्यः सर्वदा पातु श्रीप्रासादपरो मनुः ॥ ८ ॥
परा प्रासादमन्त्रस्तु पातु नित्यं विपद्दशाम् ।
हंसः पीठं पातु चोर्ध्वं सर्वदिक्षु सदावतु ॥ ९ ॥
कुलन्तु गुरवः पान्तु पात्वधः कमलासनः ।
ज्ञानं पातु च दिव्यौघा इच्छां सिद्धौघसञ्ज्ञकाः ।
मानवौघाः क्रियां पान्तु श्रीगुरुः सर्वदावतु ॥ १० ॥
ॐ ।
इतीदं कवचं नित्यं प्रातःकृत्यावसानके ।
यः पठेन्मानवो भक्त्या त्रैलोक्यविजयी भवेत् ।
मन्त्रसिद्धिर्भवेत्तस्य देवता च प्रसीदति ।
सत्यं सत्यं पुनः सत्यं नात्र कार्या विचारणा ॥ ११ ॥
गुर्वभिधानं कवचमज्ञात्वा क्रियते जपः ।
वृथाश्रमो भवेत्तस्य न सिद्धिर्मन्त्रपूजने ॥ १२ ॥
गुरुपादं पुरस्कृत्य कवचं पठ्यते शुभम् ।
तदा मन्त्रस्य यन्त्रस्य सिद्धिर्भवति नान्यथा ॥ १३ ॥
गुरु-गोप्यञ्च कर्त्तव्यं न वक्तव्यं कदाचन ॥ १४ ॥
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।
दातव्यं भक्तियुक्ताय कुलीनाय विशेषतः ॥ १५ ॥
त्रैलोक्यदुर्लभञ्चैतद् भुक्तिमुक्तिफलप्रदम् ।
सर्वतीर्थफलं येन पठ्यते कवचं गुरोः ।
इति ते कथितं पुत्र सावधानोऽवधारय ॥ १६ ॥
इति ब्रह्मयामले श्रीमद्गुरुकवचं समाप्तम् ।
योषिद् गुरु-ध्यानम्
अथ योषिद् गुरु-ध्यानम् -
यथा -
ॐ प्रफुल्लपद्मपत्राक्षीं घनपीनपयोधराम् ।
प्रसन्नवदनां क्षीणमध्यां ध्यायेच्छिवां गुरुम् ॥ १ ॥
पद्मरागसमाभासां रक्तवस्त्र सुशोभनाम् ।
रक्तकङ्कणपाणिञ्च रत्ननूपुरशोभिताम् ॥ २ ॥
स्थलपद्मप्रतीकाशपादपद्मसुशोभिताम् ।
शरविन्दुप्रतीकाशवक्त्रोद्भासितविग्रहाम् ॥ ३ ॥
स्वनाथ-वामभागस्थां वराभयकराम्बुजाम् ।
एवं ध्यात्वा पूजयेत् ॥ ४ ॥
स्त्रीगुरु-कवचम्
अथ स्त्रीगुरु-कवचम् -
अस्य स्त्रीगुरुकवचस्य स्त्रीगुरुर्देवता चतुर्वर्गप्राप्तये विनियोगः ।
शिरसि सदाशिव ऋषये नमः ।
हृदि स्त्रीगुरुदेवतायै नमः ।
ईश्वर उवाच -
स्त्रीगुरोः कवचस्यास्य सदाशिव-ऋषिः स्मृतः ।
तदाख्या देवता प्रोक्ता चतुर्वर्गफलप्रदा ॥ १ ॥
ॐ क्लीं बीजं मे शिरः पातु तदाख्या च ललाटकम् ।
क्लीं बीजं चक्षुषोः पातु सर्वाङ्गं मे सदाशिवः ॥ २ ॥
ऐं बीजं मे मुखं पातु ह्रीं जिह्वां परिरक्षतु ।
श्रीं बीजं स्कन्धदेशं मे हसखफ्रें भुजद्वयम् ॥ ३ ॥
हकारः कण्ठदेशं मे सकारः षोडशं दलम् ।
क्षवर्णस्तदधः पातु लकारो हृदयं मम् ॥ ४ ॥
वकारः पृष्ठदेशञ्च रकारोदक्षपार्श्वकम् ।
हूङ्कारो वामपार्श्वञ्च सकारो मेरुमेव च ॥ ५ ॥
हकरो मे दक्षभुजं क्षकारो वामहस्तकम् ।
मकारश्चाङ्गुलिं पातु लकारः पातु मे नखम् ॥ ६ ॥
वकारो मे नितम्बञ्च रकारो जठरं मम् ।
यीङ्कारः पादयुगलं ह्सौः सर्वाङ्गकेऽवतु ॥ ७ ॥
ह्सौः लिङ्गञ्च लोमानि केशञ्च परिरक्षतु ।
ऐं बीजं पातु पूर्वे मे ह्रीं बीजं दक्षिणेऽवतु ॥ ८ ॥
श्रीं बीजं पश्चिमे पातु उत्तरे भूतसम्भवम् ।
ऐं पातु चाग्निकोणे च वेदाद्या नैर्-ऋतेऽवतु ॥ ९ ॥
देव्यम्बा पातु वायव्यां शम्भोः श्रीपादुकान्तथा ।
पूजयामि तथा चोर्ध्वं नमश्चाधः सदाऽवतु ॥ १० ॥
ॐ ।
इति ते कथितं कान्ते कवचं परमाद्भुतम् ।
गुरुमन्त्रं जपित्वा तु कवचं प्रपठेद्यदि ।
स सिद्धः स गणः सोऽपि शिवः साक्षान्न संशयः ॥ ११ ॥
पूजाकाले पठेद्यस्तु कवचं मन्त्रविग्रहम् ।
पूजाफलं भवेत्तस्य सत्यं सत्यं सुरेश्वरि ।
त्रिसन्ध्यं यः पठेद्देवि स सिद्धो नात्र संशयः ॥ १२ ॥
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद्यदि ।
तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः ॥ १३ ॥
विवादे जयमाप्नोति रणे च नैर्-ऋतेरिव ।
सभायां जयमाप्नोति मम तुल्यो न संशयः ॥ १४ ॥
सहस्रारे भावयन् यस्त्रिसन्ध्यं प्रपठेद्यदि ।
स एव सिद्धलोकेशो निर्वाणपदमीयते ॥ १५ ॥
समस्तमङ्गलं नाम कवचं परमाद्भुतम् ।
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ॥ १६ ॥
देयं शिष्याय शान्ताय चान्यथा विफलं भवेत् ।
अभक्तेभ्यस्तु देवेशि पुत्रेभ्योऽपि न दर्शयेत् ॥ १७ ॥
इदं कवचमज्ञात्वा विद्याञ्चैव च यो जपेत् ।
स नाप्नोति फलं तस्य परे च नरकं व्रजेत् ॥ १८ ॥
इति ब्रह्मयामले पार्वतीश्वरसंवादे श्रीमत्स्त्रीगुरुकवचं
समाप्तम् ।
गुरु-स्तोत्रम्
अथ गुरु-स्तोत्रम् -
ज्ञानात्मानं परमात्मानं दानं ध्यानं योगं ज्ञानम् ।
जानन्नपि तत्सुन्दरि मातर्न गुरोरधिकं न गुरोरधिकम् ॥ १ ॥
प्राणं देहं गेहं राज्यं भोगं मोक्षं शक्तिं पुत्रम् ।
मन्ये मित्रं वित्तकलत्रं न गुरोरधिकं न गुरोरधिकम् ॥ २ ॥
वाणप्रस्थं यतिविधधर्मं पारमहंसस्यं भिक्षुकचरितम् ।
साधोः सेवा बहुसुरभक्तिर्न गुरोरधिकं न गुरोरधिकम् ॥ ३ ॥
विष्णोर्भक्तिःपूजनचरितं वैष्णवसेवा मातरि भक्तिः ।
विष्णोरिव पितृसेवनयोगो न गुरोरधिकं न गुरोरधिकम् ॥ ४ ॥
प्रत्याहारं चेन्द्रियजयता प्रणायामं न्यासविधानम् ।
इष्टेः पूजा जपतपोभक्तिर्न गुरोरधिकं न गुरोरधिकम् ॥ ५ ॥
काली दुर्गा कमला भुवना त्रिपुरा भीमा बगला पूर्णा ।
श्रीमातङ्गी धूम तारा एता विद्या त्रिभुवनसारा न गुरोरधिकं
न गुरोरधिकम् ॥ ६ ॥
मात्स्यं कौर्मं श्रीवाराहं नरहरिरूपं वामनचरितम् ।
अवतारादिकमन्यत्सर्वं न गुरोरधिकं न गुरोरधिकम् ॥ ७ ॥
श्रीरघुनाथं श्रीयदुनाथं श्रीभृगुदेवं बौद्धं कल्किम् ।
अवतारानिति दशकं मन्ये न गुरोरधिकं न गुरोरधिकम् ॥ ८ ॥
गङ्गा काशी काञ्ची द्वारा मायायोध्यावन्ती मथुरा ।
यमुना रेवा परतरतीर्थं न गुरोरधिकं न गुरोरधिकम् ॥ ९ ॥
गोकुलगमनं गोपुररमणं श्रीवृन्दावनमधुपुरमटनम् ।
एतत्सर्वं सुन्दरि मातर्न गुरोरधिकं न गुरोरधिकम् ॥ १० ॥
तुलसीसेवा हरिहरभक्तिर्गङ्गासागरसङ्गममुक्तिः ।
किमपरमधिकं क्ष्णे भक्तिरेतत्सर्वं सुन्दरि मातर्न
गुरोरधिकं न गुरोरधिकम् ॥ ११ ॥
एतत्स्तोत्रं पठति च नित्यं मोक्षज्ञानी सोऽप्यतिधन्यः ।
ब्रह्माण्डान्तर्यद्यद् ज्ञेयं सर्वं न गुरोरधिकम् ॥ १२ ॥
इति वृहत्पारमहंस्यां संहितायां श्रीशिव पार्वतीसंवादे
श्रीगुरुस्तोत्रं समाप्तम् ।
श्रीहनूमत्स्तोत्रम्
अथ श्रीहनूमत्स्तोत्रम् -
ईश्वर उवाच -
अत्युत्कटप्रकटितातुलधैर्यवर्यः श्रीरामकार्यकरणे
प्रथितैकवीरः ।
गत्या विलङ्घ्य गतवारिधिवारितीरः श्रीमानसौ जयति वायुसुतो
हनूमान् ॥ १ ॥
यो जातमात्रसमये बलवान् गभस्तेर्विम्बं निरीक्ष्य
फलमित्यविचार्य सम्यक् ।
जग्राह पाणियुगले सहसा सुमोच श्रीमानसौ जयति वायुसुतो
हनूमान् ॥ २ ॥
विभ्रत्सदा वपुषि व्रजचये बलीयान् तेजः सहायसमयं
प्रकटीचकार ।
लङ्कां ददाह दशवक्त्रसभासमक्षं श्रीमानसौ जयति
वायुसुतो हनूमान् ॥ ३ ॥
रामानुजे महति यो जगतीतलेऽस्मिन् शक्त्या हते रणमुखे
दशकन्धरेण ।
आनीय भेषजमजीवयदेवमाशु श्रीमानसौ जयति वायुसुतो
हनूमान् ॥ ४ ॥
मुद्रां समर्प्य रघुनन्दननामचिह्नां चूडामणिं
जनकराजसुतागतं तम् ।
आनीय राममभिवेदयति स्म वीरः श्रीमानसौ जयति वायुसुतो
हनूमान् ॥ ५ ॥
निघ्नन्नशोकवनभूरुहरक्षपालान् भञ्जन्
महाबहुपशूंश्च शतं सहस्रान् ।
भुञ्जन् फलानि विविधानि हि वीक्ष्य सीतां श्रीमानसौ जयति
वायुसुतौ हनूमान् ॥ ६ ॥
काराहृहे मनसि चिन्तित एव यस्मिन् बद्धो जनो हि लभते तत आशु
मोक्षम् ।
क्रव्यादयक्षपवनादिभयापहारी श्रीमानसौ जयति वायुसुतो
हनूमान् ॥ ७ ॥
तुभ्यं नमः सकलमङ्गलदायकाय तुभ्यं नमोऽस्तु
पवनानलसम्भवाय ।
तुभ्यं नमोऽस्तु जगतां परमोपकर्त्रे सर्वार्तदुःखहरणाय
नमो नमस्ते ॥ ८ ॥
इदं हनूमतः स्तोत्रं महापातकनाशनम् ।
सङ्ग्रामजयदं पुण्यं देवानामपि दुर्लभम् ॥ ९ ॥
यः पठेत् प्रातरुत्थाय स्नाने वा शयनेऽथवा ।
विषं न वाधते तस्य न तं हिंसन्ति हिंसकाः ॥ १० ॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी पुत्रमाप्नोति नारी पत्युः प्रिया भवेत् ॥ ११ ॥
रोगी रोगात्प्रमुच्येत वद्धो मुच्येत बन्धनात् ।
दुर्बलो बलमाप्नोति भवेत्वायुसुतोपमः ॥ १२ ॥
विघ्नः सर्वे पलायन्ते तं दृष्ट्वा नात्र संशयः ।
सङ्ग्रामे व्यवहारे च विजयस्तस्य जायते ।
बन्धनान्मुक्तिमाप्नोति यात्रायां सिद्धिरेव च ॥ १३ ॥
इति श्रीगरुडतन्त्रे हनूमत्कल्पे हनूमत्स्तोत्रं समाप्तम् ।
अथ मातङ्गीस्तवः -
ईश्वर उवाच -
ॐ आराध्य मातश्चरणाम्बुजे ते ब्रह्मादयो विश्रुतकीर्तिमापुः ।
अन्ये परं वा विभवं मुनीन्द्राः परां श्रियं भक्तिभरेण
चान्ये ॥ १ ॥
नमामि देवीं नवचन्द्रमौलेर्मातङ्गिनीं चन्द्रकलावतंसाम् ।
आम्लायवाग्भिः प्रतिपादितार्थं प्रबोधयन्तीं प्रियमादरेण ॥ २
॥
विनम्र देवासुरमौलिरत्नैर्विराजितं ते चरणारविन्दम् ।
भजन्ति ये देवि महीपतीनां ब्रजन्ति ते सम्पदमादरेण ॥ ३ ॥
मातङ्गिनीनां गमने भवत्याः शिञ्जीनमञ्जीरमिदं भजे ते ।
मातस्त्वदीयं चरणारविन्दमकृत्रिमाणां वचनं विशुद्धम् ॥
४ ॥
पादात्पदं शिञ्जितनूपुराभ्यां कृतार्थयन्तीं पदवीं
पदाभ्याम् ।
आस्फालयन्तीं कलवल्लकीं तां मातङ्गिनी सद्धृदयां धिनोमि
॥ ५ ॥
लीलांशुकाबद्धनितम्बविम्बां तालीदलेनार्पितकर्णभूषाम् ।
माध्वीसदाघूर्णितनेत्रपद्मां धनस्तनीं शम्भुवधूं
नमामि ॥ ६ ॥
तडिल्लताकान्तमलक्ष्यभूषं चिरेण लक्ष्यं नवलोमराज्या ।
स्मरामि भक्त्या जगतामधीशे बलित्रयाङ्कं तव मध्यमम्ब ॥
७ ॥
नीलोत्पलानां श्रियमावहन्तीं कान्त्या कटाक्षैः
कमलाकराणाम् ।
कदम्बमालाञ्चितकेशपाशां मतङ्गकन्यां हृदि भावयामि ॥
८ ॥
ध्यायेयमारक्तकपोलविम्बं विम्बाधरन्यस्तललामरम्यम् ।
आलोलनीलालकमायताक्षं मन्दस्मितं ते वदनं महेशि ॥ ९ ॥
स्तुत्यानया शङ्करधर्मपत्नीं मातङ्गिनीं वागधिदेवतां
ताम् ।
स्तुवन्ति ये भक्तियुता मनुष्याः परां श्रियं नित्यमुपाश्रयन्ति ॥
१० ॥
ॐ ।
इति रुद्रयामले श्रीमातङ्गीस्तोत्रम् ।
धूमावतीस्तोत्रम्
अथ धूमावतीस्तोत्रम् -
ईश्वर उवाच -
ॐ प्रातर्षा स्यात्कुमारी कुसुमकलिकया जपमालां जपन्ती,
मध्याह्ने प्रौढरूपा विकसितवदना चरुनेत्रा निशायाम् ।
सन्ध्यायां वृद्धरूपा गलितकुचयुगा मुण्डमालां वहन्ती, सा
देवी देवदेवो त्रिभुवनजननी चण्डिका पातु युष्मान् ॥ १ ॥
बद्ध्वा खट्वाङ्गकोटौ कपिलवरजटामण्डलं पद्मयोनेः
कृत्वा दैत्योत्तमाङ्गैः स्रजमुरसि शिरःशेखरं तार्क्ष्यपक्षैः ।
पूर्णं रक्तैः सुराणां यममहिषमहाशृङ्गमादाय पाणौ
पायाद्वौ वन्द्यमानः प्रलयमुदितया भैरवः कालरात्र्या ॥ २ ॥
चर्वन्ती ग्रन्थिखण्डं प्रकटकटकटाशब्दसङ्घातमुग्रं,
कुर्वाणा प्रेतमध्ये ककह-कह-कहा-हास्यमुग्रं कृशाङ्गी ।
नित्यं नृत्यप्रमत्ता डमरुडिमडिमान् स्फारयन्ती मुखाब्जं
पायान्नश्चण्डिकेयं झझम-झम-झम-झमा जल्पमाना
भ्रमन्ती ॥ ३ ॥
टण्टट्-टण्टट्-टटण्टा प्रकट-मटमटानादघण्टा वहन्ती
स्फें स्फें स्फें-कारकारा टकटकितहसा दन्तसङ्घट्टभीमा
।
लोलं मुण्डाग्रमाला ललहलहलहा लोललोलोग्ररावं चर्वन्ती
चण्डमुण्डं मटमटमटितं चर्वयन्ती पुनातु ॥ ४ ॥
वामे कर्णे मृगाङ्कं प्रलयपरिगतं दक्षिणे सूर्यविम्बं,
कण्ठे नक्षत्रहारं नरविकटजटाजूटके मुण्डमालम् ।
स्कन्धे कृत्वोरगेन्द्रध्वजनिकरयुतं ब्रह्मकङ्कालभारं,
संहारे धारयन्ती मम हरतु भयं भद्रदा भद्रकाली ॥ ५ ॥
तैलाभ्यक्तैकवेणी त्रपुमयविलसत्कर्णिकाक्रान्तकर्णा, लोहेनैकेन
कृत्वा चरणनलिनकामात्मनः पादशोभाम् ।
दिग्वासा रासभेन ग्रसति जगदिदं या
जवाकर्णपुरावषिण्यूर्ध्वप्रवृद्धा ध्वजविततभुजा सासि देवी
त्वमेव ॥ ६ ॥
सङ्ग्रामे हेतिकृत्तैः सरुधिरदशनैर्यद्भटानां
शिरोभिर्मालामावध्य मूर्ध्नि ध्वजविततभुजा त्वं श्मशाने
प्रविष्टा ।
दृष्ट्वा भूतैः प्रभूतैः पृथुजघनघना
वद्धनागेन्द्रकाञ्चीशूलाग्रव्यग्रहस्ता मधुरुधिरमदा
ताम्रनेत्रा निशायाम् ॥ ७ ॥
दंष्ट्रा-रौद्रे मुखेऽस्मिस्तव विशति जगद्देवि सर्वं क्षणार्द्धात्
संसारस्यान्तकाले नररुधिरवसासम्प्लवे धूमधूम्रे ।
काली कापालिकी त्वं शवशयनरता योगिनी योगमुद्रा रक्ता ऋद्धी
कुमारी मरणभयहरा त्वं शिवा चण्डघण्टा ॥ ८ ॥
ॐ ।
धूमावत्यष्टकं पुण्यं सर्वापद्विनिवारकम् ।
यः पठेत् साधको भक्त्या सिद्धिं विन्दति वाञ्छिताम् महापदि
महाघोरे महारोगे महारणे ।
शत्रूच्चाटे मारणादौ जन्तूनां मोहने तथा ॥ १० ॥
पठेत् स्तोत्रमिदं देवि सर्वत्र सिद्धिभाग्भवेत् ।
देवदानवगन्धर्वयक्षराक्षसपन्नगाः ॥ ११ ॥
सिंहव्याघ्रादिकाः सर्वे स्तोत्रस्मरणमात्रतः ।
दूराद्दूरतरं यान्ति किं पुनर्मानुषादयः ॥ १२ ॥
स्तोत्रेणानेन देवेशि किं न सिध्यति भूतले ।
सर्वशान्तिर्भवेद्देवि चान्ते निर्वाणतां व्रजेत् ॥ १३ ॥
इत्यूर्ध्वाम्नाये धूमावतीकल्पे धूमावत्यष्टकं स्तोत्रसारं
समाप्तम् ।
घटस्थापनम् -
आगमतत्त्वविलासे यथा -
राजेश्वरीतन्त्रे शाक्ताभिषेकप्रकरणे घटमित्यनुवृत्तौ -
नातिह्रस्वं नातिदीर्घं मृत्ताम्रस्वर्णनिर्मितम् ।
कामबीजेन सम्प्रोक्ष्य वाग्भवेनैव ताडयेत् ।
शक्त्या कलसमारोप्य मायया पूरयेज्जलैः ।
मन्त्रेणानेन तीर्थानि देशिकस्तत्र विन्यसेत् ।
गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च ।
सर्वे समुद्राः सरितः सरांसि जलदा नदाः ।
ह्रदाः प्रस्रवणाः पुण्याः स्वर्गपातालभूगताः ।
सर्वतीर्थानि पुण्यानि घटे कुर्वन्तु सन्निधिम् ।
रमाबीजेन जप्तेन पल्लवं प्रतिपादयेत् ।
कूर्चेन फलदानं स्यात् स्त्रीबीजेन स्थिरीकृतिः ।
सिन्दूरं वह्निबीजेन पुष्पं दद्याच्छवानुना ।
मूलेन दूर्वां प्रणवैः कुर्यादभ्युक्षणं ततः ।
हूं फट् स्वाहेति मन्त्रेण कुर्याद्दर्भेण ताडनम् ।
विचिन्त्य देवीपीठन्तु तत्रावाह्य प्रपूजयेत् ।
शक्त्या सौरिति बीजेन ।
शवानुना इत्यत्र शरानुना ।
इति आगमतत्त्वधृतः पाठः ।
शरानुना अस्त्रमन्त्रेण इति तदर्थः ॥ १ ॥
कवचसंस्कारः -
दीपिकाधृततन्त्रान्तरे -
विलिख्य कवचं देवि रक्तसूत्रेण वेष्टयेत् ।
वेष्टयित्वा ततो देवि स्वर्णादौ स्थापयेत् ततः ।
पञ्चमृतैः पञ्चगव्यैः स्नापयित्वा शुभेऽहनि ।
सम्पूज्य देवतारूपां गुलिकां सर्वकामदाम् ।
प्राणप्रतिष्ठामन्त्रेण प्राणांस्तत्र नियोजयेत् ।
अन्तर्योनि ततो ध्यात्वा तत्र स्थापयेद्बुधः ।
एषा तु गुलिका देवि कण्ठलग्ना सुखप्रदा ॥ १ ॥
मन्त्रणां श्रोत्रादिनिरूपणम्
अथ मन्त्रणां श्रोत्रादिनिरूपणम् -
यथा यक्षडामरे -
मर्त्यानामुपकाराय त्रिषु लोकेषु दुर्लभम् ।
भगवान् पुनराचक्षे श्रोत्रादीनां निरूपणम् ॥ १ ॥
हृदयं मूर्तिमास्थाय दृढचित्तः समाहितः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशञ्चानवलोकयन् ।
मनो हत्वेन्द्रियाद्यैश्च सर्वभावेन साधकः ।
पश्यतीतिलयं श्रोत्रं नान्यथा शृणुयाद्वचः ॥ २ ॥
सौरे तथा गाणपत्ये दौर्गे शैवे तथैव च ।
भौतिके च मनावास्यहृन्नेत्रं द्योतते यथा ।
मूलाक्षरे विचारोऽयं मूलानां बीजमुच्यते ।
मनोविचारः कर्तव्यो बीजे सति विषान्विते ।
बीजत्वेन गता रुद्रहंसी डिण्डिमविद्रुमा ।
पुरी सेन्दुक्रमादत्र कुर्यादास्यादिचिन्तनम् ॥ ३ ।
यमस्त्यागी शुको दण्डी मणिभद्रो घटत्कचः ।
भृङ्गिप्रभृतिबीजानां प्राग्वत्कुर्याद्विचारणम् ।
यत्र यक्षेश्वरो मन्त्रे तत्रैवास्यं प्रधानतः ।
चण्डिकाया अभावेऽत्र विद्युन्नेत्रहृदासवः ॥ ४ ॥
ज्योतिःकपर्दीखद्योतो ग्रासिनी च सुरान्तकः ।
वैवस्वतः केतुनाम शिखी प्राणप्रहारिणी ।
कस्मिन्नुल्कामुखी जालन्धरी चण्डयुगान्तकौ ।
किङ्करी पिशिताक्षी सुकिन्नरश्च मनोहरी ।
ध्वाङ्क्ष्यं वैतानिकं फेत्कारिणी शूलपयोधरौ ।
चतुर्विंशतिबीजानि मन्त्रे स्युर्यक्षडामरे ।
एभिरशेषमन्त्राणां हृन्नेत्रवदनानि च ।
अनवोऽस्य परिज्ञेयाः सर्वतन्त्रेषु गोपिताः ॥ ५ ॥
तथा मूलार्ण मुखमादिष्टं हृदयं स्वरसञ्ज्ञकम् ।
मूलार्णं प्रणवं मन्त्रस्य मुखमित्यर्थः ।
हृदयं स्वरशक्तयः इति षोडशाक्षरात्मिकाः शक्तयो मन्त्रस्य
हृदयमित्यर्थः ।
तथा च मूलार्णमास्यमाख्यं तं हृदयं स्वशक्तयः ।
स्वरशक्तयो वक्तव्याः ।
अथ प्रणवाभावे तत् स्वरूपबीजानां विशेषमाह तत्रैव -
आदिमध्यावसानेषु पूर्वाभावे तथोत्तरम् ।
कीर्त्याख्या कालवक्त्रेण महाकालेन साधितम् ।
तदनादि पञ्चरश्मि सृष्टिस्थित्यव्ययं विषम् ।
शूलिन्या सहितो गुह्यश्चण्डीशोऽग्नीन्दुविन्दुमान् ।
एतद्विष्णुप्रियाबीजं जगन्मान्यं जगत्प्रियम् ।
आदिमध्यावसानेषु इति मन्त्रस्यादौ मध्ये चान्ते वा
प्रणवस्थितिश्चेत्तदा तदैव तन्मुखमित्यर्थः ।
पूर्वाभावे यथोत्तरमिति प्रणवाभावे तत्परं विधानं यथेति
कीर्त्याख्या कालवक्त्रेणेति अकार-उकारेण, महाकालेनेति मकारेण
साधितं तदनादि पञ्चरश्मि इति तदेव प्रणवम् ।
एतद्विष्णुप्रियाबीजं श्रीबीजमिति सार्द्धद्वयश्लोकेनान्वयः ।
तथा च यस्मिन् मन्त्रे श्रीबीजादिकमस्ति तत्र तदेव मुखमिति
प्रणवस्वरुपत्वात्, अतः क्रमेण मन्त्रमुखात्मकबीजान्याह
तत्रैव श्रीबीजमुक्तम् ॥
तत्परं यथा -
क्षतजं व्योमवक्त्रञ्च चण्डोग्रेन्द्वादिभूषितम् ।
आद्रं रौद्रञ्च भूतञ्च बीजं प्राथमिकं स्मृतम् ।
क्षतजं रेफः, व्योमवक्त्रं हकारः, चण्डोग्रा ईकारः,
इन्द्वादिभूषितमिति इन्दुनादाभ्यां भूषितं मायाबीजम् ।
क्रोधीशं रक्तगं धूम्र-भैरव्येन्द्वाद्यलङ्कृतम् ।
पितृभूवासिनीबीजं कालेयं पलभोजनम् ।
क्रोधीशं ककारं, रक्तगं रेफगं धूम्रभैरवी ईकारः,
बिन्दुनादयोगेन कालीबीजम् ।
नादबिन्दुसमायुक्तां समादयोग्रभैरवीम् ।
भौतिकं वाग्भवं बीजम् ऋद्धिबुद्धिविवर्द्धनम् ।
उग्रभैरवी ऐकारः, तेन वाग्भवबीजम् इत्यर्थ ।
फडस्त्रञ्च प्रसिद्धं स्यात्काल्याग्निव्यापकाङ्कुशः ।
शिरः स्वाहा द्विठो वह्निजाया ज्वलनवल्लभा ।
इन्द्रासनगतो ब्रह्मा सा त्रिमूर्तिस्तु मन्मथः ।
व्योमास्यः कालवक्त्राढ्यो वर्मविन्द्विन्दु संयुतः ।
एतेन कामबीजं कूर्चबीजञ्च ।
शून्यं क्षतजमारूढं चण्डभैरव्यलङ्कृतम् ।
विन्द्विन्दुभूषितं मूर्ध्नि ज्योतिर्मन्त्रमुदीरितम् ।
शून्यं हकारः, क्षतजं रेफः, चण्डभैरवी ऐकारः ।
आदिदेवेन निर्दिष्टं मन्त्रकोषमनुत्तमम् ।
यदास्येभ्यः परं गोप्यं तन्मयात्र प्रकीर्तितम् ।
यक्षडामरमन्त्रस्य मनुकोषविवेचनम् ।
क्रोधाधिपेन यत्प्रोक्तं भैरवाय महात्मने ।
इति ।
अत एव प्रणव-श्रीबीज-माया-काली-वाग्भव-अस्त्र-वह्निजाया-काम-
कूर्च-ज्योतिर्मन्त्राणां यत्र मन्त्र यस्य स्थितिस्तत्र तस्य
अस्यत्वमुक्तम् ।
एतेषां द्वयं वा त्रयं वा बीजं यत्र तिष्ठति ।
तत्र तु उक्तमन्त्रेण तत्पूर्वबीजस्य ग्रहणम् ॥ ६ ॥
अथ नेत्रनिर्णयः -
तदुक्तं तत्रैव -
बीजे रक्तमुखाः सर्वे मूलार्णा हृदयं स्वराः ।
दक्षवामदृशौ चण्डीविकले मध्यमे न चेत् ।
बीजाभावे मनोर्विद्युन्नेत्रमस्यं मनोहरी ।
मूलार्णं हृदयं दण्डी प्राणोऽपि स्वरशक्तयः ।
बीजे रक्तमुखा इति सर्वे मूलार्णाः श्रीबीजादयः बीजे सति इति
स्वयं मन्त्रे सति रक्तमुखा भवन्तीति ।
चण्डीविकले विसर्गबिन्दु मध्यमे न चेदिति मन्त्रस्य मध्यस्थौ न
चेत्तदा तस्य दक्षवामदृशावित्यर्थः ।
बीजाभावे इति मुखनेत्रात्मकबीजानामभावे ।
मनोर्विद्युन्नेत्रमिति मन्त्रस्य नेत्रम् ।
विद्युदिति अकारः ।
आस्यं मनोहरीति वह्निजाया मूलार्णमित्युक्तेः, हृदयं दण्डीति
अनुस्वारः प्राणोऽपि स्वरशक्तय इति दण्डिनः स्वरशक्तीनाञ्च
हृत्प्राणत्वमिति रहस्याः ।
अत्र चिन्तामणिनृसिंहयोर्विचारो न स्यात् ।
तथा च चिन्तामणिनृसिंहख्यौ श्रोत्रास्यनेत्रदृते ।
यत्र बीजाक्षरं मन्त्रं तत्र सर्वश एव हि ।
प्रधानपूर्वा परगा विकला यत्र दृश्यते ।
तत्र नेत्रं विजानीयान्मुखञ्च क्षतजोक्षितम् ।
अत्र बीजाक्षरं मन्त्रमिति केवलश्रीबीजादिकं मन्त्रं यत्र भवति
प्रधानपूर्वापरगेति चण्डी पूर्वा विकला स्वयं परगा यत्र
दृश्यते च तत्रैव नेत्रं बिजानीयात् इति मुखञ्च क्षतजोक्षितं रेफ
इत्यर्थः ।
रेफहीने मनौ तु तन्मूलवर्णं मुखमित्याह तत्रैव -
रक्तवर्जमनौ मूलवर्णमास्यं प्रकीर्तितम् ।
विद्युन्नेत्रं विनिर्दिष्टं चण्डीविकलावर्जिते ।
अन्यच्च -
गर्जिनीधूम्रभैरव्यावभावे च दृशौ स्मृतौ ।
गर्जिनी तृतीयस्वरः धूमभैरवी चतुर्थस्वरः ।
एतावपि बिन्दुविसर्गयोरभावे दृशावित्यर्थः ।
यत्र यक्षेश्वरो मन्त्रे तत्रैवास्यं प्रधानतः ।
चण्डिकाया अभावेऽत्र विद्युन्नेत्रहृदासवः ।
तत्रैवाह -
सुग्रीवः स्याद्द्वयं श्रोत्रं हृं शून्यं विकला दृशः ।
विकलाया अभावे च स्यातां गौरी च पार्वती ।
यक्षेश्वरो हकारः, चण्डिका विसर्गः, विद्युत् अकारः, सुग्रीवो रेफः
शून्यं हकारः विकला द्विबिन्दुः, गौरी तृतीयस्वरः, पार्वती
चतुर्थस्वरः ।
सर्वाभावे तु अकार एव तत्तद्रूपत्वेन ज्ञेय इत्यर्थः ।
तथा च -
विद्युदेवाह हृन्नेत्रं हृद्वक्त्रप्राणवर्जिते ।
एतेन हृन्नेत्रप्राणाः विद्युदेवेति प्राणोऽपि स्वरशक्तय इति वचनात् ।
इति श्रोत्रादिज्ञानम् ॥ ७ ॥
एतज्ज्ञानस्य नित्यत्वमाह -
तत्रैव, यज्ज्ञानेन विना नालं जपहोमप्रयोगनिदानमिति ।
तथा -
श्रवणास्यहृदयनेत्रज्ञानान्मोक्षो मनोः सद्यः ।
सिद्धिः सर्वविधा स्यात् सा शिव एव स साधकः ।
श्रोत्रादीनां ज्ञानाभवे मन्त्रस्य ग्रहणमात्रात् ।
दारिद्र्यञ्च विपत्तिर्नरकप्राप्तिर्यशोभ्रंशः ।
दीनोऽतिदुःखी पराजितः शत्रुपीडितः शोकी ।
कुर्यादेव हि तच्चितो मन्त्रो श्रोत्रदिविज्ञानम् ॥ ८ ॥
इत्यादि ज्ञेयम् ।
अथ स्वरशक्तयः -
तत्रैव -
अकारे भीषणा कीर्तिर्विद्युज्जिह्वेति कीर्तिता । अ ।
आकारे तामसी कालरात्र्युग्रा कालभैरवी । आ ।
इकारे गर्जिनी चण्डा ज्ञेया रुद्रभयङ्करी । इ ।
ईकारे शूलिनी ख्याता चण्डोग्रा धूम्रभैरवी । ई ।
उकारे कालवक्त्राख्या प्रचण्डा चण्डवल्लभा । उ ।
विदार्युकारगा ज्ञेया तालजङ्घा कपालिनी । ऊ ।
ऋकारे स्यान्महारद्री ज्वालिनी योगिनीत्यपि । ऋ ।
ॠकारे कालिकादेवी पितृकाली भयङ्करी । ॠ ।
संहारिणी ऌकारे स्यान्मेघनादोग्रहासिनी । ऌ ।
रुद्रचण्डा कालजिह्वा ॡकारे च करालिनी । ॡ ।
ऊर्द्धकेशी च चामुण्डा नादिन्येकारगा स्मृता । ए ।
ऐकारे कोटराक्षी च मानिन्युत्तमभैरवी । ऐ ।
ज्वालास्योकारगा ज्ञेया भीमाक्षी मुण्डमालिनी । ओ ।
औकारे डाकिनी सिंहनादिनी चण्डभैरवी । औ ।
अक्रूराख्या विकारी च अङ्कारे रुद्रडाकिनी । अम् ।
शेषे कपालिनी याम्या चण्डिका कुण्डलद्वयम् ।
विसर्ग आदनुस्वारः कलाश्च स्वरशक्तयः । अः ।
इत्येतासां या या यस्मिन्ममन्त्रे योजितास्तास्ता एव तस्य हृदयत्वेन
भाव्या इति रहस्यार्थः ।
एवं क्रमेण मन्त्रस्य श्रोत्रादिकं विज्ञाय पुरस्क्रियां कुर्यात् ।
तथा च -
मन्त्रं नीत्वा गुरोः पार्श्वे गुरुभक्तिपरायणः ।
मन्त्रशोत्रास्य हृन्नेत्रप्राणान् विज्ञाय यत्नतः मन्त्रञ्च
कीलकं ज्ञात्वा कुर्यान्मन्त्रपुरस्क्रियाम् ।
पुरश्चरणसम्पन्नो वीरसिद्धिं समाचरेत् ॥ ९ ॥
इति मन्त्रस्य श्रोत्रादिपरिज्ञानम् ।
अथ मन्त्राङ्गसङ्केतः -
ज्ञानतन्त्रे -
कैलासशिखरे रम्ये गन्धर्वगणसेविते ।
स्थाणोर्वक्षःस्थिता देवं पृच्छति स्म नगात्मजा ।
पार्वत्युवाच -
गणेशनन्दिचन्द्रेश भूतनाथ मदीश्वर ।
अनेकतन्त्रमन्त्राणां प्रकाशोऽन्तरगाणि च ।
भेदश्च कीलकश्चैव शापोद्धारणमेव च ।
त्वत्प्रासादान्मया नाथ ज्ञातं न संशयः ।
नानातन्त्रेषु देवेश विद्या वर्णम्यी स्मृता ।
इदानीं श्रोतुमिच्छामि मन्त्राङ्गं नामनिर्णयम् ।
मन्त्रसङ्केतकं नाम बहुधा मयि सूचितम् ।
अस्मिंस्तु निर्जने देशे यदि स्नेहोऽस्ति मां प्रति ।
तद्वदस्व महादेव नात्रकार्या विचारणा ।
नो चेत् सत्यं वदाम्यद्य पुरस्कृत्य तवाग्रतः ।
प्राणत्यागं करिष्यामि सत्यं सत्यं न संशयः ।
ईश्वर उवाच -
साधु पृष्टं त्वया भद्रे यद्यन्मे मनसि स्थितम् ।
देवि योषिच्चपलत्वात्पुरा नोक्तं त्वयि प्रिये ।
इदानीं स्थिरतां ज्ञात्वा कथयामि तवानघे ।
न प्रकाश्यं महादेवि कदाचिदपि पार्वती ।
प्रकाशिते महातत्त्वे नश्यन्ति सिद्धयस्तव ।
पुनरुक्तं महादेवि न वक्तव्यं सुनिश्चितम् ।
विना जपेन होमेन पूजया वा दयान्विते ।
येन विज्ञानमात्रेण मन्त्रसिद्धिः प्रजायते ।
मन्त्रसङ्केतमज्ञात्वा यो जपेन्मन्त्रराजकम् ।
शतलक्षजपेनैव मन्त्रसिद्धिर्न जायते ।
तस्मात्सर्वप्रयत्नेन ज्ञातव्याङ्गविभावना ।
तवातिगौरवात्साध्वि जगतां हितकाम्यया ।
वक्ष्यामि शृणु देवेशि सारात् सारतरं महत् ।
एकाक्षरे महामन्त्रे सम्पूर्णं देहरूपकम् ।
विभावयेन्महेशानि नान्यच्च परिचिन्तयेत् ।
प्रथमं बाहूमूलान्तं कट्यन्तं द्वितीयं भवेत् ।
तृतीयं पादमूलान्तं क्रमेण परिचिन्तयेत् ।
चतुरर्णकमन्त्रेषु गण्डान्तं प्रथमं भवेत् ।
बाह्वन्तं द्वितीयञ्चैव नाभ्यन्तं तृतीयं भवेत् ।
चतुर्थञ्च ततो देवि पदान्तं परिचिन्तयेत् ॥ १ ॥
पञ्चाक्षरे तु मन्त्रे तु पञ्चधा परिकल्पयेत् ।
ग्रीवान्तं प्रथमं देवि बाह्वन्तं द्वितीयं भवेत् ।
तृतीयं कुक्षिपर्यन्तम् ऊर्वन्तं चतुर्थं भवेत् ।
पादान्तं पञ्चमं देवि भवत्येव न संशयः ।
षडक्षरे तु मन्त्रे तु मुखान्तं प्रथमं भवेत् ।
द्वितीयं गलपर्यन्तं बाह्वन्तं तृतीयं भवेत् ।
चतुर्थं हृदयान्तञ्च ऊर्वन्तं पञ्चमं भवेत् ।
पदञ्च षष्ठवर्णञ्च क्रमेण परिचिन्तयेत् ।
सप्ताक्षरे तु मन्त्रे तु मुखान्तं प्रथमं भवेत् ।
द्वितीयं गलपर्यन्तं वाह्वन्तञ्च तृतीयकम् ।
चतुर्थं पृष्ठपर्यन्तं कुक्ष्यन्तं पञ्चमं भवेत् ।
षडर्णमूरुपर्यन्तं पादान्तं सप्तमं भवेत् ।
अष्टाक्षरे महामन्त्रे मुखान्तं प्रथमं भवेत् ।
चिबुकान्तं द्वितीयञ्च गलान्तं तृतीयं भवेत् ।
चतुर्थं बाहुपर्यन्तं पृष्ठान्तं पञ्चमं भवेत् ।
सडर्णमुदरान्तञ्च जायन्तं सप्तमं भवेत् ।
पादान्तमष्टमञ्चैव भावाङ्गेऽपि न संशयः ।
नवाक्षरे तु मन्त्रे तु नासान्तं प्रथमं भवेत् ।
मुखान्तञ्च द्वितीयं स्याद् ग्रीवान्तं तृतीयं भवेत् ।
चतुर्थं बाहुपर्यन्तं कुक्ष्यन्तं पञ्चमं भवेत् ।
षष्ठञ्च मस्तकं ज्ञेयम् स्तनान्तं सप्तमं भवेत् ।
उर्वन्तमष्टमञ्चैव पादान्तं नवमं भवेत् ।
दशाक्षरे तु मन्त्रे तु शिरोऽन्तं प्रथमं भवेत् ।
चिबुकान्तं द्वितीयं स्यात् तृतीयं कर्णयुग्मकम् ।
चतुर्थञ्च भवेद् ग्रीवा पञ्चमं बाहुयुग्मकम् ।
षष्ठं पृष्ठञ्च जानीयात्सप्तमं स्तनमण्डलम् ।
उदरान्तमष्टमञ्च ऊर्वन्तं नवमं भवेत् ।
पादान्तं नवमं ज्ञेयमिति मन्त्राङ्गभावना ।
एवं क्रमेण एकादशाक्षरादीनां मन्त्राणां
वाह्याङ्गविभावनां कृत्वा मन्त्रजपादिकं कुर्यात् ॥ २ ॥
ग्रन्थगौरवभयादन्यन्योक्तम् इति देवताया वाह्याङ्गसङ्केतः ।
परिशिष्टं सम्पूर्ण ॥